________________
अखण्डस्फोटनिर्णयः।
४२५
४२५ .. पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः।
अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति । न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोधः । तस्या अलीकत्वासिद्धर्वक्ष्यमाणत्वात् । एवं रेखागवयन्याय
-
दर्पणः न्तात् कितेः क्तप्रत्यये वाङ्मलकर्मकापनयनसाधनं यतस्ततो मोक्षद्वारमित्यर्थः । मनः शुद्धौ यज्ञादीनामिव वाकशुद्धावेव तस्योपयोगादिति भावः। यतः सर्वविद्यानां मध्ये पवित्रमतोऽधिविद्यं विद्यासु प्रकर्षेण दीप्यत इत्यर्थः । तथाचोक्तम्-"तेषां च सामय॑जुषां पवित्रं महर्षयो व्याकरणं गिराहुः" इति । *इदमिति* ॥ सिद्धिसोपानपर्वणां मध्ये इदं प्रथमं पदस्थित्यधिकरणमित्यर्थः । अत्र स्फोटे अतीतविपर्यासो भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत् । *केवलाम् । पराख्याम् । *अनुपश्यतीति। योगधर्मेण प्रत्यक्षीकरोतीत्यर्थः। तथाच योगित्वसिद्धौ किमिदमवशिष्यते ? तत्त्वज्ञानमित्यर्थः । तदुक्तं भागवते द्वादशे नादनिरूपणान्तरम्
यदुपासनया ब्रह्म योगिनो मलमात्मनः । ___ द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् । इति भावः । *अलीकत्वासिद्धेरिति । पञ्चकोशादिवत् प्रकृतिप्रत्ययविभाग
परीक्षा रणम् । द्वारम्-मोक्षस्य शारीररोगाणामायुर्वेद इव व्याकरणमपि वाङ्मलानामपनुत् । व्याकरणतो हि प्रत्यवायहेतुभूतानपशब्दान्न प्रयुङ्क्ते । ज्ञानं हि तस्य शरणं भवति । *पवित्रमिति । तथा चाप्रमत्तगीतश्लोकः
आपः पवित्रम्परमम्पृथिव्यामपाम्पवित्रम्परेमञ्च मन्त्राः।
तेषाञ्च सामर्यजुषम्पवित्रम्महर्षयो व्याकरणानि प्राहुः ॥ इति । . *अधिविद्यमिति। विभक्त्यर्थेऽव्ययीभावः । सर्वो हि विद्वान्स्वस्यां विद्यायां कारणमनुगच्छति । *इदमाद्यमित्यादि । इदं व्याकरणनाम शास्त्रम्मोक्षसिद्धिसोपानपर्वणाम्मध्ये प्रथमम्पादस्थापनस्थलमित्यर्थः । *इयमिति* । इयम्-व्याकरणशास्वरूपा। मोक्षमाणानाम्-मुमुक्षूणाम् । *अवक्राराजपद्धतिः-ऋजुराजमार्गः। अत्र - स्फोटेव्याकरणज्ञेये राजमार्गे । *अतीतविपर्यासः । अतीतः अपास्तः विपर्यासो भ्रमो यस्य सः । भ्रमशून्य इति यावत् । *केवलाम्*-पराख्यां वाचम् । अनुपश्यति*-योगजधर्मसहायेन जानातीत्यर्थः । एवञ्च योगित्वसिद्धौ तत्वज्ञाने न कोऽपि प्रतिबन्धक इति भावः। एतदेव भागवते द्वादशस्कन्धे उक्तम्
यदुपासनया ब्रह्म योगिनो मलमात्मनः ।।
द्रव्यक्रियाकारकाख्यः धूत्वा यान्त्यपुनर्भवम् ॥ इति । एतनिरूपणानन्तरमुक्तमिति यच्छब्दवाच्योऽत्र नाद एव । *अलीकत्वासिद्धः । पञ्चकोशादिवत्प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नासच्छशशङ्गतुल्यत्वमिति
५४ द०प०