________________
दर्पणपरीक्षासहिते भूषणसारेति तृतीयाप्रसङ्गश्च । नचाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् । भोजनक्रियाकर्तुरभिधानेऽपि पाकक्रियाकर्तुस्तदभावात् । अनभिहिते भवतीति पर्यदासाश्रयणात् । ____ अत एव 'प्रासादे भास्ते' इत्यत्र प्रसादनक्रियाधिकरणस्याभिधानेऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति । तन्न । सूत्रात्तस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वा इत्येव तदर्थात् । अन्यथा समानकर्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादानं तु आख्याताऽर्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात् प्रधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भवति ।
दर्पणः माह-*अन्यथेति ॥ तस्य क्त्वाप्रत्ययावाच्यत्वे इत्यर्थः । *तृतीयाप्रसङ्गश्चेति ॥ क्त्वाप्रत्ययेन कर्तुरनभिधानादिति भावः ॥
ननु "अनभिहित" इति सूत्रे नजः प्रसज्यप्रतिषेधाऽर्थकतया प्रकृते कर्तुराख्यातेनाभिधानान्न तृतीयापत्तिरित्याशङ्कय निराचष्टे-*न चेति ॥ *अनभिहित इति ॥ . न प्रसज्यप्रतिषेधो, वाक्यभेदादिदोषात् । न चानुपपत्त्या तत्स्वीकारः। वक्ष्यमाणभाष्यविरोधात् । तथाचैकेनाभिधानेप्यन्येनानभिधानात् तृतीयापत्तिरित्यभिप्रायेणाह-*पाकक्रियाकर्तरित्यादि* ।। *तदभावादिति ॥ अभिहितभिन्नत्वादित्यर्थः ॥ *अत एवेति । तत्सूत्रस्थनञः पर्युदासार्थकत्वादेवेत्यर्थः ॥भाष्ये इत्यस्यानभिहितसूत्रस्थे इति शेषः ॥ *तस्येति ॥ समानकर्त्तकत्वस्येत्यर्थः । द्विवचनप्रकृतिबहुव्रीहिणा समानकर्त्तकत्वस्य धात्वर्थविशेषणतैव प्रतीयते, न तु विधीयमानत्व इति भावः ।
तदेव विशदयति-*अन्यथेति । एतत्सूत्रस्य कर्तृशक्तिप्रतिपादकत्वे इत्यर्थः ।। *समानेति । तदुपादानाच्च कर्तृवयस्यैव लाभः । न्यासः स्यादिति । "कर्तरि कृत्" इतिवत् । वस्तुतस्तु न तथा सम्भवति । "कर्तरि कृत्" ( पा० सू० ३।३।६७ ) इति सूत्रेणैव गतार्थत्वाद् , “अव्ययकृतो भावे" इति वार्तिकविरोधाच्चेति भावः । उक्तापत्ति निरस्यति-तृतीयापादनं त्विति । *आख्यातार्थक्रियाया इति ।
परीक्षा ति-*यत्त्विति । *अन्यथा-क्त्वो वाचकत्वाभावे । *न सा-न तृतीयाः । *कर्तुरिति* कर्तत्वविशिष्टस्येत्यर्थः । तदभावादिति*-अभिधानाभावादित्यर्थः । एतेन शक्तिभेदेनाभिधानानभिधानव्यवस्था बोधिता।। ___ *अत एव*-लाघवात्पर्युदासाश्रयणादेव । *प्रासाद इति । प्रकर्षेण सीदत्यस्मिन्नित्यधिकरणे घञ् । *कर्त्तवाचित्वमिति । नचैवम् “पक्ता चैत्र' इत्यत्रेव कर्तुर्विशेष्यत्वापत्तिरिति वाच्यम् , व्युत्पत्तिवैचित्र्येण प्रत्ययवाच्यस्यापि क्त्वाप्रत्ययप्रयोगे तस्य विशेषणतास्वीकार इत्याशयात् । *सूत्रात्-"समानकर्त्तकयोः" इति सूत्रात्। अलाभमुपपादयति-*समानेति-निर्धारणे षष्ठीति भावः । *अन्यथा-निर्धारणषध्यभावे । पूर्वोक्तं परिहरति-*तृतीयेति ।