________________
४२८ दपणपरीक्षासहिते भूषणसारेत्पादयतीतिप्रत्ययो व्यवहारश्च । उच्चरितत्वञ्च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् ।
किञ्च व्यञ्जकध्वनिनिष्ठात्पत्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाऽप्युपपत्तेने साऽतिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम् ।। साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि सोऽयमित्यत्र व्य. क्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते ।
दर्पणः *व्यवहारः*-शब्दप्रयोगः ॥
ननूच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव । तथाच सैव प्रतीतिर्वर्णानित्यत्व साधिकेत्यत आह-*उच्चरितत्वञ्चेति । अभिव्यक्तिविशिष्टत्वं तद्विषयत्वम् । तथाच तादृशप्रत्ययाभिव्यक्तिनिष्ठं वर्णनिरूपितविषयित्वमेव विषयीक्रियते । नतूत्पत्तिनिष्ठ वर्णवृत्तित्वमिति न साऽनित्यत्वसाधिकेति भावः । ननु वर्गाऽभिव्यक्तिजनकः कण्ठताल्वाभिघात एवोच्चारणपदार्थो, न वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम् । किञ्च वर्णाऽनित्यत्ववादिनामुत्पद्यते वर्णो वर्णमुत्पादयतीत्यादिप्रयोगा इष्टा एवेति नाऽनुभवविरोधोऽपीत्यत आह-किञ्चेति। उत्पत्त्यादेरित्यादिना विनष्टो वर्ण इति प्रतीतिसाक्षिकविनाशः परिगृह्यते । परम्परया स्वाश्रयध्वनिव्यङ्गयत्वरूपया नाऽतिरिक्तति वर्णानित्यत्वसाधिकेत्यर्थः । न तु स्फोटोऽतिरिक्तेति तदर्थः। तैः स्फोटाऽनङ्गीकारात्। । नन्वेवं ध्वन्युत्पत्त्यादेस्तादृशप्रतीत्या वर्णेष्ववगाहने भ्रान्तत्वापत्तिरत आह*परम्परया वर्गति । स्वाश्रयसंयोगाऽवगाहिन्या लोहितः स्फटिक इति प्रतीतेर्यथा न भ्रमत्वं, तथाऽस्या अपीति भावः । अवशिष्यत इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः। ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयत्वकल्पने गौरवमत आह-*परन्त्विति*। *अतिरिक्तेति । अधिकेत्यर्थः।
तथाचाऽनेकवर्णतध्वंसादिकल्पनाऽपेक्षया तत्प्रतीतेनियमतस्तादृशसम्बन्धाऽव. गाहित्वकल्पनैव लघीयसीति भावः। यदि वर्णस्थले ध्वनिनैयत्यं स्यात् । स्यादेव त. दोत्पत्तेस्तद्घटितपरम्परासम्बन्धेन वर्णनिष्ठता। तत्रैव च मानाभाव इत्याशङ्कय
परीक्षा *व्यवहारः*-परम्प्रतिशब्देन बोधनम् । ननूचरितत्वमपि प्रयत्नविशेषजन्यत्वमेवेति कथिन्नत्यत्वमत आह-*उच्चरितत्वञ्च । ___ ननु वर्णानित्यत्ववादिनामुत्पत्यादिसत्वमिष्टमेवेति नतु भवद्विरोधी, अत आह•किञ्चेति । *सा*-उत्पन्नककारादिप्रतीतिः । *अतिरिक्तेति । वर्णानित्यत्वसाधिकेत्यर्थोः न तु स्फोटाभावात् परम्परया स्वाश्रयध्वनिव्यङ्ग्यत्वसम्बन्धेन।
ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयकत्वे गौरवमत आह-*परन्त्वि