________________
समासशक्तिनिर्णयः।
२३३ त्रात् ॥ *तिङ सुबन्तेन* ॥ पूर्वपदं तिङन्तमुत्तरं सुबन्तम् । जहिस्तम्बः । “जहि कर्मणा बहुलमाभीक्षण्ये करिश्चाभिदधाति" इति मयूरव्यंसकाद्यन्तर्गणसूत्रात् ।
अयं षड्विधोऽपि समासः, "सह सुपा" (पासू०२।१।४।)इत्यत्र योगविभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ ॥ २८ ॥
स्वयं भाष्यादिसिद्धं तदुभेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यतिव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं च दर्शयति
. दर्पणः नमपि दर्शितम् । सुबुत्पत्तेः पश्चात् समासे हि स्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमिकत्वस्यान्तरङ्गम्बहिरङ्गभावमूलकस्य "कुत्सिते” (पा०सू० ५।३।२४) इति सूत्रभाष्यसम्मतत्वेनाऽन्तरङ्गत्वात् सुबुत्पत्तेः पूर्वं टापि अनदन्तत्वात् , “क्रीतात् करणपूर्वात्" (पा०सू० ४।१।१०) इति ङीषोऽनुपपत्तेरिति दिक् ।। __ *भाष्ये व्युत्पादित इति । तत्र हि प्रत्येकं समाससंज्ञावारणरूपं सहशब्दप्रयोजनं समुदाये वाक्यपरिसमाप्तिन्यायेन परिहृत्य "एवं तर्हि सिद्धेयत् सहग्रहणं करोति तस्यैतत् प्रयोजन योगाङ्गं यथा विज्ञायेत, सति योगाङ्गे योगविभागः करिष्यते । सह सुप् समस्यते । केन समर्थेनाऽनुव्यचलदनुप्राविशत्। ततः सुपा, सुपा च सह सुए समस्यते । अधिकारश्च लक्षणं च, यस्य च समासस्याऽन्यल्लक्षणं नास्ति तस्येदं लक्षणं भवति" इत्युक्तम् । तत्राधिकारप्रयोजनम्-देवदत्तः पचतीत्यादौ समानाधिकरणेन समाससंज्ञावारणं बोध्यम् ॥ २८ ॥
*भेदमिति । षाड्विध्यरूपमित्यर्थः। *प्राचीनेत्यादि । यद्यपि “अव्ययं विभक्ति” (पा०सू० २।१।९) इति सूत्रे भाष्ये समुदायस्य संस्कार्यत्वेन प्राधान्यात्तस्यैव संमृद्धयादयो विशेषणानीति समुदायात्समृद्धयादीनां गम्यमानत्वादत्राऽप्यव्ययीभावापत्तिरित्यभिप्रायेण "इह कस्मान्न भवन्ति सुमद्राः सच्छत्र" इति प्रश्ने, “नेष दोषः, इह कश्चित् समासः पूर्वपदार्थप्रधान" इत्यादिसमासलक्षणान्युक्त्वा नाऽन्न पू. र्वपदार्थप्राधान्यं गम्यत इति समाहितम् । तथापि नैते समासार्था निर्दिश्यन्ते इत्यादिना पक्षान्तरोपन्यासेनोक्तलक्षणेष्वनिर्भरसूचनाददोष इति भावः।
*लक्षणस्येति ॥ तत्वं साधारणधर्मवत्वम् । धमें साधारण्यं च तदितराऽवृत्ति. त्वे सति सकलतवृत्तित्वम् । यथा सास्नाशृङ्गवत्त्वं गोर्लक्षणम् । तत्र शृङ्गवत्त्वं गगनकृष्णरूपादीनां लक्षणत्ववारणाय सत्यन्तवृत्तित्वसाकल्यानां निवेशः । तदुक्तम्
परीक्षा त्पत्तेः प्राक् समाससंज्ञास्वीकारे । *भाष्ये व्युत्पादित इति । तत्र हि "सहग्रहणस्य समुदायस्य संज्ञा यथा स्यान्नावयवानामित्येतत् । समुदाये वाक्यपरिसमाप्त्यप्रसिद्धः, किन्तु सहग्रहणं योगविभागेन समर्थेन सह समस्यते, तेन पर्यभूषयदित्यादि सिद्धयति । ततः सुपेति, अत्र प्रथमान्तं सुब्ग्रहणमनुवर्त्य सुबन्तसहितं सुबन्तं समाससंज्ञकमित्याश्रित्य यस्यान्यल्लक्षणं नास्ति, तत्र समाससंज्ञासाधकमेतत्" इत्यादिकथितम् ॥२८॥
३० द० प०