________________
लकारार्थनिर्णयः।
१४५ विष्यत्' । 'वह्निश्चेत् प्राज्वलिष्यद् ओनमपदयत् इत्यादौ । अत्र वह्नयभिन्नाऽऽश्रयकप्रज्वलनाऽनुकूलव्यापाराभावप्रयुक्त-ओदनाभिन्नाश्रयकविक्लित्यनुकूलव्यापाराभाव इति शाब्दबोधः । एवं रीत्या द्रष्टव्यम् । अयश्च अर्थनिर्देश उपलक्षणम् । अर्थान्तरेऽपि बहुशो विधानदर्शनात् । प्रसिद्धत्वादेष्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तररीत्या चोक्तम् । एतेषां क्रमनियामकश्चानुबन्धक्रम एव । अत एव 'पञ्चमो
दर्पणः कारणभावाऽवगतिरुत्तरत्र तु स्वरूपतो भिन्नयोस्तयोरिति विशेषः । *व्यापाराभाव इति ॥ धात्वर्थयोभविष्यत्त्वप्रदर्शनार्थ परमभावविशेष्यकबोधोत्कीर्तनम् । वह्नयमिनाश्रयकभाविप्रज्वलनजन्यौदनाऽऽश्रयकविक्लित्त्यनुकूलव्यापार इति शाब्दबोधस्तूचितः ॥ *प्रयोज्य इति ॥ व्यापाराभावान्वयिप्रयोज्यत्वोत्कीर्तनं च वह्निप्रज्वलनौदनपाकयोः कार्यकारणभावप्रदर्शनाय । यदभावो यदभावप्रयोज्यः स तज्जन्य इति नियमात् । तथाच प्रकृते ओदनपाकाभावे वह्निप्रज्वलनाभावप्रयोज्यत्वेऽवगते तत्प्रतियोगिनोस्तयोः कार्यकारणभावः सुबोधो भवतीति भावः । एवं भूते ।
परस्परेण स्पृहणयिशोभं न चेदिदं द्वंद्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नतः पत्युः प्रजानां विफलोऽभविष्यत् ।।
यदि देवदत्तो नाऽभविष्यदित्यादि बोध्यमित्याह-*एवं रीत्येति* ॥ *अयञ्चेति॥ "वत्तमाने लट्इत्यादिनोपात्त इत्यर्थः ॥ *अर्थान्तरेऽपि* ॥ अर्हप्रशंसाप्राप्तकालाद्यर्थेऽपीत्यर्थः । एषु-वर्तमानत्वादिषु, शक्तिः-सङ्केतरूपा पदार्थान्तररूपा वा, अन्यत्र-अर्हाद्यर्थे ॥ *मतान्तररीत्या चेति* ॥ बोधकत्वमेव शक्तिरिति वदतामस्माकं तु केषाञ्चित् प्रयोगोपाधित्वमितरेषां शक्यत्वमेवेति भावः ॥ *अनुबन्धक्रम इति* ॥ अकाराद्यनुबन्धक्रम इत्यर्थः । ननु यत्र प्रत्ययस्य तिबादेरदर्शन तत्र द्योतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्यनुपपत्तिः । वाचकस्य द्योतकस्य वा सत्त्वेन वर्त
परीक्षा त्यादिना* । अत्राभावयोः प्रयोज्यप्रयोजकभावप्रदर्शनं प्रतियोगिनोः प्रयोज्यप्रयोजकभावप्रदर्शनाय कारणाभावस्य कार्याभावप्रयोजकत्वात् । *अयञ्चेति* । “वर्तमाने लट्" "परोक्षे लिटा इत्यादिनोक्तः । *अर्थान्तरेऽपि*-अर्हः प्रशंसाप्राप्तकालादिषु । *एष्वेव* । वर्तमानत्वादिष्वेव । *शक्तिः-* सङ्केतरूपा, पदार्थान्तररूपा वा । *मतान्तररीत्येति । नैयायिकमीमांसकरीत्या। एतेन बोधकत्वं शक्तिरिति वदतामस्माकमर्हाद्यर्थविषयेऽपि । यदि शाब्दबोधस्तद्विषयकोऽनुभवसिद्धः, तदा शक्तिरेव; नोचेत्प्रयोगोपाधित्वमिति ध्वनितम् । *अनुबन्धक्रमः*-अकाराद्यनुबन्धक्रमः । *अत एव-*
१९ द० ५०