Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
Catalog link: https://jainqq.org/explore/001683/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ -ეხლობლობიოქიმიური პილინგისი ჯიპისი ჭიები. तत्त्वार्थश्लोकवार्तिकम्। संपादक, पं० मनोहरलाल. TenSHOC wwwijainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ गांधीनाथारंग-जैनग्रंथमाला। A s Respi श्रीमद्विद्यानंदिस्वामिविरचितं तत्त्वार्थश्लोकवार्तिकम् । -ON न्यायवाचस्पतिवर्गीयगुरुवर-गोपालदासांतेवासिना जैनग्रंथ-उद्धारककार्यालय-व्यवस्थापकेन पं० मनोहरलाल-न्यायशास्त्रिणा संपादितं संशोधितं च तच्च श्रेष्ठिवर्य-रामचंद्रनाथारंगजी-इत्येतैः मुम्बापुर्या निर्णयसागराख्यमुद्रणयंत्रालये मुद्रयित्वा प्राकाश्यं नीतम् । श्रावण शुक्ला ७, वीरनिर्वाण सं० २४४४ विक्र० सं० १९७५ सन् १९१८ मूल्य रु. ४०-०० Page #3 -------------------------------------------------------------------------- ________________ गांधीनाथारंग-जैनग्रंथमालाद्वारा प्रकाशितग्रंथसूची। १ अष्टसहस्री-आचार्यविद्यानंदिकृत महान् न्यायग्रंथ । मू० २॥) २ श्लोकवार्तिक--आचार्यविद्यानंदिकृत तत्त्वार्थसूत्रकी सबसे बड़ीटीका । मू० ४) रु० लागतमात्र. ३ पार्थाभ्युदय-भगवज्जिनसेनाचार्यकृत, मेघदूतकाव्यकी समस्यापूर्तिरूप, सटीक। मू०॥) ४ परीक्षामुख-(प्रमेयरत्नमालाटीका) माणिक्यनंदि भाचार्यकृत मूल तथा अनंतवीर्यकृत टीका। मू०॥) ५ विश्वलोचनकोश-आचार्य श्रीधरसेनकृत मूल तथा हिंदी अर्थ सहित । मू० १८) ६ गोमटसार जीवकांड-मूल संस्कृत छाया उत्थानिकासहित । मू० ।-) ७ जैनेंद्रप्रक्रिया-(पूर्वार्ध ) पं० वंशीधरजी-न्यायतीर्थकृत । मू० १॥) मिलनेके पते१ मैनेजर-गांधीनाथारंगजैनग्रंथालय,.. पो० मांट बंबई. ! २ मैनेजर-जैनग्रंथउद्धार मन्दिरे ॥२२॥ खत्तरगली हो.. ॥ पो० गिरगांव. २४ ॥ Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 23, Kolbhat Lane Bombay. Published by Ramchandra Natharangji, Gandhi, 2nd floor, over Central Bank, Post Mandvi, Bombay. Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना । ॐ प्रियविज्ञपाठकाः ! अद्याहं श्रीजिनेंद्रदेवकृपया गुरुकृपया च भवत्संमुखमीदृशं ग्रंथरत्नमुपस्थापयामि यद्द्वादशांगश्रुतस्य सारभूतमस्ति । एतन्मूलमात्रं तत्त्वार्थसूत्रनाम्ना प्रथितं तजैनदर्शनापरनाम्नाप्युच्यते । एतन्मूलग्रंथस्य रचयिता भगवानुमाखाम्याचार्यः सत्तपोयोगात् प्राप्तचारणाः पद्मनंधाद्यपराभिधानो बभूव । श्वेताम्बरसंप्रदायेऽस्याचार्यस्य उमाखातिरिति ख्यातिः, अनेन ज्ञायतेऽस्याचार्यस्य सर्वत्र जैनसंप्रदाये मान्यतास्ति । ख्रिस्त शतकात्पूर्वं महावीरशतकं षट्शतवार्षिकमिति प्रसिद्धिस्तत्प्रमाणत्वेन गृहीतं चेदितोऽष्टादशशतवर्षतः पूर्वमयमुमाखामी बभूवेति निश्चीयते । एकदा स जैनसिद्धांत विषयिणीं खमनोगतां कांचिच्छंकामपाकर्तुं श्रीमदर्हत्परमेश्वरश्रीमंधरतीर्थकरचरणाराधनार्थं चारणर्द्धिबलादाकाशमार्गेण विदेहक्षेत्रं गतवान्, गमनसंभ्रमात्तस्य हस्तन्यस्ता मयूरपिच्छिका कापि निःसृत्याधः पतिता, तदानीमाकाशे विहरतः कस्यचिद्भृद्धस्य पिच्छं गृहीत्वा स्वकार्य विधायाग्रे गतवानिति तेन गृद्धपिच्छ इत्यपरं नाम संप्राप्तमिति कथा वृद्धपरंपरया श्रूयतेऽस्माभिः । एतद्विषयेऽन्यत्राप्युक्तं । “तत्त्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितं । वंदे गणीन्द्रसंजातमुमाखामि मुनीश्वरं " इति । अयं भगवानुमास्वामी स्वजन्मना कां भूमिमलंचकारेति नास्माभिर्ज्ञायते साधनाभावात् । एतद्वंथरचने निमित्तमुभयप्रकारेण दर्शितमन्यत्र तदिह समुद्धियते । तथाहि - कश्चित् शिवकुमारमहाराजनामा निकटभव्यः चतुर्गतिसंसारदुःखभयभीतः प्रज्ञावान् खहितमुपलिप्सुः समुत्पन्नपरमभेदविज्ञानप्रकाशातिशयसामर्थ्येन समस्तदुर्नयैकांत - तदुराग्रहः अत्यंतमध्यस्थो भूत्वा विविक्ते परमरम्ये भव्य सत्त्वविश्रामास्पदे क्वचिदाश्रमपदे मुनिप - मध्ये सन्नि' ``मूर्तमिव मोक्षमार्गमवाग्विसर्ग वपुषा निरूपयंतं युक्त्यागमकुशलं परहितप्रतिपाद अनया श्रीश पूर्वोक्तनिर्ग्रथाचार्यवर्यमुपसद्य सविनयं परिपृच्छतिस्म । भगवन् ! किं नु खलु अन्यश्चापिति ? स आह मोक्ष इति । स एव पुनः प्रत्याह - सर्ववाद्यभिमतस्य कृत्स्नकर्मविप्रमो - मोक्षस्य कः प्राप्युपायः १ स आह सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति । एतत्सूख्यनप्रायेणैवास्य ग्रंथस्य रचना इत्येकं निमित्तं । अथवा आरातीयपुरुषशक्त्यपेक्षत्वात् सिद्धांत - ‘अहिष्करणार्थं मोक्षकारणनिर्देश संबंधेन शास्त्रानुपूर्वी रचयितुमन्विच्छन्निदं कृतवान्नात्र शिष्याचार्य - रे' विवक्षितः, किंतु संसारसागर निमग्नानेकप्राणिगणाभ्युज्जिहीर्षी प्रत्यागूर्णान्तरेण मोक्षमार्गोपदेशं तोपदेशो दुष्प्राप इति निश्चित्य स्वयं मोक्षमार्ग व्याचिख्यासुरिदं ग्रंथसदर्भ कृतवानिति द्वितीयं निमित्तम् । तत्त्वार्थसूत्रनाम्नाख्यातस्यैतस्य जैनदर्शनस्योपरि बह्व्यष्टीकाः श्रीमदनेकाचार्यवर्यैनिर्मिताः परं ताखिनीं या उपलभ्यंते तासां नामोल्लेखः क्रियते । सर्वार्थसिद्धिनाम्नी वृत्तिः श्रीमत्पूज्यपादखामिविरता १, तवार्थवार्तिकालंकारः श्रीमदकलंकदेवविरचितः षोडशसहस्रपरिमितः २, तच्चार्थश्लोकगर्तिकालंकारः श्रीमद्विद्यानं दिखा मिविरचितः विंशतिसहस्रपरिमितः ३, गंधहस्तिमहाभाष्यं श्रीमत्सस्वामिविरचितं चतुरशीतिसहस्रपरिमितं ४, श्रुतसागरीटीका श्रीश्रुतसागरसूरिविरचिता ५, इति । तासु टीका श्रुतसागरी नाम्नी सुबोधिनीटीका मुद्रितैव न, परं लिखिता तु यत्र तत्र सरखतीभवने ते । गंधहस्तिमहाभाष्यं तु लुप्तप्रायमेवेति तदवलोकनस्यापि निराशैव । केवलमधुनातनसमये सर्वो बृहट्टीका तत्त्वार्थश्लोकवार्तिकनाम्नी एव मुमुक्षुभाग्योदयेन श्रीश्रेष्ठिवर्यनाथारंगगांधी - ग्रंथमालातः भाकाश्यपदवीं नीता । अस्यामेव महाभाष्यदर्शनाभिलाषिणः सहृदया हृदयं संतोषयं तु । एतत्कर्तुः विद्यानंदिखामिनः पात्रकेसरीत्यपराख्यस्य परिचय :- “ जीयान्निरस्त निःशेषसर्वथैकांतशासनं । सदा श्रीवर्द्धमानस्य विद्यानंदस्य शासनं ||" इति पत्रपरीक्षायाम् । विद्यानंदिन वाप Page #5 -------------------------------------------------------------------------- ________________ 2 नाम पात्रकेसरी अस्तीति सम्यक्त्वप्रकाशस्थितोल्लेखेन ज्ञातव्यं । यथा - " तथा लोकवार्तिके विद्यानंद्यपरनामपात्रकेसरिस्वामिना यदुक्तं तच्च लिख्यते - तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्यत्र सूत्रे ननु सम्यग्दर्श नेत्यादि । अनेनोल्लेखेन विद्यानंदिन एवं पात्रकेसरित्वं सूचितं तेन द्वितीयः पात्रकेसरीतिभ्रामकचितानां भ्रमो निरस्तः । वादिचंद्रसूरिणा स्वकीयज्ञानसूर्योदयनाट के चतुर्थे अष्टशतीनामक स्त्रीपात्रात् पुरुषं प्रति ईदृग्वक्तुं प्रेरणा कृता - "देव ! ततोऽहमुत्तालितहृदया श्रीमत्पात्र केस रिमुखकमलं गता तेन साक्षात्कृतसकलस्याद्वादाभिप्रायेण लालिता पालिताष्टसहस्रीतया पुष्टिं नीता, देव ! स यदि नापालयिष्यत्तदा कथं त्वामद्राक्षं ?" अस्यायमभिप्रायः - अकलंकदेवविरचितः अष्टशतीनामक ग्रंथो वर्तते तमवलोक्य जैनेतरे विद्वांसः क्रुद्धाः संजाताः तस्योपर्याक्रमितुमारब्धं तैः । एतद्दृष्ट्वा पात्रकेसरी - खामिना अष्टसहस्रीटीकां विरच्य तदभिप्रायः संपुष्टिं नीतः । अनेन विज्ञायते यदष्टसहस्रीप्रणेता विद्यानंद्येव पात्रकेसरी नान्यः । केषांचिदयं निश्चयः यदयं विद्यानंदिखामी नंदिसंघीयाचार्य आसीत् । अनेन कस्मात्सकाशाद्दीक्षा गृहीता कश्चास्य गुरुरिति न किमपि विज्ञायते । स्वीयग्रंथेष्वप्यनेन गुरुपरंपरायाः परिचयो न दत्तः । अस्य कथा भट्टारकप्रभाचंद्रेण ब्रह्मनेमिदत्तेन च खकीयकथाकोशेषु पात्रके - सरिणः कथा निबद्धा, तेन किंचिदेव प्रतीतिर्भवति । आराधनाकथाकोशे यथा - 1 अत्रैव भरतक्षेत्रे पवित्रे श्रीजिनेशिनाम् । विचित्रैः पंचकल्याणैः सर्वभव्यप्रशर्मदैः ॥ १७ ॥ निवासे सारसम्पत्तेर्देशे श्रीमगधाभिधे । अहिच्छत्रे जगचित्रे नागरैर्नगरे वरे ॥ १८ ॥ पुण्यादवनिपालाख्यो राजा राजकलान्वितः । प्राज्यं राज्यं करोत्युचैर्विप्रैः पञ्चशतैर्वृतः ॥ १९ ॥ विप्रास्ते वेदवेदाङ्गपारगाः कुलगर्विताः । कृत्वा सन्ध्याद्वये सन्ध्यावन्दनां च निरन्तरम् ॥ २० / विनोदेन जगत्पूज्यश्रीमत्पार्श्वजिनालये । दृष्ट्वा पार्श्वजिनं पूतं प्रवर्तन्ते स्वकर्मसु ॥ २ ॥ एकदा ते तथा कृत्वा सन्ध्यायां वन्दनां द्विजाः । जिनं द्रष्टुं समायाताः कौतुकाज्जि मन्दिरे ॥२२॥ देवागमामिधं स्तोत्रं पठन्तं मुनिसत्तमम् । चारित्रभूषणं तत्र श्रीमत्पार्श्वजिनाग्रतः ॥ २३॥ दृष्ट्वा सम्पृष्टवानित्थं तन्मुख्यः पात्रकेसरी | खामिन्निमं स्तवं पूतं बुध्यसे ? स मुनिस्ततः ॥ २४ ॥ नाहं बुध्येऽर्थतश्चेति जगौ प्राह स द्विजः । पुनः सम्पठ्यते स्तोत्रं भो मुने यतिसत्तम ॥ २५ ॥ ततस्तेन मुनीन्द्रेण देवागमनसंस्तवः । पठितः पदविश्रामैः सतां चेतोनुरञ्जनैः ॥ २६ ॥ शब्दतश्चैक संस्थत्वात्तदासौ पात्रकेसरी । हेलया मानसे कृत्वा देवागमनसंस्तवम् ॥ २७ ॥ तदर्थं चिन्तयामास खचित्ते चतुरोत्तमः । ततो दर्शनमोहस्य क्षयोपशमलब्धितः ॥ २८ ॥ यदुक्तं श्रीजिनेन्द्रस्य शासने वस्तुलक्षणम् । जीवाजीवादिकं सत्यं तदेवात्र त्रिविष्टपे ॥ नान्यथेति समुत्पन्न जैनतत्त्वार्थसदुचिः । गत्वा गृहे पुनर्धीमान् स विप्रो वस्तुलक्षणम् ॥ चित्ते सञ्चिन्तनं कुर्वन्रात्रौ विप्रकुलाग्रणीः । जीवाजीवादिकं वस्तु प्रमेयं जिनशासने ॥ तत्त्वज्ञानं प्रमाणं च प्रोक्तं तत्त्वार्थवेदिभिः । लक्षणं नानुमानस्य भाषितं तच्च कीदृशम् ॥ ३२ ॥ श्रीमज्जिनमतेऽस्तीति सन्देहव्यग्रमानसः । यावत्सन्तिष्ठते तावन्निजासनसुकम्पनात् ॥ ३३ ॥ पद्मावत्या महादेव्या तत्रागत्य ससम्भ्रमम् । स द्विजो भणितस्तूर्ण भो धीमन्पात्रकेसरिन् ॥ ३४ ॥ प्रातः श्रीपार्श्वनाथस्य दर्शनादेव निश्चयः । लक्षणे चानुमानस्य सम्भविष्यति ते तराम् ॥ ३५ ॥ इत्युक्त्वा संलिखित्वेति पार्श्वेशफणमण्डपे । सा गता ह्यनुमानस्य लक्षणं श्लोकमुत्तमम् ॥ ३६ ॥ “अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥" देवतादर्शनादेव सञ्जाता तस्य शर्मदा । श्रीमज्जैनमते श्रद्धा भवभ्रमणनाशिनी ॥ ३७ ॥ हि २९ ॥ ३० ॥ ३१ ॥ द f Page #6 -------------------------------------------------------------------------- ________________ प्रभाते परमानन्दात्पार्श्वनाथं प्रपश्यतः । फणाटोपेऽनुमानस्य लक्षणश्लोकदर्शनात् ॥ ३८ ॥ जातस्तल्लक्षणोत्कृष्टनिश्चयश्च द्विजन्मनः । भास्करस्योदये जाते न तिष्ठति तमो यथा ॥ ३९ ॥ ततोऽसौ ब्राह्मणाधीशः पवित्रः पात्रकेसरी । प्रहर्षाञ्चितसर्वाङ्गो जिनधर्ममहारुचिः ॥ ४० ॥ देवोर्हन्नेव निर्दोषः संसाराम्भोधितारकः । अयमेव महाधर्मो लोकद्वयसुखप्रदः ॥ ४१ ॥ एवं दर्शनमोहस्य क्षयोपशमयोगतः । अभूदुत्पन्नसम्यक्त्वरत्नरञ्जितमानसः॥ ४२ ॥ तथानिशं जिनेन्द्रोक्तं तत्त्वं त्रैलोक्यपूजितम् । पुनःपुनर्महाप्रीत्या भावयन्पात्रकेसरी ।। ४३ ॥ तैर्द्विजैर्भणितश्चैवं किं मीमांसादिकं त्वया । त्यक्त्वा संस्मर्यते जैनमतं नित्यमहो हृदि ॥ १४ ॥ तच्छ्रुत्वा भणितास्तेन ते विप्रा वेदगर्विताः । अहो द्विजा जिनेन्द्राणां मतं सर्वमतोत्तमम् ॥ ४५ ॥ अतः कारणतः कष्टं त्यक्त्वा मिथ्याकुमार्गकम् । भवद्भिश्चापि विद्वद्भिः संग्राह्यं जैनशासनम् ॥४६॥ ततो राजादिसान्निध्ये पात्रकेसरिणा मुदा । नित्वा सर्वद्विजांस्तांश्च विवादेन खलीलया ॥ ४७ ॥ समर्थ्य शासनं जैनं त्रैलोक्यप्राणिशर्मदम् । खसम्यक्त्वगुणं सारं सम्प्रकाश्य पुनः पुनः ॥ ४८॥ कृतोऽन्यमतविध्वंसो जिनेन्द्रगुणसंस्तुतिः । संस्तवः परमानन्दात्समस्तसुखदायकः ॥ ४९ ॥ पात्रकेसरिणं दृष्ट्वा ततः सर्वगुणाकरम् । सारपण्डितसन्दोहसमर्चितपदद्वयम् ।। ५०॥ ते सर्वेऽवनिपालाद्यास्त्यक्त्वा मिथ्यामतं द्रुतम् । भूत्वा जैनमतेऽत्यन्तं संसक्ताः शुद्धमानसाः ॥५१॥ गृहीत्वा सारसम्यक्त्वं संसाराम्भोधितारणम् । प्राप्य श्रीजैनसद्धर्म वर्मोक्षसुखकारणम् ॥ ५२ ॥ त्वं भो द्विजोत्तम श्रीमजैनधर्मे विचक्षणः । त्वमेव श्रीजिनेन्द्रोक्तसारतत्त्वप्रवीक्षणः ॥ ५३ ॥ त्वं हि श्रीजिनपादाजसेवनैकमधुव्रतः । इत्युच्चैः स्तवनायैस्तं पूजयन्ति म भक्तितः ॥ ५४ ॥ इत्थं श्रीशिवशर्मदं शुचितरं सम्यक्त्वमुद्योतनं कृत्वा प्राप नरेन्द्रपूजनपदं पात्रादिकः केसरी । अन्यश्चापि जिनेन्द्रशासनरतः सद्दर्शनोद्योतनं भक्त्या यस्तु करोति निर्मलयशाः स स्वर्गमोक्षं भजेत् ५५ अनया कथया विद्यानंदिखामिविषये केवलमित्येव प्रतीयते यत्स मगधदेशराज्यांतर्गताहिच्छत्राख्यनगरनिवासी ब्राह्मणकुलोत्पन्नश्च, जैनधर्मधारणात्पूर्व स नैयायिकमीमांसकादिमतानुयाय्यापि इति । 'अहिच्छत्र' इत्यस्यापरनामाधुनापि 'अहिक्षितिपार्श्वनाथ' इत्याख्यया प्रसिद्धमासीत् । एनं रामनगरेति नाम्नापि व्यवहरंति । अयं च यू. पी. प्रांतस्थ-वरेलीमंडलांतर्गतः, एनं जैनाः खीयपूज्यक्षेत्रमामनंति । जैनाभिमतभगवत्पार्श्वनाथतीर्थकरस्य केवलज्ञानोत्पत्तिरत्रैव बभूव, तदुपरि पूर्वजन्मवैरिणा कमठेनेहैव महानुपसर्गः कृतः, तदानींतनसमये वरणेंद्रनामकाहिना नागकुमारदेवपतिना छत्रखरूपीभूय भगवतो रक्षा कृता, तत्रेदानीमपि पार्श्वनाथजिनालयो विद्यते तेनैव पूवोक्ततीर्थस्य ख्यातिरिति । पूर्वोक्तकथायां विद्यानंदिखामी उत्तरभारतनिवासीति सूचितं, परं कतिपयकथानकरित्यपि सूच्यते यत्स दक्षिणकर्नाटकनिबासीति । तथाहि-कर्णाटकदेशस्थशिमोगाप्रांतांतर्वतिहुमचाग्रामे प्राप्तशिलालेख इत्थं"नजराजपट्टणमहीपतिनंजपरिषदि श्रीमद्विद्यानंदिखामिना नंदनमल्लिभट्टाभिधो विदग्धो विहितानवद्यविवादेन विजिग्ये" इत्यादिना शिलालेखेन कर्णाटकनिवासित्वं सूचितं, कथाकोशानुसारेण तु मगधदेशीयत्वं दर्शितं, अनयोर्विषये इत्येव संभाव्यते यद्विद्यामंदिवामिनो जन्मभूमिर्मगधदेशः स्यात् , पश्चात् पर्यटनं कृत्वा कर्णाटकदेशमलंकृत्य तत्रैव दिग्विजयप्राप्तिः कृता स्यात्तेन । विरोधिप्रमाणाभावान्न किंचिदसंभवः । ___ अस्य समयनिर्णयस्त्वित्थं-विद्यानंदिस्वामिना खनिर्मिताष्टसहस्रीग्रंथे भर्तृहरिरचितवाक्यपदीयग्रंथस्य निम्नलिखितश्लोक उद्धृतः ॥ "न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्व शब्दे प्रतिष्ठितम् ॥” इति । भर्तृहरिसमयः प्रो० पाठकादिविद्वद्भिः ६५० ऐशवीयनिकटवर्तीति निश्चितं, Page #7 -------------------------------------------------------------------------- ________________ चीनदेशस्थो हुएनसंगः ६२९ ऐशवीयसंवत्सरे भारतभ्रमणार्थ समागतः स्थितश्च ६४५ पर्यतं, तेन खप्रवासवर्णने लिखितं-"अधुनातनसमये व्याकरणशास्त्रपांडित्यविषये भर्तृहरिरेव प्रसिद्धः" । अनेन ज्ञायते यद्विद्यानंदी ६५० ऐशवीयसंवत्सरात्पश्चात् प्रादुर्बभूव । अष्टसहस्रीमध्ये प्रसिद्धवेदांतविशारदकुमारिलभट्टस्य "भावना यदी" त्यादिपद्ययोर्भट्टशब्देनोल्लेखः कृतः, तत्सिद्धांतानां च प्रतिस्थानं खंडनं कृतं । कुमारिलभट्टस्य समयः ७६० ऐशवीयपर्यंत निश्चितः, अतोपि विद्यानंदी तत्समकालीनस्तदनु. गश्च प्रादुर्भूतः स्यात् । चिद्विलासकृत-शंकरदिग्विजयात् प्रतीयते यन्मंडनमिश्रस्यापरनाम सुरेश्वर आसीत् , सुरेश्वरश्च शंकराचार्यस्य शिष्य इति सुप्रसिद्धमेव । आद्यशंकराचार्यसमयः ७५०-८३८ ऐशवीयपर्यंत निश्चितः अत एव मंडनमिश्रस्यापि एतन्निकटवर्ती समयो मंतव्यः । मंडनमिश्रनिर्मितं बृहदारण्यकोपनिषद्वार्तिकं नाम ग्रंथो वर्तते, एतत्तृतीयाध्यायश्लोकानां स्वीयाष्टसहस्रीनाम्नि ग्रंथे उद्धार कृत्वा खंडनं कृतं । तथाहि-"यदुक्तं बृहदारण्यकवार्तिके-"आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितं । ब्रह्मापि स तथैवात्मा स द्वितीयतयेक्ष्यते ॥ आत्मा ब्रह्मेति पारोक्ष्यः स द्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितं ॥ त्वत्पक्षे बहुकल्प्यं स्यात्सर्वं ज्ञानविरोधि च । कल्प्या विद्यैव मत्पक्षे सा चानुभवसंश्रये ॥” इति कश्चित् , सोपि न प्रेक्षावान् । "ब्रह्म विद्यावदिष्टं चेन्ननु दोषो महानयं । निरवद्ये च विद्याया आनर्थक्यं प्रसज्यते" । अनेन विद्यानंदिसमयोपि मंडनमिश्रसमयसमवर्ती ८३८ ऐशवीयोनुमंतव्यः ॥ कालिकातापत्तनस्थराजकीयसंस्कृतमहाविद्यालयप्रबंधकर्तृभिः (प्रिन्सिपाल) महामहोपाध्याय एम्. ए. पदवीप्रतिष्ठितैः विद्वद्वरैः श्रीसतीशचंद्रविद्याभूषणमहोदयैः खनिर्मित इंडियन् मेडिकल लॉजिक' नाम्नि ग्रंथेपि विद्यानंदिखामिसमयः ८०० ऐशवीयनिकटवर्ती एव निश्चितः । इत्याद्यन्यैरपि निखिलप्रमाणविद्यानंदिसमयः पूर्वोदितो अष्टमशताब्द्याः शेषार्ध नवम्या प्रारंभ इत्युभयवर्ती एव सिद्धः । एतत्स्वामिना दार्शनिकेन नैयायिकेन विदुषा पूर्व तु अष्टसहस्रीनामक आप्तमीमांसालंकारो निर्मितः, तदनु एष श्लोकवार्तिकालंकारः, तृतीयः युक्त्यनुशासनटीकेति प्रथितः, चतुर्थः आप्तपरीक्षानामक इति, एतेभ्योन्येपि पत्रपरीक्षा-प्रमाणपरीक्षा-प्रमाणनिर्णयादिबहवो ग्रंथा अनेनैव प्राज्ञवरेण खामिना निर्मिताः ॥ एतद्रंथसंशोधनकार्य पुस्तकमेकमतीवप्राचीनं जयपुरनगरालब्धं, द्वितीयं मुम्बईपट्टनस्थं किंचिदशुद्धप्रायं । तयोः साहाय्येन स्वज्ञानावरणक्षयोपशमानुसारेण च संशोधितं । किंचिद्भागस्य संशोधने पं० खूबचंद्रशास्त्रिणा साहाय्यं कृतमिति तं शतशो धन्यवादं ददे । प्रस्तावना विषये श्रीनाथूराम-प्रेमीतः सहायता प्राप्तातस्तमपि हार्दिकधन्यवादेन प्रीणये । तदनु ददे च धन्यवादं कोटिशः श्रीमन्नाथारंगजीश्रेष्ठी इत्येतेषां कुटुम्बिनः श्रीरामचंद्रसूरचंद्रवेष्ठिवर्यान् यत्साहाय्येनायं महान् ग्रंथो मुद्रितो मुमुक्षुभव्यजीवानामवलोकनपथं प्राप्तः । तदनु च महामहोपाध्यायकालिकाताराजकीयपरीक्षालयाधिकारिणश्च कोटिशो धन्यवादमभिभाषये येषां साहाय्येनायं ग्रंथराजः न्यायतीर्थपरीक्षायां पठनपाठनपदवीं प्राप्तः । तत्पश्चान्मद्विद्यागुरून् स्वर्गीयगोपालदास इत्येतान् स्मारं स्मारं हृदये निदधे येषां कृपामारेणाहमेतद्रंथसंशोधने क्षमो जातः । अंते चेत्येवं प्रार्थये सज्जनपाठकेभ्यः सुमेधोभ्यो यत्प्रमादात् दृष्टिदोपादन्यैश्च बहुभिः कारणैरशुद्धयो जाताश्चेत्तर्हि ते सुमेधसो मामल्पबुद्धिं विज्ञाय कृपां विधाय क्षमिष्यंतीति । कृतं पल्लवितेन विज्ञेषु । जैनग्रंथउद्धारककार्यालय .) विदुषामनुचरो खत्तरगली हौदावाड़ी पो० गिरगांव-बंबई ता० १४१८१८ ई. मनोहरलालः। Page #8 -------------------------------------------------------------------------- ________________ अथ तत्त्वार्थश्लोकवार्तिकस्य विषयसूची। विषयः पृ. सं. विषयः पृ. सं. प्रथमोऽध्यायः॥१॥ औपशमिकादीनां भेदप्रदर्शनं ... ... ... ३१४ जीवस्य लक्षणनिरूपणं ... मंगलपूर्विका ग्रंथकरणप्रतिज्ञा, ग्रंथे मंगलकरणस्य पराभिमत. ... ... ... ३१८ प्रयोजनानि निरस्य खामिमतप्रयोजननिरूपणम् १ लक्षणभूतोपयोगस्य भेदं निरूप्य जीवस्य भेदप्रदर्शनं ३२२ | संसारिजीवस्य भेदकथनं ... ... ... ... ३२३ प्रथमसूत्रस्यानुपपन्नत्वमाशंक्य तदुपपत्तिबीजप्रदर्शनं इद्रियमेदनिरूपणं तन्नामनिर्देशश्च ... आगमस्याप्तमू-खसिद्धिः ... ... ... ... ८ | इद्रियविषयनिरूपणं तत्स्वामिकथनं च ... पराभिमताप्तवनिरासः ... ... ३२८ ... ... ... १९ पूर्वशरीरं परित्यज्योत्तरशरीरामिमुखस्य जीवस्यांतराले चार्वाकमतं निरस्यात्मसिद्धिः __ कार्माणशरीरयोगात् कर्मग्रहणसिद्धिः ... ... ३३१ मोक्षे विवादाभावात् मोक्षमार्गोपदेश इति निरूपणं जीवस्य परलोकगमनं प्रति गतिनिरूपणं ... ... ३३३ मोक्षस्यागमानुमानाभ्यां सिद्धिः ततस्तदुपायजिज्ञासा जन्मभेदकथनं तदाधारभूतयोनिमेदनिरूपणं च ... ३३५ साधीयसीति निरूपणं ... ... ... ... ५५ मोक्षमार्गप्रतिपादकप्रथमसूत्रस्य प्रदर्शनं, सम्यग्दर्शना जीवस्य शरीरभेदानां कथनं ... ... ... संसारिजीवस्य द्वे शरीरेऽनादिसंबंधे इति, युगपच्चतुर्णा दित्रयाणां लक्षणनिरूपणं च ... ... ... ५७ ___ संभव एकात्मनि इति च निरूपणं मोक्षतन्मार्गयोः विवरणम् ... ... ... ५८ शरीराणां स्वामिमेदकथनं भवहेतोमिथ्यादर्शनादित्रयस्य युक्तितः स्थापनं ... जीवानां पुल्लिंगादित्रयप्ररूपणं ... ... ... ३४२ सम्यग्दर्शनविषयीभूतानां जीवादितत्त्वानां प्रतिपादनं शरीरिणा केषांचिदघातायुष्कत्वं केषांचिद्धातायुष्फत्वपदार्थानामधिगमोपायकथनं ... ... ... ११७ | मिति प्रदर्शन ... ... ... ... ५४३ मध्यमवृत्त्याधिगमोपायनिरूपणं ... ... ... १४२ तृतीयोऽध्यायः॥३॥ अधिगमोपायभूतप्रमाणशब्देनमत्यादिपंचज्ञानानांनिर्देशः१६२ जीवानामधिष्ठानं लोकः स च त्रिविधस्तावदधोलोकव्याप्रमाणस्य भेदप्रदर्शनं ... ... ... ... १८२ ख्याननिरूपणं । तत्र च सप्तनरकपृथ्वीनां नामाधास्मृतिप्रत्यभिज्ञानतर्कानुमानानां मतिज्ञानेऽन्तर्भावप्ररू ररचनानां निरूपणम्, परामिमतानां भूम्याधाराणां पणम् ... ... ... ... ... कूर्मादीनां कथनं सबाधमिति च ... ... ३४५ मतिज्ञानस्य षत्रिंशत्रिशतभेदानां निरूपणं ... २१७ भूमिभ्रमणस्यान्याभिमतस्य युक्तिदृष्टांतपूर्वकनिराकरणं ३४६ श्रुतज्ञानस्य कारणपूर्वकभेदकथनं ... भूमिगतनरकसंख्यावर्णनं ... ... ... ... ३४७ अवधिज्ञानस्य कारणस्वामिप्रतिपादनं नारकाणां स्थितिवर्णनं ... ... ... ... ३४९ मनःपर्ययस्य भेदप्रदर्शनं ... ... ... मध्यलोकवर्णनं तत्र जंबूद्वीपस्य कथनं तत्रापि भरतामत्यादिचतुर्णा विषयनिरूपणं दिसप्तक्षेत्रनामनिर्देशः ... ... ... ... ३५० केवलज्ञानस्य विषयप्रतिपादनं क्षेत्रविभाजिनां हिमवदादिपर्वतानां नामादिकथनं ... ३५१ एकात्मनि युगपञ्चतुर्ज्ञानसंभवः ... ... ... २५३ | गंगादिचतुर्दशनदीनां पर्वतह्रदेभ्यो निर्गतानां प्ररूपणं ३५३ मत्यादिज्ञानत्रयाणां कदाचन मिथ्यात्वसंभवो न तु भरतक्षेत्रस्य विष्कंभवर्णनं, तत्रोत्सर्पिण्यवसर्पिणी-... मनःपर्ययकेवलयोरिति निरूपणं ... ... २५५ षट्कालकृतयोः सृष्टिप्रलयापरनानोवृद्धिहासयोः कुतो मिथ्यात्वं त्रयाणामिति शंकायाः कारणदृष्टांतपुरस्सरं निरूपणं ... ... ३५४ समाधानम् ... ... ... ... २५७ धातकीखंडद्वीपविष्कंभप्रमाणं ... ... ... ३५५ अधिगमोपायभूतानां प्रमाणैकदेशरूपाणां नयानां भेदपूर्वकं । पुष्करार्धद्वीपविष्कंभप्रमाणं, सार्द्धद्वीपस्थितमनुष्याणां प्रकथनं ... ... ... ... ... २६७ भेदनिरूपणं ... ... ... ..... .... ३५६ नयभेदानां लक्षणनिरूपणं ... ... ... २६९ मनुष्यतिरश्चामुत्कृष्टजघन्यस्थितिप्रमाणं ... ... ३५९ तत्त्वार्थधिगमभेदस्य विशेषतया निरूपणं ... ... २७७ | पराभिमतेश्वरस्य जगत्कर्तृलमाशंक्य युक्तिपूर्वकं तस्य द्वितीयोऽध्यायः॥२॥ निरासः ... ... ... ... ... ३६० सम्यग्दर्शनगोचरीभूतजीवस्य खतत्त्वरूपाणामौपशमिकादि चतुर्थोऽध्यायः॥४॥ पंचधर्माणां निरूपणं ... . .. ... ३१३ ऊर्ध्वलोकवर्णनं तत्र स्थितानां देवानां जातिभेदनिरूपणं ३७१ : : : : Page #9 -------------------------------------------------------------------------- ________________ : : : MAA८६ मन... : विषयः पृ. सं. विषयः चतुर्विधानामपि मेदांतरकथनं ... ... ... ३७२ | परिग्रहपापस्य लक्षणं मूर्छारूपं कृतं तत्र कैश्चित् जंबूद्वीपादिसायद्वीपपरिमिते मनुष्यलोके एव सूर्या- वस्त्रादीनामपरिग्रहत्वं स्वीकृत्य तद्धारणे दोषाभावः दिज्योतिष्कदेवानां मेहं प्रदक्षिणीकृत्य भ्रमणं स्वीकृतस्तदाशंक्य युक्तिपूर्वकं खंडनं कृतं ... ... ४६४ नान्यत्रेति वर्णनं, भूभ्रमणखंडनं च ... ... ३७६ प्रतिनो निःशल्यवस्थापनं, गृहस्थसाधुमेदेन तद्रेसूर्यादिकृतो व्यवहारकालविभाग इति कथनं ... ३८० दकथनं दकथन ... ... ... ... ... ४६५ वैमानिकदेवनिवासानां सौधर्मादिस्वर्गाणां नामनिदर्शनं ३८१| गृहस्थस्य द्वादशव्रतानां, मरणांतकाले समाधिवत्तस्य च देवानां परस्पर हीनाधिकलस्य कारणनिरूपणम् ... ३८२ निरूपणं ... ... ... ... ... ४६७ लेश्याभेदकथनं सम्यग्दर्शनस्य व्रतानां च चतुर्दशानामतीचार (दोष) ... ... ... ... ३८४ निरूपणं देवर्षीणां लोकांतिकदेवानां वर्णनं ... ... ... ... ... ... ४६८ दानस्य तीर्थकरभावनांतर्गतस्य व्याख्यानं ... ... ४७२ तिर्यग्योनिप्रतीतिविधानं देवानामायुर्वर्णनं च ... अष्टमोऽध्यायः॥८॥ पञ्चमोऽध्यायः॥५॥ बंधतत्त्वनिरूपणं तत्रापि बंधहेतुलक्षणामिधानम् ... ४७४ अजीवतत्त्वस्य भेदनिरूपणं ... ... ... ३९२ बंधमेदनिरूपणं ... ... ... परामिमतपदार्थानामेतेष्वेवांतीवः ज्ञानावरणादिकर्मप्रकृतीनां भेदकथनं धर्मादिद्रव्याणां निष्क्रियत्वनिरूपणं ... ३९७ कर्मणां स्थितिबंधवर्णनं जीवपुदलयोः सक्रियत्वं साधितं ... ... ३९८ अनुभागबंधनिरूपणं द्रव्याणां प्रदेशप्रमाणनिरूपणं .... ... ... ४०७ प्रदेशबंधकथनं ... .. जीवे संकोचविस्तारशक्तिनिरूपणं तत एव च शरीरप्र. पुण्यपापकर्मणां नामनिर्देशः माणमेवात्मा इति वर्णनं ... ... ... ४०८ नवमोऽध्यायः॥९॥ जीवस्य सर्वगतवखंडनं ... ... ... ४०९ | संवरतत्त्वस्य लक्षणम् ... ... ... ... जीवपुदलगतिस्थित्युपकारित्वेन धर्माधर्मयोर्द्रव्यवसिद्धिः | कर्मसंवरस्य कारणनिरुपणं ... ... ... ४८७ दर्शिता, तौ चामौ न पुण्यपापरूपौ इति च वर्णनं, संवरकारणांतर्गतक्षमादिदशधर्मव्याख्यानं संयमधर्मरआकाशस्य उपकारनिरूपणं च क्षणार्थः शुद्ध्यष्टकोपदेशश्च ... ... ... ४८८ पुद्दलजीवकालद्रव्याणामुपकारकथनं द्वादशभावनाद्वाविंशतिपरीषहवर्णनं ... ... ४९० सविस्तरं कालद्रव्यसिद्धिः ... मोहकर्मणो नाशे केवलाद्वेदनीयाद्व्यक्तिरूपक्षुधादिपरीपुदलद्रव्यस्य लक्षणनिरूपणं .. षहस्य केवलिजिने युक्तिपूर्वकमसंभवदर्शनं ... ४९२ शब्दादीनां पुद्गलद्रव्यस्य पर्यायवकथनं युगपत्परीषहाणां संभवकथनं ... ... ... ४९३ शब्दस्य पराभिमताकाशगुणवखंडनं सम्यक्चारित्रस्य मोक्षमार्गातर्भूतस्य वर्णनं, तत्रापि पुद्गलद्रव्यस्य मेदद्वयनिरूपणं तद्भेदनिरूपणं कर्मनिर्जराकारणस्य तपसो वर्णनं च ४९४ द्रव्यस्य लक्षणकथनं ... ... तपसो भेदनिरूपणं तत्र स्वाध्यायध्यानयोर्मुख्यत्वेन गुणपर्याययोर्लक्षणं ... ... ... निर्देशः ... ... ... ... ... ४९५ षष्ठोऽध्यायः॥६॥ ध्यानस्य लक्षणस्वामिनिरूपणं परामिमतध्यानलक्षणे आस्रवतत्त्वस्य लक्षणं ... ... ... ... __ दूषणं प्रतिपाद्य खाभिमतसमर्थनं च ... ... ४९७ आस्रवस्य भेदनिरूपणं ... ... ... ध्यानभेदानां निरूपणं ... ... ... ... ५०१ जीवाजीवाश्रयत्वेनास्रवभेदस्य कथनं खामिभेदानिर्जराभेदकथनं ... ... ... ५०६ ज्ञानावरणाद्यष्टकर्मणामात्रवस्य स्थित्यनुभागत्वेन तपखिनां भेदनिरूपणं तत्रापि नैग्रंथ्यसाम्यनिरूपणं ५०७ प्रधानकारणनिरूपणं ... ... ... ... ४४९ दशमोऽध्यायः॥१०॥ तीर्थकरपुण्यस्य सर्वातिशायिन आस्रवस्य कारणानां | मोक्षतत्त्वकारणस्योत्पत्तिकारणवर्णनं, मोक्षहेतुलक्षणषोडशभावनानां निरूपणं ... ... ... ४५५ योनिरूपणं, मुक्तावस्थायामात्मनि ज्ञानादिगुणानां सप्तमोऽध्यायः॥७॥ सद्भावनिरूपणं च ... ... ... ... ५०८ शुभास्रवकारणानां अहिंसादिपंचव्रतानां कथनं | कर्मभिर्मुक्तस्य स्वभावादूर्ध्वगमनं युक्तिदृष्टांतपूर्वकं ५१० व्रतस्थैर्यार्थ भावनानां व्याख्यानम् ... ... ... ४५९ | लोकात् परतो गत्यभावस्य कारणप्रदर्शनं, व्यवहारनयेन सकलव्रतस्थैर्यार्थ सामान्यभावनावर्णनं ... ... ४६० मुक्तजीवे भेदनिरूपणं च ... ... ... ... ५११ हिंसादिपंचपापानां लक्षणं ... ... ... ४६१ अंत्यभंगलं ग्रंथसमाप्तिश्च ... ... ... ... ५१२ ० ० Page #10 -------------------------------------------------------------------------- ________________ Se श्रीपरमात्मने नमः । श्रीमद्विद्यानंदिस्वामिविरचितं तत्त्वार्थश्लोकवार्तिकम् । प्रथमोऽध्यायः । श्री वर्धमानमाध्याय घातिसंघातघातनम् । विद्यास्पदं प्रवक्ष्यामि तत्त्वार्थश्लोकवार्तिकम् ॥ १ ॥ श्रेयस्तत्त्वार्थश्लोकवार्तिकप्रवचनात्पूर्वं परापरगुरुप्रवाहस्याध्यानं तत्सिद्धि निबंधनत्वात् । तत्र परमो गुरुस्तीर्थकरत्वश्रियोपलक्षितो वर्धमानो भगवान् घातिसंघातघातनत्वाद्यस्तु न परमो गुरुः स न घातिसंघातघातनो यथास्मदादिः । घातिसंघातघातनोसौ विद्यास्पदत्वाद्विद्यैकदेशास्पदेनास्मदा दिनानैकांतिक इति चेन्न, सकलविद्यास्पदत्वस्य हेतुत्वाद्यभिचारानुपपत्तेः । प्रसिद्धं च सकलविद्यास्पदत्वं भगवतः सर्वज्ञत्वसाधनादतो नान्यः परमगुरुरेकांततत्त्वप्रकाशनाद् दृष्टेष्टविरुद्धवचनत्वादविद्यास्पदत्वादक्षीणकल्मषसमूहत्वाच्चेति न तस्याध्यानं युक्तम् । एतेना परगुरुर्गणधरादिः सूत्रकारपर्यंतो व्याख्यातस्तस्यैकदेश विद्यास्पदत्वेन देशतो घातिसंघातघातनत्वसिद्धेस्सामर्थ्यादपरगुरुत्वोपपत्तेः । नन्वेवं प्रसिद्धोऽपि परापरगुरुप्रवाहः कथं तत्त्वार्थश्लोकवार्तिकप्रवचनस्य सिद्धिनिबंधनं यतस्तस्य ततः पूर्वमाध्यानं साधीय इति कश्चित्, तदाध्यानाद्धर्मविशेषोत्पत्तेरधर्मध्वंसात्तद्धेतुक विघ्नोपशमनादभिमतशास्त्र परिसमाप्तितस्तत्सिद्धिनिबंधनमित्येके । तान् प्रति समादधते । तेषां पात्रदानादिकमपि शास्त्रारंभात्प्रथममाचरणीयं परापरगुरुप्रवाहाध्यानवत्तस्यापि धर्म - विशेषोत्पत्तिहेतुत्वाविशेषाद्यथोक्तक्रमेण शास्त्रसिद्धिनिबंधनत्वोपपत्तेः । परममंगलत्वादाप्तानुध्यानं शास्त्र.सिद्धिनिबंधनमित्यन्ये, तदपि तागेव । सत्पात्रदानादेरपि मंगलतोपपत्तेः, न हि जिनेंद्रगुणस्तोत्रमेव मंगलमिति नियमोस्ति स्वाध्यायादेरेव मंगलत्वाभावप्रसंगात् । परमात्मानुध्यानाथकारस्य नास्तिकतापरिहारसिद्धिस्तद्वचनस्यास्तिकैरादरणीयत्वेन सर्वत्र ख्यात्युपपत्तेस्तदाध्यानं तत्सिद्धिनिबंधन मित्यपरे । तदप्यसारं । श्रेयोमार्गसमर्थनादेव वक्तुर्नास्तिकता परिहारघटनात् । तदभावे सत्यपि शास्त्रारंभे परमात्मानुध्यानवचने तदनुपपत्तेः । शिष्टाचारपरिपालनसाधनत्वात्तदनुध्यानवचनं तत्सिद्धिनिबंधन मिति केचित् । `तदपि तादृशमेव । स्वाध्यायादेरेव सकलशिष्टाचारपरिपालनसाधनत्वनिर्णयात् । ततः शास्त्रस्योत्पत्तिहेतुत्वात्तदर्थनिर्णयसाधनत्वाच्च परापर गुरुप्रवाहस्तत्सिद्धिनिबंधनमिति धीमद्धृतिकरं । सम्यग्बोध एव वक्तुः शास्त्रोत्पत्तिज्ञप्तिनिमित्तमिति चेन्न, तस्य गुरूपदेशायत्तत्वात् । श्रुतज्ञानावरणक्षयोपशमाद्गुरूपदेशस्यापायेपि श्रुतज्ञानस्योत्पत्तेर्न तत्तदायत्तमिति चेन्न, द्रव्यभावश्रुतस्याप्तोपदेशविरहे कस्यचिदभावात् । द्रव्यश्रुतं हि द्वादशांगं वचनात्मक माप्तोपदेशरूपमेव, तदर्थज्ञानं तु भावश्रुतं तदुभयमपि गणधरदेवानां भगवदर्हत्सर्वज्ञवचनातिशयप्रसादात्खमतिश्रुतज्ञानावरण वीर्यांतरायक्षयोपशमातिशयाच्चोत्पद्यमानं कथमाप्ता Page #11 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके यत्तं न भवेत् । यच्च चक्षुरादिमतिपूर्वकं श्रुतं तन्नेह प्रस्तुतं, श्रोत्रमतिपूर्वकस्य भावश्रुतस्य प्रस्तुतत्वात्तस्य चाप्तोपदेशायत्तताप्रतिष्ठानात्परापराप्तप्रवाहनिबंधन एव परापरशास्त्रप्रवाहस्तन्निबंधनश्च सम्यगवबोधः स्वयमभिमतशास्त्रकरणलक्षणफलसिद्धेरभ्युपाय इति तत्कामैराप्तस्सकलोप्याध्यातव्य एव । तदुक्तं । “अभिमतफलसिद्धेरभ्युपायः सुबोधः प्रभवति स च शास्त्रात्तस्य चोत्पत्तिराप्तात् । इति भवति स पूज्यस्तत्प्रसादप्रबुद्धैर्न हि कृतमुपकारं साधवो विस्मरंति ॥" ननु यथा गुरूपदेशः शास्त्रसिद्धेर्निबंधनं तथाप्तानुध्यानकृतनास्तिकता परिहारशिष्टाचारपरिपालनमंगलधर्मविशेषाश्च तत्सहकारित्वाविशेषादिति चेत् । सत्यं । केवलमाप्तानुध्यानकृता एव ते तस्य सहकारिण इति नियमो निषिध्यते, साधनांतरकृतानामपि तेषां तत्सहकारितोपपत्तेः कदाचित्तदभावेपि पूर्वोपात्तधर्मविशेषेभ्यस्तन्निष्पत्तेश्च । परापरगुरूपदेशस्तु नैवमनियतः, शास्त्रकरणे तस्यावश्यमपेक्षणीयत्वादन्यथा तदघटनात् । ततः सूक्तं परापरगुरुप्रवाहस्याध्यानं तत्त्वार्थ श्लोकवार्तिकप्रवचनात् पूर्वं श्रेयस्तत्सिद्धि निबंधनत्वादिति प्रधानप्रयोजनापेक्षया नान्यथा, मंगलकरणादेरप्यनिवारणात् पात्रदानादिवत् । कथं पुनस्तत्त्वार्थः शास्त्रं तस्य श्लोकवार्तिकं वा तद्व्याख्यानं वा, येन तदारंभे परमेष्टिनामाध्यानं विधीयत इति चेत्, तल्लक्षणयोगत्वात् । वर्णात्मकं हि पदं, पदसमुदायविशेषः सूत्रं, सूत्रसमूहः प्रकरणं, प्रकरणसमितिराह्निकं, आह्निकसंघातो अध्यायः, अध्यायसमुदायः शास्त्रमिति शास्त्रलक्षणं । तच्च तत्त्वार्थस्य दशाध्यायीरूपस्यास्तीति शास्त्रं तत्त्वार्थः । शास्त्रभासत्वशंकाप्यत्र न कार्यान्वर्थसंज्ञाकरणात् । तत्त्वार्थविषयत्वाद्धि तत्त्वार्थो ग्रंथः प्रसिद्धो न च शास्त्राभासस्य तत्त्वार्थविषयता विरोधात्सर्वथैकांतसंभवात् । प्रसिद्धे च तत्त्वार्थस्य शास्त्रत्वे तद्वार्तिकस्य शास्त्रत्वं सिद्धमेव तदर्थत्वात् । वार्तिकं हि सूत्राणामनुपपत्तिचोदना तत्परिहारो विशेषाभिधानं प्रसिद्धं, तत्कथमन्यार्थं भवेत्। तदनेन तद्व्याख्यानस्य शास्त्रत्वं निवेदितं । ततोऽन्यत्र कुतः शास्त्रव्यवहार इतिचेत्, तदेकदेशे शास्त्रत्वोपचारात् । यत्पुनद्वादशांगं श्रुतं तदेवंविधानेकशास्त्र समूहरूपत्वान्महाशास्त्रमनेकस्कंधाधारसमूहमहास्कंधाधारवत् । येषां तु शिष्यंते शिष्या येन तच्छास्त्रमिति शास्त्रलक्षणं तेषामेकमपि वाक्यं शास्त्रव्यवहारभाग् भवेदन्यथाभिप्रेतमपि माभूदिति यथोक्तलक्षणमेव शास्त्रमेतदवबोद्धव्यं । ततस्तदारंभे युक्तं परापरगुरुप्रवाहस्याध्यानं । अथवा यद्यपूर्वार्थमिदं तत्त्वार्थश्लोकवार्तिकं न तदा वक्तव्यं, सतामनादेयत्वप्रसंगात् खरुचिविरचितस्य प्रेक्षवतामनादरणीयत्वात् । पूर्वप्रसिद्धार्थं तु सुतरामेतन्न वाच्यं, पिष्टपेषणवद्वैयर्थ्यादिति ब्रुवाणं प्रत्येतदुच्यते । “विद्यास्पदं तत्त्वार्थश्लोकवार्तिकं प्रवक्ष्यामीति ।" विद्या पूर्वाचार्य - शास्त्राणि सम्यग्ज्ञानलक्षणविद्यापूर्वकत्वात्ता एवास्पदमस्येति विद्यास्पदं । न पूर्वशास्त्रानाश्रयं, यतः खरुचिविरचितत्वादनादेयं प्रेक्षावतां भवेदिति यावत् । पिष्टपेषणवध्यर्थं तथा स्यादित्यप्यचोद्यं, आध्यायघातिसंघातघातनमिति विशेषणेन साफल्यप्रतिपादनात् । धियः समागमो हि ध्यायः समंताच्यायोस्मादित्याध्यायं तच्च तद्भातिसंघातघातनं चेत्याध्यायघातिसंघातघातनं । यस्माच्च प्रेक्षावतां समंततः प्रज्ञासमागमो यच्च मुमुक्षून् खयं घातिसंघातं नतः प्रयोजयति तन्निमित्तकारणत्वात् । तत्कथमफलमावेदयितुं शक्यं । प्रज्ञातिशयसकलकल्मषक्षयकरणलक्षणेन फलेन फलवत्त्वात् । कुतस्तदाध्यायघातिसंघातघातनं सिद्धं ? विद्यास्पदत्वात् । यत्पुनर्न तथाविधं न तद्विद्यास्पदं यथा पापानुष्ठानमिति समर्थयिष्यते । विद्यास्पदं कुतस्तदिति चेत्, श्रीवर्धमानत्वात् । प्रतिस्थानमविसंवादलक्षणया हि श्रिया वर्धमानं कथमविद्यास्पदं नामातिप्रसंगात् । तदेवं सप्रयोजनत्वप्रतिपादनपरमिदमादिश्लोकवाक्यं प्रयुक्तमवगम्यते । ननु किमर्थमिदं प्रयुज्यते ? श्रोतृजनानां प्रवर्तनार्थमिति चेत्, ते यदि श्रद्धानुसारिणस्तदा व्यर्थस्तत्प्रयोगस्तमंतरेणापि यथाकथंचित् तेषां शास्त्रश्रवणे प्रवर्तयितुं शक्यत्वात् । यदि प्रेक्षावंतस्ते तदा कथमप्रमाणकाद्वाक्यात्प्र 1 Page #12 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । वर्तते प्रेक्षावत्त्वविरोधादिति केचित् । तदसारं । प्रयोजनवाक्यस्य सप्रमाणकत्वनिश्चयात् । प्रवचनानुमानमूलं हि शास्त्रकारास्तत्प्रथमं प्रयुंजते नान्यथा, अनादेयवचनत्वप्रसंगात् तथाविधाच्च । ततः श्रद्धानुसारिणां प्रेक्षावतां च प्रवृत्तिर्न विरुध्यते । श्रद्धानुसारिणोपि यागमादेव प्रवर्तयितुं शक्या, न यथा कथंचित् प्रवचनोपदिष्टतत्त्वे श्रद्धामनुसरतां श्रद्धानुसारित्वादन्यादृशाम तिमूढमनस्कत्वात् तत्त्वार्थश्रवणेऽनधिकृतत्वादतिविपर्यस्तवत् तेषां तदनुरूपोपदेशयोग्यत्वात् सिद्धमातृकोपदेशयोग्यदारकवत् । प्रेक्षावंतः पुनरागमादनुमानाच्च प्रवर्तमानास्तत्त्वं लभंते, न केवलादनुमानात्प्रत्यक्षादितस्तेषामप्रवृत्तिप्रसंगात् । नापि केवलादागमादेव विरुद्धार्थमतेभ्योपि प्रवर्तमानानां प्रेक्षावत्त्वप्रसक्तेः । तदुक्तं । “सिद्धं चेद्धेतुतः सर्वे न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वे विरुद्धार्थमतान्यपि " इति । तस्मादाप्ते वक्तरि संप्रदायाव्यवच्छेदेन निश्चिते तद्वाक्यात्प्रवर्तनमागमादेव । वक्तर्यनाप्ते तु यत्तद्वाक्यात्प्रवर्तनं तदनुमानादिति विभागः साधीयान् । तदप्युक्तं । “वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितं । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितं।” न चैवं प्रमाणसंप्लववादिविरोधः, कचिदुभाभ्यामागमानुमानाभ्यां प्रवर्तनस्येष्टत्वात् । प्रवचनस्याहेतुहेतुमदात्मकत्वात् । स्वसमयप्रज्ञापकत्वस्यं तत्परिज्ञाननिबंधनत्वादपरिज्ञाताहेतुवादागमस्य सिद्धांतविरोधकत्वात् । तथा चाभ्यधायि । " जो हेदुवादपरकम्मि हेदुओ आगमम्मि आगमओ | सो ससमयपण्णवओ सिद्धंतविरोहओ अण्णोति ॥" तत्रागममूलमिदमादिवाक्यं परापरगुरुप्रवाहमाध्याय प्रवचनस्य प्रवर्तकं तत्त्वार्थश्लोकवार्तिकं प्रवक्ष्यामीति वचनस्यागमपूर्वकागमार्थत्वात् । प्रामाण्यं पुनरस्याभ्यस्तव गुणान् प्रतिपाद्यान् प्रति खत एवाभ्यस्त कारणगुणान् प्रति प्रत्यक्षादिवत् । स्वयमनभ्यस्त - वक्तृगुणांस्तु विनेयान् प्रति सुनिश्चितासंभवद्वाधकत्वादनुमानात्खयं प्रतिपन्नाप्तांतरवचनाद्वा निश्चितप्रामाण्यात् । नचैवमनवस्था परस्पराश्रयदोषो वा । अभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यनिश्चयादनवस्थाया निवृत्तेः, पूर्वस्यानभ्यस्तविषयस्य परस्मादभ्यस्तविषयात्प्रमाणत्वप्रतिपत्तेः । तथानुमानमूलमेतद्वाक्यं, स्वयं खार्थानुमानेन निश्चितस्यार्थस्य परार्थानुमानरूपेण प्रयुक्तत्वात् । समर्थनापेक्षसाधनत्वान्न प्रयोजनवाक्यं परार्थानुमानरूपमिति चेत् न, खेष्टानुमानेन व्यभिचारात् न हि तत्समर्थनापेक्षसाधनं न भवति प्रतिवादिविप्रतिपत्तौ तद्विनिवृत्तये साधनसमर्थनस्यावश्यं भावित्वात्, केषांचिदसमर्थितसाधनवचने असाधनांगवचनस्येष्टेः । प्रकृतानुमान हेतोरशक्यसमर्थनत्वमपि नाशंकनीयं, तदुत्तरग्रंथेन तद्धेतोः समर्थननिश्चयात् । सकलशास्त्र व्याख्यानात्तद्धेतुसमर्थनप्रवणात्तत्त्वार्थश्लोकवार्तिकस्य प्रयोजनवत्त्वसिद्धेः । प्रागेवापार्थकं प्रयोजनवचनमितिचेत्, तर्हि खेष्टानुमाने हेत्वर्थसमर्थनप्रपंचाभिधानादेव साध्यार्थसिद्धेस्ततः पूर्वं हेतूपन्यासोपार्थकः किन्न भवेत् । साधनस्यानभिधाने समर्थनमनाश्रयमेवेति चेत्, प्रयोजनवत्त्वस्यावचने तत्समर्थनं कथमनाश्रयं न स्यात् । ये तु प्रतिज्ञामनभिधाय तत्साधनाय हेतूपन्यासं कुर्वाणाः साधनमभिहितमेव समर्थयंते ते कथं स्वस्थाः । पक्षस्य गम्यमानस्य साधनाददोष इति चेत्, प्रयोजनवत् साधनस्य गम्यमानस्य समर्थने को दोषः संभाव्यते । सर्वत्र गम्यमानस्यैव तस्य समर्थनसिद्धेः प्रयोगो न युक्त इति चेत्, संक्षिप्तशास्त्रप्रवृत्तौ सविस्तरशास्त्रप्रवृत्तौ वा ? प्रथमपक्षे न किंचिदनिष्टं, सूत्रकारेण तस्याप्रयोगात् सामर्थ्याद्गम्यमानस्यैव सूत्रसंदर्भेण समर्थनात् । द्वितीयपक्षे तस्याप्रयोगे प्रतिज्ञोपनयनिगमनप्रयोगविरोधः । प्रतिज्ञानिगमनयोरप्रयोग एवेति चेत्, तद्वत्पक्षधर्मोपसंहारस्यापि प्रयोगो मा भूत् । यत्सत्तत्सर्वं क्षणिकमित्युक्ते शब्दादौ सत्त्वस्य सामर्थ्याद्गम्यमानत्वात् । तस्यापि क्वचिदप्रयोगेऽभीष्ट एव विदुषां " वाच्यो हेतुरेव हि केवल" इति वचनात् । तर्हि सविस्तरवचने गम्यमानस्यापि सिद्धः प्रयोगः, संक्षिप्तवचनप्रवृत्तावेव तस्याप्रयोगात् । ततः क्वचिद्गम्यमानं सप्र Page #13 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके योजनत्वसाधनमप्रयुक्तमपि सकलशास्त्रव्याख्यानेन समर्थ्यते क्वचित्प्रयुज्यमानमिति नैकांतः, स्याद्वादिनामविरोधात् । सर्वथैकांतवादिनां तु न प्रयोजनवाक्योपन्यासो युक्तस्तस्याप्रमाणत्वात् । तदागमः प्रमाणमिति चेत् । सोऽपौरुषेयः पौरुषेयो वा ? न तावदाद्यपक्षकक्षीकरणं "अथातो धर्मजिज्ञासे"ति प्रयोजनवाक्यस्यापौरुषेयत्वासिद्धेः । खरूपेर्थे तस्य प्रामाण्यानिष्टेश्चान्यथातिप्रसंगात् । पौरुषेय एवागमः प्रयोजनवाक्यमिति चेत् । कुतोस्य प्रामाण्यनिश्चयः । खत एवेति न, खतः प्रामाण्यैकांतस्य निराकरिष्यमाणस्वात् । परत एवागमस्य प्रामाण्यमित्यन्ये, तेषामपि नेदं प्रमाणं सिद्ध्यति । परतः प्रामाण्यस्थानवस्थादिदोषदूषितत्वेन प्रतिक्षेप्स्यमानत्वात् प्रतीतिविरोधात् । परार्थानुमानमादौ प्रयोजनवचनमित्यपरे । तेपि न युक्तिवादिनः, साध्यसाधनयोर्व्याप्तिप्रतिपत्तौ तर्कस्य प्रमाणस्यानभ्युपगमात् । प्रत्यक्षस्यानुमानस्य वा तत्रासमर्थत्वेन साधयिष्यमाणत्वात् । ये त्वप्रमाणकादेव विकल्पज्ञानात्तयोर्व्याप्तिप्रतिपत्तिमाहुस्तेषां प्रत्यक्षानुमानप्रमाणत्वसमर्थनमनर्थकमेव, प्रमाणादेव प्रत्यक्षानुमेयार्थप्रतिपत्तिप्रसंगात् । ततो न प्रयोजनवाक्यं स्याद्वादविद्विषां किंचित्प्रमाणं प्रमाणादिव्यवस्थानासंभवाच्च न तेषां तत्प्रमाणमिति शास्त्रप्रणयनमेवासंभवि विभाव्यतां किं पुनः प्रयोजनवाक्योपन्यसनं । श्रद्धाकुतूहलोत्पादनार्थ तदित्येके । तदप्यनेनैव निरस्तं, तस्य प्रमाणत्वाप्रमाणत्वपक्षयोस्तदुत्पादकत्वायोगात् । अर्थसंशयोत्पादनार्थ तदित्यप्यसारं, कचिदर्थसंशयात् प्रवृत्तौ प्रमाणव्यवस्थापनानर्थक्यात् । प्रमाणपूर्वकोर्थसंशयः प्रवर्तक इति प्रमाणव्यवस्थापनस्य साफल्ये कथमप्रमाणकात् प्रयोजनवाक्यादुपजातोर्थसंशयः । प्रवृत्त्यंगं विरुद्धं च संशयफलस्य प्रमाणत्वं विपर्यासफलवत् , खार्थव्यवसायफलस्यैव ज्ञानस्य प्रमाणत्वप्रसिद्धेः । ये त्वाहुर्यनिष्प्रयोजनं तन्नारंभणीयं यथा काकदंतपरीक्षाशास्त्रं निष्प्रयोजनं चेदं शास्त्रमिति । व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानात्प्रतिव्यापकानुपलब्धेरसिद्धतोद्भावनार्थ प्रयोजनवाक्यमिति । तेपि न परीक्षकाः । खयमप्रमाणकेन तदसिद्धतोद्भावनाऽसंभवात् , तत्प्रमाणत्वस्य परैर्व्यवस्थापयितुमशक्तेः । सकलशास्त्रार्थोद्देशकरणार्थमादिवाक्यमित्यपि फल्गुप्रायं, तदुद्देशस्याप्रमाणात् प्रतिपत्तुमशक्तेस्तल्लक्षणपरीक्षावत् । ततो नोद्देशो लक्षणं परीक्षा चेति त्रिविधा व्याख्या व्यवतिष्ठते । समासतोऽर्थप्रतिपत्त्यर्थमादिवाक्यं व्यासतस्तदुत्तरशास्त्रमित्यप्यनेनैव प्रतिक्षिप्तमप्रमाणायासत इव समासतोप्यर्थप्रतिपत्तेरयोगात् । स्याद्वादिनां तु सर्वमनवद्यं तस्यागमानुमानरूपत्वसमर्थनादित्यलं प्रसंगेन । ननु च तत्त्वार्थशास्त्रस्यादिसूत्रं तावदनुपपन्नं प्रवक्तृविशेषस्याभावेपि प्रतिपाद्यविशेषस्य च कस्यचित् प्रतिपित्सायामसत्यामेव प्रवृत्तत्वादित्यनुपपत्तिचोदनायामुत्तरमाह; प्रवुद्धाशेषतत्त्वार्थे साक्षात् प्रक्षीणकल्मषे । सिद्धे मुनीन्द्रसंस्तुत्ये मोक्षमार्गस्य नेतरि ॥२॥ सत्यां तत्प्रतिपित्सायामुपयोगात्मकात्मनः । श्रेयसा योक्ष्यमाणस्य प्रवृत्तं सूत्रमादिमम् ॥ ३ ॥ तेनोपपन्नमेवेति तात्पर्य । सिद्धे प्रणेतरि मोक्षमार्गस्य प्रकाशकं वचनं प्रवृत्तं तत्कार्यत्वादन्यथा प्रणेतृव्यापारानपेक्षत्वप्रसंगात् तयंग्यत्वात्तत्तदपेक्षमितिचेत् । न । कूटस्थस्य सर्वथाभिव्यंग्यत्वविरोधात्तदभिव्यक्तेरव्यवस्थितेः । सा हि यदि वचनस्य संस्काराधानं तदा ततो भिन्नोऽन्यो वा संस्कारः प्रणेतृव्यापारेणाधीयते, यद्यभिन्नस्तदा वचनमेव तेनाधीयत इति कथं कूटस्थं नाम । भिन्नश्चेत्पूर्ववत् तस्य सर्वदाप्यश्रवणप्रसंगः । प्राक् पश्चाद्वा श्रवणानुषंगः खखभावापरित्यागात् । संस्काराधानकाले प्राच्याश्राव Page #14 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । णत्वस्वभावस्य परित्यागे श्रावणखभावोपादाने च शब्दस्य परिणामित्वसिद्धिः, पूर्वापर स्वभाव परिहारावाप्तिस्थितिलक्षणत्वात्परिणामित्वस्य । तथा च वचनस्य किमभिव्यक्तिपक्षकक्षीकरणेन, उत्पत्तिपक्षस्यैव सुघटत्वात् । शब्दाद्भिन्नोऽभिन्नश्च संस्कारः प्रणेतृव्यापारेणाधीयत इति चेत् । न । सर्वथा भेदाभेदयोरेकत्वविरोधात् । यदि पुनः कथंचिदभिन्नो भिन्नश्च शब्दात् संस्कारस्तस्य तेनाधीयत इति मतं, तदा → स्यात्पौरुषेयं तत्त्वार्थशासनमित्यायातमर्हन्मतं । ननु च वर्णसंस्कारोऽभिव्यक्तिस्तदावारकवागपनयनं घटाद्यावारकतमोपनयनवत्तिरोभावश्च तदावारकोत्पत्तिर्नचान्योत्पत्तिविनाशौ शब्दस्य तिरोभावाविर्भाव कौटस्थ्यविरोधिनौ येन परमतप्रसिद्धिरिति चेत् तर्हि किंकुर्वन्नावारकः शब्दस्य वायुरुपेयते न तावत्स्वरूपं खंडयन्नित्यैकांतत्वविरोधात् । तद्बुद्धिप्रतिनन्निति चेत्, तत्प्रतिघाते शब्दस्योपलभ्यता प्रतिहन्यते वा न वा प्रतिहन्यते चेत् सा शब्दादभिन्ना प्रतिहन्यते न पुनः शब्द इति प्रलापमात्रं । ततोसौ भिन्नैवेति चेत्, सर्वदानुपलभ्यताखभावः शब्दः स्यात् । तत्संबंधादुपलभ्यः स इति चेत् कस्तया तस्य संबंधः । धर्मधर्मिभाव इति चेत् नात्यंतं भिन्नयोस्तयोस्तद्भावविरोधात् । भेदाभेदोपगमादविरुद्धस्तद्भाव इति चेत्, तर्हि येनांशेनाभिन्नोपलभ्यता ततः प्रतिहन्यते तेन शब्दोपीति नैकांतनित्योसौ । द्वितीय विकल्पे सत्यप्यावारके शब्दस्योपलब्धिप्रसंगस्तदुपलभ्यतायाः प्रतिघाताभावात् । तथा च न तद्बुद्धिप्रतिघाती कश्चिदावारकः कूटस्थस्य युक्तो यतस्तदपनयनमभिव्यक्तिः सिद्ध्येत् । एतेन शब्दस्योपलब्ध्युत्पत्तिरभिव्यक्तिरिति ब्रुवन् प्रतिक्षिप्तः, तस्यां तदुपलभ्यतोत्पत्त्यनुत्पत्त्योः शब्दस्योत्पत्त्यप्रतिपत्तिप्रसंगात् । न हि शब्दस्योपलब्धेरुत्पत्तौ तदभिन्नोपलभ्यतोत्पद्यते न पुनः शब्द इति ब्रुवाणः स्वस्थः, तस्यास्ततो भेदे सदानुपलभ्यस्वभावतापत्तेर्धर्मधर्मिभावसंबंधायोगात्तत्संबंधादप्युपलभ्यत्वासंभवात् । भेदाभेदोपगमे कथंचिदुत्पत्तिप्रसिद्धेरेकांतनित्यताविरोधात् । शब्दस्योपलब्ध्युत्पत्तावप्युपलभ्यतानुत्पत्तौ स्यादप्रतिपत्तिरिति व्यर्थाभिव्यक्तिः । श्रोत्रसंस्कारोऽभिव्यक्तिरित्यन्ये; तेषामपि श्रोत्रस्यावारकापनयनं संस्कारः, शब्द - ग्रहणयोग्यतोत्पत्तिर्वा । तदा तद्भावे तस्योपलभ्यतोत्पत्त्यनुत्पत्त्योः स एव दोषः । तदुभयसंस्कारोऽभिव्यक्तिरित्ययं पक्षोsनेनैव प्रतिक्षेप्तव्यः प्रवाहनित्यतोपगमादभिधानस्याभिव्यक्तौ नोक्तो दोष इति चेत् म, पुरुषव्यापारात् प्राक् तत्प्रवाहसद्भावे प्रमाणाभावात् । प्रत्यभिज्ञानं प्रमाणमिति चेत्, तत्सादृश्यनिबंधनमेकत्वनिबंधनं वा ? । न तावदाद्यः पक्षः सादृश्यनिबंधनात्प्रत्यभिज्ञानादेकशब्दप्रवाहासिद्धेः । द्वितीयपक्षे तु कुतस्तदेकत्वनिबंधनत्वसिद्धिः । स एवायं शब्द इत्येकशब्दपरामर्शिप्रत्ययस्य बाधकाभावानिबंधनत्वसिद्धिस्तत एव नीलज्ञानस्य नीलनिबंधनत्वसिद्धिवदिति चेत् । स्यादेवं यदि तदेकत्वपरा - मर्शिनः प्रत्ययस्य बाधकं न स्यात् स एवायं देवदत्त इत्याद्येकत्वपरामर्शिप्रत्ययवत् । अस्ति च बाधकं नाना गोशब्दो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वाद् ब्रह्मवृक्षादिवदिति । न तावदिदमेकेन पुरुषेण क्रमशोऽनेकदेशतयोपलभ्यमानेनानैकांतिकं, युगपग्रहणात् । नाप्येकेनादित्येन नानापुरुषैः सकृद्भिन्नदेशतयोपलभ्यमानेन प्रत्यक्षानुमानाभ्यामेकपुरुषेण वा नानाजलपात्रसंक्रांतादित्यविबेन प्रत्यक्षतो दृश्यमानेनेति युक्तं वक्तुं, बाधकाभावे सतीति विशेषणात् । न ह्येकस्मिन्नादित्ये सर्वथा भिन्नदेशतयोपलभ्यमाने बाधकाभावः, प्रतिपुरुषमादित्यमालानुपलंभस्य बाधकस्य सद्भावात् । पर्वतादिनैकेन व्यभिचारीदमनुमा - नमिति चेत् । न । तस्य नानावयवात्मकस्य सतो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वं व्यवतिष्ठते । निरवयवत्वे तथाभावविरोधादेकपरमाणुवत् । व्योमादिना तदनैकांतिकत्वमनेन प्रत्युक्तं, तस्याप्यनेकप्रदेशत्वसिद्धेः । खादेरनेकप्रदेशत्वादेकद्रव्यविरोध इति चेत् । न । नानादेशस्यापि घटादेरेकद्रव्यत्वप्रतीतेः । न ह्येकप्रदेशत्वेनैवैकद्रव्यत्वं व्याप्तं येन परमाणोरेवैकद्रव्यता । नापि नानाप्रदेशत्वेनैव Page #15 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके यतो घटादेरेवेति व्यवतिष्ठते, एकद्रव्यत्वपरिणामेन तस्याः व्याप्तत्वदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता, नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतद्बाधकाभावे सतीति हेतु - विशेषणमसिद्धं गौरित्यादिशब्दस्य सर्वगतस्य युगपद्यंजकस्य देशभेदाद्भिन्नदेशतयोपलभ्यमानस्य खतो देशविच्छिन्नतयोपलंभासंभवादिति । तदयुक्तं । तस्य सर्वगतत्वासिद्धेः कूटस्थत्वेनाभिव्यंग्यत्वप्रतिषेधाच्च । सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्तत्वादाकाशवदित्येतदपि न शब्दसर्वगतत्वसाधनायालं, जीवद्रव्येणानैकांतिकत्वात् । तस्यापि पक्षीकरणान्न तेनानैकांत इति चेत् न, प्रत्यक्षादिविरोधात् । श्रोत्रं हि प्रत्यक्षं नियतदेशतया शब्दमुपलभते खसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति कालात्ययापदिष्टो हेतुस्तेजोनुष्णत्वे द्रव्यत्ववत् । खरूपासिद्धश्च सर्वथा नित्यद्रव्यत्वामूर्तत्वयोर्धर्मिण्य संभवात् । तथाहि । परिणामी शब्दो वस्तुत्वान्यथानुपपत्तेः, न वस्तुनः प्रतिक्षणविवर्तेनैकेन व्यभिचारस्तस्य वस्त्वेकदेशतया वस्तुत्वाव्यवस्थितेः । न च तस्या वस्तुत्वं वस्त्वेकदेशत्वाभावप्रसंगात् । वस्तुत्वस्यान्यथानुपपत्तिरसिद्धेति चेत्। न । एकांतनित्यत्वादौ पूर्वापरखभावत्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयौ - गपद्याभ्यामर्थक्रियाविरोधाद्वस्तुत्वासंभवादिति नैकांतनित्यः शब्दो, नापि सर्वथा द्रव्यं पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः क्रमशस्तत्रोद्भवत्वात् छायातपादिवत् कथंचिद्द्रव्यं शब्दः क्रियावत्त्वाह्वाणादिषत् । धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनानैकांत इति चेत् । न । परिस्पंदरूपया क्रियया क्रियावत्त्वस्य हेतुत्ववचनात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशांतरप्राप्त्या तस्य तत्सिद्धेरन्यथा बाणादेरपि निःक्रियत्वप्रसंगान्मतांतरप्रवेशाच्च । ततो द्रव्यपर्यायात्मकत्वाच्छब्दस्यैकांतेन द्रव्यत्वासिद्धिः । अमूर्तत्वं वासिद्धं तस्य मूर्तिमद्रव्यपर्यायत्वात् । मूर्तिमद्रव्यपर्यायोसौ सामान्यविशेषवत्त्वे सति बायेंद्रियविषयत्वादातपादिवत् । न घटत्वादिसामान्येन व्यभिचारः, सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्षं चेदं विशेषणं । खमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्षणस्य द्रव्यपर्यायात्मकत्वेन स्थितेस्तेन व्यभिचाराभावात् । कर्मणानैकांत इति चेत् न, तस्यापि द्रव्यपर्यायात्मकत्वेनेष्ठेः । स्पर्शादिना गुणेन व्यभिचारचोदनमनेनापास्तं । ततो हेतोरसिद्धिरेवेति नातोभिलापस्य सर्वगतत्वसाधनं यतो युगपद्भिन्नदेशतयोपलभ्यमानता अस्याबाधिता न भवेत् । प्रत्यभिज्ञानस्य वा तदेकत्व परामर्शिनोनुमानबाधितत्वेन पुरुषव्यापारात्प्राक् सद्भावावेदकत्वाभावात्तदभिव्यंग्यत्वाभाव इति तज्जन्यमेव वचनं सिद्धं पर्यायार्थतः पौरुषेयं । वचन सामान्यस्य पौरुषेयत्वसिद्धौ विशिष्टं सूत्रवचनं सत्प्रणेतृकं प्रसिद्ध्यत्येवेति सूक्तं “सिद्धे मोक्षमार्गस्य नेतरि प्रबंधन वृत्तं सूत्रमादिमं शास्त्रस्येति” । तथाप्यनाप्तमूलमिदं बक्तसामान्ये सति प्रवृत्तत्वाद्दुष्टपुरुषवचनवदिति न मतव्यं, साक्षात्प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे चेति विशेषणात् । सूत्रं हि सत्यं सयुक्तिकं चोच्यते हेतुमत्तथ्यमिति सूत्रलक्षणवचनात् । तच्च कथमसर्वज्ञे दोषवति च वक्तरि प्रवर्तते सूत्राभासत्त्वप्रसंगाद्बहस्पत्यादिसूत्रवत्ततोर्थतः सर्वज्ञवीतरागप्रणेतृकमिदं सूत्रं सूत्रत्वान्यथानुपपत्तेः । गणाधिपप्रत्येकबुद्धश्रुत केवल्यभिन्नदशपूर्वधरसूत्रेण स्वयं संमतेन व्यभिचार इति चेत् न, तस्याप्यर्थतः सर्वज्ञवीतरागप्रणेतृकत्वसिद्धेरर्हद्भाषितार्थं गणधरदेवैर्ग्रथितमिति वचनात् । एतेन गृद्धपिच्छाचार्यपर्यंतमुनिसूत्रेण व्यभिचारिता निरस्ता । प्रकृतसूत्रे सूत्रत्वमसिद्धमिति चेत् न, सुनिश्चितासंभवद्बाधकत्वेन तथास्य सूत्रत्वप्रसिद्धेः सकलशास्त्रार्थाधिकरणाच्च । न हि मोक्षमार्गविशेषप्रतिपादकं सूत्रमस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् यद्धि यदविषयं न तत्तद्वचसो बाधकं यथा रूपाविषयं रसनज्ञानं रूपवचसः श्रेयोमार्गविशेषाविषयं चास्मदादिप्रत्यक्षमिति । एतेनानुमानं तद्बाधकमिति प्रत्युक्तं, तस्याननुमानविषयत्वात् । श्रेयोमार्गसामान्यं हि तद्विषयो न पुनस्तद्विशेषः प्रव Page #16 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। चनविशेषसमधिगम्यः प्रवचनैकदेशस्तहाधक इति चेत् न, तस्यातिसंक्षेपविस्तराभ्यां प्रवृत्तस्याप्येतदर्थानतिक्रमात्तबाधकत्वायोगात् पूर्वापरप्रवचनैकदेशयोरन्योन्यमनुग्राहकत्वसिद्धेश्च । यथा वाधुनात्र चास्मदादीनां प्रत्यक्षादिति न तद्बाधकं तथान्यत्रान्यदान्येषां च विशेषाभावादिति सिद्धं सुनिश्चितासंभवद्वाधकत्वमस्य तथ्यतां साधयति । सा च सूत्रत्वं तत्सर्वज्ञवीतरागप्रणेतृकत्वमिति निरवद्यं प्रणेतुः साक्षात्प्रबुद्धाशेषतत्त्वार्थतया प्रक्षीणकल्मषतया च विशेषणं । मुनींद्रसंस्तुतत्वविशेषणं च विनेयमुख्यसेव्यतामंतरेण सतोपि सर्वज्ञवीतरागस्य मोक्षमार्गप्रणेतृत्वानुपपत्तेः, प्रतिग्राहकाभावेपि तस्य तत्प्रणयने अधुना यावत्तत्प्रवर्तनानुपपत्तेः । तत एवोपयोगात्मकस्यात्मनः श्रेयसा योक्ष्यमाणस्य विनेयमुख्यस्य प्रतिपित्सायां सत्यां सूत्रं प्रवृत्तमित्युच्यते । सतोपि विनेयमुख्यस्य यथोक्तस्य प्रतिपित्साभावे श्रेयोधर्मप्रतिपत्तेरयोगात् प्रतिग्राहकत्वासिद्धेरिदानीं यावत्तत्सूत्रप्रवर्तनाघटनात् , प्रवृत्तं चेदं प्रमाणभूतं सूत्रं । तस्मात्सिद्धे यथोक्ते प्रणेतरि यथोदितप्रतिपित्सायां च सत्यामिति प्रत्येयम् । नन्वपौरुषेयाम्नायमूलत्वेपि जैमिन्यादिसूत्रस्य प्रमाणभूतत्वसिद्धेर्नेदं सर्वज्ञवीतदोषपुरुषप्रणेतृकं सिध्यतीत्यारेकायामाह; नैकांताकृत्रिमानायमूलत्वेस्य प्रमाणता। तयाख्यातुरसर्वज्ञे रागित्वे विप्रलंभनात् ॥४॥ संभवन्नपि ह्यकृत्रिमाम्नायो न स्वयं स्वार्थ प्रकाशयितुमीशस्तदर्थविप्रतिपत्त्यभावानुषंगादिति तयाख्यातानुमंतव्यः । स च यदि सर्वज्ञो वीतरागश्च स्यात्तदाम्नायस्य तत्परतंत्रतया प्रवृत्तेः किमकृत्रिमत्वमकारणं पोष्यते । तद्व्याख्यातुरसर्वज्ञत्वे रागित्वे वाश्रीयमाणे तन्मूलस्य सूत्रस्य नैव प्रमाणता युक्ता, तस्य विप्रलंभनात् । दोषवद्याख्यातृकस्यापि प्रमाणत्वे किमर्थमदुष्टकारणजन्यत्वं प्रमाणस्य विशेषणं । यथैव हि खारपटिकशास्त्रं दुष्टकारणजन्यं तथानायव्याख्यानमपीति तद्विसंवादकत्वसिद्धेने तन्मूलं वचः प्रमाणभूतं सत्यं । सर्वज्ञवीतरागे च वक्तरि सिद्धे श्रेयोमार्गस्याभिधायकं वचनं प्रवृत्तं न तु कस्यचित्प्रतिपित्सायां सत्याम् । चेतनारहितस्य चात्मनः प्रधानस्य वा बुभुत्सायां तत्प्रवृत्तमिति कश्चित्तं प्रत्याह; नाप्यसत्यां बुभुत्सायामात्मनोऽचेतनात्मनः । खस्येव मुक्तिमार्गोपदेशायोग्यत्वनिश्चयात् ॥५॥ नैव विनेयजनस्य संसारदुःखाभिभूतस्य बुभुत्सायामप्यसत्यां श्रेयोमार्गे परमकारुणिकस्य करुणामात्रात्तत्प्रकाशकं वचनं प्रवृत्तिमदिति युक्तं, तस्योपदेशायोग्यत्वनिर्णीतेः । न हि तत्प्रतिपित्सारहितस्तदुपदेशाय योग्यो नामातिप्रसंगात् तदुपदेशकस्य च कारुणिकत्वायोगात् । ज्ञात्वा हि बुभुत्सां परेषामनुग्रहे प्रवर्तमानः कारुणिकः स्यात् क्वचिदप्रतिपित्सावति परप्रतिपित्सावति वा तत्प्रतिपादनाय प्रयतमानस्तु न खस्थः । परस्य प्रतिपित्सामंतरेणोपदेशप्रवृत्तौ तत्प्रश्नानुरूपप्रतिवचनविरोधश्च । योपि चाज्ञत्वान्न खहितं प्रतिपित्सते तस्य हि तत् प्रतिपित्सा करणीया। न च कश्चिदात्मनः प्रतिकूलं बुभुत्सते मिथ्याज्ञानादपि खप्रतिकूले अनुकूलाभिमानादनुकूलमहं प्रतिपित्से सर्वदेति प्रत्ययात्। तत्र नेदं भवतोनुकूलं किंत्विदमित्यनुकूलं प्रतिपित्सोत्पाद्यते । समुत्पन्नानुकूलप्रतिपित्सस्तदुपदेशयोग्यतामात्मसात् कुरुते । ततः श्रेयोमार्गप्रतिपित्सावानेवाधिकृतस्तत्प्रतिपादने नान्य इति सूक्तं । प्रधानस्यात्मनो वा चेतनारहितस्य बुभुत्सायां न प्रथमं सूत्रं प्रवृत्तं तस्याप्युपदेशायोग्यत्वनिश्चयात्खादिवत् । चैतन्यसंबंधात्तस्य चेतनतोपगमादुपदेशयोग्यत्वनिश्चय इति चेन्न । तस्य चेतनासंबंधेपि परमार्थतश्चेतनतानुपपत्तेः शरीरादिवत् । उपचारात्तु Page #17 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके चेतनस्योपदेशयोग्यतायामतिप्रसंगः शरीरादिषु तन्निवारणाघटनात् । तत्संबंधविशेषात्परमार्थतः कस्यचिच्चेतनत्वमितिचेत् , स कोन्योन्यत्र कथंचिच्चेतनातादात्म्यात् । ततो ज्ञानाद्युपयोगखभावस्यैव श्रेयसा योक्ष्यमाणस्य श्रेयोमार्गप्रतिपित्सायां सत्यामिदं प्रकृतं सूत्रं प्रवृत्तमिति निश्चयः । प्रमाणभूतस्य प्रबंधन वृत्तेः श्रोतृविशेषाभावे वक्तृविशेषासिद्धौ विधानानुपपद्यमानत्वात् । __ किं पुनः प्रमाणमिदमित्याह; संप्रदायाव्यवच्छेदाविरोधादधुना नृणाम् । सद्गोत्राद्युपदेशोत्र यद्वत्तद्वद्विचारतः ॥६॥ प्रमाणमागमः सूत्रमाप्तमूलत्वसिद्धितः । लैंगिकं वाविनाभाविलिंगात्साध्यस्य निर्णयात् ॥७॥ प्रमाणमिदं सूत्रमागमस्तावदाप्तमूलत्वसिद्धेः सद्गोत्राद्युपदेशवत् । कुतस्तदाप्तमूलत्वसिद्धिरिति चेत् संप्रदायाव्यवच्छेदस्याविरोधात् तद्वदेवेति ब्रूमः । कथमधुनाततानां नृणां तत्संप्रदायाव्यवच्छेदाविरोधः । सिद्ध इति चेत् सद्गोत्राद्युपदेशस्य कथं ? विचारादिति चेत् मोक्षमार्गोपदेशस्यापि तत एव । कः पुनरत्र विचारः सद्गोत्राद्युपदेशे कः ? प्रत्यक्षानुमानागमैः परीक्षणमत्र विचारोऽभिधीयते सोमवंशः क्षत्रियोयमिति हि कश्चित्प्रत्यक्षतोतींद्रियादध्यवस्यति तदुच्चैर्गोत्रोदयस्य सद्गोत्रव्यवहारनिमित्तस्य साक्षात्करणात् । कश्चित्तु कार्यविशेषदर्शनादनुमिनोति । तथागमादपरः प्रतिपद्यते ततोप्यपरस्तदुपदेशादिति संप्रदायस्याव्यवच्छेदः सर्वदा तदन्यथोपदेशाभावात् । तस्याविरोधः पुनः प्रत्यक्षादिविरोधस्यासंभवादिति तदेतन्मोक्षमार्गोपदेशेपि समानं । तत्राप्येवंविधविशेषाक्रांतानि सम्यग्दर्शनादीनि मोक्षमार्ग इत्यशेषतोतींद्रियप्रत्यक्षतो भगवान् परममुनिः साक्षात्कुरुते, तदुपदेशाद्गणाधिपः प्रत्येति, तदुपदेशादप्यन्यस्तदुपदेशाच्चापर इति संप्रदायस्याव्यवच्छेदः सदा तदन्यथोपदेशाभावात्। तस्याविरोधश्च प्रत्यक्षादिविरोधस्याभावादिति । सद्गोत्राद्युपदेशस्य यत्र यदा यथा यस्याव्यवच्छेदस्तत्र तदा तथा तस्य प्रमाणत्वमपीष्टमिति चेत् , मोक्षमार्गोपदेशस्य किमनिष्टं । केवलमत्रेदानीमेवमस्मदादेस्तद्व्यवच्छेदाभावाप्रमाणता साध्यते। कपिलाद्युपदेशस्यैवं प्रमाणता स्यादिति चेत् न, तस्य प्रत्यक्षादिविरोधसद्भावात् । नन्वातमूलस्याप्युपदेशस्य कुतोर्थनिश्चयोसदादीनां ? न तावत्खत एव वैदिकवचनादिवत्पुरुषव्याख्यानादिति चेत्। स पुरुषोऽसर्वज्ञो रागादिमांश्च यदि तदा तद्व्याख्यानादर्थनिश्चयानुपपत्तिरयथार्थाभिधानशंकनात् । सर्वज्ञो वीतरागश्च न सोत्रेदानीमिष्टो यतस्तदर्थनिश्चयः स्यादिति कश्चित् । तदसत् । प्रकृतार्थपरिज्ञाने तद्विषयरागद्वेषाभावे च सति तद्व्याख्यातुर्विप्रलंभनासंभवात्तद्व्याख्यानादर्थनिश्चयोपपत्तेः । अपौरुषेयागमार्थनिश्चयस्तद्वदस्तु । मन्वादेस्तव्याख्यातुस्तदर्थपरिज्ञानस्य तद्विषयरागद्वेषाभावस्य च प्रसिद्धत्वादिति चेत् न, प्रथमतः कस्यचिदतींद्रियवेदार्थपरिच्छेदिनोऽनिष्टेरन्वर्थपरंपरातोर्थनिर्णयानुपपत्तेः । ननु च व्याकरणाद्यभ्यासाल्लौकिकपदार्थनिश्चये तदविशिष्टवैदिकपदार्थनिश्चयस्य खतः सिद्धेः पदार्थप्रतिपत्तौ च तद्वाक्यार्थप्रतिपत्तिसंभवादश्रुतकाव्यादिवन्न वेदार्थनिश्चयेतींद्रियार्थदर्शी कश्चिदपेक्ष्यते, नाप्यंधपरंपरा यतस्तदर्थनिर्णयानुपपत्तिरिति चेत् । न । लौकिकवैदिकपदानामेकत्वेपि नानार्थत्वावस्थितेरेकार्थपरिहारेण व्याख्यांगमिति तस्यार्थस्य निगमयितुमशक्यत्वात् । प्रकरणादिभ्यस्तन्नियम इति चेन्न, तेषामप्यनेकधा प्रवृत्तेः पंचसंधानादिवदेकार्थस्य व्यवस्थानायोगात् । यदि पुनर्वेदवाक्यानि सनिबंधनान्येवानादिकालप्रवृत्तानि न व्याख्यानांतरापेक्षाणि देशभाषावदिति मतं, तदा कुतो व्याख्याविप्रतिपत्तयस्तत्र भवेयुः । प्रतिपत्तुर्मीद्यादिति चेत् । Page #18 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । केयं तदर्थसंप्रतिपत्तिरमंदस्य प्रतिपत्तुर्जातुचिदसंभवात् । सातिशयप्रज्ञो मन्वादिस्तत्प्रतिपत्ता संप्रतिपत्तिहेतुरस्त्येवेति चेत् । कुतस्तस्य तादृशः प्रज्ञातिशयः? श्रुत्यर्थस्मृत्यतिशयादिति चेत्। सोपि कुतः। पूर्वजन्मनि श्रुत्यभ्यासादिति चेत् , स तस्य खतोऽन्यतो वा ? खतश्चेत् सर्वस्य स्यात् तस्यादृष्ट विशेषाद्वेदाभ्यासः खतो युक्तो न सर्वस्य तदभावादिति चेत् कुतोस्यैवादृष्टविशेषस्तादृग्वेदार्थानुष्ठानादिति चेत् । तर्हि स वेदार्थस्य स्वयं ज्ञातस्यानुष्ठाता स्यादज्ञातस्य वापि । न तावदुत्तरः पक्षोतिप्रसंगात् । खयं ज्ञातस्य चेत् परस्पराश्रयः, सति वेदार्थस्य ज्ञाने तदनुष्ठानाददृष्टविशेषः सति वादृष्टविशेषे खयं वेदार्थस्य परिज्ञानमिति । मन्वादेर्वेदाभ्यासोन्यत एवेति चेत् । स कोन्यः ? ब्रह्मेति चेत् । तस्य कुतो वेदार्थज्ञानं धर्मविशेषादिति चेत् स एवान्योन्याश्रयः । वेदार्थपरिज्ञानाभावे तत्पूर्वकानुष्ठानजनितधर्मविशेषानुत्पत्तौ वेदार्थपरिज्ञानायोगादिति । स्यान्मतं । सहस्रशाखो वेदः खर्गलोके ब्रह्मणाधीयते चिरं पुनस्ततोवतीर्य मयै मन्वादिभ्यः प्रकाश्यते पुनः खर्ग गत्वा चिरमधीयते पुनर्मावतीर्णेभ्यो मन्वादिभ्योऽवतीर्य प्रकाश्यत इत्यनाद्यनंतो ब्रह्ममन्वादिसंतानो वेदार्थविप्रतिपत्तिनिराकरणसमर्थोऽधपरंपरामपि परिहरतीति वेदे तव्याहृतं, सर्वपुरुषाणामतींद्रियार्थज्ञानविकलत्वोपगमाद्ब्रह्मादेरतींद्रियार्थज्ञानायोगात् । चोदनाजनितमतींद्रियार्थज्ञानं पुसोभ्युपेयते चेत्, योगिप्रत्यक्षेण कोपराधः कृतः। तदन्तरेणापि हेयोपादेयतत्त्वनिश्चयात् किमस्यादृष्टस्य कल्पनयेति चेत् ब्रह्मादेरतींद्रियार्थज्ञानस्य किमिति दृष्टस्य कल्पना । संभाव्यमानस्येति चेत् योगिप्रत्यक्षस्य किमसंभावना । यथैव हि शास्त्रार्थस्याक्षाद्यगोचरस्य परिज्ञानं केषांचिदृष्टमिति ब्रह्मादेर्वेदार्थस्य ज्ञानं तादृशस्य संभाव्यते तथा केवलज्ञानमपीति निवेदयिष्यते। ततः सकलागमार्थविदामिव सर्वविदां प्रमाणपिरत्वान्नानुपलभ्यमानानां परिकल्पना । नापि तैर्विनैव हेयोपादेयतत्त्वनिर्णयः सकलार्थविशेषसाक्षास्करणमंतरेण कस्यचिदर्थस्याक्षूणविधानायोगात् । सामान्यतस्तत्त्वोपदेशस्याषणविधानमाम्नायादेवेति चेत् तर्खनुमानादेव तत्तथास्त्विति किमागमप्रामाण्यसाधनायासेन । प्रत्यक्षानुमानाविषयत्वनिर्णयो नागमाद्विनेति तत्प्रामाण्यसाधने प्रत्यक्षानुमानागमाविषयत्वविशेषनिश्चयोपि न केवलज्ञानाद्विनेति तत्प्रामाण्यं किं न साध्यते । न हि तृतीयस्थानसंक्रांतार्थभेदनिर्णयासंभवेनुमेयार्थनिर्णयो नोपपद्यत इत्यागमगम्यार्थनिश्चयस्तत्त्वोपदेशहेतुर्न पुनश्चतुर्थस्थानसंक्रांतार्थनिश्चयोपीति युक्तं वक्तुं । तदा केवलज्ञानासंभवे तदर्थनिश्चयायोगात् । न च चोदनाविषयत्वमतिक्रांतश्चतुर्थस्थानसंक्रांतः कश्चिदर्थविशेषो न विद्यत एवेति युक्तं, सर्वार्थविशेषाणां चोदनया विषयीकर्तुमशक्तेस्तस्याः सामान्यभेदविषयत्वात् । ततोऽशेषार्थविशेषाणां साक्षात्करणक्षमः प्रवचनस्याद्यो व्याख्याताभ्युपेयस्तद्विनेयमुख्यश्च सकलागमार्थस्य परिच्छेदीति तत्संप्रदायाव्यवच्छेदादविरुद्धात्सिद्धोमदादेरागमार्थनिश्चयो न पुनरपौरुषेयागमसंप्रदायाव्यवच्छेदात्तत्सूक्तमागमः प्रमाणमिदं सूत्रमिति । ननु च सन्नप्याप्तः प्रवचनस्य प्रणेतास्येति ज्ञातुमशक्यस्तद्व्यापारादेर्व्यभिचारित्वात् सरागा अपि हि वीतरागा इव चेष्टते वीतरागाश्च सरागा इवेति कश्चित् । सोप्यसंबद्धप्रलापी । सरागत्ववीतरागत्वनिश्चयस्य कचिदसंभवे तथा वक्तुमशक्तेः । सोयं वीतरागं सरागवच्चेष्टमानं कथंचिन्निश्चिन्वन् वीतरागनिश्चयं प्रतिक्षिपतीति कथमप्रमत्तः खयमात्मानं कदाचिद्वीतरागं सरागवच्चेष्टमानं संवेदयते न पुनः परमिति चेत् । कुतः सुगतसंवित्तिः कार्यानुमानादिति चेत् न । तत्कार्यस्य व्याहारादेर्व्यभिचारित्ववचनात् विप्रकृष्टखभावस्य सुगतस्य नास्तित्वं प्रतिक्षिप्यते । बाधकामावान्न तु तदस्तित्वनिश्चयः क्रियत इति चेत् कथमनिश्चितसत्ताकः स्तुत्यः प्रेक्षावतामिति साश्चर्य नश्वेतः । कथं वा संतानांतरक्षणस्थितिवर्गप्रापणशक्त्यादेः सत्तानिश्चयः खभावविप्रकृष्टस्य क्रियेत तदकरणे सर्वत्र संशयान्नाभिमततत्त्वनिश्चयः संवेदनाद्वैतमत एवं श्रेयस्तस्यैव सुगतत्वात् संस्तुत्यतोपपत्तेरित्यपरः । सोपि यदि संवेद्याद्याकाररहितं निरंश Page #19 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके क्षणिकवेदनं विप्रकृष्टखभावं क्रियात्तदा न तत्सत्तासिद्धिः स्वयमुपलभ्यखभावं चेन्न तत्र विभ्रमः खयमुपलब्धस्यापि निश्चयाभावाद्विभ्रमः स्यादिति चेत् । कथमनिश्चितं खतः सिद्धं नाम येन स्वरूपस्य खतो गतिर्व्यवतिष्ठतेति कायं तिष्ठेद्विप्रकृष्टसंशयवादी । अनाद्यविद्यातृष्णाक्षयादद्वयसंवेदने विभ्रमाभावो न निश्चयोत्पादात् सकलकल्पनाविकल्पत्वात्तस्येति चेत् , सा तयविद्या तृष्णा च यद्युपलभ्यखभावा तदा न संवेदनाद्वैतं तस्यास्ततोन्यस्याः प्रसिद्धेः । सानुपलभ्यखभावा चेत् , कुतस्तद्भावाभावनिश्चयो यतो ह्यद्वयसंवेदने विभ्रमाविभ्रमव्यवस्था । निरंशसंवेदनसिद्धिरेवाविद्यातृष्णानिवृत्तिसिद्धिरित्यपि न सम्यक् । विप्रकृष्टेतरखभावयोरर्थयोरेकतरसिद्धावन्यतरसद्भावासद्धावसिद्धेश्योगात् । कथमन्यथा व्याहारदिविशेषोपलंभात्कस्यचिद्विज्ञानाद्यतिशयसद्भावो न सिद्ध्येत्। तदयं प्रतिपत्ता खस्मिन् व्याहारादिकार्य रागित्वारागित्वयोः संकीर्णमुपलभ्य परत्र रागित्वनियमभावं साधयति न पुनररागित्वं । रागित्वं चेति ब्रुवाणः परीक्षकत्वमभिमन्यत इति किमपि महाद्भुतं । यथैव हि रागित्वाद्यतींद्रियं तथा तदनियतत्वमपीति । कुतश्चित्तत्साधने वीतरागित्वाधतिशयसाधनं साधीयः । ततोयमस्य प्रवचनस्य प्रणेताप्त इति ज्ञातुं शक्यत्वादाप्तमूलत्वं तत्प्रामाण्यनिबंधनं सिद्ध्यत्येव । अथवानुमानमिदं सूत्रमविनाभाविना भाविनो मोक्षमार्गत्वलिंगान्मोक्षमार्गधर्मिणि सम्यग्दर्शनादित्रयात्मकत्वस्य साध्यस्य निर्णयात् । तथाहि । सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गो मोक्षमार्गत्वान्यथानुपपत्तेः। न तावदत्राप्रसिद्धो धर्मी हेतुर्वा मोक्षवादिनामशेषाणामविप्रतिपत्तेः । मोक्षाभाववादिनस्तु प्रति तसिद्धेः प्रमाणतः करिष्यमाणत्वात् । प्रतिज्ञार्थंकदेशो हेतुरिति चेत् । कः पुनः प्रतिज्ञार्थस्तदेकदेशो वा ? साध्यधर्मधर्मिसमुदायः प्रतिज्ञार्थस्तदेकदेशः साध्यं धर्मो यथानित्यः शब्दोऽनित्यत्वादिति धर्मी वा तदेकदेशो यथा नश्वरः शब्दः शब्दत्वादिति । सोयं हेतुत्वेनोपादीयमानो न साध्यसाधनायालं खयमसिद्धमिनि चेत् । कथं धर्मिणोऽसिद्धता प्रसिद्धो धर्मीति वचनव्याघातात् । सत्यं । प्रसिद्ध एव धर्मीति चेत् स तर्हि हेतुत्वेनोपादीयमानोपि न खयमसिद्धो यतो न साध्यं साधयेत् स हेतुस्तदन्वयः स्यात् धर्मिणोन्यत्रानुगमनाभावादिति चेत् सर्वमनित्यं सत्त्वादिति धर्मः किमन्वयी येन खसाध्यसाधने हेतुरिष्यते सत्त्वादिधर्मसामान्यमशेषधर्मिव्यक्तिष्वन्वयीति चेत् तथा धर्मिसामान्यमपि दृष्टांतधर्मिण्यनन्वयः पुनरुभयोति यत्किचिदेतत् । साध्यधर्मः पुनः प्रतिज्ञार्थंकदेशत्वान्न हेतुर्धर्मिणा व्यभिचारात् । किं तर्हि खरूपासिद्धत्वादेवेति न प्रतिज्ञार्थंकदेशो नाम हेत्वाभासोस्ति योत्राशंक्यते श्रावणत्वादिवदसाधारणत्वादनैकांतिकोयं हेतुरिति चेन्न असाधारणत्वस्यानैकांतिकत्वेन व्याप्त्यसिद्धेः । सपक्षविपक्षयोर्हि हेतुरसत्त्वेन निश्चितोऽसाधारणः संशयितो वा ? निश्चितश्चेत् कथमनैकांतिकः पक्षे साध्यासंभवे अनुपपद्यमानतयास्तित्वेन निश्चितत्वात् संशयहेतुत्वाभावात् । न च सपक्षविपक्षयोरसत्त्वेन निश्चिते पक्षे साध्याविनाभावित्वेन निश्चेतुमशक्यः सर्वानित्यत्वादौ सत्त्वादेरहेतुत्वप्रसंगात् । न हि सत्त्वादिविपक्ष एवासत्त्वेन निश्चितः सपक्षेपि तदसत्त्वनिश्चयात् सपक्षस्याभावात्तत्र सर्वानित्यत्वादौ साध्ये सत्त्वादेरसत्त्वनिश्चयान्निश्चयहेतुत्वं न पुनः श्रावणत्वादेस्तद्भावेपीति चेत् । ननु श्रावणत्वादिरपि यदि सपक्षे स्यात्तदा तं व्याप्नुयादेवेति समानांताप्तिः । सति विपक्षे धूमादिश्चासत्त्वेन निश्चितो निश्चयहेतुर्माभूत् । विपक्षे सत्यसति वा सत्त्वेन निश्चितः साध्याविनाभावित्वाद्धेतुरेवेति चेत् , सपक्षे सत्यसति वा सत्त्वेन निर्णीतो हेतुरस्तु तत एव सपक्षे तदेकदेशे वा सन् कथं हेतुरिति चेत् ; सपक्षे असन्नेव हेतुरित्यनवधारणात् । विपक्षे तदसत्त्वानवधारणमस्त्वित्ययुक्तं साध्याविनाभावित्वव्याघातात् । नैवं । सपक्षे तदसत्त्वानवधारणे व्याघातः कश्चिदिति । तत्र सन्नसन् वा साध्याविनाभावी हेतुरेव श्रावणत्वादिः सत्त्वादिवत् । तद्वन्मोक्षमार्गत्वादिति हेतु साधारणत्वादगमकः साध्यस्य सम्यग्दर्शनज्ञानचारित्रात्मकत्वस्याभावे ज्ञानमात्रात्मकत्वादौ Page #20 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । सर्वथानुपपन्नत्वसाधनात् । यदि पुनः सपक्षविपक्षयोरसत्त्वेन संशयितो साधारण इति मतं तदा पक्षत्रयवृत्तितया निश्चितया संशयितया वानकांतिकत्वं हेतोरित्यायातं । न च प्रकृतहेतोः सास्तीति गमकत्वमेव विरुद्धतानेन प्रत्युक्ता विपक्षे बाधकस्य भावाच्च । न चैवं हेतोरानर्थक्यं ततो विधिमुखेन साध्यस्य सिद्धेरन्यथा गमकत्ववित्तौ तदापत्तेस्ततः सूक्तं लैंगिकं वा प्रमाणमिदं सूत्रमविनाभाविलिंगात्साध्यस्य निर्णयादिति । प्रमाणत्वाच्च साक्षात्प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे सिद्धे प्रवृत्तमन्यथा प्रमाणत्वानुपपत्तेः । नेदं सर्वज्ञे सिद्धे प्रवृत्तं तस्य ज्ञापकानुपलंभादभावसिद्धेरिति परस्य महामोहविचेष्टितमाचष्टे; तत्र नास्त्येव सर्वज्ञो ज्ञापकानुपलंभनात् । व्योमांभोजवदित्येतत्तमस्तमविजूंभितम् ॥८॥ नास्ति सर्वज्ञो ज्ञापकानुलब्धेः खपुष्पवदिति ब्रुवन्नात्मनो महामोहविलासमावेदयति । यस्मादिदं ज्ञापकमुपलभ्यत इत्याह; सूक्ष्माद्यर्थोपदेशो हि तत्साक्षात्कर्तृपूर्वकः। परोपदेशलिंगाक्षानपेक्षावितथत्वतः॥९॥ शीतं जलमित्याद्युपदेशेनाक्षापेक्षणावितथेन व्यभिचारोऽनुपचरिततत्साक्षात्कर्तृपूर्वकत्वस्य साध्यस्याभावेपि भावादवितथत्वस्य हेतोरुपचारतस्तत्साक्षात्कर्तृपूर्वकत्वसाधने खसिद्धांतविरोधात् । तत्सामान्यस्य साधने खाभिमतविशेषसिद्धौ प्रमाणांतरापेक्षणात्प्रकृतानुमानवैयर्थ्यापत्तिरिति न मंतव्यमक्षानपेक्षत्वनिशेषणात् । सर्वज्ञविज्ञानस्याप्यक्षजत्वादसिद्धं विशेषणमित्यपरः । सोप्यपरीक्षकः । सकलार्थसाक्षात्करणस्याक्षजज्ञानेनासंभवात् , धर्मादीनाम:रसंबंधात् । स हि साक्षान्न युक्तः पृथिव्याद्यवयविवत् । नापि परंपरया रूपरूपित्वादिवत् खयमनुमेयत्ववचनात् । योगजधर्मानुगृहीतान्यक्षाणि सूक्ष्माद्यर्थे धर्मादौ प्रवर्तते महेश्वरस्येत्यप्यसारं खविषये प्रवर्तमानानामतिशयाधानस्यानुग्रहत्वेन व्यवस्थितेः सूक्षाद्यर्थेक्षाणामप्रवर्तनात्तदघटनात् । यदि पुनस्तेषामविषयेपि प्रवर्तनमनुग्रहस्तदैकमेवेंद्रियं सर्वार्थ ग्रहीष्यतां । सत्यमंतःकरणमेकं योगजधर्मानुगृहीतं युगपत्सर्वार्थसाक्षात्करणक्षममिष्टमिति चेत् । कथमणोर्मनसः सर्वार्थसंबंधः सकृदुपपद्यते दीर्घशष्कुलीभक्षणादौ सकृच्चक्षुरादिभिस्तत्संबंधप्रसक्तेः रूपादिज्ञानपंचकस्य क्रमोत्पत्तिविरोधात् । क्रमशोन्यत्र तस्य दर्शनादिह क्रमपरिकल्पनायां सर्वार्थेषु योगिमनःसंबंधस्य क्रमकल्पनास्तु सर्वार्थानां साक्षात्करणसमर्थस्येश्वरविज्ञानस्यानुमानसिद्धत्वात्तैरीशमनसः सकृत्संबंधसिद्धिरिति चेत् । रूपादिज्ञानपंचकस्य कचिद्योगपद्येनानुभवादनीशमनसोपि सकृच्चक्षुरादिभिः संबंधोस्तु कुतश्चिद्धर्मविशेषात्तथोपपत्तेः । तादृशो धर्मविशेषः कुतोऽनीशस्य सिद्ध इति चेत् , ईशस्य कुतः? सकृत्सर्वार्थज्ञानात्तत्कार्यविशेषादिति चेत्, तर्हि सकृद्रूपादिज्ञानपंचकात् कार्यविशेषादनीशस्य तद्धेतुर्धर्मविशेषोस्तीति किं न सिद्ध्येत् । तथा सति तस्य रूपादिज्ञानपंचकं नेंद्रियजं स्यात् । किं तर्हि धर्मविशेषजमेवेति चेत् , सर्वार्थज्ञानमप्येवमीशस्यांतःकरण माभूत् समाधिविशेषोत्थधर्मविशेषजत्वात्तस्य मनोनपेक्षस्य ज्ञानस्यादर्शनाददृष्टकल्पना स्यादिति चेत् । मनोपेक्षस्य वेदनस्य सकृत्सर्वार्थसाक्षात्कारिणः कचिद्दर्शनं किमस्ति येनादृष्टस्य कल्पना न स्यात् । सर्वार्थज्ञानं मनोपेक्षं ज्ञानत्वादस्मदादिज्ञानवदिति चेत् न, हेतोः कालात्ययापदिष्टत्वात् पक्षस्यानुमानबाधितत्वात् । तथाहि सर्वज्ञविज्ञानं मनोक्षानपेक्षं सकृत्सर्वार्थपरिच्छेदकत्वात् यन्मनोक्षापेक्षं तत्तु न सकृत्सर्वार्थपरिच्छेदकं दृष्टं यथास्सदादिज्ञानं न च तथेदमिति मनोपेक्षत्वस्य निराकरणात् । नन्वेवं शष्कुलीभक्षणादौ रूपादिज्ञानपंचकं मनोक्षानपेक्षं सकृद्रूपादिपंचकपरिच्छेदकत्वाद्य Page #21 -------------------------------------------------------------------------- ________________ १२ तत्त्वार्थश्लोकवार्तिके न्नैवं तन्नैवं दृष्टं यथान्यत्र क्रमशो रूपादिज्ञानं न च तथेदमतोक्षमनोनपेक्षमित्यप्यनिष्टं सिच्छेदिति मा मंस्थाः साधनस्यासिद्धत्वात्, परस्यापि हि नैकांतेन शष्कुलीभक्षणादौ रूपादिज्ञानपंचकस्य सकृद्रूपादिपंचकपरिच्छेदकत्वं सिद्धं । सोपयोगस्यानेकज्ञानस्यैकत्रात्मनि क्रमभावित्ववचनात् । शक्तितोनुपयुक्तस्य यौगपद्यस्याप्रसिद्धेः । प्रतीतिविरुद्धं चास्याक्षमनोनपेक्षत्वसाधनं तदन्वयव्यतिरेकानुविधायितया तदपेक्षत्वसिद्धेरन्यथा कस्यचित्तदपेक्षत्वायोगात् । ततः कस्यचित् सकृत्सूक्ष्माद्यर्थसाक्षात्करणमिच्छता मनोक्षानपेक्षमेषितव्यमिति नाक्षानपेक्षत्वविशेषणं सूक्ष्माद्यर्थोपदेशस्यासिद्धं सिद्धमप्येतदनर्थकं तत् साक्षात्कर्तृपूर्वकत्वसामान्यस्य साधयितुमभिप्रेतत्वान्न वा सर्वज्ञवादिनः सिद्धसाध्यता, नापि साध्याविकलत्वादुदाहरणस्यानुपपत्तिरित्यन्ये । प खमतानपेक्षं ब्रुवाणा न प्रतिषिध्यंते परानुरोधात्तथाभिधानात् । खसिद्धांतानुसारिणां तु सफलमक्षानपेक्षत्वविशेषणमित्युक्तमेव । तदनुमातृपूर्वक सूक्ष्माद्यर्थोपदेशे नाक्षानपेक्षावितथत्वमनैकांतिकमित्यपि न शंकनीयं । लिंगानपेक्षत्वविशेषणात् । न चेदमसिद्धं परोपदेशपूर्वके सूक्ष्माद्यर्थोपदेशे लिंगानपेक्षा - वितथत्वप्रसिद्धेः। तेनैव व्यभिचारीदमिति चेत् न, परोपदेशानपेक्षत्वविशेषणात् । तदसिद्धं धर्माद्युपदेशस्य सर्वदा परोपदेशपूर्वकत्वात् । तदुक्तं । धर्मे चोदनैव प्रमाणं नान्यत् । किं च । नेन्द्रियमिति कश्चित् । तत्र केयं चोदना नाम ? क्रियायाः प्रवर्तकं वचनमिति चेत् तत् पुरुषेण व्याख्यातं स्वतो वा क्रियायाः प्रवर्तकं श्रोतुः स्यात् ? न तावत्स्वत एवाचार्यचोदितः करोमीति हि दृश्यते न वचनचोदित इति । नन्वपौरुषेयाद्वचनात्प्रवर्तमानो वचनचोदितः करोमीति प्रतिपद्यते पौरुषेयादाचार्यचोदित इति विशेषोस्त्येवेति चेत्। स्यादेवं यदि मेघध्वानवदपौरुषेयं वचनं पुरुषप्रयत्त्रनिरपेक्षं प्रवर्तकं क्रियायाः प्रतीयेत, न च प्रतीयते । सर्वदा पुरुषव्यापारापेक्षत्वात्तत्स्वरूपलाभस्य । पुरुषप्रयत्नोभिव्यंजकस्तस्येति चेन्नैकांतनित्यस्या भिव्यक्त्यसंभवस्य समर्थितत्वात् । पुरुषेण व्याख्यातमपौरुषेयं वचः क्रियायाः प्रवर्तकमिति चेत्, स पुरुषः प्रत्ययितोऽप्रत्ययितो वा ? न तावत्प्रत्ययितोतीन्द्रियार्थज्ञानविकलस्य रागद्वेषवतः सत्यवादितया प्रत्येतुमशक्तेः । स्यादपींद्रियगोचरेर्थेऽनुमानगोचरे वा पुरुषस्य प्रत्ययिता ननु तृतीयस्थानं संक्रांते जात्यंधस्येव रूपविशेषेषु । न च ब्रह्मा मन्वादिर्वातीन्द्रियार्थदर्शी रागद्वेषविकलो वा सर्वदोपगतो यतोस्मात्प्रत्ययिताच्चोदनाव्याख्यानं प्रमाण्यमुपेयादित्युक्तं प्राक् । खयमप्रत्ययितात्तु पुरुषात् तद्व्याख्यानं प्रवर्तमानमसत्यमेव नद्यास्तीरे फलानि संतीति लौकिकवचनवत् । न चापौरुषेयं वचनमतथाभूतमप्यर्थं ब्रूयादिति विप्रतिषिद्धं यतस्तद्व्याख्यानमसत्यं न स्यात् । लौकिकमपि हि वचनमर्थं ब्रवीति बोधयति बुध्यमानस्य निमित्तं भवतीत्युच्यते वितथार्थाभ्यधायि च दृष्टमविप्रतिषेधात् । तद्यदार्थ ब्रवीति न तदा वितथार्थाभिधायि । यदा तु बाधकप्रत्ययोत्पत्तौ वितथार्थाभिधायि न तदा यथार्थ ब्रवीत्यविप्रतिषेधे वेदवचनेपि तथा विप्रतिषेधो मा भूत्, तत्र बाधकप्रत्ययोत्पत्तेरसंभवाद्विप्रतिषेध एवेति चेत्, नाग्निहोत्रात्स्वर्गो भवतीति चोदनायां बाधकसद्भावात् । तथाहि । नाग्निहोत्रं स्वर्गसाधनं हिंसाहेतुत्वात्साधनवधवत् साधनवधो वा न स्वर्गसाधनस्तत एवाग्निहोत्रवत् । विधिपूर्वकस्य पश्वादिवधस्य विहितानुष्ठानत्वेन हिंसाहेतुत्वाभावात् असिद्धो हेतुरिति चेत्, तर्हि विधिपूर्वकस्य साधनवधस्य खारपटिकानां विहितानुष्ठानत्वेन हिंसाहेतुत्वं माभूदिति सधनवधात्स्वर्गे भवतीति वचनं प्रमाणमस्तु तस्याप्यैहिकप्रत्यवायपरिहारसमर्थेतिकर्तव्यतालक्षणविधिपूर्वकत्वाविशेषात् । न हि वेदविहितमेव विहितानुष्ठानं, न पुनः खरपटशास्त्रविहितमित्यत्र प्रमाणमस्ति यागः । श्रेयोर्थिनां विहितानुष्ठानं श्रेयस्करत्वान्न सधनवधस्तद्विपरीतत्वादिति चेत् । कुतो यागस्य श्रेयस्करत्वं ? धर्मशब्देनोच्यमानत्वात् । यो हि यागमनुतिष्ठति तं 'धार्मिक' इति समाचक्षते, यश्च यस्य कर्ता स तेन समाख्यायते यथा याचको लावक इति । तेन यः पुरुषं निःश्रेय 1 E Page #22 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १३ 5 सेन संयुनक्ति स धर्मशब्देनोच्यते । न केवलं लोके, वेदेपि "यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्निति” यजतिशब्दवाच्य एवार्थे धर्मशब्द समामनंतीति शवराः । सोऽयं यथार्थनामा शिष्ट - विचारबहिर्भूतत्वात् । न हि शिष्टाः क्वचिद् धर्माधर्मव्यपदेशमात्रादेव श्रेयस्करत्वमश्रेयस्करत्वं वा प्रतियंति, तस्य व्यभिचारात् । कचिदश्रेयस्करेपि हि धर्मव्यपदेशो दृष्टो यथा मांसविक्रयिणां मांसदाने श्रेयस्करेपि वा धर्मव्यपदेशो यथा संन्यासे स्वघाती पापकर्मेति तद्विधायिनि कैश्विद्भाषणात् । सर्वैर्यस्य धर्मव्यपदेशः प्रतिपद्यते स श्रेयस्करो नान्य इति चेत् । तर्हि न यागः श्रेयस्करस्तस्य सौगतादिभिरधर्मत्वेन व्यपदिश्यमानत्वात् । सकलैर्वेदवादिभिर्यागस्य धर्मत्वेन व्यपदिश्यमानत्वाच्छ्रेयस्करत्वे सर्वैः खारपटिकैः कैः सधनवधस्य धर्मत्वेन व्यपदिश्यमानतया श्रेयस्करत्वं किं न भवेत्, यतः श्रेयोर्थिनां संविहितानुष्ठानं न स्यात् । लोकगर्हितत्वमुभयत्र समानम् । केषांचिदगर्हितत्वं चेति ततो न सधनवधाग्निहोत्रयोः प्रत्यवायेतरसाधनत्वव्यवस्था । प्रत्यक्षादिप्रमाणबलात्तु नाग्निहोत्रस्य श्रेयस्करत्वसिद्धिरिति नास्यैव विहितानुष्ठानत्वं, यतो हिंसा हेतुत्वाभावादसिद्धो हेतुः स्यात् । तन्न प्रकृतचोदनायां बाधकभावनिश्चयादर्थतस्तथाभावे संशयानुदयः पुरुषवचनविशेषवदिति न तदुपदेशपूर्वक एव सर्वदा धर्माद्युपदेशो येनास्य परोपदेशानपेक्षत्वविशेषणमसिद्धं नाम । न च परोपदेशलिंगज्ञानापेक्षा वितथत्वेपि तत्साक्षात्कर्तृपूर्वकत्वं सूक्ष्माद्यर्थोपदेशस्य प्रसिद्धस्य नोपपद्यते तथा विनाभावं संदेहायोगादित्यनवद्यं सर्वविदो ज्ञापकम् । अथवा सूक्ष्माद्यर्थोपि वाध्यक्षः कस्यचित्सकलः स्फुटम् । श्रुतज्ञानाधिगम्यत्वान्नदीद्वीपादिदेशवत् ॥ १० ॥ धर्माधर्मावेव सोपायहेयोपादेयतत्त्वमेव वा कस्यचिदध्यक्षं साधनीयं न तु सकलोर्थ इति न साधीयः सकलार्थप्रत्यक्षत्वासाधने तदध्यक्षासिद्धेः । संवृत्या सकलार्थः प्रत्यक्षः साध्य इत्युन्मत्तभाषितं स्फुटं तस्य तथाभावासिद्धौ कस्यचित्प्रमाणतानुपपत्तेः । न हेतोः सर्वथैकांतैरनेकांतः कथंचन । श्रुतज्ञानाधिगम्यत्वात्तेषां दृष्टेष्टबाधनात् ॥ ११ ॥ स्थानत्रयाविसंवादिश्रुतज्ञानं हि वक्ष्यते । तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि ॥ १२ ॥ ततः प्रकृतहेतोरव्यभिचारिता पक्षव्यापकता च सामान्यतो बोद्धव्या । यतश्चैवं सर्वज्ञसाधनमनवद्यम् । ततोsसिद्धं परस्यात्र ज्ञापकानुपलंभनम् । नो भावसाधनायालं सर्वतत्त्वार्थवेदिनः ॥ १३॥ स्वयं सिद्धं हि किंचित्कस्यचित्साधकं नान्यथातिप्रसंगात् । सिद्धमपि — स्वसंबंधि यदीदं स्याद्व्यभिचारिपयोनिधेः । अंभः कुंभादिसंख्यानैः सद्भिरज्ञायमानकैः ॥ १४॥ न हि पयोनिधेरंभः कुंभादिसंख्यानं बभस्त्वात् कूपांभोवदित्यनुमानात् । तत्तेषामज्ञायमानतेतिचेत्, नातो विशेषेणासिद्धेस्तत्संख्यानमात्रेणाव्यभिचाराचोदनात् । एतेनार्थापत्त्युपमानाभ्यां ज्ञायमानता प्रत्युक्ता । चोदनातस्तत्प्रतिसिद्धिरितिचेत् । न । तस्याः कार्यार्यादन्यत्र प्रमाणतानिष्टेः । परेषां तु तानि संतीत्यागमात्प्रतिपत्तेर्युक्तं तैर्व्यभिचारचोदनम् । Page #23 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके सर्वसंबंधि तद्वोढुं किंचिद्वोधैर्न शक्यते । सर्वबोद्धास्तिचेत्कश्चित्तबोद्धा किं निषिध्यते ॥१५॥ सर्वसंबंधि तद् ज्ञातासिद्धं, किंचिझैझतुमशक्यत्वात् । न च सर्वज्ञस्तबोद्धास्ति तत्प्रतिषेधविरोधात् । षडिः प्रमाणैः सर्वज्ञो न वार्यत इति चायुक्तं । यस्मात् सर्वसंबंधिसर्वज्ञज्ञापकानुपलंभनम् । न चक्षुरादिभिर्वेद्यमत्यक्षत्वाददृष्टवत् ॥१६॥ नानुमानादलिंगत्वात्कार्थापत्त्युपमागतिः।। सर्वस्यानन्यथाभावसादृश्यानुपपत्तितः ॥ १७॥ सर्वप्रमातृसंबंधि प्रत्यक्षादिनिवारणात् । केवलागमगम्यं च कथं मीमांसकस्य तत् ॥१८॥ कार्येर्थे चोदनाज्ञानं प्रमाणं यस्य संमतम् । तस्य स्वरूपसत्तायां तन्नैवातिप्रसंगतः ॥ १९ ॥ तज्ञापकोपलंभस्याभावोऽभावप्रमाणतः। साध्यते चेन्न तस्यापि सर्वत्राप्यप्रवृत्तितः ॥२०॥ गृहीत्वा वस्तुसद्भावं स्मृत्वा तत्प्रतियोगिनम् । मानसं नास्तिताज्ञानं येषामक्षानपेक्षया ॥ २१ ॥ तेषामशेषज्ञाते स्मृते तज्ञापके क्षणे । जायते नास्तिताज्ञानं मानसं तत्र नान्यथा ॥ २२ ॥ न वाशेषनरज्ञानं सकृत्साक्षादुपेयते । न क्रमादन्यसंतानप्रत्यक्षत्वानभीष्टितः ॥ २३ ॥ यदाप्तस्तदधिकरणस्य वचनाद्यनुमानात्सिद्धिसद्भावात्तदभिप्रायस्य च तदनुपलंभनान्निषेधे साध्ये कुतो न दोष इति न वाच्यम् । अनेकांते हि विज्ञानमेकांतानुपलंभनम् । तद्विधिस्तन्निषेधश्च मतो नैवान्यथामतिः ॥ २४ ॥ अनेकांतोपलब्धिरेव हि प्रतिपत्तुरेकांतानुलब्धिः प्रसिद्धैव खसंबंधिनी सा चैकांताभावमंतरेणानुपपद्यमाना तत्साधनीया । न चानेकांतोपलंभादेवानेकांतविधिरभिमतः स एव चैकांतप्रतिषेध इति नानुमानतः साधनीयस्तस्य तत्र वैयर्थ्यात् । सत्यमेतत् । कस्यचित्तु कुतश्चित्साक्षात्कृतेप्यनेकांते विपरीतारोपदर्शनात्तद्व्यवच्छेदोनुपलब्धेः साध्यते । ततोस्याः साफल्यमेव प्रमाणसंप्लवोपगमाद्वा न दोषः । परस्याप्ययं न्यायः समान इति चेत् नैवं सर्वस्य सर्वज्ञज्ञापकानुपदर्शनम् । सिद्धं तद्दर्शनारोपो येन तत्र निषिध्यते ॥ २५ ॥ सर्वसंबंधिनि सर्वज्ञज्ञापकानुपलभे हि प्रतिपत्तुः खयं सिद्धे कुतश्चित्कस्यचित्सर्वज्ञज्ञापकोपलंभसमारोपो यदि व्यवच्छेद्येन तदा समानो न्यायः स्यान्न चैवं सर्वज्ञाभाववादिनां तदसिद्धेः । आसन् संति भविष्यति बोद्धारो विश्वदृश्वनः। मदन्येपीति निर्णीतियथा सर्वज्ञवादिनः ॥ २६ ॥ Page #24 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । किंचिज्ज्ञस्यापि तद्वन्मे तेनैवेति विनिश्चयः । इत्ययुक्तमशेषज्ञसाधनोपायसंभवात् ॥ २७ ॥ स्वयमसर्वज्ञस्यापि सर्वविदो बोद्धारो वृत्ता वर्तते वर्तिष्यंते मत्तोऽन्येपीति युक्तं वक्तुं, तत्सिच्युपायघटनात् । तत्पुनरसर्वज्ञवादिनस्ते पूर्वं नासन्न संति न भविष्यतीति प्रमाणाभावात् । कथम् — यथाहमनुमानादेः सर्वज्ञं वेद्मि तत्त्वतः । तथान्येपि नराः संतस्तद्वोद्धारो निरंकुशाः ॥ २८ ॥ संतः प्रशस्याः प्रेक्षावंतः पुरुषास्ते मदन्येप्यनुमानादिना सर्वज्ञस्य बोद्धारः प्रेक्षावत्त्वात् यथाहमिति ब्रुवतो न किंचिद्बाधकमस्ति । न च प्रेक्षावत्त्वं ममासिद्धं निरवद्यं सर्वविद्यावेदकप्रमाणवादित्वात् । यो हि यत्र निरवद्यं प्रमाणं वक्ति स तत्र प्रेक्षावानिति सुप्रसिद्धम् । यथा मम न तद्ज्ञप्तेरुपलं भोस्ति जातुचित् । तथा सर्वनृणामित्यज्ञानस्यैव विचेष्टितम् ॥ २९ ॥ हेतोर्नरत्वकायादिमत्त्वादेर्व्यभिचारतः । स्याद्वादिनैव विश्वज्ञमनुमानेन जानता ॥ ३० ॥ मदन्ये पुरुषाः सर्वज्ञज्ञापकोपलंभशून्याः पुरुषत्वात्कायादिमत्त्वाद् यथाहमिति वचस्तमोविलसितमेव । हेतोः स्याद्वादिनानैकांतात् । तस्य पक्षीकरणाददोष इति चेत् । न । पक्षस्य प्रत्यक्षानुमानबाधप्रसक्तेः । सर्वज्ञवादिनो हि सर्वज्ञज्ञापकमनुमानादिखसंवेदनप्रत्यक्षं प्रतिवादिनश्च तद्वचनविशेषोत्थानुमानसिद्धं सर्वपुरुषाणां सकलवित्साधनानुभवनशून्यत्वं बाधते हेतुश्चातीतकालः स्यादिति नासर्वज्ञवादिनां सर्वविदो बोद्धारो न केचिदिति वक्तुं युक्तम् । ज्ञापकानुपलभोस्ति तन्न तत्प्रतिषेधतः । कारकानुपलंभस्तु प्रतिघातीष्यतेऽग्रतः ॥ ३१ ॥ तदेवं सिद्धो विश्वतत्त्वानां ज्ञाता तदभावसाधनस्य ज्ञापकानुपलंभस्य कारकानुपलंभस्य च निराकरणात् । १५ कल्मषप्रक्षयश्चास्य विश्वतत्त्वात्प्रतीयते । तमंतरेण तद्भावानुपपत्तिप्रसिद्धितः ॥ ३२ ॥ सर्वतत्त्वार्थज्ञानं च कस्यचित्स्यात् कल्मषप्रक्षयश्च न स्यादिति न शंकनीयं तद्भाव एव तस्य सद्भावो पपत्तिसिद्धेः । जायते तद्विधं ज्ञानं वे सति प्रतिबंधरि । स्पष्टस्वार्थावभासित्वान्निर्दोषनयनादिवत् ॥ ३३ ॥ सर्वज्ञविज्ञानस्य खं प्रतिबंधकं कल्मषं तस्मिन्नसत्येव तद्भवति स्पष्टखविषयावभासित्वात् निर्दोषचक्षुरादिवदित्यत्र नासिद्धं साधनं प्रमाणसद्भावात् । नन्वामूलकल्मषस्य क्षये किं प्रमाणमिति चेदिमं ब्रूमहे ; क्षीयते कचिदामूलं ज्ञानस्य प्रतिबंधकम् । समग्रक्षयहेतुत्वाल्लोचने तिमिरादिवत् ॥ ३४ ॥ Page #25 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके समग्रक्षयहेतुकं हि चक्षुषि तिमिरादि न पुनरुद्भवदृष्टं तद्वत्सर्वविदो ज्ञानप्रतिबंधकमिति । ननु क्षयमात्रसिद्धावप्यामूलक्षयोस्य न सिद्ध्येत् । पुनर्नयने तिमिरमुद्भवद् दृष्टमेवेति चेन्न, तदा तस्य समग्रक्षयहेतुत्वाभावात् । समग्रक्षयहेतुकमेव हि तिमिरादिकमिहोदाहरणं नान्यत् । न चानेन हेतोरनैकांतिकता तत्र तदभावात् । किं पुनः केवलस्य प्रतिबंधकं यस्यात्यंतपरिक्षयः कचित्साध्यत इति नाक्षेप्तव्यम् । मोहो ज्ञानहगावृत्त्यंतरायाः प्रतिबंधकाः। केवलस्य हि वक्ष्यंते तद्भावे तदनुद्भवात् ॥ ३५ ॥ यद्भावे नियमेन यस्यानुद्भवस्तत्तस्य प्रतिबंधकं यथा तिमिरं नेत्रविज्ञानस्य मोहादिभावोस्मदादेश्वक्षुर्ज्ञानानुद्भवश्व केवलस्येति मोहादयस्तत्प्रतिबंधकाः प्रवक्ष्यंते । ततो न धर्मिणोऽसिद्धिः। कः पुनरेतत्क्षयहेतुः समग्रो यद्भावाद्धेतुसिद्धिरिति चेत् ; तेषां प्रक्षयहेतू च पूर्णौ संवरनिर्जरे । ते तपोतिशयात्साधोः कस्यचिद्भवतो ध्रुवम् ॥ ३६॥ तपो ह्यनागताघौघप्रवर्तननिरोधनम् । तजन्महेतुसंघातप्रतिपक्षयतो यथा ॥ ३७॥ भविष्यत्कालकूटादिविकारौघनिरोधनम् । मंत्रध्यानविधानादि स्फुटं लोके प्रतीयते ॥ ३८ ॥ नृणामप्यघसंबंधो रागद्वेषादिहेतुकः। दुःखादिफलहेतुत्वादतिभुक्तिविषादिवत् ॥ ३९॥ तद्विरोधिविरागादिरूपं तप इहोच्यते । तदसिद्धावतजन्मकारणप्रतिपक्षता ॥४०॥ तदा दुःखफलं कर्मसंचितं प्रतिहन्यते । कायक्लेशादिरूपेण तपसा तत्सजातिना ॥४१॥ स्वाध्यायादिखभावेन परप्रशममूर्तिना। बद्धं सातादिकृत्कर्म शक्रादिसुखजातिना ॥४२॥ केवलप्रतिबंधकस्यानागतस्य संचितस्य वात्यंतिकक्षयहेतू समग्रौ संवरनिर्जरे तपोतिशयात् कस्यचिदवश्यं भवत एवेति प्रमाणसिद्धं तस्य समग्रक्षयहेतुत्वसाधनं यतः । ततो निःशेषतत्त्वार्थवेदी प्रक्षीणकल्मषः।। श्रेयोमार्गस्य नेतास्ति स संस्तुत्यस्तदर्थिभिः॥४३॥ ननु निःशेषतत्त्वार्थवेदित्वे प्रक्षीणकल्मषत्वे च चारित्राख्ये सम्यग्दर्शनाविनाभाविनि सिद्धेपि भगवतः शरीरत्वेनावस्थानासंभवान्न श्रेयोमार्गोपदेशित्वं तथापि तदवस्थाने शरीरत्वाभावस्य रत्नत्रयनिबंधनत्वविरोधात् तद्भावेप्यभावात् । कारणांतरापेक्षायां न रत्नत्रयमेव संसारक्षयनिमित्तमिति कश्चित् । सोपि न विपश्चित् । यस्मात् तस्य दर्शनशुद्ध्यादिभावनोपात्तमूर्तिना। पुण्यतीर्थकरत्वेन नाम्ना संपादितश्रियः ॥४४॥ स्थितस्य च चिरं खायुर्विशेषवशवर्तिनः।। श्रेयोमार्गोपदेशित्वं कथंचिन्न विरुध्यते ॥४५॥ Page #26 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १७ तस्य निःशेषतत्त्वार्थवेदिनः समुद्भूतरत्नत्रयस्यापि शरीरित्वेनावस्थानं स्वायुर्विशेषवशवर्तित्वात् । न हि तदायुरपवर्तनीयं येनोपक्रमवशात् क्षीयेत, तदक्षये च तदविनाभाविनामादिकर्मत्रयोदयोपि तस्यावतिष्ठते । ततः स्थितस्य भगवतः श्रेयोमार्गोपदेशित्वं कथमपि न विरुध्यते । कुतस्तर्हि तस्यायुःक्षयः शेषाघातिकर्मक्षयश्च स्याद्यतो मुक्तिरिति चेत् फलोपभोगादायुषो निर्जरोपवर्णनादघातिकर्मत्रयस्य च शेषस्याधिक स्थितेर्दडकपाटादिकरणविशेषादपकर्षणादिकर्मविशेषाद्वेति ब्रूमः । न चैवं रत्नत्रयहेतुता मुक्तेर्व्याहन्यते निश्चयनयादयोगिकेवलिचरमसमयवर्तिनो रत्नत्रयस्य मुक्तिहेतुत्वव्यवस्थितेः । ननु स्थितस्याप्यमोहस्य मोहविशेषात्मक विवक्षानुपपत्तेः कुतः श्रेयोमार्गवचनप्रवृत्तिरिति च न मंतव्यं । तीर्थकरत्वनामकर्मणा पुण्यातिशयेन तस्यागमलक्षणतीर्थ करत्वश्रियः संपादनात्तीर्थ करत्वनामकर्म तु दर्शन विशुद्ध्यादिभावनाबलभावि विभावयिष्यते । न च मोहवति विवक्षानांतरीयकत्वं वचन प्रवृत्तेरुपलभ्य प्रक्षीणमोहेपि तस्य तत्पूर्वकत्वसाधनं श्रेयः शरीरत्वादेः पूर्वसर्वज्ञत्वादिसाधनानुषंगात् वचोविवक्षानांतरीयकत्वासिद्धेश्चेति निरवद्यं सम्यग्दर्शनादित्रयहेतुकमुक्तिवादिनां श्रेयोमार्गोपदेशित्वम् ॥ ज्ञानमात्रात्तु यो नाम मुक्तिमभ्येति कश्चन । तस्य तन्न ततः पूर्वमज्ञत्वात्पामरादिवत् ॥ ४६ ॥ नापि पश्चादवस्थानाभावाद्वाग्वृत्त्ययोगतः । आकाशस्येव मुक्तस्य कोपदेशप्रवर्तनम् ॥ ४७ ॥ साक्षादशेषतत्त्वज्ञानात्पूर्वमागमज्ञानबलाद्योगिनः श्रेयोमार्गोपदेशित्वमविरुद्धमज्ञत्वासिद्धेरिति न मंतव्यं । सर्वज्ञकल्पनानर्थक्यात्, परमतानुसरणप्रसक्तेश्च । योगिज्ञानसमकालं तस्य तदित्यप्यसारं तत्त्व - ज्ञानपूर्वत्वविरोधात्तदुपदेशस्य तत्त्वज्ञानात्पश्चात्तु मुक्तेः खस्येव वाग्वृत्त्यघटनात् शरीरत्वेनावस्थानासंभवाद्दूरे सन्मार्गोपदेशः ॥ न हि तत्त्वज्ञानमेव संस्कारक्षये कारणमवस्थानविरोधस्य तदवस्थत्वात् । संस्कारस्यायुराख्यस्य परिक्षयनिबंधनम् । धर्ममेव समाधिः स्यादिति केचित्प्रचक्षते ॥ ४९ ॥ विज्ञानात्सोपि यद्यन्यः प्रतिज्ञाव्याहतिस्तदा । स चारित्रविशेषो हि मुक्तेर्मार्गः स्थितो भवेत् ॥ ५० ॥ संस्कारस्याक्षयात्तस्य यद्यवस्थानमिष्यते । तत्क्षये कारणं वाच्यं तत्त्वज्ञानात्परं त्वया ॥ ४८ ॥ तत्त्वज्ञानादन्यत एव संप्रज्ञातयोगात्संसारक्षये मुक्तिसिद्धिस्तत्त्वज्ञानान्मुक्तिरिति प्रतिज्ञा हीयते समाधिविशेषश्च चारित्रविशेषः स्याद्वादिनां मुक्तिमार्गों व्यवस्थितः स्यात् ॥ ३ ज्ञानमेव स्थिरीभूतं समाधिरिति चेन्मतम् । तस्य प्रधानधर्मत्वे निवृत्तिस्तत्क्षयाद्यदि ॥ ५१ ॥ तदा सोपि कुतो ज्ञानादुक्तदोषानुषंगतः । समाध्यंतरतश्चेन्न तुल्यपर्यनुयोगतः ॥ ५२ ॥ तस्य पुंसः स्वरूपत्वे प्रागेव स्यात्परिक्षयः । संस्कारस्यास्य नित्यत्वान्न कदाचिदसंभवः ॥ ५३ ॥ Page #27 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके आविर्भावतिरोभावावपि नात्मस्वभावगौ । परिणामो हि तस्य स्यात्तथा प्रकृतिवच्च तौ ॥ ५४॥ ततः स्याद्वादिनां सिद्धं मतं नैकांतवादिनाम् । बहिरंतश्च वस्तूनां परिणामव्यवस्थितेः ॥ ५५॥ न स्थिरज्ञानात्मकः संप्रज्ञातो योगः संस्कारक्षयकारणमिष्यते यतस्तस्य प्रधानधर्मत्वात्तत्क्षयान्मुक्तिः । स्यात् । सोपि च तत्क्षयो ज्ञानादज्ञानाद्वा समाधेरिति पर्यनुयोगस्य समानत्वादनवस्थानमाशंक्यते । नापि पुरुषस्वरूपमात्रं समाधिर्येन तस्य नित्यत्वान्नित्यं मुक्तिरापाद्यते तदाविर्भावतिरोभावाभावादन्यथा प्रधानवत्पुं. सोपि परिणामसिद्धेः सर्वपरिणामीति स्याद्वादाश्रयणं प्रसज्येत । किं तर्हि ? विशिष्टं पुरुषखरूपमसंप्रज्ञातयोगः संस्कारक्षयकारणं । न च प्रतिज्ञाव्याघातस्तत्त्वज्ञानाज्जीवन्मुक्तेरास्थानांतकाले तत्त्वोपदेशघटनात्परमनिःश्रेयसस्य समाधिविशेषात्संस्कारक्षये प्रतिज्ञानादिति वदन्नंधसर्पबिलप्रवेशन्यायेन स्याद्वादिदर्शनं समाश्रयतीत्युपदर्यते ॥ मिथ्यार्थाभिनिवेशेन मिथ्याज्ञानेन वर्जितम् । यत्पुंरूपमुदासीनं तचेद्ध्यानं मतं तव ॥ ५६ ॥ हंत रत्नत्रयं किं न ततः परमिहेष्यते। यतो न तन्निमित्तत्वं मुक्तेरास्थीयते त्वया ॥ ५७ ॥ ननु च मिथ्यार्थाभिनिवेशेन वर्जितं पुरुषस्य स्वरूपं न सम्यग्दर्शनं तस्य तत्त्वार्थश्रद्धानलक्षणत्वात् , नापि मिथ्याज्ञानेन वर्जितं तत्सम्यग्ज्ञानं तस्य खार्थावायलक्षणत्वात् , उदासीनं च न पुंरूपं सम्यक्चारित्रं तस्य गुप्तिसमितिव्रतभेदस्य बाह्याभ्यंतरक्रियाविशेषोपरमलक्षणत्वात् येन तथाभूतरत्नत्रयमेव मोक्षस्य कारणमस्माभिरास्थीयते । मिथ्याभिनिवेशमिथ्याज्ञानयोः प्रधानविवर्तितया समाधिविशेषकाले प्रधानसंसर्गाभावे पुरुषस्य तद्वर्जितत्वेपि खरूपमात्रावस्थानात् । तदुक्तं । "तदा द्रष्टुः खरूपेवस्थान"मिति कश्चित् । तदसत् । संप्रज्ञातयोगकालेपि तादृशः पुंरूपस्याभावात्परमनिःश्रेयसप्रसक्तेः । तदा वैराग्यतत्त्वज्ञानाभिनिवेशात्मकप्रधानसंसर्गासद्भावान्नासंप्रज्ञातयोगोस्ति, यतः परममुक्तिरिति चेत्तर्हि रत्नत्रयाजीवन्मुक्तिरित्यायातः प्रतिज्ञाव्याघातः परमतप्रवेशात् । तत्त्वार्थश्रद्धानतत्त्वज्ञानवैराग्याणां रत्नत्रयत्वात्ततो जीवन्मुक्तेराहत्यरूपायाः परैरिष्टत्वात् । यदपि द्रष्टुरात्मनः स्वरूपेवस्थानं ध्यानं परममुक्तिनिबंधनं तदपि न रत्नत्रयात्मकतां व्यभिचरति, सम्यग्ज्ञानस्य पुंरूपत्वात् , तस्य तत्त्वार्थश्रद्धानसह चरितत्वात् , परमौदासीन्यस्य च परमचारित्रत्वात् ॥ पुरुषो न ज्ञानस्वभाव इति न शक्यव्यवस्थं । तथाहि; यद्यज्ञानखभावः स्यात्कपिलो नोपदेशकृत् । सुषुप्तवत्प्रधानं वाचेतनत्वाद् घटादिवत् ॥ ५८ ॥ यथैव हि सुषुप्तवत्तत्त्वज्ञानरहितः कपिलोऽन्यो वा नोपदेशकारी परस्य घटते तथा प्रधानमपि स्वयमचेतनत्वात्कुटादिवत् । तत्त्वज्ञानसंसगाद्योगी ज्ञानस्वभाव इति चेत् ; ज्ञानसंसर्गतोप्येष नैव ज्ञानखभावकः। व्योम तद्वद्विशेषस्य सर्वथानुपपत्तितः ॥ ५९॥ Page #28 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १९ यस्य सर्वथा निरतिशयः पुरुषस्तस्य ज्ञानसंसर्गादपि न ज्ञानस्वभावोसौ गगनवत् । कथमन्यथा चैतन्यं पुरुषस्य स्वरूपमिति न विरुध्यते ? ततो न कपिलो मोक्षमार्गस्य प्रणेता येन संस्तुत्यः स्यात् । एतेनैवेश्वरः श्रेयः पथप्रख्यापनेऽप्रभुः । व्याख्याdisarri aष ज्ञानादर्थांतरत्वतः ॥ ६० ॥ नेश्वरः श्रेयोमार्गोपदेशी स्वयमचेतनत्वादाकाशवत् । स्वयमचेतनोसौ ज्ञानादर्थांतरत्वात् तद्वत् । नात्राश्रयासिद्धो हेतुरीश्वरस्य पुरुषविशेषस्य स्याद्वादिभिरभिप्रेतत्वात् । नापि धर्मिग्राहकप्रमाणबाधितः पक्षस्तद्राहिणा प्रमाणेन तस्य श्रेयोमार्गोपदेशित्वेनाप्रतिपत्तेः । परोपगमतः साधनाभिधानाद्वा न प्रकृतचोद्यावतारः सर्वस्य तथा तद्वचनाप्रतिक्षेपात् । विज्ञानसमवायाच्चेच्चेतनोऽयमुपेयते । तत्संसर्गात्कथं न ज्ञः कपिलोपि प्रसिद्ध्यति ॥ ६१ ॥ यथेश्वरो ज्ञानसमवाया चेतनस्तथा ज्ञानसंसर्गात्कपिलोपि ज्ञोस्तु । तथापि तस्याज्ञत्वे कथमीश्वरश्चेतनो यतोSसिद्ध हेतुः स्यात् । प्रधानाश्रयि विज्ञानं न पुंसो ज्ञत्वसाधनम् । यदि भिन्नं कथं पुंसस्तत्तथेष्टं जडात्मभिः ॥ ६२ ॥ प्रधानाश्रितं ज्ञानं नात्मनो ज्ञत्वसाधनं ततो भिन्नाश्रयत्वात्पुरुषांतर संसर्गिज्ञानवदिति चेत् ? तर्हि न ज्ञानमीश्वरस्य ज्ञत्वसाधनं ततो भिन्नपदार्थत्वादनीश्वरज्ञानवदिति किं नानुमन्यसे । ज्ञानाश्रयत्वतो वेधा नित्यं ज्ञो यदि कथ्यते । तदेव किंकृतं तस्य ततो भेदेपि तत्त्वतः ॥ ६३ ॥ स्रष्टा ज्ञो नित्यं ज्ञानाश्रयत्वात् यस्तु न ज्ञः स न नित्यं ज्ञानाश्रयो यथा व्योमादिः, न च तथा स्रष्टा ततो नित्यं ज्ञ इति चेत् । किंकृतं तदा स्रष्टुर्ज्ञानाश्रयत्वं ज्ञानाद्भेदेपि वस्तुत इति चिंत्यम् । समवायकृतमितिचेत् । समवायः किमविशिष्टो विशिष्टो वा ? प्रथमविकल्पोनुपपन्नः । * कस्मात् ;' समवायो हि सर्वत्र न विशेषकृदेककः । कथं खादीनि संत्यज्य पुंसि ज्ञानं नियोजयेत् ॥ ६४ ॥ यस्मात् “सर्वेषु समवायिष्वेक एव समवायस्तत्त्वं भवेन व्याख्यातम्” इति वचनात् । तस्मात्तेषां विशेषकृन्न नाम येन पुंस्येव ज्ञानं नियोजयेदाकाशादिपरिहारेण इति बुद्ध्यामहे । सत्तावदेकत्वेपि समवायस्य प्रतिविशिष्टपदार्थविशेषणतया विशेषकारित्वमिति चेत्, तर्हि विशिष्टः समवायः प्रति विशेष्यं सत्तावदेव इति प्राप्तो द्वितीयः पक्षः । तत्र च—— विशिष्टः समवायोऽयमीश्वरज्ञानयोर्यदि । तदा नानात्वमेतस्य प्राप्तं संयोगवत्तकम् ॥ ६५ ॥ न हि संयोगः प्रतिविशेष्यं विशिष्टो नाना न भवति दंडपुरुषसंयोगात् पटधूपसंयोगस्याभेदाप्रतीतेः । संयोगत्वेनाभेद एवेति चेत्, तदपि ततो यदि भिन्नमेव तदा कथमस्यैकत्वे संयोगयोरेकत्वं ? तन्नाना संयोगोभ्युपेयोऽन्यथा स्वमतविरोधात् । तद्वत्समवायोनेकः प्रतिपद्यतां ईश्वरज्ञानयोः समवायः, पटरूपयोः समवाय इति विशिष्टप्रत्ययोत्पत्तेः । समवायिविशेषात्समवाये विशिष्टः प्रत्यय इति चेत्, Page #29 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके तर्हि संयोगिविशेषात्संयोगे विशिष्टप्रत्ययोस्तु । शिथिलः संयोगो निबिडः संयोग इति प्रत्ययो यथा संयोगे तथा नित्यं समवायः कदाचित्समवाय इति समवायेपि । समवायिनो नित्यत्वकादाचित्कत्वाभ्यां समवाये तत्प्रत्ययोत्पत्तौ संयोगिनोः शिथिलत्वनिविडत्वाभ्यां संयोगे तथा प्रत्ययः स्यात् । खतः संयोगिनोर्निबिडत्वे संयोगोनर्थक इति चेत् , स्वतः समवायिनोनित्यत्वे समवायोनर्थकः किं न स्यात् । इहेदं समवेतमिति प्रतीतिः समवायस्यार्थ इति चेत् , संयोगस्येहेदं संयुक्तमिति प्रतीतिरर्थोस्तु । ततो न संयोगसमवाययोर्विशेषोन्यत्र विष्वग्भावाविष्वग्भावस्वभावाभ्यामिति तयोर्नानात्वं कथंचित्सिद्धं । समवायस्य नानात्वे अनित्यत्वप्रसंगः संयोगवदिति चेत् । न । आत्मभिर्व्यभिचारात् , कथंचिदनित्यत्वस्येष्टत्वाच्च । किं च अनाश्रयः कथं चायमाश्रयैयुज्यतेजसा । तद्विशेषणता येन समवायस्य गम्यते ॥ ६६ ॥ येषामनाश्रयः समवाय इति मतं तेषामात्मज्ञानादिभिः समवायिभिः कथं संबध्यते ? संयोगेनेति चेन्न । तस्याद्रव्यत्वेन संयोगानाश्रयत्वात् । समवायेनेति चायुक्तं । स्वयं समवायांतरानिष्टेः । विशेषणभावेनेति चेत् , कथं समवायिभिरसंबद्धस्य तस्य तद्विशेषणभावो निश्चीयते ? समवायिनो विशेष्यात्समवायो विशेषणमिति प्रतीतेविशेषणविशेष्यभाव एव संबंधः समवायिभिः समवायस्येति चेत् । स तर्हि ततो यद्यभिन्नस्तद्वद्वा समवायिनां तादात्म्यसिद्धिरभिन्नादभिन्नानां तेषां तद्वद्भेदविरोधात् । भिन्न एवेति चेत् कथं तैर्व्यपदिश्यते? परस्माद्विशेषणविशेष्यभावादिति चेत्, स एव पर्यनुयोगोऽनवस्थानं च । सुदूरमपि गत्वा स्वसंबंधिभिः संबंधस्य तादात्म्योपगमे परमतप्रसिद्धेर्न समवायिविशेषणत्वं नाम ॥ विशेषणत्वे चैतस्य विचित्रसमवायिनाम् । विशेषणत्वे नानात्वप्राप्तिदंडकटादिवत् ॥ ६७ ॥ सत्यपि समवायस्य नानासमवायिनां विशेषणत्वे नानात्वप्राप्तिर्दडकटादिवत् । न हि युगपन्नानार्थविशेषणमेकं दृष्टं । सत्त्वं दृष्टमिति चेन्न । तस्य कथंचिन्नानारूपत्वात् । तदेकत्वैकांते घटः सन्निति प्रत्ययोत्पत्तौ सर्वथा सत्त्वस्य प्रतीतत्वात् सर्वार्थसत्त्वप्रतीत्यनुषंगात्कचित्सत्तासंदेहो न स्यात् । सत्त्वं सर्वात्मना प्रतिपन्नं न तु सर्वार्थास्तद्विशेष्या इति । तदा कचित्सत्तासंदेहे घटविशेषणत्वं सत्त्वस्यान्यदन्यदर्थातरविशेषणत्वमित्यायातमनेकरूपत्वं । नानार्थविशेषणत्वं नाना न पुनः सत्त्वं तस्य ततो भेदादितिचेत् । तर्हि घटविशेषणत्वाधारत्वेन सत्त्वस्य प्रतीतौ सर्वार्थविशेषणत्वाधारत्वेनापि प्रतिपत्तेः स एव संशयापायः सर्वार्थविशेषणत्वाधारत्वस्य ततोनीतरत्वात् । तस्यापि नानारूपस्य सत्त्वाद्भेदे नानार्थविशेषणत्वान्नानारूपादनर्थातरत्वसिद्धेः । सिद्धं नानाखभावं सत्त्वं सकृन्नानार्थविशेषणं । तद्वत्समवायोस्तु । द्रव्यत्वादिसामान्यं द्वित्वादिसंख्यानं पृथक्त्वाद्यवयविद्रव्यमाकाशादि विभुद्रव्यं च खयमेकमपि पुरा यदनेकार्थविशेषणमित्येतदनेन निरस्तं । सर्वथैकस्य तथाभावविरोधसिद्धेरिति न परपरिकल्पितस्वभावः समवायोस्ति, येनेश्वरस्य सदा ज्ञानसमवायितोपपत्तेर्जत्वं सिद्ध्येत् । कीदृशस्तर्हि समवायोऽस्तु ? ततोऽर्थस्यैव पर्यायः समवायो गुणादिवत् । तादात्म्यपरिणामेन कथंचिदवभासनात् ॥ ६८ ॥ भ्रांतं कथंचिद्रव्यभेदेन प्रतिभासनं समवायस्येति न मतव्यं तद्भेदैकांतस्य ग्राहकाभावात् । न हि Page #30 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २१ प्रत्यक्षं तद्राहकं तत्रेदं द्रव्यमयं गुणादिरयं समवाय इति भेदप्रतिभासाभावात् । नाप्यनुमानं लिंगाभावात् । इहेदमिति प्रत्ययो लिंगमिति चेत् । न । तस्य समवायितादात्म्यस्वभावसमवायसाधकत्वेन विरुद्धत्वात् । नित्यसर्वगतैकरूपस्य समवायेनानांतरीयकत्वात् गुणादीनां द्रव्यत्वात्कथंचित्तादात्म्याभासनस्य द्रव्यपरिणामत्वस्य भावात्साधनशून्यं साध्यशून्यं च निदर्शनमिति चेन्न, अत्यंतभेदस्य ततस्तेषा - मनिश्चयात्तदसिद्धेः । गुणगुणिनौ क्रियातद्वंतौ जातितद्वतौ च परस्परमत्यंतं भिन्नौ भिन्नप्रतिभासत्वात् घटपटवदित्यनुमानमपि न तद्भेदैकांतसाधनं, कथंचिद्भिन्नप्रतिभासत्वस्य हेतोः कथंचित्तद्भेदसाधनतया विरुद्धत्वात् सिद्ध्यभावात् । न हि गुणगुण्यादीनां सर्वथा भेदप्रतिभासोति कथंचित्तादात्म्यप्रतिभासनात् । तथाहि । गुणादयस्तद्वृतः कथंचिदभिन्नास्ततोशक्यविवेचनत्वान्यथानुपपत्तेः । किमिदमशक्यविवेचनत्वं नाम? विवेकेन ग्रहीतुमशक्यत्वमितिचेदसिद्धं गुणादीनां द्रव्याद्भेदेन ग्रहणात् । तद्बुद्धौ द्रव्यस्याप्रतिभासनात् द्रव्यबुद्धौ च गुणादीनामप्रतीतेः । देशभेदेन विवेचयितुमशक्यत्वं तदिति चेत्, कालाकाशादिभिरनैकांतिकं साधनमिति कश्चित् । तदनवबोधविजूभितं । स्वाश्रयद्रव्याद्द्रव्यांतरं नेतुमशक्यत्वस्याशक्यविवेचनत्वस्य कथनात् । न च तदसिद्धमनैकांतिकत्वं साध्यधर्मिणि सद्भावाद्विपक्षाद्व्यावृत्तेश्च । तन्न गुणादीनां कथंचिद्रव्यतादात्म्यपरिणामेनावभासनमसिद्धं, नापि द्रव्यपरिणामत्वं येन साध्यशून्यं साधनशून्यं वा निदर्शनमनुमन्यते । समवायो वार्थस्यैव पर्यायो न सिद्ध्येत्, सिद्धेपि समवायस्य द्रव्यपरिणामत्वे नानात्वे च किं सिद्धमिति प्रदर्शयति ; तदीश्वरस्य विज्ञानसमवायेन या ज्ञता । सा कथंचित्तदात्मत्वपरिणामेन नान्यथा ॥ ६९ ॥ तथानेकांतवादस्य प्रसिद्धिः केन वार्यते । प्रमाणबाधनाद्भिन्नसमवायस्य तद्वतः ॥ ७० ॥ तदेवं समवायस्य तत्त्वतो भिन्नस्य सर्वथा प्रत्यक्षादिबाधनात्तदबाधितद्रव्य परिणामविशेषस्य समवायप्रसिद्धेर्ज्ञानसमवायाद् ज्ञो महेश्वर इति कथंचित्तादात्म्यपरिणामादेवोक्तः स्यात् । स च मोक्षमार्गस्य प्रणेतेति भगवानर्हन्नेव नामांतरेण स्तूयमानः केनापि वारयितुमशक्यः । परस्तु कपिलादिवदज्ञो न तत्प्रणेता नाम । सुगतोपि न मार्गस्य प्रणेता व्यवतिष्ठते । तृष्णाविद्याविनिर्मुक्तस्तत्समाख्यातखड्गिवत् ॥ ७१ ॥ योप्याह । अविद्यातृष्णाभ्यां विनिर्मुक्तत्वात्प्रमाणभूतो जगद्धितैषी सुगतो मार्गस्य शास्तेति । सोप न प्रेक्षावान् । तथा व्यवस्थित्यघटनात् । न हि शोभनं संपूर्ण वा गतः सुगतो व्यवतिष्ठते, क्षणिकनिरास्रवचित्तस्य प्रज्ञापारमितस्य शोभनत्व संपूर्णत्वाभ्यामिष्टस्य सिद्ध्युपायापायात् । भावनाप्रकर्षपर्यंतस्तसिद्ध्युपाय इति चेत् । न । भावनाया विकल्पात्मकत्वेनातत्त्व विषयायाः प्रकर्षपर्यंत प्राप्तायास्तत्त्वज्ञानवैतृष्ण्यस्वभावोदयविरोधात् । न हि सा श्रुतमयी तत्त्वविषया श्रुतस्य प्रमाणत्वानुषंगात् । तत्त्वविवक्षायां प्रमाणं सेति चेत् तर्हि चिंतामयी स्यात् । तथा च न श्रुतमयी भावना नाम । परार्थानुमानरूपा श्रुतमयी स्वार्थानुमानात्मिका चिंतामयीति विभागोपि न श्रेयान् । सर्वथा भावनायास्तत्त्वविषयत्वायोगात् । तत्त्वप्रापकत्वाद्वस्तुविषयत्वमिति चेत्, कथमवस्त्वालंबना सा वस्तुनः प्रापिका । तदध्यवसायात्तत्र प्रवर्तकत्वादिति चेत् । किं पुनरध्यवसायो वस्तु विषयीकुरुते यतोस्य तत्र प्रवर्तकत्वं । स्वलक्षणदर्शनवशप्रभावोऽ Page #31 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके ध्यवसायः प्रवृत्तिविषयोपदर्शकत्वात्प्रवर्तक इति चेत् , प्रत्यक्षपृष्टभावी विकल्पस्तथास्तु समारोपव्यवच्छेदकत्वादनुमानाध्यवसायस्य तथाभावे दर्शनोत्थाध्यवसायस्य किमतथाभावस्तदविशेषात् । प्रवृत्तस्यारोपस्य व्यवच्छेदोध्यवसायः प्रवर्तको न पुनः प्रवर्तिष्यमाणस्य व्यवच्छेदक इति ब्रुवाणः कथं परीक्षको नाम तत्त्वार्थवासनाजनिताध्यवसायस्य वस्तुविषयतायामनुमानाध्यवसायस्यापि सेप्टेति तदात्मिकाभावना न तत्त्वविषयतो नाविद्याप्रसूतिहेतुरविज्ञातो विद्योदयविरोधात् । नन्वविद्यानुकूलाया एवाविद्याया विद्याप्रसवनहेतुत्वं विरुद्धं न पुनर्विद्यानुकूलायाः सर्वस्य तत एव विद्योदयोपरमादन्यथा विद्यानादित्वप्रसक्तेः संसारप्रवृत्त्ययोगादिति चेत् । न । स्याद्वादिनां विद्याप्रतिबंधकाभावाद्विद्योदयस्येष्टेः । विद्याखभावो ह्यात्मा तदावरणोदये स्यादविद्या विवर्तः खप्रतिबंधकाभावे तु खरूपे व्यवतिष्ठत इति नाविद्यैवानादिविद्योदयनिमित्ता सकलविद्यामुपेयामपेक्ष्य देशविद्या तदुपायरूपा भवत्यविद्यैवेति चेत् । न । देशविद्याया देशतः प्रतिबंधकामावादविद्यात्वविरोधात् । या तु केनचिदंशेन प्रतिबंधकस्य सद्भावादविद्यात्मनः सापि न विद्योदयकारणं तदभाव एव विद्याप्रसूतेरिति न विद्यात्मिका भावना गुरुणोपदिष्टा साध्यमाना सुगतत्वहेतुर्यतः सुगतो व्यवतिष्ठते । भवतु वा सुगतस्य विद्यावतृष्ण्यसंप्राप्तिस्तथापि न शास्तृत्वं व्यवस्थानाभावात् । तथाहि । सुगतो न मार्गस्य शास्ता व्यवस्थानविकलत्वात् खड्गिवत् । व्यवस्थानविकलोसावविद्यातृष्णाविनिर्मुक्तत्वात्तद्वत् । जगद्धितैषितासक्तेर्बुद्धो यद्यवतिष्ठते । तथैवात्महितैषित्वबलात् खड्गीह तिष्ठतु ॥ ७२ ॥ बुद्धो भवेयं जगतो हितायेति भावनासामर्थ्यादविद्यातृष्णाप्रक्षयेपि सुगतस्य व्यवस्थाने खगिनोप्यात्मानं शमयिष्यामीति भावनाबलाब्यवस्थानमस्तु विशेषाभावात् । तथागतोपकार्यस्य जगतोऽनंतता यदि । सर्वदावस्थितौ हेतुर्मतः सुगतसंततेः ॥ ७३ ॥ खड्गिनोप्युपकार्यस्य वसंतानस्य किं पुनः। न स्यादनंतता येन तन्निरन्वयनिर्वृतिः ॥ ७४ ॥ स्वचित्तशमनात्तस्य संतानो नोत्तरत्र चेत् । नात्मानं शमयिष्यामीत्यभ्यासस्य विधानतः ॥ ७५ ॥ न चांत्यचित्तनिष्पत्तौ तत्समाप्तिर्विभाव्यते । तत्रापि शमयिष्यामीत्यष्यचित्तव्यपेक्षणात् ॥ ७६ ॥ चिंतांतरसमारंभि नात्यं चित्तमनास्रवम् ।। सहकारिविहीनत्वात्ताग्दीपशिखा यथा ॥ ७७ ।। इत्ययुक्तमनैकांताहुद्धचित्तेन तादृशा। हितैषित्वंनिमित्तस्य सद्भावोपि समो द्वयोः॥ ७८ ॥ चरमत्वविशेषस्तु नेतरस्य प्रसिद्ध्यति । ततोऽनंतरनिर्वाणसिद्ध्यभावात्प्रमाणतः॥ ७९ ॥ खगिनो निरासवं चित्तं चित्तांतरं नारभते जगद्धितैषित्वाभावे चरमत्वे च सति सहकारिरहितत्वात् तादृग्दीपशिखावदित्ययुक्तं, सहकारिरहितत्वस्य हेतोर्बुद्धचित्तेनानैकांतात् , तद्विशेषणस्य हितैषित्वाभावस्य | Page #32 -------------------------------------------------------------------------- ________________ २६ प्रथमोऽध्यायः। चरमत्वस्य वासिद्धत्वात् । समानं हि तावद्धितैषित्वं खजिसुगतयोरात्मजगद्विषयं । सर्वविषयं हितैषित्वं खड्गिनो नास्त्येवेति चेत्, सुगतस्यापि कृतकृत्येषु तदभावात् । तत्र तद्भावे या सुगतस्य यत्किंचनकारित्वं प्रवृत्तिनैष्फल्यात् । यत्तु देशतोऽकृतकृत्येषु तस्य हितैषित्वं तत्खगिनोपि खचित्तेषूत्तरेप्वस्तीति न जगद्धितैषित्वाभावः सिद्धः । नापि चरमत्वं प्रमाणाभावात् । चरमं निरास्रवं खङ्गिचित्तं खोपादेयानारंभकत्वाद्वर्तिस्नेहादिशून्यदीपादिक्षणवदिति चेत् । न । अन्योन्याश्रयणात् । सति हि तस्य खोपादेयानारंभकत्वे चरमत्वस्य सिद्धिस्तत्सिद्धौ च खोपादेयानारंभकत्वसिद्धिरिति नाप्रमाणसिद्धविशेषणो हेतुर्विपक्षवृत्तिश्च । खगिसंतानस्यानंतत्वप्रतिषेधायालं येनोत्तरोत्तरैष्यचिंतापेक्षयात्मानं शमयिष्यामीत्यभ्यासविधानात्वचित्तैकस्य शमनेपि तत्संतानस्यापरिसमाप्तिसिद्धेर्निरन्वयनिर्वाणाभावः । सुगतस्येवानंतजगदुपकारस्य न व्यवतिष्ठेत तथापि कस्यचित्प्रशांतनिर्वाणे सुगतस्य तदस्तु । ततः सुष्टु गत एव सुगतः । स च कथं मार्गस्य प्रणेता नाम ॥ माभूत्तच्छांतनिर्वाणं सुगतोस्तु प्रमात्मकः । शास्तेति चेन्न तस्यापि वाक्प्रवृत्तिविरोधतः ॥ ८०॥ न कस्यचिच्छांतनिर्वाणमस्ति येन सुगतस्य तद्वत्तदापाद्यते निरास्रवचित्तोत्पादलक्षणस्य निर्वाणस्येष्टत्वात् । ततः शोभनं संपूर्ण वा गतः सुगतः प्रमात्मकः शास्ता मार्गस्येति चेत् । न । तस्यापि विधूतकल्पनाजालस्य विवक्षाविरहाद्वाचःप्रवृत्तिविरोधात् ॥ विशिष्टभावनोद्भतपुण्यातिशयतो ध्रुवम् । विवक्षामंतरेणापि वाग्वृत्तिः सुगतस्य चेत् ॥ ८१ ॥ बुद्धभावनोद्भुतत्वाद्बुद्धत्वं संवर्तकाद्धर्मविशेषाद्विनापि विवक्षाया बुद्धस्य स्फुटं वाग्वृत्तिर्यदि तदा स सान्वयो निरन्बयो वा स्यात् । किं चातः सिद्धं परमतं तस्य सान्वयत्वे जिनत्वतः। प्रतिक्षणविनाशित्वे सर्वथार्थक्रियाक्षतिः ॥ ८२ ॥ न सान्वयः सुगतो येन तीर्थकरत्वभावनोपात्तात्तीर्थकरत्वनामकर्मणोतिशयवतः पुण्यादागमलक्षणं तीर्थ प्रवर्तयतोऽर्हतो विवक्षारहितस्य नामांतरकरणात् स्याद्वादिमतं सियेत् । नापि प्रतिक्षणविनाशी सुगतः क्षणे शास्ता येनास्य क्रमयोगपद्याभ्यामर्थक्रियाक्षतिरापाद्यते । किं तर्हि ? सुगतसंतानः शास्तेति यो ब्रूयात्तस्यापि स संतानः किमवस्तु वस्तु वा स्यात् ? उभयत्रार्थक्रियाक्षतिपरमतसिद्धी तदवस्थे । तथाहि संतानस्याप्यवस्तुत्वादन्यथात्मा तथोच्यताम् । कथंचिद्रव्यतादात्म्याद्विनाशस्तस्य संभवात् ॥ ८३ ॥ खयमपरामृष्टभेदाः पूर्वोत्तरक्षणाः संतान इति चेत् तर्हि तस्यावस्तुत्वादर्थक्रियाक्षतिः संतानिभ्यस्तत्त्वातत्त्वाभ्यामवाच्यत्वस्यावस्तुत्वेन व्यवस्थापनात् । संतानस्य वस्तुत्वे वा सिद्धं परमतमात्मनस्तथाभिधानात् । कथंचिद्र्व्यतादात्म्येनैव पूर्वोत्तरक्षणानां संतानत्वसिद्धेः प्रत्यासत्त्यंतरस्य व्यभिचारात्, तात्त्विकतानभ्युपगमाच । पूर्वकालविवक्षातो नष्टाया अपि तत्त्वतः । सुगतस्य प्रवर्तते वाच इत्यपरे विदुः॥ ८४ ॥ Page #33 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके यथा जाग्रद्विज्ञानान्नष्टादपि प्रबुद्धविज्ञानं दृष्टं तथा नष्टायाः पूर्वविवक्षायाः सुगतस्य वाचोपि प्रवर्तमानाः संभाव्या इति चेत् तेषां सवासनं नष्टं कल्पनाजालमर्थकृत् । कथं न युक्तिमध्यास्ते शुद्धस्यातिप्रसंगतः ॥ ८५॥ यत्सवासनं नष्टं तन्न कार्यकारि यथात्मीयाभिनिवेशलक्षणं कल्पनाजालं । सुगतस्य सवासनं नष्टं च ' विवक्षाख्यकल्पनाजालमिति न पूर्वविवक्षातोस्य वाग्वृत्तिर्युक्तिमधिवसति । जाग्रद्विज्ञानेन व्यभिचारी हेतुरिति चेत् । न । सवासनग्रहणात् । तस्य हि वासनाप्रबोधे सति स्वकार्यकारित्वमन्यथातिप्रसंगात् । सुगतस्य विवक्षा वासनाप्रबोधोपगमे तु विवक्षोत्पत्तिप्रसक्तेः कुतोऽत्यंतं कल्पनाविलयः । स्यान्मतं । सुगतवाचो विवक्षापूर्विका वाक्त्वादस्मदादिवाग्वत् । तद्विवक्षा च बुद्धदशायां न संभवति, तत्संभवे बुद्धत्वविरोधात् । सामर्थ्यात् पूर्वकालभाविनी विवक्षा वाग्वृत्तिकारणं गोत्रस्खलनवदिति । तदयुक्तम् । गोत्रस्खलनस्य तत्कालविवक्षापूर्वकत्वप्रतीतेः, तद्धि पद्मावतीतिवचनकाले वासवदत्तेतिवचनं । न च वासवदत्ताविवक्षा तद्वचनहेतुरन्यदा च तद्वचनमिति युक्तं । प्रथमं पद्मावती विवक्षा हि वत्सराजस्य जाता तदनंतरमाश्वेवात्यंताभ्यासवशाद्वासवदत्ताविवक्षा तद्वचनं चेति सर्वजनप्रसिद्धं । कथमन्यथान्यमनस्केन मया प्रस्तुतातिक्रमेणान्यदुक्तमिति संप्रत्ययः स्यात् । तथा च कथमतीतविवक्षापूर्वकत्वे सुगतवचनस्य गोत्रस्खलनमुदाहरणं येन विवक्षामंतरेणैव सुगतवाचो न प्रवर्तेरन् । सुषुप्तवचोवत् प्रकारांतरासंभवात् । न हि सुषुप्तस्य सुषुप्तदशायां विवक्षासंवेदनमस्ति तदभावप्रसंगात् । पश्चादनुमानांतरविवक्षासंवेदनमिति चेत् । न । लिंगाभावात् । वचनादि लिंगमिति चेत्, सुषुप्तवचनादिर्जाग्रद्वचनादिर्वा ? प्रथमपक्षे व्याप्त्यसिद्धिः, खतः परतो वा सुषुप्तवचनादेविवक्षापूर्वकत्वेन प्रतिपत्तुमशक्तेः । जाग्रद्वचनादिस्तु न सुषुप्तविवक्षापूर्वको दृष्ट इति तदगमक एव । सन्निवेशादिवजगत्कृतकत्वसाधने यादृशामभिनवकूपादीनां सन्निवेशादि धीमत्कारणकं दृष्टं तादृशामदृष्टधीमत्कारणानामपि जीर्णकूपादीनां तद्गमकं नान्यादृशानां भूधरादीनामिति ब्रुवाणा यादृशां जायदादीनां विवक्षापूर्वकं वचनादि दृष्टं तादृशामेव देशांतरादिवर्तिनां तत्तद्गमकं नान्यादृशां सुषुप्तादीनामिति कथं न प्रतिपद्यते । तथा प्रतिपत्तौ च न सुगतस्य विवक्षापूर्विका वाग्वृत्तिः साक्षात्परंपरया वा शुद्धस्य विवक्षापायादन्यथातिप्रसंगात् । सान्निध्यमात्रतस्तस्य चिंतारत्नोपमस्य चेत् । कुट्यादिभ्योपि वाचः स्युर्विनेयजनसंमताः ॥ ८६ ॥ सत्यं न सुगतस्य वाचो विवक्षापूर्विकास्तत्सन्निधानमात्रात् कुट्यादिभ्योपि यथा प्रतिपत्तुरभिप्रायं तदुद्भूतेश्चितारत्नोपमत्वात्सुगतस्य । तदुक्तं । “चिंतारनोपमानो जगति विजयते विश्वरूपोप्यरूपः" इति केचित् । ते कथमीश्वरस्यापि सन्निधानाजगदुद्भवतीति प्रतिषेधुं समर्थाः, सुगतेश्वरयोरनुपकारकत्वादिना सर्वथा विशेषाभावात् । तथाहि किमेवमीश्वरस्यापि सांनिध्याजगदुद्भवत् । निषिध्यते तदा चैव प्राणिनां भोगभूतये ॥ ८७॥ सर्वथानुपकारित्वान्नित्यस्येशस्य तन्न चेत् । सुगतस्योपकारित्वं देशनासु किमस्ति ते ॥ ८८ ॥ Page #34 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । तद्भावभाविता मात्रा तस्य ता इति चेन्मतम् । पिशाचादेस्तथैवैताः किं न स्युरविशेषतः ॥ ८९ ॥ तस्यादृश्यस्य तद्धेतुभावनिश्चित्यसंभवे । सुगतः किं नु दृश्यस्ते येनासौ तन्निबंधनम् ॥ ९० ॥ ततोनाश्वास एवैतदेशनासु परीक्षया । सतां प्रवर्तमानामिति कैश्चित्सुभाषितम् ॥ ९१ ॥ तदेवं न सुगतो मार्गस्योपदेष्टा प्रमाणत्वाभावादीश्वरवत् । न प्रमाणमसौ तत्त्वपरिच्छेदकत्वाभावातद्वत् । न तत्त्वपरिच्छेदकोसौ सर्वथार्थक्रियारहितत्वात्तद्वदेव । न वार्थक्रियारहितत्वमसिद्धं क्षणिकस्य क्रमाक्रमाभ्यां तद्विरोधान्नित्यवत् । स्यान्मतं । संवृत्त्यैव सुगतः शास्ता मार्गस्येप्यते न वस्तुतश्चित्राद्वैतस्य सुगतत्वादिति । तदसत् । सुतरां तस्य शास्तृत्वायोगात् । तथाहि ४ चित्राद्यद्वैतवादे च दूरे सन्मार्गदेशना । प्रत्यक्षादिविरोधश्च भेदस्यैव प्रसिद्धितः ॥ ९२ ॥ परमार्थतश्चित्राद्वैतं तावन्न संभवत्येव चित्रस्याद्वैतत्वविरोधात् । तद्वद्बहिरर्थस्याप्यन्यथा नानैकत्वसिद्धेः । स्यान्मतं । चित्राकाराप्येका बुद्धिर्बाचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यं चित्रमशक्यविवेचना बुद्धिनाद्याकारा इति । तदसत् । बाह्यद्रव्यस्य चित्रपर्यायात्मकस्याशक्य विवेचनत्वाविशेषाच्चित्रैकरूपतापत्तेः । यथैव हि ज्ञानस्याकारास्ततो विवेचयितुमशक्यास्तथा पुद्गलादेरपि रूपादयः । नानारत्नराशौ बाह्ये पद्मरागमणिरयं चंद्रकांत मणिश्चायमिति विवेचनं प्रतीतमेवेति चेत् । तर्हि नीलाद्याकारैकज्ञानेपि नीलाकारोयं पीताकारश्चायमिति विवेचनं किं न प्रतीतं ? चित्रप्रतिभासकाले तन्न प्रतीयत एव पश्चात्तु नीलाद्याभासानि ज्ञानांतराण्यविद्योदयाद्विवेकेन प्रतीयंत इति चेत् । तर्हि मणिराशिप्रतिभासकाले पद्मरागादिविवेचनं न प्रतीयत एव, पश्चात्तु तत्प्रतीतिरविद्योदयादिति शक्यं वक्तुं । मणिराशेर्देशभेदेन विभजनं विवेचनमिति चेत् । भिन्नज्ञानसंतानराशेः समं । एकज्ञानाकारेषु तदभाव इति चेत् । एकमण्याकारेष्वपि । मणेरेकस्य खंडने तदाकारेषु तदस्तीति चेत् । ज्ञानस्यैकस्य खंडने समानं । पराण्येव ज्ञानानि तत्खंडने तथेति चेत् । पराण्येव मणिखंडद्रव्याणि मणिखंडने तानीति समानम् । नन्वेवं विचित्रज्ञानं विवेचयन्नर्थे पततीति तदविवेचनमेवेति चेत् । तर्हि एकत्वपरिणतद्रव्याकारानेवं विवेचयन्नानाद्रव्याकारेषु पततीति तदविवेचनमस्तु । ततो यथैकज्ञानाकाराणामशक्यविवेचनत्वं तथैकपुद्गलादिद्रव्याकाराणामपीति ज्ञानवाह्यमपि चित्रं सिद्ध्यत्कथं प्रतिषेध्यं येन चित्राद्वैतं सिद्ध्येत् । न च सिद्धेपि तस्मिन् मार्गोपदेशनास्ति, तत्त्वतो मोक्षतन्मार्गादेरभावात् । संवेदनाद्वैते तदभावोऽनेन निवेदितः । प्रत्यक्षादिभिर्भेदप्रसिद्धेः । तद्विरुद्धं च चित्राद्यद्वैतमिति सुगतमतादन्य एवो - पशमविधेर्मार्गः सिद्धः । ततो न सुगतस्तत्प्रणेता ब्रह्मवत् । २५ न निरोधो न चोत्पत्तिर्न बद्धो न च मोचकः । न बंधोति न वै मुक्तिरित्येषा परमार्थता ॥ ९३ ॥ न ब्रह्मवादिनां सिद्धा विज्ञानाद्वैतवत्स्वयम् । नित्यसर्वगतैकात्माप्रसिद्धेः परतोपि वा ॥ ९४ ॥ न हि नित्यादिरूपस्य ब्रह्मणः स्वतः सिद्धिः क्षणिकानंशसंवेदनवत् । नापि परतस्तस्यानिष्टेः । अन्यथा Page #35 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके द्वैतप्रसक्तेः । कल्पितादनुमानादेः तत्साधने न तात्त्विकी सिद्धिर्यतो निरोधोत्पत्तिबद्धमोचकबंधमुक्तिरहितं प्रतिभासमात्रमास्थाय मार्गदेशना दूरोत्सारितैवेत्यनुमन्यते । तदेवं तत्त्वार्थशासनारंभेऽर्हन्नेव स्याद्वादनायकः स्तुतियोग्योऽस्तदोषत्वात् । अस्तदोषोऽसौ सर्ववित्त्वात् । सर्वविदसौ प्रमाणान्वितमोक्षमार्गप्रणायकत्वात् । ये तु कपिलादयोऽसर्वज्ञास्ते न प्रमाणान्वितमोक्षमार्गप्रणायकास्तत एवासर्वज्ञत्यान्नास्तदोषा इति न परीक्षकजनस्तवनयोग्यास्तेषां सर्वथेहितहीनमार्गत्वात् सर्वथैकांतवादिनां मोक्षमार्गव्यवस्थानुपपत्तेरित्युपसंह्रियते ॥ ततः प्रमाणान्वितमोक्षमार्गप्रणायकः सर्वविदस्तदोषः। स्थाद्वादभागेव नुतेरिहार्हः सोऽर्हन्परे नेहितहीनमार्गाः ॥ १५ ॥ इति शास्त्रादौ स्तोतव्यविशेषसिद्धिः ॥ खसंवेदनतः सिद्धः सदात्मा बाधवर्जितात् । तस्य क्ष्मादिविवर्तात्मन्यात्मन्यनुपपत्तितः ॥१६॥ क्षित्यादिपरिणामविशेषश्चेतनात्मकः सकललोकप्रसिद्धमूर्तिरात्मा ततोन्यो न कश्चित्प्रमाणाभावादिति कस्य सर्वज्ञत्ववीतरागत्वे मोक्षो मोक्षमार्गप्रणेतृत्वं स्तुत्यता मोक्षमार्गप्रतिपित्सा वा सिद्ध्येत् । तदसिद्धौ च नादिसूत्रप्रवर्तनं श्रेय इति योप्याक्षिपति सोपि न परीक्षकः । खसंवेदनादात्मनः सिद्धत्वात् । खसंवेदनं भ्रांतमिति चेत् । न । तस्य सर्वदा बाधवर्जितत्वात् । प्रतिनियतदेशपुरुषकालबाधवर्जितेन विपरीतसंवेदनेन व्यभिचार इति न मंतव्यं, सर्वदेति विशेषणात् । न च क्ष्मादिविवर्तात्मके चैतन्यविशिष्टकायलक्षणे पुंसि खसंवेदनं संभवति, येन ततोर्थीतरमात्मानं न प्रसाधयेत् । खसंवेदनमसिद्धमित्यत्रोच्यते स्वसंवेदनमप्यस्य बहिःकरणवर्जनात् । अहंकारास्पदं स्पष्टमबाधमनुभूयते ॥ ९७ ॥ न हीदं नीलमित्यादि प्रतिभासनं खसंवेदनं बाळेंद्रियजत्वादनहंकारास्पदत्वात् , न च तथाहं सुखीति प्रतिभासनमिति स्पष्टं तदनुभूयते । गौरोहमित्यवभासनमनेन प्रत्युक्तं, करणापेक्षत्वादहं गुल्मीत्यवभासनवत् । करणापेक्षं हीदं शरीरांतःस्पर्शनेंद्रियनिमित्तत्वात् । सुख्यहमित्यवभासनमिति तथास्तु तत एवेति चेत् । न । तस्याहंकारमात्राश्रयत्वात् । भ्रांतं तदिति हि चेन्न । अबाधत्वात् । नन्वहं सुखीति वेदनं करणापेक्षं वेदनत्वादहं गुल्मीत्यादिवेदनवदित्यनुमानबाधस्य सद्भावात्सबाधमेवेति चेत् । किमिदमनुमानं करणमात्रापेक्षत्वस्य साधकं बहिःकरणापेक्षत्वस्य साधकं वा ? प्रथमपक्षे न तत्साधकं खसंवेदनस्यांतकरणापेक्षस्थेष्टत्वात् । द्वितीयपक्षे प्रतीतिविरोधः खतस्तस्य बहिःकरणापेक्षत्वाप्रतीतेः । खरूपमात्रपरामर्शि वाहं सुखीत्यावेदनमित्यनुमानादपि तस्य तथाभावासिद्धेः । खात्मनि क्रियाविरोधात् खरूपपरामर्शणमस्यासिद्धमिति चेत् । तद्विलोपे न वै किंचित्कस्यचिद्व्यवतिष्ठते । खसंवेदनमूलत्वात्खेष्टतत्त्वव्यवस्थितेः ॥ ९८॥ पृथिव्यापस्तेजोवायुरिति तत्त्वानि, सर्वमुपप्लवमात्रमिति वा खेष्टं तत्त्वं व्यवस्थापयत्वसंवेदनं खीकर्तुमहत्येव, अन्यथा तदसिद्धेः । परपर्यनुयोगमात्रं कुरुते न पुनस्तत्त्वं व्यवस्थापयतीति चेत्, व्याहतमिदं तस्यैवेष्टत्वात् । परोपगमात् परपर्यनुयोगमानं कुरुते न तु स्वयमिष्टे येन तदेव तत्त्वं व्यवस्थापितं Page #36 -------------------------------------------------------------------------- ________________ २७ प्रथमोऽध्यायः । भवेदिति चेत् । स परोपगमो यापप्लुतस्तदा न ततः परपर्यनुयोगो युक्तः । सोनुपप्लुतश्चेत् कथं न खयमिष्टः । परोपगमांतरादनुपप्लुतो न वयमिष्टत्वादिति चेत् । तदपि परोपगमांतरमुपप्लुतं न वेद्यनिवृत्तेः पर्यनुयोगः । सुदूरमपि गत्वा कस्यचित्स्वयमिष्टौ सिद्धमिष्टतत्त्वव्यवस्थापनं खसंविदितं प्रमाणमन्वाकर्षत्यन्यथा घटादेरिव तव्यवस्थापकत्वायोगात् । न हि खयमसंविदितं वेदनं परोपगमेनापि विषयपरिच्छेदकं । वेदनांतरविदितं तदिष्टसिद्धिनिबंधनमिति चेन्न । अनवस्थानात् । तथाहि संवेदनांतरेणैव विदिताद्वेदनाद्यदि । खेष्टसिद्धिरुपेयेत तदा स्यादनवस्थितिः॥ ९९ ॥ प्राच्यं हि वेदनं तावन्नार्थं वेदयते ध्रुवम् । यावन्नान्येन बोधेन वुद्ध्यं सोप्येवमेव तु ॥१०॥ नार्थस्य दर्शनं सिद्धयेत् प्रत्यक्षं सुरमंत्रिणः। तथा सति कृतश्च स्यान्मतांतरसमाश्रयः ॥ १०१॥ अर्थदर्शनं प्रत्यक्षमिति वृहस्पतिमतं परित्यज्यैकार्थसमवेतानंतरज्ञानवेद्यमर्थज्ञानमिति ब्रुवाणः कथं चार्वाको नाम! परोपगमात्तथावचनमिति चेन्न । खसंविदितज्ञानवादिनः परत्वात् , ततोपि मतांतरसमाश्रयस्य दुर्निवारत्वात् । न च तदुपपन्नमनवस्थानात् । इति सिद्धं खसंवेदनं बाधवर्जितं सुख्यहमित्यादि कायात्तत्त्वांतरतयात्मनो भेदं साधयतीति किं नश्चिंतया । विभिन्नलक्षणत्वाच्च भेदश्चैतन्यदेहयोः। तत्त्वांतरतया तोयतेजोवदिति मीयते ॥ १०२॥ चैतन्यदेही तत्त्वांतरत्वेन भिन्नौ भिन्नलक्षणत्वात् तोयतेजोवत् । इत्यत्र नासिद्धो हेतुः, खसंवेदनलक्षणत्वाचैतन्यस्य, काठिन्यलक्षणत्वात् क्षित्यादिपरिणामात्मनो देहस्य, तयोभिन्नलक्षणत्वस्य सिद्धेः । परिणामिपरिणामभावेन भेदसाधने सिद्धसाधनमित्ययुक्तं तत्त्वांतरतयेति साध्यदेहचैतन्ययोः तत्त्वान्तरतया भेदसाधनमस्ति विशेषणात् । कुटपटाभ्यां भिन्नलक्षणाभ्यां तत्त्वांतरत्वेन भेदरहिताभ्यामनेकांत इति चेन्न । तत्र परेषां भिन्नलक्षणत्वासिद्धेरन्यथा चत्त्वार्येव तत्त्वानीति व्यवस्थानुपपत्तेः । कुटपटादीनां भिन्नलक्षणत्वेपि तत्त्वांतराभावे क्षित्यादीनामपि तत्त्वांतराभावात् । धारणादिलक्षणसामान्यभे दात्तेषां तत्त्वांतरत्वं न लक्षणविशेषभेदायेन घटपटादीनां तत्प्रसंग इति चेत् , तर्हि खसंविदत्वेतरत्वलक्षणसामान्यभेदादेहचैतन्ययोस्तत्त्वांतरत्वसाधनात् कथं कुटपटाभ्यां तस्य व्यभिचारः? स्याद्वादिनां पुनर्विशेषलक्षणभेदाढ़ेदसाधनेपि न ताभ्यामनेकांतः, कथंचित्तत्त्वांतरतया तयोर्भदोपगमात् । सत्त्वादिसामान्यलक्षणभेदे हेतुरसिद्ध इति चेन्न । कथमन्यथा क्षित्यादिभेदसाधनेपि सोऽसिद्धो न भवेत् ? असाधारणलक्षणभेदस्य हेतुत्वान्नैवमिति चेत् , समानमन्यत्र, सर्वथा विशेषाभावात् ॥ भिन्नप्रमाणवेधत्वादित्यप्येतेन वर्णितम् । साधितं बहिरंतश्च प्रत्यक्षस्य विभेदतः॥ १०३ ॥ बहिरंतर्मुखाकारयोरिंद्रियजखसंवेदनयोर्भेदेन प्रसिद्धौ सिद्धमिदं साधनं वर्णनीयं देहचैतन्ये भिन्ने भिन्नप्रमाणवेद्यत्वादिति । करणजज्ञानवेद्यो हि देहः स्वसंवेदनवेद्यं चैतन्यं प्रतीतमिति सिद्धं साधनं स्वयं खसंवेदनवेद्येन परैरनुमेयेन भिन्नेन चैतन्येन व्यभिचारीति न युक्तं, स्वसंवेद्यानुमेयस्वभावाभ्यां तस्य भेदात् । तत एवैकस्य प्रत्यक्षानुमानपरिच्छेद्येनामिना न तदनैकांतिकं, नापि मारणशक्त्यात्मकविषद्रव्येण Page #37 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके शकृ तादृशा(?) शक्तिशक्तिमतोः कथंचिद्भेदप्रसिद्धेः । सर्वथा भेदस्य देहचैतन्ययोरप्यसाधनत्वात् । तथा साधने सद्रव्यत्वादिनापि भेदप्रसक्तेनॊभयोरपि सत्त्वद्रव्यत्वादयोरव्यवतिष्ठेरन् । यथा हि देहस्य चैतन्यात् सत्त्वेन व्यावृत्तौ सत्त्वविरोधस्तथा चैतन्यस्यापि देहात् । एवं द्रव्यत्वादिभिर्व्यावृत्तौ चोद्यं । भिन्नप्रमाणवेद्यत्वादेवेत्यवधारणाद्वा न केनचिट्यभिचारचोदना हेतोः संभवति येन विशेषणमेकेनेत्यादि प्रयुज्यते । संदिग्धविपक्षव्यावृत्तिकत्वमपि नास्य शंकनीयं, कुत्रचिदभिन्नरूपे भिन्नप्रमाणवेद्यत्वासंभवात् । तादृशः सर्वस्यानेकखभावत्वसिद्धेरन्यथार्थक्रियानुपपत्तेरवस्तुत्वप्रसक्तेः । यदप्यभ्यधायि ॥ क्षित्यादिसमुदायार्थाः शरीरेंद्रियगोचराः । तेभ्यश्चैतन्यमित्येतन्न परीक्षाक्षमेरितम् ॥ १०४॥ पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदायः शरीरेंद्रियसंज्ञाविषयः, तेभ्यश्चैतन्यमित्येतदपि न परीक्षाक्षमेरितं । शरीरादीनां चैतन्यव्यंजकत्वकारकत्वयोरयोगात् । कुतस्तदयोगः ? व्यंजका न हि ते तावचितो नित्यत्वशक्तितः। क्षित्यादितत्त्ववद ज्ञातुः कार्यत्वस्याप्यनिष्टितः ॥ १०६ ॥ नित्यं चैतन्यं शश्वदभिव्यंग्यत्वात् क्षित्यादितत्त्ववत् , शश्वदभिव्यंग्यं तत्कार्यतानुपगमात् । कदाचिकार्यत्वोपगमे वाभिव्यक्तिवादविरोधात् , तदभिव्यक्तिकाल एतस्याभिव्यंगत्वं नान्यथेत्यसिद्धं सर्वदाभिव्यंगत्वं न मंतव्यं, अभिव्यक्तियोग्यत्वस्य हेतुत्वात् । तत एव न परस्य घटादिभिरनैकांतिकं तेषां कार्यत्वे सत्यभिव्यंग्यत्वस्याशाश्वतिकत्वात् । स्याद्वादिनां तु सर्वस्य कथंचिन्नित्यत्वान्न केनचिद्व्यभिचारः । कुंभादिभिरनेकांतो न स्यादेव कथंचन । तेषां मतं गुरुत्वेन परैरिष्टः प्रतीतितः॥१०५॥ न ह्येकांतनश्वरा घटादयः प्रदीपादिभिरभिव्यंग्या नाम नाशकांतेऽभिव्यंग्याभिव्यंजकभावस्य विरोधानित्यैकांतवत् । जात्यंतरे तस्य प्रतीयमानत्वादिति प्रतिपक्षापेक्षया न घटादिभिरनेकांतः साधनस्य ! ततः कथंचिच्चैतन्यनित्यताप्रसक्तिभयान शरीरादयश्चित्ताभिव्यंजकाः प्रतिपादनीयाः । शब्दस्य ताल्वादिवत् तेभ्यश्चैतन्यमुत्पाद्यत इति क्रियाध्याहारामंजत इति क्रियाध्याहारस्य पौरंदरस्यायुक्तत्वात् कारका एव शरीरादयस्तस्येति चानुपपन्नं, तेषां सहकारित्वेनोपादानत्वेन वा कारकत्वायोगादित्युपदर्शयन्नाह नापि ते कारका वित्तभवंति सहकारिणः। खोपादानविहीनायास्तस्यास्तेभ्योऽप्रसूतितः ॥१०७॥ खोपादानरहिताया वित्तेः शरीरादयः कारकाः शब्दादेस्ताल्वादिवदिति चेन्न । असिद्धत्वात् । तथाहि--- नोपादानादिना शब्दो विद्युदादेः प्रवर्तते । कार्यत्वात्कुंभवद्यद्यदृष्टकल्पनमत्र ते ॥ १०८॥ क काष्ठांतर्गतादग्नेरग्यंतरसमुद्भवः । तस्याविशेषतो येन तत्त्वसंख्या न हीयते ॥ १०९ ॥ प्रत्यक्षतोऽप्रतीतस्य शब्दाद्युपादानस्यानुमानात्साधने परस्य यद्यदृष्टकल्पनं तदा प्रत्यक्षतोऽप्रतीतात्काष्ठांतर्गतादग्नेरनुमीयमानादम्यंतरसमुद्भवसाधने तददृष्टकल्पनं कथं न स्याद्भूतवादिनः सर्वथा विशेषाभावात् । काष्ठादेवानलोत्पत्तौ क तत्त्वसंख्याव्यवस्था काष्ठोपादेयस्यानलस्य काष्ठेतरत्वाभावात् पृथिवीत्व Page #38 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । प्रसक्तेः । पार्थिवानां च मुक्ताफलानां खोपादाने जलेऽन्तर्भावाज्जलत्वापत्तेर्जलस्य च चंद्रकांतादुद्भवतः पार्थिवत्त्वानतिक्रमात् । यदि पुनः काष्ठादयोऽनलादीनां नोपादानहेतवस्तदानुपादानानलाद्युत्पत्तिः कल्पनीया । सा च न युक्ता प्रमाणविरोधात् । ततः स्वयमदृष्टस्यापि पावकाद्युपादानस्य कल्पनायां चितोप्युपादानमवश्यमभ्युपेयम् । सूक्ष्मो भूतविशेषश्चेदुपादानं चितो मतम् । स एवात्मास्तु चिजातिसमन्वितवपुर्यदि ॥ ११० ॥ तद्विजातिः कथं नाम चिदुपादानकारणम् । भवतस्तेजसोंभोवत्तथैवादृष्टकल्पना ॥ १११ ॥ सत्त्वादिना समानत्वाच्चिदुपादानकल्पने । क्ष्मादीनामपि तत्केन निवार्येत परस्परम् ॥ ११२ ॥ येन नैकं भवेत्तत्त्वं क्रियाकारकघाति ते । पृथिव्यादेरशेषस्य तत्रैवानुप्रवेशतः ॥ ११३ ॥ सूक्ष्मभूतविशेषश्चैतन्येन सजातीयो विजातीयो वा तदुपादानं भवेत् ? सजातीयश्चेदात्मनो नामांतरेणाभिधानात्परमतसिद्धिः । विजातीयश्चेत् कथमुपादानमर्जलवत् । सर्वथा विजातीयस्याप्युपादानत्वे सैवादृष्टकल्पना । गोमयादेर्वृश्चिकस्योत्पत्तिदर्शनान्नादृष्टकल्पनेति चेत्, न । वृश्चिकशरीरगोमययोः पुद्गलद्रव्यत्वेन सजातीयत्वात् तयोरुपादानोपादेयतापायाच्च । वृश्चिकशरीरारंभका हि पुद्गलास्तदुपादानं न पुनर्गोमयादिस्तस्य सहकारित्वात् । सत्त्वेन द्रव्यत्वादिना वा सूक्ष्मभूतविशेषस्य सजातीयत्वाचेतनोपादानत्वमिति, तत एव क्ष्मादीनामन्योन्यमुपादानत्वमस्तु निवारकाभावात् । तथा सति तेषां परस्परमनंतर्भावः तदंतर्भावो वा स्यात् ? प्रथमपक्षे चैतन्यस्यापि भूतेष्वंतर्भावाभावात् तत्त्वांतरत्वसिद्धिः । द्वितीयपक्षे तत्त्वमेकं प्रसिद्ध्येत् पृथिव्यादेः सर्वत्र तत्रैवानुप्रवेशनात् । तच्चायुक्तं क्रियाकारकघातित्वात् । तस्माद्रव्यांतरापोढखभावान्वयि कथ्यताम् । उपादानं विकार्यस्य तत्त्वभेदोऽन्यथा कुतः ॥ ११४ ॥ तत्त्वमुपादानत्वं विकार्यत्वं च तद्भेदो द्रव्यांतरव्यावृत्तेन स्वभावेनान्वयित्वे सत्युपादानोपादेययोर्युक्तोर्नान्यथातिप्रसंगादित्युपसंहर्तव्यं । तथा च सूक्ष्मस्य भूतविशेषस्याचेतनद्रव्यव्यावृतस्वभावेन चैतन्य - मनुगच्छतस्तदुपादानत्वमिति वर्णादिरहितः स्वसंवेद्योऽनुमेयो वा स एवात्मा पंचतत्त्वमनात्मज्ञस्य परलोकप्रतिषेधासंभवव्यवस्थापनपरतया प्रसिद्ध्यत्येवेति निगद्यते ॥ २९ सूक्ष्मो भूतविशेषश्च वर्णादिपरिवर्जितः । स्वसंवेदन वेद्यो यमनुमेयोथवा यदि ॥ ११५ ॥ सर्वथा पंचमं भूतमनात्मज्ञस्य सिद्ध्यति । स एव परलोकीति परलोकक्षतिः कथम् ॥ ११६ ॥ नेदृशो भूतविशेषश्चैतन्यस्योपादानं किंतु शरीरादय एव तेषां सहकारित्वेन कारकत्वपक्षानाश्रयादिति चेत् । शरीरादय एवास्य यद्युपादानहेतवः । तदा तद्भावभावित्वं विज्ञानस्य प्रसज्यते ॥ ११७ ॥ Page #39 -------------------------------------------------------------------------- ________________ ३० तत्त्वार्थश्लोकवार्तिके व्यतीतपींद्रियेऽर्थे च विकल्पज्ञानसंभवात् । न तद्धेतुत्वमेतस्य तस्मिन्सत्यप्यसंभवात् ॥ ११८ ॥ कायश्चेत्कारणं यस्य परिणामविशेषतः । सद्यो मृततनुः कस्मात्तथा नास्त्रीयतेमुना ॥ ११९ ॥ वायुविश्लेषतस्तस्य वैकल्याच्चेन्निबंधनम् । चैतन्यमिति संप्राप्तं तस्य सद्भावभावतः ॥ १२० ॥ सामग्रीजनिका नैकं कारणं किंचिदीक्ष्यते । विज्ञाने पिष्टतोयादिर्मदशक्ताविवेति चेत् ॥ १२१ ॥ संयुक्ते सति किं न स्यात्क्ष्मादिभूतचतुष्टये । चैतन्यस्य समुद्भूतिः सामग्र्या अपि भावतः ॥ १२२ ॥ तद्विशिष्टविवर्तस्यापायाच्चेत्स क इष्यते । भूतव्यक्त्यंतरासंग ः पिठिरादावपीक्ष्यते ॥ १२३ ॥ कालपर्युषितत्वं चेत्पिष्टादिवदुषेयते । तत्किं तत्र न संभाव्यं येन नातिप्रसज्यते ॥ १२४ ॥ भूतानि कतिचित्किंचित्कर्तुं शक्तानि केनचित् । परिणामविशेषेण दृष्टानीति मतं यदि ॥ १२५ ॥ तदा देहींद्रियादीनि चिद्विशिष्टानि कानिचित् । चिद्विवर्तसमुद्भूतौ तु शक्तानि सर्वदा ॥ १२६ ॥ तथा सति न दृष्टस्य हानिर्नादृष्टकल्पना । मध्यावस्थावदादौ च चिद्देहादेचिदुद्भवात् ॥ १२७ ॥ ततश्च चिदुपादानाच्चेतनेति विनिश्चयात् । न शरीरादयस्तस्याः संत्युपादानहेतवः ॥ १२८ ॥ तदेवं न शरीरादिभ्योभिव्यक्तिवदुत्पत्तिश्चैतन्यस्य घटते सर्वथा तेषां व्यंजकत्ववत्कारकत्वानुपपत्तेः ॥ एतेन देहचैतन्यभेदसाधनमिष्टकृत् । कार्यकारणभावेनेत्येतद्धस्तं निबुद्ध्यताम् ।। १२९ ॥ निरस्ते हि देहचैतन्ययोः कार्यकारणभावे व्यंग्यव्यंजकभावे च तेन तयोर्भेदसाधने सिद्धसाधनमित्येतन्निरस्तं भवति तत्त्वांतरत्वेन तद्भेदस्य साध्यत्वात् । न च यद्यस्य कार्यं तत्ततस्तत्त्वांतरमतिप्रसंगात् । नापि खात्मभूतं व्यंग्यं तत एव । व्यंजकाद्भिन्नं तत्तत्त्वांतरमिति चेन्न । अभ्यो रसनस्य तद्भावप्रसंगात् । रसनं हि व्यंग्यमद्भ्यो भिन्नं च ताभ्यो न च तत्त्वांतरं तस्याप्तत्त्वतर्भावात् । कार्यकारणयोः सर्वथा भेदात्तद्विशेषयोर्व्यग्यव्यंजकयोरपि भेद एवेति चेन्न । कयोश्चिदभेदोपलब्धेः । कथमन्यथा चैतन्यस्य देहोपादानत्वेपि तत्त्वांतरता न स्यात्, देहाभिव्यंग्यत्वे वा । येन कार्यकारणभावेन देहचैतन्य - योर्भेदे साध्ये सिद्धसाधनमुद्भाव्यते ॥ देहस्य च गुणत्वेन बुद्धेर्या सिद्धसाध्यता । भेदे साध्येतयोः सापि न साध्वी तदसिद्धितः ॥ १३० ॥ Page #40 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । कथं देहगुणत्वेन बुद्धेरसिद्धिर्यतो बुद्धिदेहयोर्गुणगुणिभावेन भेदसाधने सिद्धसाधनमसाधीयः स्यादिति ब्रूमहे । न विग्रहगुणो बोधस्तत्रानध्यवसायतः। स्पर्शादिवत्स्वयं तद्वदन्यस्यापि तथा गतेः॥१३१ ।। न हि यथेह देहे स्पर्शादय इति खस्य परस्य वाध्यवसायोस्ति तथैव देहे बुद्धिरिति येनासौ देहगुणः स्यात् । प्राणादिमति काये चेतनेत्यस्त्येवाध्यवसायः कायादन्यत्र तदभावादिति चेत् । न । तस्य बाधकसद्भावात्सत्यतानुपपत्तेः । कथम् तद्गुणत्वे हि बोधस्य मृतदेहेपि वेदनम् । भवेत्त्वगादिवद्वाह्यकरणज्ञानतो न किम् ॥ १३२ ।। बायेंद्रियज्ञानग्राह्यो बोधोस्तु देहगुणत्वात् स्पर्शादिवद्विपर्ययो वा न च बोधस्य बाह्यकरणज्ञानवेद्यत्वमित्यतिप्रसंगविपर्ययौ देहगुणत्वं बुद्धेर्बाधेते ॥ सूक्ष्मत्वान्न कचिद्वाह्यकरणज्ञानगोचरः। परमाणुवदेवायं बोध इत्यप्यसंगतम् ॥ १३३ ॥ जीवत्कायपि तत्सिद्धेरव्यवस्थानुषंगतः। खसंवेदनतस्तावद् बोधसिद्धौ न तद्गुणः ॥ १३४ ॥ न क्वचिद्वोधो बाह्यकरणज्ञानविषयः प्रसज्यतां देहगुणत्वात् तस्य देहारंभकपरमाणुरूपादिभिर्व्यभिचारातेषां बहिःकरणत्वाविषयत्वेपि देहगुणत्वस्य भावात् । न च देहावयवगुणा देहगुणा न भवंति सर्वथावययावयविनोर्भेदाभावादित्यसंगतं । जीवदेहेपि तत्सिद्धेर्व्यवस्थाभावानुषंगात् । तत्र तव्यवस्था हि इंद्रियजज्ञानात्वसंवेदनाद्वा ? न तावदाद्यः पक्षो, बोधस्याबाह्यकरणज्ञानगोचरत्ववचनात् । द्वितीयपक्षे तु न बोधो देहगुणः खसंवेदनवेद्यत्वादन्यथा स्पर्शादीनामपि खसंविदितत्वप्रसंगात् । यत्पुनर्जीवत्कायगुण एव बोधो न मृतकायगुणो येन तत्र बायेंद्रियाविषयत्वे जीवत्कायेपि बोधस्य तद्विषयत्वमापद्यतेति मतं । तदप्यसत् । पूर्वोदितदोषानुषंगात् । अभ्युपगम्योच्यते ॥ जीवत्कायगुणोप्येष यद्यसाधारणो मतः। प्राणादियोगवन्नस्यात्तदानिंद्रियगोचरः॥ १३५ ॥ जीवत्काये सत्युपलंभादन्यत्रानुपलंभान्नायमजीवत्कायगुणोऽनुमानविरोधात् । किं तर्हि ? यथा प्राणादिसंयोगो जीवत्कायस्यैव गुणस्तथा बोधोपीति चेत् , तद्वदेवेंद्रियगोचरः स्यात् । न हि प्राणादिसंयोगः स्पर्शनेंद्रियागोचरः प्रतीतिविरोधात् । कश्चिदाह । नायं जीवच्छरीरस्यैव गुणस्ततः प्रागपि पृथिव्यादिषु भावादन्यथात्यंतासतस्तत्रोपादानायोगाद्गगनांभोजवत् , साधारणस्तु स्यात्तदोषाभावादिति । तदसत् ॥ साधारणगुणत्वे तु तस्य प्रत्येकमुद्भवः।। पृथिव्यादिषु किं न स्यात् स्पर्शसामान्यवत्सदा ॥ १३६ ॥ जीवत्कायाकारेण परिणतेषु पृथिव्यादिषु बोधस्योद्भवस्तथा तेनापरिणतेष्वपि स्यादेवेति सर्वदानुद्भवो न भवेत् स्पर्शसामान्यस्येव साधारणगुणत्वोपगमात् । प्रदीपप्रभायामुष्णस्पर्शस्यानुद्भूतस्य दर्शनात् साध्यशून्यं निदर्शनमिति न शंकनीयं, तस्यासाधारणगुणत्वात्साधारणस्य तु स्पर्शमात्रस्य प्रत्येकं पृथिव्यादि भेदेष्वशेषेषुद्भवप्रसिद्धेः । परिणामविशेषाभावात् न तत्र चैतन्यस्योद्भूतिरिति चेत् , तर्हि परिणाम Page #41 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके विशिष्टभूतगुणो बोध इत्यसाधारण एवाभिमतः । तत्र चोक्तो दोषः । तत्परिजिहीर्षणावश्यमदेहगुणो बोधोऽभ्युपगंतव्यः । इति न देहचैतन्ययोर्गुणगुणिभावेन भेदः साध्यते येन सिद्धसाध्यता स्यात् , ततोऽनवद्यं तयोर्भेदसाधनं । किं च ।। अहं सुखीति संवित्तौ सुखयोगो न विग्रहे । बहिःकरणवेद्यत्वप्रसंगानेंद्रियेष्वपि ॥ १३७ ॥ कर्तृस्थस्यैव संवित्तेः सुखयोगस्य तत्त्वतः । पूर्वोत्तरविदां व्यापी चिद्विवर्तस्तदाश्रयः॥ १३८ ॥ स्याद्गुणी चेत् स एवात्मा शरीरादिविलक्षणः। कतानुभविता स्मतानुसंधाता च निश्चितः ॥ १३९॥ सुखयोगात्सुख्यहमिति संवित्तिस्तावत्प्रसिद्धा । तत्र कस्य सुखयोगो न विषयस्येति प्रत्येयं(?) ततः कर्तृरूपः कश्चित्तदाश्रयो वाच्यस्तदभावे सुख्यहमिति कर्तृस्थसुखसंवित्त्यनुपपत्तेः । स्यान्मतं । पूर्वोत्तरसुखादिरूपचैतन्य विवर्तव्यापी महाचिद्विवर्तः कार्यस्येव सुखादिगुणानामाश्रयः कर्ता, निराश्रयाणां तेषामसंभवात् । निरंशसुखसंवेदने चाश्रयाश्रयिभावस्य विरोधात्तस्य भ्रांतत्वायोगात् बाधकाभावात्तथा स्वयमनिष्टश्चेति । तर्हि स एवात्मा कर्ता शरीरेंद्रियविषयविलक्षणत्वात् । तद्विलक्षणोसौ सुखादेरनुभवितृत्वात् , तदनुभवितासौ तत्स्मर्तृत्वात् , तत्मासौ तदनुसंधातृत्वात् , तदनुसंधातसौ य एवाहं यं सुखमनुभूतवान् स एवाहं संप्रति हर्षमनुभवामीति निश्चयस्यासंभवबाधकस्य सद्भावात् । नन्वस्तु नाम कर्तृत्वादिखभावचैतन्यसामान्यविवर्तः कायादर्थातरसुखादिचैतन्यविशेषाश्रयो गर्भादिमरणपर्यतः सकलजनप्रसिद्धत्वात्तत्त्वांतरं, चत्त्वार्येव तत्त्वानीत्यवधारणस्याप्यविरोधात्तस्याप्रसिद्धतत्त्वप्रतिषेधपरत्वेन स्थितत्वात् , न पुनरनायंतात्मा प्रमाणाभावादिति वदंतं प्रति ब्रूमहे; द्रव्यतोनादिपर्यंतः सत्त्वात् क्षित्यादितत्त्ववत् । स स्यान्न व्यभिचारोस्य हेतो शिन्यसंभवात् ॥ १४० ॥ कुंभादयो हि पर्यंता अपि नैकांतनश्वराः। शाश्वतद्रव्यतादात्म्यात्कथंचिदिति नो मतम् ॥ १४१॥ यथा चानादिपर्यंततद्विपर्ययरूपता। घटादेरात्मनोप्येवमिष्टा सेत्यविरुद्धता ॥ १४२॥ सर्वथैकांतरूपेण सत्त्वस्य व्यास्यसिद्वितः। बहिरंतरनेकांतं तद्व्याप्नोति तथेक्षणात् ॥ १४३ ॥ द्रव्यार्थिकनयादनाद्यंतः पुरुषः सत्त्वात् पृथिव्यादितत्त्ववदित्यत्र न हेतोरनैकांतिकत्वं प्रतिक्षणविनश्वरे कचिदपि विपक्षेऽनवतारात् । कुंभादिभिः पर्ययैरनेकांत इति चेन्न । तेषां नश्वरैकांतत्वाभावात् । तेपि हि नैकांतनाशिनः, कथंचिन्नित्यद्रव्यतादात्म्यादिति स्याद्वादिनां दर्शनं । “नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसंचरदोषतः” इति वचनात् । नन्वेवं सर्वस्यानादिपर्यंततासादिपर्यंतताभ्यां व्याप्तत्वात् विरुद्धता स्यादिति चेन्न । आत्मनोनैकांतानादिपर्यंततायाः साध्यत्ववचनात् । यथैव हि घटादेरनाद्यनंततेतररूपत्वे सति सत्त्वं तथात्मन्यपीष्टमिति क विरुद्धत्वं? कथं तर्हि सत्त्वमनेकांतकांतेन व्याप्तं येनात्मनोनाद्यनंतेतररूपतया साध्यत्वमिष्यत इति चेत् । सर्वथैकांतरूपेण तस्य व्याप्त्यसिद्धेः । बहिरंतश्चानेकांततयोपलंभात् , अनेकांतं वस्तु सत्त्वस्य व्यापकमिति निवेदयिष्यते ॥ Page #42 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । बृहस्पतिमतस्थित्या व्यभिचारो घटादिभिः। न युक्तोतस्तदुच्छित्तिप्रसिद्धेः परमार्थतः ॥ १४४॥ यतश्चैवं परमार्थतो घटादीनामपि नित्यानित्यात्मकत्वं सिद्धं ततो वृहस्पतिमतानुष्ठानेनापि न सत्त्वस्य घटादिभिर्व्यभिचारो युक्तस्तेन तस्यानैकांतेनाबाधितत्वात् । न च प्रमाणासिद्धेन परोपगममात्रात् केनचिद्धेतोर्व्यभिचारचोदने कश्चिद्धेतुरव्यभिचारी स्यात् । वादिप्रतिवादिसिद्धेन तु व्यभिचारेण सत्त्वं कथंचिदनादिपर्यंतत्वे साध्ये व्यभिचारीति व्यर्थमस्याहेतुकत्वविशेषणं । अहेतुकत्वस्य हेतुकत्वे सत्त्वविशेषणवत् प्रागभावेन व्यभिचारस्य सत्त्वविशेषणेन व्यवच्छिद्यत इति तद्व्यर्थमिति चेत् । न । सर्वस्य तुच्छस्य प्रागभावत्वस्याप्रसिद्धत्वात् । भावांतरस्य भावस्य नित्यानित्यात्मकत्वाद्विपक्षतानुपपत्तेस्तेन व्यभिचारासंभवात् । ततो युक्तं सत्त्वस्याविशेषस्य हेतुत्वमहेतुकत्ववदिति । ततो भवत्येव साध्यसिद्धिः ॥ साध्यसाधनवैकल्यं दृष्टांतेपि न वीक्ष्यते । नित्यानित्यात्मतासिद्धिः पृथिव्यादेरदोषतः ॥ १४५ ॥ न ह्येकांतानाद्यनंतत्वमंतस्तत्त्वस्य साध्यं येन पृथिव्यादिषु तदभावात् साध्यशून्यमुदाहरणं । नापि तत्र सत्त्वमसिद्धं यतः साधनवैकल्यं । तदसिद्धौ मतांतरानुसरणप्रसंगात् । ततोऽनवद्यमनाद्यनंतत्वसाधनमात्मनस्तत्त्वांतरत्वसाधनवत् । सत्यमनाद्यनंतं चैतन्यं संतानापेक्षया न पुनरेकान्वयिद्रव्यापेक्षया क्षणिकचित्तानामन्वयानुपपत्तेरित्यपरः । सोप्यनात्मज्ञः । तदनन्वयत्वस्यानुमानबाधितत्वात् । तथाहि एकसंतानगाश्चित्तपर्यायास्तत्त्वतोन्विताः। प्रत्यभिज्ञायमानत्वात् मृत्पयोया यथेदृशाः॥१४६ ॥ मृत्क्षणास्तत्त्वतोन्विताः परस्यासिद्धा इति न मंतव्यं तत्रान्वयापह्नवे प्रतीतिविरोधात् । सकललोकसाक्षिका हि मृद्धेदेषु तथान्वयप्रतीतिः । सैवेयं पूर्व दृष्टा मृदिति प्रत्यभिज्ञानस्याविसंवादिनः सद्भावात् ॥ सादृश्यात् प्रत्यभिज्ञानं नानासंतानभाविनाम् । भेदानामिव तत्रापीत्यदृष्टपरिकल्पनम् ॥ १४७॥ यथा नानासंतानवर्तिनां मृझेदानां सादृश्यात् प्रत्यभिज्ञायमानत्वं तथैकसंतानवर्तिनामपीति ब्रुवतामदृष्टपरिकल्पनामात्रं प्रतिक्षणं भूयात्तथा तेषामदृष्टत्वात् । तदेकत्वमपि न दृष्टमेवेति चेन्नैतत्सत्यम् । तदेवेदमिति ज्ञानादेकत्वस्य प्रसिद्धितः। सर्वस्याप्यस्खलद्रूपात् प्रत्यक्षाढ़ेदसिद्धिवत् ॥ १४८ ॥ यथैव हि सर्वस्य प्रतिपत्तुरर्थस्य चास्खलितात्प्रत्यक्षादेर्भेदसिद्धिस्तथा प्रत्यभिज्ञानादेरेकत्वसिद्धिरपीति दृष्टमेव तदेकत्वं । प्रत्यभिज्ञानमप्रमाणं संवादनाभावादिति चेत् । प्रत्यक्षमपि प्रमाणं मा भूत् तत एव । न हि प्रत्यभिज्ञानेन प्रतीते विषये प्रत्यक्षस्यावर्तमानात्तस्य संवादनाभावो न पुनः प्रत्यक्षप्रतीते प्रत्यभिज्ञानस्याप्रवृत्तेः प्रत्यक्षस्येत्याचक्षाणः परीक्षको नाम । न प्रत्यक्षस्य खार्थे प्रमाणांतरवृत्तिः संवादनं । किं तर्हि ? अबाधिता संवित्तिरिति चेत् । यथा भेदस्य संवित्तिः संवादनमबाधिता । तथैकत्वस्य निर्णीतिः पूर्वोत्तरविवर्तयोः॥ १४९ ॥ कथं पूर्वोत्तरविवर्तयोरेकत्वस्य संवित्तिरवाधिताया संवादनमिति चेत् । भेदस्य कथमिति समः Page #43 -------------------------------------------------------------------------- ________________ ३४ तत्त्वार्थश्लोकवार्तिके पर्यनुयोगः । तस्य प्रमाणांतरत्वादतद्विषयेण बाघनासंभवादवाधिता संवित्तिरिति चेत् । तर्ह्येकत्वस्य प्रत्यभिज्ञानविषयत्वस्याध्यक्षादेरगोचरत्वात्तेन बाधनासंभवादबाधिता संवित्तिः किं न भवेत् ? कथं प्रत्यभिज्ञानविषयः प्रत्यक्षेणापरिच्छेद्यः ? प्रत्यभिज्ञानविषयः कथमिति समानं । तथा योग्यताप्रतिनियमादिति चेतहि वर्तमानार्थविज्ञानं न पूर्वापरगोचरम् । योग्यतानियमात्सिद्धं प्रत्यक्षं व्यावहारिकम् ॥ १५० ॥ यथा तथैव संज्ञानमेकत्वविषयं मतम् । न वर्तमानपर्यायमात्रगोचरमीक्ष्यते ॥ १५१ ॥ द्विषयतया प्रतीयते तत्तद्विषयमिति व्यवस्थायां वर्तमानार्थाकारविषयतया समीक्ष्यमाणं प्रत्यक्षं तद्विषयं, पूर्वापरविवर्तवर्त्येकद्रव्य विषयतया तु प्रतीयमानं प्रत्यभिज्ञानं तद्विषयमिति को नेच्छेत् । नन्वनुभूतानुभूयमानपरिणामवृत्तेरेकत्वस्य प्रत्यभिज्ञानविषयत्वेऽतीतानुभूताखिलपरिणामवर्तिनोऽनागत परिणामवर्तिनश्च तद्विषयत्वप्रसक्तिः, भिन्नकालपरिणामवर्तित्वाविशेषात्, अन्यथानुभूतानुभूयमानपरिणामवर्तिनोपि तदविषयत्वापत्तेरिति चेत् । तर्हि सांप्रतिकपर्यायस्य प्रत्यक्षविषयत्वे कस्यचित्सकलदेशवर्तिनोप्यध्यक्षविषयता स्यादन्यथेष्टस्यापि तदभावः, सांप्रतिकत्वाविशेषात् । तदविशेषेपि योग्यताविशेषात् सांप्रतिकाकारस्य कस्यचिदेवाध्यक्ष विषयत्वं न सर्वस्येति चेत्तर्हि - यथैव वर्तमानार्थग्राहकत्वेपि संविदः । सर्वसांप्रतिकार्थानां वेदकत्वं न बुद्ध्यते ॥ १५२ ॥ तथैवानागतातीतपर्यायैकत्ववेदिका । वित्तिर्नानादिपर्यंत पर्यायैकत्वगोचरा ॥ १५३ ॥ यथा वर्तमानार्थज्ञानावरणक्षयोपशमाद्वर्तमानार्थस्यैव परिच्छेदकमक्षज्ञानं तथा कतिपयातीतानागतपर्यायैकत्वज्ञानावरणक्षयोपशमात्तावदतीतानागतपर्यायैकत्वस्यैव ग्राहकं प्रत्यभिज्ञानमिति युक्तमुत्पश्यामः । तस्माच्चैकसंतानवर्तिघटकपालादिमृत्पर्यायाणामन्वयित्वसिद्धेर्नोदाहरणस्य साध्यसाधनविकलत्वं, येन चित्तक्षणसंतानव्याप्ये कोऽन्वितः पुमान्न सिद्ध्येत् । कथमेकः पुरुषः क्रमेणानंतान् पर्यायान् व्याप्नोति ? न तावदेकेन खभावेन सर्वेषामेकरूपापत्तेः । नानाखरूपैर्व्याप्तानां जलानलादीनां नानात्वप्रसिद्धेरन्यथानुपपत्तेः । सत्ताद्येकखभावेन व्याप्तानामर्थानां नानात्वदर्शनात् पुरुषत्वैकस्वभावेन व्याप्तानामप्यनंतपर्यायाणां नानात्वमविरुद्धमिति चायुक्तं, नानार्थव्यापिनः सत्त्वादेरेकखभावत्वानवस्थितेः । कथमन्यथैकस्वभावव्याप्तं किंचिदेकं सिद्ध्येत् । यदि पुनर्नानास्वभावैः पुमाननंतपर्यायान् व्याप्नुयात्तदा ततः स्वभावानामभेदे तस्य नानात्वं तेषां चैकत्वमनुषज्येत; भेदे संबंधासिद्धेर्व्यपदेशानुपपत्तिः । संबंधकल्पनायां किमेकेन स्वभावेन पुमान् स्वस्वभावैः संबध्यते नानाखभावैर्वा ? प्रथमकल्पनायां सर्वस्वभावानामेकतापत्तिः, द्वितीयकल्पनायां ततः स्वभावानामभेदे च स एव दोषः, अनिवृतखपर्यनुयोगः, इत्यनवस्थानात्, कुतोऽनंतपर्यायवृत्तिरात्मा व्यवतिष्ठेतेति केचित् । तेपि दूषणाभासवादिनः । कथम्— क्रमतोऽनंतपर्यायानेको व्याप्नोति ना सकृत् । यथा नानाविधाकारांश्चित्रज्ञानमनंशकम् ॥ १५४ ॥ चित्रज्ञानमनंशमेकं युगपन्नानाकारान् व्याप्नोतीति खयमुपनयन् क्रमतोऽनंतपर्यायान् व्याप्नुवन्तमात्मानं Page #44 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । प्रतिक्षिपतीति कथं मध्यस्थः । तत्र समाधानाक्षेपयोः समानत्वात् । नन्वनेकोपि चित्रज्ञानाकारोशक्यविवेचनत्वादेको युक्त इति चेत् यद्यनेकोपि विज्ञानाकारोऽशक्यविवेचनः । स्यादेकः पुरुषोऽनंतपर्यायोपि तथा न किम् ॥ १५५ ॥ क्रमभुवामात्मपर्यायाणामशक्यविवेचनत्वमसिद्धमिति मानिश्चैषीः । यस्मात् यथैकवेदनाकारा न शक्या वेदनांतरम् । नेतुं तथापि पर्याया जातुचित्पुरुषांतरम् ॥ १५६ ॥ ननु चात्मपर्यायाणां भिन्नकालतया वित्तिरेव शक्यविवेचनत्वमिति चेत्तर्हि चित्रज्ञानाकाराणां भिन्नदेशतया वित्तिर्विवेचनमस्तीत्यशक्यविवेचनत्वं माभूत् । तथाहि भिन्नकालतया वित्तिर्यदि तेषां विवेचनम् । भिन्नदेशतया वित्तिानाकारेषु किं न तत् ॥ १५७ ॥ न हि चित्रपटीनिरीक्षणे पीताद्याकाराश्चित्रभेदनस्य भिन्नदेशा न भवंति ततो बहिस्तेषां भिन्नदेशताप्रतिष्ठानविरोधात् । न ह्यभिन्नदेशपीताद्याकारानुकारिणश्चित्रवेदनाद्भिन्नदेशपीताद्याकारो बहिरर्थश्चित्रः प्रत्येतुं शक्योऽपीताकारादपि ज्ञानात्पीतप्रतीतिप्रसंगात् ॥ पीताकारादिसंवित्तिः प्रत्येकं चित्रवेदना । न चेदनेकसंतानपीतादिज्ञानवन्मतम् ॥ १५८ ॥ चित्रपटीदर्शने प्रत्येकं पीताकारादिवेदनं न चित्रज्ञानं क्रमाद्भिन्नदेशविषयत्वात्तादृशानेकसंतानपीतादिज्ञानवदिति मतं यदि । सह नीलादिविज्ञानं कथं चित्रमुपेयते । युगपद्भाविरूपादिज्ञानपंचकवत्त्वया ॥ १५९ ॥ शक्यं हि वक्तुं शष्कुलीभक्षणादौ सहभाविरूपादिज्ञानपंचकमिव नीलादिज्ञानं सकृदपि न चित्रमिति । सहभावित्वाविशेषात् । तदविशेषेपि पीतादिज्ञानं चित्रमभिन्नदेशत्वाच्चित्रपतंगादौ न पुना रूपादिज्ञानपंचकं क्वचिदिति न युक्तं वक्तुं, तस्याप्यभिन्नदेशत्वात् । न हि देशभेदेन रूपादिज्ञानपञ्चकं सकृत् खस्मिन् वेद्यते, युगपज्ज्ञानोत्पत्तिवादिनस्तथानभ्युपगमात् । ननु चादेशत्वाच्चित्रचैतसिकानामभिन्नाभिन्नदेशत्वचिंता श्रेयसीति चेत्, कथं भिन्नदेशत्वाच्चित्रपटीपीतादिज्ञानानां चित्रत्वाभावः साध्यते, संव्यवहारात्तेषां तत्र भिन्नदेशत्वासिद्धेः । तत्साधने तत एव शष्कुलीभक्षणादौ रूपादिज्ञानानामभिन्नदेशत्वसिद्धेः, सहभाविस्वसिद्धेश्व। तद्वत्सकृदपि पीतादिज्ञानं चित्रमेकं माभूत् । यदि पुनरेकज्ञानतादात्म्येन पीताद्याभासानामनुभवनात्तद्वेदनं चित्रमेकमिति मतं, तदा रूपादिज्ञानपंचकस्यैकसंतानात्मकत्वेन संवेदनादेकं चित्रज्ञानमस्तु । तस्यानेकसंतानात्मकत्वे पूर्वविज्ञानमेकमेवोपादानं न स्यात् । पूर्वानेकविज्ञानोपादानमेकरूपादिज्ञानपंचकमिति चेत्, तर्हि भिन्नसंतानत्वात्तस्यानुसंधानविकल्पजनकत्वाभावः । पूर्वानुसंधान विकल्पवासना तज्जनिकेति चेत्, कुतोहमेवास्य दृष्टा स्पृष्टा घ्राता खादयिता श्रोतेत्यनुसंधानवेदनं? रूपादिज्ञानपंचकानंतरमेवेति नियमः संभाव्यतां, तस्य तद्वासनाप्रबोधकत्वादिति चेत् , कुतस्तदेव तस्याः प्रबोधकं ? तथा दृष्टत्वादिति चेन्न, अन्यथापि दर्शनात् । प्रागपि हि रूपादिज्ञानपंचकोत्पत्तेरहमस्य द्रष्टा भविष्यामीत्याद्यनुसंधानविकल्पो दृष्टः। सत्यं दृष्टः; स तु भविष्यदर्शनाद्यनुसंधानवासनात एव । तत्प्रबोधकश्च Page #45 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके दर्शनाद्यभिमुखीभावो न तु रूपादिज्ञानपंचकमिति तदुत्पत्तेः पूर्वमन्यादृशानुसंधानदर्शनात्तासा नियमप्रतिनियतानुसंधानानां प्रतिनियतवासनाभिर्जन्यत्वात्तासां च प्रतिनियतप्रबोधकप्रत्ययायत्तप्रबोधत्वादिति चेत् । कथमेवमेकत्र पुरुषे नानानुसंधानसंताना न स्युः ? प्रतिनियतत्वेप्यनुसंधानानामेकसंतानत्वं विकल्पज्ञानत्वाविशेषादिति चेत् । किमेवं रूपादिज्ञानानामेतन्न स्यात् ? करणज्ञानत्वाविशेषात् । संतानांतरकरणज्ञानैर्व्यभिचार इति चेत्, तवापि संतानांतरविकल्पविज्ञानैः कुतो न व्यभिचारः ? एकसामग्र्यधीनत्वे सतीति विशेषणाच्चेत्, समानमन्यत्र । तथाक्षमनोज्ञानानामेक संतानत्वमेकसामग्र्यधीनत्वे सति खसंविदितत्वादिति कुतस्तेषां भिन्नसंतानत्वं येन रूपादिज्ञानपंचकस्य युगपद्भाविनः पूर्वेकविज्ञानोपादानत्वं न सिद्ध्येत् । तत्सिद्धौ च तस्यैक संतानात्मकत्वादेकत्वमिति सूक्तं दूषणं नीलाद्याभासमेकं चित्रज्ञानमिच्छतां रूपादिज्ञानपंचकमप्येकं चित्रज्ञानं प्रसज्येतेति ॥ ३६ चित्राद्वैताश्रयाच्चित्रं तदप्यस्त्विति चेन्न वै । चित्रमद्वैतमित्येतदविरुद्धं विभाव्यते ॥ १६० ॥ चित्रं ह्यनेकाकारमुच्यते तत्कथमेकं नाम, विरोधात् । तस्य जात्यंतरत्वेन विरोधाभावभाषणे । तथैवात्मा सपर्यायैरनंतैरविरोधभाक् ।। १६१ ॥ नैकं नाप्यनेकं । किं तर्हि ? चित्रं चित्रमेव, तस्य जात्यंतरत्वादेकत्वानेकत्वाभ्यामित्यविरुद्धं चित्राद्वैतसंवेदनमात्रं बहिरर्थशून्यमित्युपगमे, पुंसि जात्यंतरे को विरोधः । सोपि हि नैक एव नाप्यनेक एव । किं तर्हि ? स्यादेकः स्यादनेक इति । ततो जात्यंतरं तथाप्रतिभासनादन्यथा सकृदप्यसंवेदनात् । इति नात्मनोनंत पर्यायात्मता विरुद्धा चित्रज्ञानस्य चित्रतावत् ॥ भ्रांतेयं चित्रता ज्ञाने निरंशेऽनादिवासना |सामर्थ्यादवभासेत स्वप्नादिज्ञानवद्यदि ॥ १६२ ।। तदा भ्रांतेतराकारमेकं ज्ञानं प्रसिद्ध्यति । भ्रांताकारस्य वा सत्त्वे चित्तं सदसदात्मकम् ॥ १६३ ॥ तच्च प्रबाधतेऽवश्यं विरोधं पुंसि पर्ययैः । अक्रमैः क्रमवद्भिश्च प्रतीतत्वाविशेषतः ॥ १६४ ॥ चित्राद्वैतमपि माभूत् संवेदनमात्रस्य सकलविकल्पशून्यस्योपगमादित्यपरः । तस्यापि किमध्यारोप्य - माणो धर्मः कल्पना, मनोविकल्पमात्रं वा, वस्तुनः स्वभावो वा ? प्रथमद्वितीयपक्षयोः सिद्धसाधनमित्युच्यते निःशेषकल्पनातीतं संचिन्मात्रं मतं यदि । तथैवांतर्बहिर्वस्तु समस्तं तत्त्वतोस्तु नः ॥ १६५ ॥ समस्ताः कल्पना हीमा मिथ्यादर्शन निर्मिताः । स्पष्टं जात्यंतरे वस्तुन्यप्रबाधं चकासति ॥ १६६ ॥ अनेकांते पोद्धारबुद्धयोनेकधर्मगाः । कुतश्चित्संप्रवर्ततेऽन्योन्यापेक्षाः सुनीतयः ॥ १६७ ॥ यस्मान्मिथ्यादर्शनविशेषवशान्नित्याद्येकांताः कल्पमानाः स्पष्टं जात्यंतरे वस्तुनि निर्बाधमवभास Page #46 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। माने तत्त्वतो न संतीति खयमिष्टं, यतश्चानेकांते प्रमाणतः प्रतिपन्ने कुतश्चितामातुर्विवक्षामेदादपोद्धारकल्पनानि क्षणिकत्वाद्यनेकधर्मविषयाणि प्रवर्तते परस्परापेक्षाणि सुनयव्यपदेशभांजि भवंति । तस्मादशेषकल्पनातिक्रांतं तत्त्वमिति सिद्धं साध्यते । न हि कल्प्यमाना धर्मास्तत्त्वं तत्कल्पनमात्रं वा, अतिप्रसंगात् । तेनांतर्बहिश्च तत्त्वं तद्विनिर्मुक्तमिति युक्तमेव । तृतीयपक्षे तु प्रतीतिविरोधः । । कथम् परोपगतसंवित्तिरनंशा नावभासते । ब्रह्मवत्तेन तन्मानं न प्रतिष्ठामियर्ति नः ॥ १६८ ॥ वस्तुनः खभावाः कल्पनास्ताभिरशेषाभिः सुनिश्चितासंभवद्वाधाभी रहितं संविन्मानं तत्त्वमिति तु न व्यवतिष्ठते तस्यानंशस्य परोपवर्णितस्य ब्रह्मवदप्रतिभासनात् । नानाकारमेकं प्रतिभासनमपि विरोधादसदेवेति चेत् नानाकारस्य नैकस्मिन्नध्यासोस्ति विरोधतः । ततो न सत्तदित्येतत्सुस्पष्टं राजचेष्टितम् ॥ १६९॥ संवेदनाविशेषेपि द्वयोः सर्वत्र सर्वदा । कस्यचिद्धि तिरस्कारे न प्रेक्षापूर्वकारिता ॥ १७॥ - नानाकारस्यैकत्र वस्तुनि नाध्यासो विरोधादिति ब्रुवाणो नानाकारं वा तिरस्कुर्वीतैकत्वं वा ? नानाकरं चेत्सुव्यक्तमिदं राजचेष्टितं, संविन्मात्रवादिनः खरुच्या संवेदनमेंकमनंशं स्वीकृत्य नानाकारस्य संवेद्यमानस्यापि सर्वत्र सर्वदा प्रतिक्षेपात् , तस्य प्रेक्षापूर्वकारित्वायोगात् ॥ तस्मादबाधिता संवित्सुखदुःखादिपर्ययैः । समाक्रांते नरे नूनं तत्साधनपटीयसी ॥१७१॥ न हि प्रत्यभिज्ञानमतिः सुखदुःखादिपर्यायात्मके पुंसि केनचिबाध्यते यतस्तत्साधनपटीयसी न स्यात् । ततो नाशेषखभावशून्यस्य संविन्मात्रस्य सिद्धिस्तद्विपरीतात्मप्रतीत्या बाधितत्वात् ॥ नीलवासनया नीलविज्ञानं जन्यते यथा । तथैव प्रत्यभिज्ञेयं पूर्वतद्वासनोद्भवा ॥ १७२ ॥ तद्वासना च तत्पूर्ववासनाबलभाविनी । सापि तद्वदिति ज्ञानवादिनः संप्रचक्षते ॥ १७३ ॥ तेषामप्यात्मनो लोपे संतानांतरवासना । समुद्भूता कुतो न स्यात्संज्ञाभेदाविशेषतः॥ १७४॥ यथा नीलवासनया नीलविज्ञानं जन्यते तथा प्रत्यभिज्ञेयं तदेवेदं तादृशमेतदिति वा प्रतीयमाना प्रत्यभिज्ञानवासनयोद्भाव्यते न पुनर्बहिर्भूतेनैकत्वेन सादृश्येन वा येन तद्राहिणी स्यात् । तद्वासना कुत इति चेत् , पूर्वतद्वासनातः, सापि पूर्वखवासनाबलादित्यनादित्वाद्वासनासंततेरयुक्तः पर्यनुयोगः । कथमन्यथा बहिरर्थेपि न संभवेत् । तत्र कार्यकारणभावस्यानादित्वादपर्यनुयोगे पूर्वापरवासनानामपि तत एवापर्यनुयोगोस्तु । कार्यकारणभावस्यानादित्वं हि यथा बहिस्तथांतरमपीति न विशेषः केवलं बहिरर्थोनर्थः परिहृतो भवेत् अशक्यप्रतिष्ठत्वात्तस्येति ज्ञानवादिनः । तेषामपि नेयं प्रत्यभिज्ञा पूर्वखवासनाप्रभवा वक्तुं युक्तान्वयिनः पुरुषस्याभावात् , संतानांतरवासनातोपि तत्प्रभवप्रसंगात्तन्नानात्वाविशेषात् ॥ Page #47 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके संतानैकत्वसंसिद्धिनियमात्स कुतो मतः । प्रत्यासत्तेने संतानभेदेप्यस्याः समीक्षणात् ॥ १७५ ॥ व्यभिचारविनिमुक्ता कार्यकारणभावतः। पूर्वोत्तरक्षणानां हि संताननियमो मतः ॥ १७६ ॥ स च बुद्धेतरज्ञानक्षणानामपि विद्यते । नान्यथा सुगतस्य स्यात्सर्वज्ञत्वं कथंचन ॥ १७७ ॥ संतानैक्यात्पूर्ववासना प्रत्यभिज्ञाया हेतुर्न संतानांतरवासनेति चेत् । कुतः संतानैक्यं ? प्रत्यासत्तेश्वेत् , साप्यव्यभिचारी कार्यकारणभाव इष्टस्ततो बुद्धेतरक्षणानामपि स्यात् । न च तेषां स व्यभिचरति बुद्धस्यासर्वज्ञत्वापत्तेः । सकलसत्त्वानां तदकारणत्वे हि न तद्विषयत्वं स्यान्नाकारणं विषय इति वचनात् । सकलसत्त्वचित्तानामालंबनप्रत्ययत्वात् सुगतचित्तस्य न तदेकसंतानतेति चेन्न । पूर्ववचित्तैरपि सहैकसंतानतापायप्रसक्तेस्तदालंबनप्रत्ययत्वाविशेषात् । समनंतरप्रत्ययत्वात् खपूर्वचित्तानां तेनैकसंतानतेति चेत्, कुतस्तेषामिव समनंतरप्रत्ययत्वं न पुनः सकलसत्त्वचित्तानामपीति नियम्यते ? तेषामेकसंतानबर्तित्वादिति चेत् , सोऽयमन्योन्यसंश्रयः । सत्येकसंतानत्वे पूर्वापरसुगतचित्तानामव्यभिचारी कार्यकारणभावस्तस्मिन्सति तदेकसंतानत्वमिति । ततः पूर्वक्षणाभावेनुत्पत्तिरेवोत्तरक्षणस्याव्यभिचारी कार्यकारणभावोभ्युपगंतव्यः । स च खचित्तैरिव सकलसत्त्वचित्तैरपि सहास्ति सुगतचित्तस्येति कथं न तदेकसंतानतापत्तिः ॥ स्वसंवेदनमेवास्य सर्वज्ञत्वं यदीष्यते । संवेदनाद्वयास्थानाद्ता संतानसंकथा ॥ १७८ ॥ न यद्वये संतानो नाम लक्षणभेदे तदुपपत्तेः, अन्यथा सकलव्यवहारलोपात् प्रमाणप्रमेयविचारानवतारात् प्रलापमात्रमवशिष्यते । अभ्युगम्य वा व्यभिचारी कार्यकारणभावं सुगतेतरसंतानैकत्वापत्तेः संताननियमो निरस्यते । तत्त्वतस्तु स एव भेदवादिनोसंभवी केषांचिदेव क्षणानामव्यभिचारी कार्यकारणभाव इति निवेदयति ___कथं चाव्यभिचारेण कार्यकारणरूपता। केषांचिदेव युज्येत क्षणानां भेदवादिनः ॥ १७९ ॥ कालदेशभावप्रत्यासत्तेः कस्यचित्केनचिद्भावाद्भावेपि व्यभिचारान्न भेदैकांतवादिनामव्यभिचारी कार्यकारणभावो नाम । तथाहि कालानंतर्यमात्राचेत्सर्वार्थानां प्रसज्यते । देशानंतर्यतोप्येषा केन स्कंधेषु पंचसु ॥ १८० ॥ भावाः संति विशेषाचेत् समानाकारचेतसाम् । विभिन्नसंततीनां वै किं नेयं संप्रतीयते ॥ १८१॥ यतश्चैव सव्यभिचारेण कार्यकारणरूपता देशानंतर्यादिभ्यो नैकसंतानात्मकत्वामिमतानां क्षणानां व्यवतिष्ठते तस्मादेवमुपादानोपादेयनियमो द्रव्यप्रत्यासत्तेरेवेति परिशेषसिद्धं दर्शयतिः एकद्रव्यस्वभावत्वात्कथंचित्पूर्वपर्ययः। उपादानमुपादेयश्चोत्तरो नियमात्ततः॥ १८२॥ Page #48 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। विवादापन्नः पूर्वपर्यायः स्यादुपादानं कथंचिदुपादेयानुयायिद्रव्यखभावत्वे सति पूर्वपर्यायत्वात् , यस्तु नोपादानं स नैवं यथा तदुत्तरपर्यायः । पूर्वपूर्वपर्यायः कार्यश्च आत्मा वा तदुपादेयाननुयायिद्रव्यखभावो वा सहकार्यादिपर्यायो वा । तथा विवादापन्नस्तदुत्तरपर्याय उपादेयः कथंचित्पूर्वपर्यायानु यायिद्रव्यखभावत्वे सत्युत्तरपर्यायत्वात् यस्तु नोपादेयः स नैवं यथा तत्पूर्वपर्यायः । तदुत्तरोत्तरपर्यायो वा । पूर्वपर्यायानुयायिद्रव्यखभावो वा तत्खात्मा वा तथा चासाविति नियमात् । ततः सिद्धमुपादानमुपादेयश्च, अन्यथा तत्सिद्धेरयोगात् ॥ एकसंतानवर्तित्वात्तथा नियमकल्पने । पूर्वापरविदोयंक्तमन्योन्याश्रयणं भवेत् ॥ १८३ ॥ कार्यकारणभावस्य नियमादेकसंततिः। ततस्तनियमश्च स्यान्नान्यातो विद्यते गतिः ॥ १८४ ॥ संतानैक्यादुपादानोपादेयताया नियमे परस्पराश्रयणात्सैव माभूदित्यपि न धीरचेष्टितं, पूर्वापरविदोस्तत्परिच्छेद्ययोर्वा नियमेनोपादानोपादेयतायाः समीक्षणात् । तदन्यथानुपपत्त्या तव्याप्येकद्रव्यस्थितेरिति तद्विषयं प्रत्यभिज्ञानं तत्परिच्छेदकमित्युपसंहरति तस्मात्स्वावृत्तिविश्लेषविशेषवशवर्तिनः। पुंसः प्रवर्तते खार्थकत्वज्ञानमिति स्थितम् ॥ १८५ ॥ संतानवासनाभेदनियमस्तु क लभ्यते। नैरात्म्यवादिभिर्न स्यायेनात्मद्रव्यनिर्णयः॥ १८६ ॥ तस्मान्न द्रव्यनैरात्म्यवादिनां संतानविशेषाद्वासनाविशेषाद्वा प्रत्यभिज्ञानप्रवृत्तिस्तन्नियमस्य लब्धुमशक्तेः । किं तर्हि ? पुरुषादेवोपादानकारणात् स एवाहं तदेवेदमिति वा खार्थेकत्वपरिच्छेदकं प्रत्यभिज्ञानं प्रवर्तते खावरणक्षयोपशमवशादिति व्यवतिष्ठते । तस्माच्च मृत्पर्यायाणामिवैकसंतानवर्तिनां चित्पर्यायाणामपि तत्त्वतोन्वितत्वसिद्धेः सिद्धमात्मद्रव्यमुदाहरणस्य साध्यविकलतानुपपत्तेः ॥ सिद्धोप्यात्मोपयोगात्मा यदि न स्यात्तदा कुतः। श्रेयोमार्गप्रजिज्ञासा खस्येवाचेतनत्वतः ॥ १८७॥ येषामात्मानुपयोगखभावस्तेषां नासौ श्रेयोमार्गजिज्ञासा वाचेतनत्वादाकाशवत् । नोपयोगखभावत्वं चेतनत्वं किंतु चैतन्ययोगतः स चात्मनोस्तीत्यसिद्धमचेतनत्वं न साध्यसाधनायालमिति शंकामपनुदति चैतन्ययोगतस्तस्य चेतनत्वं यदीर्यते । खादीनामपि किं न स्यात्तद्योगस्याविशेषतः॥१८८ ॥ पुंसि चैतन्यस्य समवायो योगः स च खादिष्वपि समानः, समवायस्य खयमविशिष्टस्यैकस्य प्रतिनियमहेत्वभावादात्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थितेः ॥ मयि ज्ञानमपीहेदं प्रत्ययानुमितो नरि। ज्ञानस्य समवायोस्ति न खादिष्वित्ययुक्तिकम् ॥ १८९॥ यथेह कुंडे दधीति प्रत्ययान्न तत्कुंडादन्यत्र तद्दधिसंयोगः शक्यापादानस्तथेह मयि ज्ञानमितीहेदं प्रत्ययान्नात्मनोऽन्यत्र खादिषु ज्ञानसमवाय इत्ययुक्तिकमेव योगस्य ॥ Page #49 -------------------------------------------------------------------------- ________________ ४०. तत्त्वार्थश्लोकवार्तिके खादयोपि हि किं नैव प्रतीयुस्तावके मते । ज्ञानमस्माविति कात्मा जडस्तेभ्यो विशेषभाक् ॥ १९० ॥ खादयो ज्ञानमस्मास्खिति प्रतीयंतु खयमचेतनत्वादात्मवत् । आत्मनो वा मैवं प्रतीयुस्तत एव खादिवदिति । जडात्मवादिमते सन्नपि ज्ञानमिहेदमिति प्रत्ययः प्रत्यात्मवेद्यो न ज्ञानस्यात्मनि समवायं नियमयति विशेषाभावात् । नन्विह पृथिव्यादिषु रूपादय इति प्रत्ययोपि न रूपादीनां पृथिव्यादिषु समवायं साधयेद्यथा खादिषु तत्र वा सत्त्वं साधयेत् पृथिव्यादिष्विवेति न क्वचित्प्रत्यय विशेषात्कस्यचिद्व्यवस्था | किंचित्साधर्म्यस्य सर्वत्र भावादिति चेत् । सत्यं । अयमपरोस्य दोषोस्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादिभ्यो विशिष्टतया व्यवस्थापयितुमशक्तेः । स्यान्मतं । आत्मानो ज्ञानमस्मास्खिति प्रतीयंति आत्मत्वात् ये तु न तथा ते नात्मानो यथा खादयः । आत्मानश्चैतेऽहंप्रत्ययग्राह्यास्तस्मात्तथेत्यात्मत्वमेव खादिभ्यो विशेष - मात्मानं साधयति पृथिवीत्वादिवत् । पृथिव्यादीनां पृथिवीत्वादियोगाद्धि पृथिव्यादयस्तद्वदात्मत्वयोगादात्मान इति । तदयुक्तम् । आत्मत्वादिजातीनामपि जातिमदनात्मकत्वे तत्समवायनियमासिद्धेः । प्रत्ययविशेषात्तत्सिद्धिरिति चेत्, स एव विचारयितुमारब्धः । परस्परमत्यंतभेदाविशेषेपि जातितद्वतामात्मत्वजातिरात्मनि प्रत्ययविशेषमुपजनयति न पृथिव्यादिषु पृथिवीत्वादिजातयश्च तत्रैव प्रत्ययमुत्पादयंति नात्मनीति को नियमहेतुः ? समवाय इति चेत्, सोऽयमन्योन्यसंश्रयः । सति प्रत्ययविशेषे जातिविशेषस्य जातिमति समवायः सति च समवाये प्रत्ययविशेष इति । प्रत्यासत्तिविशेषादन्यत एव तत्प्रत्ययविशेष इति चेत् । स कोऽन्योऽन्यत्र कथंचित्तादात्म्यपरिणामादिति स एव प्रत्ययविशेषहेतुरेषितव्यः । तदभावे तदघटनाज्जातिविशेषस्य क्वचिदेव समवायासिद्धेरात्मादिविभागानुपपत्तेरात्मन्येव ज्ञानं समवेतमिहेदमिति प्रत्ययं कुरुते न पुनः खादिष्विति प्रतिपत्तुमशक्तेर्न चैतन्ययोगादात्मनश्चेतनत्वं सिद्ध्येत् यतोऽसिद्धो हेतुः स्यात् । प्रतीतिः शरणं तत्र केनाप्याश्रीयते यदि । तदा पुंसश्चिदात्मत्वं प्रसिद्धमविगानतः ॥ १९१ ॥ ज्ञाताहमिति निर्णीतेः कथंचिच्चेतनात्मताम् । अंतरण व्यवस्थानासंभवात् कलशादिवत् ॥ ९९२ ॥ प्रतीतिविलोपो हि स्याद्वादिभिर्न क्षम्यते न पुनः प्रतीत्याश्रयणं । ततो निःप्रतिद्वन्द्वमुपयोगात्मकस्यात्मनः सिद्धेर्न हि जातुचित्खयमचेतनोहं चेतनायोगाच्चेतनोऽचेतने च मयि चेतनायाः समवाय इति प्रतीतिरस्ति । ज्ञाताहमिति समानाधिकरणतया प्रतीतेः । भेदे तथा प्रतीतिरिति चेन्न । कथंचित्तादात्म्याभावे तददर्शनात् । यष्टिः पुरुषः इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा न पुनस्तात्त्विकी । तथा चात्मनि ज्ञाताहमिति प्रतीतिः कथंचिचेतनात्मतां गमयति, तामंतरेणानुपपद्यमानत्वात् कलशादिवत् । न हि कलशादिरचेतनात्म को ज्ञाताहमिति प्रत्येति । चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत्, चेतनस्यापि चैतन्ययोगाचेतनो हमिति प्रतिपत्तेर्निरस्तत्वात् । ननु च ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदोऽन्यथा धनवानिति प्रत्ययादपि धनतद्वतोर्भेदाभावानुषंगादिति कश्चित् । तदसत् । ज्ञानवानहमित्येष प्रत्ययोपि न युज्यते । सर्वथैव जडस्यास्य पुंसोभिमनने तथा ॥ १९३ ॥ ज्ञानवानहमिति नात्मा प्रत्येति जडत्वैकांतरूपत्वाद् घटवत् । सर्वथा जडश्च स्यात् आत्मा ज्ञानवान - हमिति प्रत्येता च स्याद्विरोधाभावादिति मा निर्णैषीस्तस्य तथोत्पत्त्यसंभवात् । तथाहि Page #50 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ज्ञानं विशेषणं पूर्व गृहीत्वात्मानमेव च । विशेष्यं जायते बुद्धिानवानहमित्यसौ ॥ १९४ ॥ तद्गृहीतिः खतो नास्ति रहितस्य खसंविदा।। परतश्चानवस्थानादिति तत्प्रत्ययः कुतः॥ २०१॥ । येषां नागृहीतविशेषणा विशेष्ये बुद्धिरिति मतं श्वेताच्छेते बुद्धिरिति वचनात्तेषां ज्ञानवानहमिति प्रत्ययो नागृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् । गृहीते तस्मिन्नुस्पद्यते इति चेत्, कुतस्तद्गृहीतिः ? न तावत्वतः स्वसंवेदनानभ्युपगमात् । स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा प्रयुज्यते नान्यथा संतानांतरवत् । परतश्चेत्तदपि ज्ञानांतरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे ग्रहीतुं शक्यमिति ज्ञानांतरात्तद्रहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः ॥ नन्वहंप्रत्ययोत्पत्तिरात्मज्ञप्तिर्निगद्यते । ज्ञानमेतदिति ज्ञानोत्पत्तिस्तद्ज्ञप्तिरेव च ॥ २०२॥ ज्ञानवानहमित्येष प्रत्ययस्तावतोदिता। तद्ज्ञानावेदनेप्येवं नानवस्थेति केचन ॥ २०३ ॥ ज्ञानात्मविशेषणविशेष्यज्ञानाहितसंस्कारसामर्थ्यादेव ज्ञानवानहमिति प्रत्ययोत्पत्ते नवस्थेति केचिन्मन्यते तेपि नूनमनात्मज्ञा ज्ञाप्यज्ञापकताविदः। सर्वं हि ज्ञापकं ज्ञातं खयमन्यस्य वेदकम् ॥ २०४॥ विशेषणविशेष्ययोर्ज्ञानं हि तयोपिकं तत्कथमज्ञातं तौ ज्ञापयेत् । कारकत्वे तदयुक्तमेव । तदिमे १ यत्पुस्तकमाश्रित्य मुद्रणाय प्रतिपुस्तकं कृतं तत्र चतुर्दशपृष्ठस्यैकविंशतितमपंक्त्याः प्रारम्भे “यदाप्तस्तदधिकरणस्य" इत्यस्य स्थाने अधोलिखितस्यास्य पाठस्यानुपलब्धलात् किंचित्कालानन्तरंतु पुस्तकान्तरेऽस्योपलब्धत्वेनेहोद्धृतिः कृता । अत एव चेह वार्तिकसंख्यापि वृद्धिं नीता। तत एव चैनं पाठं तत्स्थानीयं समुपगम्याध्ययनं विधास्यन्ति मयि क्षमापरायणाः सुधिय इत्याशासे। यदा च क्वचिदेकत्र तदेतनास्तितामतिः । नैवान्यत्र तदा सास्ति कैवं सर्वत्र नास्तिता ॥२४॥ प्रमाणांतरतोप्येषां न सर्वपुरुषग्रहः । तल्लिंगादेरसिद्धत्वात् सहोदीरितदूषणात् ॥ २५॥ तज्ज्ञापकोपलंभोपि सिद्धः पूर्वत्र जातुचित् । यस्य स्मृतौ प्रजायेत नास्तिताज्ञानमंजसा ॥ २६ ॥ तदेवं सदुपलंभकप्रमाणपंचकवदभावप्रमाणमपि न सर्वज्ञज्ञापकोपलंभस्य सर्वप्रमातृसंबंधिनो संभवसाधनं तत्र तस्योस्थानसामग्यभावात् । ननु च विवादापन्नेष्वशेषप्रमातृषु तदुपगमादेव सिद्धः सर्वज्ञज्ञापकोपलंभो नास्तीति साध्यते ततो नाभावप्रमाणस्य तत्रोत्थानसामय्यभाव इत्यारेकायां परोपगमस्य प्रमाणलाप्रमाणलयोर्दूषणमाह;परोपगमतः सिद्धस्स चेन्नास्तीति गम्यते । व्याघातस्तत्प्रमाणत्वेऽन्योन्यं सिद्धो न सोऽन्यथा ॥२७॥ न हि प्रमाणात्सिद्धे सर्वज्ञज्ञापकोपलंभे परोपगमोसिद्धो नाम यतस्तन्नास्तितासाधनेऽन्योन्यं व्याघातो न स्यात् । प्रमाणमंतरेण तु स न सिद्ध्यत्येवेति तत्सामग्यभाव एव ॥ न चैवं सर्वथैकांतः परोपगमतः कथम् । सिद्धो निषिध्यते जैनैरिति चोधं न धीमताम् ॥ २८ ॥ न हि सोपगमतः स्याद्वादिनां सर्वथैकांतः सिद्धोस्तीति निषेध्यो न स्यात् सर्वज्ञज्ञापकोपलंभवत् , तदेतदचोद्यम् । प्रतीतेनंतधर्मात्मन्यर्थे स्वयमबाधिते । को दोषः सुनयैस्तत्रैकांतोपप्लवबाधने ॥२९॥ सुनिश्चितासंभवबाधकप्रमाणेपि ह्यनेकांतात्मनि वस्तुनि दृष्टिमोहोदयात्सर्वथैकांतामिप्रायः कस्यचिदुपजायते । स चोपप्लवः सम्यग्नयैर्बाध्यते इति न कश्चिद्दोषः । प्रतिषेध्याधिकरणं प्रतिपत्तिलक्षणः प्रतिषेध्यासिद्धिलक्षणो वा मिथ्यादृशस्तद Page #51 -------------------------------------------------------------------------- ________________ ४२ तत्त्वार्थश्लोकवार्तिके तयोर्ज्ञानमज्ञातमेव ज्ञापकं ब्रुवाणा न ज्ञाप्यज्ञापकभावविद इति सत्यमनात्मज्ञाः । स्यान्मतं । विशेषणस्य ज्ञानं न ज्ञापकं नापि कारकं लिंगवच्चक्षुरादिवच्च । किं तर्हि ? ज्ञप्तिरूपं फलं । तच्च प्रमाणाज्ञातं चेतावतैवाकांक्षाया निवृत्तिः फलपर्यंतत्वात्तस्या विशेष्यज्ञानस्य ज्ञापकं तदित्यपि वार्त तस्य तत्कारकत्वात् । प्रमाणत्वात्तस्य ज्ञापकं तदित्यप्यसारं साधकतमस्य कारकविशेषस्य प्रमाणत्ववचनात् । न हि विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं तत्फलमित्यभिदधानस्तत्तस्य ज्ञापकमिति मन्यते । किं तर्हि ? विशेष्यज्ञानोत्पत्ति- । सामग्रीत्वेन विशेषणज्ञानं प्रमाणमिति । तथा मन्यमानस्य च कानवस्था नामेति । तदेतदपि नाति विचारसहं । एकात्मसमवेतानंतरज्ञानग्राह्यमर्थज्ञानमिति सिद्धांतविरोधात् । यथैव हि विशेषणार्थज्ञानं पूर्व प्रमाणफलं प्रतिपत्तुराकांक्षानिवृत्तिहेतुत्वान्न ज्ञानांतरमपेक्षते तथा विशेषार्थज्ञानमपि विशेषणज्ञानफलत्वात्तस्य यदि पुनर्विशेषणविशेष्यार्थज्ञानस्य खरूपापरिच्छेदकत्वात्वात्मनि क्रियाविरोधादपरज्ञानेन वेद्यमानतेष्टा तदा तदपि तद्वेदकं ज्ञानमपरेण ज्ञानेन वेद्यमिष्यतामित्यनवस्था दुःपरिहरा । नन्वर्थज्ञानपरिच्छेदे तदनंतरज्ञानेन व्यवहर्तुराकांक्षाक्षयादर्थज्ञानपरिच्छित्तये न ज्ञानांतरापेक्षास्ति, तदाकांक्षया वा तदिष्यत एव यस्य यत्राकांक्षाक्षयस्तत्र तस्य ज्ञानांतरापेक्षानिवृत्तेस्तथा व्यवहारदर्शनात्ततो नानवस्थेति चेत् , तीर्थज्ञानेनार्थस्य परिच्छित्तौ कस्यचिदाकांक्षाक्षयात्तद्ज्ञानापेक्षापि माभूत् । तथेष्यत एवेति चेत्, परोक्षज्ञानवादी कथं भवता अतिशय्यते ? ज्ञानस्य कस्यचित् प्रत्यक्षत्वोपगमादितिचेत् , यस्याप्रत्यक्षतोपगमस्तेन परिच्छिन्नोर्थः कथं प्रत्यक्षः ? संतानांतरज्ञानपरिच्छिन्नार्थवत् प्रत्यक्षतया प्रतीतेरिति चेत् , तीप्रत्यक्षज्ञानवादिनोपि तत एवार्थः प्रत्यक्षोस्तु । तथा चानार्थका सर्वज्ञज्ञानस्य ज्ञानांतरप्रत्यक्षत्वकल्पना । यत्र यथा प्रतीतिस्तत्र तथेष्टिर्न पुनरप्रतीतिकं किंचित्कल्प्यत इति चेत् , स्वार्थसंवेदकताप्रतीतितो ज्ञानस्य तथेष्टिरस्तु । ज्ञाने खसंवेदकताप्रतीतेः । खात्मनि क्रियाविरोधेन बाधितत्वान्न तथेष्टिरिति चेत् । का पुनः खात्मनि क्रिया विरुद्धा परिस्पंदरूपा धात्वर्थरूपा वा ? प्रथमपक्षे असिज्ञाने तदभावात् । धात्वर्थरूपा तु न विरुद्धैव भवति तिष्ठतीत्यादिक्रियायाः खात्मनि प्रतीतेः। कथमन्यथा भवत्याकाशं तिष्ठति मेरुरित्यादि व्यवहारः सिद्ध्येत् ? सकर्मिका धात्वर्थरूपापि विरुद्धा स्वात्मनीति चेत् , तर्हि ज्ञानं प्रकाशते चकास्तीति क्रिया न खात्मनि विरुद्धा? ज्ञानमात्मानं जानातीति सकमिका तत्र विरुद्धेति चेन्न, आत्मानं हंतीत्यादेरपि विरोधानुषंगात् । कर्तृखरूपस्य कर्मत्वेनोपचारान्नात्र पारमार्थिकं कर्मेति चेत् , समानमन्यत्र । ज्ञाने कर्तरि वरूपस्यैव ज्ञानक्रियायाः कर्मतयोपचारात् । तात्त्विकमेव ज्ञाने कर्मत्वं प्रमेयत्वात्तस्येति चेत् , तद्यदि सर्वथा कर्तुरभिन्नं तदा विरोधः, सर्वथा भिन्नं चेत्कथं तत्र ज्ञानस्य जानातीति क्रिया खात्मनि स्यायेन विरुद्ध्येत् । कथमन्यथा कटं करोतीति क्रियापि कटकारस्य खात्मनि न स्याद्यतो न विरुध्यते । कर्तुः कर्मत्वं कथंचिद्भिन्नमित्येतस्मिंस्तु दर्शने ज्ञानस्यात्मनो वा खात्मनि क्रिया दूरोत्सारितैवेति न विरुद्धतामधिवसति । ततो ज्ञानस्य खसंवेदकताप्रतीतेः खात्मनि क्रियाविरोधो बाधकः प्रत्यस्तमितबाधकप्रतीत्यास्पदं चार्थसंवेदकत्ववत्खसंवेदकत्वं ज्ञानस्य परीक्षकैरेष्टव्यमेव । प्रतीत्यननुसरणेनवस्थानस्य खमतविरोधस्य वा परिहर्तुमशक्तेः । ततो न जडात्मवादिनां ज्ञानवानहमिति प्रत्ययः ज्ञाताहमिति प्रत्ययवत् पुरुषस्य ज्ञानविशिष्टस्य ग्राहकः ॥ किं चाहंप्रत्ययस्यास्य पुरुषो गोचरो यदि । तदा कर्ता स एव स्यात् कथं नान्यस्य संभवः ॥ २०५॥ ___ कश्चास्याहंप्रत्ययस्य विषय इति विचार्यते । पुरुषश्चेत् प्रमेयः प्रमाता न स्यात् । न हि स एव प्रमेयः स एव प्रमाता, सकृदेकस्यैकज्ञानापेक्षया कर्मत्वकर्तृतयोर्विरोधात् । ततोऽन्यः कर्तेति चेन्न, Page #52 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । एकत्र शरीरे अनेकात्मानभ्युपगमात् । तस्याप्यहंप्रत्ययविषयत्वेऽपरकर्तृपरिकल्पनानुषंगादनवस्थानादेकात्मज्ञानापेक्षायामात्मनः प्रमातृत्वानुपपत्तेश्च नान्यः कर्ता संभवति यतो न विरोधः ॥ स्वस्मिन्नेव प्रमोत्पत्तिः स्वप्रमातृत्वमात्मनः । प्रमेयत्वमपि स्वस्य प्रमितिश्चेयमागता ॥ २०६ ॥ यथा घटादौ प्रमतेरुत्पत्तिस्तत्प्रमातृत्वं पुरुषस्य तथा स्वस्मिन्नेव तदुत्पत्तिः स्वप्रमातृत्वं यथा च घटादेः प्रमितौ प्रमेयत्वं तस्यैव तथात्मनः परिच्छित्तौ स्वस्यैव प्रमेयत्वं यथा घटादेः परिच्छित्तिस्तस्यैव प्रमिति - स्तथात्मनः परिच्छित्तिः खप्रमितिः प्रतीतिबलादागता परिहर्तुमशक्या ॥ ४३ तथाचैकस्य नानात्वं विरुद्धमपि सिद्ध्यति । न चतस्रो विधास्तेषां प्रमात्रादिप्ररूपणात् ॥ २०७ ॥ प्रमात्रादिप्रकाराश्चत्वारोप्यात्मनो भिन्नास्ततो नैकस्यानेकात्मकत्वं विरुद्धमपि सिद्ध्यतीति चेत् न, तस्य प्रकारांतरत्वप्रसंगात् । कर्तृत्वादात्मनः प्रमातृत्वेन व्यवस्थानात् न प्रकारांतरत्वमिति चेत् । केयं कर्तृतानामात्मनः ? ॥ प्रमितेः समवायित्वमात्मनः कर्तृता यदि । तदा नास्य प्रमेयत्वं तन्निमित्तत्वहानितः ॥ २०८ ॥ प्रमाणसहकारी हि प्रमेयोर्थः प्रमां प्रति । निमित्तकारणं प्रोक्तो नात्मैवं स्वप्रमां प्रति ॥ २०९ ॥ प्रमीयमाणो ह्यर्थः प्रमेयः प्रमाणसहकारी प्रमित्युत्पत्तिं प्रति निमित्तकारणत्वादिति ब्रुवाणः कथमात्मनः खप्रमितिं प्रति समवायिनः प्रमातृतामात्मसात् कुर्वतः प्रमेयत्वमाचक्षीत विरोधात् । न चात्मा स्वप्रमां प्रति निमित्तकारणं समवायिकारणत्वोपगमात् । यदि पुनरात्मनः स्वप्रमितिं प्रति समवायित्वं निमित्तकारणत्वं चेष्यतेर्थप्रमितिं प्रति समवायिकारणत्वमेव तदा साधकतमत्वमप्यस्तु । तथा च स एव प्रमाता स एव प्रमेयः स एव च प्रमाणमिति कुतः प्रमातृप्रमेयप्रमाणानां प्रकारांतरता नावतिष्ठेत् । कर्तृकारकात् करणस्य भेदान्नात्मनः प्रमाणत्वमिति चेत्, कर्मकारकं कर्तुः किमभिन्नं यतस्तस्य प्रमेयत्वमिति नात्मा स्वयं प्रमेयः ॥ नiतरप्रमेयत्वमनेनास्य निवारितम् । कस्यापि प्रमेयत्वेन्यप्रमातृत्वकल्पनात् ॥ २१० ॥ बाध्या केनानवस्था स्यात्स्वप्रमातृत्वकल्पने । यथोक्ताशेषदोषानुषंगः केन निवार्यते ॥ २११ ॥ विवक्षितात्मा आत्मांतरस्य यदि प्रमेयस्तदास्य खात्मा किमप्रमेयः प्रमेयो वा ? अप्रमेयश्चेत् तत्मांतरस्य प्रमेय इति पर्यनुयोगस्यापरिनिष्ठानादनवस्था केन बाध्यते । प्रमेयश्चेत् स एव प्रमाता स एव प्रमेय इत्यायातमेकस्य नैकत्वं विरुद्धमपि परमतसाधनं तद्वत् स एव प्रमाणं स्यात् साधकतमत्वोपपत्तेरिति पूर्वोक्तमखिलं दूषणमशक्यनिवारणम् ॥ स्वसंवेद्ये नरे नायं दोषोऽनेकांतवादिनाम् । नानाशक्त्यात्मनस्तस्य कर्तृत्वाद्यविरोधतः ॥ २१२ ॥ परिच्छेदकशक्त्या हि प्रमातात्मा प्रतीयते । प्रमेयश्च परिच्छेद्यशक्त्याकांक्षाक्षयात्स्थितिः ॥ २१३ ॥ Page #53 -------------------------------------------------------------------------- ________________ ४४ तत्त्वार्थश्लोकवार्तिके ननु स्वसंवेद्येप्यात्मनि प्रमातृत्वशक्तिः प्रमेयत्वशक्तिश्च स्वयं परिच्छेदकशक्त्यान्यया परिच्छेद्या, सापि तत्परिच्छेदकत्वपरिच्छेद्यत्वशक्तिपरया परिच्छेदकशत्तया परिच्छेद्येत्यनवस्थानमन्यथाद्यशक्तिभेदोपि प्रमातृत्वप्रमेयत्वहेतुर्मा भूत् इति न स्याद्वादिनां चोद्यं । प्रतिपत्तुराकांक्षाक्षयादेव क्वचिदवस्थानसिद्धेः । न हि परिच्छेदकत्वादिशक्तिर्यावत्स्वयं न ज्ञाता तावदात्मनः खप्रमातृत्वादिसंवेदनं न भवति येनानवस्था स्यात् । प्रमातृत्वादिखसंवेदनादेव तच्छक्तेरनुमानान्निराकांक्षस्य तत्राप्यनुपयोगादिति युक्तमुपयोगात्म- । कत्वसाधनमात्मनः॥ कर्तृरूपतया वित्तेरपरोक्षः स्वयं पुमान् । अप्रत्यक्षश्च कर्मत्वेनाप्रतीतेरितीतरे ॥ २१४ ॥ सत्यमात्मा संवेदनात्मकः स तु न प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात् । न हि यथा नीलमहं जानामीत्यत्र नीलं कर्मतया चकास्ति तथात्मा कर्मत्वेन । अप्रतिभासमानस्य च न प्रत्यक्षत्वं, तस्य तेन व्याप्तत्वात् । आत्मानमहं जानामीत्यत्र कर्मतयात्मा भात्येवेति चायुक्तमुपचरितत्वात्तस्य तथा प्रतीतेः । जानातेरन्यत्र सकर्मकस्य दर्शनादात्मनि सकर्मकत्वोपचारसिद्धेः । परमार्थतस्तु पुंसः कर्मत्वे कर्ता स एव वा स्यादन्यो वा ? न तावत्स एव विरोधात् । कथमन्यथैकरूपतात्मनः सिद्ध्येत् । नानारूपत्वादात्मनो न दोष इति चेत् न, अनवस्थानुषंगात् । केनचिद्रूपेण कर्मत्वं केनचित्कर्तृत्वमित्यनेकरूपत्वे ह्यात्मनस्तदनेकं रूपं प्रत्यक्षमप्रत्यक्षं वा ? प्रत्यक्षं चेत्कर्मत्वेन भाव्यमन्येन तत्कर्तृत्वेन, तत्कर्मत्वकर्तृत्वयोरपि प्रत्यक्षत्वे परेण कर्मत्वेन कर्तृत्वेन चावश्यं भवितव्यमित्यनवस्था । तदनेक रूपमप्रत्यक्षं चेत् , कथमात्मा प्रत्यक्षो नाम ? पुमान् प्रत्यक्षस्तत्वरूपं न प्रत्यक्षमिति कः श्रद्दधीत । यदि पुनरन्यः कर्ता स्यात्तदा स प्रत्यक्षोऽप्रत्यक्षो वा ? प्रत्यक्षश्चेत् कर्मत्वेन प्रतीयमानोसाविति न कर्ता स्याद्विरोधात् । कथमन्यथैकरूपतात्मनः सिद्धयेत् । नानारूपत्वादात्मनो न दोष इति चेन्न, अनवस्थानुषंगात् , इत्यादि पुनरावर्तत, इति महच्चक्रकम् । तस्याप्रत्यक्षत्वे स एवास्माकमात्मेति सिद्धोऽप्रत्यक्षः पुरुषः । परोक्षोस्तु पुमानिति चेत् न, तस्य कर्तृरूपतया स्वयं संवेद्यमानत्वात् । सर्वथा साक्षादप्रतिभासमानो हि परोक्षः परलोकादिवन्न पुनः केनचिद्रूपेण साक्षाप्रतिभासमान, इत्यपरोक्ष एवात्मा व्यवस्थितिमनुभवति । इति केचित् ॥ तेषामप्यात्मकर्तृत्वपरिच्छेद्यत्वसंभवे । कथं तदात्मकस्यास्य परिच्छेद्यत्वनिन्हवः ॥ २१५ ।। कर्तृत्वेनात्मनः संवेदने तत्कर्तृत्वं तावत्परिच्छेद्यमिष्टमन्यथा तद्विशिष्टतयास्य संवेदनविरोधात् तत्संभवे कथं तदात्मकस्यात्मनः प्रत्यक्षत्वनिन्हवो युक्तः ॥ ततो भेदे नरस्यास्य नापरोक्षत्वनिर्णयः। न हि विंध्यपरिच्छेद्ये हिमाद्ररपरोक्षता ॥ २१६ ॥ कर्तृत्वाद्भेदे पुंसः कर्तृत्वस्य परिच्छेदो न स्यात् विंध्यपरिच्छेदे हिमाद्रेरिवेति सर्वथात्मनः साक्षास्परिच्छेदाभावात्परोक्षतापत्तेः कथमपरोक्षत्वनिर्णयः । ततो नैकांतेनात्मनः कर्तृत्वादभेदो वाभ्युपगंतव्यः ॥ भेदाभेदात्मकत्वे तु कर्तृत्वस्य नरात्कथम् । न स्यात्तस्य परिच्छेद्ये नुः परिच्छेद्यता सतः ॥ २१७॥ कथंचिद्भेदः कथंचिदभेदः कर्तृत्वस्य नरादिति चायुक्तमंशतो नरस्य प्रत्यक्षत्वप्रसंगात् । न हि प्रत्यक्षात्कर्तृत्वाद्येनांशेन नरस्याभेदस्तेन प्रत्यक्षत्वं शक्यं निषेद्धं प्रत्यक्षादभिन्नस्याप्रत्यक्षत्वविरोधात् ॥ Page #54 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। प्रत्यक्षत्वं ततोंशेन सिद्धं निद्भुतये कथम् । श्रोत्रियैः सर्वथा चात्मपरोक्षत्वोक्तदूषणम् ॥ २१८॥ ननु चात्मनः कर्तृरूपता कथंचिदभिन्ना परिच्छिद्यते न तु प्रत्यक्षा कर्तृरूपता, कर्मतया प्रतीयमानत्वाभावात्तन्नात्मनोंशेनापि प्रत्यक्षत्वं सिद्ध्यति; यस्य निहवे प्रतीतिविरोध इति चेत् । कथमिदानी कर्तृता परिच्छिद्यते । तस्य कर्तृतयैवेति चेत् , तर्हि कर्तृता कर्ता न पुनरात्मा, तस्यास्ततो भेदात् । न ह्यन्यस्यां कर्तृतायां परिच्छिन्नायामन्यः कर्ता व्यवतिष्ठतेतिप्रसंगात्। नन्वात्मा धर्मी कर्ता कर्तृतास्य धर्मः कथं चित्तदात्मा, तत्रात्मा कर्ता प्रतीयत इति स एवार्थः सिद्धो धर्मिधर्माभिधायिनोः शब्दयोरेव भेदात्ततः कर्तृता खरूपेण प्रतिभाति न पुनरन्यया कर्तृतया, यतः सा की स्यात् । कर्ता चात्मा खरूपेण चकास्ति नापरास्य कर्तृता यस्याः प्रत्यक्षत्वे पुंसोपि प्रत्यक्षत्वप्रसंग इति चेत् । तात्मा तद्धर्मो वा प्रत्यक्षः । खरूपेण साक्षात्प्रतिभासमानत्वान्नीलादिवत् । नीलादिर्वा न प्रत्यक्षस्तत एवात्मवत् । नीलादिः प्रत्यक्षः साक्षात् क्रियमाणत्वादिति चेत् । तत एवात्मा प्रत्यक्षोस्तु । कर्मत्वेनाप्रतीयमानत्वान्न प्रत्यक्ष इति चेत् । व्याहतमेतत् । साक्षात्प्रतीयमानत्वं हि विषयीक्रियमाणत्वं, विषयत्वमेव च कर्मत्वं, तच्चात्मन्यस्ति । कथमन्यथा प्रतीयमानतास्य स्यात् । नात्मा प्रतीयते स्वयं किंतु प्रत्येति सर्वदा न ततो प्रतीयमानत्वात्तस्य कर्मत्वसिद्धिरसिद्धता साधनस्येति चेत् । सर्वथा प्रतीयमानत्वमसिद्धं कथंचिद्वा ? न तावत्सर्वथा, परेणापि प्रतीयमानत्वाभावप्रसंगात् । कथंचित्पक्षे तु नासिद्धं साधनं, तथैवोपन्यासात् । खतः प्रतीयमानत्वमसिद्धमिति चेत् । परतः कथं तत्सिद्धं ? विरोधाभावादिति चेत् । खतस्तत्सिद्धौ को विरोधः ? कर्तृत्वकर्मत्वयोः सहानवस्थानमिति चेत् , परतस्तत्सिद्धौ समानं । यदैव खयमर्थ प्रत्येति तदैव परेणानुमानादिनात्मा प्रतीयत इति प्रतीतिसिद्धत्वान्न सहानवस्थानविरोधः । खयं कर्तृत्वस्य परकर्मत्वेनेति चेत् तर्हि स्वयं कर्तृत्वकर्मत्वयोरप्यात्मानमहं जानामीत्यत्र सहप्रतीतिसिद्धत्वाद्विरोधो माभूत् । न चात्मनि कर्मप्रतीतिरुपचरिता, कर्तृत्वप्रतीतेरप्युपचरितत्वप्रसंगात् । शक्यं हि वक्तुं दहत्यग्निरिंधनमित्यत्र क्रियायाः कर्तृसमवायदर्शनात् , जानात्यात्मार्थमित्यत्रापि जानातीति क्रियायाः कर्तृसमवायोपचारः । परमार्थतस्तु तस्य कर्तृत्वे कर्म स एव वा स्यादन्यो वार्थः स्यात् ? स एव चेद्विरोधः । कथमन्यथैकरूपतात्मनः । नानारूपत्वात्तस्यादोष इति चेन्न, अनवस्थानात् । यदि पुनरन्योर्थः कर्म स्यात्तदा प्रतिभासमानोऽप्रतिभासमानो वा ? प्रतिभासमानश्चेत् कर्ता स्यात्ततोन्यत्कर्म वाच्यं, तस्यापि प्रतिभासमानत्वे कर्तृत्वादन्यत्कर्मेत्यनवस्थानान्न क्वचित्कर्मत्वव्यवस्था । यदि पुनरप्रतिभासमानोर्थः कर्मोच्यते तदा खरशृंगादेरपि कर्मत्वापत्तिरिति न किंचित्कर्म स्यादात्मवदर्थस्यापि प्रतिभासमानस्य कर्तृस्वसिद्धेः । यदि पुनरर्थः प्रतिभासजनकत्वादुपचारेण प्रतिभासत इति न वस्तुतः कर्ता तदात्मापि खप्रतिभासजनकत्वादुपचारेण कर्तास्तु विशेषाभावात् । खप्रतिभासं जनयन्नात्मा कथमकर्तेति चेदर्थः कथं ? जडत्वादिति चेत्तत एव खप्रतिभासं माजीजनत् । कारणांतराज्जाते प्रतिभासेर्थः प्रतिभासते न तु खयं प्रतिभासं जनयतीति चेत् , समानमात्मनि । सोपि हि वावरणविच्छेदाजाते प्रतिभासे विभासते म तन्निरपेक्षः खप्रतिभासं जनयतीति । तदेवमात्मनः कर्तृत्वकर्मत्वापलापवादिनौ नान्योन्यमतिशय्येते । ये तु प्रतीत्यनुसरणेनात्मनः खसंविदितात्मत्वमाहुस्ते करणज्ञानात्फलज्ञानाच्च भिन्नस्याभिन्नस्य वा भिन्नाभिन्नस्य वा? भिन्नस्य करणज्ञानात्फलज्ञानाच्च देहिनः। स्वयं संविदितात्मत्वं कथं वा प्रतिपेदिरे ॥ २१९ ॥ Page #55 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके ___ यद्धि सर्वथा सर्वसाद्वेदनाद्भिन्नं तन्न वसंविदितं यथा व्योम तथात्मतत्त्वं श्रोत्रियाणामिति कथं तत्तस्येति संप्रतिपन्नाः ॥ यदि हेतुफलज्ञानादभेदस्तस्य कीर्त्यते । परोक्षेतररूपत्वं तदा केन निषिध्यते ॥ २२०॥ परोक्षात् करणज्ञानादभिन्नस्य परोक्षता । प्रत्यक्षाच फलज्ञानात्प्रत्यक्षत्वं हि युज्यते ॥ २२१ ॥ परोक्षात् करणज्ञानात् फलज्ञानाच्च प्रत्यक्षादभिन्नस्यात्मनो न परोक्षता अहमिति कर्तृतया संवेदना. नापि प्रत्यक्षता कर्मतया प्रतिभासाभावादिति न मंतव्यं, दत्तोत्तरत्वात् ।। तथैवोभयरूपत्वे तस्यैतद्दोषदुष्टता। स्याद्वादाश्रयणं चास्तु कथंचिदविरोधतः ॥ २२२॥ सर्वथा भिन्नाभिन्नात्मकत्वे करणफलज्ञानादात्मनस्तदुभयपक्षोक्तदोषदुष्टता । कथंचिद्भिन्नात्मकत्वे स्याद्वादाश्रयणमेवास्तु विरोधाभावात् । खावरणक्षयोपशमलक्षणायाः शक्तेः करणज्ञानरूपायाः द्रव्यार्थाश्रयणादभिन्नस्यात्मनः परोक्षत्वं, खार्थव्यवसायात्मकाच फलज्ञानादभिन्नस्य प्रत्यक्षत्वमिति स्याद्वादाश्रयणे न किंचिद्विरोधमुत्पश्यामः । सर्वथैकांताश्रयणे विरोधात् । तस्मादात्मा स्यात्परोक्षः स्यात्प्रत्यक्षः । प्रभाकरस्याप्येवमविरोधः किं न स्यादिति चेत् न, करणफलज्ञानयोः परोक्षप्रत्यक्षयोरव्यवस्थानात् । तथाहि प्रत्यक्षेर्थपरिच्छेदे स्वार्थाकारावभासिनि । किमन्यत्करणज्ञानं निष्फलं कल्प्यतेऽमुना ॥ २२३ ॥ अर्थपरिच्छेदे पुंसि प्रत्यक्षे खार्थाकारव्यवसायिनि सति निष्फलं करणज्ञानमन्यच्च फलज्ञानं, तत्कृत्यस्यात्मनैव कृतत्वादिति तदकल्पनीयमेव । खार्थव्यवसायित्वमात्मनोसिद्धं व्यवसायात्मकत्वात्तस्येति चेत् न । खव्यवसायिन एवार्थव्यवसायित्वघटनात् । तथा ह्यात्मार्थव्यवसायसमर्थः सोर्थव्यवसाय्येवेत्यनेनापास्तं । खव्यवसायित्वमंतरेणार्थव्यवसितेरनुपपत्तेः कलशादिवत् । सत्यपि स्वार्थव्यवसायिन्यात्मनि प्रमातरि प्रमाणेन साधकतमेन ज्ञानेन भाव्यं । करणाभावे क्रियानुपपत्तेरिति चेत् न । इंद्रियमनसोरेव करणत्वात् । तयोरचेतनत्वादुपकरणमात्रत्वात् प्रधाने चेतनं करणमिति चेत् न । भावेंद्रियमनसोः परेषां चेतनतयावस्थितत्वात् । तदेव करणज्ञानमस्माकमिति चेत् , तत्परोक्षमिति सिद्धं साध्यते । लब्ध्युपयोगात्मकस्य भावकरणस्य छद्मस्थाप्रत्यक्षत्वात् । तजनितं तु ज्ञानं प्रमाणभूतं नाप्रत्यक्षं स्वार्थव्यवसायात्मकत्वात् , तच्च नात्मनोर्थातरमेवेति स एव खार्थव्यवसायी यदीष्टस्तदा व्यर्थ ततोपरं करणज्ञानं । फलज्ञानं च व्यर्थमनेनोक्तं तस्यापि ततोऽन्यस्यैवासंभवात् । अथवा प्रत्यक्षेर्थपरिच्छेदे फलज्ञाने खार्थाकारावभासिनि सति किमतोन्यत्करणं ज्ञानं पोप्यते निष्फलत्वात्तस्य । तदेव तस्य फलमिति चेत् , प्रमाणादभिन्न भिन्नं वा ? यद्यभिन्नं प्रमाणमेव तदिति कथं फलज्ञाने प्रत्यक्षे करणज्ञानमप्रत्यक्षं? भिन्नं चेन्न करणज्ञानं प्रमाणं खार्थव्यवसायादर्थातरत्वाद् घटादिवत् । कथंचिदभिन्नमिति चेन्न सर्वथा करणज्ञानस्याप्रत्यक्षत्वं विरोधात् । प्रत्यक्षात्फलज्ञानात् कथंचिदभिन्नत्वात् । कर्मत्वेनाप्रतिभासमानत्वात्करणज्ञानमप्रत्यक्षमिति चेन्न, करणत्वेन प्रतिभासमानस्य प्रत्यक्षत्वोपपत्तेः । कथंचित्प्रतिभासते च कर्म च न भवतीति व्याघातस्य प्रतिपादितत्वात् । कथं चायं फलज्ञानं कर्मत्वेनापि प्रतिभासमानमपि प्रत्यक्ष Page #56 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। ४७ मुपयन् करणज्ञानं तथा नोपैति न चेद्व्याकुलांतःकरणः। फलज्ञानं कर्मत्वेन प्रतिभासत एवेति चेत् न, फलत्वेन प्रतिभासनविरोधात् । ननु च प्रमाणस्य परिच्छित्तिः फलं सा चार्थस्य परिच्छिद्यमानता, तत्प्रतीतिः कर्मत्वप्रतीतिरेवेति चेत् । किं पुनरियं परिच्छित्तिरर्थधर्मः ? तथोपगमे प्रमाणफलत्वविरोधोर्थवत् । प्रमातृधर्मः सेति चेत् , कथं कर्मकर्तृत्वेन प्रतीतेः न कर्मकारकं नापि कर्तृकारकं परिच्छित्तिः। क्रियात्वात् क्रियायाः कारकत्वायोगात् क्रियाविशिष्टस्य द्रव्यस्यैव कारकत्वोपपत्तेरिति चेत् । तर्हि फलज्ञानस्य कर्मत्वेन प्रतीतिर्युक्ता क्रियात्वेनैव फलात्मना प्रतीतिरिति न प्रत्यक्षत्वसंभवः करणज्ञानवदात्मवद्वा ॥ तस्यापि च परोक्षत्वे प्रत्यक्षोर्थो न सिद्ध्यति । ततो ज्ञानावसायः स्यात् कुतोऽस्यासिद्धवेदनात् ॥ २२४ ॥ फलज्ञानमात्मा चापरोक्षोस्तु करणज्ञानवदित्ययुक्तमर्थस्य प्रत्यक्षतानुपपत्तेः । प्रत्यक्षां खपरिच्छित्तिमधितिष्ठन्नेव ह्यर्थः प्रत्यक्षो युक्तो नान्यथा, सर्वस्य सर्वदा सर्वथार्थस्य प्रत्यक्षत्वप्रसंगात् । तथात्मनः परोक्षत्वे संतानांतरस्येवार्थः प्रत्यक्षो न स्यादन्यथा सर्वात्मांतरप्रत्यक्षः सर्वस्यात्मनः प्रत्यक्षोसौ किं न भवेत् , सर्वथा विशेषाभावात् । ततश्चाप्रत्यक्षादर्थात् न कुतश्चित्परोक्षज्ञाननिश्चयोस्य वादिनः स्यात् येनेदं शोभेत ।-ज्ञाते त्वनुमानादवगच्छतीति । नाप्यसिद्धसंवेदनात्पुरुषात्तन्निश्चयो यतोनवस्था न भवेत् । तल्लिंगज्ञानस्यापि परोक्षत्वे अपरानुमानान्निर्णयात्तलिंगस्याप्यपरानुमानादिति । वसंवेद्यत्वादात्मनो नानवस्थेति चेत् न, तस्य ज्ञानासंवेदकत्वात् । तत्संवेदकत्वे वार्थसंवेदकत्वं तस्य किं न स्यात् ? खतोर्थातरं कथंचिद् ज्ञानमात्मा संवेदयते न पुनरर्थमिति किंकृतोयं नियमः ? संवेदयमानोपि ज्ञानमात्मा ज्ञानांतरेण संवेदयते खतो वा ? ज्ञानांतरेण चेत् , प्रत्यक्षेणेतरेण वा ? न तावत्प्रत्यक्षेण सर्वस्य सर्वज्ञानस्य परोक्षत्वोपगमात् । नापीतरेण ज्ञानेन संतानांतरज्ञानेनेव तेन ज्ञातुमशक्तेः । वयं ज्ञातेन चेत् ? ज्ञानांतरेण खतो वा ? ज्ञानांतरेण चेत् , प्रत्यक्षेणेतरेण वेत्यादि पुनरावर्तत इति चक्रकमेतत् । खतो ज्ञानमात्मा संवेदयते खरूपवदिति चेत् , तथैव ज्ञानमर्थ खं च खतः किं न वेदयते ? यतः परोक्षज्ञानवादो महामोहविजूंभित एव न स्यात् ॥ कथं चात्मा स्वसंवेद्यः संवित्ति!पगम्यते । येनोपयोगरूपोयं सर्वेषां नाविगानतः ॥ २२५ ॥ कुतः पुनरुपयोगात्मा नरः सिद्ध इति चेत् कथंचिदुपयोगात्मा पुमानध्यक्ष एव नः। प्रतिक्षणविवादिरूपेणास्य परोक्षता ॥ २२६ ॥ खाकारव्यवसायरूपेणार्थालोचनमात्ररूपेण च ज्ञानदर्शनोपयोगात्मकः पुमान् प्रत्यक्ष एव तथा खसंविदितत्वात् । प्रतिक्षणपरिणामेन खावरणक्षयोपशमविशिष्टत्वेनासंख्यातप्रदेशत्वादिना चानुमेयः प्रवचनसमधिगम्यश्चात्यंतपरोक्षरूपेणेति निर्णतव्यं बाधकाभावात् ॥ स्वरूपं चेतना पुंसः सदौदासीन्यवर्तिनः। प्रधानस्यैव विज्ञानं विवर्त इति चापरे ॥ २२७ ॥ तेषामध्यक्षतो बाधा ज्ञानस्यात्मनि वेदनात् । भ्रांतिश्चेन्नात्मनस्तेन शून्यस्यानवधारणात् ॥ २२८ ॥ Page #57 -------------------------------------------------------------------------- ________________ तत्वार्थश्लोकवार्तिके यथात्मनि चेतनस्य संवेदनं मयि चैतन्यं चेतनोहमिति वा तथा ज्ञानस्यापि मयि ज्ञानं ज्ञाताहमिति चा प्रत्यक्षतः सिद्धेर्यथोदासीनस्य पुंसश्चैतन्यं स्वरूपं तथा ज्ञानमपि तत्प्रधानस्यैव विवर्त ब्रुवाणस्य प्रत्यक्षबाधा । ज्ञानस्यात्मनि संवेदनं भ्रांतिरिति चेत् न । स्यात्तदैवं यदि ज्ञानशून्यस्यात्मनः कदाचित्संविदाभ्रांता स्यात् । सर्वदा ज्ञानसंसर्गादात्मनो ज्ञानित्वसंवित्तिरिति चेत्— औदासीन्यादयो धर्माः पुंसः संसर्गजा इति । युक्तं सांख्यपशोर्वक्तुं ध्यादिसंसर्गवादिनः ॥ २२९ ॥ ज्ञानसंसर्गतो ज्ञानी सुखसंसर्गतः सुखी पुमान्न तु खयमिति वदतः सांख्यस्य पशोरिवात्मानमप्यजानतो युक्तं वक्तुमौदासीन्यस्य संसर्गादुदासीनः पुरुषः चैतन्यसंसर्गाश्चेतनो भोक्तृत्वसंसर्गाद्भोक्ता शुद्धिसंसर्गाच्च शुद्ध इति, स्वयं तु ततो विपरीत इति विशेषाभावात् । न हि तस्यानवबोधखभावतादौ प्रमाणमस्ति ॥ सदात्मानवबोधादिस्वभावश्चेतनत्वतः । सुषुप्तावस्थवन्नायं हेतुर्व्याप्यात्मवादिनः ॥ २३० ॥ ४८ स्वरूपासिद्धी हि हेतुरयं व्यापिनमात्मानं वदतः कुतः - जीवो ह्यचेतनः काये जीवत्वाद्वाह्यदेशवत् । वक्तुमेवं समर्थोन्यः किं न स्याज्जडजीववाक् ॥ २३९ ॥ कायाद्वहिरचेतनत्वेन व्याप्तस्य जीवत्वस्य सिद्धेः कायेप्यचेतनत्वसिद्धिरिति नानवबोधादिखभावत्वे साध्ये चेतनत्वं साधनमसिद्धस्यासाधनत्वात् ॥ शरीराद्वहिरप्येष चेतनात्मा नरत्वतः । कायदेशवादित्येतत्प्रतीत्या विनिवार्यते ॥ २३२ ॥ काये चेतनत्वेन प्राप्तस्य नरत्वस्य दर्शनात्ततो बहिरप्यात्मनश्चेतनत्व सिद्धेर्नासिद्धसाधनमिति न मंतव्यं प्रतीतिबाधनात् ॥ तथाहि बाह्यदेशेपि पुंसः संवेदनं न किम् । कायदेशवदेव स्याद्विशेषस्याप्यसंभवात् ॥ २३३ ॥ यस्य हि निरतिशयः पुरुषस्तस्य कायेन्यत्र च न तस्य विशेषोस्ति यतः काये संवेदनं न ततो हरिति युज्यते ॥ कायाइहिरभिव्यक्तेरभावात्तदवेदने । पुंसो व्यक्तेतराकार भेदाद्भेदः कथं न ते ।। २३४ ॥ कायेभिव्यक्तत्वात् पुंसः संवेदनं न ततो बहिरनभिव्यक्तत्वादिति ब्रुवाणः कथं तस्यैकखभावतां साधयेत्, व्यक्तेतराकारभेदाद्भेदस्य सिद्धेः । यत्र व्यक्तसंसर्गस्तत्रात्मा संवेद्यते नान्यत्रेत्यप्यनेनापास्तं । निरंशस्य क्वचिदेव व्यक्तसंसर्गस्येतरस्य वा सकृदयोगात् । सकृदेकस्य परमाणोः परमाण्वंतरेण संसर्ग क्वचिदन्यत्र वासंसंगै प्रतिपद्यत इति चेत् न, तस्यापि कचिद्देशे सतो देशांतरे च तदसिद्धेः । गगनवत्स्यादिति चेत् न, तस्यानंतप्रदेशतया प्रसिद्धस्य तदुपपत्तेरन्यथात्मवदघटनात् । नन्वेकं द्रव्यमनंतपर्यायान् सकृदपि यथा व्याप्नोति तथात्मा व्यक्तविवर्तशरीरेण संसर्ग क्वचिदन्यत्र वाऽसंसर्ग प्रतिपद्यत इति चेन्न, वस्तुनो द्रव्यपर्यायात्मकस्य जात्यंतरत्वात्, व्याप्यव्यापकभावस्य नयवशात्तत्र निरूपणात् । नैवं नानैकखभावः पुरुषो जात्यंतरतयोपेयते निरतिशयात्मवादविरोधादिति । कायेभिव्यक्तौ ततो बहिर - Page #58 -------------------------------------------------------------------------- ________________ १९ प्रथमोऽध्यायः। भिव्यक्तिप्रसक्तेः सर्वत्र संवेदनमसंवेदनं नोचेत् नानात्वापत्तिर्दुःशक्या परिहर्तु । ततो नैतौ सर्वगतात्मवादिनौ चेतनत्वमचेतनत्वं वा साधयितुमात्मनः समर्थौ यतोसिद्धं साधनं न स्यात् । स्याद्वादिनः सांख्यस्य च प्रसिद्धमेव चेतनत्वं साधनमिति चेन्नानवबोधाद्यात्मकत्वेन प्रतिवादिनश्चेतनत्वस्येष्टेस्तस्य हेतुत्वे विरुद्धसिद्धेविरुद्धो हेतुः स्यात् । साध्यसाधनविकलश्च दृष्टांतः सुषुप्तावस्थस्याप्यात्मनश्चेतनत्व, मात्रेणानवबोधादिखभावत्वेन चाप्रसिद्धेः ।। कथम् सुषुप्तस्यापि विज्ञानस्वभावत्वं विभाव्यते । प्रवुद्धस्य सुखप्राप्तिस्मृत्यादेः स्वप्नदर्शिवत् ॥ २३५॥ खप्नदर्शिनो हि यथा सुप्तप्रबुद्धस्य सुखानुभवनादिस्मरणाद्विज्ञानस्वभावत्वं विभावयंति तथा सुषुप्तस्यापि सुखमतिसुषुप्तोहमिति प्रत्ययात् । कथमन्यथा सुषुप्तौ पुंसश्चेतनत्वमपि सिद्ध्येत् । प्राणादिदर्शनादिति चेत यथा चैतन्यसंसिद्धिः सुषुप्तावपि देहिनः। प्राणादिदर्शनात्तद्वद्वोधादिः किं न सिद्ध्यति ॥ २३६ ॥ जाग्रतः सति चैतन्ये यथा प्राणादिवृत्तयः। तथैव सति विज्ञाने दृष्टास्ता बाधवर्जिताः ॥ २३७ ॥ वीरणादौ चैतन्याभावे प्राणादिवृत्तीनामभावनिश्चयानिश्चितव्यतिरेकाभ्यस्ताभ्यः सुषुप्तौ चैतन्यसिद्धिरिति चेत् ॥ प्राणादयो निवर्तते यथा चैतन्यवर्जिते । वीरणादौ तथा ज्ञानशून्येपीति विनिश्चयः ॥ २३८ ॥ न हि चेतनत्वे साध्ये निश्चितव्यतिरेकाः प्राणादिवृत्तयो न पुनर्ज्ञानात्मकतायामिति शक्यं वक्तुं, तदभावेपि तासां वीरणादावभावनिर्णयात् । चैतन्याभावादेव तत्र ता न भवंति न तु विज्ञानाभावादिति कोशपानं विधेयं । सत्यं । विज्ञानाभावे ता न भवंति, सत्यपि चैतन्ये मुक्तस्य तदभावादित्यपरे । तेषां सुषुप्तौ विज्ञानाभावसाधनमयुक्तं, प्राणादिवृत्तीनां सद्भावात् । तथा च न सोदाहरणमिति कुतः साध्यसिद्धिः । सुखबुद्ध्यादयो नात्मस्वभावाः स्वयमचेतनत्वाद्र्पादिवदित्यनुमानादिति चेत् , कुतस्तेषामचेतनत्वसिद्धिः? सुखवुद्ध्यादयो धर्माश्चेतनारहिता इमे । भंगुरत्वादितो विद्युत्प्रदीपादिवदित्यसत् ॥ २३९॥ हेतोरात्मोपभोगेनानेकांतात्परमार्थतः। सोप्यनित्यो यतः सिद्धः कादाचित्कत्वयोगतः॥ २४०॥ पुरुषानुभवो हि नश्वरः कादाचित्कत्वाद्दीपादिवदिति परमार्थतस्तेन भंगुरत्वमनैकांतिकमचेतनत्वेसाध्ये । कादाचित्कः कुतः सिद्धः पुरुषोपभोगः खसद्भावादिति चेत् । कादाचित्कः परापेक्ष्यसद्भावाद्विभ्रमादिवत् । वुद्ध्यध्यवसितार्थस्य शब्दादेरुपलंभतः ॥ २४१ ॥ परापेक्ष्यः प्रसिद्धोयमात्मनोनुभवोंजसा । परानपेक्षितायां तु दृष्टेः सर्वदर्शिता ॥ २४२ ॥ Page #59 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके परापेक्षितया कादाचित्कत्वं व्याप्तं, तेन चानित्यत्वमिति तत्सिद्धौ तत्सिद्धिः । परापेक्षिता पुरुषानुभवस्य नासिद्धा, परस्य बुद्ध्यध्यवसायस्यापेक्षणीयत्वात् । बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत इति वचनात् । परानपेक्षितायां तु पुरुषदर्शनस्य सर्वदर्शितापत्तिः, सकलार्थ बुद्ध्यध्यवसायापायेपि सकलार्थदर्शनस्योपपत्तेरिति योगिन इवायोगिनोऽमुक्तस्य च सार्वज्ञमनिष्टमायातम् ॥ ५० सर्वस्य सर्वदा पुंसः सिद्ध्युपायस्तथा वृथा । ततो बोधयोरात्मखभावत्वं प्रसिद्ध्यतु ॥ २४३ ॥ कथंचिन्नश्वरत्वस्याविरोधान्नर्यपीक्षणात् । तथैवार्थक्रियासिद्धेरन्यथा वस्तुताक्षतेः ॥ २४४ ॥ सर्वस्य सर्वज्ञत्वे च वृथा सिद्ध्युपायः साध्याभावात् । सिद्धिर्हि सर्वज्ञता मुक्तिर्वा कुतश्चिदनुष्ठानात्साध्यते ? तत्र न तावत्सर्वज्ञता तस्याः खतः सिद्धत्वात् । नापि मुक्ति: सर्वज्ञतापाये तदुपगमात्तस्य चासंभवात् । परानपेक्षितायाः सर्वदर्शितायाः परानिवृत्तावपि प्रसक्तेः । स्यान्मतं । न बुद्ध्यध्यवसितार्थालोचनं पुंसो दर्शनं तस्यात्मखभावत्वेन व्यवस्थितत्वादिति । तदपि नावधानीयं, बोधस्याप्यात्मखभावत्वोपपत्तेः । न ह्यहंकाराभिमतार्थाध्यवसायो बुद्धिस्तस्याः पुंखभावत्वेन प्रतीतेर्बाधकाभावात् । इति दर्शनज्ञानयोरात्मस्वभावत्वमेव प्रसिद्ध्यतु विशेषाभावात् । ननु च नश्वरज्ञानस्वभावत्वे पुंसो नश्वरत्वप्रसंगो बाधक इति चेत् न, नश्वरत्वस्य नरेपि कथंचिद्विरोधाभावात्, पर्यायार्थतः परपरिणामाक्रांततावलोकनात्, अपरिणामिनः क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेर्वस्तुत्वहानिप्रसंगान्नित्यानित्यात्मकत्वेनैव कथंचिदर्थक्रियासिद्धिरित्यलं प्रपंचेन, आत्मनो ज्ञानदर्शनोपयोगात्मकस्य प्रसिद्धेः ॥ संसारव्याधिविध्वंसः कचिज्जीवे भविष्यति । तन्निदानपरिध्वंससिद्धेर्ज्वरविनाशवत् ॥ २४५ ॥ तत्परिध्वंसनेनातः श्रेयसा योक्ष्यमाणता । पुंसः स्याद्वादिनां सिद्धा नैकांते तद्विरोधतः ॥ २४६ ॥ सन्नप्यात्मोपयोगात्मा न श्रेयसा योक्ष्यमाणः कश्चित् सर्वदा रागादिसमाक्रांतमानसत्वादिति केचि - त्संप्रतिपन्नाः। तान् प्रति तत्साधनमुच्यते । श्रेयसा योक्ष्यमाणः कश्चित् संसारव्याधिविध्वंसित्वान्यथानुपपत्तेः । श्रेयोत्र सकलदुःखनिवृत्तिः । सकलदुःखस्य च कारणं संसारव्याधिः । तद्विध्वंसे कस्यचित्सिद्धं श्रेयसा योक्ष्यमाणत्वं, तल्लक्षणकारणानुपलब्धेः । न च संसारव्याधेः सकलदुःखकारणत्वमसिद्धं जीवस्य पारतंत्र्यनिमित्तत्वात् । पारतंत्र्यं हि दुःखमिति । एतेन सांसारिक सुखस्य दुःखत्वमुक्तं, स्वातंत्र्यस्यैव सुखत्वात् । शक्रादीनां खातंत्र्यं सुखमस्त्येवेति चेन्न तेषामपि कर्मपरतंत्रत्वात् । निराकांक्षतात्मकसंतोषरूपं तु सुखं न सांसारिकं, तस्य देशमुक्तिसुखत्वात् । देशतो मोहक्षयोपशमे हि देहिनो निराकांक्षता विषयरतौ नान्यथातिप्रसंगात् । तदेतेन यतिजनस्य प्रशमसुखमसांसारिकं व्याख्यातं । क्षीणमोहानां तु कार्यतः प्रशमसुखं मोहपरतंत्रत्वनिवृत्तेः । यदपि संसारिणामनुकूल वेदनीयप्रातीतिकं सुखमिति मतं, तदप्यभिमानमात्रं । पारतंत्र्याख्येन दुःखेनानुषक्तत्वात्तस्य तत्कारणत्वात् कार्यत्वाच्चेति न संसारव्याधिर्जातुचित्सुखकारणं येनास्य दुःखकारणत्वं न सिद्ध्येत् । तद्विध्वंसः कथमिति चेत्, कचिन्निदानपरिध्वंससिद्धेः । यत्र यस्य निदानपरिध्वंसस्तत्र तस्य परिध्वंसो दृष्टो यथा क्वचिज्वरस्य । निदानपरिध्वंसश्च संसारव्याधेः शुद्धात्मनीति कारणानुपलब्धिः । संसारव्याधेर्निदानं मिथ्यादर्शनादि, तस्य विध्वंसः सम्यग्दर्शनादिभावनाबलात् क्वचिदिति समर्थयिष्यमाणत्वान्न हेतोरसिद्धता शंकनीया । सरसि शंखकादि Page #60 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ५१ नानैकांतिकोयं हेतुः खनिदानस्य जलस्य परिध्वंसेपि तस्यापरिध्वंसादिति चेन्न । तस्य जलनिदानत्वासिद्धेः । खारंभकपुद्गलपरिणाम निदानत्वात् शंखकादेस्तत्सहकारिमात्रत्वाज्जलादीनां । न हि कारणमात्रं केनचित्कस्यचिन्निदानमिष्टं नियतस्यैव कारणस्य निदानत्वात् । न च तन्नाशे कस्यचिन्निदानिनो न नाश इत्यव्यभिचार्येव हेतुः कथंचन संसारव्याधिविध्वंसनं साधयेद्यतस्तत्परिध्वंसनेन श्रेयसा योक्ष्य• माणः कश्चिदुपयोगात्मकात्मा न स्यात् । निरन्वयविनश्वरं चित्तं श्रेयसा योक्ष्यमाणमिति न मंतव्यं, तस्य क्षणिकत्वविरोधात् । संसारनिदानरहिताच्चित्ताच्चित्तांतरस्य श्रेयः स्वभावस्योत्पद्यमानतैव श्रेयसा योक्ष्यमाणता, सा न क्षणिकत्वविरुद्धेति चेन्न, क्षणिकैकांते कुतश्चित्कस्यचिदुत्पत्त्ययोगात् । संतानः श्रेयसा योक्ष्यमाण इत्यप्यनेन प्रतिक्षिप्तं, संतानिव्यतिरेकेण संतानस्यानिष्टेः । पूर्वोत्तरक्षण एव हापरामृष्टभेदाः (?) संतानस्स चावस्तुभूतः कथं श्रेयसा योक्ष्यते ? प्रधानं श्रेयसा योक्ष्यमाणमित्यप्यसंभाव्यं, पुरुषपरिकल्पनविरोधात् । तदेव हि संसरति तदेव च विमुच्यत इति किमन्यत्पुरुष साध्यमस्ति ? प्रधानकृतस्यानुभवनं पुंसः प्रयोजनमिति चेत्, प्रधानस्यैव तदस्तु | कर्तृत्वात्तस्य तन्नेति चेत् । स्यादेवं यदि कर्तानुभविता न स्यात् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रसक्तिरिति चेत्, मुक्तः किमकर्तेष्टः ? विषयसुखादेरकर्तैवेति चेत्, कुतः स तथा तत्कारणकर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारण - कर्मविशेषस्य॒ कर्तृत्वाद्विषयसुखादेः कर्ता स एव चानुभविता किं न भवेत् ? संसार्यवस्थायामात्मा विषयसुखादितत्कारणकर्मणां न कर्ता चेतनत्वान्मुक्तावस्थावदित्येतदपि न सुंदरं, खेष्टविघातकारित्वात् । कथं । संसार्यवस्थायामात्मा न सुखादेर्भोक्ता चेतनत्वान्मुक्तावस्थावदिति खेष्टस्यात्मनो भो - स्वस्य विघातात् । प्रतीतिविरुद्धमिष्टविघातसाधनमिति चेत्, कर्तृत्वाभावसाधनमपि पुंसः श्रोता घ्राताह - मिति स्वकर्तृत्वप्रतीतेः । श्रोताहमित्यादिप्रतीतेरहंकारास्पदत्वादहंकारस्य च प्रधानविवर्तत्वात्प्रधानमेव कर्तृतया प्रतीयत इति चेत्, तत एवानुभवितृ प्रधानमस्तु । न हि तस्याहंकारास्पदत्वं न प्रतिभाति शब्दादेरनुभविताहमिति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रांतमनुभवितुरहंकार (स्पदत्वमिति चेत्, कर्तुः कथमभ्रांतं ? तस्याहंकारास्पदत्वादिति चेत्, तत एवानुभवितुस्तदभ्रांतमस्तु । तस्यौपाधिकत्वादहंकारास्पदत्वं भ्रांतमेवेति चेत्, कुतरतदौपाधिकत्वसिद्धिः ? पुरुषस्वभावत्वाभावादहंकारस्य तदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्वस्यौपाधिकमिति चेत्, स्यादेवं यदि पुरुषस्वभावोहंकारो न स्यात् । मुक्तस्याहंकारा - भावादपुरुषस्वभाव एवाहंकारः; खभावो हि न जातुचित्तद्वंतं त्यजति, तस्य निःखभावत्वप्रसंगादिति चेन्न । स्वभावस्य द्विविधत्वात्, सामान्य विशेषपर्यायभेदात् । तत्र सामान्यपर्यायः शाश्वतिकः खभावः, कादाचित्को विशेषपर्याय, इति न कादाचित्कत्वात्पुंस्यहंकारादेरतत्खभावता । ततो न तदास्पदत्वमनुभवितृत्वस्यैौपाधिकं, येनाभ्रांतं न भवेत् कर्तृत्ववत् । न चात्रांताहंकारास्पदत्वाविशेषेपि कर्तृत्वानुभवितृत्वयोः प्रधानात्मकत्वमयुक्तं, यतः पुरुषकल्पनमफलं न भवेत्, पुरुषात्मकत्वे वा तयोः प्रधानपरिकल्पनं । तथाविधस्य चासतः प्रधानस्य गगनकुसुमस्येव न श्रेयसा योक्ष्यमाणता । पुरुषस्य सास्तु इति चेन्न, तस्यापि निरतिशयस्य मुक्तावपि तत्प्रसंगात् । तथा च सर्वदा श्रेयसा योक्ष्यमाण एव स्यात्पुरुषो न चायुज्यमानः । पूर्वं योक्ष्यमाणः पश्चात्तेनायुज्यमान इति चायुक्तं, निरतिशयैकांतत्वविरोधात् । खतो भिन्नैरतिशयैः सातिशयस्य पुंसः श्रेयसा योक्षमाणता भवत्वितिचेन्न, अनवस्थानुषंगात् । पुरुषो हि स्वातिशयैः संबध्यमानो यदि नानाखभावैः संबध्यते, तदा तैरपि संबध्यमानः परैर्नानाखभावैरित्यनवस्था । स तैरेकेन स्वभावेन संबध्यते इति चेत् न, अतिशयानामेकत्वप्रसंगात् । कथमन्यथैकखभावेन क्रियमाणानां नानाकार्याणामेकत्वापत्तेः पुरुषस्य नानाकार्यकारिणो नानातिशयकल्पना युक्तिमधितिष्ठेत् । खातिशयैरात्मा न Page #61 -------------------------------------------------------------------------- ________________ ५२ तत्त्वार्थश्लोकवार्तिके संबध्यत एवेति चासंबंधे तैस्तस्य व्यपदेशाभावानुषंगात् । खातिशयैः कथंचित्तादात्म्योपगमे तु स्याद्वाद - सिद्धिः । इत्यनेकांतात्मकस्यैवात्मनः श्रेयोयोक्ष्यमाणत्वं न पुनरेकांतात्मनः, सर्वथा विरोधात् ॥ कालादिलब्ध्युपेतस्य तस्य श्रेयः पथे बृहत् । पापापायाच्च जिज्ञासा संप्रवर्तेत रोगिवत् ॥ २४७ ॥ श्रेयोमार्गजिज्ञासोपयोगखभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य कस्यचित्कालादिलब्धौ सत्यां बृहत्पापापायात् संप्रवर्तते श्रेयोमार्गजिज्ञासात्वात् रोगिणो रोगविनिवृत्तिजश्रेयोमार्गजिज्ञासावत् । न साध्यविकलमुदाहरणं रोगिणः स्वयमुपयोगस्वभावस्य रोगविनिवृत्तिजश्रेयसायोक्ष्यमाणस्य कालादिलब्धौ सत्यां बृहत्पापापायात् संप्रवर्तमानायाः श्रेयोजिज्ञासायाः सुप्रसिद्धत्वात् । तत्तत एव न साधनविकलं श्रेयोमार्गजिज्ञासात्वस्य तत्र भावात् । निरन्वयक्षणिकचित्तस्य संतानस्य प्रधानस्य वाऽनात्मनः श्रेयोमार्गजिज्ञासेति न मंतव्यमात्मन इति वचनात्तस्य च साधितत्वात् । जडस्य चैतन्यमात्रखरूपस्य चात्मनः सेत्यपि न शंकनीयमुपयोगखभावस्येति प्रतिपादनात् । तथास्य समर्थनात् । निःश्रेयसेनासंपित्स्यमानस्य तस्य सेति च न चिंतनीयं, श्रेयसा योक्ष्यमाणस्येति निगदितत्वात् । तस्य तथा व्यवस्थापितत्वात् । कालदेशादिनियममंतरेणैव सेत्यपि च न मनसि निधेयं, कालादिलब्धौ सत्यामित्यभिधानात्तथा प्रतीतेश्च । बृहत्पापापायमंतरेणैव सा संप्रवर्तत इत्यपि माभिमंस्त, बृहत्पापापायात्तत्संप्रवर्तनस्य प्रमाणसिद्धत्वात् । न हि क्वचित्संशयमात्रात् क्वचिज्जिज्ञासा, तत्प्रतिबंधकपापाक्रांतमनसः संशयमात्रेणावस्थानात् । सति प्रयोजने जिज्ञासा तत्रेत्यपि न सम्यक्, प्रयोजनानंतरमेव कस्यचिद्व्यासंगतस्तदनुपपत्तेः । 'दुःखत्रयाभिघाताज्जिज्ञासा तदपघात के तौ' इति केचित् । तेपि न न्यायवादिनः । सर्वसंसारिणां तत्प्रसंगात्, दुःखत्रयाभिघातस्य भावात् । आनायादेव श्रेयोमार्गजिज्ञासेत्यन्ये । तेषामथातो धर्मजिज्ञासेति सूत्रेथशब्दस्यानंतर्यार्थे वृत्तेरथेदमधीत्याम्न्नायादित्याम्नायादधीतवेदस्य वेदवाक्यार्थेषु जिज्ञासाविधिरवगम्यत इति व्याख्यानं । तदयुक्तं । सत्यप्याम्नाय - श्रवणे तदर्थावधारणेऽभ्यासे च कस्यचिद्धर्मजिज्ञासानुपपत्तेः । कालांतरापेक्षायां तदुत्पत्तौ सिद्धं कालादिलब्धौ तत्प्रतिबंधकपापापायाच्च श्रेयः पथे जिज्ञासायाः प्रवर्तनं । संशयप्रयोजनदुःखत्रयाभिघातान्नायश्रवणेषु सत्खपि कस्यचित्तदभावादसत्स्वपि भावात् । कदाचित्संशयादिभ्यस्तदुत्पत्तिदर्शनात्तेषां तत्कारणत्वे लोभाभिमानादिभ्योपि तत्प्रादुर्भावावलोकनात्तेषामपि तत्कारणत्वमस्तु । नियतकारणत्वं तु तज्जनने बृहत्पापापायस्यैवांतरंगस्य, कारणत्वं बहिरंगस्य तु कालादेरिति युक्तं, तदभावे तज्जननानीक्षणात् । कालादि न नियतं कारणं बहिरंगत्वात् संशयलोभादिवदिति चेन्न, तस्यावश्यमपेक्षणीयत्वात् । कार्योंतरसाधारणत्वात्तु बहिरंगं तदिष्यते, ततो न हेतोः साध्याभावेपि सद्भावः संदिग्धो निश्चितो वा, यतः संदिग्धव्यतिरेकता निश्चितव्यभिचारिता वा भवेत् । ननु च स्वप्रतिबंधकाधर्मप्रक्षयात्कालादिसहायादस्तु श्रेयः पथे जिज्ञासा, तद्वानेव तु प्रतिपाद्यते इत्यसिद्धं । संशयप्रयोजन जिज्ञासाशक्यप्राप्तिसंशयव्युदासतद्वचनवतः प्रतिपाद्यत्वात् । तत्र संशयितः प्रतिपाद्यस्तत्त्वपर्यवसायिना प्रश्नविशेषेणाचार्य प्रत्युपसर्पकत्वात्, नान्युत्पन्नो विपर्यस्तो वा तद्विपरीतत्वाद्वालकवद्दस्युवद्वा । तथा संशयवचनवान् प्रतिपाद्यः खसंशयं वचनेनाप्रकाशयतः संशयितस्यापि ज्ञातुमशक्तेः । परिज्ञातसंशयोपि वचनात् प्रयोजनवान् प्रतिपाद्यो न स्वसंशयप्रकाशनमात्रेण विनिवृत्ताकांक्षः । प्रयोजनवचनवांश्च प्रतिपाद्यः, खप्रयोजनं वचनेनाप्रकाशयतः प्रयोजनवतोपि निश्चेतुमशक्यत्वात् । तथा जिज्ञासावान् प्रतिपाद्यः प्रयोजनवतो निश्चितस्यापि ज्ञातुमनिच्छतः प्रतिपादयितुमशक्यत्वात् । तद्वानपि तद्वचनवान् प्रतिपाद्यते खां जिज्ञासां वचनेनानिवेदयतस्तद्वत्तया निर्णेतुमशक्तेः । तथा जिज्ञासुर्निश्चितोपि शक्यप्राप्तिमानेव प्रतिपादनायोग्यस्तत्त्वमुपदिष्टं प्राप्तुमशक्नुवतः Page #62 -------------------------------------------------------------------------- ________________ ● प्रथमोऽध्यायः । प्रतिपादने वैयर्थ्यात् । खां शक्यप्राप्तिं वचनेनाकथयतस्तद्वत्तेन प्रत्येतुमशक्तेः शक्यप्राप्तिवचनवानेव प्रतिपाद्यः । तथा संशयव्युदासवान् प्रतिपाद्यः सकृत्संशयितोभयपक्षस्य प्रतिपादयितुमशक्तेः । संशयव्युदासवानपि तद्वचनवान् प्रतिपाद्यते, किमयमनित्यः शब्दः किं वा नित्य इत्युभयोः पक्षयोरन्यत्र संशयव्युदासस्यानित्यः शब्दस्तावत्प्रतिपाद्यतामिति वचनमंतरेणावबोद्धुमशक्यत्वादिति केचित् । तान् प्रतीदमभिधीयते । तद्वानेव यथोक्तात्मा प्रतिपाद्यो महात्मनाम् । इति युक्तं मुनींद्राणामादिसूत्रप्रवर्तनम् ॥ २४८ ॥ यः परतः प्रतिपद्यमानश्रेयोमार्गः स श्रेयोमार्गप्रतिपित्सावानेव, यथातुरः सद्वैद्यादिभ्यः प्रतिपद्यमानव्याधिविनिवृत्तिजश्रेयोमार्गः । परतः प्रतिपद्यमानश्रेयोमार्गश्च विवादापन्नः कश्चिदुपयोगात्मकात्मा भव्य इति । अत्र न धर्मिण्यसिद्धसत्ताको हेतुरात्मनः श्रेयसा योक्ष्यमाणस्योपयोगस्वभावस्य च विशिष्टस्य प्रमाणसिद्धस्य धर्मित्वात्तत्र हेतोः सद्भावात् । तद्विपरीते त्वात्मनि धर्मिणि तस्य प्रमाणवाधितत्वादसिद्धिरेव । न हि निरन्वयक्षणिकचित्तसंतानः, प्रधानम्, अचेतनात्मा, चैतन्यमात्रात्मा वा परतः प्रतिपद्यमानश्रेयोमार्गः सिद्ध्यति ; तस्य सर्वथार्थक्रियारहितत्वेनावस्तुत्वसाधनात् । नापि श्रेयसा शश्वदयोक्ष्यमाणस्तस्य गुरुतरमोहाक्रांतस्यानुपपत्तेः । खतः प्रतिपद्यमानश्रेयोमार्गेण योगिना व्यभिचारी हेतुरिति चेत् न, परतो ग्रहणात् । परतः प्रतिपद्यमान प्रत्यवायमार्गेणानैकांतिक इति चायुक्तं, तत्र हेतुधर्मस्याभावात् । तत एव न विरुद्धो हेतुः श्रेयोमार्गप्रति पित्सावत्तमंतरेण कचिदप्यसंभवात् । इति प्रमाणसिद्धमेतत्तद्वानेव यथोक्तात्मा प्रतिपाद्येो महात्मनां, नातद्वान्नायथोक्तात्मा वा तत्प्रतिपादने सतामप्रेक्षावत्त्वप्रसंगात् । परमकरुणया कांश्चन श्रेयोमार्ग प्रतिपादयतां तत्प्रतिपित्सारहितानामपि नाप्रेक्षावत्त्वमिति चेन्न, तेषां प्रतिपादयितुमशक्यानां प्रतिपादने प्रयासस्य विफलत्वात् । तत्प्रतिपित्सामुत्पाद्य तेषां तैः प्रतिपादनात् सफलस्तत्प्रयास इति चेत्, तर्हि तत्प्रतिपित्सावानेव तेषामपि प्रतिपाद्यः सिद्धः । तद्वचनवानेवेति तु न नियमः सकलविदां प्रत्यक्षत एवैतत्प्रतिपित्सायाः प्रत्येतुं शक्यत्वात् । परैरनुमानाद्वास्य विकारादिलिंग जादाप्तोपदेशाद्वा तथा प्रतीतेः । संशयतद्वचनवांस्तु साक्षान्न प्रतिपाद्यस्तत्त्वप्रतिपित्सारहितस्य तस्याचार्य प्रत्युपसर्पणाभावात् । परंपरया तु विपर्ययतद्वचनवानव्युत्पत्तितद्वचनवान् वा प्रतिपाद्योस्तु विशेषाभावात् । यथैव हि संशयतद्वचनानंतरं स्वप्रतिबंधकाभावात्तत्त्वजिज्ञासायां कस्यचित्प्रतिपाद्यता तथा विपर्ययाव्युत्पत्तितद्वचनानंतरमपि । विपर्यस्ताव्युत्पन्नमनसां कुतश्चिददृष्टविशेषात्संशये जाते तत्त्वजिज्ञासा भवतीति चायुक्तं, नियमाभावात् । न हि तेषामदृष्टविशेषात्संशयो भवति न पुनस्तत्त्वजिज्ञासेति नियामकमस्ति । तत्त्वप्रतिपत्तेः संशयव्यवच्छेदरूपत्वात् संशयितः प्रतिपाद्यत इति चेत्, तर्ह्यव्युत्पन्नो विपर्यस्तो वा प्रतिपाद्यः संशयितवत् । तत्त्वप्रतिपत्तेरव्युत्पत्तिविपर्यासव्यवच्छेदरूपत्वस्य सिद्धेः संशयव्यवच्छेदरूपत्ववत् । संशयविपर्ययाव्युत्पत्तीनामन्यतमाव्यवच्छेदे तत्त्वप्रतिपत्तेयथार्थतानुपपत्तेः । यथा वाऽविद्यमानसंशयस्य प्रतिपाद्यस्य संशयव्यवच्छेदार्थे तत्त्वप्रतिपादनमफलं तथैवाविद्यमानाव्युत्पत्तिविपर्ययस्य तद्व्यवच्छेदार्थमपि । यथा भविष्यत्संशयव्यवच्छेदार्थ तथा भविष्यदव्युत्पत्तिविपर्ययव्यवच्छेदार्थमपि । इति तत्त्वप्रतिपित्सायां सत्यां त्रिविधः प्रतिपाद्यः, संशयितो विपर्यस्तबुद्धिरव्यु - त्पन्नश्च । प्रयोजनशक्यप्राप्तिसंशयव्युदासतद्वचनवान् प्रतिपाद्य इत्यप्यनेनापास्तं । तत्प्रतिपित्साविरहे तस्य प्रतिपाद्यत्वविरोधात् । सत्यां तु प्रतिपित्सायां प्रयोजनाद्यभावोपि यथायोग्यं प्रतिपाद्यत्वप्रसिद्धेस्तद्वानेव 1 ५३ Page #63 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके प्रतिपाद्यते । इति युक्तं परापरगुरूणामर्थतो ग्रंथतो वा शास्त्रे प्रथमसूत्रप्रवर्तनं, तद्विषयस्य श्रेयोमार्गस्य परापरप्रतिपाद्यैः प्रतिपित्सितत्वात् ॥ ननु निर्वाणजिज्ञासा युक्ता पूर्वं तदर्थिनः । परिज्ञातेभ्युपेयेर्थे तन्मार्गों ज्ञातुमिष्यते ॥ २४९ ॥ यो येनार्थी स तत्प्रतिपित्सावान् दृष्टो लोके, मोक्षार्थी च कश्चिद्भव्यस्तस्मान्मोक्षप्रतिपित्सावानेव युक्तो न पुनर्मोक्षमार्गप्रतिपित्सावान् , अप्रतिज्ञाते मोक्षे तन्मार्गस्य प्रतिपित्सायोग्यतोपपत्तेरिति मोक्षसूत्रप्रवर्तनं युक्तं तद्विषयस्य बुभुत्सितत्वान्न पुनरादावेव तागसूत्रप्रर्वतनमित्ययं मन्यते ।। तन्न प्रायः परिक्षीणकल्मषस्यास्य धीमतः। स्वात्मोपलब्धिरूपेस्मिन् मोक्षे संप्रतिपत्तितः ॥ २५० ॥ न हि यत्र यस्य संप्रतिपत्तिस्तत्र तस्य प्रतिपित्सानवस्थानुषंगात् । संप्रतिपत्तिश्च मोक्षे खात्मोपलब्धिरूपे प्रकृतस्य प्रतिपाद्यस्य प्रायशः परिक्षीणकल्मषत्वात् , सातिशयप्रज्ञत्वाच्च । ततो न तदर्थिनोपि तत्र प्रतिपित्सा तदर्थित्वमात्रस्य तत्प्रतिपित्सया व्यायसिद्धेः । सति विवादेर्थित्वस्य प्रतिपित्साया व्यापकत्वमिति चेन्न, तस्यासिद्धत्वात् । नहि मोक्षेधिकृतस्य प्रतिपत्तुर्विवादोस्ति । नानाप्रतिवादिकल्पनाभेदा. दस्त्येवेति चेत् प्रवादिकल्पनाभेदाद्विवादो योपि संभवी । स पुंरूपे तदाधारपदार्थे वा न निवृतौ ॥ २५१ ॥ खरूपोपलब्धिनिर्वृतिरिति सामान्यतो निवृतौ सर्वप्रवादिनां विवादोऽसिद्ध एव । यस्य तु स्वरूपस्योपलब्धिस्तत्र विशेषतो विवादस्तदावरणे वा कर्मणि कल्पनाभेदात् । तथाहि । प्रभास्वरमिदं प्रकृत्या चित्तं निरन्वयक्षणिकं, अविद्यातृष्णे तत्प्रतिबंधके, तदभावान्निरास्रवचित्तोत्पत्तिर्मुक्तिरिति केषांचित्कल्पना । सर्वथा निःखभावमेवेदं चित्तं, तस्य धर्मिधर्मपरिकल्पना प्रतिबंधिका, तदपक्षयात्सकलनैरात्म्यं प्रदीपनिर्वाणवत्स्वांतनिर्वाणमित्यन्येषां । सकलागमरहितं परमात्मनो रूपमद्वयं, तत्प्रतिबंधिकानाद्यविद्या, तद्विलयात्प्रतिभासमात्रस्थितिर्मुक्तिरिति परेषां । चैतन्यं पुरुषस्य खं रूपं, तत्प्रतिपक्षः प्रकृतिसंसर्गस्तदपायात् स्वरूपेवस्थानं निःश्रेयसमित्यपरेषां । सर्वविशेषगुणरहितमचेतनमात्मनः स्वरूपं, तद्विपरीतो बुद्ध्यादिविशेषगुणसंबंधस्तत्प्रतिबंधकस्तत्प्रक्षयादाकाशवदचेतनावस्थितिः परा मुक्तिरितीतरेषां । परमानंदात्मकमात्मनो रूपं, बुद्ध्यादिसंबंधस्तत्प्रतिघाती, तदभावादानंदात्मकतया स्थितिः परा निर्वृतिरिति च मीमांसकानां । नैवं निर्वृतिसामान्ये कल्पनाभेदो यतस्तत्र विवादः स्यात् । मोक्षमार्गसामान्येपि न प्रवादिनां विवादः, कल्पनाभेदाभावात्। सम्यग्ज्ञानमात्रात्मकत्वादावेव तद्विशेषे विप्रतिपत्तेः । ततो मोक्षमार्गेऽस्य सामान्ये प्रतिपित्सा विनेयविशेषस्य भा भूत् इति चेत् । सत्यमेतत् । निर्वाणमार्गविशेष प्रतिपित्सोत्पत्तेः । कथमन्यथा तद्विशेषप्रतिपादनं सूत्रकारस्य प्रयुक्तं स्यात् । मोक्षमार्गसामान्ये हि विप्रतिपन्नस्य तन्मात्रप्रतिपित्सायाम स्ति मोक्षमार्ग' इति वक्तुं युज्येत, विनेयप्रतिपित्सानुरूपत्वात् सूत्रकारप्रतिवचनस्य । तर्हि मोक्षविशेषे विप्रतिपत्तेस्तमेव कस्मान्नापाक्षीत् इति चेत् । किमेवं प्रतिपित्सेत विनेयः सर्वत्रेहक्कार्यस्य संभवात् । तत्प्रश्नेपि हि शक्येत चोदयितुं किमर्थ मोक्षविशेषमप्राक्षीन्न पुनस्तन्मार्गविशेष, विप्रतिपत्तेरविशेषादिति । ततः कस्यचित्कचित् प्रतिपित्सामिच्छता मोक्षमार्गविशेषप्रतिपित्सा न प्रतिक्षेप्तव्या । ननु च सति धर्मिणि धर्मचिंता प्रवर्तते नासति । न च मोक्षः सर्वथास्ति येन तस्य विशिष्टत्वकारणं जिज्ञास्यत, इति न साधीयः । यस्मात् Page #64 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । येपि सर्वात्मना मुक्तेरपह्नवकृतो जनाः । तेषां नात्राधिकारोस्ति श्रेयोमार्गावबोधने ॥ २५२ ॥ कोहि सर्वात्मना मुक्तेरपह्नवकारिणो जनान्मुक्तिमार्गे प्रतिपादयेत्तेषां तत्रानधिकारात् । को वा प्रमाणसिद्धं निःश्रेयसमपह्नुवीत, अन्यत्र प्रलापमात्राभिधायिनो नास्तिकात् । कुतस्तर्हि प्रमाणात्तन्निश्चीयत इति चेत् — ५५ परोक्षमपि निर्वाणमागमात्संप्रतीयते । निर्बाधाद्भाविसूर्यादिग्रहणाकारभेदवत् ॥ २५३ ॥ परोक्षोपि हि मोक्षोऽस्मादृशामागमात्तज्ज्ञैः संप्रतीयते । यथा सांवत्सरैः सूर्यादिग्रहणाकार विशेषस्तस्य निर्बाधत्वात् । न हि देशकालनरांतरापेक्षयापि बाधातो निर्गतोयमागमो न भवति, प्रत्यक्षादेर्बाधकस्य विचार्यमाणस्यासंभवात् । नापि निर्बाधस्याप्रमाणत्वमास्थातुं युक्तं, प्रत्यक्षादेरप्यप्रमाणत्वानुषक्तेः । सूर्यादिग्रहणस्यानुमानात्प्रतीयमानत्वाद्विषमोयमुपन्यास इति चेत् न । तदाकारविशेषलिंगाभावादनुमानानवतारात् । न हि प्रतिनियतदिग्वेला प्रमाणफलतया सूर्या चंद्रमसोर्ग्रहणेन व्याप्तं किंचिदवगंतुं शक्यं । विशिष्टांकमाला लिंगमिति चेत् । सा न तावत्तत्खभावस्तद्वदप्रत्यक्षत्वप्रसंगात् । नापि तत्कार्यं ततः प्राक् पश्चाच्च भावात् । सूर्यादिग्रहणाकारभेदो भाविकारणं विशिष्टांकमालाया इति चेन्न । भाविनः कारणत्वायोगात् । भावितमवत् कार्यकाले सर्वथाप्यसत्त्वादतीतमवत् तदन्वयव्यतिरेकानुविधानात्तस्यास्तत्कारणत्वमिति चेन्न । तस्यासिद्धेः । न हि सूर्यादिग्रहणाकारभेदे भाविनि विशिष्टांकमालोत्पद्यते न पुनरभाविनीति नियमोस्ति, तत्काले ततः पश्चाच्च तदुत्पत्तिप्रतीतेः । कस्याश्चिदंकमालायाः स भाविकारणं कस्याश्चिदतीतकारणमपरस्याः खसमानकालवर्तिन्याः कारणकार्यमेकसामग्र्यधीनत्वादिति चेत्, किमिंद्रजालमभ्यस्तमनेन सूर्यादिग्रहणाकारभेदेन यतोऽयमतीतानागतवर्तमानाखिलांकमालाः स्वयं निर्वर्तयेत् । कथं वा क्रमाक्रमभाव्यनंतकार्याणि नित्यैकस्वभावो भावः खयं न कुर्यात्, ततो विशेषाभावात् । भवन् वा स तस्याः कारणं, उपादानं सहकारि वा ? न तावदुपादानं खटिकादिकृतायास्तदुपादानत्वात् । नापि सहकारिकारणमुपादानसमकालत्वाभावात् । यथोपादानभिन्नदेशं सहकारिकारणं तथोपादानभिन्नकालमपि दृष्टत्वादिति चेत् । किमेवं कस्य सहकारि न स्यात् । पितामहादेरपि हि जनकत्वमनिवार्य विरोधाभावात् । ततो नांकमाला सूर्यादिग्रहणाकारभेदे साध्यं लिंगं स्वभावकार्यत्वाभावात् । तदखभावकार्यत्वेपि तदविनाभावात्स तत्र लिंगमित्यपरे । तेषामपि कुतो व्याप्तेर्ग्रहः ? न तावत्प्रत्यक्षतो, भाविनोतीतस्य वा सूर्यादिग्रहणाकारभेदस्यास्मदाद्यप्रत्यक्षत्वात् । नाप्यनुमानादनवस्थानुषंगात् । यदि पुनरागमात्तव्याप्तिग्रहस्तदा युक्तयनुगृहीतात्तदननुगृहीताद्वा ? न तावदाद्यः पक्षस्तत्र युक्तेरप्रवृत्तेस्तदसंभवात् । द्वितीयपक्षे स्वतः सिद्धप्रामाण्यात् परतो वा ? न तावत्खतः स्वयमन - भ्यस्तविषयेऽत्यंतपरोक्षे स्वतः प्रामाण्यासिद्धेरन्यथा तदप्रामाण्यस्यापि स्वतः सिद्धिप्रसंगात् । परतः सिद्धप्रामाण्यादागमात्तव्याप्तिग्रह इति चेत् । किं तत्परं प्रवृत्तिसामर्थ्यं बाधकाभावो वा ? प्रवृत्तिसामर्थ्यं चेत्, फलेनाभिसंबंधः सजातीयज्ञानोत्पादो वा ? प्रथमकल्पनायां किं तद्याप्तिफलं ? सूर्यादिग्रहणानुमानमिति चेत्, सोऽयमन्योन्यसंश्रयः । प्रसिद्धे हि आगमस्य प्रामाण्ये ततो व्याप्तिग्रहादनुमाने प्रवृत्तिस्तत्सिद्धौ चानुमानफलेनाभिसंबंधादागमस्य प्रामाण्यमिति । सजातीयज्ञानोत्पादः प्रवृत्तिसामर्थ्यमिति चेत्, तत्सजातीयज्ञानं न तावत्प्रत्यक्षतोनुमानतो वा, अनवस्थानुषंगात्, तदनुमानस्यापि व्याप्तिग्रहणपूर्वकत्वात् । तयाप्तेरपि तदागमादेव ग्रहणसंभवात्तदागमस्यापि सजातीयज्ञानोत्पादादेव प्रमाणत्वांगीकरणात् । Page #65 -------------------------------------------------------------------------- ________________ ५६ तत्त्वार्थश्लोकवार्तिके बाधकाभावः पर इति चेत् , तर्हि खतोभ्याससामर्थ्य सिद्धाद्वाधकाभावात्प्रसिद्धप्रामाण्यादागमादकमालायाः सूर्यादिग्रहणाकारभेदेन व्याप्तिः परिगृह्यते न पुनः सूर्यादिग्रहणाकारभेद एव, इति मुग्धभाषितम् । ततो न विषमोऽयमुपन्यासो दृष्टांतदाष्टींतिकयोरागमात्संप्रत्ययप्रसिद्धेः । सामान्यतोदृष्टानुमानाच निर्वाणं प्रतीयते । तथाहि शारीरमानसासातप्रवृत्तिर्विनिवर्तते । कचित्तत्कारणाभावाद् घटीयंत्रप्रवृत्तिवत् ॥ २५४ ॥ यथा घटीयंत्रस्य प्रवृत्तिभ्रमणलक्षणा खकारणस्यारगर्तभ्रमणस्य विनिवृत्तेनिवर्तते तथा क्वचिज्जीवे शारीरमानसासातप्रवृत्तिरपि चतुर्गत्यरगर्तभ्रमणस्य । तत्तत्कारणं कुत इति चेत् , तद्भाव एव भावाच्छारीरमानसासातभ्रमणस्य । न हि तच्चतुर्गत्यरगर्तभ्रमणाभावे संभवति । मनुष्यस्य मनुष्यगतिवाल्यादिविवर्तपरावर्तने सत्येव तस्योपलंभात् । तद्वत्तिर्यक्सुरनारकाणामपि । यथा खतिर्यग्गत्यादिषु नानापरिणामप्रवर्तने सति तत्तत्संवेदनं इति न तस्य तदकारणत्वं । तन्निवृत्तिः कुत इति चेत्, खकारणस्य कर्मोदयभ्रमणस्य निवृत्तेः । बलीवर्दभ्रमणस्य निवृत्तौ तत्कार्यारगर्तभ्रमणनिवृत्तिवत् । न च चतुर्गत्यरगर्तभ्रमणं कर्मोदयभ्रमणनिमित्तमित्यसिद्धं दृष्टकारणव्यभिचारे सति तस्य कदाचिद्भावात् । तस्य कारणत्वे दृष्टकारणत्वे वा तदयोगात् । तन्निवृत्तिः पुनस्तत्कारणमिथ्यादर्शनादीनां सम्यग्दर्शनादिप्रतिपक्षभावनासात्मीभावात् कस्यचिदुत्पद्यत इति समर्थयिष्यमाणत्वात् तत्सिद्धिः । प्रकृतहेतोः कुंभकारचक्रादिभ्रांत्यानैकांतः, खकारणस्य कुंभकारस्य व्यापारस्य निवृत्तावपि तदनिवृत्तिदर्शनात् । इति चेत् - न कुंभकारचक्रादिभ्रांत्यानैकांतसंभवः । तत्कारणस्य वेगस्य भावे तस्याः समुद्भवात् ॥ २५५ ॥ न हि सर्वा चक्रादिभ्रांतिः कुंभकारकरव्यापारकारणिका, प्रथमाया एव तस्यास्तथाभावात् , उत्तरोत्तरभ्रांतेः पूर्वपूर्वभ्रांत्याहितवेगकृतत्वावलोकनात् । न चोत्तरा तक्रांतिः खकारणस्य वेगस्य भावे समुद्भवति, तद्भाव एव तस्याः समुद्भवदर्शनात् । ततो न तया हेतोर्व्यभिचारः । पावकापायेपि धूमेन गोपालघटिकादिषूपलभ्यमानेनानैकांत इत्यप्यनेनापास्तं । शारीरमानसासातप्रवृत्तेः परापरोत्पत्तेरुपायप्रतिषेध्यत्वात् , संचितायास्तु फलोपभोगतः प्रक्षयात् । न चापूर्वधूमादिप्रवृत्तिः खकारणपावकादेरभावेपि न निवर्तते यतो व्यभिचारः स्यात् ॥ अतोनुमानतोप्यस्ति मोक्षसामान्यसाधनम् । सार्वज्ञादिविशेषस्तु तत्र पूर्व प्रसाधितः ॥ २५६ ॥ न हि निरवद्यादनुमानात् साध्यसिद्धौ संदेहः संभवति । निरवद्यं च मोक्षसामान्येऽनुमानं निरवद्यहेतुसमुत्थत्वादित्यतोनुमानात्तस्य सिद्धिरस्त्येव न केवलमागमात् । सर्वज्ञत्वादिमोक्षविशेषसाधनं तु प्रागेवोक्तमिति नेहोच्यते । तत्सिद्धेः प्रकृतोपयोगित्वमुपदर्शयति; एवं साधीयसी साधोः प्रागेवासन्ननिर्वृतेः । निवाणोपायजिज्ञासा तत्सूत्रस्य प्रवर्तिका ॥ २५७ ॥ सर्वस्याद्वादिनामेव प्रमाणतो मोक्षस्य सिद्धौ तत्राधिकृतस्य साधोरुपयोगस्वभावस्यासन्ननिर्वाणस्य प्रज्ञातिशयवतो हितमुपलिप्सोः श्रेयसा योक्ष्यमाणस्य साक्षादसाक्षाद्वा प्रबुद्धाशेषतत्त्वार्थप्रक्षीणकल्मष Page #66 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । परापरगुरुप्रवाहसभामधितिष्ठतो निर्वाणे विप्रतिपत्त्यभावात्तन्मार्गे विवादात् तत्प्रतिपित्साप्रतिबंधकविध्वंसात्साधीयसी प्रतिपित्सा । सा च निर्वाणमार्गोपदेशस्य प्रवर्तिका । सत्यामेव तस्यां प्रतिपाद्यस्य तत्प्रतिपादकस्य यथोक्तस्यादिसूत्रप्रवर्तकत्वोपपत्तेरन्यथा तदप्रवर्तनादिति प्रतिपत्तव्यं प्रमाणबलायत्तत्वात् । ___ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्र सम्यग्दर्शनस्य कारणभेदलक्षणानां वक्ष्यमाणत्वादिहोद्देशमात्रमाह;प्रणिधानविशेषोत्थद्वैविध्यं रूपमात्मनः । यथास्थितार्थश्रद्धानं सम्यग्दर्शनमुद्दिशेत् ॥१॥ प्रणिधानं विशुद्धमध्यवसानं, तस्य विशेषः परोपदेशानपेक्षत्वं तदपेक्षत्वं च, तस्मादुत्था यस्य तत्प्रणिधानविशेषोत्थं । द्वे विधो प्रकारौ निसर्गाधिगमजविकल्पाद्यस्य तद्विविधं, तस्य भावो द्वैविध्यं; प्रणिधानविशेषोत्थं द्वैविध्यमस्येति प्रणिधानविशेषोत्थद्वैविध्यं, तच्चात्मनो रूपं । यथास्थितार्थास्तत्त्वार्थास्तेषां श्रद्धानं सम्यग्दर्शनमिहोद्देष्टव्यं तथैव निर्दोषवक्ष्यमाणत्वात् ॥ सम्यग्ज्ञानलक्षणमिह निरुक्तिलभ्यं व्याचष्टे;खार्थाकारपरिच्छेदो निश्चितो बाधवर्जितः । सदा सर्वत्र सर्वस्य सम्यग्ज्ञानमनेकधा ॥२॥ परिच्छेदः सम्यग्ज्ञानं न पुनः फलमेव ततोनुमीयमानं परोक्षं सम्यग्ज्ञानमिति तस्य निराकरणात् । स चाकारस्य भेदस्य न पुनरनाकारस्य किंचिदिति प्रतिभासमानस्य परिच्छेदः तस्य दर्शनत्वेन वक्ष्यमाणत्वात् । खाकारस्यैव परिच्छेदः सोकारस्यैव वेति च नावधारणीयं तस्य तत्त्वप्रतिक्षेपात् । संशयितोऽकिंचित्करो वा खार्थाकारपरिच्छेदस्तदिति च न प्रसज्यते, निश्चित इति विशेषणात् । विपर्ययत्मिा स तथा स्यादिति चेन्न, बाधवर्जित इति वचनात् । बाधकोत्पत्तेः पूर्व स एव तथा प्रसक्त इति चेन्न, सदेति विशेषणात् । कचिद्विपरीतखार्थाकारपरिच्छेदो निश्चितो देशांतरगतस्य सर्वदा तद्देशमबामुवतः सदा बाधकवर्जितः सम्यग्ज्ञानं भवेदिति च न शंकनीयं, सर्वत्रेति वचनात् । कस्यचिदतिमूढमनसः सदा सर्वत्र बाधकरहितोपि सोस्तीति तदवस्थोतिप्रसंग इति चेन्न, सर्वस्येति वचनात् । तदेकमेव सम्यग्ज्ञानमिति च प्रक्षिप्तमनेकधेति वचनात् । तत्र निश्चितत्वादिविशेषणत्वं सम्यग्ग्रहणालब्धं । वाथोकारपरिच्छेदस्तु ज्ञानग्रहणात्, तद्विपरीतस्य ज्ञानत्वायोगात् । सम्यक् चारित्रं निरुक्तिगम्यलक्षणमाह;भवहेतुप्रहाणाय बहिरभ्यन्तरक्रिया-। विनिवृत्तिः परं सम्यक्चारित्रं ज्ञानिनो मतम् ॥३॥ विनिवृत्तिः सम्यक्चारित्रमित्युच्यमाने शीर्षापहारादिषु खशीर्षादिद्रव्यनिवृत्तिः सम्यक्त्वादिखगुणनिवृत्तिश्च तन्माभूदिति क्रियाग्रहणं । बहिःक्रियायाः कायवाग्योगरूपाया एवाभ्यंतरक्रियाया एव च मनोयोगरूपाया विनिवृत्तिः सम्यकूचारित्रं माभूदिति क्रियाया बहिरभ्यंतरविशेषणं । लाभाद्यर्थ तादृशक्रियानिवृत्तिरपि न सम्यक्चारित्रं भवहेतुप्रहाणायेति वचनात् । नापि मिथ्यादृशः सा तद्भवति ज्ञानिन इति वचनात् । प्रशस्तज्ञानस्य सातिशयज्ञानस्य वा संसारकारणविनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतो बाह्याभ्यंतरक्रियाविशेषोपरमस्यैव सम्यक्चारित्रत्वप्रकाशनात् , अन्यथा तदाभासत्वसिद्धेः । सम्यग्विशेषणादिह ज्ञानाश्रयता भवहेतुप्रहाणता च लभ्यते । चारित्रशब्दाबहिरभ्यंतरक्रियाविनिवृत्तिता सम्यक्चारित्रस्य सिद्धा तदभावे तद्भावानुपपत्तेः । Page #67 -------------------------------------------------------------------------- ________________ ५८ तत्त्वार्थश्लोकवार्तिके संप्रति मोक्षशब्दं व्याचष्टे ; " निःशेषकर्मनिर्मोक्षः स्वात्मलाभोऽभिधीयते । मोक्षो जीवस्य नाभावो न गुणाभावमात्रकम् ॥ ४ ॥ न कतिपय कर्मनिर्मोक्षोऽनुपचरितो मोक्षः प्रतीयते स निःशेषकर्मनिर्मोक्ष इति वचनात् । नाप्यखात्मलाभः स खात्मलाभः इति श्रुतेः । प्रदीपनिर्वाणवत्सर्वथाप्यभावश्चित्तसंतानस्य मोक्षो न पुनः स्वरूपलाभ इत्येतन्न हि युक्तिमत् तत्साधनस्यागमकत्वात् । नापि बुद्ध्यादिविशेषगुणाभावमात्रमात्मनः सत्त्वादिगुणाभावमात्रं वा मोक्षः, स्वरूपलाभस्य मोक्षतोपपत्तेः । खरूपस्य चानंतज्ञानादिकदंबकस्यात्मनि व्यवस्थितत्वात् । नास्ति मोक्षोऽनुपलब्धेः खरविषाणवदिति चेत् न, सर्वप्रमाणनिवृत्तेरनुपलब्धेरसिद्धत्वादागमानुमानोपलब्धेः साधितत्वात्, प्रत्यक्ष निवृत्तेरनुपलब्धेरनैकांतिकत्वात्, सकलशिष्टानामप्रत्यक्षेष्वर्थेषु सद्भावोपगमात् । तदनुपगमे स्वसमयविरोधात् । न हि सांख्यादिसमयेस्मदाद्यप्रत्यक्षः कश्चिदर्थो न विद्यते । चार्वाकस्य न विद्यत इति चेत् किं पुनस्तस्य स्वगुरुप्रभृतिः प्रत्यक्षः । कस्यचित्प्रत्यक्ष इति चेत, भवतः कस्यचित्प्रत्यक्षता प्रत्यक्षा न वा ? न तावत्प्रत्यक्षा, अतींद्रियत्वात् । सा न प्रत्यक्षा चेत् यद्यस्ति तदा तयैवानुपलब्धिरनैकांतिकी । नास्ति चेत् तर्हि गुर्वादयः कस्यचिदप्रत्यक्षाः संतीत्यायातं । कथं च तैरनैकांतानुपलब्धिर्मोक्षाभावं साधयेद्यतो मोक्षोऽप्रसिद्धत्वाद्यथोक्तलक्षणेन लक्ष्यो न भवेत् ॥ कः पुनस्तस्य मार्ग इत्याह ; / •-- स्वाभिप्रेतप्रदेशाप्तेरुपायो निरुपद्रवः । सद्भिः प्रशस्यते मार्गः कुमार्गोन्योवगम्यते ॥ ५ ॥ न हि स्वयमनभिप्रेतप्रदेशाप्तेरुपायोऽभिप्रेतप्रदेशा तेरुपायो वा मार्गो नाम सर्वस्य सर्वमार्गत्वप्रसंगात् । नापि तदुपाय एव सोपद्रवः सद्भिः प्रशस्यते तस्य कुमार्गत्वात् । तथा च मार्गेरन्वेषणक्रियस्य करणसाधनेष्यंति ? सति मार्ग्यतेऽनेनान्विष्यतेऽभिप्रेतः प्रदेश इति मार्गः, शुद्धिकर्मणो वा मृजेर्मृष्टः शुद्धोसाविति मार्गः प्रसिद्धो भवति । न चेवार्थाभ्यंतरीकरणात्सम्यग्दर्शनादीनि मोक्षमार्ग इति युक्तं, तस्य स्वयं मार्गलक्षणयुक्तत्वात्, पाटलिपुत्रादिमार्गस्यैव तदुपमेयत्वोपपत्तेर्मार्गलक्षणस्य निरुपद्रवस्य कार्यतोऽसंभवात् । तदेकदेशदर्शनात्तत्र तदुपमानप्रवृत्तेः । प्रसिद्धत्वादुपमानं पाटलिपुत्रादिमार्गोऽप्रसिद्धत्वान्मोक्षमार्गोस्तूपमेय इति चेन्न, मोक्षमार्गस्य प्रमाणतः प्रसिद्धत्वात् । समुद्रादेरसिद्धस्याप्युपमानत्वदर्शनात् तदागमादेः प्रसिद्धस्योपमेयत्वप्रतीतेः । न हि सर्वस्य तदागमादिवत्समुद्रादयः प्रत्यक्षतः प्रसिद्धाः । समुद्रादेरप्रत्यक्षस्यापि महत्त्वादुपमानत्वं तदागमादेः प्रत्यक्षस्याप्युपमेयत्वमिति चेत्, तर्हि मोक्षमार्गस्य महत्त्वादुपमानत्वं युक्तमितरमार्गस्योपमेयत्वमिति न मार्ग इव मार्गोंयं खयं प्रधानमार्गत्वात् ॥ तत्र भेदविवक्षायां स्वविवर्तविवर्तिनोः । दर्शनं ज्ञानमित्येषः शब्दः करणसाधनः ॥ ६ ॥ पुंसो विवर्तमानस्य श्रद्धानज्ञानकर्मणा । स्वयं तच्छक्तिभेदस्य साविध्येन प्रवर्तनात् ॥ ७ ॥ करणत्वं न बाध्येत वन्हेर्दहनकर्मणा । स्वयं विवर्तमानस्य दाहशक्तिविशेषवत् ॥ ८ ॥ यथा वन्हेर्दहनक्रियया परिणमतः खयं दहनशक्ति विशेषस्य तत्साविध्येन वर्तमानस्य साधकतमत्वात् करणत्वं न बाध्यते, तथात्मनः श्रद्धानज्ञानक्रियया स्वयं परिणमतः सांविध्येन वर्तमानस्य श्रद्धानज्ञानशक्तिविशेषस्यापि साधकतमत्वाविशेषात् । ततो दर्शनादिपदेषु व्याख्यातार्थेषु दर्शनं ज्ञानमित्येषस्तावच्छब्दः करणसाधनोवगम्यते; दर्शनशुद्धिशक्तिविशेषसन्निधाने तत्त्वार्थान्पश्यति श्रद्धत्तेऽनेनात्मेति दर्शनं, ज्ञानशुद्धिशक्तिविशेषसन्निधाने जानात्यनेनेति ज्ञानमिति । नन्वेवं स एव कर्ता स एव १ सहकारित्वेन । 