________________
॥ अथ शक्तिनिर्णयः॥ शक्तिप्रसङ्गात् तस्याः स्वरूपमाहइन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा॥३७॥
दर्पणः
अथ शक्तिनिर्णयः। *प्रसङ्गादिति। "समासे खलु भिन्नैव शक्तिः" इति ग्रन्थेन स्मृतायाः शक्तेरनुपेक्षणीयत्वादिति भावः । अगृहीतवृत्तिकात् पदात् पदार्थोपस्थितेः शाब्दबोधस्य चादर्शनात्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धि प्रति तद्धर्मावच्छिन्नार्थनिरूपितवृत्तिविषयकपदज्ञानं करणं, वृत्त्या पदजन्यपदार्थोपस्थितिापारः। तां विना तदनुत्पत्तः, न तु. वृत्तिमत्त्वेन ज्ञातं पदम् । अतीतानागतशब्दानुसन्धानाच्छाब्दबोधाऽनुदयप्रसङ्गात् ।।
वृत्तिश्च शक्तिलक्षणाभेदादू द्विविधा । तत्रार्थे पदसङ्केतः शक्तिः। स चेदं पदमिमिमर्थ बोधयतु, इति पदविशेष्यकेच्छात्मकः । अस्मात् पदादयमर्थो बोध्य इत्याकारकपदार्थविशेष्यकेच्छारूपो वा, विनिगमकाभावात्। तया चार्थबोधकं पदं वाचकमिति व्यवहियते। शास्त्रकारादिसङ्केतः परिभाषा। तया चार्थबोधकं पारिभाषिकमिति व्यवहियते-नदीवृद्धयादिपदम् । लक्षणा तु शक्यसम्बन्धः। तत्कल्पिका तु मुख्यार्थबाधोन्नीततात्पर्यानुपपत्तिः।।
तथा हि-गङ्गायां घोष' इत्यत्र गङ्गापदस्य घोषाऽभाववत् प्रवाहार्थकत्वेन तीरतात्पर्य्यकत्वे उन्नीते तात्पर्यविषयतीरस्मृति विनानुपपद्यमानेन तीरशाब्दबोधेन तत्स्मृतिराक्षिप्यते । सा च गङ्गापदवृत्तिं विनानुपपद्यमाना तज्ज्ञानमाक्षिपति । तद्वि
परीक्षा
अथ शक्तिनिर्णयः। *प्रसङ्गादिति । 'समासे खलु भिन्नैव इति शक्तिनिरूपणप्रसङ्गादित्यर्थः । येषां पदानामर्थनिरूपितवृत्तिग्रहविषयता नास्ति तेभ्यः पदार्थोपस्थितिः शाब्दबोधो वा न जन्यत इति तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति सद्धर्मावच्छिन्ननिरूपितवृत्तिविषयकपदज्ञानं कारणम् । वृत्या पदजन्यपदार्थोपस्थितिापारः, तत्र वृत्तिसत्वेन ज्ञायमानपदस्य करणतेति मतं केषाञ्चित् , तन्न युक्तम् । यत्र पदं न प्रयुक्तं केनचिद्, अपि तु तस्योद्बोधकदर्शनमात्रेण स्मरणमजनिष्ट, तत्र तादृशपदाभावाच्छाब्दबोधो न स्यात्, ताशपदाभावात् । अस्माकन्तु-वृत्तिमत्त्वेन पदज्ञानस्य सत्वाद्भवति शाब्दबोधस्योपपत्तिः। एवं च कारणतावच्छेदकशरीरे वृत्तेः प्रवेशात्तस्या निरूपणमावश्यकम् । सा च वृत्तिवेंधा शक्तिर्लक्षणा च। तत्रादौ स्वमतानुरोधेन शक्तिस्वरूप. माह- इन्द्रियाणामित्यादिना । अर्थस्य चक्षुरादीन्द्रियविषयत्वव्यवहारश्च तज्ज