SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३० दपणपरीक्षासहिते भूषणसारे - दर्पणः दाने तद्वाक्याखण्डार्थाऽननुष्ठानान्नित्यादेर्विलोपापत्तिः । नीवारकरणकक्रियाया अन्यत्वात् । 'क्रिया न प्रतिनिधीयते, द्रव्यं तु प्रतिनिधीयते एव' इति परिभाषाया उच्छे. दश्च । एवं "श्वेतं छागमालभेत" इत्यत्र क्रियायारछागद्रव्येण सम्बन्धः श्रौतो, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात् । श्वेतगुणस्य तु वाक्यीयः सः । तत्सामानाधिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरधिकरणस्य गुणस्य वाऽसम्भवात् । श्वेत गुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धाच्छुतिप्रतिपादितद्रव्यसम्बन्धाद् वाक्यप्रतिपादितपुरः स्थितगुणसम्बन्धस्य दुर्बलत्वात्, श्वेतच्छागाभावेऽन्यगुणकच्छाग आलभ्यते, न तु श्वेतगुणयुक्तो मेषः । श्रुतिबाधापत्तेः । तस्य चाखण्डपक्षे असम्भवात् । एवमेव पदार्थ निबन्धनमीमांसान्यायासम्भवोऽपि । अखण्डस्फोटस्यैव भवन्मते अखडार्थत्वेन केन कस्य बाधो भवेदिति चेत् ? अत्राहुः - अखण्डवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्यायेन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनस्योपपत्तिः । ऋषीणां तत्वार्थावबोधेऽपि तत्वभूतेन वस्तुना व्यवहाराऽसम्भवाद् व्यवहारकालेऽनिर्द्धारिततत्वसदृशैस्तैर्नानाप्रकारैः पदतदर्थानां व्यवहियमाणत्वान्न तद्वचोभिः पदपदार्थानां वास्तवसत्यत्वम् । वाक्यार्थस्यापि तदापेक्षिकमेव । परमार्थदशायां सर्वस्याऽपि व्यावहारिकस्यासत्यत्वादिति । 1 नैयायिकास्तु सर्वमिदं वर्णानां नित्यत्वे सम्भवेत् । तत्रैव तु प्रमाणाभावः । शब्दमात्रस्याकाशसमवायिकारणकत्वात् । भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्द परीक्षा - नाधिकरणपदार्थयोरभेदान्वयः 'पूर्वपदार्थप्रधानोऽव्ययीभाव' इत्यादिव्यवहाराणाङ्का गतिः पदानां तत्रासत्वादितिचेद् ? न । यथा पदेषु कल्पितप्रकृतिप्रत्ययविभागमादाय प्रत्ययानाम्प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति व्यवहारस्तथा वाक्येष्वखण्डेषु । वस्तुतः पदानामसत्वेऽपि अवापोद्वापाभ्याङ्कल्पितपदान्यादायोक्तव्यवहारस्याऽप्यभ्युपपत्तेः । बलाबलाद्यधिकरणेषु श्रुतिलिङ्गादीनां प्रबलदुर्बलभावविचारो | जैमिनीयानामेवोपपाद्यः । यद्यप्यर्षयः-सर्वेऽपि तत्त्ववेत्तारः, तथापि व्यवहारकालेऽनिर्द्धारिततत्वसदृशैस्तैः पदपदार्थे वाक्यार्थविचारः क्रियत इति स्वीकारेण तेषां वचनावलम्बेनैव तदीयानां विचारप्रवृत्तिरिति सर्वमनवद्यम् । नैयायिकास्तु — वर्णानामुत्पत्यादिप्रतीतिवशादनित्यत्वमेव । भेरीदण्डसंयोगादीनान्ध्वनिजनकतावत्कण्ठवायुसंयोगादीनामपि वर्णोत्पादकत्वमेव । एवं वर्णानां तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमेव । तदेवौषधमिति, 'वत्स एवाङ्कुर' इत्यादिप्रत्यभिज्ञाऽपि साजात्यावगाहिन्येव । पदानि वाक्यानि वा नातिरिक्तानि किन्त्वापेक्षा - द्धिविशेषविषयताविशिष्टवर्णघटितान्येव । वर्णानाद्विक्षणावस्थायित्वेन तेषामानुपूव्यपि निर्वक्तुं शक्या । सत्कार्यवादीयसिद्धान्तरीत्या वर्णानामभिव्यक्तिरिति तु न युक्तम् । कण्ठाद्यभिघातात्प्राग्वर्णाभिव्यक्तिसत्वे पदप्रत्यक्षापत्तेः । अभिव्यक्तेः सामग्री साध्यत्वे सत्कार्यवादस्यायुक्तत्वमेव । अनन्तवर्णप्राग्भावध्वंसकल्पनाप्रयुक्तङ्गौरवन्तु प्रामाणिकत्वान्न दोषावहमिति वदन्ति ॥ ७० ॥ इति व्यक्तिस्फोटविवरणम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy