SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २३९ अन्यथा राजपदेन विग्रहवाक्य इव, राज्ञः स्वातन्त्र्येणोपस्थितिसत्वाद्, ऋद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुष इत्यास्याप्यापत्तेरिति । ___ *अजहदिति* । न जहति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था । .. - अयमभिप्रायः-राजपुरुषादिसमासादौ नातिरिक्ता शक्तिः । कल्पकाभावात् । क्लप्तराजपदादेवार्थोपस्थितिसम्भवे तत्कल्पनस्य गौरवपराहतत्वाञ्च । क्लप्तशक्तित्यागोऽप्यप्रामाणिकः कल्प्येत । तथाचाकाहादिवशात् क्लप्तशक्त्यैव विशिष्टार्थबोधः । अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाप्यकारैरुक्तः । दर्पणः *अन्यथेति । वृत्तौ व्यपेक्षारूपसामर्थ्याभ्युपगमे इत्यर्थः। इत्यस्याऽपीत्यपिना राजपुरुषो भार्यायाश्चेत्येकत्र द्वयमिति विषयताशालिबोधजनकस्य समुच्चयः । *आपत्तेरिति । अस्मन्मते तु पदार्थैकदेशत्वानेदेऽपि शक्त्यभ्युपगमेन राजकीयभिन्नत्वेनाऽवगते विशेषणाऽन्तराऽयोगाच्च न सेति भावः । अजहत्स्वार्थवृत्तिपक्षस्य भाष्याऽनुसारेणाऽन्यथैवोपपादनाद व्यपेक्षासामर्थ्य मेक इत्येकीयमताश्रितामनुसृत्याह-*अयमभिप्राय इति । *नातिरिक्तेति । क्लुप्तप्रत्येकवृत्त्यतिरिक्तेत्यर्थः । कल्पकस्याऽ न्यथाऽनुपपत्तिरूपप्रमाणस्याभावादित्यर्थः । ननु विशिष्टाऽर्थानुपपत्तिरेव तत्कल्पिका भविष्यतीत्यत आह-*क्लप्त इति । *तत्कल्पनस्य* । विशिष्टशक्तिकल्पनस्येत्यर्थः । ननु स्यादेवं यद्येतत्पक्षे प्रत्येकपदशक्तिकल्पना, सैव नेति व गौरवाऽवसरोऽत आह-*क्लप्तशक्तीति । वृत्तिप्राक्काले क्लृप्ता या प्रत्येकपदशक्तिस्तत्परित्याग इत्यर्थः । कालभेदेनाऽप्येकस्यैव शब्दस्याsर्थवत्त्वाऽनर्थकत्वयोविरुद्धत्वात्। नलोपादिव्यवस्थाऽनुपपत्त्या च वृत्तिदशायां तत्स्वीकारस्यैवोचितत्वादिति भावः। ___ननु प्रत्येकशक्त्या तत्तत्पदार्थोपस्थितावपि विशिष्टे शक्त्यनङ्गीकारेण तदनुपस्थित्या कथं तस्य शाब्दविषयतेत्यत आह-*तथा चेति । *आकाक्षेति। अदिपदाद्योग्यताऽऽदिपरिग्रहः । राजपदाव्यवहितपुरुषपदत्त्वादिरूपाकाङ्क्षादिकारणसमवधानादित्यर्थः । तथाच. प्रत्येकपदार्थोऽपस्थितिसहकृताऽऽकाङ्क्षादिभिरेव विशिष्टबोधसम्भवेन तत्पूर्व विशिष्टोपस्थित्यपेक्षा यस्यै सा कल्प्येति भावः । *अयमेवेति । परीक्षा *अन्यथा-पूर्वपदस्याऽपि वाक्यबोधस्वीकारे । *ऋद्धस्य राज्ञः पुरुष इत्यत्रेवेति । तत्र राज्ञो यथा न पदार्थैकदेशत्वन्तथा समासेऽपि स्यादिति । ___अजहत्स्वार्था वृत्तिरिति पक्षस्योपपत्तिमाह-*अयमभिप्राय इत्यादिना* *क्लप्तशक्तिकेति । वाक्ये क्लप्ता शक्तिर्येषां राजादिपदानां तेभ्य एवेत्यर्थः । *अयमेव*जहत्स्वार्था वृत्तिरिति पक्ष एव ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy