SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २४७ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । - कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः॥३३॥ .. आदिना घनश्यामः, हंसगमन इत्यादाविवादीनां पूर्वोक्तानाच संग्रहः । दूषणान्तरमाह-*बहुव्युत्पत्तिभञ्जनमिति* । अयमाशयःचित्रगुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा। न च तत्र लक्षणा । प्राप्तोदको ग्राम इत्यादौ तदसम्भवात् । प्राप्तिकभिन्नमुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्म ग्राम इत्यर्थालाभात् । . प्राप्तेति क्तप्रत्ययस्यैव कर्थकस्य , कर्मणि लक्षणेति चेत्तहि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नप्राप्तिकम्मति स्यात् । अन्यथा समानाधिकरणप्रातिपदिकार्थयोरभेदा. - दर्पणः . कैयटोक्तं दोषसङ्घातमाह-*तथेत्यादि । *इति दूषणान्तरमिति । इत्या. कारकं दूषणान्तरमित्यर्थः । *पूर्वोक्तानामिति । निष्कौशाम्बिरित्यादौ क्रान्ताद्यर्थ. वाचकानां लोपवचनमित्यादिकानामित्यर्थः । एतद्दूषणोद्धारस्य वक्ष्यमाणत्वादाह*दूषणान्तरमिति । व्युत्पत्तिभङ्गमाविष्कर्तुमाह-*अयमाशय इति । *लक्षणेति । वाक्ये इति शेषः। चित्रगुरित्यादौ वाक्यस्य गोस्वामिलक्षकत्वेऽभीप्सितबोधलाभसम्भवादाह*प्राप्तोदको ग्राम इति । *लक्षणायामपीति । इदञ्च मीमांसकमतेन । स्वबोध्यसम्ब. न्धस्यैव तैर्लक्षणात्वाऽभ्युपगमात् । बोधोत्तरमित्यस्याऽनुपपत्तिप्रतिसन्धाने सतीति शेषः । लक्षणायामपीत्यपिना तत्र लक्षणाया असम्भवं सूचयति-*अर्थालाभादिति । प्राप्तिकभिन्नोदकसम्बन्धिनो लाभेऽप्यनुभूयमानोक्ताऽर्थालाभादित्यर्थः। *तर्हि समानाधिकरणेति । सामानाधिकरण्यं चाऽत्र समानविभक्तिकत्वम् । अन्यथा कर्म का परीक्षा कौशाम्ब्या इत्यादी क्रान्ताद्यर्थस्य सम्प्रत्ययाय तद्वाचकानां क्रान्तादिशब्दानां यथाप्रयोगो भवतिः तथा वृत्तिजन्यबोधेऽपि तेषाम्भानमस्तीति तत्तदर्थवाचकानाम्प्रयोगः स्यादिति ते लोपो वाच्य इति भावः। *पूर्वोक्तानां*-निष्कौशाम्बिरि. त्यादौ क्रान्ताद्यर्थवाचकानाम् । तत्र*-समासे । तदसम्भवात् लक्षणाया असम्भवात् । प्राप्तेत्यत्र कर्तरि क्तप्रत्ययस्य सत्वादाह-*प्राप्तीति*। *अलाभादिति। किन्तु प्राप्तिकभिन्नोदकसम्बन्धीत्येव बोधः स्यादिति शेषः। *कर्मणि लक्षणेतीति । विशेषणविशेष्यभाववपरीत्यमपि चित्रगुरित्यादावन्यपदार्थस्येव भवि. प्यतीति भावः । *व्युत्पतेरिति-'राजापुः' इति वाक्याद्राजपुरुष इति बोधापत्तिवारणाये तथा व्युत्पत्तिः कल्पनीया। सामानाधिकरण्यमत्र-समानविभक्तिकत्वम् । अन्यथा*-उदकाभिन्नम्प्राप्तिकर्मेतिबोधास्वीकारे, कर्त्ततासम्बन्धेनोदकस्य
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy