________________
खण्डस्फोटनिर्णयः ।
४२७
पत्तिश्चेत्यत आह
कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥ ७० ॥ स्वरदैर्घ्यद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ स्वीकारस्थलमाह - *स्वरदैर्घ्यद्यपीति ॥ आदिनोत्पत्तिविनाशसंग्रहः । उदात्तत्वादि न वर्णनिष्ठम् । तस्यैकत्वाद् नित्यत्वाच्च । तच्च स एवायमितिप्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः । व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् ।
नचोत्पत्तिप्रतीतिर्बाधिका । प्रागसत्वे सति सत्वरूपाया उत्पत्तेवर्णेष्वनुभवविरुद्धत्वात् । श्रत एव वर्णमुच्चारयतीति प्रत्ययो, नतू
दर्पणः
दृतेत्यत आह-*कल्पितानामिति । कल्पितानाम् - समवायसम्बन्धेन तद्वृत्तीनामप्युक्तसम्बन्धेन तत्र कल्पितानाम् वायुसंयोगगतधर्मविशेषाणामुपाधित्वमुदात्तत्वादिप्रकारकप्रतीतिजनकत्वमित्यर्थः । अधिकं त्वग्रे वक्ष्यते । दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह—*उदात्तत्वादीति । आदिनाऽनुदात्तत्वपरिग्रहः । उदात्तत्वानुदात्तत्वयोःपरस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या । वर्णभेदश्च तदनित्यत्वेऽनेकत्वे वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि । नित्यत्वे प्रमाणमाह-*तच्चेति* । नित्यत्वमेकत्वं चेत्यर्थः । *त्यागायोगादिति । अविषयत्वायोगादित्यर्थः । * बाधिकेति । व्यक्तयभेदे प्रतीतिर्बाधिकेत्यर्थः । प्रागसत्वे सतीत्यादि * -स्वाऽधिकरणसमयवं सवत्त्वसम्बन्धावच्छिन्नप्रतियोगिताका भाववत्वावच्छिन्नकालिकविशेषणतासम्बन्धरूपाया इत्यर्थः । द्वितीया दिक्षणसम्बन्धस्य निरुक्तसम्बन्धेन सत्त्वान्न तत्रातिप्रसङ्गः । *अत एवेति । अनुभवविरुद्धत्वादेवेत्यर्थः । *प्रत्ययो* -- ज्ञानम् । परीक्षा
1
*कल्पितानामिति । समवायेन तादृशजातीनां स्फोटावृत्तित्वेऽपि स्वाभिव्यञ्ज-, कसमवायस्य तत्र सत्वेन तस्य स्वाश्रयाभिव्यङ्ग्यत्वसम्बन्धेनोपाधित्वं सम्भवतीति । एवञ्चैतादृशसम्बन्धस्य वायुसंयोगसत्वकाल एव सत्वमित्युत्पत्यादिप्रतीतीनान्नानुपपत्तिः । कत्वादेर्वायुसंयोगगतधर्मस्य श्रोत्रग्राह्यत्वमपि स्वसमवेताभिव्यञ्जकसमवेतत्वसम्बन्धेन बोध्यम् । कल्पितानामुपाधित्वमित्यत्र परसम्मतन्दृष्टान्तमाह - *स्वरेति* । *वर्णेभ्योऽन्यस्येति । तन्मते वर्णा नित्याः, एकत्ववन्तश्च । उदात्तत्वानुदात्तत्वेच विरुद्वधर्मौ तावेकत्र सम्भवत इति । व्यञ्जकध्वनिधर्मवत्तयोस्ताभ्याङ्कल्पिताभ्यां वर्णस्याप्युदात्तत्वादिव्यवहार इति हि तन्मतम्, तदेतदाह -*उदात्तत्वादिति । ** - हीत्ययच । *त्यागायोगादिति । तत्प्रतीत्यविषयत्वकथना योगादित्यर्थः । *बाधिका* । व्यक्त्यभेदप्रतीतेमित्वसाधिका । प्रागसत्वे सतीति । स्वाधिकरणसमयध्वंसादिकरणत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्समयवृत्तित्वरूपाया इत्यर्थः । *अत एव* - अनुभवविरुद्धत्वादेव । * प्रत्ययो - ज्ञानम् ।
*