________________
भूमिका। पण्डितचीखुद्दीझाशर्मकृततिङर्थवादसारम् , भूषणसारोल्लिखितग्रन्थकृतां विशेषमतान्तराणां च सूचकपत्रम् , भूषणसारस्थकारिकाणामकारादिक्रमिकानुक्रमणिकाम्प्रश्नप. असङ्ग्रहञ्च विधाय यथाशेमुषि समपादि। __अत्र राजकीयप्रधानपाठशालाध्यापकन्यायव्याकरणाचार्यपण्डितसूर्यनारायणशुक्ल. महोदयैर्जटिलफक्किकालापने कृपया बहुतरं साहाय्यम्प्रदत्तम्, इति पण्डितवरेण्या अस्माभिनितरां धन्यवादार्हाः। ___ अत्र संशोधनकायें सुहृदूरपण्डितछबिनाथ त्रिपाठिना बहुतरं साहाय्यं प्रदत्तमिति तेभ्यो मे सादरमनेके धन्यवादाः।
राजकीयप्रधानपाठशालाध्यापकव्याकरणवेदान्ताचार्यनेनेइत्युपाहपण्डितगोपाल. शास्त्रिणः स्वकीयग्रन्थसङ्ग्रहतो ग्रन्थान् प्रदत्तवन्त इति तान् धन्यवादाअलिमर्पयामः।
श्रीपरममाननीयभैरवमिश्रविरचितपरीक्षा टीकां मुद्रापयितुमत्युत्कटेच्छाऽसीदस्माकम् । परन्तु सा झटित्युपलब्धा नाभवत् । चिन्तया तस्या अन्वेषणम्प्राचलत् । विश्वविद्यालयसाहित्याध्यापकपण्डितमधुसूदनमहोदयः परमतपस्विनः पण्डितमहादेवप्रसादस्य सविधे प्रकाशकं नीतवान् । पण्डितमहादेवशास्त्रिणो दर्शनेनास्य महादेव इति नामांन्वर्थकम्मन्यते स्म प्रकाशकः। गोरक्षपुरमण्डलान्तर्गताहिरवलिप्रामनि. वासी साम्प्रतम्वाराणस्यामसितटनिवासी द्विवेदीत्युपनामकः पण्डितमहादेवशास्त्री गोरक्षपुरमण्डलान्तर्गतवांसगावमण्डलान्तर्गतमध्यग्रामवास्तव्यशुक्लकुलावतंसवैयाक रणकेसरिश्रीपण्डितरामचरणात्मजयमुनाप्रसादपुत्रगदाधरप्रसादरक्षितां हस्तलिखितपरीक्षाटीकापुस्तिकामतिश्रमेण तेभ्यः सम्पाद्य श्रेष्ठिवराय जयकृष्णदासमहोदयाय प्रकाशनार्थम्प्रदत्तवानिति पण्डितमान्यवरमहादेवद्विवेदीनाम्महोपकारंशिरसि निधाय तेभ्यः पुनः पुनः धन्यवादाञ्जलयोऽस्माकम् ।। . बडोदामण्डलान्तर्गतडभईनगरस्थलक्ष्मीनारायणपाठशालाध्यापकपण्डितनरहरशास्त्रिपेणसेमहोदयैः स्वकीयं परीक्षाटीकापुस्तकं संशोधनसाहाय्यार्थ प्रेषितमिति तेभ्योऽनेके धन्यवादाः। _ विश्वविद्यालयीयधर्मशास्त्राध्यापकपण्डितविश्वनाथशास्त्रिभिः पण्डितश्रीकृष्ण. मित्रकृतभूषणव्याख्याया हस्तलिखितं पुस्तकम्प्रदत्तमिति तेभ्योऽनेके धन्यवादाः ।
दर्पणपरीक्षाभूषणव्याख्यातिङर्थवादसारसहितस्य वैयाकरणभूषणसारस्य मुद्रणे श्रीहरिदासगुप्तात्मजवृजजीवनदासमहोदयेन सूक्ष्मेक्षिकया अतिश्रमो विहित इति तेषां नाम्मोलेखनमप्यावश्यकम्प्रतिभाति ।
यद्यप्यस्य संस्करणस्य संशोधनं सावधानतयातिश्रमेणातिशुद्धं समभवदिति ना. न्यदस्य तुलामधिरोहतीति वक्तुं शक्यम्, तथापि कदाचिद् दृष्टिदोषेणमतिमान्द्येन मम मुद्रकस्य वा अनानेके प्रमादाः स्युस्तान् गुणैकपक्षपातिनो विद्वांसो हंसक्षीरन्यायेन परिशोध्य। नचात्रातीव कर्तव्यं दृष्टिदोषपरम्मनः । दोषेऽह्यविद्यमानेऽपि तञ्चित्तानाम्प्रकाशते ॥१॥ इत्युक्तिमनुसन्धाय च मामनुगृह्णन्त्विति सम्प्रार्थयते
विदुषामनुचरःसदाशिवशास्त्री जोशी व्याकरणाचार्यः साहित्योपाध्यायश्च ।