________________
१४६ दर्पणपरीक्षासहिते भूषणसारेलकार' इत्यनेन मीमांसकैलेंट व्यवह्रियत इति दिक् ॥ २३ ॥ व इति श्रीकौण्डभट्टविरचिते वैयाकरणभूषणसारे
लकारविशेषार्थनिरूपणम् ॥ २॥
दर्पणः मानत्वादिबोधस्योपपादयितुमशक्यत्वादत आह-*दिगिति ॥ तदर्थस्तु पदं वाचकमिति पक्षे प्रकृतिप्रत्ययविभागकल्पनया वाचकत्वं तत्रारोप्य पदशक्तिरेव व्युत्पाद्यते । यत्र प्रत्ययस्य प्रकृतेर्वा अश्रूयमाणत्वं तत्र श्रूयमाणस्यैव तदर्थकत्वं कल्प्यते । तदाहुः"शिष्यमाणं लुप्यमानाऽर्थाभिधायि” इति । अत एव 'व्यतिसे, इरियान्' इत्यादौ प्रत्ययमात्रात्प्रकृत्यर्थविषयको बोध इत्यादिः ॥ २३ ॥
॥ इति भूषणासारदर्पणे लडाद्यर्थनिर्णयः ॥ २ ॥
परीक्षा अकाराद्यनुबन्धक्रमस्य नियामकत्वादेव । दिगिति।
दिगर्थस्तु-यत्र लादेशानामपहारो लोपेनः तत्र तेषामश्रवणाद्वाचकताद्योतकतावैषूभयमपि न सम्भवति, किन्तु श्रूयमाणस्य परिनिष्ठितपदस्य वाक्यस्य वाचकत्वमिति स्वीकार्य्यम् । अत एव 'व्यतिसे' 'इयान्' इत्यस्मात्प्रकृतिलोपे ऽप्यर्थस्य प्रकृत्यर्थसम्ब. न्धस्य बोधः, स्फोटस्यैव सिद्धान्तितत्वादिति ।
इति श्रीमद्भुषणसारटीकायां परीक्षानामिकायां लडाद्यर्थविवरणम् ।