________________
समासशक्तिनिर्णयः।
२४९ द्देश्यः, प्रोदनकर्मकोद्धरणावधिः, बहुपाककत्रधिकरणमिति बोधाभ्युपगमात् । अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वविशिष्टे प्राप्तोदक इत्यादिसमुदायशक्त्यैव निर्वाह इति भावः ॥ ३३ ॥ साधकान्तरमाहअषष्ठयर्थबहुव्रीही व्युत्पत्त्यन्तरकल्पना। क्लृप्तत्यागश्चास्ति तव तत् किं शक्तिं न कल्पयेः॥३४॥
अयम्भावः-चित्रगुरित्यादिषु चित्रगोः स्वाम्यादिप्रतीतिर्न विना शक्तिमुपपद्यते । न च तंत्र लक्षणा । सा हि न चित्रपदे । चित्रस्वामी गौरिति बोधापत्तेः । नाऽपि गोपदे । गोस्वामी चित्र इत्यन्वयबोधापत्तेः। चित्रादिमात्रस्य लक्ष्यकदेशत्वेन तत्र गवादेरन्वयाऽयोगात् ।
नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादशगोस्वामी गोपदेन लक्ष्यत इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात् ।। -'नच गोपदे साक्षात् सम्बन्ध एव विनिगमक इति वाच्यम् ।
दर्पणः विशिष्टशक्त्यभ्युपगमे तु न कस्या अपिव्युत्पत्तेविरोध इत्याह-*अतिरिक्तेति ॥३३॥ ___ षष्ठ्यर्थबहुव्रीहिपर्युदासे बीजं प्रदर्शयति-*अयम्भाव इति। विना शक्तिमिति । समुदायशक्तिमित्यर्थः । *न च तत्रेति । तादृशसमुदायघटकपूर्वोत्तरपदयोरित्यर्थः । *चित्रस्वामीत्यादि । समानाधिकरणनामाऽर्थयोरिति व्युत्पत्तेरिति भावः । ननु गोपदस्य गोस्वामिनि लक्षणा। गवि चित्रस्याऽभेदान्वये चित्राभिन्नगोस्वामीति बोधो नाऽनुपपन्नोऽत आह-*चित्रादिमात्रस्येति । आदिना गवादिपरिग्रहः । प्राथम्यात् पूर्वपदे लक्षणेत्याशयेन चित्रपदोपादानम् । _ *लक्ष्यैकदेशत्वेनेति । लक्ष्यगोस्वामिरूपपदाथकदेशत्वेनेत्यर्थः । *अन्वयायोगादिति । एकपदार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विशेध्यतासम्बन्धेनापरपदजन्योपस्थितेहेतुतेत्यर्थपर्य्यवसितायाः, “पदार्थः पदार्थेनाs न्वेति" इत्यादिव्युत्पत्तेविरोधादुक्तान्वयाऽभावादिति भावः । कस्यचिन्मतमाशङ्कय
__ परीक्षा पूर्ववव्युत्पत्तिविरोधो वाच्य इति शेषः । स्वमते तु दोषो नास्तीत्याह-*अति. रिक्तति* ॥३३॥
*प्रतीतिरिति । अनुभवसिद्धति शेषः । परोक्तमनूद्य दूषयति-*नचेति । *लक्ष्यैकदेशत्वेन* । गवादेर्लक्ष्यैकदेशत्वेनेत्यन्वयः । *तत्र*-गवादौ । चित्रादि. मात्रस्य*-चित्रपदार्थस्य । तादृशगोस्वामीति*-चित्राभिन्नगोस्वामीत्यर्थः । *साक्षात्सम्बन्ध इति । गोपदस्यान्यपदार्थे स्वामिनि साक्षात्सम्बन्धश्चित्रपदार्थस्य
३२ द० प०