SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । ३९५ समभिव्याहारोऽपि कारणमिति चेत् , तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः । अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वञ्चत्युभयं कल्प्यमिति गौरवं स्यात् । तथाच तादृशसमभिव्याहारः, समभिव्याहृता. वर्णा वेत्यत्र विनिगमनाविरहात् प्रयोगान्तर्गता वर्णा वाचका इति सिद्ध्यतीतिभावः। दर्पणः तबोधे इत्यर्थः ॥ *समभिव्याहार इति* ॥ पूर्वापरीभावापन्नवर्णसमुदाय इत्यर्थः । आवश्यकत्वात्तं विनालकारेणापि बोधाजननेनोक्तसमभिव्याहारस्यापेक्षणादित्यर्थः ॥ *वाचकत्वशक्तिरिति* ॥ आर्थबोधकत्वरूपा शक्तिरित्यर्थः । तथाचाप्राप्तकालता वर्णस्फोटोपयोगित्वान्न स्यादिति भावः। वाचकत्वानभ्युपगमे आदेशिशक्तिवादिमते गौरवं प्रदर्शयति-*अन्यथेति । उक्तसमभिव्याहारस्य वाचकतानभ्युपगमे इत्यर्थः। नन्वेतावता समभिव्याहारस्य वाचकत्वमायातं, न प्रयोगान्तर्गतधातुप्रत्ययघटकानां वर्णानामत आह-*तथाचेति ॥ *विनिगमनाविरहादिति ॥ न च वर्णानां बाहुल्यमेव विनिगमकम् । उक्तानुपूर्व्यास्तदनुगमकत्वात् । किञ्च समभिव्याहारस्य वाचकत्वे तत्घटकनानावर्णानामवच्छेदकतायां गौरवम् । वर्णानां वाचकत्वे तूक्तामुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिगमकत्वमिति भावः। ---- - ननु प्रयोगान्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन वाचकत्वसिद्धौ प्रकृतायांवाचकत्वा. भावसाधनाय भू+ल् इत्यतो भवनक्रियाकर्तृबोधापादनमनुचितम् । तादृशलकारस्य प्रयोगान्तर्गतवर्णास्मारितत्वात्। तथाच नोक्तयुक्तिः समभिव्याहारस्य वाचकत्वसाधिका। नाप्यत्र तीतुन्यायावकाशः। समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकतायां मानाभावेन तेन तदन्यथासिद्धयसम्भवात् । लका ___ परीक्षा अस्यादेरिति शेषः। *समभिव्याहारः* । पूर्वापरीभावापन्नपरिनिष्ठितसमुदायघटकया. वद्वर्णोच्चारणम् । नच 'भूल' इत्यादिभ्यो न बोधापत्तिरसाधुत्वज्ञानस्य प्रतिबन्धक त्वादिति, अपभ्रंशादपि बोधस्य दर्शनेन तस्याप्रतिबन्धकत्वात् । आवश्यकत्वा. दिति । तादृशसमभिव्याहारज्ञानं विना केवललकारेण बोधादर्शनेन समभिन्याहारज्ञानस्य कारणताया आवश्यकत्वादित्यर्थः । *समभिव्याहारस्येति । एवकारेण लकारस्य व्यवच्छेदः। *वाचकत्वशक्ति:-अर्थबोधजनकत्वरूपशक्तिः । सिध्यतीति शेषः। *अन्यथा-उभयोरप्यर्थबोधजनने सहायत्वे । *प्रयोगान्तार्गतवर्णा इति । नचादौ वाक्यस्फोटस्य वाचकत्वमुक्तमिदानीम्प्रयोगान्तर्गतवर्णानान्तत्साध्यते; इत्यप्रकृतमिति वाच्यम् । वक्ष्यमाणवर्णस्फोटोपयोगित्वात्। अत्र प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वम् इति नियमोऽपि साधको दृष्टव्यः । नच प्रत्येकापर्याप्तस्य द्वित्वस्य समुदायपर्याप्तत्वदर्शनेनोक्तनियमो व्यभिचरित इति वाच्यम् । तस्यापि समवायेन प्रत्येकवृत्तित्वाभ्युपगमात् । अत एव स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वरूपव्यासज्यवृत्तित्वस्य सिद्धिः। न च प्रयोगान्तर्गतवर्णानां वाचकत्वे तेषां बहुत्वा. दूगौरवमिति वाच्यम् । आनुपूर्यास्तदनुगमकत्वादिति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy