SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३६ दर्पणपरीक्षासहिते भूषणसारेद्रष्टव्यम् । असम्भवश्वैषामित्याह-भौतपूादित्यादि ॥ रेखागवयादिनिष्ठलागृलादेर्वास्तवपश्वलक्षणत्ववदेतेषामपि न समासलक्षणत्वम् । बोधकता तु तद्वदेव स्यादिति भावः ॥ २६॥ ___ ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् । तथाहि "समर्थः पदविधिः” इति सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु जहत्स्वार्थाऽ. जहत्स्वार्थपक्षयोरेवैकार्थीभावव्यपेक्षारूपयोः पर्यवसानं लभ्यते । दर्पणः वलम्ब्य मूलमवतारयति-*असम्भवश्चैषामिति ॥ अस्य जहत्स्वार्थवृत्तिपक्ष इत्यादिः ॥ एषां-लक्षणानाम् । असम्भवो-लक्ष्यमात्राऽवर्तनमित्यर्थः । तत्पक्षे पूर्वोत्तरपदयोस्तत्त्वेन कुत्राऽपि वृत्तेरभावेन तदर्थघटितानां तेषामुपकुम्भादावसम्भवादिति भावः। मूले ॥ *भौतेति ॥ शाबनित्यतावादिमते यथाश्रुतभौतपूर्व्यस्याऽप्यव्ययीभावादावसम्भवादाह-*सोऽपीति ॥ व्यवहारोपीत्यर्थः ॥रेखेति* ॥अन्यस्य कथमन्यधर्मबोधकत्वमत आशयं प्रकाशयति सारे-रेखागवयेत्यादि* ॥ *तद्वदेवेति ॥ रेखागवयादिवदेवेत्यर्थः । यथा गवयादावविद्यमानमपि रेखागवयादिनिष्टरेखाकृतिपुच्छं गवयादिपुच्छे सादृश्यमूलकाऽभेदाऽध्यवसायाद् गवयादिबोधकम् , तथा समासेऽविधमानमपि विग्रहवाक्यनिष्ठपूर्वपदार्थादिप्राधान्यं सादृश्याद् अव्ययीभावादिबोधकमित्यर्थः॥२९॥ ___ अजहत्स्वाथवृत्तिपक्षे पूर्वपदार्थप्राधान्यव्यवहारो न पुनः दुरूपपाद इत्याशयेन मूलमवतारयति-*नन्विति ॥ * अनेकधोक्तेष्विति ॥ "अथ तेषां ब्रुवतां किं जहस्वार्था वृत्तिराहोस्विदजहत्स्वार्था" इत्यादिनेत्यादिः । *एकार्थीभावव्यपेक्षेति ॥ एकार्थीभावस्तूक्तः । व्यपेक्षा तु समस्तपदानां परस्परसाकाङ्क्षत्वम् । *पर्यवसानं परीक्षा पूर्वकायादौ तूत्तरपदस्येति तत्राप्युक्ता व्यवस्था न सम्भवतीति बोध्यम् । मूले*भौतपूर्व्यादिति । सोऽपि पूर्वपदार्थप्राधान्यादिव्यवहारो भौतपूादाश्रितो रेखागवयादिवदित्यन्वयः । शब्दानां नित्यत्वेन समाससंज्ञाप्रवृत्तिकालापेक्षया यः पूर्वकालस्तस्मिन् समासघटकपूर्वोत्तरपदसजातीयं यत्पदं तस्य योऽर्थो ज्ञातस्तस्येदानीम्प्राधान्यमिति कल्पनैव समुदायस्याखण्डस्य बोधकत्वादिति भावः। नन्वन्यस्यान्यलक्षणत्वं कथमत आह-रेखागवयादिवदिति* । लोमवल्लाङ्गलवत्वं पशोर्लक्षणं तत्त्वम्-वास्तवम्-गवये वर्त्तते, रेखारूपगवये तु तन्नास्ति यद्यपि, तथापि रेखाविशेषेण साजात्यारोपायथा गवयादिप्रतीतिस्तथा पूर्वपदार्थप्रधान इत्यादि व्यवहारः । वस्तुतस्तु तथा नास्तीति भावः । पूर्वपदार्थप्राधान्यं वस्तुगत्या वाक्येऽस्ति, तत्समासे आरोपेणाश्रीयत इत्यविद्यमानस्यापि लक्षणत्वम् ॥२९॥ । ननु जहत्स्वार्थावृत्तिरिति पक्षे पूर्वपदार्थप्राधान्यादिकं वास्तविकं समासेऽपि सम्भवतीत्याशयेन शङ्कते-*नन्विति । *अनेकधोक्तेष्विति । जहत्स्वार्थावृत्तिराहोस्विदजहत्स्वार्थेत्यादि। *जहत्स्वार्थेति । जहत्स्वं यस्य स जहत्स्वः, जह
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy