________________
दर्पणपरीक्षासहिते भूषणसारे -
४२६
आदिपदेन गृह्यते ॥ ६६ ॥
ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात् । वायुसंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वा
दर्पण:
स्यापि मायिकत्वेन नात्यन्तासच्छशशृङ्गादिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः । अवास्तवत्वेऽपि मणिप्रभाप्रतिबिम्बस्य मणिप्राप्ताविवैतस्याऽपि परमात्मनः दर्शनेन उपयोगसम्भवादिति भावः । *आदिपदेनेति । पञ्चकोशादिवदित्यत्रोपात्तेनादिशब्देनेत्यर्थः । न्यायस्तु समासवादे प्रपञ्चितः ॥ ६९ ॥
उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं तादृशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया मूलमवतारयति -*नन्विति । *वर्णजातीनामिति* । वर्णानां तद्वृत्तिकत्वादिजातीनां चेत्यर्थः । न स्यादिति । अयम्भावः - उत्पन्नो नष्टो वा ककार इत्यादिप्रतीतेः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वेन विषयो वाच्यः । तथाच न सम्भवति, द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतेर्भ्रान्तत्वे इष्टापत्तावाह - *वायुसंयोगेति । *कादिप्रतीतीनाम् -- ककारो गकार इत्यादिबुद्धीनाम् । *भ्रमत्वापत्तिरिति । यथाश्रुताऽभिप्रायेणेयम्, पूर्वोक्ताऽन्तिमकल्पे भ्रमत्वाप्रसङ्गात् ॥
न च त्वन्मतेऽपि कत्वादीनां लौकिक विषयत्वानुपपत्तिः । तद्व्यञ्जकश्रोत्रसमवेतसमवायस्य लौकिकसन्निकर्षस्याभावादिति वाच्यम् । तन्मते कत्वादीनां वायुसंयोगवृत्तिधर्मत्वेन कत्वं साक्षात्करोमीति प्रतीत्या स्वसमवेतव्यञ्जकसमवायस्यैव संसर्गतोपगमेन लौकिकविषयत्वाऽनपायात् । तादृशानेकप्रतीतीनां भ्रमत्वकल्पनापेक्षयैतत्कल्पनाया वौचित्यात् । आरोपे सति निमित्तानुसरणमिति न्यायात् । मूलं तु तन्मते इत्थमवतारणीयम् । ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाप्या
परीक्षा
वक्ष्यमाणप्रायत्वादित्यर्थः । न च मायिकत्वेनावास्तवत्वमेवेति वाच्यम् । अवास्तवे - नापि दर्पणस्य सूर्यप्रतिबिम्बो नान्धकारस्थघटादिप्रकाशकवदवास्तवमणिप्रभाप्रतिबिम्बेन वास्तवमणिप्राप्तिवच्च मायिका न । तेन परमात्मप्रकाशस्य सम्भवात् । *आदिना* - पञ्चकोशादिवदित्यत्रोपात्तेनादिना ॥ ६९ ॥
ननूत्पन्नः को विनष्टः क इत्यदिप्रतीत्या कादिवर्णानामनित्यत्वम्परसम्मतम् । फोटोsपि सादृश्यवर्णाभिन्न इति भवदभिमतान्यथासत्वस्याप्यनित्यत्वमेव स्यादिति शङ्कानिराकरणपरतया मूलमवतारयति - नन्वित्यादिना* | *वर्णजातीनाम्-वर्णगतत्वादिजातीनाम् । न स्यादिति । यदि ककारो नित्यस्फोटाभिन्नस्तदा तादृशप्रतीतिर्न स्यादित्यर्थः । एवञ्च तादृशप्रतीत्युत्पत्तेर्निर्विचिकित्सत्वेनानित्यवर्णाभिन्नस्फोटस्याप्यनित्यत्वमेवोचितमिति तात्पर्यार्थः । ननु सा प्रतीतिर्वायुसंयोगनिष्ठजातिप्रकारिका स्फोटविशेष्यिका भ्रमरूपैवेत्यत आह - *वायुसंयोगेति । भ्रमत्वापत्तिरिति । तस्यापि वायुसंयोगनिष्टकत्वादिप्रकारकत्वादिति शेषः । इदमभिधानन्तस्याः प्रतीतेः समवायसम्बन्धावच्छिन्नवायुसंयोगिनिष्टजातिप्रकारकत्वमिति मतेन