________________
11 eft: 11
भूमिका
अथ खलु पूज्ये धराहृदये कर्मभूम्यभिधेऽस्मिन्भरतखण्डे को नाम विलक्षणधिषणो विचक्षणो न विजानाति यत्किल सत्स्वपि प्रमाणान्तरेषु व्यवहारप्रवर्तकेषु प्रत्यक्षादिषु तेषां मूर्धन्यभूतो वेद एव सर्वोत्कर्षेण प्रमाणमिति । तत्रभगवतो वेदस्य लक्षणन्तावत् प्रामाणिकैस्तत्रभवद्भिः पूज्यपादैरस्मन्महर्षिवर्यैश्च - "इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावत्येंते । अनुभूयमानस्य स्त्रक्चन्दनवनितादेरिष्टप्राप्तिहेतुत्वम् औषधसेवादेरनिष्टपरिहारहेतुत्वञ्च प्रत्यक्षतः सिद्धम् । स्वेनानुभविष्यमाणस्य पुरुषान्तरगतस्य च तथात्वमनुमानगम्यम् । एवं तर्हि भाविजन्मगतसुखादिकमपि अनुमानगम्यमिति चेद् ? न । तद्विशेषस्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टप्राप्तिहेतुः, कलञ्जभक्षणवर्जना दिरनिष्टपरिहारहेतुरित्यमुमर्थं वेदव्यतिरेकेणानुमानसहस्त्रेणापि तार्किकशिरोमणिरप्यवगन्तुं शक्नोति ।
अत एवोक्तम् - प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।
एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता ॥ १ ॥ इति । भर्तृहरिणाप्युक्तं वाक्यपदीये -
न चागमाते धर्मस्तर्केण व्यवतिष्ठते ।
- ऋषीणामपि यद् ज्ञानं तदप्यागमहेतुकम् ॥ १ ॥ बृहदारण्यके समामनन्ति - " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति” । एवञ्च सर्वप्रमाणाविषये धर्मादिविषये भगवान् वेद एवैकः प्रभुः, न प्रत्यक्षानुमाने । उक्तं हि श्लोकवार्तिके चोदनासूत्रे -
श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते ।
ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥ इत्यादि ॥
'मन्त्रब्राह्मणात्मकत्वं वेदत्वम्' इति तावददुष्टं वेद्स्य लक्षणम् । तथाहि श्रूयते“मन्त्रब्राह्मणयोर्वेदनामधेयम्” इति । अत्रभवतोऽपौरुषेयस्य परमपूज्यस्य वेदस्यान्यलक्षणम्भवितुं नार्हति । अव्याप्त्यतिव्याप्तिदोषसद्भावात् ।
एवं ह्यस्य भगवतो वेदस्य प्रामाण्यम्बोधकत्वात्स्वत एव सिद्धम् । पौरुषेयवाक्यन्तु बोधकं सदपि पुरुषगतभ्रान्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाणमपेक्ष, न तथा वेदः । तस्य नित्यत्वेन वक्तृदोषशङ्कानुदयात् ।
अत्र जैमिनिः - पौरुषेयं न वा वेदवाक्यं स्यात्पौरुषेयता ।
काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् ॥
समाख्यानं प्रवचनाद्वाक्यत्वं तु पराहतम् ।
तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता ॥ ( जै० न्या० मा० ११२१८ ) ननु भगवता बादरायणेन वेदस्य ब्रह्मकार्यत्वं सूत्रितम् "शास्त्रयोनित्वात्" ( वे० सू० १|१|३ ) ऋग्वेदादिशास्त्रकारणत्वाद् ब्रह्म सर्वज्ञमिति सूत्रार्थः । बाढम् । नैता - वता पौरुषेयत्वम्भवति, मनुष्यनिर्मितत्वाभावात् । ईदृशमपौरुषेयत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवन्नित्यत्वं बादरायणेनैव देवताधिकरणे सूत्रितम् "अत एव च नित्यत्वम्” इति ( वे० सू० १।२।२९ ) । श्रुतिस्मृती चात्र प्रमाणे भवतः । " वाचा विरूपनित्यया” (ऋ० ८।७५।६ ) इति ।