SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५० दर्पणपरीक्षासहिते भूषणसारे - एवमपि प्राप्तोदकः कृतविश्व इत्याद्यषष्ठ्यर्थबहुव्रीहौ विनिगमका - प्राप्तेः । यौगिकानां कर्त्रर्थकतया साक्षात्सम्बन्धाऽविशेषात् । नच पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् । बोधावृत्तिप्रसङ्गात् । नच परस्परं तात्पर्यग्राहकत्वादेकस्यैवेकदा लक्षणा, न द्वयोरिति, न बोधावृत्तिरिति वाच्यम् । एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया असम्भवात् । " नच चरमपदे एव साः प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहितपदार्थगत स्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् । एवं हि बहुव्रीह्यसम्भवापत्तेः। "अनेकमन्यपदार्थे” ( पा०सू० २।२।४ ) इत्य दर्पणः निरावष्टे-नचेति ॥ *साक्षादिति ॥ गोद्वारक इत्यर्थः । तथाच पष्ठयर्थबहुव्रीहौ न व्युत्पत्त्यन्तरकल्पनमिति भावः ॥ *पदद्वय इति* ॥ विनिगमकाऽभावादिति भावः ॥ *नैयायिकेति ॥ अस्य प्राचीनेत्यादिः । एकदेशान्वयपक्षे हि तैरित्थमुक्तम् ॥ *बोधावृत्तीति ॥ बोध्यमानस्य स्वामिनो द्वेधा भानापत्तेरित्यर्थः ॥ 1 *विनिगमनाविरहेति । चित्रपदं तात्पर्य्यग्राहकमुत गोपदमित्येकतरपक्षपातियुक्तिविरहतादवस्थ्येनेत्यर्थः ॥ *असम्भवादिति ॥ एकतरपदे लक्षणाया असम्भ वादित्यर्थः । पदद्वये लक्षणायान्तुक्तदोष इति भावः । प्रत्ययार्थाऽनुपपत्तिरेव उत्तपदे लक्षणायां विनिगमिका भविष्यतीत्याशङ्कय निराचष्टे -*नचेति ॥ *एवं हीति उत्तरपदस्यैवाऽन्यपदार्थलक्षकत्वे इत्यर्थः ॥ बहुव्रीह्यसम्भवे हेतुमाह - * अनेकमिति ॥ परीक्षा तु गोद्वारक इति परम्परयेति विनिगमकसत्वाद्गोपदस्यैव लक्षणेति, न षष्ठयर्थ बहुव्रीहौ व्युत्पत्यन्तरकल्पनेति भावः । एवममीति-चित्रगुरित्यत्र गोपदलक्षणया निर्वाहेऽपि । *विनिगमका प्राप्तेरिति । कस्य लक्षणेत्यत्र विनिगमकाप्राप्तेरित्यर्थः । ननु तत्राप्युदकपदस्य द्रव्याभिधायकतया तदर्थस्य साक्षात्सम्बन्ध इति तस्यैव लक्षणाऽस्त्वित्यत आह - * यौगिकानामिति । *अविशेषादिति । "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवावधीयते " इतिसिद्धान्तात् । *लक्षणाया असम्भवादिति । एकतरपद एव लक्षणाया असम्भवादित्यर्थः । पदद्वयलक्षणायान्तु दोष उक्त एव । प्रत्ययार्थान्वयानुरोध एवोत्तरपदलक्षणा विनिगमका भविष्यतीत्याशङ्कय निराचष्टे—*नचेति*। *एवं हि*-उत्तर - पदस्यैव लक्षकत्वे हि । बहुव्रीह्यसम्भवे कारणमाह - * अनेकेति । प्रतिपादकत्वेन तद्विधानादित्यनेन यस्य समुदायस्य शास्त्रेण साधुत्वं बोध्यते, तस्यार्थप्रतिपादकता न विधीयते ; किन्तु तत्तदर्थप्रतिपादकत्वे लौकिकमाश्रित्य तदनुवादेन साधुत्वमात्रस्य विधानं क्रियते । अत एव "पक्तिविंशति" इतिसूत्रेण पक्त्यादीनामर्थकथनेऽपि साधुत्वबोधनं सङ्गच्छते । अत एव समर्थ सूत्रभाष्ये “स्वभावत एव तेषां शब्दानामेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते" इत्युक्तम् । एवञ्चान्यपदार्थप्रतिपादकत्वं लौकिकं बहुव्रीहिसंज्ञायां निमित्तं तद् भवन्मते नास्तीति बहुबीहिसंज्ञा न स्यादिति भावः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy