SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३२ दर्पणपरीक्षासहिते भूषणसारे *सुपां सुपा* ॥ पदद्वयमपि सुबन्तं, राजपुरुष इत्यादिः ॥ सुपां तिङा पूर्वपदं सुबन्तमुत्तरपदं तिङन्तम् । पर्यभूषयत् । अनु. व्यचलत् । “गतिमतोदात्तवता तिङाऽपि समासः” इति वातिकात् समासः ॥ सुपां नाना ॥ कुम्भकार इत्यादिः । “उपपदमति (पासू०२।२।१०) इति समासः । स च "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक सुबुत्पत्तेः" इति परिभाषया भवति सुबुत्पत्तः प्राक । अत्रोत्तरपदे सुबुत्पत्तःप्रागित्यर्थः । अन्यथा चम्मक्रीतीत्यादौ नलोपानापत्तेः ॥ *सुपां धातुना* ॥ उत्तरपदं धातुमात्रं, न सुप्तिङन्तम् । कटतः । आयतस्तूः । “किम्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घश्च” इति वात्तिकात् ॥ *तिङ तिङा* ॥ पिबतखादता पचतभृजतेत्यादिः। "आख्यातमाख्यातेन क्रियासातत्ये” इति मयूरव्यंसकाद्यन्तर्गणसू दर्पणः अवयवाऽर्थविरुद्धो यत्र समुदायार्थस्तत्रैव सा, यथा कृष्णसर्पादाविति तदर्थः । अयमेव पक्षः समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । इति वदतो मूलकृतः सम्मतः । तथा सति पङ्कजशब्दादौ पोगरूढयभ्युपगमेन तद्दृष्टान्तोपन्याससार्थक्यात् । जहत्स्वार्था वृत्तिरिति पक्षस्य तत्सम्मतत्वे स्वमते तस्य पक्षतया तत्र तदनभ्युपगमेन तदुपन्यासाऽनुपपत्तेः स्पष्टत्वात् । अधिकमग्रे वक्ष्यत इति । ___*गतिमतोदात्तवतेति । उपलक्षणमिदम् , “सह सुपा”इति योगविभागस्याऽपि । 'अनुव्यचलत्' इत्यत्राऽनोय॑चलदित्यनेन वेश्चऽचलदित्यनेन युगपत्समासः । अन्विति सुबन्तेन व्यचलदिति समुदायस्य समर्थत्वात् ; सत्यां समाससंज्ञायां शाकलप्रतिषेधाद्यणादेशः समासाऽन्तोदात्तत्वं च भवति । तिडैकत्वस्योक्तत्वात् प्रकृत्यर्थव्यापारस्य संख्यान्वयाऽयोग्यत्वाद्वा न ततः सुबुत्पत्तिः। समयपरिपालकौत्सर्गिकैकवचनस्य तु तथा सुबन्तस्याऽभिधानादेवाऽप्रवृत्तिरिति भावः। ___ *अन्यथेति । सुबुत्पत्तेः प्राक्समाससंज्ञाऽभ्युपगम इत्यर्थः। न लोपेत्यस्य-अ. पदत्वादीत्यादि । यद्यपि “उपपदम्” (पा०सू० २।२।) इति सूत्रे भाष्येऽनयोर्योगयोनिवृत्तं "सुप्सुपा"इत्युक्तं, तथाप्युपपदमिति महासंज्ञाबलादेव पूर्वपदस्य सुबुत्पत्यन्तरं समास इति भावः । प्राक्सुबुपत्तेरित्येकदेशप्रयोजनप्रदर्शनमिषेण परिभाषायाः प्रयोज । परीक्षा विशेषणभावापन्नविशिष्टार्थावगाटेकोपस्थितिजनकत्वम् । *वातिकादिति । इदमुपलक्षणम् , सहेतियोगविभागस्यापि । अनुव्यचलदित्यत्रानोव्य॑चलदित्यनेन वेश्चाचलदित्यनेन युगपत् समासः । अत्र समाससंज्ञाप्रयोजनञ्च समासान्तोदात्तत्वं शाकलप्रतिषेधश्च । *अन्यथा*-उत्तरपदेइति विशिष्यानुपादय सामान्यतः सुबु.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy