________________
भूमिका ।
अस्य वैयाकरणभूषणसारस्य सारोऽतिगहनविषयतया यथावज्ज्ञातुमशक्यः । अ तोsस्योपरि विद्वद्धौरेयैरनेकव्याख्या आविष्कृताः । सन्ति चास्योपरि - हरिवल्लभ' कृतो, १-दर्पणः। भैरवमिश्रकृता -२ परीक्षा । गोपालदेवकृता-३ कान्तिः । हरिशास्त्रिकृता - ४ काशिका | रुद्रनाथकृता - ५ विवृतिः । कृष्णमित्रकृता - ६ भूषणव्याख्या इत्यादयष्टीकाः । परन्त्वेतासु दर्पणेन समा विस्तृता न्यायमीमांसादिमतस्य स्पष्टाभिप्रायप्रदर्शिका नैकापि, एवं परीक्षासमाप्यन्या नेत्यतोऽस्माभिर्दर्पणपरीक्षाभ्यां सम्वलितो भूषणसार इदानीं विदुषां कृते छात्राणाञ्चोपकृते सम्मु प्राकाश्यं नीतः । पण्डितश्रीकृष्णमित्रकृता - वैयाकरणभूषणव्याख्या, पण्डितश्रीखुद्दीझाकृत — तिर्थ - वादसारश्चास्माभिरन्ते निवेशितौ ।
५
अत्र हरिवल्लभस्य दर्पणकारस्य परिचयस्तावदित्थम् — श्रीवल्लभाभिधानस्य पण्डितवरेण्यस्य कूर्मगिरिनिवासस्य उत्प्रभातीयोपनामकश्रीवल्लभस्यायं सुपुत्रो दर्पणकारः श्री हरिवल्लभो नाम । अस्य समयः १८०० इत्यनुमातुं शक्यते । यतः for १८५८ वैक्रमे निर्मितायां काशिकायां तत्र तत्र स्थलेषु दर्पणकारस्य मतमुपपादितं दरीदृश्यते । अस्य पाण्डित्यं न केवलं व्याकरणशास्त्रे एव, किन्तु न्यायमीमांदिशाष्त्रेष्वपीति दर्पणटीकात एव निर्धारयितुं शक्यते ।
श्रीमन्माननीयमहामहोपाध्याय - पण्डितवर्यस्य अगस्त्यकुलावतंसश्रीमद्भवदेवात्मजभैरवमिश्रस्य परिचयस्तावन्न तिरोहितो विदुषाम् । एतेषां महोदयानां शब्देन्दुशेखरे, परिभाषेन्दुशेखरे, मनोरमाशब्दरत्ने च विस्तृता पाण्डित्यप्रगल्भा टीका प्रथिता वरीवर्ति । एतेषाम्माननीयानां समयः १७८० इति महामहोपाध्यायपण्डिताभ्यङ्क रोपाह्ववासुदेवशास्त्रिसम्पादितसर्वं दर्शनसंग्रहस्थपाणिनीय व्याकरणग्रन्थकारसमयग्रन्थनामसूचकपत्रतोऽवगम्यते । एते सनाढ्यब्राह्मणा इति केचित् । परे तु सरयूपारिण इत्याहुः ।
श्रीमान्यवराः कृष्णमित्राचार्याः सुलतानपुर मण्डलान्तर्गत लक्ष्मणपुरनिवासिनः पण्डितरामसेवक त्रिपाठिमहोदयानां पुत्राः, पं०देवीदत्तशर्मणः पौत्राः वैदिकाः कर्मकाण्डे धर्मशास्त्रे च निष्णाताः, न्यायव्याकरणतन्त्रे च स्वतन्त्राः । एभिः - लघुमञ्जूषोपरि कुञ्जिका, कौमुद्योपरि रत्नार्णवः, प्रौढमनोरमायां कल्पलता, कर्मकाण्डे - प्रेतप्रदीपः, धर्मशास्त्रे तिथिनिर्णयः, शक्तिवादटीका च विनिर्मिताः । एते नागेशभट्ट समकालीना इति प्रामाणिक मुखतः श्रूयते । अथ च अभ्यङ्करोपाह्ववासुदेवशास्त्रिसम्पादितसर्वदर्शनसङ्ग्रहस्थपाणिनीयव्याकरणग्रन्थकार समयग्रन्थनामसूचकपत्रतः १७५० इति समय निर्धार्यते ।
टीकात्रय भूषितभूषणसारस्य सम्पादनकार्यमतिदुष्करमतिकठिनञ्च विलोक्य मदीयमनोरमा शेखराद्यनेकग्रन्थसम्पादनसन्तुष्टचेतसः सुरभारती सेवकगोलोकवासिश्रीहरिदासगुप्तात्मजश्री जयकृष्णदासश्रेष्ठिवर्या भूप्रथितयशसः चौखम्बा संस्कृत पुस्तकालयाध्यक्षा मां सादरं साग्रहञ्च प्रार्तिथपन् । श्रीजयकृष्णदासप्रेमादरवशंवदेन राजकीयप्रधानपाठशालाध्यापकव्याकरणाचार्यमोकाटे इत्युपनामकगणपतिशास्त्रिचरणान्तेवासिना गुरुकृपाम्बुधावितधिया अनेकप्राचीन हस्तलिखित ग्रन्थाननेक प्राचीनमुद्रित - ग्रन्थाञ्च सम्पाद्य तैः सह सटीकं प्रकृतग्रन्थं सम्मेल्य तत्र तत्र त्रुटितग्रन्थं प्रपूर्य प्रमादपतितपाठान् निष्कास्य टीकायाम्प्रतीकचिन्हानि निधाय ग्रन्थादौ प्रकरणसूचि - कां विषयसूचिकां कारिकासङ्ग्रहञ्च विधाय अन्ते कृष्णमित्राचार्यकृतभूषणव्याख्यां
मया
२ ६० प०