________________
२४८
दर्पणपरीक्षासहिते भूषणसारेन्वयव्युत्पत्तिभङ्गापत्तेः। प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदे. नोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा 'देवदत्तः पच्यते' इत्यतः कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तः।। ___ अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधोत्तरं तत्सम्बन्धिग्रामो लक्ष्यत इति चेद्?न । प्राप्तेर्धात्वर्थतया क्तार्थकर्तारं प्रति विशेष्यताया असम्भवात् "प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्” इति व्युत्पत्तेः । प्राप्तपदे प्राप्तेविशेष्यत्वे तस्या एव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च।
एवम् , ऊढरथः, उपहृतपशुः, उद्धृतोदना, बहुपाचिकेत्यादा. वपि द्रष्टव्यम् । अत्र हि रथकमकवहनकर्ता, पशुकर्मकोपहरणो
दर्पणः लाक्षणिकतान्ताऽर्थोदकपदाऽर्थयोरभेदान्वयाऽनभ्युपगम इत्यर्थः । *भङ्गापत्तेरिति । तादृशव्युत्पत्तेरत्रैव व्यभिचारादिति भावः । ___ ननु तव्युत्पतौ सामानाधिकरणस्यैकार्थाऽभिधायित्वस्यैव निवेशेन नेदं तदूविषयोऽत आह-*प्राप्तेरिति । *अन्वयासम्भवादिति । नामाऽर्थधात्वर्थयोः साक्षादूभेदेनाऽन्वयस्याऽव्युत्पन्नत्वादिति भावः । *अन्यथा देवदत्त इति । *अन्यथाउक्तव्युत्पत्त्यनभ्युपगम इत्यर्थः । *ग्रामो लक्ष्यत इति । वाक्येनेति शेषः। उक्तबोधस्य सम्भवदुक्तिकत्वे कथञ्चिलक्षणाऽपि कल्प्येत, तदेव नाऽस्तीत्याह-*प्राप्तेर्धात्वर्थतयेति । 'प्रकृतिप्रत्यययोः' इति न्यायस्य संख्यादौ व्यभिचरितत्वं सम्भाव्याह-*प्राप्तपदे इति*। *नामार्थत्वेनेति । नामजन्यप्रतीतिविशेष्यस्यैव नामार्थत्वादिति भावः।
*अभेदान्वयापत्तेश्चेति । समानविभक्तिकनामाऽर्थयोरिति व्युत्पत्तेरिति भावः। *द्रष्टव्यमिति । भवन्मते वहनकर्माऽभिन्नो रथ इति बोधोत्तर सम्बन्धिनि लक्षणायामपि रथकर्मकवहनकर्ताऽनड्वानितीप्सितार्थस्याऽलाभ एव । कर्मार्थकक्तप्रत्ययस्य कर्तरि लक्षणायां तु धात्वर्थवहने रथस्य कर्मतया भेदसम्बन्धेनाऽन्वयो दुर्लभ एवोक्त. व्युत्पत्तिविरोधादिति पूर्वोक्तदिशाऽवसेयमित्यर्थः।
*अन हीति* । बोधाऽभ्युपगमादित्यनेनाऽन्वयि । अत्र 'ऊढरथः' इत्यादि समासे
परीक्षा
प्रातिक्रियायामन्वयास्वीकारे चेति शेषः । *असम्भवाच्चेति । नामार्थधात्वर्थयो)देनान्वयासम्भवेनासम्भवादित्यर्थः । अन्यथा नामार्थधात्वर्थयोरपि भेदस्वीकारे क्तप्रत्ययस्य कर्मणि लक्षणा न स्वीक्रियते, किन्तु प्रत्ययार्थः कर्ताः प्रकृत्यर्थो विशेषणमित्यस्तु । तस्मिन्नुदकस्याभेदेनान्वयः। *लक्ष्यत इति। उदकपदेनेति शेषः। अवान्तवाक्यार्थबोधपूर्वकमहावाक्यार्थस्यान्यन दृष्टत्वादित्याशयेन शङ्कते-*अथेति । ननु भवन्मते कत्तुराख्यातस्य प्रकृतिवाच्यक्रियाम्प्रति विशेषणत्वं दृष्टमिति "प्रकृतिप्रत्ययौ” इति नियम औत्सर्गिक इत्यत आह-*प्राप्तपद इति । इत्यादावपीति