________________
समांसशक्तिनिर्णयः।
२३७ तत्राऽजहत्स्वार्थपक्षे उक्तव्यवस्थानाऽसम्भविनीत्याशङ्कां मनसिकृत्य आह
जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा ॥३०॥
भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः। जहति पदानि स्वार्थं यस्यां सा जहत्स्वार्था । पदे वर्णवद् वृत्तौ पदानामानर्थक्यमित्यर्थः । अयम्भावः-समासशक्त्यैव राज
दर्पणःलभ्यत इति ॥ समर्थसूत्रभाष्यपर्यालोचनया तु एकार्थीभावः सामर्थ्यमिति पक्ष एव वृत्तिद्वयस्वीकारो बोराभेदेन, किन्तु, “अथ ये वृत्तिं वर्त्तयन्ति किं ते आहुः" इत्यादिभाष्याद वाक्यादेवेयं वृत्तिनिष्पन्नेतिमतमवलम्ब्याऽयं विचार इति लभ्यते । समासशक्त्यैवेत्येवकारेणाऽवयवशक्तिव्यवच्छेदः। दृष्टान्तमाह-*वृषादिपदानामिवेति ॥
आनुपूर्व्यन्तरघटकत्वाभावविशिष्टाऽनुपूर्ध्या एव शक्ततावच्छेदकत्वेन वृषभादिपदान्तर्गतवृषादिसमवेतानुपूर्त्या शक्तताऽनवच्छेदकत्ववत् समासाऽन्तर्गतराजानुपूर्व्याः शक्ततावच्छेदकत्वाऽसम्भवादित्यर्थः। अन्यथा रामादिपदादग्न्यादीनामवयवार्थानामपि पदार्थोपस्थितिशाब्दबोधयोरापत्तिरवान्तरसुबुत्पत्त्यापत्तिर्धनं वनमित्यादौ जश्त्वाऽऽपतिश्च । वाक्ये तु पदान्यर्थवन्त्येव । राजसम्बन्धी पुरुष इत्याद्यर्थे राज्ञः पुरुषः, पुरुषो राज्ञ इत्यादिविशिष्टानुपूर्वीद्वयस्य शक्यतावच्छेदकत्वकल्पनापेक्षया पदशक्तिकल्पनाया एव लघीयस्त्वादिति भावः। ___ न चैतत्कल्पे विशिष्टरूपोपादानविहिताऽऽत्वाऽनापत्त्या,महाबाहुः, सुपन्था इत्यादौ दोषः। अनर्थकत्वाद् । एवमर्थवत्त्वनिबन्धनप्रातिपदिकत्वाभावेन नलोपाद्यनापत्तिश्चेति वाच्यम् । वृत्तिप्राग्भाविनमर्थवत्वमारोप्य तत्तत्तात्पर्यस्य सूपपादत्वात् । इट च-"प्रत्ययोत्तरपदयोश्च" ( पा० सू० ७१२।१७ ) इति सूत्रे भाष्ये स्पष्टम् । __ नचैवं 'वाप्यश्व' इत्यादौ न दोषो जहत्स्वार्थायां वृत्तावानर्थक्यात् "ईदूतौ च सप्तम्यर्थे” ( पा० सू० १।१।१९) इति सूत्रस्थभाष्यविरोधो दुष्परिहरः । आरोपितार्थवत्वस्य समासाऽन्तर्गतपदेषु स्वीकारादिति वाच्यम् । अर्थग्रहणसामर्थेनारोपि
परीक्षा स्वोऽर्थो यस्यां सा जहत्स्वार्था । स्वशब्दोऽत्र स्वीयपरः । अवयवार्थविरुदो यत्र समुदायार्थस्तत्र जहत्स्वार्था यथा स्थन्तरप्रवीणादिशब्देषु । अत एव- .
__"जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी"।। इत्यभियुक्ता वदन्ति । अत्रैकार्थीभावशब्दार्थः प्रागुक्तः । व्यपेक्षा तु स्वार्थपर्यावसायिनाम्पदानामाकाङ्कादिवशात्परस्परसम्बन्धः । यथा-राज्ञः पुरुष इत्यादि वाक्ये । *तत्र*-पक्षयोर्मध्ये । राजपुरुषादिपदेष्वजहत्स्वाथैव वृत्तिरिति तत्रोत्तरपदार्थप्रधान इति व्यवहारो युक्त एवेत्याशयः। उक्तात्समर्थसूत्रस्थभाष्यादेकार्थीभावः सामर्थ्यमित्येव लभ्यते तत्र वृत्तिद्वैविध्यं प्रयोगभेदेन। ते-वृत्ती। विधेति । त्रैविध्यं वाच्यभेदेनेत्याह-*भेद इत्यादिना* । उक्ता जहत्स्वार्थत्यस्य व्युत्पत्तिर्वाक्यदृष्टार्थस्य वृत्तौ सत्त्वपमे सर्वथा पदानामनर्थकत्वमिति मताभिप्रायेणेत्याह-*जहतीति*। *राजवि.