SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७४ दर्पणपरीक्षासहिते भूषणसारे - वल्लक्षणाया दुर्वारत्वात् तात्पर्य्यमेव कल्प्यकोटौ अवशिष्यत इति दिकू ॥ ३६ ॥ इति वैयाकरणभूषणसारे समासशक्ति निरूपणम् ॥ ५ ॥ दर्पणः आह - * दिगिति । तदर्थस्त्वत एवास्वरसात् "लिङ्गदर्शनाच्च" इति सूत्रं हेत्वन्तरोपसङ्ग्राहकं प्रणीतं महर्षिणा । तच्च शबरस्वामिना, "कूटं हि निषादानामेवोपकाकं, नार्याणामेवञ्च तन्निषादानामेव स्वम्” इति भाष्ये व्याख्यातम् । तथाच कूटदक्षिणा लिङ्गात् कर्मधारयत्वे निर्णीते स्थपतिशब्दस्य राजदन्तादित्वात् परनिपातो बोध्यः । सम्बन्धाकांक्षानिवृत्तिरप्यर्थतो निषादानां स्वत्वलाभादुपपद्यते । एवं लाघवादिविचारस्तु कथञ्चित् सम्भवमात्रेणेति सर्वमनवद्यम् ॥ ३६ ॥ इति भूषणसारदर्पणे समासशक्तिनिरूपणम् ॥ ५ ॥ परीक्षा यते । *तात्पर्य्यमेवेति । नन्विदमयुक्तम् । तात्पर्य्यनिर्णायके हर्युक्तेषु संयोगादिषु तात्पर्य्यस्यागणनादिति चेद् ? न । शब्दार्थस्यानवच्छेदे नानाशक्त्योपस्थितेषु नानार्थेषु तात्पर्य्यनिश्चये संयोगादिना हेतुनैकस्मिन्नर्थेऽवधारिते तत्रैव तात्पय्र्यङ्कल्प्यत इत्यर्थात् ॥ ३६ ॥ इति श्रीमद्भूषणसारटीकायां परीक्षायां समासशक्तिनिरूपणम् ॥ ५ ॥
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy