SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। ४५७ शब्दब्रह्मेति चोच्यते। *पूर्णात्मने-अप्रतिहतेच्छाय । *तदेव-ब्रह्मैव । प्रक्रियांशस्त्वविवेति । तदुक्तं हरिणा-... व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रियां यतः। इति । .... शास्त्रार्थप्रक्रियाः केवलमबुधानां व्युत्पादनायैव । अतो न शास्त्राणि तत्वं वक्तुं पारमन्तीति तदर्थः । तस्मादवियैव शास्त्रेषु प्रक्रियाभेदेनोपवर्ण्यते इत्याह-*शास्त्रेषु प्रक्रियाभेदैरिति । . . . . . . . . . . . . नन्वेवमविद्योपदर्शकशास्त्रप्रक्रियाश्रवणं प्रेक्षावतामुपेक्षणीय स्यादिति चेद् १ अनो. " अनागमविकल्पात्तु स्वयं विद्योपवर्त्तते ॥ इति । अविद्योपमर्दैन आगमविकल्परहिता शास्त्रप्रक्रियाप्रपञ्चशून्याविद्या प्रगटी भ. वंति। एवं चाविद्यैव विद्योपाय इति तदर्थः । यथा कारणे सूक्ष्मरूपेणावस्थित कार्ये स्वसामग्रीसमवधाने सत्याविर्भवति, एवमविद्या विलये संति विद्या 'आविर्भवतीति तदाशयः । *समारम्भ-उत्पत्तिः । . केहरिणा इति श्रीमद्देवीदत्तात्मजरामसेवकत्रिपाठीतनूद्भवाचार्य-कृष्णमित्रकृता . वैयाकरणभूषणव्याख्या समाता ॥१॥
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy