________________
समासशक्तिनिर्णयः।
२३५
प्पली। द्वित्राः। शशकुशपलाशमित्यादौ परस्परख्यभिचारात् । तथाहि-उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावाव्याप्तिः । अन्यपदार्थप्राधान्याद् बहुव्रीहिलक्षणातिव्याप्तिश्च । “अन्य. पदार्थे च संज्ञायाम्" (पासू०२।१।२१।) इति समासात् । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च । "सुप् प्रतिना मात्राथै" (पा०सू०२।१।६) इति समासात् । अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वाद् अव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । “मद्धं नपुंसकम्” (पा०सू० २।२।२) इति समासात् ।।
एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्रा इतिबहुव्रीहावुभयपदार्थप्राधान्याद् द्वन्द्वातिव्याप्तिबहुव्रीह्यव्याप्तिश्च । शशकुशपलाशमित्यादिद्वन्द्वे समाहारान्यपदार्थप्राधान्यात् बहुव्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भावः। सिद्धान्ते त्वव्ययीभावाऽधिकारपठितत्वमव्ययीभावत्वमित्यादि
दर्पण: न्धिनोऽन्यपदार्थस्य, धवखदिरावित्यत्र साहित्यापन्नधवखदिरयोः पूर्वोत्तरपदाऽर्थयोविशेष्यतया भानाद् यथायथं लक्षणसमन्वयः ॥ *व्यभिचारादिति ॥ यद्यपि व्यभिचारोऽतिव्याप्तिरेव, तथापि प्रकृते दोषत्वेन व्यभिचारपदेनोभयं लक्ष्यते। तद्वक्ष्यति*अव्याप्तिरिति । तामेवाऽभिनयेन प्रदर्शयति-*तथाहीत्यादि* ॥ *पूर्वपदार्थेति। उन्मत्तादिपदाऽर्थेत्यर्थः । एवमग्रेऽपि ॥ *अव्ययीभावलक्षणेति* ॥ पूर्वपदाऽर्थविशेष्यकबोधजनकत्वरूपतल्लक्षणासत्त्वरूपेत्यर्थः ॥ *अन्यपदार्थप्राधान्यादिति ॥ समासाघटकसप्तम्यर्थाऽधिकरणविशेष्यकबोधजनकत्वादलक्ष्ये लक्षणसत्त्वरूपेत्यर्थः ॥ *बहुव्रीहीति* ॥ तल्लक्षणेत्यर्थः । एवमग्रेऽपि ।
ननु तर्हि कान्यव्ययीभावादिलक्षणानीत्यत आह-*सिद्धान्ते विति* ॥ लक्ष्य. ताऽवच्छेदकं तु शक्तिसम्बन्धेनाऽव्ययीभावादिपदवत्त्वम् । भूतपूर्वाऽऽदीनां लक्ष्यताऽवच्छेदकाऽनाक्रान्तत्वात् तदसंग्रहो न दोषायेति भावः ॥ जहत्स्वार्थवृत्तिपक्षम
परीक्षा पिप्पल्या अर्द्धमित्यर्थात्। कायस्य पूर्वो भागः। “पूर्वापराधरोत्तरम्" इति समासात् । *द्वित्रा इति* । संख्ययाऽव्यय” इति समासः । द्वौ वा त्रयो वा द्वित्राः, द्विअन्यतरा इत्यर्थात् । *समाहारान्यपदार्थ इति* । समाहाररूपान्यपदार्थस्य प्राधान्यात् । द्वन्द्वाव्याप्तिरिति । द्वन्द्वलक्षणाव्याप्तिः । उभयपदार्थस्य मुख्यविशेष्यत्व. विरहात् । न केवलमुक्तलक्षणानामव्याप्त्यतिव्याप्ती, किन्तूक्तलक्षणानां लक्ष्यमात्रावृत्तित्वेनासम्यक् इत्यर्थः । इदमसम्भवादभिधानं जहत्स्वार्थावृत्तिमतेन, तत्पक्षे पूर्वोत्तरपदयोरनर्थकत्वेन कुत्राऽपि वृत्योः पूर्वोत्तरपदयोरर्थबोधकत्वाभावेनोक्तलक्षणानां समन्वयो भवति । वस्तुतस्तु वक्ष्यमाणरीत्या पूर्वपदस्यैवानर्थकत्वं राजपुरुषादिपदे