SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३४ दर्पणपरीक्षासहिते भूषणसारेसमासस्तु चतुति प्रायोवादस्तथापरः । योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २९ ॥ भौतपूर्व्यात् सोऽपि रेखागवयादिवदास्थितः । चतुर्धा अव्ययीभावतत्पुरुषद्वन्द्वबहुव्रीहिभेदात् । अयं प्रायोवादः। भूतपूर्वः। द्वन्भूः । काराभूः । आयतस्तूः। वागर्थाविव । इत्याद्यसङ्ग्रहात् । __ तथा पूर्वपदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुव्रीहिः इत्यादि लक्षणमपि प्रायिकम् । उन्मत्तगङ्गम् । सूपप्रति । अर्द्धपि दर्पणः "लक्षणे तान्येव पदानि देयानि यैरव्याप्त्यतिव्याप्त्यसम्भवदोषा वार्य्यन्त" इति । तत्र लक्ष्ये लक्षणाऽसत्त्वमव्याप्तिः । अलक्ष्ये तत्सत्वमतिव्याप्तिः । लक्ष्यमा. त्राऽवर्तनमसम्भवः । उदाहरणानि वक्ष्यन्ते । असाधारणधर्मवत्ताज्ञानात्तद्धर्माश्रय इतरभेदाऽनुमितिव्यवहारश्च फलम् । यस्य तु धर्मस्य केवलाऽन्वयित्वं तद्धर्मज्ञानस्य तु व्यवहारमानं तत् । तदुक्तम् व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् । इति ॥ *प्रायोवाद इति* ॥ प्रायशस्तेषामुपलभ्यमानत्वेऽपि अन्येषामपि केषां चिदुपलब्धिरित्यर्थस्तदेव विशदयति-*भूतपूर्व इत्यादि । एषां वक्ष्यमाणयत्किञ्चिल्लक्षणाक्रान्तत्वेऽपि तत्तदधिकारीयसूत्राऽनुशिष्टत्वादसंग्रहो बोध्यः, समासाऽधिकारीयसूत्रानुष्ठितत्वाद्विभागे तदसंग्रहे इष्टापत्तेरयोगात् ॥ _ *पूर्वपदाऽथेत्यादि* ॥ प्राधान्यं च समासघटकपदार्थप्रकारतानिरूपितमुख्यविशेष्यत्वम् । तथाच-पूर्वपदार्थविशेष्यकबोधजनकत्वमव्ययीभावत्वमित्यर्थः । एवमयोऽपि । उपकुम्भमित्यत्र कुम्भनिरूपितसामीप्यस्य विशेष्यतया बोधाद् राजपुरुष इत्यादौ राजसम्बन्धिपुरुषोत्तरपदार्थस्य पीताऽम्बर इत्यत्र पीताऽभिन्नाऽम्बरसम्ब परीक्षा *त दम्*-समासभेदम् । तथापरः,*-अपरोऽपि वादस्तथा प्रायोवादः । अपरवादमेवाह-*योऽयमित्यादिना । *भूतपूर्व इति* । अत्र हि-"सुप्सुपा" इत्यनेन समाससंज्ञा भवति । अयं च समासोऽव्ययीभावादिसंज्ञाविनिर्मुक्त इति सुप्रसिद्धमेव। पूर्वपदार्थनिष्ठा या समासघटकपदान्तरार्थनिष्टप्रकारतानिरूपिता मुख्यविशेष्यता तन्निरूपितविशेव्यिताशालिबोधजनकः । यथोपकुम्भमित्यादिः । एकमग्रेऽपि । *उभयपदार्थप्रधान इति* । धवखदिराविति यथा, साहित्यविशिष्टौ धवखदिराविति बोधात् । *अन्यपदार्थप्रधान इति । चित्रगुरित्यादि यथा। अत्र हि बहुव्रीहिघटके पदे प्रथमान्ते ततोऽन्यद्यत्पदं षष्ठ्यन्तं तदथें समासाङ्गीकारात् । *उन्मत्तगङ्गमिति । उन्मत्ता गङ्गा यस्मिन्देशे इत्यर्थेऽव्ययीभावसमासेऽन्यपदार्थप्राधान्यसत्वाद् बहुव्रीहि. लक्षणातिव्याप्तिः । *सूपप्रतीति* । सूपस्य लेश इत्यर्थः । *अर्द्धपिप्पलीति* ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy