________________
४२४
दर्पणपरीक्षासहिते भूषणसारेत्वात् । तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते । मन्त्रजन्यमिवार्थस्मरणे । वेदान्तजन्यमिव ब्रह्मज्ञाने। तस्य च ज्ञानस्य यज्ञा. दीनामन्तकरणशुद्धाविव शरीरादिशुद्धावुपयोगः साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च । तदुक्तं वाक्यपदीयेतद्वारमपवर्गस्य वाङ्गलानां चिकित्सितम् ।
दर्पणः मिति । एतच्छास्त्रं विनापि श्रवणादिना तद्वोधेन व्यभिचारादिति भावः ॥ उपायस्योपायान्तरादूषकत्वे सदृष्टान्तां युक्तिमाह-*तथाचेति* ॥ व्याकरणाध्ययनस्य स्फोटज्ञानत्वं न कार्यतावच्छेदकत्वम्, किन्तु तादृशज्ञानगतवैजात्यं तदवच्छिन्नञ्च नोपायान्तरादिति न व्यभिचारः । वैजात्यस्य प्रागनुपस्थितावपि कारणताग्रहो विधिवादोक्तदिशाऽवसेय इति भावः ॥ *मन्त्रजन्यमिवेति ॥ मन्त्रजन्यतावच्छेदकमिवेत्यर्थः । एवमग्रेऽपि। ___ ननु पुरुषार्थसाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-*तस्य चेति ॥ स्फोटज्ञानस्य चेत्यर्थः ॥ श्यज्ञादीनामिति । कामनापरित्यागेन विधीयमानानां तेषामित्यर्थः । यज्ञादीत्यादिना "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुत्युक्तदानादिपरिग्रहः । शरीरादीत्यादिना वागिन्द्रयपरिग्रहः । ___ ननु शरीरादिशुद्धेरप्यपुरुषार्थतया तदुद्देशेनापि प्रवृत्तिर्दुघटेत्यत आह-*साक्षादिति । स्वर्गादीत्यादिनाऽपवर्गपरिग्रहः। साक्षात्स्वर्गहेतुत्वं परम्परयाऽपवर्गहतुत्वं चेत्यर्थः । स्वर्गहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः, परम्परया मोक्षहेतुत्वे च, "द्वे ब्रह्मणी वेदितव्ये” इति स्मृतिः प्रमाणम् । परम्पराघटकं चात्मतत्त्वज्ञानम् । "तमेव विदित्वा” इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतुत्वव्यवच्छेदबोधनादिति बोध्यम् । उक्तार्थे हरिसम्मतिमाह-*तदुक्तमिति । *तत्*--नादात्मकस्फोटप्रतिपादकं शास्त्रम् । *अपवर्गस्येति ॥ मोक्षस्येत्यर्थः । *द्वारमिति ॥ तदुपयोगीत्यर्थः। हेतुगर्भविशेषणमाह-वाङ्मलानामिति* । चिकित्सितमिति। अपनयनाऽर्थकसन्न
परीक्षा यत्र श्रवणादिना तज्ज्ञानम्, तत्र व्यभिचारादिति भावः । *कल्प्यत इति । एतेन व्याकरणाध्ययनस्य स्फोटज्ञानत्वमात्रन्न कार्यतावच्छेदकम्, किन्तु तज्ज्ञाननिष्ठवजात्यमेव । तदवच्छिन्नञ्च नोपायान्तरादिति न व्यभिचार इति भावः । जन्यतावच्छे. कवैजात्यकल्पनायान्दृष्टान्तमाह-*मन्त्रजन्यमिव । मन्त्रजन्यतावच्छेदकमिव । एवं वेदान्तजन्येत्यस्याप्यर्थः । तथा च लघुनोपायेन शब्दानाम्प्रतिपत्तौ शास्त्रस्योपयोग इति फलितम् ।
नन्वेवमपि शास्त्रजन्यस्य स्फोटज्ञानस्य पुरुषार्थासाधनतया तत्सम्पादनस्य वैयर्थ्यमेवेत्यत आह-*तस्य चेति । *यज्ञादीनामिति । एतेन यज्ञादीनां यथा-"तं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, यज्ञेन दानेन तपसाऽनाशकेन" इतिश्रुत्या परम्परया मोक्षसाधनत्वन्तथा शास्त्रजन्यस्यास्य ज्ञानस्यापि परम्परया मोक्षसाधनत्वमिति ध्वनितम् । तत्र हरिसम्मतिमाह-*तदुक्तमिति । तद्वारेति । तत्-व्याक