________________
-
अथ समासशक्तिनिर्णयः ॥ समासान् विभजतेसुपां सुपा तिङा नाम्ना धातुनाऽथ तिङ तिङन ॥ सुषन्तेनेति च ज्ञेयः समासः षड्विधो बुधैः ॥ २८ ॥
दर्पणः
अथ समासशक्तिनिर्णयः । क्लप्सशक्त्यैव निर्वाहान्न नामसमुदायाऽऽत्मकसमासेऽतिरिक्ता शक्तिरिति मतं दूषयिष्यन् प्रसङ्गात्समासाऽर्थ निरूपयितुमादौ तद्विभागप्रदर्शनमित्याशयेनाऽऽह*समासानिति ॥ समासत्वं च शक्तिसम्बन्धेन समासपदवत्त्वम्। एकार्थीभावापनपदसमुदायविशेषो वा । एकार्थीभावे मानं च "किं पुनः समर्थ नाम ? पृथगानामेकार्थीभावः समर्थवचनम् । क्व पुनः पृथगानि, कैकार्थानि । वाक्ये पृथगानिराज्ञः पुरुष इति, समासे पुनरेकार्थानि-राजपुरुष” इति समर्थसूत्रस्थं भाष्यम् । तन्मूलिका वक्ष्यमाणा युक्तयश्च ।
तत्रैकार्थत्वमेकोपस्थितिविषयाऽर्थकत्वम् । न त्वेकार्थशक्तत्वम् । घटादिपदानामपिघटघटत्वतत्सम्बन्धरूपनानार्थशक्तत्वेनैकार्थतानापत्तेः। नानोपस्थितिविषयार्थकत्वं पृथगर्थकत्वम् । यथा वाक्ये-पृथक्पदानामाकाङ्क्षादिसहकारेण विशिष्टार्थप्रत्ययः । नैवं वृत्तौ, किन्त्ववयवशक्त्या समुदायशक्तिसहकृतया जायमाना पदार्थोपस्थितिरेव विशेष्यविशेषणभावाऽऽपन्नविशिष्टाऽर्थमवगाहते । “संस्पृष्टार्थ, समर्थम्" इति भाष्यात् । राजपुरुषादिपदं राजसम्बन्धवत्पुरुषादौ शक्तमित्याकारकशक्तिग्रहः। ततश्च प्राप्ताप्राप्तविवेकेन विशिष्टशक्तिः षष्ट्याद्यर्थे पर्यवस्यति । अत एव न तत्र राजादौ सुन्दराऽऽदिपदार्थाऽन्वयः । एकदेशत्वात्। "देवदत्तस्य गुरुकुलम्" इत्यादौ तु गमकत्वात् स इति वक्ष्यते । 'जहत्स्वार्थवृत्तिः, ‘पदानामानर्थक्यम्" इति तु न सम्यक् । महाबाहुरित्यादावात्वाद्यनापत्तेः। भूतपूर्वगत्याश्रयणंतु सत्यांगतावनुचितम् । तदुक्तम्जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी । इति ।
परीक्षा
अथ समासशक्तिनिरूपणम् ।। नाम्नो निरूपणस्य प्रक्रान्तत्वात्समासस्यापि नामविशेषत्वन्निरूपयति*समासानित्यादिना*। समासत्वञ्च-शक्तिसम्बन्धेसमासपदवत्वम् । तच्चैकार्थीभावापन्नपदसमुदायविशेषे कल्प्यते । एकार्थीभावे मानञ्च-"किम्पुनः समर्थ नाम-पृथगानामेकार्थीभावः समर्थवचनम् । क पुनः पृथगानि ? कैकार्थानि ? वाक्ये पृथगानि राज्ञः पुरुष इति। समासे पुनरेकार्थानि राजपुरुष इति" समर्थसूत्रस्थभाष्यमेव । एतत्स्वीकारप्रयोजनञ्चाने स्फुटम् । एकार्थत्वञ्च समुदायशक्तिमहसहकृतावयवशक्त्या विशेष्य