________________
२३८
दर्पणपरीक्षासहिते भूषणसारे
विशिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुनस्तद्बोधकत्वं कल्प्यम् । वृषभयावकादिपदेषु वृषादिपदानामिव ।
दर्पणः तार्थस्य तत्राग्रहणादित्याशयात् । एकस्यैव पदस्य वृत्तितत्प्राक्कालयोरर्थवत्वानर्थवत्वे च प्रयोगाऽनुरोध एव शरणम् । योगरूढिस्थले तु योगान्तर्भावेण शक्त्यभ्युपगमान्न तदुच्छेदोऽपि।
नचाऽत्र पक्षे राजादिपदैः सर्वथा स्वार्थत्यागे तद्भानं न स्यात्तस्माच्चैकपदार्थाsपरपदार्थे विशेषणमिति व्यवहार इति वाच्यम् । विशिष्टेनैव राजादिविशिष्टपुरुषाधुपस्थापनेनाऽद्यदोषाभावात् । अथवाऽन्वयाद विशेषणं भवतीति भाष्येण द्वितीयस्यापि समाधानात् । निष्कीर्णास्वपि सुमनःस्वामोदान्वयमात्रेण यथा चम्पकपुटव्यवहारस्तथा सदृशार्थाऽन्वयमात्रेण राजादिपदार्थः पुरुषे विशेषणमिति व्यवहार इति तदर्थ इति जहत्स्वार्थवृत्तिपक्षोपपत्तिः। परन्त्वेवं हि दृश्यते लोके 'पुरुषोऽयं परकमणि प्रवर्त्तमानः स्वं कर्म जहाति, तद्यथा तक्षा राजकर्मणि प्रवर्त्तमानः स्वं कर्म जहाति। एवमुक्तम्-यदाजा पुरुषाऽर्थे वर्तमानः स्वमर्थ जह्यादुपगुश्चाऽपत्यार्थे वर्तमानः स्वमर्थ जह्यादिति भाष्यादेतत्कल्पेऽपि पूर्वपदाऽथ एव जहत्स्वार्थत्वं लभ्यते इति ॥
परीक्षा शिष्टपुरुषेति । राजसम्बन्धविशिष्टपुरुषेत्यर्थः । *न राजपुरुषपदयोरपीति । वृत्ति. घटकयोरित्यादिः । तत्र दृष्टान्तमाह-वृषभेत्यादि । वृषेत्यानुपूर्वीयमपि वृषत्वावच्छिन्नशक्ततावच्छेदकानुपूर्व्यन्तरघटकत्वाभाववती या सैवेतिवृषभपदान्तर्गतवृषपदानुपूर्वी न शक्ततावच्छेदिका। अन्यथोमाधवपदादपि माधवस्य प्रतीत्यापत्तिः, धनं वनमित्यादिसमुदायघटकप्रत्येकवर्णस्यापि बोधत्वापत्तौ प्रत्येकवर्णस्यापि प्रातिपदिकत्वापत्तौ जस्त्वाद्यापत्तिः। वाक्ये-राज्ञः पुरुष इत्यादौ तु प्रत्येकम्पदानुपूर्व्यापि शक्ततावच्छेदिका पुरुषो राज्ञ इत्यादिभ्योऽपि तादृशार्थप्रतीतेः । नचैतत्कल्पे"महाबाह" "सपन्था" इत्यादावात्वाद्यनापत्तिवृत्तिघटकानामनर्थकत्वादितिवाच्यम् ? वृत्तिप्रागभाविनमर्थवत्त्वमारोप्य तत्तत्कार्यप्रवृत्तः । नचारोपितार्थवत्वं समासान्तर्गतेऽपि चेद्वाप्यश्वनद्यातिरूपसमुदायघटकव्याप्यादिपदानामपि सप्तम्यर्थवृत्तित्वात्प्रगृह्यत्वमर्थग्रहणे "ईदूतौ च सप्तम्यर्थे” इति सूत्रे कृतेऽपि दुर्वारमित्यर्थग्रहणप्रत्युदाहरणप्रदर्शनपरभाष्यविरोध इति वाच्यम् ? तत्र सूत्रेऽर्थग्रहणसामर्थ्यादनारोपितस्यैव सप्तम्यर्थवृत्तित्वस्याश्रयणात् पङ्कजादियोगरूढे तु प्रत्येकं पदार्थानुपूर्व्या अपि शक्ततावच्छेदकत्वमर्थप्रतीतिदर्शनादाश्रीयते। नचात्रपक्षे राजपुरुषादिसमुदायघटकराजादिपदस्यानर्थकत्वे राज्ञो विशेषणतया तज्जन्यबोधे भानन्न स्यादिति वाच्यम् ? तत्र राजपुरुषेत्यानुपूर्व्याः, शक्ततावच्छेदकत्वेन तद्धर्मावच्छिन्नाद्राजसम्बन्धवान्पुरुष इत्याकारकस्य शाब्दबोधस्य स्वीकारेण राजत्वावच्छिन्ने विशेषणत्वव्यवहारः चम्पकादिवासिततिलादिजन्यतैलादावामोदान्वयदर्शनेन चम्पकपुट इत्यादि व्यवहा. रवत् । अयमस्मिन् पक्षे विशेषः । “यथा तक्षा राजादिकर्मणि प्रवर्त्तमानः स्वमर्थ जहात्येवं राजादिपदमपि स्वमर्थ जह्यात् । एवं हि दृश्यते लोके पुरुषोऽयम्परकर्मणि प्रवर्त्तमानः स्वमर्थ जहातीतिवत्" इति भाष्येण पूर्वपदमेव स्वमर्थ जहातीति ।