________________
३९६
दर्पणपरीक्षासहिते भूषणसारे -
अपि च लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्था त्वत्सिद्धान्त सिद्धा न स्यादित्याशयेनाह -*किञ्चेति* ॥ आदेशानां वाचकत्वे च तिङ्त्वेन भावनायां, शानचादिना कर्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु, "कर्त्तरि कृत्" ( पा० सू० ३।४।६७ ) इत्यनुशासनादिति शङ्कम् । स्थान्यर्थेन निराकाङ्क्षतया शानजादौ कर्तरीत्यस्याप्रवृत्तेः । अन्यथा घञादावपि प्रवर्त्तत ॥ ६२ ॥
'देवदत्तः पचमान' इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादित्याशङ्कयाह
तरबाद्यन्ततिङ्क्ष्वस्ति नामता कृत्स्विव स्फुटा ॥ ६३॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्य्यताम् ।
दर्पणः
रस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति-अपिचेति* ॥ *न स्यादिति ॥ स्थानिनो लकारस्योभयत्रैक्यादिति भावः ।
hotoकन तु नेयमापत्तिः । तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात् । धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनं तूभयोः समप्रयत्नकत्वमित्यवधेयम् । *इत्यस्त्विति* ॥ तथाच तदुभयशक्त्यैव कर्त्तृलाभः । कृत्याश्रयस्यैव कर्तृस्वादिति भावः ॥ *अन्यथेति । अनाकानेऽपि शास्त्रप्रवृत्तावित्यर्थः । शक्ततावच्छेदकभेदस्य तत्रापि सत्त्वादिति भावः ॥ ६२३ ॥ *सामानाधिकरण्यानुरोधादिति । शानचः कृतिवाचकत्वे सर्वानुभवसिद्धाभेदापरीक्षा
नच 'तद्धेतु न्यायत' इत्यनुपपन्नम् । समुदायस्य शाब्दबोधजनकत्वे सहायत्वेऽपि पदार्थस्मारकत्वरूपबोधजनकत्वग्रहे सहकारित्वादित्यत आह- *अपि चेति । *कृत्तिङोरिति । अस्य यथासङ्ख्यमन्वयो न स्यात्, स्थानिनो लकारस्यैकत्वेन भेदसिद्धेरिति शेषः । इदम्प्रयोगान्तर्गतवर्णानां वाचकत्वव्यवस्थापनम्प्राचीननैयाविकान् प्रति, नव्यैस्तु तिवादिष्वेव वाचकत्वस्य स्वीकारात् । यत्र धातोः प्रत्ययस्य ar लोपः, तत्रार्थबोधजननोपायस्तुभाभ्यामपि समान इत्यवधेयम् । *इत्यस्विति* । कृत्याश्रयस्यैव कर्त्तृपदार्थत्वादिति भावः । *अन्यथा* - अर्थाकाङ्क्षाभावेऽपि शास्त्रप्रवृत्तौ । *प्रवर्त्तेतेति* तथाच यत्रार्थाकाङ्क्षा तत्रार्थव्यवस्थापकशास्त्रप्रवृत्तिभवतापि वाच्येति भावः ॥ ६२३ ॥
मन्मते साधकान्तरमस्तीत्याह--देवदत्त इत्यादिना * । नचैवं शनशानचो र्लादेशत्वकल्पनमनर्थकम् । तृजादिवत्प्रत्ययान्तरत्वस्यैव स्वीकर्तुमुचितत्वादिति वाच्यम् । धात्वर्थे वर्त्तमानत्वस्यान्वयबोधजननस्य तत्फलत्वात् । *तरबाद्यन्तेति* कृत्स्विव तरबाद्यन्ततिक्षु नामता स्फुटाऽस्तीत्यन्वयः । तिङन्त प्रकृतिकतरबन्तेषु