________________
भूमिका। ... तस्य एतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वार्तिके प्रदर्शित:-"रक्षोहागमलध्वसन्देहाः प्रयोजनम्" इति एतानि रक्षादिप्रयोजनानि प्रयोजनान्तराणि च महाभाष्ये श्रीपतञ्जलिमहर्षिणा स्पष्टीकृतानि।। ऋग्वेदेऽपि-चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शी सप्त हस्तासो अस्य ।
विधा बद्धो वृषभो रोरवीति महो देवो मयाँ आविवेश ॥ ४५८३ अस्यार्थ:-चत्वारि शृङ्गा:-चत्वारि पदजातानि-नामाख्यातोपसर्गनिपाताः । अयोऽस्य पादा:-त्रयः कालाः । द्वे शीर्षे-सुपस्तिश्च । सप्तहस्तासः-सप्त विभ. क्तयः, त्रिधा बद्धः, त्रिषु स्थानेषु बद्धः, उरसि कण्ठे शिरसि । वृषभो वर्षणात्कामा. नाम् । रोरवीति-रौतिः शब्दकर्मा । महो देवो मत्रों आविवेश । महता देवेन नस्ता. दात्म्यं यथा स्यादित्यध्येयं व्याकरणम् ।
अस्मिन् पाणिनीयव्याकरणविषये नानाविधाः प्रबन्धास्तत्रभवद्भिः पण्डितप्रकाण्डैान्यवरैर्मनीषिभिर्विरचिताः सन्ति । तेषु प्रबन्धेष्वद्य श्रीमन्महामहोपाध्यायको. ण्डभविरचितो वैयाकरणभूषणसारः साम्प्रतम्भवताम्पुरतः प्रस्थाप्यते । . . अत्र धात्वर्थः लकारार्थः, सुबर्थः, नामार्थः, इत्यादयो भाष्यप्रामाण्यं पुरस्कृत्य सम्यक् विचारिताः, येन वैयाकरणानामप्यर्थज्ञानेप्रतिहता प्रतिभा सम्पन्ना स्यात् । अर्थज्ञानाय वैयाकरणानां किमुत, अन्येषामपि न्यायमीमांसादिशास्त्रविदां भूषणसारप्रभृतीनामध्ययनमावश्यकम् । उक्कं हि
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ अत्र हरिरप्याह-इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥ इति ॥ वैयाकरणानाम्मते-शब्दतत्वमेव ब्रह्म । स च शब्दः नित्यः । सोऽपि स्फोट इति शाब्दिकाः शब्दायन्ते । तत्रेमां श्रुति प्रमाणयन्ति ।
"शब्दबह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् यत्परिणामस्त्रिभुवनम् अखिलम् इदं जयति सा वाणी॥ अत्र हरिः-अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥१॥ इति । एवञ्च वैयाकरणभूषणसारादिग्रन्थानाम्पठनेन न केवलं व्याकरणपदार्थानामेव ज्ञानं सम्पद्यतेः किन्तु न्यायमीमांसावेदान्तादिशास्त्राणामपि पदार्थज्ञानस्य लाभोऽनेन सम्भ. वति। अत एवास्य ग्रन्थस्य सर्वत्र राजकीयपरीक्षासु पाठ्यत्वेन निर्धारणं दरीदृश्यते ।
अयं ग्रन्थकर्ता कौण्डभट्टः रङ्गोजिभट्टस्य पुत्रः, भट्टोजिदीक्षितस्य भ्रात्रीय इति, प्रकृतग्रन्थस्थमङ्गलश्लोकेन "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये” इति श्लोकतश्च प्रतीयते । “भट्ठोजिदीक्षितसमयश्च १६०० पर्यन्तं भवितुमर्हति । यतः किल भट्टोजिदीक्षितसहपाठिनो जगन्नाथस्य पण्डितराजस्य समयो निश्चितोऽस्ति । यतःदिल्लीश्वरशहाजहानस्य सविधे तस्य पण्डितराजस्य स्थितिरासीत् । अत्र प्रमाणम्"दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः" इति पण्डितराजकृतश्लोक एव । तस्मात् कौण्डभट्टस्य किञ्चिदधिकः १६२५ समयो भवेत्। ___ एते दाक्षिणात्या इति बहव आहुः । एभिः कृता ग्रन्थाः-१ तर्कप्रदीपः । २ तर्क. रत्नः। ३ न्यायपदार्थदीपिका । ४ बृहद्वैयाकरणभूषणम् । ५ लघुवैयाकरणभूषणसारः । ६ वैयाकरणसिद्धान्तदीपिका । ७ स्फोटवाद इत्यादयः। तत्र पदार्थदीपिका, बृहद्वैः याकरणभूषणम् लघुवैयाकरणभूषणसार इति ग्रन्थत्रयं मुद्रितं साम्प्रतमुपलभ्यते।