4 Page #68 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। करणमित्यायातं तच्च विरुद्धमेवेति चेत् न, स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथाभिधानात् । दर्शनज्ञानपरिणामो हि करणमात्मनः कर्तुः कथंचिद्भिन्नं वन्हेर्दहनपरिणामवत् । कथमन्यथाऽमिर्दहतीन्धनं दाहपरिणामेनेत्यविभक्तकर्तृकं करणमुपपद्यते । स्यान्मतं । विवादापन्नं करणं कर्तुः सर्वथा भिन्न करणत्वाद्विभक्तकरणवदिति । तदयुक्तं । हेतोरतीतकालत्वात् । प्रत्यक्षतो ज्ञानादिकरणस्यात्मादेः कर्तुः कथंचिदभिन्नस्य प्रतीतेः । समवायात्तथा प्रतीतिरिति चेन्न, कथंचित्तादात्म्यादन्यस्य समवायस्य निराकरणात् । पक्षस्यानुमानबाधितत्वाच्च नायं हेतुः । तथाहि । करणशक्तिः शक्तिमतः कथंचिदभिन्ना तच्छक्तित्वात् , या तु न तथा सा न तच्छक्तिर्यथा व्यक्तिरन्या, तच्छक्तिश्चात्मादेः करणशक्तिस्तस्माच्छक्तिमतः कथंचिदभिन्ना ॥ नन्वेवमात्मनो ज्ञानशक्तौ ज्ञानध्वनिर्यदि । तदार्थग्रहणं नैव करणत्वं प्रपद्यते ॥९॥ न ह्यर्थग्रहणशक्तिर्ज्ञानमन्यत्रोपचारात्, परमार्थतोर्थग्रहणस्य ज्ञानत्वव्यवस्थितेः, तदुक्तमर्थग्रहणं बुद्धिरिति, ततो न ज्ञानशक्तौ ज्ञानशब्दः प्रवर्तते येन तस्य करणसाधनता स्याद्वादिनां सिद्धयेत् । पुरुषाद्भिनस्य तु ज्ञानस्य गुणस्यार्थप्रमितौ साधकतमत्वात् करणत्वं युक्तं, तथा प्रतीतेर्बाधकाभावात् । भवतु ज्ञानशक्तिः करणं तथापि न सा कर्तुः कथंचिदभिन्ना युज्यते ॥ शक्तिः कार्ये हि भावानां सानिध्यं सहकारिणः । सा भिन्ना तद्वतोत्यंतं कार्यतश्चेति कश्चन।।१० ज्ञानादिकरणस्यात्मादेः सहकारिणः सांनिध्यं हि शक्तिः खकार्योत्पत्तौ न पुनस्तद्वत् खभावकृता शक्तिमतः कार्याचात्यंतं भिन्नत्वात्तस्या इति कश्चित् ॥ तस्यार्थग्रहणे शक्तिरात्मनः कथ्यते कथम् । भेदादर्थातरस्येव संबंधात् सोपि कस्तयोः ॥११॥ न ह्यात्मनोत्यंतं भिन्नाऽर्थग्रहणशक्तिस्तस्येति व्यपदेष्टुं शक्या । संबंधतः शक्येति चेत् , कस्तस्यास्तेन संबंधः? संयोगो द्रव्यरूपायाः शक्तेरात्मनि मन्यते । गुणकर्मस्वभावायाः समवायश्च यद्यसौ ॥ १२॥ चक्षुरादिद्रव्यरूपायाः शक्तेरात्मद्रव्ये संयोगः संबंधोऽन्तःकरणसंयोगादिगुणरूपायाः समवायश्च शब्दाद्विषयीक्रियमाणरूपायाः संयुक्तसमवायः सामान्यादेश्च विषयीक्रियमाणस्य संयुक्तसमवेतसमवायादिर्यदि मतः ॥ तदाप्यांतरत्वेस्य संबंधस्य कथं निजात् । संबंधिनोवधार्येत तत्संबंधस्वभावता ॥ १३॥ संबंधांतरतः सा चेदनवस्था महीयसी । गत्वा सुदूरमप्यैक्यं वाच्यं संबंधतद्वतोः ॥ १४ ॥ तथा सति न सा शक्तिस्तद्वतोत्यंतभेदिनी । संबंधाभिन्नसंबंधिरूपत्वात्तत्स्वरूपवत् ॥ १५ ॥ ननु गत्वा सुदूरमपि संबंधतद्वतोनॆक्यमुच्यते येनात्मनो द्रव्यादिरूपा शक्तिस्तत्संबंधाभिन्नसम्बन्धिखभावत्वादभिन्ना साध्यते, परापरसंबंधादेव संबंधस्य संबंधिताव्यपदेशोपगमात् । न चैवमनवस्था, प्रतिपत्तुराकांक्षानिवृत्तेः. क्वचित्कदाचिदवस्थानसिद्धेः, प्रतीतिनिबंधनत्वात्तत्त्वव्यवस्थाया इति परे । तेषां संयोगसमवायव्यवस्थैव तावन्न घटते, प्रतीत्यनुसरणे यथोपगमप्रतीत्यभावात् । तथाहि; संयोगो युतसिद्धानां पदार्थानां यदीष्यते । समवायस्तदा प्राप्तः संयोगस्तावके मते ॥१६॥ कस्मात् समवायोपि संयोगः प्रसज्यते मामके मते ? युतसिद्धिर्हि भावानां विभिन्नाश्रयवृत्तिता । दधिकुंडादिवत्सा च समाना समवायिषु ॥१७॥ Page #69 -------------------------------------------------------------------------- ________________ ६० तत्त्वार्थश्लोकवार्तिके .. नन्वयुतसिद्धानां समवायित्वात् समवायिनां युतसिद्धिरसिद्धेति चेत् ॥ तद्वद्वृत्तिर्गुणादीनां स्वाश्रयेषु च तद्वताम् । युतसिद्धिर्यदा न स्यात्तदान्यत्रापि सा कथम् ॥ १८ ॥ गुण्यादिषु गुणादीनां वृत्तिर्गुण्यादीनां तु खाश्रये वृत्तिरिति कथं न गुणगुण्यादीनां समवायिनां युतसिद्धिः? पृथगाश्रयाश्रयित्वं युतसिद्धिरिति वचनात् । तथापि तेषां युतसिद्धेरभावे दधिकुंडादीनामपि सा न स्याद्विशेषलक्षणाभावात् ॥ लौकिको देशभेदश्चेद्युतसिद्धिः परस्परम् । प्राप्ता रूपरसादीनामेकत्रायुतसिद्धता ॥ १९ ॥ विभूनां च समस्तानां समवायस्तथा न किम् । कथंचिदर्थतादात्म्यान्नाविष्वग्भवनं परम् ॥ २० ॥ लौकिको देशभेदो युतसिद्धिर्न शास्त्रीयो यतः समवायिनां युतसिद्धिः स्यादित्येतस्मिन्नपि पक्षे रूपादीनामेकत्र द्रव्ये विभूनां च समस्तानां लौकिकदेशभेदाभावाद्युतसिद्धेरभावप्रसंगात् समवायप्रसक्तिः । अविष्वग्भवनमेवायुतसिद्धिर्विष्वग्भवनं युतसिद्धिरिति चेत्, तत्समवायिनां कथंचित्तादात्म्यमेव सिद्धं ततः परस्याविष्वग्भवनस्याप्रतीतेः ॥ तदेवावाधितज्ञानमारूढं शक्तितद्वतोः । सर्वथा भेदमाहंति प्रतिद्रव्यमनेकधा ॥ २१ ॥ कथंचित्तादात्म्यमेव समवायिनामेकममूर्त सर्वगतमिदमिति प्रत्ययनिमित्तं समवायोऽर्थभेदाभावादिति मामंस्त, तस्य प्रतिद्रव्यमनेकप्रकारत्वात्, तथैवाबाधितज्ञानारूढत्वात् । मूर्तिमद्रव्यपर्यायतादात्म्यं हि मूर्तिमज्जायते नामूर्त, अमूर्तद्रव्यपर्यायतादात्म्यं पुनरमूर्तमेव, तथा सर्वगतद्रव्यपर्यायतादात्म्यं सर्वगतं, असर्वगतद्रव्यपर्यायतादात्म्यं पुनरसर्वगतमेव, तथा चेतनेतरद्रव्यपर्यायतादात्म्यं चेतनेतररूपमित्यनेकधा तत्सिद्धं शक्तितद्वतोः सर्वथा भेदमाहंत्येव ॥ ततोर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथंचन ॥ २२ ॥ न ह्यंतरंगबहिरंगार्थग्रहणरूपात्मनो ज्ञानशक्तिः करणत्वेन कथंचिन्निर्दिश्यमाना विरुध्यते, सर्वथा शक्तितद्वतोर्भेदस्य प्रतिहननात् । ननु च ज्ञानशक्तिर्यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसंगादनुमेयत्वविरोधः । प्रभाणबाधितं च शक्तेः प्रत्यक्षत्वं । तथाहि — ज्ञानशक्तिर्न प्रत्यक्षास्मदादेः शक्तित्वात् पावकादेर्दहनादिशक्तिवत् । न साध्यविकलमुदाहरणं पावकादिदहनादिशक्तेः प्रत्यक्षत्वे कस्यचित्तत्र संशयानुपपत्तेः । यदि पुनरप्रत्यक्षा ज्ञानशक्तिस्तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धिः, तत्र करणज्ञानस्य परोक्षत्वव्यवस्थितेः फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षं करणज्ञानमिच्छतां न तच्छक्तिरूपमेषितव्यं स्याद्वा दिभिरिति चेत् । तदनुपपन्नं । एकांत तोस्मदादिप्रत्यक्षत्वस्य करणज्ञानेन्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनानभ्युपगमात् । द्रव्यार्थतो हि ज्ञानमस्मदादेः प्रत्यक्षं, प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षं । तत्र स्वार्थव्यवसायात्मकं ज्ञानं स्वसंविदितं फलं प्रमाणाभिन्नं वदतां करणज्ञानं प्रमाणं कथमप्रत्यक्षं नाम । न च येनैव रूपेण तत्प्रमाणं तेनैव फलं येन विरोधः । किं तर्हि ? साधकतमत्वेन प्रमाणं साध्यत्वेन फलं । साधकतमत्वं तु परिच्छेदनशक्तिरिति प्रत्यक्षफलज्ञानात्मकत्वात् प्रत्यक्षं शक्तिरूपेण परोक्षं । ततः स्यात् प्रत्यक्षं स्यादप्रत्यक्षमित्यनेकांतसिद्धिः । यदा तु प्रमाणाद्भिन्नं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा खार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति न परमतप्रवेशस्तच्छक्तेरपि सूक्ष्मायाः परोक्षत्वात् । तदेतेन सर्वे कर्त्रादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कर्त्रादिशक्तिरूपतयोक्तं प्रत्येयं । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्टा नखागमेन युक्त्या च विरुद्धेति सूक्तं ॥ Page #70 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। ६१ आत्मा चार्थग्रहाकारपरिणामः स्वयं प्रभुः । ज्ञानमित्यभिसंधानकर्तृसाधनता मता ॥ २३ ॥ तस्योदासीनरूपत्वविवक्षायां निरुच्यते । भावसाधनता ज्ञानशब्दादीनामबाधिता ॥ २४ ॥ ननु च जानातीति ज्ञानमात्मेति विवक्षायां करणमन्यद्वाच्यं, निःकरणस्य कर्तृत्वायोगादिति चेन्न । अविभक्तकर्तृकस्य खशक्तिरूपस्य करणस्याभिधानात् । भावसाधनतायां ज्ञानस्य फलत्वव्यवस्थितेः प्रमाणत्वाभाव इति चेन्न, तच्छक्तेरेव प्रमाणत्वोपपत्तेः ॥ तथा चारित्रशब्दोपि ज्ञेयः कर्मानुसाधनः । कारकाणां विवक्षातः प्रवृत्तेरेकवस्तुनि ॥ २५॥ चारित्रमोहस्योपशमे क्षये क्षयोपशमे वात्मना चर्यते तदिति चारित्रं, चर्यतेनेन चरणमात्रं वा चरतीति वा चारित्रमिति कर्मादिसाधनश्चारित्रशब्दः प्रत्येयः । ननु च "भूवादिगृग्भ्यो णित्र" इत्यधिकृत्य "चरेवृत्ते” इति कर्मणि णित्रस्य विधानात् , कादिसाधनत्वे लक्षणाभाव इति चेत् न, बहुलापेक्षया तद्भावात् । एतेन दर्शनज्ञानशब्दयोः कर्तृसाधनत्वे लक्षणाभावो व्युदस्तः । “युड्वा बहुलम्" इति वचनात्, तथा दर्शनाच्च । दृश्यते हि करणाधिकरणभावेभ्योन्यत्रापि प्रयोगो यथा निरदंति तदिति निरदनं, स्पंदतेस्मादिति स्पंदनमिति । कथमेकज्ञानादि वस्तु काद्यनेककारकात्मकं विरोधात् इति चेन्न, विवक्षातः कारकाणां प्रवृत्तेरेकत्राप्यविरोधात् । कुतः पुनः कस्येति कारकमावसति विवक्षा कस्यचिदविवक्षेति चेत् ; विवक्षा च प्रधानत्वाद्वस्तुरूपस्य कस्यचित् । तदा तदन्यरूपस्याविवक्षा गुणभावतः ॥२६॥ नन्वसदेव रूपमनाद्यविद्यावासनोपकल्पितं विवक्षेतरयोर्विषयो न तु वास्तवं रूपं यतः परमार्थसती षटारकी स्यादिति चेत् ॥ भावस्य वासतो नास्ति विवक्षा चेतरापि वा । प्रधानेतरतापायाद्गगनांभोरुहादिवत् ॥ २७॥ प्रधानेतरताभ्यां विवक्षेतरयोर्व्याप्तत्वात् पररूपादिभिरिव स्वरूपादिभिरप्यसतस्तदभावात्तदभावसिद्धिः॥ सर्वथैव सतोनेन तदभावो निवेदितः । एकरूपस्य भावस्य रूपद्वयविरोधतः ॥ २८ ॥ न हि सदेकांते प्रधानेतररूपे स्तः। कल्पिते स्त एवेति चेन्न, कल्पितेतररूपद्वयस्य सत्ताद्वैतविरोधिनः प्रसंगात् । कल्पितस्य रूपस्यासत्त्वादकल्पितस्यैव सत्त्वान्न रूपद्वयमिति चेत्तीसतां प्रधानेतररूपे विवक्षेतरयोर्विषयतामास्कंदत इत्यायातं । तच्च प्रतिक्षिप्तं । स्याद्वादिनां तु नायं दोषः । चित्रैकरूपे वस्तुनि प्रधानेतररूपद्वयस्य स्वरूपेण सतः पररूपेणासतो विवक्षेतरयोर्विषयत्वाविरोधात् ॥ विवक्षा चाविवक्षा च विशेष्येनंतधर्मिणि । सतो विशेषणस्यात्र नासतः सर्वथोदिता ॥२९॥ न सर्वथापि सतो धर्मस्य नाप्यसतोऽनंतधर्मिणि वस्तुनि विवक्षा चाविवक्षा च भगवद्भिः समंतभद्रखामिभिरभिहितास्मिन् विचारे । किं तर्हि ? कथंचित्सदसदात्मन एव प्रधानताया गुणतायाश्च सद्भावात् । कुतः कस्यचिद्रूपस्य प्रधानेतरता च स्यायेनासौ वास्तवीति चेत्; स्वाभिप्रेतार्थसंप्राप्तिहेतोरत्र प्रधानता । भावस्य विपरीतस्य निश्चीयेताप्रधानता ॥३०॥ नैवातः कल्पनामात्रवशतोसौ प्रवर्तिता । वस्तुसामर्थ्यसंभूततनुत्वादर्थदृष्टिवत् ॥ ३१ ॥ कर्तृपरिणामो हि पुंसो यदा खाभिप्रेतार्थसंप्राप्तेर्हेतुस्तदा प्रधानमन्यदा त्वप्रधानं स्यात्, तथा करणादिपरिणामोपि । ततो न प्रधानेतरता कल्पनामात्राप्रवर्तितास्या वस्तुसामर्थ्यायत्तत्वादर्थदर्शनवत् । Page #71 -------------------------------------------------------------------------- ________________ ६२ तत्त्वार्थश्लोकवार्तिके नन्वभिप्रेतोर्थो न परमार्थः सन्मनोराज्यादिवत्ततस्तत्संप्राप्त्यप्राप्ती न वस्तुरूपे यतस्तद्धेतुकयोः प्रधानेतरभावयोर्वस्तुसामर्थ्यसंभूततनुत्वं सिद्ध्यत् तयोर्वास्तवतां साधयेत् इति चेत् । स्यादेवं, यदि सर्वोभिप्रेतोर्थोऽपरमार्थः सन् सिद्ध्येत् । कस्यचिन्मनोराज्यादेरपरमार्थत्वसत्त्वप्रतिपत्तेरबाधिताभिप्रायविषयीकृतस्याप्यपरमार्थसत्त्वसाधने चंद्रद्वयदर्शन विषयस्यावस्तुत्वसंप्रत्ययादबाधिताखिलदर्शन विषयस्यावस्तुत्वं साध्यतामभिप्रेत्वदृष्टत्वहेतोरविशेषात् । स्वसंवेदनविषयस्य च स्वरूपस्य कुतः परमार्थसत्त्वसिद्धिर्यतः संवेदद्वैतं चित्राद्वैतं वा खरूपस्य स्वतो गतिं साधयेत् । यदि पुनः स्वरूपस्य खतोपि गतिं नेच्छेत्तदा न स्वतः संवेद्यते नापि परतोस्ति च तदिति किमघशीलवचनं । न स्वतः संवेद्यते संवेदनं नापि परतः किंतु संवेद्यत एवेति तस्य सत्त्ववचने, न क्रमान्नित्योर्थः कार्याणि करोति नाप्यक्रमात् ; किं तर्हि ? करोत्येवेति ब्रुवाणः कथं प्रतिक्षिप्यते ? नैकदेशेन खावयवेष्ववयवी वर्तते नापि सर्वात्मना किंतु वर्तते एवेति च । नैकदेशेन परमाणुः परमाण्वंतरैः संयुज्यते नापि सर्वात्मना किं तु संयुज्यत एवेत्यपि ब्रुवन्न प्रतिक्षेपार्होनेनापादितः । यदि पुनः क्रमाक्रमव्यतिरिक्तप्रकारासंभवात्ततः कार्यकरणादेरयोगादेवं ब्रुवाणस्य प्रतिक्षेपः क्रियते तदा खपरव्यतिरिक्तप्रकाराभावान्न ततः संवेदनं संवेद्यत एवेत्यप्रतिक्षेपार्ह : सिद्ध्येत् । संवेदनस्य प्रतिक्षेपे सकलशून्यता सर्वस्यानिष्टा स्यादिति चेत्, समानमन्यत्रापि । ततः खयं संवेद्यस्य दृश्यस्य वा रूपादेः परमार्थसत्त्वमुपयताभिप्रेतस्याप्यव्यभिचारिणस्तन्न प्रतिक्षेप्तव्यं सर्वथा विशेषाभावात् । परमार्थसत्त्वे च स्वाभिप्रेतार्थस्य सुनयविषयस्य तत्संप्रात्यसंप्राप्ती वस्तुरूपे सिद्धे तद्धेतुकयोश्च प्रधानेतरभावयोर्वस्तुसामर्थ्य संभूततनुत्वं नासिद्धं यतस्तयोर्वास्तवत्वं न साधयेदिति । तत्र विवक्षा चाविवक्षा च न निर्विषया येन तद्वशादेकत्र वस्तुन्यनेककारकात्मकत्वं न व्यवतिष्ठेत ॥ 1 निरंशस्य च तत्त्वस्य सर्वथानुपपत्तितः । नैकस्य बाध्यतेऽनेककारकत्वं कथंचन ॥ ३२ ॥ नात्मादितत्त्वे नानाकारकात्मता वास्तवी तस्य निरंशत्वात्, कल्पनामात्रादेव तदुपपत्तेरिति न शंकनीयं । बहिरंतर्वा निरंशस्य सर्वथार्थक्रियाकारित्वायोगात् । परमाणुः कथमर्थक्रियाकारीति चेन्न, तस्यापि सांशत्वात् । न हि परमाणोरंश एव नास्ति द्वितीयाद्यंशाभावान्निरवयवत्ववचनात् । न च यथा परमाणुरेकप्रदेशमात्रस्तथात्मादिरपि शक्यो वक्तुं सकृन्नानादेशव्यापित्वविरोधात् । तस्य विभुत्वान्न द्विरोध इति चेत् । व्याहतमेतत् । विभुश्चैकप्रदेशमात्रश्चेति न किंचित्सकले भ्योंशेभ्यो निर्गतं तत्त्वं नाम सर्वप्रमाणागोचरत्वात् खरशृंगवत् । यदा त्वंशा धर्मास्तदा तेभ्यो निर्गतं तत्त्वं न किंचित्प्रतीतिगोचरतामंचतीति सांशमेव सर्वं तत्त्वमन्यथार्थक्रियाविरोधात् । तत्र चानेककारकत्वमबाधितमवबुद्ध्या महे भेदनयाश्रयणात् । तथा च दर्शनादिशब्दानां सूक्तं कर्त्रादिसाधनत्वं ॥ पूर्व दर्शनशब्दस्य प्रयोगोऽभ्यर्हितत्वतः । अल्पाक्षरादपि ज्ञानशब्दाद्वंद्वोत्र संमतः ॥ ३३ ॥ दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणीति इतरेतरयोगे द्वंद्वे सति ज्ञानशब्दस्य पूर्वनिपातप्रसक्तिरल्पाक्षरत्वादिति न चोद्यं, दर्शनस्याभ्यर्हितत्वेन ज्ञानात्पूर्वप्रयोगस्य संगतत्वात् । कुतोभ्यर्हो दर्शनस्य न पुनर्ज्ञानस्य सर्वपुरुषार्थसिद्धिनिबंधनस्येति चेत्; ज्ञानसम्यक्त्वहेतुत्वादभ्यर्हो दर्शनस्य हि । तदभावे तदुद्भूतेरभावाद्दूरभव्यवत् ॥ ३४ ॥ इदमिह संप्रधार्यं ज्ञानमात्रनिबंधना सर्वपुरुषार्थसिद्धिः सम्यग्ज्ञाननिबंधना वा ? न तावदाद्यः पक्षः संशयादिज्ञाननिबंधनत्वानुषंगात् । सम्यग्ज्ञाननिबंधनाचेत्, तर्हि ज्ञानसम्यक्त्वस्य दर्शनहेतुकत्वात् तत्त्वार्थश्रद्धानमेवाभ्यर्हितं । तदभावे ज्ञानसम्यक्त्वस्यानुद्भूतेर्दूरभव्यस्येव । न चेदमुदाहरणं साध्यसाधन Page #72 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। विकलमुभयोः संप्रतिपत्तेः । नन्विदमयुक्तं तत्त्वार्थश्रद्धानस्य ज्ञानसम्यक्त्वहेतुत्वं दर्शनसम्यग्ज्ञानयोसहचरत्वात् सव्येतरगोविषाणवद्धेतुहेतुमद्भावाघटनात् । तत्त्वार्थश्रद्धानस्याविर्भावकाले सम्यग्ज्ञानस्याविर्भावात्तत्तद्धेतुरिति चासंगतं, सम्यग्ज्ञानस्य तत्त्वार्थश्रद्धानहेतुत्वप्रसंगात् । मत्यादिसम्यग्ज्ञानस्याविर्भावकाल एव तत्त्वार्थश्रद्धानस्याविर्भावात् । ततो न दर्शनस्य ज्ञानादभ्यर्हितत्वं ज्ञानसम्यक्त्वहेतुत्वाव्यवस्थितेरिति कश्चित् । तदसत् । अभिहितानवबोधात् । न हि सम्यग्ज्ञानोत्पत्तिहेतुत्वाद्दर्शनस्याभ्योभिधीयते । किं तर्हि ? ज्ञानसम्यग्व्यपदेशहेतुत्वात् । पूर्व हि दर्शनोत्पत्तेः साकारग्रहणस्य मिथ्याज्ञानव्यपदेशो मिथ्यात्वसहचरितत्वेन यथा, तथा दर्शनमोहोपशमादेर्दर्शनोत्पत्तौ सम्यग्ज्ञानव्यपदेश इति । नन्वेवं सम्यग्ज्ञानस्य दर्शनसम्यक्त्वहेतुत्वादभ्योस्तु मिथ्याज्ञानसहचरितस्यार्थश्रद्धानस्य मिथ्यादर्शनव्यपदेशात् । मत्यादिज्ञानावरणक्षयोपशमान्मत्यादिज्ञानोत्पत्तौ तस्य सम्यग्दर्शनव्यपदेशात् । न हि दर्शनं ज्ञानस्य सम्यग्व्यपदेशनिमित्तं न पुनर्ज्ञानं दर्शनस्य सहचारित्वाविशेषादिति चेत् न । ज्ञानविशेषापेक्षया दर्शनस्य ज्ञानसम्यक्त्वव्यपदेशहेतुत्वसिद्धेः । सकलश्रुतज्ञानं हि केवलमनःपर्ययज्ञानवत् प्रागुद्भूतसम्यग्दर्शनस्यैवाविर्भवति न मत्यादिज्ञानसामान्यवदर्शनसहचारीति सिद्धं ज्ञानसम्यक्त्वहेतुत्वं दर्शनस्य ज्ञानादभ्यर्हसाधनं । ततो दर्शनस्य पूर्व प्रयोगः । कश्चिदाह- ज्ञानमभ्यर्हितं तस्य प्रकर्षपर्यतप्राप्तौ भवांतराभावात् , न तु दर्शनं तस्य क्षायिकस्यापि नियमेन भवांतराभावहेतुत्वाभावादिति । सोपि चारित्रस्याभ्यर्हितत्वं ब्रवीतु तत्प्रकर्षपर्यंतप्राप्तौ भवांतराभावसिद्धेः । केवलज्ञानस्यानंतत्वाच्चारित्रादभ्यो न तु चारित्रस्य मुक्तौ तथा व्यपदिश्यमानस्याभावादिति चेत् । तत एव क्षायिकदर्शनस्याभ्योस्तु मुक्तावपि सद्भावात् अनंतत्वसिद्धेः । साक्षाद्भवांतराभावहेतुत्वाभावाद्दर्शनस्य केवलज्ञानादनभ्यहें केवलस्याप्यभ्यर्हो माभूत् तत एव । न हि तत्कालादिविशेषनिरपेक्षं भवांतराभावकारणमयोगिकेवलचरमसमयप्राप्तस्य दर्शनादित्रयस्य साक्षान्मोक्षकारणत्वेन वक्ष्यमाणत्वात् । ततः साक्षात्परंपरया वा मोक्षकारणत्वापेक्षया दर्शनादित्रयस्याभ्यर्हितत्वं समानमिति न तथा कस्यचिदेवाभ्यहव्यवस्था येन ज्ञानमेवाभ्यर्हितं स्यात् दर्शनात् । नन्वेवं विशिष्टसम्यग्ज्ञानहेतुत्वेनापि दर्शनस्य ज्ञानादभ्य: सम्यग्दर्शनहेतुत्वेन ज्ञानस्य दर्शनादभ्यर्होस्तु श्रुतज्ञानपूर्वकत्वादधिगमजसद्दर्शनस्य, मत्यवधिज्ञानपूर्वकत्वान्निसर्गजस्येति चेन्न । दर्शनोत्पत्तेः पूर्व श्रुतज्ञानस्य मत्यवधिज्ञानयोर्वा अनाविर्भावात् । मत्यज्ञानश्रुताज्ञानविभंगाज्ञानपूर्वकत्वात् प्रथमसम्यग्दर्शनस्य । न च तथा तस्य मिथ्यात्वप्रसंगः सम्यग्ज्ञानस्यापि मिथ्याज्ञानपूर्वकस्य मिथ्यात्वप्रसक्तेः । सत्यज्ञानजननसमर्थामिथ्याज्ञानात्सत्यज्ञानत्वेनोपचर्यमाणादुत्पन्नं सत्यज्ञानं न मिथ्यात्वं प्रतिपद्यते मिथ्यात्वकारणादृष्टाभावादिति चेत् , सम्यग्दर्शनमपि तादृशान्मिथ्याज्ञानादुपजातं कथं मिथ्या प्रसज्यते तत्कारणस्य दर्शनमोहोदयस्याभावात् । सत्यज्ञानं मिथ्याज्ञानानंतरं न भवति तस्य धर्मविशेषानंतरभावित्वादिति चेत्, सम्यग्दर्शनमपि न मिथ्याज्ञानानंतरभावि तस्याधर्मविशेषाभावानंतरभावित्वोपगमात् । मिथ्याज्ञानानंतरभावित्वाभावे च सत्यज्ञानस्य सत्यज्ञानानंतरभावित्वं सत्यासत्यज्ञानपूर्वकत्वं वा स्यात् ? प्रथमकल्पनायां सत्यज्ञानस्यानादित्वप्रसंगो मिथ्याज्ञानसंतानस्य चानंतत्वप्रसक्तिरिति प्रतीतिविरुद्धं सत्येतरज्ञानपौर्वापर्यदर्शननिराकरणमायातं । द्वितीयकल्पनायां तु सत्यज्ञानोत्पत्तेः पूर्व सकलज्ञानशून्यस्यात्मनोनात्मत्वानुषंगो दुर्निवारस्तस्योपयोगलक्षणत्वेन साधनात् । स चानुपपन्न एवात्मनः प्रसिद्धेरिति मिथ्याज्ञानपूर्वकमपि सत्यज्ञानं किंचिदभ्युपेयं । तद्वत्सम्यग्दर्शनमपि इत्यनुपालंभः । क्षायोपशमिकस्य क्षायिकस्य च दर्शनस्य सत्यज्ञानपूर्वकत्वात्सत्यज्ञानं दर्शनादभ्यर्हितमिति च न चोद्यं, प्रथमसम्यग्दर्शनस्यौपशमिकस्य सत्यज्ञानाभावेपि भावात् । नैवं किंचित्सम्यग्वेदनं सम्यग्दर्शनाभावे भवति । प्रथमं भवत्येवेति चेत् Page #73 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके न, तस्यापि सम्यग्दर्शनसहचारित्वात् । तर्हि प्रथममपि सम्यग्दर्शनं न सम्यग्ज्ञानाभावेस्ति तस्य सत्यज्ञानसहचारित्वादिति न सत्यज्ञानपूर्वकत्वमव्यापि दर्शनस्य, सत्यज्ञानस्य दर्शनपूर्वकत्ववत्, ततः प्रकृतं चोद्यमेवेति चेन्न । प्रकृष्टदर्शनज्ञानापेक्षया दर्शनस्याभ्यर्हितत्ववचनादुक्तोत्तरत्वात् । न हि क्षायिक दर्शनं केवलज्ञानपूर्वकं येन तत्कृताभ्यर्हितं स्यात् । अनंतभवप्रहाणहेतुत्वाद्वा सद्दर्शनस्याभ्यर्हः ।।। विशिष्टज्ञानतः पूर्वभावाचास्यास्तु पूर्ववाक । तथैव ज्ञानशब्दस्य चारित्रात् प्राक प्रवर्तनम् ॥३५॥ ___ यद्यत्कालतया व्यवस्थितं तत्तथैव प्रयोक्तव्यमार्षान्यायादिति क्षायिकज्ञानात्पूर्वकालतयावस्थितं दर्शनं पूर्वमुच्यते, चारित्राच्च समुच्छिन्नक्रियानिवर्तिध्यानलक्षणात् सकलकर्मक्षयनिबंधनात्ससामग्रीकात् प्राक्कालतयोद्भवात् सम्यग्ज्ञानं ततः पूर्वमिति निरवद्यो दर्शनादिप्रयोगक्रमः ॥ प्रत्येकं सम्यगित्येतत्पदं परिसमाप्यते । दर्शनादिषु निःशेषविपर्यासनिवृत्तये ॥ ३६ ॥ सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति प्रत्येकपरिसमाप्त्या सम्यगिति पदं संबध्यते प्रत्येक दर्शनादिषु निःशेषविपर्यासनिवृत्त्यर्थत्वात्तस्य । तत्र दर्शने विपर्यासमौढ्यादयो मिथ्यात्वभेदाः शंकादयश्चातीचारा वक्ष्यमाणाः, संज्ञाने संशयादयः, सच्चारित्रे मायादयः, प्रतिचारित्रविशेषमतीचाराश्च यथासंभविनः प्रत्येयाः । तेषु सत्सु दर्शनादीनां सम्यक्त्वानुपपत्तेः । तदेवं सकलसूत्रावयवव्याख्याने तत्समुदायव्याख्यानात्सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गो वेदितव्य इति व्यवतिष्ठते । तत्र किमयं सामान्यतो मोक्षस्य मार्गस्त्रयात्मकः सूत्रकारमतमारूढः किं वा विशेषत ? इति शंकायामिदमाह;तत्सम्यग्दर्शनादीनि मोक्षमार्गो विशेषतः। सूत्रकारमतारूढो न तु सामान्यतः स्थितः ॥ ३७॥ कालादेरपि तद्धेतुसामान्यस्याविरोधतः । सर्वकार्यजनौ तस्य व्यापारादन्यथास्थितेः ॥ ३८॥ साधारणकारणापेक्षया हि सम्यग्दर्शनादित्रयात्मकं मोक्षमार्गमाचक्षाणो न सकलमोक्षकारणसंग्रहपरः स्यात् कालादीनामवचनात् । न च कालादयो मोक्षस्योत्पत्तौ न व्याप्रियंते सर्वकार्यजनने तेषां व्यापारात् , तत्र व्यापारे विरोधाभावात् । यदि पुनः सम्यग्दर्शनादीन्येवेत्यवधारणाभावान कालादीनामसंग्रहस्तदा सम्यग्दर्शनं मोक्षमार्ग इति वक्तव्यं, सम्यग्दर्शनमेवेत्यवधारणाभावादेव ज्ञानादीनां कालादीनामिव संग्रहसिद्धेस्तत्तद्वचनाद्विशेषकारणापेक्षयायं त्रयात्मको मोक्षमार्गः सूत्रित इति बुद्ध्यामहे ।। पूर्वावधारणं तेन कार्य नान्यावधारणम् । यथैव तानि मोक्षस्य मार्गस्तद्वद्धि संवदः ॥३९॥ सम्यग्दर्शनज्ञानचारित्राण्येव मोक्षमार्ग इत्यवधारणं हि कार्यमसाधारणकारणनिर्देशादेवान्यथा तदघटनात् । तानि मोक्षमार्ग एवेति तु नावधारणं कर्तव्यं तेषां स्वर्गाद्यभ्युदयमार्गत्वविरोधात् । न च तान्यभ्युदयमार्गो नेति शक्यं वक्तुं सद्दर्शनादेः खर्गादिप्राप्तिश्रवणात् । प्रकर्षपर्यतप्राप्तानि तानि नाभ्युदयमार्ग इति चेत्, सिद्धं तर्षपकृष्टानां तेषामभ्युदयमार्गत्वम्, इति नोत्तरावधारणं न्याय्यं व्यवहारात् । निश्चयनयात् तूमयावधारणमपीष्टमेव, अनंतरसमयनिर्वाणजननसमर्थानामेव सद्दर्शनादीनां मोक्षमार्गत्वोपपत्तेः परेषामनुकूलमार्गताव्यवस्थानात् । एतेन मोक्षस्यैव मार्गो मोक्षस्य मार्ग एवेत्युभयावधारणमिष्टं प्रत्यायनीयम् ॥ पूर्वावधारणेप्यत्र तपो मोक्षस्य कारणम् । न सादिति न मंतव्यं तस्य चर्यात्मकत्वतः॥४०॥ न ह्यसाधारणकारणाभिधित्सायामपि व्यवहारनयात्सम्यग्दर्शनादीन्येव मोक्षमार्ग इत्यवधारणं श्रेयस्तपसो मोक्षमार्गत्वाभावप्रसंगात् । न च तपो मोक्षस्यासाधारणकारणं न भवति तस्यैवोत्कृष्टस्याभ्यंतरसमुच्छिन्नक्रियाप्रतिपातिध्यानलक्षणस्य कृत्स्नकर्मविप्रमोक्षकारणत्वव्यवस्थितेः । सम्यग्दर्शनज्ञानचारित्र www.jainelibrary:org Page #74 -------------------------------------------------------------------------- ________________ • प्रथमोऽध्यायः । ६५ तपांसि मोक्षमार्ग इति सूत्रे क्रियमाणे तु युज्येत पूर्वावधारणं । अनुत्पन्नतादृक्तपोविशेषस्य च सयोगकेवलिनः समुत्पन्नरत्नत्रयस्यापि धर्मदेशना न विरुध्यतेऽवस्थानस्य सिद्धेः । ततः सकलचोद्यावतारणनिवृत्तये चतुष्टयं मोक्षमार्गो वक्तव्यः । तदुक्तं । दर्शनज्ञानचारित्रतपसामाराधना भणितेति केचित् । तदप्यचोद्यं; तपसश्चारित्रात्मकत्वेन व्यवस्थानात् सद्दर्शनादित्रयस्यैव मोक्षकारणत्वसिद्धेः ॥ ननु रत्नत्रयस्यैव मोक्षहेतुत्वसूचने । किं वार्हतः क्षणादूर्ध्वं मुक्तिं संपादयेन्न तत् ॥ ४१ ॥ प्रागेवेदं चोदितं परिहृतं च न पुनः शंकनीयमिति चेत् न, परिहारांत रोपदर्शनार्थत्वात् पुनश्चयकरणस्य । तथाहि— सहकारिविशेषस्यापेक्षणीयस्य भाविनः । तदैवासत्त्वतो नेति स्फुटं केचित्प्रचक्षते ॥ ४२ ॥ कः पुनरसौ सहकारी संपूर्णेनापि रत्नत्रयेणापेक्ष्यते ? यदभावात्तन्मुक्तिमर्हतो न संपादयेत्; इति चेत् ;स तु शक्तिविशेषः स्याज्ञ्जीवस्याघातिकर्मणाम् । नामादीनां त्रयाणां हि निर्जराकृद्धि निश्चितः ॥४३॥ दंडकपाटप्रतरलोकपूरणक्रियानुमेयोऽपकर्षणपरप्रकृति संक्रमणहेतुर्वा भगवतः खपरिणामविशेषः शक्तिविशेषः सोंतरंगः सहकारी निश्रेयसोत्पत्तौ रत्नत्रयस्य, तदभावे नामाद्यघातिकर्मत्रयस्य निर्जरानुपपत्तेनिःश्रेयसानुत्पत्तेः । आयुषस्तु यथाकालमनुभवादेव निर्जरा न पुनरुपक्रमात्तस्यानपवर्त्यत्वात् । तदपेक्षं क्षायिकरत्नत्रयं सयोगकेवलिनः प्रथमसमये मुक्तिं न संपादयत्येव तदा तत्सहकारिणोऽसत्त्वात् ॥ क्षायिकत्वान्न सापेक्षमर्हद्रत्नत्रयं यदि । किन्न क्षीणकषायस्य दृक्चारित्रे तथा मते ॥ ४४ ॥ वलापेक्षिणी ते हि यथा तद्वच्च तत्रयम् । सहकारिव्यपेक्षं स्यात् क्षायिकत्वेनपेक्षिता ॥ ४५ ॥ न क्षायिकत्वेपि रत्नत्रयस्य सहकारिविशेषापेक्षणं ' क्षायिकभावानां न हानिर्नापि वृद्धिरिति प्रवचनेन बाध्यते, क्षायिकत्वे निरपेक्षत्ववचनात् । क्षायिको हि भावः सकलखप्रतिबंधक्षयादाविर्भूतो नात्मलाभे किंचिदपेक्षते' येन तदभावे तस्य हानिस्तत्प्रकर्षे च वृद्धिरिति । तत्प्रतिषेधपरं प्रवचनं कृत्स्नकर्मक्षयकरणे सहकारिविशेषापेक्षणं कथं बाधते ? न च क्षायिकत्वं तत्र तदनपेक्षत्वेन व्याप्तं, क्षीणकषायदर्शनचारित्रयोः क्षायिकत्वेपि मुक्त्युत्पादने केवलापेक्षित्वस्य सुप्रसिद्धत्वात् । ताभ्यां तद्वाधकहेतोर्व्यभिचारात् । ततोति सहकारी तद्रत्नत्रयस्यापेक्षणीयो युक्त्यागमाविरुद्धत्वात् ॥ न च तेन विरुध्येत त्रैविध्यं मोक्षवर्त्मनः । विशिष्टकालयुक्तस्य तत्रयस्यैव शक्तितः ॥ ४६ ॥ क्षायिकरत्नत्रयपरिणामतो ह्यात्मैव क्षायिकरत्नत्रयं तस्य विशिष्ट कालापेक्षः शक्तिविशेषः ततोनार्थांतरं येन तत्सहितस्य दर्शनादित्रयस्य मोक्षवर्त्मनस्त्रैविध्यं विरुध्यते ॥ तेनायोगिजिनस्यांत्यक्षणवर्ति प्रकीर्तितम् । रत्नत्रयमशेषाघ विघातकरणं ध्रुवम् ॥ ४७ ॥ ततो नान्योस्ति मोक्षस्य साक्षान्मार्गो विशेषतः । पूर्वावधारणं येन न व्यवस्थामियर्ति नः ॥ ४८ ॥ नन्वेवमप्यवधारणे तदेकांतानुषंग इति चेत्, नायमनेकांतवादिनामुपालंभो नयार्पणादेकांतस्येष्ठत्वात्, प्रमाणार्पणादेवानेकांतस्य व्यवस्थितेः ॥ ज्ञानादेवाशरीरत्वसिद्धिरित्यवधारणम् । सहकारिविशेषस्यापेक्षयास्त्विति केचन ॥ ४९ ॥ तत्त्वज्ञानमेव निःश्रेयसहेतुरित्यवधारणमस्तु सहकारिविशेषापेक्षस्य तस्यैव निःश्रेयससंपादनसमर्थत्वात् । तथा सति समुत्पन्नतत्त्वज्ञानस्य योगिनः सहकारिविशेषसंनिधानात्पूर्वे स्थित्युपपत्तेरुपदेश - प्रवृत्तेरविरोधात्, तदर्थं रत्नत्रयस्य मुक्तिहेतुत्वकल्पनानर्थक्यात्, तत्कल्पनेपि सहकार्यपेक्षणस्यावश्यं भावित्वात्, तत्रयमेव मुक्तिहेतुरित्यवधारणं माभूदिति केचित् ॥ ९ Page #75 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०१ तेषां फलोपभोगेन प्रक्षयः कर्मणां मतः । सहकारिविशेषोस्य नासौ चारित्रतः पृथक् ॥ ५० ॥ ___ तत्त्वज्ञानान्मिथ्याज्ञानस्य सहजस्याहार्यस्य चानेकप्रकारस्य प्रतिप्रमेयं देशादिभेदादुद्भवतः प्रक्षयात्तद्धेतुकदोषनिवृत्तेः प्रवृत्त्यभावादनागतस्य जन्मनो निरोधादुपात्तजन्मनश्च प्राकृतधर्माधर्मयोः फलभोगेन प्रक्षयणात् सकलदुःखनिवृत्तिरात्यंतिकी मुक्तिः, दुःखजन्मनां प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनंतराभावान्निःश्रेयसमिति कैश्चिद्वचनात् , साक्षात्कार्यकारणभावोपलब्धेस्तत्त्वज्ञानान्निःश्रेयसमित्यपरैः प्रतिपादनात् , ज्ञानेन चापवर्ग इत्यन्यैरमिधानात् , विद्यात एवाविद्यासंस्कारादिक्षयान्निर्वाणमितीतरैरभ्युपगमात् , फलोपभोगेन संचितकर्मणां प्रक्षयः सम्यग्ज्ञानस्य मुक्त्युत्पत्ती सहकारी ज्ञानमात्रात्मकमोक्षकारणवादिनामिष्टो न पुनरन्योऽसाधारणः कश्चित् । स च फलोपभोगो यथाकालमुपक्रमविशेषाद्वा कर्मणां स्यात् ? न तावदाद्यः पक्ष इत्याह;भोक्तुः फलोपभोगो हि यथाकालं यदीष्यते । तदा कर्मक्षयः कातः कल्पकोटिशतैरपि ॥ ५१॥ न हि तजन्मन्युपात्तयोधर्माधर्मयोः जन्मांतरफलदानसमर्थयोर्यथाकालं फलोपभोगेन जन्मांतरादृते कल्पकोटिशतैरप्यात्यंतिकः क्षयः कर्तुं शक्यो विरोधात् । जन्मांतरे शक्य इति चेन्न, साक्षादुत्पन्नसकलतत्त्वज्ञानस्य जन्मांतरासंभवात् । न च तस्य तज्जन्मफलदानसमर्थत्वे च धर्माधर्मों प्रादुर्भवत इति शक्यं वक्तुं प्रमाणाभावात् । तजन्मनि मोक्षाहस्य कुतश्चिदनुष्ठानाद्धर्माधर्मों तज्जन्मफलदानसमर्थों प्रादुर्भवतः तज्जन्ममोक्षाहधर्माधर्मत्वादित्यप्ययुक्तं हेतोरन्यथानुपपत्त्यभावात् । यौ जन्मांतरफलदानसमर्थौ तौ न तजन्ममोक्षार्हधर्माधर्मों यथास्मदादिधर्माधर्मों इत्यस्त्येव साध्याभावे साधनस्यानुपपत्तिरिति चेत् , स्यादेवं, यदि तजन्ममोक्षार्हधर्माधर्मत्वं जन्मांतरफलदानसमर्थत्वेन विरुध्येत, नान्यथा । तस्य तेनाविरोधे तज्जन्मनि मोक्षार्हस्यापि मोक्षाभावप्रसंगाद्विरुध्यत एवेति चेत् न, तस्य जन्मांतरेषु फलदानसमर्थयोरपि धर्माधर्मयोरुपक्रमविशेषात् फलोपभोगेन प्रक्षये मोक्षोपपत्तेः । यदि पुनर्न यथाकालं तज्जन्ममोक्षार्हस्य धर्माधर्मों तज्जन्मनि फलदानसमौँ साध्येते, किं तद्युपक्रमविशेषादेव संचितकर्मणां फलोपभोगेन प्रक्षय ? इति पक्षांतरमायातम् ॥ विशिष्टोपक्रमादेव मतश्चेत्सोपि तत्त्वतः । समाधिरेव संभाव्यचारित्रात्मेति नो मतम् ॥५२॥ यस्मादुपक्रमविशेषात् कर्मणां फलोपभोगो योगिनोऽभिमतः स समाधिरेव तत्त्वतः संभाव्यते, समाधावुत्थापितधर्मजनितायामृद्धौ नानाशरीरादिनिर्माणद्वारेण संचितकर्मफलानुभवस्येष्टत्वात् । समाधिश्चारित्रात्मक एवेति चारित्रान्मुक्तिसिद्धेः सिद्धं स्याद्वादिनां मतं सम्यक्त्वज्ञानानंतरीयकत्वाच्चारित्रस्य ॥ सम्यग्ज्ञानं विशिष्टं चेत्समाधिः सा विशिष्टता । तस्य कर्मफलध्वंसशक्तिर्नामांतरं ननु ॥५३॥ मिथ्याभिमाननिर्मुक्तिर्ज्ञानस्येष्टं हि दर्शनम् । ज्ञानत्वं चार्थविज्ञप्तिश्चर्यात्वं कर्महंतता ॥५४॥ शक्तित्रयात्मकादेव सम्यग्ज्ञानाददेहता । सिद्धा रत्नत्रयादेव तेषां नामांतरोदितात् ॥ ५५ ॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सम्यग्ज्ञानं मिथ्याभिनिवेशमिथ्याचरणाभावविशिष्टमिति वा न कश्चिदर्थभेदः, प्रक्रियामात्रस्य भेदान्नामांतरकरणात् ।। एतेन ज्ञानवैराग्यान्मुक्तिप्राप्त्यवधारणम् । न स्याद्वादविघातायेत्युक्तं बोद्धव्यमंजसा ॥ ५६ ॥ तत्त्वज्ञानं. मिथ्याभिनिवेशरहितं सद्दर्शनमन्वाकर्षति, वैराग्यं तु चारित्रमेवेति रत्नत्रयादेव मुक्तिरित्यवधारणं बलादवस्थितं । “दुःखे विपर्यासमतिस्तृष्णा वा बंधकारणं । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छती"त्यप्यर्हन्मतसमाश्रयणमेवानेन निगदितं; दर्शनज्ञानयोः कथंचिद्भेदान्मतांतरासिद्धेः ॥ Page #76 -------------------------------------------------------------------------- ________________ • प्रथमोऽध्यायः । ६७ न चात्र सर्वथैकत्वं ज्ञानदर्शनयोस्तथा । कथंचिद्भेदसंसिद्धिर्लक्षणादिविशेषतः ॥ ५७ ॥ न हि भिन्नलक्षणत्वं भिन्नसंज्ञासंख्या प्रतिभासत्वं वा कथंचिद्भेदं व्यभिचरति; तेजोंभसोर्भिन्नलक्षणयोरेकपुद्गलद्रव्यात्मकत्वेपि पर्यायार्थतो भेदप्रतीतेः शक्रपुरंदरादिसंज्ञाभेदिनो देवराजार्थस्यैकत्वेपि शकनपूर्दारणादिपर्यायतो भेदनिश्चयात्; जलमाप इति भिन्नसंख्यस्य तोयद्रव्यस्यैकत्वेपि शक्त्यैकत्वनानात्वपर्यायतो भेदस्याप्रतिहतत्वात्, स्पष्टास्पष्टप्रतिभासविषयस्य पादपस्यैकत्वेपि तथाग्राह्यत्वपर्यायार्थादेशान्नानात्वव्यवस्थितेः । अन्यथा खेष्टतत्त्वभेदासिद्धेः सर्वमेकमासज्येत । इति क्वचित्कस्यचित्कुतश्चिद्भेदं साधयता लक्षणादिभेदाद्दर्शनज्ञानयोरपि भेदोभ्युपगंतव्यः ॥ तत एव न चारित्रं ज्ञानं तादात्म्यमृच्छति । पर्यायार्थप्रधानत्वविवक्षातो मुनेरिह || ५८ न ज्ञानं चारित्रात्मकमेव ततो भिन्नलक्षणत्वाद्दर्शनवदित्यत्र न खसिद्धांतविरोधः पर्यायार्थप्रधानत्वस्येह सूत्रे सूत्रकारेण विवक्षितत्वात् ॥ द्रव्यार्थस्य प्रधानत्वविवक्षायां तु तत्त्वतः । भवेदात्मैव संसारो मोक्षस्तद्धेतुरेव च ॥ ५९ ॥ तथा च सूत्रकारस्य क्व तद्भेदोपदेशना | द्रव्यार्थस्याप्यशुद्धस्यावतराभेदसंश्रयात् ॥ ६० ॥ यथा समस्तैक्य संग्रहो द्रव्यार्थिकः शुद्धस्तथावांतरेक्यग्रहोप्यशुद्ध इति तद्विवक्षायां संसारमोक्षतदुपायानां भेदाप्रसिद्धेरात्मद्रव्यस्यैवैकस्य व्यवस्थानात्तद्भेददेशना व व्यवतिष्ठेत ? ततः सैव सूत्रकारस्य पर्यायार्थप्रधानत्वविवक्षां गमयति, तामंतरेण भेददेशनानुपपत्तेः । ये तु दर्शन ज्ञानयोर्ज्ञानचारित्रयोर्वा सर्वथैकत्वं प्रतिपद्यंते ते कालाभेदाद्देशा भेदात्सामानाधिकरण्याद्वा ? गत्यंतराभावात् । न चैते सद्धेतवोऽनैकांतिकत्वाद्विरुद्धत्वाच्चेति निवेदयति ; कालाभेदादभिन्नत्वं तयोरेकांततो यदि । तदैकक्षणवृत्तीनामर्थानां भिन्नता कुतः ॥ ६१ ॥ देशाभेदाद भेदश्चेत्कालाकाशादिद्भिन्नता । सामानाधिकरण्याच्चेत्तत एवास्तु भिन्नता ।। ६२ । सामानाधिकरण्यस्य कथंचिद्भिदया विना । नीलतोत्पलतादीनां जातु क्वचिददर्शनात् ॥६३॥ न हि नीलतोत्पलत्वादीनामेकद्रव्यवृत्तितया सामानाधिकरण्यं कथंचिद्भेदमंतरेणोपपद्यते, येनैकजीवद्रव्यवृत्तित्वेन दर्शनादीनां सामानाधिकरण्यं तथाभेदसाधनाद्विरुद्धं न स्यात् ॥ मिथ्याश्रद्धानविज्ञानचर्याविच्छित्तिलक्षणम् । कार्य भिन्नं हगादीनां नैकांताभिदि संभव ||६४ || सद्दर्शनस्य हि कार्यं मिथ्या श्रद्धानविच्छित्तिः, संज्ञानस्य मिथ्याज्ञानविच्छित्तिः, सच्चारित्रस्य मिथ्याचरणविच्छित्तिरिति च भिन्नानि दर्शनादीनि भिन्नकार्यत्वात्सुखदुःखादिवत् । पावकादिनाकांत इ चेन्न, तस्यापि स्वभावभेदमंतरेण दाहपाकाद्यनेककार्यकारित्वायोगात् । दृड्मोहविगमज्ञानावरणध्वंसवृत्तमुट्- । संक्षयात्मकहेतोश्च भेदस्तद्भद सिद्ध्यति ।। ६५ ॥ दर्शनमोहविगमज्ञानावरणध्वंस वृत्तमोहसंक्षयात्मका हेतवो दर्शनादीनां भेदमंतरेण न हि परस्परं भिन्ना घटंते येन तद्भेदात्तेषां कथंचिद्भेदो न सिद्ध्येत् । चक्षुराद्यनेककारणेनैकेन रूपज्ञानेन व्यभिचारी कारणभेदो भिदि साध्यायामिति चेन्न, तस्यानेकखरूपत्वसिद्धेः । कथमन्यथा भिन्नयवादिवीजकारणा यवांकुरादयः सिद्ध्येयुः परस्परभिन्नाः । न चैककारणनिष्पाद्ये कार्यैकस्वरूपे कारणांतरं प्रवर्तमानं सफलं । सहकारित्वात्सफलमिति चेत्, किं पुनरिदं सहकारिकारणमनुपकारकमपेक्षणीयं ? तदुपादानस्यो - १ कुतः स्यादिति शेषः । Page #77 -------------------------------------------------------------------------- ________________ ६८ तत्त्वार्थश्लोकवार्तिके [सू०१ पकारकं तदिति चेन्न, तत्कारणत्वानुषंगात् । साक्षात्कार्ये व्याप्रियमाणमुपादानेन सह तत्करणशीलं हि सहकारि, न पुनः कारणमुपकुर्वाणं । तस्य कारणकारणत्वेनानुकूलकारणत्वादिति चेत् , तर्हि सहकारिसाध्यरूपतोपादानसाध्यरूपतायाः परा प्रसिद्धा कार्यस्येति न किंचिदनेककारणमेकखभावं, येन हेतोळभिचारित्वाद्दर्शनादीनां स्वभावभेदो न सिद्ध्येत् ॥ तेषां पूर्वस्य लाभेपि भाज्यत्वादुत्तरस्य च । नैकांतेनैकता युक्ता हर्षामर्षादिभेदवत् ॥६६॥ न चेदमसिद्धं साधनम् ;तत्त्वश्रद्धानलाभे हि विशिष्टं श्रुतमाप्यते । नावश्यं नापि तल्लाभे यथाख्यातममोहकम् ॥६७ ॥ । न ह्येवं विरुद्धधर्माध्यासेपि दर्शनादीनां सर्वथैकत्वं युक्तमतिप्रसंगात् । न च स्याद्वादिनः किंचिद्विरुद्धधर्माधिकरणं सर्वथैकमस्ति तस्य कथंचिद्भिन्नरूपत्वव्यवस्थितेः । न च सत्त्वादयो धर्मा निर्वाधबोधोपदर्शिताः क्वचिदेकत्रापि विरुद्धा येन विरुद्धधर्माधिकरणमेकं वस्तु परमार्थतः न सिचेत् । अनुपलंभसाधनत्वात् सर्वत्र विरोधस्यान्यथा खभावेनापि स्वभाववतो विरोधानुषंगात् । ततो न विरुद्धधर्माध्यासो व्यभिचारी ॥ नन्वेवमुत्तरस्यापि लाभे पूर्वस्य भाज्यता । प्राप्ता ततो न तेषां स्यात्सह निर्वाणहेतुता ॥६८॥ न हि पूर्वस्य लाभे भजनीयमुत्तरमुत्तरस्य तु लाभे नियतः पूर्वलाभ इति युक्तं, तद्विरुद्धधर्माध्यास स्याविशेषात् , उत्तरस्यापि लाभे पूर्वस्य भाज्यताप्राप्तरित्यस्याभिमननम् ॥ तत्रोपादीयसंभूतेरुपादानास्तिता गतेः । कटादिकार्यसंभूतेस्तदुपादानसत्त्ववत् ॥ ६९ ॥ उपादेयं हि चारित्रं पूर्वज्ञानस्य वीक्षते । तद्भावभावितादृष्टेस्तद्वज्ज्ञानदृशो मतम् ॥ ७० ॥ न हि तद्भावभावितायां दृष्टायामपि कस्यचित्तदुपादेयता नास्तीति युक्तं, कटादिवत् सर्वस्यापि वीरणाद्युपादेयत्वाभावानुषक्तेः । न चोपादेयसंभूतिरुपादानास्तितां न गमयति कटादिसंभूतेर्वीरणाद्यस्तित्वस्यागतिप्रसंगात् , येनोत्तरस्योपादेयस्य लाभे पूर्वलाभो नियतो न भवेत् । तत एवोपादानस्य लाभे नोत्तरस्य नियतो लाभः कारणानामवश्यं कार्यवत्त्वाभावात् । समर्थस्य कारणस्य कार्यवत्त्वमेवेति चेन्न, तस्येहाविवक्षितत्वात् । तद्विवक्षायां तु पूर्वस्य लाभे नोत्तरं भजनीयमुच्यते खयमविरोधात् । इति दर्शनादीनां विरुद्धधर्माध्यासाविशेषेप्युपादानोपादेयभावादुत्तरं पूर्वास्तितानियतं न तु पूर्वमुत्तरास्तित्वगमकम् ॥ ननूपादेयसंभूतिरुपादानोपमर्दनात् । दृष्टेति नोत्तरोद्भूतौ पूर्वस्यास्तित्वसंगतिः ॥ ७१ ॥ सत्यप्युपादानोपादेयभावे दर्शनादीनां नोपादेयस्य संभवः पूर्वस्यास्तितां खकाले गमयति तदुपमर्दनेन तदुद्भूतेः । अन्यथोत्तरप्रदीपज्वालादेरस्तित्वप्रसक्तिः । तथा च कुतस्तत्कार्यकारणभावः समानकालत्वात् सव्येतरगोविषाणवदित्यस्याकूतम् ॥ सत्यं कथंचिदिष्टत्वात्प्राङ्गाशस्योत्तरोद्भवे । सर्वथा तु न तन्नाशः कार्योत्पत्तिविरोधतः॥७२॥ ज्ञानोत्पत्तौ हि सदृष्टिस्तद्विशिष्टोपजायते । पूर्वाविशिष्टरूपेण नश्यतीति सुनिश्चितम् ॥ ७३ ॥ चारित्रोत्पत्तिकाले च पूर्वदृग्ज्ञानयोश्युतिः । चर्याविशिष्टयोभूतिस्तत्सकृत्रयसंभवः ॥ ७४ ॥ दर्शनपरिणामपरिणतो ह्यात्मा दर्शनं, तदुपादानं विशिष्टज्ञानपरिणामस्य निष्पत्तेः पर्यायमात्रस्य निरन्वयस्य जीवादिद्रव्यमात्रस्य च सर्वथोपादानत्वायोगात् कूर्मरोमादिवत् । तत्र नश्यत्येव दर्शनपरिणामे विशिष्टज्ञानात्मतयात्मा परिणमते, विशिष्टज्ञानासहचारितेन रूपेण दर्शनस्य विनाशात्तत्सहचरितेन Page #78 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । रूपणोत्पादात् । अन्यथा विशिष्टज्ञान सहचरितरूपतयोत्पत्तिविरोधात् पूर्ववत् । तथा दर्शनज्ञानपरिणतो जीवो दर्शनज्ञाने, ते चारित्रस्योपादानं, पर्यायविशेषात्मकस्य द्रव्यस्योपादानत्वप्रतीतेर्घटपरिणमनसमर्थपर्यायात्मकमृद्द्रव्यस्य घटोपादानवत्त्ववत् । तत्र नश्यतोरेव दर्शनज्ञानपरिणामयोरात्मा चारित्रपरिणाममियर्ति चारित्रासहचरितेन रूपेण तयोर्विनाशाच्चारित्रसहचरितेनोत्पादात् । अन्यथा पूर्ववच्चारित्रासहचरितरूपत्व• प्रसंगात् । इति कथंचित्पूर्वरूपविनाशस्योत्तरपरिणामोत्पत्त्यविशिष्टत्वात् सत्यमुपादानोपमर्दनेनोपादेयस्य भवनं । न चैवं सकृद्दर्शनादित्रयस्य संभवो विरुध्यते चारित्रकाले दर्शनज्ञानयोः सर्वथा विनाशाभावात् । एतेन सकृद्दर्शनज्ञानद्वयसंभवोपि क्वचिन्न विरुध्यते इत्युक्तं वेदितव्यं, विशिष्टज्ञान कार्यस्य दर्शनस्य सर्वथा विनाशानुपपत्तेः, कार्यकालमप्राप्नुवतः कारणत्वविरोधात् प्रलीनतमवत्, ततः कार्योत्पत्तेरयोगाद्गत्यंतरासंभवात् ॥ नन्वत्र क्षायिकी दृष्टिर्ज्ञानोत्पत्तौ न नश्यति । तदपर्यंतताहानेरित्यसिद्धांतविद्वचः ॥ ७५ ॥ क्षायिकदर्शनं ज्ञानोत्पत्तौ न नश्यत्येवानंतत्वात् क्षायिकज्ञानवत्, अन्यथा तदपर्यन्तत्वस्यागमोक्तस्य हानिप्रसंगात् । ततो न दर्शनज्ञानयोर्ज्ञानचारित्रयोर्वा कथंचिदुपादानोपादेयता युक्ता । इति ब्रुवाण न सिद्धान्तवे || ६९ सिद्धान्ते क्षायिकत्वेन तदपर्यन्ततोक्तितः । सर्वथा तदविध्वंसे कौटस्थ्यस्य प्रसङ्गतः ॥ ७६ ॥ तथोत्पादव्ययधौव्ययुक्तं सदिति हीयते । प्रतिक्षणमतो भावः क्षायिकोपि त्रिलक्षणः ॥७७॥ ननु च पूर्वसमयोपाधितया क्षायिकस्य भावस्य विनाशादुत्तरसमयोपाधितयोत्पादात्खखभावेन सदा स्थानात्रिलक्षणत्त्वोपपत्तेः, न सिद्धान्तमनवबुध्य क्षायिकदर्शनस्य ज्ञानकाले स्थितिं ब्रूते येन तथा वचो - ऽसिद्धान्तवेदिनः स्यादिति चेत्; पूर्वोत्तरक्षणोपाधिस्वभावक्षयजन्मनोः । क्षायिकत्वेनावस्थाने स यथैव त्रिलक्षणः ॥ ७८ ॥ तथा हेत्वन्तरोन्मुक्तयुक्तरूपेण विच्युतौ । जातौ च क्षायिकत्वेन स्थितौ किमु न तादृशः ॥ ७९ ॥ क्षायिकदर्शनं तावन्मुक्तेर्हेतुस्ततो हेत्वन्तरं विशिष्टं ज्ञानं चारित्रं च तदुन्मुक्तरूपेण तस्य नाशे तद्युक्तरूपेण जन्मनि क्षायिकत्वेन स्थाने त्रिलक्षणत्वं भवत्येव तथा क्षायिकदर्शनज्ञानद्वयस्य मुक्तिहेतोदर्शनज्ञानचारित्रत्रयस्य वा हेत्वंतरं चारित्रमघातित्रयनिर्जराकारी क्रियाविशेषः कालादिविशेषश्च, तेनोन्मुक्तया प्राक्तन्या युक्तरूपया चोत्तरया नाशे जन्मनि च क्षायिकत्वेन स्थाने वा तस्य त्रिलक्षणत्वमनेन व्याख्यातमिति क्षायिको भावस्त्रिलक्षणः सिद्धः । ननु तस्य हेत्वंतरेणोन्मुक्तता हेत्वंतरस्य प्रागभाव एव तेन युक्तता तदुत्पाद एव, नचान्यस्याभावोत्पादौ क्षायिकस्य युक्तौ, येनैवं त्रिलक्षणता स्यात् । इति चेत्; तर्हि पूर्वोत्तर समययोस्तदुपाधिभूतयोर्नाशोत्पादौ कथं तस्य स्यातां यतोऽसौ स्वयं स्थितोपि सर्वतदपेक्षया त्रिलक्षणः स्यादिति कौटस्थ्यमायातम् । तथा च सिद्धान्तविरोधः परमतप्रवेशात् । यदि पुनस्तस्य पूर्वसमयेन विशिष्टतोत्तरसमयेन च तत्खभावभूतता ततस्तद्विनाशोत्पादौ तस्येति मतं, तदा हेत्वंतरेणोन्मुक्तता युक्तता च तद्भावेन तद्भावेन च विशिष्टता तस्य स्वभावभूततैवेति तन्नाशोत्पादौ कथं न तस्य स्यातां यतो नैवं त्रिलक्षणोसौ भवेत् । ततो युक्तं क्षायिकानामपि कथंचिदुपादानोपादेयत्त्वम् । कारणं यदि सदृष्टिः सद्बोधस्य तदा न किम् । तदनन्तरमुत्पादः केवलस्येति केचन ॥ ८० ॥ तदसत्तत्प्रतिद्वंद्विकर्माभावे तथेष्टितः । कारणं हि स्वकार्यस्याप्रतिबंधिप्रभावकम् ॥ ८१ ॥ Page #79 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १ न हि क्षायिकदर्शनं केवलज्ञानावरणादिभिः सहितं केवलज्ञानस्य प्रभवं प्रयोजयति, तैस्तत्प्रभावत्वाशक्तेस्तस्य प्रतिबंधात् येन तदनंतरं तस्योत्पादः स्यात् । तैर्विमुक्तं तु दर्शनं केवलस्य प्रभावकमेव तथेष्टत्वात्, कारणस्याप्रतिबंधस्य स्वकार्यजनकत्वप्रतीतेः । ७० सद्बोधपूर्वकत्वेपि चारित्रस्य समुद्भवः । प्रागेव केवलान स्यादित्येतच्च न युक्तिमत् ॥ ८२ ॥ समुच्छिन्नक्रियस्यातो ध्यानस्याविनिवर्तिनः । साक्षात्संसारविच्छेदसमर्थस्य प्रसूतिः ||८३ || यथैवापूर्णचारित्रमपूर्णज्ञानहेतुकम् । तथा तत्किन्न संपूर्ण पूर्णज्ञाननिबंधनम् ॥ ८४ ॥ तन्न ज्ञानपूर्वकतां चारित्रं व्यभिचरति । प्रागेव क्षायिकं पूर्ण क्षायिकत्वेन केवलात् । नत्वघातिप्रतिध्वंसिकरणोपेतरूपतः ॥ ८५ ॥ केवलात्तत्प्रागेव क्षायिकं यथाख्यातचारित्रं सम्पूर्ण ज्ञानकारणकमिति न शंकनीयं तस्य मुक्त्यु - त्पादने सहकारिविशेषापेक्षितया पूर्णत्वानुपपत्तेः । विवक्षितस्वकार्यकरणेंत्यक्षणप्राप्तत्वं हि संपूर्ण, तच्च न केवलात्प्रागस्ति चारित्रस्य, ततोऽप्यूर्ध्वमघातिप्रतिध्वंसिकरणोपेतरूपतया संपूर्णस्य तस्योदयात् । न च ‘यथाख्यातं पूर्णं चारित्रमिति प्रवचनस्यैवं बाधास्ति' तस्य क्षायिकत्वेन तत्र पूर्णत्वाभिधानात् । नहि सकलमोहक्षयादुद्भवच्चारित्रमंशतोपि मलवदिति शश्वदमलवदात्यंतिकं तदभिष्टूयते । कथं पुनस्तदसंपूर्णादेव ज्ञानात्क्षायोपशमिकादुत्पद्यमानं तथापि संपूर्णमिति चेत् न, सकलश्रुताशेषतत्त्वार्थपरिच्छेदिनस्तस्योत्पत्तेः । पूर्ण तत एव तदस्त्विति चेन्न, विशिष्टस्य रूपस्य तदनंतरमभावात् । किं तद्विशिष्टं रूपं चारित्रस्येति चेत्, नामाद्यघातिकर्मत्रयनिर्जरणसमर्थं समुच्छिन्नक्रियाप्रतिपातिध्यानमित्युक्तप्रायं । तद्रूपावरणं कर्म नवमं न प्रसज्यते । चारित्रमोहनीयस्य क्षयादेव तदुद्भवात् ॥ ८६ ॥ यद्यदात्मकं तत्तदावरककर्मणः क्षयादुद्भवति, यथा केवलज्ञानखरूपं तदावरणकर्मणः क्षयात् । चारित्रात्मकं च प्रकृतमात्मनो रूपमिति चारित्रमोहनीयकर्मण एव क्षयादुद्भवति । न पुनस्तदावरणं कर्म नवमं प्रसज्यतेऽन्यथातिप्रसङ्गात् । क्षीणमोहस्य किं न स्यादेवं तदिति चेन्न वै । तदा कालविशेषस्य तादृशोऽसम्भवित्वतः ||८७|| तथा केवलबोधस्य सहायस्याप्यसंभवात् । स्वसामग्रया विना कार्य नहि जातुचिदीक्ष्यते ॥ ८८ ॥ कालादिसामग्रीको हि मोहक्षयस्तद्रूपाविर्भावहेतुर्न केवलस्तथाप्रतीतेः । क्षीणेपि मोहनीयाख्ये कर्मणि प्रथमक्षणे । यथा क्षीणकषायस्य शक्तिरन्त्यक्षणे मता ॥ ८९ ॥ ज्ञानावृत्यादिकर्माणि हंतुं तद्वदयोगिनः । पर्यंतक्षण एव स्याच्छेषकर्मक्षयेऽप्यसौ ॥ ९० ॥ कर्मनिर्जरणशक्तिर्जीवस्य सम्यग्दर्शने सम्यग्ज्ञाने सम्यकूचारित्रे चान्तर्भवेत्ततोन्या वा स्यात् । तत्र न तावत् सम्यग्दर्शने ज्ञानावरणादिकर्मप्रकृति चतुर्दशकनिर्जरणशक्तिरन्तर्भवत्य संयतसम्यग्दृष्ट्याद्यप्रमत्तपर्यंतगुणस्थानेष्वन्यतमगुणस्थाने दर्शनमोहक्षयात्तदाविर्भावप्रसक्तेः । ज्ञाने सान्तर्भवतीति चायुक्तं, क्षायिकेनैतदन्तर्भावे सयोगिकेवलिनः केवलेन सहाविर्भावापत्तेः । क्षायोपशमिके तदन्तर्भावे तेन सहोत्पादप्रसक्तेः । क्षायोपशमिके चारित्रे तदन्तर्भावे तेनैव सह प्रादुर्भावानुषंगात् । क्षायिके तदन्तर्भावे क्षीणकषायस्य प्रथमे क्षणे तदुद्भूतेर्निद्राप्रचलयोर्ज्ञानावरणादिप्रकृतिचतुर्दश कस्य च निर्जरणप्रसक्तेर्नोपांत्य समये अन्त्यक्षणे च तन्निर्जरा स्यात् । दर्शनादिषु तदनन्तर्भावे तदावारकं कर्मान्तरं प्रसज्येत, दर्शनमोहज्ञानावरणचारित्रमोहानां तदावारकत्वानुपपत्तेः । वीर्यान्तरायस्तदावारक इति चेन्न, तत्क्षयानन्तरं तदुद्भवप्रसंगात् । तथाचान्योन्याश्रयणं — सति वीर्यान्तरायक्षये तन्निर्जरणशक्त्याविर्भावस्तस्मिंश्च सति वीर्यान्तरायक्षय Page #80 -------------------------------------------------------------------------- ________________ • प्रथमोऽध्यायः । इति । एतेनः ज्ञानावरणप्रकृतिपंचकदर्शनावरणप्रकृतिचतुष्टयान्तरायप्रकृतिपंचकानां तन्निर्जरणशक्तेरावारकत्वेऽन्योन्याश्रयणं व्याख्यातम् । नामादिचतुष्टयं तु न तस्याः प्रतिबंधकम् तस्यात्मस्वरूपाघातित्वेन कथनात् । न च सर्वथानावृत्तिरेव सा सर्वदा तत्क्षयणीयकर्मप्रकृत्यभावानुषंगात् । स्यान्मतं, चारित्रमोहक्षये तदाविर्भावाच्चारित्र एवान्तर्भावो विभाव्यते । न च क्षीणकषायस्य प्रथमसमये तदाविर्भावप्रसंगः कालविशेषापेक्षत्वात्तदाविर्भावस्य । प्रधानं हि कारणं मोहक्षयस्तदाविर्भावे सहकारिकारणमंत्यसमयमन्तरेण न तत्र समर्थ, तद्भाव एव तदाविर्भावादिति । तर्हि नामाद्यघातिकर्मनिर्जरणशक्तिरपि चारित्रेन्तर्भाव्यते । तन्नापि क्षायिके न क्षायोपशमिके दर्शने नापि ज्ञाने क्षायोपशमिके क्षायिके वा तेनैव सह तदाविर्भावप्रसंगात् । न चानावरणा सा सर्वदाविर्भावप्रसंगात् संसारानुपपत्तेः । न ज्ञानदर्शनावरणान्तरायैः प्रतिबद्धा तेषां ज्ञानादिप्रतिबंधकत्वेन तदप्रतिबंधकत्वात् । नापि नामाद्यघातिकर्मभिस्तत्क्षयानंतरं तदुत्पादप्रसक्तेः । तथा चान्योन्याश्रयणात् सिद्धे नामाद्यघातिक्षये तन्निर्जरणशक्त्तत्याविर्भावात्तत्सिद्धौ नामाद्यघातिक्षयात् । इति चारित्रमोहस्तस्याः प्रतिबंधकः सिद्धः । क्षीणकषायप्रथमसमये तदाविर्भावप्रसक्तिरपि न वाच्या, कालविशेषस्य सहकारिणोपेक्षणीयस्य तदा विरहात् । प्रधानं हि कारणं मोहक्षयो नामादिनिर्जरणशक्तेर्नायोग के वलिगुणस्थानोपान्त्यान्त्यसमयं सहकारिणमन्तरेण तामुपजनयितुमलं सत्यपि केवले ततः प्राक्तदनुत्पत्तेरिति । न सा मोहक्षयनिमित्तापि क्षीणकषायप्रथमक्षणे प्रादुर्भवति, नापि तदावरणं कर्म नवमं प्रसज्यते इति स्थितं कालादिसहकारिविशेषापेक्षक्षायिकं चारित्रं क्षायिकत्वेन संपूर्णमपि मुक्त्युत्पादने साक्षादसमर्थम् केवलात्प्राक्कालभावि तदकारकम् केवलोत्तरकालाभावि तु साक्षान्मोक्षकारणं संपूर्ण केवलकारणकमन्यथा तदघटनात् । I कालापेक्षितया वृत्तमसमर्थ यदीष्यते । व्यादिसिद्धक्षणोत्पादे तदन्त्यं तादृगित्यसत् ॥ ९१ ॥ प्राच्यसिद्धक्षणोत्पादापेक्षया मोक्षवर्त्मनि । विचारप्रस्तुतेरेवं कार्यकारणतास्थितेः ॥ ९२ ॥ नहि द्यादिसिद्धक्षणैः सहायोगिकेवलिचरमसमयवर्तिनो रत्नत्रयस्य कार्यकारणभावो विचारयितुमुपक्रांतो येन तत्र तस्यासामर्थ्यं प्रसज्यते । किं तर्हि ? प्रथम सिद्धक्षणेन सह; तत्र च तत्समर्थमेवेत्यसच्चोद्यमेतत् । कथमन्यथाग्निः प्रथमधूमक्षणमुपजनयन्नपि तत्र समर्थः स्यात् ? धूमक्षणजनितद्वितीयादिधूमक्षणोत्पादे तस्यासमर्थत्वेन प्रथमधूमक्षणोत्पादनेप्यसामर्थ्यप्रसक्तेः । तथा च न किंचित्कस्यचित्समर्थ कारणं, न चासमर्थात्कारणादुत्पत्तिरिति क्केयं वराकी तिष्ठेत्कार्यकारणताः कालान्तरस्थायिनोऽग्नेः खकारणादुत्पन्नो धूमः कालान्तरस्थायी स्कन्ध एक एवेति स तस्य कारणं प्रतीयते तथा व्यवहारादन्यथा तदभावादिति चेत्, तर्हि सयोगिकेवलिरत्नत्रयमयोगिकेवलिचरमसमयपर्यंतमेकमेव तदनन्तर्भाविनः सिद्धत्व पर्यायस्यानंतस्यैकस्य कारणमित्यायातम्, तच्च नानिष्टम्, व्यवहारनयानुरोधतस्तथेष्टत्वात् । निश्चय नयाश्रयणे तु यदनन्तरं मोक्षोत्पादस्तदेव मुख्यं मोक्षस्य कारणमयोगिकेवलिचरमसमयवर्ति रत्नत्रयमिति निरवद्यमेतत्तत्त्ववि - दामाभासते । ७१ ततो मोहक्षयोपेतः पुमानुद्भूत केवलः । विशिष्टकारणं साक्षादशरीरत्वहेतुना ॥ ९३ ॥ रत्नत्रितयरूपेणायोगकेवलिनोंति । क्षणे विवर्तते ह्येतदबाध्यं निश्चितान्नयात् ॥ ९४ ॥ व्यवहारनयाश्रित्या त्वेतत्प्रागेव कारणम् । मोक्षस्येति विवादेन पर्याप्तं तत्त्ववेदिनाम् || ९५|| संसारकारणत्रित्वासिद्धेर्निर्वाणकारणे । त्रित्वं नैवोपपद्येतेत्यचोद्यं न्यायदर्शिनः ॥ ९६ ॥ आद्यसूत्रस्य सामर्थ्याद्भवहेतोस्त्रयात्मनः । सूचितस्य प्रमाणेन बाधनानवतारतः ॥ ९७ ॥ Page #81 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १ 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्याद्यसूत्रसामर्थ्यात् मिथ्यादर्शनज्ञानचारित्राणि संसारमार्ग इति सिद्धेः सिद्धमेव संसारकारणत्रित्वं बाधकप्रमाणाभावात्ततो न संसारकारणत्रित्वासिद्धेर्निर्वाणकारणत्रित्वानुपपत्तिचोदना कस्यचिन्यायदर्शितामावेदयति । विपर्ययमात्रमेव विपर्ययावैराग्यमात्रमेव वा संसारकारणमिति व्यवस्थापयितुमशक्तेर्न संसारकारणत्रित्वस्य बाधास्ति । तथाहि । ७२ मौलो हेतुर्भवस्येष्टो येषां तावद्विपर्ययः । तेषामुद्भूतबोधस्य घटते न भवस्थितिः ॥ ९८ ॥ अतस्मिंस्तग्रहो विपर्ययः, स दोषस्य रागादेर्हेतु:, तद्भावे भावात्तदभावेऽभावात् । सोप्यदृष्टस्याशुद्धकर्मसंज्ञितस्य, तदपि जन्मनस्तद्दुःखस्यानेकविधस्येति मौलो भवस्य हेतुर्विपर्यय एव एषामभिमतस्तेषां तावदुद्भूततत्त्वज्ञानस्य योगिनः कथमिह भवे स्थितिर्घटते कारणाभावे कार्योत्पत्तिविरोधात् । संसारे तिष्ठतस्तस्य यदि कश्चिद्विपर्ययः । संभाव्यते तदा किन दोषादिस्तन्निबंधनः ॥ ९९ ॥ समुत्पन्नतत्त्वज्ञानस्याप्यशेषतोऽनागतविपर्ययस्यानुत्पत्तिर्न पुनः पूर्वभवोपात्तस्य पूर्वाधर्मनिबंधनस्य, ततोऽस्य भवस्थितिर्घटत एवेति सम्भावनायां तद्विपर्ययनिबंधनो दोषस्तद्दोषनिबंधनं चादृष्टं तददृष्टनिमित्तं च जन्म तज्जन्मनिमित्तं च दुःखमनेकप्रकारं किन्न संभाव्यते ? नहि पूर्वोपात्तो विपर्यासस्तिष्ठति न पुनस्तन्निबंधनः पूर्वोपात्त एव दोषादिरिति प्रमाणमस्ति तत्स्थितेरेव प्रमाणतः सिद्धेः । तथा सति कुतो ज्ञानी वीतदोषः पुमान्परः । तत्त्वोपदेशसंतानहेतुः स्याद्भवदादिषु ॥ १०० ॥ पूर्वोपात्तदोषादिस्थितौ च तत्त्वोपदेश संप्रदायाविच्छेदहेतोर्भवदादिषु विनेयेषु सर्वज्ञस्यापि परमपुरुषस्य कुतो वीतदोषत्वं येनाज्ञोपदेशविप्रलंभनशकिभिस्तदुक्तप्रतिपत्तये प्रेक्षावद्भिर्भवद्भिः स एव मृग्यते । यदि पुनर्न योगिनः पूर्वोपात्तो विपर्ययोस्ति नापि दोषस्तस्य क्षणिकत्वेन खकार्यमदृष्टं निर्वर्त्य निवृत्तेः, किं तर्ह्यदृष्टमेव तत्कृतमास्ते तस्याक्षणिकत्वादंत्येनैव कार्येण विरोधित्वात्तत्कार्यस्य च जन्मफलानुभवनस्योपभोगेनैव निवृत्तेस्ततः पूर्वं तस्यावस्थितिरिति मतं; तदा तत्त्वज्ञानोत्पत्तेः प्राक्तस्मिन्नेव जन्मनि विपर्ययो न स्यात्पूर्वजन्मन्येव तस्य निवृत्तत्वात्, तद्वद्दोषोपीत्यापतितं, तत्कृतादृष्टस्यैव स्थितेः । न चैतद्युक्तं, प्रतीतिविरोधात् । यदि पुनः पूर्वजन्मविपर्ययाद्दोषस्ततोप्यधर्मस्तस्मादिह जन्मनि मिथ्याज्ञानं ततोऽपरो दोषस्ततोप्यधर्मस्तस्मादपरं मिथ्याज्ञानमिति तावदस्य संतानेन प्रवृत्तिर्यावत्तत्त्वज्ञानं साक्षादुत्पद्यते इति मतं; तदा तत्त्वज्ञानकालेऽपि तत्पूर्वानंतरविपर्यासाद्दोषोत्पत्तिस्ततोप्यधर्मस्ततोऽन्य विपर्यय इंति कुतस्तत्त्वज्ञानादनागतविपर्ययादिनिवृत्तिः ? वितथाग्रहरागादिप्रादुर्भावनशक्तिभृत् । मौलो विपर्ययो नांत्य इति केचित्प्रपेदिरे ॥ १०१ ॥ मौल एव विपर्ययो वितथाग्रहरागादिप्रादुर्भावनशक्तिं बिभ्राणो मिथ्याभिनिवेशात्मकं दोषं जनयति, स चाधर्ममधर्मश्च जन्म तच्च दुःखात्मकं संसारं; न पुनरंत्यः क्रमादपकृष्यमाणतज्जननशक्तिकविपर्ययादुत्पन्नस्तज्जननशक्तिरहितोपि यतस्तत्त्वज्ञानकाले मिथ्याभिनिवेशात्मकदोषोत्पत्तिस्ततोप्यधर्मादिरुत्पद्येतेति केचित्संप्रतिपन्नाः । तेषां प्रसिद्ध एवायं भवहेतुस्त्रयात्मकः । शक्तित्रयात्मतापाये भवहेतुत्वहानितः ॥ १०२ ॥ य एव विपर्ययो मिथ्याभिनिवेशरागाद्युत्पादनशक्तिः स एव भवहेतुर्नान्य इति वदतां प्रसिद्धो मिथ्यादर्शनज्ञानचारित्रात्मको भवहेतुर्मिथ्याभिनिवेशशक्तेरेव मिथ्यादर्शनत्वान्मिथ्यार्थग्रहणस्य स्वयं विपर्ययस्य मिथ्याज्ञानत्वाद्रागादिप्रादुर्भवनसामर्थ्यस्य मिथ्याचारित्रत्वात् ॥ , Page #82 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ७३ ततो मिथ्याग्रहावृत्तशक्तियुक्तो विपर्ययः । मिथ्यार्थग्रहणाकारो मिथ्यात्वादिभिदोदितः ॥१०३॥ न हि नाममात्रे विवादः स्याद्वादिनोस्ति क्वचिदेकत्रार्थे नानानामकरणस्याविरोधात् । तदर्थे तु न विवादोस्ति मिथ्यात्वादिभेदेन विपर्ययस्य शक्तित्रयात्मकस्येरणात् ॥ तथा विपर्ययज्ञानासंयमात्मा विबुध्यताम् । भवहेतुरतत्त्वार्थश्रद्धाशक्तित्रयात्मकः ॥ १०४ ॥ यावेव विपर्ययासंयमौ वितथार्थश्रद्धानशक्तियुतौ मौलौ तावेव भवसंतानप्रादुर्भावनसमर्थौ नांत्यौ प्रक्षीणशक्तिकाविति ब्रुवाणानामपि भवहेतुः त्रयात्मकस्तथैव प्रत्येतव्यो विशेषाभावात् । इत्यविवादेन संसारकारणत्रित्वसिद्धेर्न संसारकारणत्रित्वानुपपत्तिः ॥ युक्तितश्च भवहेतोस्त्रयात्मकत्वं साधयन्नाह;-~ मिथ्यादृगादिहेतुः स्यात्संसारस्तदपक्षये । क्षीयमाणत्वतो वातविकारादिजरोगवत् ॥ १०५ ॥ यो यदपक्षये क्षीयमाणः स तद्धेतुर्यथा वातविकाराद्यपक्षीयमाणो वातविकारादिजो रोगः । मिथ्यादर्शनज्ञान चारित्रापक्षये क्षीयमाणश्च संसार इति । अत्र न तावदयं वाद्यसिद्धो हेतुः मिथ्यादर्शनस्यापक्षयेऽसंयतसम्यग्दृष्टेरनंतसंसारस्य क्षीयमाणत्वसिद्धेः; संख्यातभवमात्रतया तस्य संसारस्थितेः । तत एव मिथ्याज्ञानस्यापक्षये सम्यग्ज्ञानिनः संसारस्य क्षीयमाणत्वं सिद्धं । सम्यक् चारित्रवतस्तु मिथ्याचारित्र - स्यापक्षये तद्भवमात्रसंसारसिद्धेर्मोक्षसंप्राप्तेः सिद्धमेव संसारस्य क्षीयमाणत्वं । न चैतदागममात्रगम्यमेव यतोऽयं हेतुरागमाश्रयः स्यात्, तग्राहकानुमानसद्भावात् । तथाहि । मिथ्यादर्शनाद्यपक्षये क्षीयमाणः संसारः साक्षात्परंपरया वा दुःखफलत्वाद्विषमविषभक्षणातिभोजनादिवत् । यथैव हि साक्षादुःखफलं विषमविषभक्षणं, परंपरयातिभोजनादि, तन्मिथ्याभिनिवेशाद्यपक्षये तत्त्वज्ञानवतः क्षीयते ततो निवृत्तेः, तथा संसारोपि; हीनस्थानपरिग्रहस्य दुःखफलस्य संसारत्वव्यवस्थापनत्वात् । न च किंचित्साक्षात्परं परया वा दुःखफलं मिथ्यात्वाद्यपक्षयेप्यक्षीयमाणं दृष्टं येन हेतोर्व्यभिचारः स्यात् । गंडपाटनादिकं दृष्टमिति चेत् न तस्य बुद्धिपूर्वं चिकित्सेत्यनुमन्यमानस्य सुखफलत्वेनाभिमतत्वात् दुःखफलत्वासिद्धेः; शिशुप्रभृतीनामबुद्धिपूर्वकस्य दुःखफलस्यापि पूर्वोपात्तमिथ्यादर्शनादिकृतकर्मफलत्वेन तस्य मिथ्यादर्शनाद्यनपक्षयेऽक्षीयमाणत्वसिद्धेः । कायक्लेशादिरूपेण तपसा व्यभिचार इत्यपि न मंतव्यं, तपसः प्रशमसुखफलत्वेन दुःखफलत्वासिद्धेः । तदा संवेद्यमानदुःखस्य पूर्वोपार्जितकर्मफलत्वात् तपः फलत्वासिद्धेः । ' साक्षात्परंपरया वा दुःखफलत्वं स्यात्, संसारो मिथ्यादर्शनाद्यपक्षये क्षीयमाणश्च न स्यात्' इति संदिग्धविपक्षव्यावृत्तिकत्वमपि न साधनस्य शंकनीयं; सम्यग्दर्शनोत्पत्तावसंयतसम्यग्दृष्टेर्मिथ्यादर्शनस्यापक्षये मिथ्याज्ञानानुत्पत्तेस्तत्पूर्वकमिथ्याचारित्राभावात्तन्निबंधनसंसारस्यापक्षयप्रसिद्धेः । अन्यथा मिथ्यादर्शनादित्रयापक्षयेपि तदपक्षयाघटनात् । न च सम्यग्दृष्टेर्मिथ्याचारित्राभावात्संयतत्वमेव स्यान्न पुनः कदाचिदसंयतत्वमित्यारेका युक्ता, चारित्र - मोहदये सति सम्यक्चारित्रस्यानुपपत्तेरसंयतत्वोपपत्तेः । कात्सूर्यतो देशतो वा न संयमो नापि मिथ्यासंयम इति व्याहतमपि न भवति, मिथ्यागमपूर्वकस्य संयमस्य पंचामि साधना देर्मिथ्या संयमत्वात् सम्यगागमपूर्वकस्य सम्यकूसंयमत्वात् । ततोन्यस्य मिथ्यात्वोदयासत्त्वेपि प्रवर्तमानस्य हिंसादेरसंयमत्वात् । न चासंयमाद्भेदेन मिथ्यासंयमस्योपदेशाभावादभेद एवेति युक्तं, तस्य वालतपः शब्देनोपदिष्टत्वात् ततः कथंचिद्भेदसिद्धेः । न हि चारित्रमोहोदय मात्राद्भवच्चारित्रं दर्शनचारित्रमोहोदयजनितादचारित्रादभिन्नमेवेति साधयितुं शक्यं, सर्वत्र कारणभेदस्य फलाभेदकत्वप्रसक्तेः । मिथ्यादृट्यसंयमस्य नियमेन मिथ्याज्ञानपूर्वकत्वप्रसिद्धेः, सम्यग्दृष्टेरसंयमस्य मिथ्यादर्शनज्ञानपूर्वकत्वविरोधात्, विरुद्धकारणपूर्वकतयापि १० Page #83 -------------------------------------------------------------------------- ________________ ७४ तत्त्वार्थश्लोकवार्तिके [सु०१ भेदाभावे सिद्धांतविरोधात् । कथमेवं मिथ्यात्वादित्रयं संसारकारणं साधयतः सिद्धांतविरोधो न भवेदिति चेन्न, चारित्रमोहोदयेंतरंगहेतौ सत्युत्पद्यमानयोरसंयममिथ्यासंयमयोरेकत्वेन विवक्षितत्वाच्चतुष्टयकारणत्वासिद्धेः संसरणस्य । तत एवाविरतिशब्देनासंयमसामान्यवाचिना बंधहेतोरसंयमस्योपदेशघटनात् । सम्यग्दृष्टेरपि कस्यचिद्विषभक्षणादिजनितदुःखफलस्य हीनस्थानपरिग्रहस्य संसारस्य दर्शनान्मिथ्यादर्शनज्ञानयोरपक्षये क्षीयमाणत्वाभावान्न कथंचिद्दुःखफलत्वं मिथ्यादर्शनज्ञानापक्षये क्षीयमाणत्वेन व्याप्तमिति चेन्न, . तस्याप्यनागतांनंतानंतसंसारस्य प्रक्षयसिद्धेः साध्यांतःपातित्वेन व्यभिचारस्य तेनासंभवात् । निदर्शनं परप्रसिद्ध्या विषमविषभक्षणातिभोजनादिकमुक्तं, तत्र परस्य साध्यव्याप्तसाधने विवादाभावात् । न हि विषमविषभक्षणेऽतिभोजनादौ वा दुःखफलत्वमसिद्धं, नापि नाचरणीयमेतत्सुखार्थिनेति सत्यज्ञानोत्पत्तौ तत्संसर्गलक्षणसंसारस्यापक्षयोपि सिद्धस्तावता च तस्य दृष्टांतताप्रसिद्धरविवाद एव । तदेवमनुमितानुमानान्मिथ्यादर्शनादिनिमित्तत्वं भवस्य सिध्यतीति न विपर्ययमात्रहेतुको विपर्ययावैराग्यहेतुको वा भवो विभाव्यते ॥ तद्विपक्षस्य निर्वाणकारणस्य त्रयात्मता । प्रसिद्धैवमतो युक्ता सूत्रकारोपदेशना ॥ १०६ ॥ मिथ्यादर्शनादीनां भवहेतूनां त्रयाणां प्रमाणतः स्थितानां निवृत्तिः प्रतिपक्षभूतानि सम्यग्दर्शनादीनि त्रीण्यपेक्षते अन्यतमापाये तदनुपपत्तेः; शक्तित्रयात्मकस्य वा भवहेतोरेकस्य विनिवर्तनं प्रतिपक्षभूतशक्तित्रयात्मकमेकमंतरेण नोपपद्यत इति युक्ता सूत्रकारस्य त्रयात्मकमोक्षमार्गोपदेशना । तत्र यदा संसारनिवृत्तिरेव मोक्षस्तदा कारणविरुद्धोपलब्धिरियं, नास्ति कचिज्जीवे संसारः परमसम्यग्दर्शनज्ञानचारित्रसद्भावादिति; यदा तु संसारनिवृत्तिकार्य मोक्षस्तदा कारणविरुद्धोपलब्धिः, कस्यचिदात्मनो नास्ति दुःखमशेषं मुख्यसम्यग्दर्शनादिसद्भावादिति निश्चीयते, सकलदुःखाभावस्यात्यंतिकसुखस्वभावस्वात्तस्य च संसारनिवृत्तिफलत्वात् । यदा मोक्षः कचिद्विधीयते तदा कारणोपलब्धिरियं, क्वचिन्मोक्षोऽवश्यंभावी सम्यग्दर्शनादियोगात् । इति न कथमपि सूत्रमिदमयुक्त्यात्मकं, आगमात्मकत्वं तु निरूपितमेवं सत्यलं प्रपंचेन ॥ बंधप्रत्ययपांचध्यसूत्रं न च विरुध्यते । प्रमादादित्रयस्यांतर्भावात्सामान्यतोऽयमे ॥ १०७॥ त्रयात्मकमोक्षकारणसूत्रसामर्थ्यात्रयात्मकसंसारकारणसिद्धौ युक्त्यनुग्रहाभिधाने बंधप्रत्ययपंचविधत्वं 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बंधहेतव' इति सूत्रनिर्दिष्टं न विरुध्यत एव प्रमादादित्रयस्य सामान्यतोऽचारित्रेऽन्तर्भावात् । विशेषतश्च त्रयस्याचारित्रेऽन्तर्भावने को दोष ? इति चेत् ;विशेषतः पुनस्तस्याचारित्रांतःप्रवेशने । प्रमत्तसंयतादीनामष्टानां स्यादसंयमः ॥ १०८ ॥ तथा च सति सिद्धांतव्याघातः संयतत्वतः । मोहद्वादशकध्वंसात्तेषामयमहानितः ॥ १०९॥ नन्वेवं सामान्यतोप्यचारित्रे प्रमादादित्रयस्यांतर्भावात्कथं सिद्धांतव्याघातो न स्यात् ? प्रमत्तसंयतापूर्वेषामेव सामान्यतो विशेषतो वा तत्रांतर्भाववचनात् , प्रमत्तसंयतादीनां तु सयोगकेवल्यंतानामष्टानामपि मोहद्वादशकस्य क्षयोपशमादुपशमाद्वा सकलमोहस्य क्षयाद्वा संयतत्वप्रसिद्धेः, अन्यथा संयतासंयतत्वप्रसंगात् , सामान्यतोऽसंयमस्यापि तेषु भावादिति केचित् । तेप्येवं पर्यनुयोज्याः । कथं भवतां चतुःप्रत्ययो बंधः सिद्धांतविरुद्धो न भवेत्तत्र तस्य सूत्रितत्वादिति । प्रमादानां कषायेष्वंतर्भावादिति चेत् , सामान्यतो विशेषतो वा तत्र तेषामंतर्भावः स्यात् ? न तावदुत्तरः पक्षो निद्रायाः प्रमादविशेषखभावायाः कषायेष्वंतर्भावयितुमशक्यत्वात् तस्या दर्शनावरणविशेषत्वात् । प्रमादसामान्यस्य Page #84 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । " कषायेष्वंतर्भाव इति चेत् न, अप्रमत्तादीनां सूक्ष्मसांपरायिकांतानां प्रमत्तत्वप्रसंगात् । प्रमादैकदेशस्यैव कषायस्य निद्रायाश्च तत्र सद्भावात् सर्वप्रमादानामभावान्न प्रमत्तत्वप्रसक्तिरिति चेत्, तर्हि प्रमादादित्रयस्याचारित्रेतर्भावेपि प्रमत्तसंयतादीनामष्टानामसंयतत्वं मा प्रापत् । तथाहि । पंचदशसु प्रमादव्यक्तिषु वर्तमानस्य प्रमादसामान्यस्य कषायेष्वंतर्भावेपि न सर्वा व्यक्तयस्तत्रांतर्भवंति विकथेंद्रियाणामप्रमत्तादिष्वभावात्, कषायप्रणयनिद्राणामेव संभवात् इति न तेषां प्रमत्तत्वं । तथा मोहद्वादशकोदयकालभाविषु तत्क्षयोपशमकालभाविषु च प्रमादकषाययोगविशेषेषु वर्तमानस्य प्रमादकषाययोगसामान्यस्याचारित्रेऽतर्भावेपि न प्रमत्तादीनामसंयतत्वं । स्यान्मतं । प्रमादादिसामान्यस्यासंयतेषु संयतेषु च सद्भावादसंयमे संयमे चांतर्भावो युक्तो न पुनरसंयम एव, अन्यथा वृक्षत्वस्य न्यग्रोधेऽन्तर्व्यापिनोपि न्यग्रोधेष्वेवांतर्भाव - प्रसक्तेरिति । तदसत्, विवक्षितापरिज्ञानात् । प्रमादादित्रयमसंयमे च यस्यांतर्भावीति तस्य तन्नियतत्वात्तत्रांतर्भावो विवक्षितः, प्रमादानामप्रमत्तादिष्वभावात् कषायाणामकषायेष्वसंभवात् योगानामयोगेऽनवस्थानादिति तेषां संयमे नांतर्भावो विवक्षितः । प्रतिनियतविशेषापेक्षया तु तेषामसंयमेऽनंतर्भावात् पंचविध एव बंधहेतुः मोहद्वादश कक्षयोपशमसहभाविनां प्रमादकषाययोगानां विशिष्टानामसंयतेष्वभावात्कषायोपशमक्षयभाविनां च प्रमत्तकषायसंयतेष्वप्यभावात् सर्वेषां खानुरूपबंध हेतुत्वाप्रतीघातात् ॥ नन्वेवं पंचधा बंधहेतौ सति विशेषतः । प्राप्तो निर्वाणमार्गोपि तावद्धा तन्निवर्तकः ॥ ११०॥ यथा त्रिविधे बंधहेतौ त्रिविधो मार्गस्तथा पंचविधे बंधकारणे पंचविधो मोक्षहेतुर्वक्तव्यः, त्रिभिर्मोक्षकारणैः पंचविधबंधकारणस्य निवर्तयितुमशक्तेः । अन्यथा त्रयाणां पंचानां वा बंधहेतूनामेकेनैव मोक्षहेतुना निवर्तनसिद्धेर्मोक्षकारणत्रैविध्यवचनमप्ययुक्तिकमनुषज्येतेति कश्चित् ॥ ७५ तदेतदनुकूलं नः सामर्थ्यात् समुपागतम् । बंधप्रत्ययसूत्रस्य पांचभ्यं मोक्षवर्त्मनः ॥ १११ ॥ सम्यग्दर्शनविरत्यप्रमादाकषायायोगा मोक्षहेतवः इति पंचविधबंधहेतूपदेशसामर्थ्याल्लभ्यत एव मोक्षहेतोः पंचविधत्वं, ततो न तदापादनं प्रतिकूलमस्माकं । सम्यग्ज्ञानमोक्षहेतोरसंग्रहः स्यादेवमिति चेन्न, तस्य सद्दर्शनेंतर्भावात् मिथ्याज्ञानस्य मिथ्यादर्शनेन्तर्भाववत् । तस्य तत्रानंतर्भावे वा षोढा मोक्षकारणं बंधकारणं चाभिमतमेव विरोधाभावादित्युच्यते ; --- सम्यग्बोधस्य सद्दृष्टावंतर्भावात्त्वदर्शने । मिथ्याज्ञानवदेवास्य भेदे षोढोभयं मतम् ॥ ११२ ॥ तत्र कुतो भवन् भवेत्यंतं बंधः केन निवर्त्यते, येन पंचविधो मोक्षमार्गः स्यादित्यधीयते ;तत्र मिथ्यादृशो बंधः सम्यग्दृष्ट्या निवर्त्यते । कुचारित्राद्विरत्यैव प्रमादादप्रमादतः ॥ ११३ ॥ कषायादकषायेण योगाच्चायोगतः क्रमात् । तेनायोगगुणानुमुक्तेः पूर्वं सिद्धा जिनस्थितिः ॥११४ मिथ्यादर्शनाद्भवन् बंधः दर्शनेन निवर्त्यते तस्य तन्निदानविरोधित्वात् । मिथ्याज्ञानाद्भवन् बंधः सत्यज्ञानेन निवर्त्यत इत्यप्यनेनोक्तं । मिथ्याचारित्राद्भवन्सच्चारित्रेण, प्रमादाद्भवन्नप्रमादेन, कषायाद्भवन्नकषायेण, योगाद्भवन्नयोगेन स निवर्त्यत इत्ययोगगुणानंतरं मोक्षस्याविर्भावात्सयोगायोगगुणस्थानयोर्भगवदर्हतः स्थितिरपि प्रसिद्धा भवति ॥ सामग्री यावती यस्य जनिका संप्रतीयते । तावती नातिवत्यैव मोक्षस्यापीति केचन ॥ ११५ ॥ यस्य यावती सामग्री जनिका दृष्टा तस्य तावत्येव प्रत्येया, यथा यवबीजादिसामग्री यवांकुरस्य । तथा सम्यग्ज्ञानादिसामग्री मोक्षस्य जनिका संप्रतीयते ततो नैव सातिवर्तनीया, मिथ्याज्ञानादिसामग्री Page #85 -------------------------------------------------------------------------- ________________ ७६ तत्त्वार्थश्लोकवार्तिके [ सू० १ च बंधस्य जनिकेति मोक्षबंधकारणसंख्यानियमः, विपर्ययादेव बंधी ज्ञानादेव मोक्ष इति नेष्यत एव, परस्यापि संचितकर्मफलोपभोगादेरभीष्टत्वादिति केचित् ॥ एतेषामप्यनेकांताश्रयणे श्रेयसी मतिः । नान्यथा सर्वथैकांते बंधहेत्वाद्ययोगतः ॥ ११६ ॥ नित्यत्वैकांतपक्षे हि परिणामनिवृत्तितः । नात्मा बंधादिहेतुः स्यात् क्षणप्रक्षयिचित्तवत् ११७ परिणामस्याभावे नात्मनि क्रमयौगपद्ये तयोस्तेन व्याप्तत्वात् । पूर्वापरखभावत्यागोपादानस्थितिलक्षणो हि परिणामो न पूर्वोत्तरक्षणविनाशोत्पादमात्रं स्थितिमात्रं वा प्रतीत्यभावात् । स च क्रमयौगपद्ययोर्व्यापकतया संप्रतीयते । बहिरंतश्च बाधकाभावान्नापारमार्थिको यतः स्वयं निवर्तमानः क्रमयौगपद्ये न निवर्तयेत् । ते च निवर्तमाने अर्थक्रियासामान्यं निवर्तयतस्ताभ्यां तस्य व्याप्तत्वात् । अर्थक्रियासामान्यं तु यत्र निरतिशयात्मनि न संभवति तत्र बंधमोक्षाद्यर्थक्रियाविशेषः कथं संभाव्यते, येनायं तदुपादानहेतुः स्यात्, निरन्वयक्षणिक चित्तस्यापि तदुपादानत्वप्रसंगात् ॥ न चात्मनो गुणो भिन्नस्तदसंबंधतः सदा । तत्संबंधे कदाचित्तु तस्य नैकांतनित्यता ॥ ११८ ॥ गुणासंबंधरूपेण नाशाद्गुणयुतात्मना । प्रादुर्भावाच्चिदादित्वस्थानात्र्यात्मत्वसिद्धितः ॥ ११९ ॥ नापरिणाम्यात्मा तस्येच्छाद्वेषादिपरिणामेनात्यंतभिन्नेन परिणामित्वात्, धर्माधर्मोत्पत्त्याख्या बंधसमवायिकारणत्वोपपत्तेरिति न मंतव्यं, स्वतोऽत्यंतभिन्नेन परिणामेन कस्यचित्परिणामित्वासंभवात्, अन्यथा रूपादिपरिणामेनात्माकाशादेः परिणामित्वप्रसंगात् । ततोऽपरिणाम्येवात्मेति न बंधादेः समवायिकारणं, नाप्यात्मांतःकरण संयोगोऽसमवायिकारणं, प्रागदृष्टं वा तद्गुणो निमित्तकारणं, तस्य ततो भिन्नस्य सर्वदा तेनासंबंधात् । कदाचित्तत्संबंधे वा नित्यैकांतहानिप्रसंगात् खगुणासंबंधरूपेण नाशाद्गुणसंबंधरूपेणोत्पादाच्चेतनत्वादिना स्थितेस्तत्रयात्मकत्वसिद्धेः । एतेनात्मनो भिन्नो गुणः सत्त्वरजस्तमोरूपो बंधादिहेतुरित्येतत्प्रतिव्यूढं, तेन तस्य शश्वदसंबंधेन तद्धेतुत्वानुपपत्तेः, कदाचित्संबंधे त्र्यात्मकत्वसिद्धेरविशेषात् ॥ .3 यद्विनश्यति तद्रूपं प्रादुर्भवति तत्र यत् । तदेवानित्यमात्मा तु तद्भिन्नो नित्य इत्यपि ॥ १२० ॥ न युक्तं नश्वरोत्पित्सुरूपाधिकरणात्मना । कादाचित्कत्वतस्तस्य नित्यत्वैकांतहानितः ॥ १२१ ॥ कदाचिन्नश्वरखभावाधिकरणं कदाचिदुत्पित्लुधर्माधिकरणमात्मा नित्यैकांतरूप इति ब्रुवन्न स्वस्थः, कादाचित्कानेकधर्माश्रयत्वस्यानित्यत्वात् ॥ नानाधर्माश्रयत्वस्य गौणत्वादात्मनः सदा । स्थास्नुतेति न साधीयः सत्यासत्यात्मताभिदः १२२ सत्यासत्यखभावत्वाभ्यामात्मनो भेदः संभवतीत्ययुक्तं, विरुद्धधर्माध्यासलक्षणत्वाद्भेदस्यान्यथात्मानात्मनोरपि भेदाभावप्रसंगात् ॥ असत्यात्मकतासत्त्वे सत्त्वे सत्यात्मतात्मनः । सिद्धं सदसदात्मत्वमन्यथा वस्तुताक्षतिः || १२३॥ नानाधर्माश्रयत्वं गौणमसदेव मुख्यं स्थायि तु सदिति तत्त्वतो जीवस्यैकरूपत्वमयुक्तं सदसत्स्वभावत्वाभ्यामनेकरूपत्वसिद्धेः । यदि पुनरात्मनो मुख्यखभावेनेवोपचरितखभावेनापि सत्त्वमुररीक्रियते तदा तस्याशेषपररूपेण सत्त्वप्रसक्तेरात्मत्वेनैव व्यवस्थानुपपत्तिः सत्तामात्रवत्सकलार्थस्वभावत्वात् । तस्योपचरितखभावेनेव मुख्यस्वभावेनाप्यसत्त्वे कथमवस्तुत्वं न स्यात् सकलखभावशून्यत्वात् खरशृंगवत् । ये त्वाहुः उपचरिता एवात्मनः स्वभावभेदा न पुनर्वास्तवास्तेषां ततो भेदे तत्स्वभावत्वानुपपत्तेः । अर्थतरखभावत्वेन संबंधात्तत्खभावत्वेप्येकेन खभावेन तेन तस्य तैः संबंध सर्वेषामेकरूपतापत्तिः, नाना t Page #86 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ৩৩ खभावैः संबंधेऽनवस्थानं तेषामप्यन्यैः स्वभावैः संबंधात् । मुख्यखभावानामुपचरितैः स्वभावैस्तावद्भिरात्मनोऽसंबंधे नानाकार्यकारणं नानाप्रतिभासविषयत्वं चात्मनः किमुपचरितैरेव नानास्वभावैर्न स्यात् , येन मुख्यस्वभावकल्पनं सफलमनुमन्येमहि । नानास्वभावानामात्मनोनर्थातरत्वे तु स्वभावा एव नात्मा कश्चिदेको भिन्नेभ्योनांतरस्यैकत्वायोगात् , आत्मैव वा न केचित्स्वभावाः स्युः, यतो नोपचरितस्वभावव्यवस्थात्मनो न भवेत् । कथंचिद्भेदाभेदपक्षेपि स्वभावानामात्मनोनवस्थानं तस्य निवारयितुमशक्तेः । परमार्थतः कस्यचिदेकस्य नानाखभावस्य मेचकज्ञानस्य ग्राह्याकारवेदनस्य वा सामान्यविशेषादेर्वा प्रमाणबलादव्यवस्थानात्तेन व्यभिचारासंभवादिति तेप्यनेनैव प्रतिक्षिप्ताः, खयमिष्टानिष्टखभावाभ्यां सदसत्त्वस्वभावसिद्धेरप्रतिबंधात् । न च कस्यचिदुपचरिते सदसत्त्वे तत्त्वतोनुभयत्वस्य प्रसक्तेः, तच्चायुक्तं, सर्वथा व्याघातात् । कथंचिदनुभयत्वं तु वस्तुनो नोभयखभावतां विरुणद्धि; कथं वानुभयरूपतया तत्त्वं तदन्यरूपतया चातत्त्वमिति ब्रुवाणः कस्यचिदुभयरूपतां प्रतिक्षिपेत् । न सन्नाप्यसन्नोभयं नानुभयमन्यद्वा वस्तु; किं तर्हि ? वस्त्वेव सकलोपाधिरहितत्वात्तथा वक्तुमशक्तेरवाच्यमेवेति चेत् , कथं वस्त्वित्युच्यते ? सकलोपाधिरहितमवाच्यं वा ? वस्त्वादिशब्दानामपि तत्राप्रवृत्तेः । सत्यामपि वचनागोचरतायामात्मादितत्त्वस्योपलभ्यताभ्युपेया; सा च खखरूपेणास्ति न पररूपेणेति सदसदात्मकत्वमायातं तस्य तथोपलभ्यत्वात् । न च सदसत्त्वादिधर्मैरप्यनुपलभ्यं वस्त्विति शक्यं प्रत्येतुं खरशृंगादेरपि वस्तुत्वप्रसंगात् । धर्मधर्मिरूपतयानुपलभ्यं स्वरूपेणोपलभ्यं वस्त्विति चेत् , यथोपलभ्यं तथा सत् यथा चानुपलभ्यं तथा तदसदिति । तदेवं सदसदात्मकत्वं सुदूरमप्यनुसृत्य तस्य प्रतिक्षेप्तुमशक्तेः । ततः सदसत्वभावौ पारमार्थिको क्वचिदिच्छताऽनंतखभावाः प्रतीयमानास्तथात्मनोभ्युपगंतव्याः । तेषां च क्रमतो विनाशोत्पादौ तस्यैवेति सिद्धं त्र्यात्मकत्वमात्मनो गुणासंबंधेतररूपाभ्यां नाशोत्पादव्यवस्थानादात्मत्वेन ध्रौव्यत्वसिद्धेः । ततोपि बिभ्यता नात्मनो भिन्नेन गुणेन संबंधोभिमंतव्यो न वासंबद्धस्तस्यैव गुणो व्यवस्थापयितुं शक्यो यतः संबंधादिति हेतुः स्यादिति सूक्तं नित्यैकांते नात्मा हि बंधमोक्षादिकार्यस्य कारणमित्यनवस्थानात् ।। क्षणक्षयेपि नैवास्ति कार्यकारणतांजसा । कस्यचित्कचिदत्यंताव्यापारादचलात्मवत् ॥ १२४ ॥ क्षणिकाः सर्वे संस्काराः स्थिराणां कुतः क्रियेति निर्व्यापारतायां क्षणक्षयैकांते भूतिरेव क्रियाकारकव्यवहारभागिति ब्रुवाणः कथमचलात्मनि निर्व्यापारेपि सर्वथा भूतिरेव क्रियाकारकव्यवहारमनुसरतीति प्रतिक्षिपेत् ॥ अन्वयव्यतिरेकायो यस्य दृष्टोनुवर्तकः । स तद्धेतुरिति न्यायस्तदेकांते न संभवी ॥ १२५ ॥ नित्यैकांते नास्ति कार्यकारणभावोऽन्वयव्यतिरेकाभावात् । न हि कस्यचिन्नित्यस्य सद्भावोऽन्वयः सर्वनित्यान्वयप्रसंगात् , प्रकृतनित्यसद्भाव इव तदन्यनित्यसद्भावेपि भावात् , सर्वथाविशेषाभावात् । नापि व्यतिरेकः शाश्वतस्य तदसंभवात् । देशव्यतिरेकः संभवतीति चेत् न, तस्य व्यतिरेकत्वेन नियमयितुमशक्तेः, प्रकृतदेशे विवक्षितासर्वगतनित्यव्यतिरेकवदविवक्षितसर्वगतनित्यव्यतिरेकस्यापि सिद्धेः । तथापि कस्यचिदन्वयव्यतिरेकसिद्धौ सर्वनित्यान्वयव्यतिरेकसिद्धिप्रसंगात् किं कस्य कार्य स्यात् ? ततोऽचलात्मनोन्वयव्यतिरेको निवर्तमानौ खव्याप्यां कार्यकारणतां निवर्तयतः। तदुक्तं-"अन्वयव्यतिरेकाद्यो यस्य दृष्टोनुवर्तकः । स भावस्तस्य तद्धेतुरतो भिन्ना न संभवा ॥” इति । न चायं न्यायस्तत्र संभवतीति नित्ये यदि कार्यकारणताप्रतिक्षेपस्तदा क्षणिकेपि तदसंभवस्याविशेषात् ॥ Page #87 -------------------------------------------------------------------------- ________________ ७८ [सू०१ तत्त्वार्थश्लोकवार्तिके तत्र हेतावसत्येव कार्योत्पादेन्वयः कुतः । व्यतिरेकश्च संवृत्त्या तौ चेत् किं पारमार्थिकम्॥१२६॥ न हि क्षणक्षयकांते सत्येव कारणे कार्यस्योत्पादः संभवति कार्यकारण योरेककालानुषंगात् , कारणस्यैकस्मिन् क्षणे जातस्य कार्यकालेपि सत्त्वे क्षणभंगभंगप्रसंगाच्च । सर्वथा तु विनष्टे कारणे कार्यस्योत्पादे कथमन्वयो नाम चिरतरविनष्टान्वयवत् । तत एव व्यतिरेकाभावः कारणाभावे कार्यस्याभावाभावात् । स्यान्मतं । वकाले सति कारणे कार्यस्य खसमये प्रादुर्भावोऽन्वयो असति वाऽभवनं व्यतिरेको न पुनः कारणकाले तस्य भवनमन्वयोऽन्यदात्वभवनं व्यतिरेकः । सर्वथाप्यभिन्नदेशयोः कार्यकारणभावोपगमे कुतोमिधूमादीनां कार्यकारणभावो भिन्नदेशतयोपलंभात् । भिन्नदेशयोस्तु कार्यकारणभावे भिन्नकालयोः स कथं प्रतिक्षिप्यते येनान्वयव्यतिरेको तादृशौ न स्यातां । कारणत्वेनाभिमतेप्यर्थे खकाले सति कस्यचित्खकाले भवनमसति वाऽभवनमन्वयो व्यतिरेकश्च स्यादित्यपि न मंतव्यमन्यत्र समानत्वात् । कारणत्वेनानभिमतेर्थे स्वदेशे सति सर्वस्य खदेशे भवनमन्वयो असति वाऽभवनं व्यतिरेक इत्यपि वक्तुं शक्यत्वात् । स्खयोग्यताविशेषात्कयोश्चिदेवार्थयोभिन्नदेशयोरन्वयव्यतिरेकनियमात्कार्यकारणनियमपरिकल्पनायां भिन्नकालयोरपि स किं न भवेत्तत एव सर्वथा विशेषाभावात् । तदेतदप्यविचारितरम्यं । तन्मते योग्यताप्रतिनियमस्य विचार्यमाणस्यायोगात् । योग्यता हि कारणस्य कार्योत्पादनशक्तिः, कार्यस्य च कारणजन्यत्वशक्तिस्तस्याः प्रतिनियमः, शालिबीजांकुरयोश्च भिन्नकालत्वाविशेषेपि शालिबीजस्यैव शाल्यंकुरजनने शक्तिर्न यवबीजस्य, तस्य यवांकुरजनने न शालिबीजस्येति कथ्यते । तत्र कुतस्तच्छक्तेस्तादृशः प्रतिनियमः? स्वभावत इति चेत् न, अप्रत्यक्षत्वात् । परोक्षस्य शक्तिप्रतिनियमस्य पर्यनुयुज्यमानतायां खभावैरुत्तरस्यासंभवात् , अन्यथा सर्वस्य विजयित्वप्रसंगात् । प्रत्यक्षप्रतीत एवं चार्थे पर्यनुयोगे खभावैरुत्तरस्य खयमभिधानात् । कथमन्यथेदं शोभेत,-"यत्किंचिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण । वस्तुखभावैरिति वाच्यमित्थं तदुत्तरं स्याद्विजयी समस्तः । १। प्रत्यक्षेण प्रतीतेर्थे यदि पर्यनुयुज्यते । खभावैरुत्तरं वाच्यं दृष्टे कानुपपन्नता ।२।" इति । शालिबीजादेः शाल्यंकुरादिकार्यस्य दर्शनात्तजननशक्तिरनुमीयत इति चेत् , तस्य तत्कार्यत्वे प्रसिद्धेऽप्रसिद्धेपि वा? प्रथमपक्षेपि(?) कुतः शाल्यंकुरादेः शालिबीजादिकार्यत्वं सिद्धं? न तावदध्यक्षात्तत्र तस्याप्रतिभासनात् , अन्यथा सर्वस्य तथा निश्चयप्रसंगात् । तद्भावभावालिंगात्तत्सिद्धिरिति चेन्न, साध्यसमत्वात् । को हि साध्यमेव साधनत्वेनाभिदधातीत्यन्यत्रावस्थात् । तद्भावभाव एव हि तत्कार्यत्वं न ततोन्यत् । शालिबीजादिकारणकत्वाच्छाल्यंकुरादेस्तत्कार्यत्वं सिद्धमित्यपि तादृगेव । परस्पराश्रितं चैतत् , सिद्धे शालिबीजादिकारणकत्वे शाल्यंकुरादेस्तत्कार्यत्वसिद्धिस्तत्सिद्धौ च शालिबीजादिकारणत्वसिद्धिरिति । तदनुमानात् प्रत्यक्षप्रतीते तस्य तत्कार्यत्वे समारोपः कस्यचिद्व्यवच्छिद्यत इत्यप्यनेनापास्तं, खयमसिद्धात्साधनात् तव्यवच्छेदासंभवात् । तदनंतरं तस्योपलंभात्तत्कार्यत्वसिद्धिरित्यपि फल्गुप्रायं, शाल्यकुरादेः पूर्वाखिलार्थकार्यत्वप्रसंगात् । शालिबीजाभावे तदनंतरमनुपलंभान्न तत्कार्यत्वमिति चेत् , सार्दैधनाभावेंगाराद्यवस्थाग्नेरनंतरं धूमस्यानुपलब्धेरग्निकार्यत्वं माभूत् । सामग्रीकार्यत्वामस्य नामिमात्रकार्यत्वमिति चेत् , तर्हि सकलार्थसहितशालिबीजादिसामग्रीकार्यत्वं शाल्यंकुरादेरस्तु विशेषाभावात् । तथा च न किंचित्कस्यचिदकारणमकार्य वेति सर्व सर्वस्मादनुमीयेतेति वा कुतश्चित् किंचिदिति नानुमानात्कस्यचिच्छक्तिप्रतिनियमसिद्धिर्यतोन्वयव्यतिरेकप्रतिनियमकार्यकारणभावे प्रतिनियमनिबंधनः सिद्ध्येत् । तत एव संवृत्त्यान्वयव्यतिरेको यथादर्शनं कारणस्य कार्येणानुविधीयते न तु यथातत्त्वमिति Page #88 -------------------------------------------------------------------------- ________________ 0 प्रथमोऽध्यायः । ७९ चेत्, कथमेवं कार्यकारणभावः पारमार्थिकः ? सोपि संवृत्त्येति चेत्, कुतोर्थक्रियाकारित्वं वास्तवं ? तदपि सांवृत्तमेवेति चेत्, कथं तल्लक्षणवस्तुतत्त्वमिति न किंचित्क्षणक्षयैकांतवादिनः शाश्वतैकांतवादिन इव पारमार्थिकं सिच्छेत् ॥ तथा सति न बंधादिहेतुसिद्धिः कथंचन । सत्यानेकांतवादेन विना कचिदिति स्थितम् ॥ १२७॥ न सत्योऽनेकांतवादः प्रतीतिसद्भावेपि तस्य विरोधवैयधिकरण्यादिदोषोपद्रुतत्वादिति नानुमंतव्यं, सर्वथैकांत एव विरोधादिदोषावतारात्, सत्येनानेकांतवादेन विना बंधादिहेतूनां क्वचिदसिद्धेः ॥ सत्यमद्वयमेवेदं स्वसंवेदनमित्यसत् । तद्व्यवस्थापकाभावात्पुरुषाद्वैततत्त्ववत् ।। १२८ ।। न हि कुतश्चित्प्रमाणाद्द्द्वैतं संवेदनं व्यवतिष्ठते ब्रह्माद्वैतवत् प्रमाणप्रमेययोर्द्वैतप्रसंगात् । प्रत्यक्षतस्तव्यवस्थापने नांद्वैतविरोध इति चेन्न, अन्यतः प्रत्यक्षस्य भेदप्रसिद्धेः । अनेनानुमानादुपनिषद्वाक्याद्वा तद्व्यवस्थापने द्वैतप्रसंग ः कथितः ॥ न च स्वतः स्थितिस्तस्य ग्राह्यग्राहकतेक्षणात् । सर्वदा नापि तद्भांतिः सत्यसंवित्त्यसंभवात् १२९ न संवेदनाद्वैतं प्रत्यक्षांतरादनुमानाद्वा स्थाप्यते स्वतस्तस्य स्थितेरिति न साधीय:, सर्वदा ग्राह्यग्राहकाकाराक्रांतस्य संवेदनस्यानुभवनात्, स्वरूपस्य स्वतो गतेरिति वक्तुमशक्तेः । संविदि ग्राह्यग्राहकाकारस्यानुभवनं भ्रांतमिति न वाच्यं तद्रहितस्य सत्यस्य संवित्त्यभावात् । सर्वदावभासमानस्य सर्वत्र सर्वेषां भ्रांतत्वायोगात् ॥ " यथैवारामविश्रांत पुरुषाद्वैतसत्यता । तत्सत्यत्वे च तद्भांतिरित्यन्योन्यसमाश्रयः ॥ १३० ॥ तथा वेद्यादिविभ्रांतौ वेदकाद्वैतसत्यता । तत्सत्यत्वे च तद्भांतिरित्यन्योन्यसमाश्रयः ॥ १३१ ॥ कथमयं पुरुषाद्वैतं निरस्य ज्ञानाद्वैतं व्यवस्थापयेत् । स्यान्मतं । न वेद्याद्याकारस्य आंतता संचिन्मात्रस्य सत्यत्वात्साध्यते किं त्वनुमानात्ततो नेतरेतराश्रयः इति । तदयुक्तं, लिंगाभावात् । विवादगोचरो वेद्याद्याकारो भ्रांतभासजः । अथ स्वप्नादिपर्यायाकारवद्यदि वृत्तयः ॥ १३२ ॥ विभ्रांत्या भेदमापन्नो विच्छेदो विभ्रमात्मकः । विच्छेदत्वाद्यथा स्वप्नविच्छेद इति सिद्ध्यतु ॥ १३३ न हि खनादिदशायां ग्राह्याकारत्वं भ्रांतत्वेन व्याप्तं दृष्टं न पुनर्विच्छेदत्वमिति शक्यं वक्तुं प्रतीतिविरोधात् । तदुभयस्य भ्रांतत्वसिद्धौ किमनिष्टमिति चेत् ? नित्यं सर्वगतं ब्रह्म निराकारमनंशकम् । कालदेशादि विच्छेद भ्रांतत्वेऽकलयद्वयम् ॥ १३४ ॥ कालविच्छेदस्य भ्रांतत्वे नित्यं देशविच्छेदस्य सर्वगतमाकारस्य निराकारमंशविच्छेदस्य निरंश ब्रह्म सिद्धं क्षणिकाद्वैतं प्रतिक्षिपतीति कथमनिष्टं सौगतस्य न स्यात् ॥ नित्यादिरूपसंवित्तेरभावात्तदसंभवे । परमार्थात्मतावित्तेरभावादेतदप्यसत् ।। १३५ ।। न हि नित्यत्वादिखभावे परमार्थात्मादिखभावे वा संवित्त्यभावं प्रति विशेषोस्ति यतो ब्रह्मणो सत्यत्वे क्षणिकत्वे संवेदनाद्वैतस्यासत्यत्वं न सिद्ध्येत् ॥ न नित्यं नाप्यनित्यत्वं सर्वगत्वमसर्वगम् । नैकं नानेकमथवा स्वसंवेदनमेव तत् ॥ १३६ ॥ समस्तं तद्वचोन्यस्य तन्नाद्वैतं कथंचन । स्वेष्टेतरव्यवस्थानप्रतिक्षेपाप्रसिद्धितः ॥ १३७ ॥ खेष्टस्य संवेदनाद्वयस्य व्यवस्थानमनिष्टस्य भेदस्य पुरुषाद्वैतादेर्वा प्रतिक्षेपो यतोस्य न कथंचनापि प्रसिद्ध्यति, ततो नाद्वैतं तत्त्वं बंधहेत्वादिशून्यमास्थातुं युक्तमनिष्टतत्त्ववत् ॥ Page #89 -------------------------------------------------------------------------- ________________ ८० तत्त्वार्थश्लोकवार्तिक [सू० १ नन्वनादिरविद्येयं स्वेष्टेतरविभागकृत् । सत्येतरेव दुःपारा तामाश्रित्य परीक्षणा ॥ १३८॥ सर्वस्य तत्त्वनिर्णीतेः पूर्व किं चान्यथा स्थितिः । एष प्रलाप एवास्स शून्योपप्लववादिवत्॥१३९॥ किंचिनिर्णीतमाश्रित्य विचारोन्यत्र वर्तते । सर्वविप्रतिपत्तौ हि कचिन्नास्ति विचारणा ॥१४०॥ _ न हि सर्व सर्वस्यानिर्णीतमेव विचारात्पूर्वमिति स्वयं निश्चिन्वन् किंचिन्निर्णीतमिष्टं प्रतिक्षेप्तुमर्हति विरोधात् ॥ तत्रेष्टं यस्य निर्णीतं प्रमाणं तस्य वस्तुतः । तदंतरेण निर्णीतेस्तत्रायोगादनिष्टवत् ॥ १४१॥ यथानिष्टे प्रमाणं वास्तवमंतरेण निर्णीतिर्नोपपद्यते तथा खयमिष्टेपीति । तत्र निर्णीतिमनुमन्यमानेन तदनुमंतव्यमेव ॥ । तत्स्वसंवेदनं तावद्यधुपेयेत केनचित् । संवादकत्वतस्तद्वदक्षलिंगादिवेदनम् ॥ १४२ ॥ प्रमाणानिश्चितादेव सर्वत्रास्तु परीक्षणम् । स्वेष्टेतरविभागाय विद्या विद्योपगामिनाम् ॥ १४३॥ __खसंवेदनमपि न खेष्टं निर्णीतं येन तस्य संवादकत्वात्तत्त्वतः प्रमाणत्वे तद्वदक्षलिंगादिजनितवेदनस्य प्रमाणत्वसिद्धेनिश्चितादेव प्रमाणात् सर्वत्र परीक्षणं खेष्टेतरविभागाय विद्या प्रवर्तेत तत्त्वोपप्लववादिनः, परपर्यनुयोगमात्रपरत्वादिति कश्चित् । सोपि यत्किंचनभाषी, परपर्यनुयोगमात्रस्याप्ययोगात् । तथाहि यस्यापीष्टं न निर्णीतं कापि तस्य न संशयः । तदभावे न युज्यंते परपर्यनुयुक्तयः ॥ १४४॥ कथमव्यभिचारित्वं वेदनस्य निश्चीयते ? किमदुष्टकारकसंदोहोत्पाद्यत्वेन बाधारहितत्वेन प्रवृत्तिसामर्थेनान्यथा वेति प्रमाणतत्त्वे पर्यनुयोगाः संशयपूर्वकास्तदभावे तदसंभवात् , किमयं स्थाणुः किं वा पुरुष इत्यादेः पर्यनुयोगवत् । संशयश्च तत्र कदाचित्वचिन्निर्णयपूर्वकः स्थाण्वादिसंशयवत् । तत्र यस्य कचिकदाचिददुष्टकारकसंदोहोत्पाद्यत्वादिना प्रमाणत्वनिर्णयो नास्त्येव तस्य कथं तत्पूर्वकः संशयः, तदभावे कुतः पर्यनुयोगाः प्रवर्तेरन्निति न परपर्यनुयोगपराणि बृहस्पतेः सूत्राणि स्युः ॥ ओमिति बुवतः सिद्धं सर्व सर्वस्य वांछितम् । कचित्पर्यनुयोगस्यासंभवात्तन्निराकुलम् ॥ १४५॥ ततो न शून्यवादवत् तत्त्वोपप्लववादो वादांतरव्युदासेन सिद्ध्येत् तथानेकांततत्त्वस्यैव सिद्धेः।। शून्योपप्लववादेपि नानेकांताद्विना स्थितिः । स्वयं कचिदशून्यस्य स्वीकृतेरनुपप्लुते ॥ १४६ ॥ शून्यतायां हि शून्यत्वं जातुचिन्नोपगम्यते । तथोपप्लवनं तत्त्वोपप्लवेपीतरत्र तत् ॥ १४७ ॥ शून्यमपि हि खखभावेन यदि शून्यं तदा कथमशून्यवादो न भवेत् । न तस्याशून्यत्वेऽनेकांतादेव शून्यवादप्रवृत्तिः, शून्यस्य निःस्वभावत्वात् । न खभावेनाशून्यता नापि परखभावेन शून्यता, खरविषाणादेरिव तस्य सर्वथा निणेतुमशक्तेः कुतोनेकांतसिद्धिरिति चेत्, तर्हि तत्त्वोपप्लवमात्रमेतदायातं शून्यतत्त्वस्याप्यप्रतिष्ठानात् । न तदपि सिद्ध्यत्यनेकांतमंतरेण तत्त्वोपप्लवमानेनुपप्लवसिद्धेः। तत्राप्युपप्लवे कथमखिलं तत्त्वमनुपप्लुतं न भवेत् ? ननूपप्लवमात्रेऽनुपप्लव इत्ययुक्तं, व्याघातादभावे भाववत् । तथोपप्लवो न तत्र साधीयांस्तत एवाभावेऽभाववत् । ततो यथा न सन्नाप्यसन्नभावः सर्वथा व्यवस्थापयितुमशक्तेः किं तीभाव एव, तथा तत्त्वोपप्लवोपि विचारात् कुतश्चिद्यदि सिद्धस्तदा न तत्र केनचिद्रूपेणोपप्लवो नाप्यनुपप्लवो व्याघातात् , किं तद्युपप्लव एवेति नानेकांतावतार इति चेत् , तर्हि प्रमाणतत्त्वं नादुष्टकारकसंदोहोत्पाद्यत्वेन नापि बाधारहितत्वादिभिः स्वभावैव्येवस्थाप्यते व्याघातात् , किं तु प्रमाणं प्रमाणमेव प्रमाणत्वेनैव तस्य व्यवस्थानात् । न हि पृथिवी किमग्नित्वेन व्यवस्थाप्यते जलत्वेन वायुत्वेन वेति पयेनुयोगो युक्तः, पृथिवीत्वेनैव तस्याः प्रतिष्ठानात् । प्रमाणखभावा एवादुष्टकारकसंदोहोत्पाद्यत्वादय www.jainelibrary gorg Page #90 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। ८१ स्ततो न तैः प्रमाणस्य व्यवस्थापने व्याघात इति चेत्, किमिदानीं पर्यनुयोगेन? तत्वबलेन प्रमाणस्य सिद्धत्वात् । स्यान्मतं । न विचारात्प्रमाणस्यादुष्टकारकसंदोहोत्पाद्यत्वादयः खभावाः प्रसिद्धाः परोपगममात्रेण तेषां प्रसिद्धः । संशयावतारात्पर्यनुयोगो युक्त एवेति तदप्यसारं, अविचारस्य प्रमाणखभावव्यवस्थानप्रतिक्षेपकारिणः खयमुपप्लुतत्वात् । तस्यानुपप्लुतत्वे वा कथं सर्वथोपप्लवः? यदि पुनरुपप्लुतानुपप्लुतत्वाभ्यामवाच्योऽविचारस्तदा सर्व प्रमाणप्रमेयतत्त्वं तथास्त्विति न क्वचिदुपप्लुतैकांतो नाम । यथा चोपप्लवोऽविचारो वा तद्धेतुरुपप्लुतत्वानुपप्लुतत्वाभ्यामवाच्यः खरूपेण तु वाच्यः तथा सर्व तत्त्वमित्यनेकांतादेवोपप्लववादे प्रवृत्तिः सर्वथैकांते तदयोगात् । नन्वेमनेकांतोप्यनेकांतादेव प्रवर्तेत सोप्यन्यस्मादनेकांतादित्यनवस्थानात् कुतः प्रकृतानेकांतसिद्धिः ? सुदूरमप्यनुसृत्यानेकांतस्यैकांतात्प्रवृत्तौ न सर्वस्यानेकांतात् सिद्धिः । 'प्रमाणार्पणादनेकांत' इत्यनेकांतोप्यनेकांतः कथमवतिष्ठते ? प्रमाणस्यानेकांतात्मकत्वेनानवस्थानस्य परिहर्तुमशक्तेरेकांतात्मकत्वे प्रतिज्ञाहानिप्रसक्तेः । नयस्याप्येकांतात्मकत्वे अयमेव दोषोऽनेकांतात्मकत्वे सैवानवस्थेति केचित् । तेप्यतिसूक्ष्मेक्षिकांतरितप्रज्ञाः, प्रकृतानेकांतसाधनस्यानेकांतस्य प्रमाणात्मकत्वेन सिद्धत्वादभ्यस्तविषयेऽनवस्थाद्यनवतारात् , तथा तदेकांतसाधनस्यैकांतस्य सुनयत्वेन स्वतः प्रसिद्ध नवस्था प्रतिज्ञाहानिर्वा संभवतीति निरूपणात् । ततः सूक्तं 'शून्योपप्लववादेपि नानेकांताद्विना स्थिति' रिति ॥ ग्राह्यग्राहकतैतेन बाध्यबाधकतापि वा । कार्यकारणतादिर्वा नास्त्येवेति निराकृतम् ॥१४८॥ ग्राह्यग्राहकबाध्यबाधककार्यकारणवाच्यवाचकभावादिखरूपेण नास्ति संवेदनं संविन्मात्राकारतयास्तीत्यनेकांतोभीष्ट एव संवेदनाद्वयस्य तथैव व्यवस्थितेह्याद्याकाराभावात्सद्वितीयतानुपपत्तेः सर्वथैकांताभावस्य सम्यगेकांतानेकांताभ्यां तृतीयतानुपपत्तिवत् । इति न प्रातीतिकं, ग्राह्यग्राहकभावादिनिराकरणस्यैकांततोऽसिद्धेः ॥ ग्राह्यग्राहकशून्यत्वं ग्राह्यं तद्राहकस्य चेत् । ग्राह्यग्राहकभावः स्यादन्यथा तदशून्यता ॥ १४९ ॥ बाध्यबाधकभावोपि बाध्यते यदि केनचित् । बाध्यबाधकभावोस्ति नोचेत्कस्य निराकृतिः॥१५०॥ कार्यापाये न वस्तुत्वं संविन्मात्रस्य युज्यते । कारणस्यात्यये तस्य सर्वदा सर्वथा स्थितिः ॥१५१॥ वाच्यवाचकतापायो वाच्यश्चेत्तयवस्थितिः । परावबोधनोपायः को नाम स्यादिहान्यथा?॥१५२॥ सोयं तयोः वाच्यवाचकयोः ग्राह्यग्राहकभावादेनिराकृतिमाचक्षाणस्तद्भावं साधयत्येवान्यथा तदनुपपत्तेः ॥ संवृत्त्या स्वप्नवत्सर्व सिद्धमित्यतिविस्मृतम् । निःशेषार्थक्रियाहेतोः संवृतेर्वस्तुताप्तितः ॥१५३ ॥ यदेवार्थक्रियाकारि तदेव परमार्थसत् । सांवृतं रूपमन्यत्तु संविन्मात्रमवस्तु सत् ॥ १५४॥ 'स्वप्नवत्सांवृतेन रूपेण ग्राह्यग्राहकभावाभावो ग्राह्यो बाध्यबाधकमावो बाध्यः कार्यकारणभावोपि कार्यों वाच्यवाचकभावो वाच्य' इति ब्रुवाणो विस्मरणशीलः, खयमुक्तस्य सांवृतरूपानर्थक्रियाकारित्वस्य विस्मरणात् । तथा ह्यशेषग्राह्यग्राहकताद्यर्थक्रियानिमित्तं यत्सांवृतं रूपं तदेव परमार्थसत् तद्विपरीतं तु संवेदनमात्रमवस्तु सदिति दर्शनांतरमायातम् ॥ संवृतं चेत्क नामार्थक्रियाकारि च तन्मतम् । हंत सिद्धं कथं सर्व संवृत्त्या स्वप्नवत्तव ॥ १५५ ॥ ग्राह्यग्राहकभावाद्यर्थक्रियापि सांवृती न पुनः पारमार्थिकी यतस्तन्निमित्तं सांवृतं रूपं परमार्थसत् सिद्ध्येत् । तात्त्विकी त्वर्थक्रिया खसंवेदनमात्रं, तदात्मकं संवेदनाद्वैतं कथमवस्तु सन्नाम? ततोर्थक्रियाकारि ११ Page #91 -------------------------------------------------------------------------- ________________ (सू०१ तत्त्वार्थश्लोकवार्तिके सांवृतं चेति व्याहतमेतदिति यदि मन्यसे, तदा कथं स्वप्नवत् संवृत्त्या सर्व सिद्धमिति ब्रूषे तदवस्थस्वाध्याघातस्य सांवृतं सिद्धं चेति ॥ .. स्वप्नसिद्धं हि नो सिद्धमस्वप्नः कोऽपरोन्यथा । संतोषकृन्न वै स्वप्नः संतोष न प्रकल्पते ॥१५६॥ वस्तुन्यपि न संतोषो द्वेषात्तदिति कस्यचित् । अवस्तुन्यपि रागात् स्यादित्यस्वप्नोस्त्वबाधितः१५७ ___ यथा हि खप्नसिद्धमसिद्धं तथा संवृतिसिद्धमप्यसिद्धमेव, कथमन्यथा खमसिद्धमपि सिद्धमेव न ' भवेत्तथाच न कश्चित्ततोऽपरोऽस्वप्नः स्यात् । संतोषकार्यखम्म इति चेन्न, स्वप्नस्यापि संतोषकारित्वदर्शनात् । कालांतरे न खप्नः संतोषकारी इति चेत् , समानमखमे । सर्वेषां सर्वत्र संतोषकारी न खप्न इति चेत् , तादृगस्वप्नेपि । कस्यचित्कचित्कदाचित्संतोषहेतोरस्वप्नत्वे तु न कश्चित्स्वप्नो नाम । न च संतोषहेतुत्वेन वस्तुत्वं व्याप्तं, क्वचित्कस्यचिद् द्वेषात् संतोषाभावेपि वस्तुत्वसिद्धेः। नापि वस्तुत्वेन संतोषहेतुत्वमवस्तुन्यपि कल्पनारूढे रागात् कस्यचित्संतोषदर्शनात् । ततः सुनिश्चितासंभवबाधकोऽस्खप्नोऽस्तु ॥ बाध्यमानः पुनः स्वग्नो नान्यथा तद्भिदेक्ष्यते । स्वतः कचिदबाध्यत्वनिश्चयः परतोपि वा ॥१५८ कारणद्व्ययसामर्थ्यात्संभवन्ननुभूयते । परस्पराश्रयं तत्रानवस्थां च प्रतिक्षिपेत् ॥ १५९ ॥ __बाधारहितोऽस्वप्नो बाध्यमानस्तु खप्न इति तयोर्भेदोन्वीक्ष्यते, नान्यथा । ननु चाखमज्ञानस्याबाध्यत्वं यदि अत एव निश्चीयते तदेतरेतराश्रयः, सत्यऽबाध्यत्वनिश्चये संवेदनस्याखामकृन्निश्चयस्तस्मिन् सत्यबाध्यत्वनिश्चय इति । परतोऽस्वप्नवेदनात्तस्याबाध्यत्वनिश्चये तस्याप्यबाध्यत्वनिश्चयोन्यस्मादस्वप्नवेदनादित्यनवस्थानान्न कस्यचिदबाध्यत्वनिश्चय इति केचित् । तदयुक्तं । क्वचित्स्वतः क्वचित्परतः संवेदनस्याबाध्यत्वनिश्चयेऽन्योन्याश्रयानवस्थानवतारात् । न च क्वचित्स्वतस्तन्निश्चये सर्वत्र खतो निश्चयः परतोपि वा क्वचिन्निणीतौ सर्वत्र परत एव निर्णीतिरिति चोद्यमनवयं हेतुद्वयनियमान्नियमसिद्धेः। खतस्तन्निश्चये हि बहिरंगो हेतुरभ्यासादिः, परतोऽनभ्यासादिः, अंतरंगस्तु तदावरणक्षयोपशमविशेषः संप्रतीयते । तदनेन खप्नस्य बाध्यमानत्वनिश्चयेप्यन्योन्याश्रयानवस्थाप्रतिक्षेपः प्रदर्शित, इति खप्नसिद्धमसिद्धमेव, तद्वत्संवृतिसिद्धमपीति न तदाश्रयं परीक्षणं नाम ॥ ततो न निश्चितान्मानाद्विना तत्त्वपरीक्षणम् । ज्ञाने येनाद्वये शून्येन्यत्र वा तत्प्रतन्यते ॥ १६०॥ प्रमाणासंभवाद्यत्र वस्तुमात्रमसंभवि । मिथ्र्यकांतेषु का तत्र बंधहेत्वादिसंकथा ॥ १६१॥ प्रमाणनिष्ठा हि वस्तुव्यवस्था तन्निष्ठा बंधहेत्वादिवार्ता, न च सर्वथैकांते प्रमाणं संभवतीति वीक्ष्यते ॥ स्याद्वादिनामतो युक्तं यस्य यावत्प्रतीयते । कारणं तस्य तावत्स्यादिति वक्तुमसंशयम् ॥ १६२ ॥ प्रतीत्याश्रयणे सम्यक् चारित्रं दर्शनविशुद्धिविभितं प्रवृद्धद्धबोधमधिरूढमनेकाकारं सकलकर्मनिर्दहनसमर्थ यथोदितमोक्षलक्ष्मीसंपादननिमित्तमसाधारणं, साधारणं तु कालादिसंपदिति निर्बाधमनुमन्यध्वं, प्रमाणनयैस्तत्त्वाधिगमसिद्धेः ॥ नाना नानात्मनीनं नयनयनयुतं तन्न दुर्णीतिमानं तत्त्वश्रद्धानशुध्ध्यु षिततनु बृहद्बोधधामादिरूढं । चंचच्चारित्रचक्रं प्रचुरपरिचरचंडकर्मारिसेनां सातुं साक्षात्समर्थ घटयतु सुधियां सिद्धसाम्राज्यलक्ष्मीम् ॥१॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमाध्यायस्य प्रथममाह्निकम् । - १ परतोनिश्चये अनभ्यासादिबहिरंगो हेतुः। २ प्रमाणात् । Page #92 -------------------------------------------------------------------------- ________________ 9 प्रथमोऽध्यायः । अथ सम्यग्दर्शनविप्रतिपत्तिनिवृत्त्यर्थमाह ; : तत्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ ननु सम्यग्दर्शनशब्दनिर्वचनसामर्थ्यादेव सम्यग्दर्शनस्खरूपनिर्णयादशेषतद्विप्रतिपत्तिनिवृत्तेः सिद्धत्वात्तदर्थं तल्लक्षणवचनं न युक्तिमदेवेति कस्यचिदारेका, तामपाकरोति ; ८३ सम्यक्शब्दे प्रशंसार्थे दृशावालोचनस्थितौ । न सम्यग्दर्शनं लभ्यमिष्टमित्याह लक्षणम् ॥ १ ॥ सूत्रकारोऽत्र तत्त्वार्थश्रद्धानमिति दर्शनम् । धात्वनेकार्थवृत्तित्वाद् दृशेः श्रद्धार्थतागतेः ॥ २ ॥ सम्यगिति प्रशंसार्थो निपातः वयंतो वेति वचनात् प्रशंसार्थोयं सम्यक् शब्दः सिद्धः प्रशस्तनिःश्रेयसाभ्युदयहेतुत्वाद्दर्शनस्य प्रशस्तत्वोपपत्तेर्ज्ञानचारित्रवत् । दृशेश्चालोचने स्थितिः प्रसिद्धा, दृशिन् प्रेक्षणे इति वचनात् । तत्र सम्यक् पश्यत्यनेनेत्यादिकरणसाधनत्वादिव्यवस्थायां दर्शनशब्दनिरुक्तेरिष्टलक्षणं सम्यग्दर्शनं न लभ्यत एव ततः प्रशस्तालोचनमात्रस्य लब्धेः । न च तदेवेष्टमतिव्यापित्वादभव्यस्य मिथ्यादृष्टेः प्रशस्तालोचनस्य सम्यग्दर्शनप्रसंगात् । ततः सूत्रकारोऽत्र " तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्” इति तल्लक्षणं ब्रवीति, तद्वचनमंतरेणातिव्याप्तेः परिहर्तुमशक्तेः । शब्दार्थातिक्रमः श्रद्धानार्थत्वाभावाद् दृशेरिति चेत् न, अनेकार्थत्वाद्धातूनां दृशेः श्रद्धानार्थत्वगतेः । कथमनेकस्मिन्नर्थे संभवत्यपि श्रद्धानार्थस्यैव गतिरिति चेत्, प्रकरणविशेषात् । मोक्षकारणत्वं हि प्रकृतं तत्त्वार्थश्रद्धानस्य युज्यते नालोचनादेरर्थीतरस्य । भगवदर्हदाद्यालोचनस्य मोक्षकारणत्वोपपत्तेस्तत्प्रकरणादपि न तन्निवृत्तिरिति चेत्, तत्त्वार्थश्रद्धानेन रहितस्य मोक्षकारणत्वेऽतिप्रसंगात्, तेन सहितस्य तु तत्कारणत्वे तदेव मोक्षस्य कारणं तदालोचनाभावेपि श्रद्धानस्य तद्भावाविरोधात् ॥ I अर्थग्रहणतोनर्थश्रद्धानं विनिवारितम् | कल्पितार्थव्यवच्छेदोर्थस्य तत्त्वविशेषणात् ॥ ३ ॥ लक्षणस्य ततो नातिव्याप्तिग्मोहवर्जितम् । पुंरूपं तदिति ध्वस्ता तस्याव्याप्तिरपि स्फुटम् ॥ ४ ॥ श्रद्धानं सम्यग्दर्शनमित्युच्यमानेऽनर्थ श्रद्धानमपि तत्स्यादित्यतिव्याप्तिर्लक्षणस्य माभूत् अर्थग्रहणात् । न चार्थानर्थविभागो दुर्घटः प्रमाणोपदर्शितस्यार्थत्वसिद्धेरितरस्यानर्थत्वव्यवस्थानात् । सर्वो वाग्विकल्पगोचरोर्थ एव प्रमाणोपदर्शितत्वादन्यथा तदनुपपत्तेः, प्रमाणोपदर्शितत्वं तु सर्वस्य विकल्पवाग्गोचरत्वान्यथानुपपत्तेः ततो नानर्थः कश्चिदित्यन्ये । तेप्येवं प्रष्टव्याः | सर्वोनर्थ एवेति पक्षोऽर्थे स्याद्वा न वा ? स्याच्चेत्सर्वस्यार्थत्वव्याघातो दुर्निवारः, न स्याच्चेत्तेन व्यभिचारी हेतुर्वाग्विकल्पगोचरत्वेन प्रमाणोपदर्शितत्वस्यार्थत्वमंतरेणापि भावात् । यदि पुनः प्रमाणोपदर्शित एव न भवति तदा विकल्पवाग्गोचरत्वं तेनानैक्रांतिकं साध्याभावेपि भावात् । यदि पुनः सर्वोनर्थ एवेति पक्षो विकल्पवाग्गोचरो न भवतीति ब्रुवते तदा स्ववचनविरोधः । कुतश्चिदविद्याविशेषात् सर्वोनर्थ इति व्यवहारो न तात्त्विक इति चेत्, स तर्ह्य विद्याविशेषोऽर्थोऽनर्थो वा ? यद्यर्थस्तदा कथमेतन्निबंधनो व्यवहारोऽतात्त्विकः स्यात्सर्वोर्थ एवेति व्यवहारवत् । सोनर्थश्चेत्, कथं सर्वोर्थ एवेत्येकांतः सिद्ध्येत् ? सर्वोनर्थ एवेत्येकांतोपि न साधीयान्, तद्व्यवस्थापकस्यानर्थत्वे ततस्तत्सिद्ध्ययोगादर्थत्वे सर्वानर्थतैकांतहानेः । संविन्मात्रमर्थानर्थविभागरहितमित्यपि न श्रेयः, संविन्मात्रस्यैवार्थत्वात्ततोन्यस्यानर्थत्वसिद्धेः । सर्वस्याप्यर्थानर्थविभागसिद्धेरवश्यंभावाद्युक्तमर्थग्रहणमनर्थश्रद्धाननिवृत्त्यर्थं । कल्पितार्थश्रद्धानं सम्यग्दर्शनमेवं स्यात्ततः सैवातिव्याप्तिरिति चेत् न, तत्त्वविशेषणात् । नन्वर्थग्रहणादेव कल्पितार्थस्य निवृत्तेस्तस्यानर्थत्वाद्व्यर्थं तत्त्वविशेषणमिति चेत् न, धनप्रयोजनाभिधेयविशेषाभावानामर्थ शब्दवाच्यानां ग्रहणप्रसंगात् । न च तेषां श्रद्धानं सम्य Page #93 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०२ ग्दर्शनस्य लक्षणं युक्तं, धर्मादर्थो धनमिति श्रद्दधानस्याभव्यादेरपि सम्यग्दर्शनप्रसक्तेः । "कोर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिक" इति प्रयोजनवाचिनोर्थशब्दात् प्रयोजनं श्रद्दधतोपि सदृष्टित्वापत्तेः । धनप्रयोजनयोराभिप्रायो मोहोदयादवास्तव एव प्रक्षीणमोहानामुदासीनानामिव ममेदं स्खं धनं प्रयोजनं चेति संप्रत्ययानुपपत्तेः । सुवर्णादेर्देशकालनरांतरापेक्षायां धनप्रयोजनत्वाप्रतीतेर्वस्तुधर्मस्य तदयोगात्सुवर्णत्वादिवदिति केचित् । तेषां क्रोधादयोप्यात्मनः पारमार्थिका न स्युर्मोहोदयनिबंधनत्वाद्धनप्रयोजन- . योराभिप्रायवत् । तेषामौदयिकत्वेन वास्तवत्वमिति चेत् , अन्यत्र समानं । वस्तुखरूपं धनं प्रयोजनं वा न भवतीति चेत् , सत्यं, वैश्रसिकत्वापेक्षया तस्य वस्तुरूपत्वव्यवस्थानासंभवात् । परोपाधिकृतत्वेन तु तस्य वास्तवत्वमनिषिद्धमेवेति नानर्थत्वं, येनार्थग्रहणादेव तन्निवर्तनं सियेत् । तथाभिधेये विशेषे अभावे चार्थे श्रद्धानं सम्यग्दर्शनस्य लक्षणमव्यापि प्रसज्यते, सर्वस्याभिधेयत्वाभावाव्यंजनपर्यायाणामेवाभिधेयतया व्यवस्थापितत्वादर्थपर्यायाणामाख्यातुमशक्तेरननुगमनात् संकेतस्य तत्र वैयर्थ्याद् व्यवहारासिद्धेर्नाभिधेयस्यार्थस्य श्रद्धानं तल्लक्षणं युक्तं । नापि विशेषस्य सामान्यश्रद्धानस्य दर्शनत्वाभावप्रसंगात् । तथैवाभावस्यार्थस्य श्रद्धानं न तल्लक्षणं भावश्रद्धानस्यासंग्रहादव्याप्तिप्रसक्तेः । नन्वेवमर्थग्रहणादिवत्तत्त्ववचनादपि कथमभिधेयविशेषाभावानां निवृत्तिस्तेषां कल्पितत्वाभावादिति चेत् न, अभिधेयस्य शब्दनयोपकल्पितत्वाद्विशेषस्य ऋजुसूत्रोपकल्पितत्वादभावस्य च धनप्रयोजनवत्कल्पितत्वसिद्धेस्तावन्मात्रस्य सकलवस्तुत्वाभावाद्वस्त्वेकदेशतया स्थितत्वात् । तत्त्वश्रद्धानमित्यस्तु लघुत्वादतिव्याप्त्यव्याप्त्योरसंभवादित्यपरः । सोपि न परानुग्रहबुद्धिस्तत्त्वशब्दार्थे संदेहात् । तत्त्वमिति श्रद्धानं तत्त्वस्य वा तत्त्वे वा तत्त्वेन वेत्यादिपक्षः संभवेत् क्वचिनिर्णयानुपपत्तेः । न हि तत्त्वमिति श्रद्धानं तत्त्वश्रद्धानमित्ययं पक्षः श्रेयान् “पुरुष एवेदं सर्व नेह नानास्ति किंचन"इति सर्वैकत्वस्य तत्त्वस्य, ज्ञानाद्वैतादेर्वा श्रद्धानप्रसंगात् । नापि तत्त्वस्य तत्त्वे तत्त्वेन वा श्रद्धानमिति पक्षाः संगच्छंते कस्य कस्मिन् वेति प्रश्नाविनिवृत्तेः । तत्त्वविशेषणे त्वर्थे श्रद्धानस्य न किंचिदवद्यं दर्शनमोहरहितस्य पुरुषवरूपस्य वा तत्त्वार्थश्रद्धानशब्देनाभिधानात्, सरागवीतरागसम्य. ग्दर्शनयोस्तस्य सद्भावादव्याप्तेः स्फुटं विध्वंसनात् । कथं तर्हि तत्त्वेनार्थो विशेष्यते? इत्युच्यतेयत्त्वेनावस्थितो भावस्तत्त्वेनैवार्यमाणकः । तत्त्वार्थः सकलोन्यस्तु मिथ्यार्थ इति गम्यते ॥५॥ __ तदिति सामान्याभिधायिनी प्रकृतिः सर्वनामत्वात् , तदपेक्षत्वात्प्रत्ययार्थस्य भावसामान्यसंप्रत्ययस्तत्ववचनात् , तस्य भावस्तत्त्वमिति, न तु गुणादिसंप्रत्ययस्तदनपेक्षत्वात् प्रत्ययार्थस्य । तत्र तत्त्वेनार्यमाणस्तत्त्वार्थ इत्युक्ते सामर्थ्यागम्यते यत्त्वेनावस्थित. इति, यत्तदोनित्यसंबंधात् । तेनैतदुक्तं भवति, यत्त्वेन जीवादित्वेनावस्थितः प्रमाणनयैर्भावस्तत्त्वेनैवार्यमाणस्तत्त्वार्थः सकलो जीवादिर्न पुनस्तदंशमात्रमुपकल्पितं कुतश्चिदिति । ततोन्यस्तु सर्वथैकांतवादिभिरभिमन्यमानो मिथ्यार्थस्तस्य प्रमाणनयैस्तथार्यमाणत्वाभावादिति खयं प्रेक्षावद्भिर्गम्यते किं नश्चितया ॥ मोहारेकाविपर्यासविच्छेदात्तत्र दर्शनम् । सम्यगित्यभिधानात्तु ज्ञानमप्येवमीरितम् ॥ ६॥ तत्र तत्त्वार्थे कस्यचिदव्युत्पत्तिर्मोहोध्यवसायापाय इति यावत् । चलिता प्रतिपत्तिरारेका, किमयं जीवादिः किमित्थमिति वा धर्मिणि धर्मे वा कचिदवस्थानाभावात् । अतस्मिंस्तदध्यवसायो विपर्यासः । इति संक्षेपतस्त्रिविधमिथ्यादर्शनव्यवच्छेदादुपजायमानं सम्यगिति विज्ञापयते ज्ञानमप्येवमेव सम्यगिति निवेदितं, तस्य मोहादिव्यवच्छेदेन तत्त्वार्थाध्यवसायस्य व्यवस्थापनात् । तर्हि सूत्रकारेण सम्यग्ज्ञानस्य लक्षणं कस्माद्भेदेन नोक्तम् ? Page #94 -------------------------------------------------------------------------- ________________ ८५ प्रथमोऽध्यायः। सामर्थ्यादादिसूत्रे तन्निरुक्त्या लक्षितं यतः । चारित्रवत्ततो नोक्तं ज्ञानादेर्लक्षणं पृथक ॥७॥ यथा पावकशब्दस्योच्चारणात् संप्रतीयते । तदर्थलक्षणं तद्वज्ज्ञानचारित्रशब्दनात् ॥ ८॥ ज्ञानादिलक्षणं तस्य सिद्धेर्यत्नांतरं वृथा । शब्दार्थाव्यभिचारेण न पृथग्लक्षणं कचित् ॥९॥ नन्वेवं मत्यादीनां पृथग्लक्षणसूत्रं वक्तव्यं शब्दार्थव्यभिचारादिति न चोद्यं, कारणादिविशेषसूत्रैस्त• दर्थव्यभिचारस्य परिहृतत्वात् । सम्यग्दर्शनस्य लक्षणसूत्रमनर्थकमेवं स्यात् कारणविशेषसूत्रादेव तच्छब्दार्थस्य व्यभिचारपरिहरणादिति चेन्न, निसर्गाधिगमकारणविशेषस्य प्रशस्तालोचनेपि भावाध्यभिचारस्य तदवस्थानात् । न हि परोपदेशनिरपेक्षं निसर्गजं प्रशस्तालोचनं न संभवति परोपदेशापेक्षं वाधिगमजं प्रशस्तालोचनवदिति युक्तं सम्यग्दर्शनस्य पृथग्लक्षणवचनं शब्दार्थव्यभिचारात् , तदव्यभिचारे तद्वन्नान्यस्य मत्यादेानचारित्रवदेव ॥ इच्छा श्रद्धानमित्येके तदयुक्तममोहिनः । श्रद्धानविरहाशक्तेमा॑नचारित्रहानितः ॥ १० ॥ न ह्यमोहानामिच्छास्ति तस्य मोहकार्यत्वादन्यथा मुक्तात्मनामपि तद्भावप्रसंगात् । हेयोपादेययोर्जिहासोपादित्सा च विशिष्टा श्रद्धा वीतमोहस्यापि संभवति तस्या मनःकार्यत्वादिति चेन्न, तस्या मनस्कार्यत्वे सर्वमनस्विनां तद्भावानुषंगात् । ज्ञानापेक्षं मनः कारणमिच्छाया इति चेन्न, केषांचिन्मिथ्याज्ञानभावेप्युदासीनदशायां हेयेषूपादित्सानवलोकनात् उपादेयेषु च जिहासाननुभावात् , परेषां सम्यग्ज्ञानसद्भावेपि हेयोपादेयजिहासोपादित्साविरहात् । विषयविशेषापेक्षान्मनसस्तदिच्छाप्रभव इत्यपि न युक्तं, तदभावेपि कस्यचिदिच्छोत्पत्तेस्तद्भावेपि चेच्छानुद्भवात् । कालादयोनेनैवेच्छाहेतवो विध्वस्ताः, तेषां सर्वकार्यसाधारणकारणत्वाच्च नेच्छाविशेषकारणत्वनियमः । खोत्पत्तावदृष्टविशेषादिच्छाविशेष इति चेत्, भावादृष्टविशेषाद् द्रव्यादृष्टविशेषाद्वा ? प्रथमकल्पनायां न तावत्साक्षात् भावादृष्टस्यात्मपरिणामस्वेच्छाव्यभिचारित्वात् । परंपरया चेत्तर्हि द्रव्यादृष्टादेव साक्षादिच्छोत्पत्तिस्तच्च द्रव्यादृष्टं मोहनीयाख्यं कर्म पौद्गलिकमात्मपारतंत्र्यहेतुत्वादुन्मत्तकरसादिवदिति मोहकार्यमिच्छा कथममोहानामुद्भवेत् ? यतस्तल्लक्षणं श्रद्धानं सम्यग्दर्शनं तेषां स्यात् । तदभावे न सम्यग्ज्ञानं तत्पूर्वकं वा सम्यक्चारित्रमिति क्षीणमोहानां रत्नत्रयापायान्मुक्तयपायः प्रसज्येत । ततस्तेषां तव्यवस्थामिच्छता नेच्छा श्रद्धानं वक्तव्यम् ॥ निर्देशाल्पबहुत्वादिचिंतनस्याविरोधतः । श्रद्धाने जीवरूपेस्मिन्न दोषः कश्चिदीक्ष्यते ॥ ११॥ न हि निर्देशादयो दर्शनमोहरहितजीवखरूपे श्रद्धाने विरुद्ध्यंते तथैव निर्देशादिसूत्रे विवरणात्, नाप्यल्पबहुत्वसंख्याभेदांतरभावाः पुरुषपरिणामस्य नानात्वसिद्धेः । पुरुषरूपस्यैकत्वात् तत्र तद्विरोध एवेति चेन्न, दर्शनमोहोपशमादिभेदापेक्षस्य तस्यैकत्वायोगात् । अन्यथा सर्वस्यैकत्वापत्तिः कारणादिभेदस्याभेदकत्वात् , कचित्तस्य भेदकत्वे वा सिद्धः पुरुषस्य खभावभेदः । इति जीवद्रव्याद्भेदेन निर्देशादयस्तत्र साधीयांसोल्पबहुत्वादिवदिति वक्ष्यते । कर्मरूपत्वेपि श्रद्धानस्य तदविरोध इति चेन्न, तस्य मोक्षकारणत्वाभावात् , स्वपरिणामस्यैव तत्कारणत्वोपपत्तेः । कर्मणोपि मुक्तिकारणत्वमविरुद्धं खपरनिमित्तत्वान्मोक्षस्येति चेन्न, कर्मणोन्यस्यैव कालादेः परनिमित्तस्य सद्भावात् । ननु च यथा मोक्षो जीवकर्मणोः परिणामस्तस्य द्विष्ठत्वात् , तथा मोक्षकारणश्रद्धानमपि तदुभयविवर्तरूपं भवत्विति चेन्न, मोक्षावस्थायां तदभावप्रसंगात् , स्वपरिणामिनोऽसत्त्वे परिणामस्याघटनात् , पुरुषपरिणामादेव च कर्मसामर्थ्यहननात्तस्य कर्मरूप १"तदिन्द्रियानिन्द्रियनिमित्तम्" इत्यादिकारणसूत्राणि मत्यादेः। २ साक्षादात्मपरिणामस्येच्छा न। कुतः? व्यभि. चारात् । यतो नह्यात्मनः सर्वदा इच्छा। Page #95 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०२ वायोगात् । ततो न कर्मरूपं सम्यग्दर्शनं निःश्रेयसप्रधानकारणत्वादहेयत्वात्सम्यग्ज्ञानवत् । निःश्रेयसस्य प्रधानं कारणं सम्यग्दर्शनमसाधारणखधर्मत्वात्तद्वत् । असाधारणः खधर्मः सद्दर्शनं मुक्तियोग्यस्य ततोन्यस्यासंभवात्तद्वत् । इति जीवरूपे श्रद्धाने सद्दर्शनस्य लक्षणे न कश्चिद्दोषोसंभवोतिव्याप्तिरव्याप्ति समीक्ष्यते ॥ सरागे वीतरागे च तस्य संभवतोंजसा । प्रशमादेरभिव्यक्तिः शुद्धिमात्राच चेतसः ॥ १२ ॥ यथैव हि विशिष्टात्मखरूपं श्रद्धानं सरागेषु संभवति तथा वीतरागेष्वपीति तस्याव्याप्तिरपि दोषो न शंकनीयः। कुतस्तत्र तस्याभिव्यक्तिरिति चेत् , प्रशमसंवेगानुकंपास्तिक्येभ्यः सरागेषु सद्दर्शनस्य वीतरागेष्वात्मविशुद्धिमात्रादित्याचक्षते । तत्रानंतानुबंधिनां रागादीनां मिथ्यात्वसम्यग्मिथ्यात्वयोश्चानुद्रेकः प्रशमः । द्रव्यक्षेत्रकालभवभावपरिवर्तनरूपात् संसारागीरुता संवेगः । त्रसस्थावरेषु प्राणिषु दयानुकंपा। जीवादितत्त्वार्थेषु युक्त्यागमाभ्यामविरुद्धेषु याथात्म्योपगमनमास्तिक्यं । एतानि प्रत्येकं समुदितानि वा खस्मिन् खसंविदितानि, परत्र कायवाग्व्यवहारविशेषलिंगानुमितानि सरागसम्यग्दर्शनं ज्ञापयंति, तदभावे मिथ्यादृष्टिष्वसंभवित्वात् , संभवे वा मिथ्यात्वायोगात् । मिथ्यादृशामपि केषांचित्क्रोधाद्यनुद्रेकदर्शनात् प्रशमोऽनैकांतिक इति चेन्न, तेषामपि सर्वथैकांतेऽनंतानुबंधिनो मानस्योदयात् । खात्मनि चानेकांतात्मनि द्वेषोदयस्यावश्यंभावात् पृथिवीकायिकादिषु प्राणिषु हननदर्शनाच । एतेन संवेगानुकंपयोमिथ्यादृष्टिष्वसंभवकथनादनैकांतिकता हता, संविमस्यानुकंपावतो वा निःशंकप्राणिघाते प्रवृत्त्यनुपपत्तेः । सद्दष्टेरप्यज्ञानात्तत्र तथा प्रवृत्तिरिति चेत्, व्याहतमिदं 'सद्दष्ठिश्च जीवतत्त्वानभिज्ञश्चेति तदज्ञानस्यैव मिथ्यात्वविशेषरूपत्वात् । परेषामपि वाभिमततत्त्वेष्वास्तिक्यस्य भावादनैकांतिकत्वमिति चेत् न, सर्वथैकांततत्त्वानां दृष्टेष्टबाधितत्वेन व्यवस्थानायोगादेकांतवादिनां भगवदर्हत्स्याद्वादश्रद्धानविधुराणां नास्तिकत्वनिर्णयात् । तदुक्तं । “त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनाम् । आत्माभिमानदग्धानां खेष्टं दृष्टेन बाध्यते" इति । तदनेन प्रशमादिसमुदायस्यानैकांतिकत्वोद्भावनं प्रतिक्षिप्तं । ननु प्रशमादयो यदि खस्मिन् वसंवेद्याः श्रद्धानमपि तत्त्वार्थानां किन्न स्वसंवेद्यं ? यतस्तेभ्योनुमीयते। स्वसंवेद्यत्वाविशेषेपि तैस्तदनुमीयते न पुनस्ते तस्मादिति कः श्रद्दधीतान्यत्र परीक्षकादिति चेत् , नैतत्सारं, दर्शनमोहोपशमादिविशिष्टात्मस्वरूपस्य तत्त्वार्थश्रद्धानस्य स्वसंवेद्यत्वानिश्चयात् । खसंवेद्यं पुनरास्तिक्यं तद. भिव्यंजकं प्रशमसंवेगानुकंपावत् कथंचित्ततो भिन्नं तत्फलत्वात् । तत एव फलतद्वतोरभेदविवक्षायामास्तिक्यमेव तत्त्वार्थश्रद्धानमिति, तस्य तद्वत्प्रत्यक्षसिद्धत्वात्तदनुमेयत्वमपि न विरुध्यते । मतांतरापेक्षया च खसंविदितेपि तत्त्वार्थश्रद्धाने विप्रतिपत्तिसद्भावात्तन्निराकरणाय तत्र प्रशमादिलिंगादनुमाने दोषाभावः । सम्यग्ज्ञानमेव हि सम्यग्दर्शनमिति हि केचिद्विप्रवदंते तान् प्रति ज्ञानात् भेदेन दर्शनं प्रशमादिभिः कार्यविशेषैः प्रकाश्यते । ज्ञानकार्यत्वात्तेषां न तत्प्रकाशकत्वमिति चेन्न, अज्ञाननिवृत्तिफलत्वात् ज्ञानस्य । साक्षादज्ञाननिवृत्तिर्ज्ञानस्य फलं, परंपरया प्रशमादयो हानादिबुद्धिवदिति चेत् , तर्हि हानादिबुद्धिवदेव ज्ञानादुत्तरकालं प्रशमादयोऽनुभूयेरन् , न चैवं ज्ञानसमकालं प्रशमाद्यनुभवनात्। पूर्वज्ञानफलत्वात् प्रशमादेः सांप्रतिकज्ञानसमकालतयानुभवनमिति चेत् , तर्हि पूर्वज्ञानसमकालवर्तिनोपि प्रशमादेस्तत्पूर्वज्ञानफलत्वेन भवितव्यमित्यनादित्वप्रसक्तिरवितथा ज्ञानस्य । सम्यग्दर्शनसमसमयमनुभूयमानत्वात् प्रशमादेस्तत्फलत्वमपि मा भूत् इति चेन्न, तस्य तदभिन्नफलत्वोपगमात्तत्समसमयवृत्तित्वाविरोधात् । ततो दर्शनकार्यत्वाद्दशेनस्य ज्ञापकाः प्रशमादयः सहचरकार्यत्वात्तु ज्ञानस्थेत्यनवयं । पेरत्र प्रशमादयः १ एकान्तात्मकेमिमते साधु मे मतमित्याकारकस्यानंतानुबंधिनो मानस्येत्यर्थः। २ परस्मिन् पुरुषे । Page #96 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। संदिग्धासिद्धत्वान्न सद्दर्शनस्य गमका इति चेन्न, कायवाग्व्यवहारविशेषेभ्यस्तेषां तत्र सद्भावनिर्णयस्योक्तत्वात् । तेषां तद्व्यभिचारान्न तत्सद्भावनिर्णयहेतुत्वमिति चेन्न, सुपरीक्षितानामव्यभिचारात् । सुपरीक्षितं हि कार्य कारणं गमयति नान्यथा । यदि पुनरतींद्रियत्वात् परप्रशमादीनां तद्भावे कायादिव्यवहारविशेषसद्भावोऽशक्यो निश्चेतुमिति मतिः, तदा तदभावे तद्भाव इति कथं निश्चीयते ? तत एव संशयोस्त्विति , चेन्न, तस्य क्वचित्कदाचिन्निर्णयमंतरेणानुपपत्तेः स्थाणुपुरुषसंशयवत् । वसंताने निर्णयोस्तीति चेत् , तर्हि यादृशाः प्रशमादिषु सत्सु कायादिव्यवहारविशेषाः खस्मिन्निर्णीतास्तादृशाः परत्रापि तेषु सत्वेवेति निर्णीयतां । यादृशास्तु तेष्वसत्सु प्रतीतास्तादृशाः तदभावस्य गमकाः कथं न स्युः ? संशयितखभावास्तु तत्संशयहेतव इति युक्तं वक्तुं । नन्वेवं यथा सरागेषु तत्त्वार्थश्रद्धानं प्रशमादिभिरनुमीयते तथा वीतरागेष्वपि तत्तैः किं नानुमीयते ? इति चेन्न, तस्य खस्मिन्नात्मविशुद्धिमात्रत्वात् सकलमोहाभावे समारोपानवतारात् खसंवेदनादेव निश्चयोपपत्तेरनुमेयत्वाभावः । परत्र तु प्रशमादीनां तल्लिङ्गानां सतामपि निश्चयोपायानां कायादिव्यवहारविशेषाणामपि तदुपायानामभावात् । कथमिदानीमप्रमत्तादिषु सूक्ष्मसांपरायांतेषु सद्दर्शनं प्रशमादेरनुमातुं शक्यं ? तन्निर्णयोपायानां कायादिव्यवहारविशेषाणामभावादेव । न हि तेषां कश्चिद्व्यापारोस्ति वीतरागवत् , व्यापारे वा तेषामप्रमत्तत्वादिविरोधादिति कश्चित् । सोप्यभिहितानभिज्ञः, सर्वेषु सरागेषु सद्दर्शनं प्रशमादिभिरनुमीयत इत्यनभिधानात् , यथासंभवं सरागेषु वीतरागेषु च सद्दर्शनस्य तदनुमेयत्वमात्मविशुद्धिमात्रत्वं चेत्यभिहितत्वात् । तत एव सयोगकेवलिनो वाग्व्यवहारविशेषदर्शनात् सूक्ष्माद्यर्थविज्ञानानुमानं न विरुध्यते । प्रधानस्य विवर्तोऽयं श्रद्धानाख्य इतीतरे । तदसत्पुंसि सम्यक्त्वभावासंगात्ततो परे ॥ १३ ॥ न हि प्रधानस्य परिणामः श्रद्धानं ततोऽपरस्मिन् पुरुषे सम्यक्त्वमिति युक्तं लक्ष्यलक्षणयोर्भिन्नाश्रयत्वविरोधादम्युप्णत्ववत् ॥ प्रधानस्यैव सम्यक्त्वाच्चैतन्यं सम्यगिष्यते । बुधध्यवसितार्थस्य पुंसा संचेतनाद्यदि ॥१४॥ तदाहंकारसम्यक्त्वात् बुद्धेः सम्यक्त्वमश्नुते । अहंकारास्पदार्थस्य तथाप्यध्यवसानतः ॥१५॥ मनःसम्यक्त्वतः सम्यगहंकारस्तथा न किम् । मनःसंकल्पितार्थेषु तत्प्रवृत्तिप्रकल्पनात् ॥१६॥ तथैवेंद्रियसम्यक्त्वान्मनः सम्यगुपेयताम् । इंद्रियालोचितार्थेषु मनःसंकल्पनोदयात् ॥ १७॥ इंद्रियाणि च सम्यश्चि भवंतु परतस्तव । स्वाभिव्यंजकसम्यक्त्वादिभिः सम्यक्त्वतः किमु १८ अर्थवव्यंजकाधीनं मुख्यं सम्यक्त्वमिष्यते । इंद्रियादिषु तद्वत्स्यात् पुंसि तत्परमार्थतः ॥१९॥ एवं प्रधानसम्यक्त्वाच्चैतन्यसम्यक्त्वेऽभ्युपगम्यमानेऽतिप्रसंजनमुक्तं । तत्त्वतस्तुन च प्रधानधर्मत्वं श्रद्धानस्य चिदात्मनः । चैतन्यस्यैव संसियेदन्यथा स्याद्विपर्ययः ॥२०॥ चिदात्मकत्वमसिद्धं श्रद्धानस्येति चेन्न, तस्य स्वसंवेदनतः प्रसिद्धर्ज्ञानवत् । साधितं ज्ञानादीनां चेतनात्मकत्वं पुरस्तात् ॥ न श्रद्धत्ते प्रधानं वा जडत्वात्कलशादिवत् । प्रतीत्याश्रयणे त्वात्मा श्रद्धातास्तु निराकुलम् ॥२१ __न हि श्रद्धाताहमिति प्रतीतिरचेतनस्य प्रधानस्य जातुचित्संभाव्यते कलशादिवत् । यतोयमात्मैव श्रद्धाता निराकुलं न स्यात् । प्रांतेयमात्मनि प्रतीतिरिति चेन्न, बाधकाभावात् । नात्मधर्मः श्रद्धानं भंगुरत्वाद्धटवदित्यपि न तद्बाधकं, ज्ञानेन व्यभिचारित्वात् । न च ज्ञानस्यानात्मधर्मत्वं युक्तमात्मधर्मत्वेन प्रसाधितत्वात् । ततः सूक्तमात्मस्वरूपं दर्शनमोहरहितं तत्त्वार्थश्रद्धानं सम्यग्दर्शनस्य लक्षणमिति ।। Page #97 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ३ न सम्यग्दर्शनं नित्यं नापि तन्नित्यहेतुकम् । नाहेतुकमिति प्राह द्विधा तज्जन्मकारणम् ॥ तनिसर्गादधिगमादा ॥३॥ उत्पद्यत इति क्रियाध्याहान्न नित्यं सम्यग्दर्शनं ज्ञायत इति । नोत्पद्यत इति क्रियाध्याहारान्नित्यं तदिति चेत् , द्रव्यतः पर्यायतो वा ? द्रव्यतश्चेत् सिद्धसाध्यता । पर्यायतस्तु तस्य नित्यत्वे सततसंवेदनप्रसंगः । नित्यं तदनंतत्वाज्जीवद्रव्यवदिति चेत् न, केवलज्ञानादिभिर्व्यभिचारात् । तेषामपि पक्षीकरणे मोक्षस्य नित्यत्वप्रसक्तेः क संसारानुभवः ? न च मोक्षकारणस्य सम्यग्दर्शनादित्रयात्मकस्यानित्यत्वेपि मोक्षस्यानित्यत्वमुपपद्यते, मोक्षस्यानंतत्वेपि च सादित्वे सम्यक्त्वादीनामनंतत्वेपि सादित्वं कथं न भवेत् ? ततो नोत्पद्यत इति क्रियाध्याहारविरोधः । एतेनाहेतुकं सद्दर्शनमिति निरस्तं । नित्यहेतुकं तदित्यप्ययुक्तं, मिथ्यादर्शनस्याखसद्भावप्रसंगात् तत्कारणस्य सदर्शनकारणे विरोधिनि सर्वदा सति संभवादनुपपत्तेः येन च तन्नित्यं नापि नित्यहेतुकं नाहेतुकं । तेन नानादिता तस्य सर्वदोत्पत्तिरेव वा । नित्यं तत्सत्वसंबद्धात्प्रसज्येताविशेषतः ॥१॥ ननु च मिथ्यादर्शनस्य नित्यत्वाभावेपि नानादित्वव्यवच्छेदो दृष्ट इति चेन्न, तस्यानादिकारणत्वात् । न च तत्कारणस्यानादित्वान्नित्यत्वप्रसक्तिः संतानापेक्षयानादित्ववचनात् , पर्यायापेक्षया तस्यापि सादित्वात् । तस्यानाद्यनंतत्वे वा सर्वदा मोक्षस्याभावापत्तेः । नित्यहेत्वहेतुकत्वाभावे सर्वदोत्पत्तिव्यवच्छेदोनुपपन्नः केषांचित्संसारस्य तादृशत्वेपि सर्वदोत्पत्तिदर्शनादिति चेन्न, तस्य नित्यहेतुसंतानत्वात् । प्रागभावस्याहेतुकत्वेपि नित्यत्वसत्त्वयोरदर्शनान्नाहेतुकस्य सम्यग्दर्शनस्य तत्प्रसंगो येन तन्निवृत्तये तस्य सहेतुकत्वमुच्यते इति चेन्न, प्रागभावस्याहेतुकत्वासिद्धेः । स हि घटोत्पत्तेः प्राक् तद्विविक्तपर्यायपरंपरारूपो वा द्रव्यमात्ररूपो वा ? प्रथमपक्षे पूर्वपूर्वपर्यायादुत्पत्तेः कथमसौ कार्योत्पत्तिपूर्वकालभावी पर्यायकलापोऽहेतुको नाम यतः कार्यजन्मनि तस्यासत्त्वं पूर्व सतोपि विरुध्यते तदा वाऽसत्त्वेपि पूर्व सत्त्वं न घटते । द्वितीयपक्षे तु यथा प्रागभावस्याहेतुकत्वं तथा नित्यं सत्त्वमपि द्रव्यमानस्य कदाचिदसत्त्वायोगात् । कार्योत्पत्तौ कार्यरहितत्वेन प्राच्येन रूपेण द्रव्यमसदेवेति चेत्, नन्वेवं कार्यरहितत्वमेव विशेषणमसन्न पुनद्रव्यं तस्य तन्मात्रखरूपत्वाभावात् । तुच्छः प्रागभावो न भावखभाव इति चायुक्तं, तस्य कार्योत्पत्तेः पूर्वमेव सत्त्वविरोधात् कार्यकाले वा सत्त्वायोगात् , सत्त्वासत्त्वविशेषणयोर्भावाश्रयत्वदर्शनात् । तथा च न प्रागभावस्तुच्छः सत्त्वासत्त्वविशेषणाश्रयत्वाद् द्रव्यादिवत् विपर्ययप्रसंगो वा विशेषाभावात् । कदाचित्सत्त्वमसत्त्वं च विशेषणमुपचारात्प्रागभावस्येति चेत् , तर्हि न तत्त्वतः कदाचिसत्त्वं पुनरसत्त्वमहेतुकस्यापि भवतीति सर्वदा सत्त्वस्यासत्त्वस्य वा निवृत्तये सद्दर्शनस्याहेतुकत्वं व्यवच्छेत्तव्यमेव नित्यत्वनित्यहेतुकत्ववत् ॥ .. निसर्गादिति निर्देशो हेतावधिगमादिति । तच्छब्देन परामृष्टं सम्यग्दर्शनमात्रकम् ॥ २॥ सूत्रेस्मिन्निसर्गादिति निर्देशोधिगमादिति च हेतौ भवन् सम्यग्दर्शनमात्रपरामर्शित्वं तच्छब्दस्य ज्ञापयति तदुत्पत्तावेव तयोर्हेतुत्वघटनात् , ज्ञानचारित्रोत्पत्तौ तयोर्हेतुत्वे सिद्धांतविरोधान्न मार्गपरामर्शित्वमुपपन्नं । सम्यग्ज्ञानं हि निसर्गादेरुत्पद्यमानं निःशेषविषयं नियतविषयं वा ? न तावदादिविकल्पः केवलस्य सकलश्रुतपूर्वकत्वोपदेशान्निसर्गजत्वविरोधात् । सकलश्रुतज्ञानं निसर्गादुत्पद्यत इत्यप्यसिद्धं, परोपदेशाभावे तस्यानुपपत्तेः । स्वयंबुद्धश्रुतज्ञानमपरोपदेशमिति चेन्न, तस्य जन्मान्तरोपदेशपूर्वकत्वात् तजन्मापेशया खयंबुद्धत्वस्याविरोधात् । देशविषयं मत्यवधिमनःपर्ययज्ञानं निसर्गादेरुत्पद्यत Page #98 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। इति द्वितीयविकल्पोपि न श्रेयान् तस्याधिगमजत्वासंभवात् द्विविधहेतुकत्वाघटनात् । किंचिन्निसर्गादपरमधिगमादुत्पद्यत इति ज्ञानसामान्यं द्विविधहेतुकं घटत एवेति चेत् न, दर्शनेपि तथा प्रसंगात् । न चैतद्युक्तं प्रतिव्यक्ति तस्य द्विविधहेतुकत्वप्रसिद्धः । यथा ह्यौपशमिकं दर्शनं निसर्गादधिगमाच्चोत्पद्यते तथा क्षायोपशमिकं क्षायिकं चेति सुप्रतीतं, चारित्रं पुनरधिगमजमेव तस्य श्रुतपूर्वकत्वात्त • द्विशेषस्यापि निसर्गजत्वाभावान्न द्विविधहेतुकत्वं संभवतीति न त्रयात्मको मार्गः संबध्यते, अत्र दर्शनमात्रस्यैव निसर्गादधिगमाद्वोत्पत्त्यभिसंबंधघटनात् । नन्वेवं तच्छब्दोनर्थकः सामर्थ्यादर्शनेनात्राभिसंबंधसिद्धेरिति चेत् न, शाब्दन्यायान्मार्गेणाभिसंबंधप्रसक्तेः । प्रत्यासत्तेस्ततोपि दर्शनस्यैवाभिसंबंध इति चेन्न, मार्गस्य प्रधानत्वाद्दर्शनस्यास्य तदवयवत्वेन गुणभूतत्वात् , प्रत्यासत्तेः प्रधानस्य बलीयस्त्वात् , सन्निकृष्टविप्रकृष्टयोः सन्निकृष्टे संप्रत्यय इत्येतस्य गौणमुख्ययोर्मुख्य संप्रत्यय इत्यनेनापोहितत्वात् सार्थक एव तच्छब्दो मार्गाभिसंबंधपरिहारार्थत्वात् । ननु च दर्शनवन्मार्गस्यापि पूर्वप्रक्रांतत्वप्रतीतेः तच्छब्दस्य च पूर्वप्रक्रांतपरामर्शित्वात् कथं शाब्दन्यायाद्दर्शनस्यैवाभिसंबंधो न तु मार्गस्येति चेत् न, अस्मात्सूत्राद्दर्शनस्य मुख्यतः पूर्वप्रक्रांतत्वात्परामर्शोपपत्तेः मार्गस्य पूर्वप्रक्रांतत्वादुपचारेण तथा भावात् परामर्शाघटनात् । तदिति नपुंसकलिंगस्यैकस्य निर्देशाच्च न मार्गस्य पुल्लिंगस्य परामर्शो नापि बहूनां सम्यग्दर्शनज्ञानचारित्राणामिति शाब्दान्न्यायादार्थादिव सद्दर्शनं तच्छब्देन परामृष्टमुन्नीयते । कः पुनरयं निसर्गोधिगमो वा यस्मात्तदुत्पद्यत ? इत्याह; विना परोपदेशेन तत्त्वार्थप्रतिभासनम् । निसर्गोधिगमस्तेन कृतं तदिति निश्चयः ॥३॥ ततो नाप्रतिभातेर्थे श्रद्धानमनुषज्यते । नापि सर्वस्य तस्येह प्रत्ययोधिगमो भवेत् ॥ ४ ॥ न हि निसर्गः स्वभावो येन ततः सम्यग्दर्शनमुत्पद्यमानमनुपलब्धतत्त्वार्थगोचरतया रसायनवन्नोपपद्येत । न परोपदेशनिरपेक्षे ज्ञाने निसर्गशब्दस्य प्रवर्तनान्निसर्गतः शूरः सिंह इति यथा खकारणविशेषादभवदपि हि तस्य शौर्य परोपदेशानपेक्षं लोके नैसर्गिकं प्रसिद्धं तद्वत्तत्त्वार्थश्रद्धानमपरोपदेशमत्यादिज्ञानाधिगते तत्त्वार्थे भवन्निसर्गान्न विरुध्यते । नन्वेवं मत्यादिज्ञानस्य दर्शनेन सहोत्पत्तिर्विहन्यते तस्य ततः प्रागपि भावादिति चेन्न, सम्यग्दर्शनोत्पादनयोग्यस्य मत्यज्ञानादेर्मतिज्ञानादिव्यपदेशादर्शनसमकालं मत्यादिज्ञानोत्पत्तेः । तर्हि मिथ्याज्ञानाधिगतेथे दर्शनं मिथ्या प्रसक्तमिति चेन्न, ज्ञानस्यापि मिथ्यात्वप्रसंगात् । सत्यज्ञानस्यापूर्वार्थत्वान्न मिथ्याज्ञानाधिगतेथे प्रवृत्तिरिति चेन्न, सर्वेषां सत्यज्ञानसंतानस्यानादित्वप्रसंगात् । सत्यज्ञानात् प्राक् तदर्थे मिथ्याज्ञानवत्सत्यज्ञानस्याप्यभावान्न तस्यानादित्वप्रसक्तिरिति चेन्न, सर्वज्ञानशून्यस्य प्रमातुरनात्मत्वप्रसंगात् । न चानात्मा प्रमाता युक्तोतिप्रसंगात् । सत्यज्ञानात्पूर्व तद्विषये ज्ञानं न मिथ्या सत्यज्ञानजननयोग्यत्वात् , नापि सत्यं पदार्थयाथात्म्यपरिच्छेदकत्वाभावात् । किं तर्हि ? सत्येतरज्ञानविविक्तं ज्ञानसामान्यं, ततो न तेनाधिगतेथे प्रवर्तमानं सत्यज्ञानं मिथ्याज्ञानं मिथ्याज्ञानाधिगतविषयस्य ग्राहकं नापि गृहीतग्राहीति चेत् , तर्हि कथंचिदपूर्वार्थ सत्यज्ञानं न सर्वथेत्यायातं । तथोपगमे सम्यग्दर्शनं तथैवोपगम्यमानं कथं मिथ्याज्ञानाधिगतार्थे स्यात् ? सत्यज्ञानपूर्वकं वा? यतस्तत्समकालं मतिज्ञानाद्युपगमविरोधः। सर्व सद्दर्शनमधिगमजमेव ज्ञानमात्राधिगते प्रवर्तमानत्वादिति चेन्न, परोपदेशापेक्षस्य तत्त्वार्थज्ञानस्याधिगमशब्देनाभिधानात् । नन्वेवमितरेतराश्रयः सति सम्यग्दर्शने परोपदेशपूर्वकं तत्त्वार्थज्ञानं तस्मिन् सति सम्यग्दर्शनमिति चेन्न, उपदेष्ट्रज्ञानापेक्षया तथाभिधानादित्येके समादधते । तेपि न युक्तवादिनः । परोपदेशापेक्षत्वाभावादुपदेष्टुज्ञानस्य, खयंबुद्धस्योपदेष्टुत्वात् , प्रति १२ Page #99 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ३ पावस्यैव परोपदेशापेक्षतत्त्वार्थज्ञानस्य संभवात् । यदैव प्रतिपाद्यस्य परोपदेशात्तत्त्वार्थज्ञानं तदैव सम्यग्दर्शनं तयोः सहचारित्वात् ततो नेतरेतराश्रय इत्यन्ये । तेपि न प्रकृतज्ञाः । सदर्शनजनकस्य परोपदेशापेक्षस्यात् तत्त्वार्थज्ञानस्य प्रकृतत्वात् तस्य तत्सहचारित्वाभावात् सहचारिणस्तदजनकत्वात् परोपदेशापेक्षस्य तत्त्वार्थज्ञानस्य सम्यग्दर्शनजननयोग्यस्य परोपदेशानपेक्षतत्त्वार्थज्ञानवत्सम्यग्दर्शनात्पूर्व स्वकारणादुत्पत्तेर्नेतरेतराश्रयणमित्यपरे, सकलचोद्यानामसंभवादागमाविरोधात् । सर्व सम्यग्दर्शनं स्वाभाविक- : मेव खकाले स्वयमुत्पत्तेनिःश्रेयसवदिति चेन्न, हेतोरसिद्धत्वात् । सर्वथा ज्ञानमात्रेणाप्यनधिगतेर्थे श्रद्धानस्याप्रसिद्धेः । वेदार्थे शूद्रवत्तत्स्यादिति चेन्न, भारतादिश्रवणाधिगते शूद्रस्य तस्मिन्नेव श्रद्धानदर्शनात् । न प्रत्यक्षतः खयमधिगते मणौ प्रभावादिना संभवानुमानान्निर्णीते कस्यचिद्भक्तिसंभवादन्यथा तदयोगात् । साध्यसाधनविकलत्वाच्च दृष्टांतस्य न खाभाविकत्वसाधनं दर्शनस्य साधीयः । न हि स्वाभाविकं निःश्रेयसं तत्त्वज्ञानादिकतदुपायानर्थकत्वापत्तेः । नापि खकाले खयमुत्पत्तिस्तस्य युक्ता तत एव । केचित्संख्यातेन कालेन सेत्स्यति भव्याः केचिदसंख्यातेन, केचिदनंतेन, केचिदनंतानंतेनापि कालेन न सेत्स्यंतीत्यागमान्निःश्रेयसस्य खकाले खयमुत्पत्तिरिति चेत् न, आगमस्यैवंपरत्वाभावात् । सम्यग्दर्शनज्ञानचारित्रमात्मीभावे सति संख्यातादिना कालेन सेत्स्यतीत्येवमर्थतया तस्य निश्चितत्वात् , दर्शनमोहोपशमादिजन्यत्वाच्च न दर्शनं खकालेनैव जन्यते यतः खाभाविकं स्यात् ॥ अंतर्दर्शनमोहस्य भव्यस्योपशमे सति । तत्क्षयोपशमे वापि क्षये वा दर्शनोद्भवः ॥ ५ ॥ बहिः कारणसाकल्येप्यस्योत्पत्तेरपीक्षणात् । कदाचिदन्यथा तस्यानुपपत्तेरिति स्फुटम् ॥६॥ ततो न खाभाविकोस्ति विपरीतग्रहक्षयः स्याद्वादिनामिवान्येषामपि तथानभ्युपगमात् ॥ पापापायाद्भवत्येष विपरीतग्रहक्षयः । पुंसो धर्मविशेषाद्वेत्यन्ये संप्रतिपेदिरे ॥ ७ ॥ ननु च यदि दर्शनमोहस्योपशमादिस्तत्त्वश्रद्धानस्य कारणं तदा स सर्वस्य सर्वदा तजनयेत् आत्मनि तस्याहेतुकत्वेन सर्वदा सद्भावात् , अन्यथा कदाचित्कस्यचिन्न जनयेत् सर्वदाप्यसत्त्वात् विशेषाभावादिति चेन्न, तस्य सहेतुकत्वात्प्रतिपक्षविशेषमंतरेणाभावात् । कथं प्रतिपक्षविशेषाद्दर्शनमोहस्योपशमादिरित्युच्यते; दृग्मोहस्तु कचिज्जातु कस्यचिन्नुः प्रशाम्यति । प्रतिपक्ष्यविशेषस्य संपत्तेस्तिमिरादिवत् ॥८॥ क्षयोपशममायाति क्षयं वा तत एव सः । तद्वदेवेति तत्त्वार्थश्रद्धानं स्यात्स्वहेतुतः ॥९॥ यः कचित् कदाचित् कस्यचिदुपशाम्यति क्षयोपशममेति क्षीयते वा स खप्रतिपक्षप्रकर्षमपेक्षते यथा चक्षुषि तिमिरादिः । तथा च दर्शनमोह इति नाहेतुकस्तदुपशमादिः ॥ प्रतिपक्षविशेषोपि दृङ्मोहस्यास्ति कश्चन । जीवव्यामोहहेतुत्वादुन्मत्तकरसादिवत् ॥ १०॥ यो जीवव्यामोहहेतुस्तस्य प्रतिपक्षविशेषोस्ति यथोन्मत्तकरसादेः । तथा च दर्शनमोह इति न तस्य प्रतिपक्षविशेषस्य संपत्तिरसिद्धा ॥ स च द्रव्यं भवेत् क्षेत्रं कालो भावोपि वांगिनाम् । मोहहेतुसपत्नत्वाद्विषादिप्रतिपक्षवत् ॥११॥ मोहहेतोहि देहिनां विषादेः प्रतिपक्षो बंध्यकर्कोट्यादि द्रव्यं प्रतीयते, तथा देवतायतनादि क्षेत्र, कालश्च मुहूर्तादिः, भावश्च ध्यानविशेषादिस्तद्वदर्शनमोहस्यापि सपनो जिनेंद्रबिंबादि द्रव्यं, समवशरणादि क्षेत्रं, कालश्चार्धपुद्गलपरिवर्तनविशेषादिर्भावश्चाधाप्रवृत्तिकरणादिरिति निश्चीयते । तदभावे तदुपशमादिप्रतिपत्तेः, अन्यथा तदभावात् ॥ Page #100 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । तत्संपत्संभवो येषां ते प्रत्यासन्नमुक्तयः । भव्यास्ततः परेषां तु तत्संपत्तिर्न जातुचित् ॥१२॥ प्रत्यासन्नमुक्तीनामेव भव्यानां दर्शनमोहप्रतिपक्षः संपद्यते नान्येषां कदाचित्कारणासन्निधानात् । इति युक्तिमानासन्नभव्यादिविभागः सद्दर्शनादिशक्त्यात्मकत्वेपि सर्वसंसारिणाम् ॥ सम्यग्दर्शनशक्तेहि भेदाभावेपि देहिनाम् । संभवेतरतो भेदस्तब्यक्तेः कनकाश्मवत् ॥ १३ ॥ यथा किंचित्कनकाश्मादि संभवत्कनकभावाभिव्यक्तिकमचिरादेव प्रतीयते, अपरं चिरतरेणापि कालेन संभवत्कनकभावाभिव्यक्तिकमन्यदसंभवत्कनकभावाभिव्यक्तिकं शश्वत्कनकशक्त्यात्मकत्वाविशेषेपि संभाव्यते तथा कश्चित् संसारी संभवदासन्नमुक्तिरभिव्यक्तसम्यग्दर्शनादिपरिणामः, परोनंतेनापि कालेन संभवदभिव्यक्तसद्दर्शनादिरन्यः शश्वदसंभवदभिव्यक्तसद्दर्शनादिस्तच्छक्त्यात्मकत्वाविशेषेपि संभाव्यते, इति नासन्नभव्यदूरभव्याभव्यविभागो विरुध्यते बाधकाभावात्सुखादिवत् । तत्र प्रत्यासन्ननिष्ठस्य भव्यस्य दर्शनमोहोपशमादौ सत्यंतरंगे हेतौ बहिरंगादपरोपदेशात्तत्त्वार्थज्ञानात् परोपदेशापेक्षाच्च प्रजायमानं तत्त्वार्थश्रद्धानं निसर्गजमधिगमजं च प्रत्येतव्यम् ॥ किं तत्त्वं नाम येनार्यमाणस्तत्त्वार्थ इष्यते । इत्यशेषविवादानां निरासायाह सूत्रकृत् ॥ जीवाजीवास्रवबंधसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४॥ तत्त्वस्य हि संख्यायां खरूपे च प्रवादिनो विप्रवदंते तद्विप्रतिपत्तिप्रतिषेधाय त्रमिदमुच्यते । तत्र जीवादिवचनात् । सप्त जीवादयस्तत्त्वं न प्रकृत्यादयोऽपरे । श्रद्धानविषया ज्ञेया मुमुक्षोर्नियमादिह ॥१॥ तथा चानंतपर्यायं द्रव्यमेकं न सूचितम् । तत्त्वं समासतो नापि तदनंतं प्रपंचतः॥२॥ मध्यमोक्त्यापि तवयादिभेदेन बहुधा स्थितम् । नातः सप्तविधा तत्त्वाद्विनेयापेक्षितात्परम् ३ प्रकृत्यादयः पंचविंशतिस्तत्त्वमित्यादिसंख्यांतरनिराचिकीर्षयापि संक्षेपतस्तावदेकं द्रव्यमनंतपर्यायं तत्त्वमित्येकाद्यनंतविकल्पोपायादौ तत्त्वस्य मध्यमस्थानाश्रयमपेक्ष्य विनेयस्य मध्यमाभिधानं सूरेः संक्षेपाभिधानं सुमेधसामेवानुग्रहाद्विस्तराभिधाने चिरेणापि प्रतिपत्तेरयोगात् । सर्वानुग्रहानुपपत्तिरित्येके । ते न सूत्रकाराभिप्रायविदः । सप्तानामेव जीवादीनां पदार्थानां नियमेन मुमुक्षोः श्रद्धेयत्वज्ञापनार्थत्वादुपदेशस्य मध्यमरुचिविनेयानुरोधेन तु संक्षेपेणैकं तत्त्वं प्रपंचतश्चानंतं मा भूत् सूत्रयितव्यं । मध्यमोक्त्या तु म्यादिभेदेन बहुप्रकारं कथनं सूत्रयितव्यं विशेषहेत्वभावात् । सप्तविधतत्त्वोपदेशे तु विशेषहेतुरवश्यं मुमुक्षोः श्रद्धातव्यत्वमभ्यवाप्येत परैः । कथम् ? मोक्षस्तावद्विनेयेन श्रद्धातव्यस्तदर्थिना । बंधश्च नान्यथा तस्य तदार्थत्वं घटामटेत् ॥४॥ आस्रवोपि च बंधस्य हेतुः श्रद्धीयते न चेत् । काहेतुकस्य बंधस्य क्षयो मोक्षः प्रसिध्धति ॥५॥ बंधहेतुनिरोधश्च संवरो निर्जरा क्षयः । पूर्वोपात्तस्य बंधस्य मोक्षहेतुस्तदाश्रयः ॥६॥ जीवोऽजीवश्च बंधश्च द्विष्ठत्वात्तत्क्षयस्य च । श्रद्धेयो नान्यदाफल्यादिति सूत्रकृतां मतम् ॥७॥ ननु च पुण्यपापपदार्थावपि वक्तव्यौ तयोबैधव्यत्वाद्वंधफलत्वाद्वा तदश्रद्धाने बंधस्य श्रद्धानानुपपत्तेरसंभवादफलत्वाच्चेति कश्चित् । तदसदित्याह; पुण्यपापपदार्थों तु बंधास्रवविकल्पगौ । श्रद्धातव्यौ न भेदेन सप्तभ्योतिप्रसंगतः ॥८॥ न हि पुण्यपापपदार्थों बंधव्यौ जीवाजीवबंधव्यवत्, नापि बंधफलं सुखदुःखाद्यनुभवनात्मकनिर्जरा . Page #101 -------------------------------------------------------------------------- ________________ ९२ तत्त्वार्थश्लोकवार्तिके [सू० ४ वत् । किं तर्हि ? बंधविकल्पौ । पुण्यपापबंधभेदेन बंधस्य द्विविधोपदेशात् । तद्धेतुत्वा सवविकल्पौ वा सूत्रितौ । ततो न सप्तभ्यो जीवादिभ्यो भेदेन श्रद्धातव्यौ । तथा तयोः श्रद्धानेतिप्रसंगात् । संवरविकल्पानां गुप्यादीनां निर्जरा विकल्पयोश्च यथाकालौप क्रमिकानुभवनयोः संवरनिर्जराभ्यां भेदेन श्रद्धातव्यतानुषंगात् । नन्वेवं जीवाजीवाभ्यां भेदेन नास्रवादयः श्रद्धेयास्तद्विकल्पत्वात् अन्यथातिप्रसंगादिति न चोद्यं, तेषां तद्विकल्पत्वेपि सार्वकत्वेन भिदा श्रद्धेयत्वोपपत्तेः ॥ बंधो मोक्षस्तयोर्हेतू जीवाजीवौ तदाश्रयौ । ननु सूत्रे पडेवैते वाच्याः सार्वत्ववादिना ॥ ९ ॥ जीवाजीव बंधमोक्षौ तद्धेतु च तत्त्वमिति सूत्रं वक्तव्यं सकलप्रयोजनार्थ संग्रहात्, बंधस्य हि हेतुरास्रवो मोक्षस्य हेतुर्द्विविकल्पः संवरनिर्जराभेदादिति न कस्यचिदसंग्रहस्तत्त्वस्य मोक्षहेतुविकल्पयोः पृथगभिधाने बंधास्रवविकल्पयोरपि पुण्यपापयोः पृथगभिधानप्रसंगादिति चेत् ; १४ ॥ सत्यं किं त्वाश्रयस्यैव बंधहेतुत्वसंविदे । मिथ्याद्यगादिभेदस्य वचो युक्तं परिस्फुटम् ॥१०॥ मोक्षसंपादिके चोक्ते सम्यक् संवरनिर्जरे । रत्नत्रयाद्यतेन्यस्य मोक्षहेतुत्वहानये ॥। ११ ॥ तेनानागतबंधस्य हेतुध्वंसाद्विमुच्यते । संचितस्य क्षयाद्वेति मिथ्यावादो निराकृतः ॥ १२ ॥ संचितस्य स्वयं नाशादेष्यद्वेधस्य रोधकः । एकः कश्चिदनुष्ठेय इत्येके तदसंगतम् ॥ १३ ॥ निर्हेतुकस्य नाशस्य सर्वथानुपपत्तितः । कार्योत्पादवदन्यत्र विस्रसा परिणामतः ॥ यतश्चानागताघौघनिरोधः क्रियतेऽमुना । तत एव क्षयः पूर्वपापौघस्येत्यहेतुकः ॥ १५ ॥ सन्नप्यसौ भवत्येव मोक्षहेतुः स संवरः । तयोरन्यतरस्यापि वैकल्ये मुक्त्ययोगतः ॥ १६ ॥ एतेन संचिताशेषकर्मनाशे विमुच्यते । भविष्यत्कर्मसंरोधापायेपीति निराकृतम् ॥ १७ ॥ एवं प्रयोजनापेक्षाविशेषादास्त्रवादयः । निर्दिश्यंते मुनीशेन जीवाजीवात्मका अपि ॥ १८ ॥ बंधमोक्षौ तद्धेतू च तत्त्वमिति सूत्रं वाच्यं जीवाजीवयोर्बंधमोक्षोपादानहेतुत्वादात्रवस्य बंध सहकारिहेतुत्वात् संवरनिर्जरयोर्मोक्षसहकारिहेतुत्वात् तावता सर्वतत्त्व संग्रहादिति येप्याहुस्तेप्यनेनैव निराकृताः । आस्रवादीनां पृथगभिधाने प्रयोजनाभिधानात् जीवाजीवयोश्चानभिधाने सौगतादिमतव्यवच्छेदानुपपत्तेः ॥ जीवादीनामिह ज्ञेयं लक्षणं वक्ष्यमाणकम् । तत्पदानां निरुक्तिश्च यथार्थानतिलंघनात् ॥ १९ ॥ जीवस्य उपयोगलक्षणः, सामर्थ्यादजीवस्यानुपयोगः, आस्रवस्य कायवाङ्मनः कर्मात्मको योगः, बंधस्य कर्मयोग्यपुद्गुलादानं, संवरस्यास्रवनिरोधः, निर्जरायाः कर्मैकदेशविप्रमोक्षः, मोक्षस्य कृत्स्नकर्मविप्रमोक्ष इति वक्ष्यमाणं लक्षणं जीवादीनामिह युक्त्यागमाविरुद्धमवबोद्धव्यं । निर्वचनं च जीवादिपदानां यथार्थानतिक्रमात् । तत्र भावप्राणधारणापेक्षायां जीवत्यजीवीज्जीविष्यतीति वा जीवः, न जीवति नाजीवीत् न जीविष्यतीत्यजीवः, आस्रवत्यनेनास्रवणमात्रं वास्रवः, बध्यतेनेन बंधमात्रं वा संत्रियतेनेन संवरणमात्रं वा संवरः, निर्जीर्यतेनया निर्जरणमात्रं वा निर्जरा, मोक्ष्यतेनेन मोक्षणमात्रं वा मोक्ष, इति करणभावापेक्षया ॥ बंधः, " क्रमो हेतुविशेषात्स्याद् द्वंद्ववृत्ताविति स्थितेः । जीवः पूर्वं विनिर्दिष्टस्तदर्थत्वाद्वचोविधेः २० तदुपग्रहहेतुत्वादजीवस्तदनंतरम् । तदाश्रयत्वतस्तस्मादास्रवः परतः स्थितः ॥ २१ ॥ बंधश्वास्रव कार्यत्वात्तद्नंतरमीरितः । तत्प्रतिध्वंसहेतुत्वादजीवस्तदनंतरम् ॥ २२ ॥ संवरे सति संभूतेर्निर्जरायास्ततः स्थितिः । तस्यां मोक्ष इति प्रोक्तस्तदनंतरमेव सः ॥ २३ ॥ जीवादिपदानां द्वंद्ववृत्तौ यथोक्तः क्रमो हेतुविशेषमपेक्षतेऽन्यथा तन्नियमायोगात् । तत्र जीवस्यादौ Page #102 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। वचनं तत्त्वोपदेशस्य जीवार्थत्वात् । प्रधानार्थस्तत्त्वोपदेश इत्ययुक्तं, तस्याचेतनत्वात् तत्त्वोपदेशेनानुग्रहासंभवात् घटादिवत् । संतानार्थः स इत्यप्यसारं, तस्यावस्तुत्वेन तदनुग्राह्यत्वायोगात् । निरन्वयक्षणिकचित्तार्थस्तत्त्वोपदेश इत्यप्यसंभाव्यं, तस्य सर्वथा प्रतिपाद्यत्वानुपपत्तेः । संकेतग्रहणव्यवहारकालान्वयिनः प्रतिपाद्यत्वप्रतीतेः । चैतन्यविशिष्टकार्यार्थस्तत्त्वोपदेश इति चेत् , तच्चैतन्यं कायात्तत्त्वां, तरमतत्त्वांतरं वा ? प्रथमपक्षे सिद्धसाध्यता, बंधं प्रत्येकतामापन्नयोः कायचैतन्ययोर्व्यवहारनयाजीव व्यपदेशसिद्धेः । निश्चयनयात्तु चैतन्यार्थ एव तत्त्वोपदेशः, चैतन्यशून्यस्य कायस्य तदर्थत्वाघटनात् । - द्वितीयपक्षे तु कायानांतरभूतस्य चैतन्यस्य कायत्वात्काय एव तत्त्वोपदेशेनानुगृह्यत इत्यापन्नं, तच्चायुक्तमतिप्रसंगात् । ततो जीवार्थ एव तत्त्वोपदेश इति नासिद्धो हेतुः । जीवादनंतरमजीवस्याभिधानं तदुपग्रहहेतुत्वात् । धर्माधर्माकाशपुद्गलाद्यजीवविशेषा असाधारणगतिस्थित्यवगाहवर्तनादिशरीराद्युपग्रहहेतवो वक्ष्यते । द्रव्यास्रवस्याजीवविशेषपुद्गलात्मककर्मास्रवत्वादजीवानंतरमभिधानं, भावास्रवस्य जीवाजीवाश्रयत्वाद्वा तदुभयानंतरं । सत्यास्रवे बंधस्योत्पत्तेस्तदनंतरं तद्वचनं, आस्रवबंधप्रतिध्वंसहेतुत्वात् संवरस्य तत्समीपे ग्रहणं, सति संवरे परमनिर्जरोपपत्तेस्तदंतिके निर्जरावचनं, सत्यां निर्जरायां मोक्षस्य घटनात्तदनंतरमुपादानं । मोक्षपरमनिर्जरयोरविशेष इति चेतसि मा कृथाः, परमनिर्जरणस्यायोगकेवलिचरमसमयवर्तित्वात्तदनंतरसमयवर्तित्वाच मोक्षस्य । य एवात्मनः कर्मबंधविनाशस्य कालः स एव केवलत्वाख्यमोक्षोत्पादस्येति चेत् न, तस्यायोगकेवलिचरमसमयत्वविरोधात् पूर्वस्य समयस्यैव तथात्वापत्तेः । तस्यापि मोक्षत्वे तत्पूर्वसमयस्येति सत्ययोगकेवलिचरमसमयो व्यवतिष्ठेत । न च तस्यैव मोक्षत्वे अतीतगुणस्थानत्वं मोक्षस्य युज्यते चतुर्दशगुणस्थानांतःपातित्वानुषंगात् । लोकाग्रस्थानसमयवर्तिनो मोक्षस्यातीतगुणस्थानत्वं युक्तमेवेति चेत् , परमनिर्जरातोन्यत्वमपि तस्यास्तु निश्चयनयादस्यैव मोक्षत्वव्यवस्थानात् । ततः सूक्तो जीवादीनां क्रमो हेतुविशेषः ॥ किं पुनस्तत्त्वमित्याह; तस्य भावो भवेत्तत्त्वं सामान्यादेकमेव तत् । तत्समानाश्रयत्वेन जीवादीनां बहुत्ववाक्॥२४॥ भावस्य तद्वतो भेदात् कथंचिन्न विरुध्यते । व्यक्तीनां च बहुत्वस्य ख्यापनार्थत्वतः सदा २५ तस्य भावस्तत्त्वमिति भावसामान्यस्यैकत्वात्समानाधिकरणतया निर्दिश्यमानानां जीवादीनां बहुत्ववचनं विरुध्यत इति चेत् न, भावतद्वतोः कथंचिदभेदादेकानेकयोरपि सामानाधिकरण्यदर्शनात् सदसती तत्त्वमिति जातेरेकत्ववत् सर्वदा व्यक्तीनां बहुत्वख्यापनार्थत्वाच्च तयोरेकवचनबहुवचनाविरोधः प्रत्येतव्यः ॥ जीवत्वं तत्त्वमित्यादि प्रत्येकमुपवर्ण्यते । ततस्तेनार्यमाणोऽयं तत्त्वार्थः सकलो मतः ॥२६॥ तस्य जीवस्य भावो जीवत्वं, अजीवस्य भावो अजीवत्वं, आस्रवस्य भाव आस्रवत्वं, बंधस्य भावो बंधत्वं, संवरस्य भावः संवरत्वं, निर्जराया भावो निर्जरात्वं, मोक्षस्य भावो मोक्षत्वं । तत्त्वमिति प्रत्येकमुपवर्ण्यते, सामान्यचोदनानां विशेषेष्ववस्थानप्रसिद्धेः । तथा च जीवत्वादिना तत्त्वेनार्यत इति तत्त्वार्थो जीवादिः सकलो मतः श्रद्धानविषयः॥ जीव एवात्र तत्त्वार्थ इति केचित्प्रचक्षते । तदयुक्तमजीवस्याभावे तत्सिवयोगतः ॥ २७ ॥ परार्था जीवसिद्धिर्हि तेषां स्याद्वचनात्मिका । अजीवो वचनं तस्य नान्यथान्येन वेदनम् २८ अस्त्यजीवः परार्थजीवसाधनान्यथानुपपत्तेः । परार्थजीवसाधनं च स्यादजीवश्च न स्यादिति न शंकनीयं, तस्य वचनात्मकत्वाद्वचनस्याजीवत्वात् जीवत्वे परेण संवेदनानुपपत्तेः । खार्थस्यैव जीव Page #103 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ४ साधनस्य भावात् परार्थ जीवसाधनमसिद्धमिति चेत् , कथं परेषां तत्त्वप्रत्यायनं ? तदभावे कथं केचिप्रतिपादकास्तत्त्वस्य परे प्रतिपाद्यास्तेषामिति प्रतीतिः स्यात् ॥ न जीवा बहवः संति प्रतिपाद्यप्रतिपादकाः । भ्रांतेरन्यत्र मायादिदृष्टजीववदित्यसत् ॥२९॥ एक एव हि परमात्मा प्रतिपाद्यप्रतिपादकरूपतयानेको वा प्रतिभासते अनाद्यविद्याप्रभावात् । न पुनर्बहवो जीवाः संति भ्रांतेरन्यत्र मायाखानादिजीववत् तेषां पारमार्थिकतानुपपत्तेः । तथाहि । जीव- . बहुत्वप्रत्ययो मिथ्या बहुत्वप्रत्ययत्वात् खप्नादिदृष्टजीवबहुत्वप्रत्ययवदिति कश्चित् , तदनालोचितवचनम् ॥ अद्वयस्यापि जीवस्य विभ्रांतत्वानुषंगतः। एकोऽहमिति संवित्तेः स्वप्नादौ भ्रमदर्शनात् ॥३०॥ शक्यं हि वक्तुं जीवैकत्वप्रत्ययो मिथ्या एकत्वप्रत्ययत्वात् खप्नैकत्वप्रत्ययवदिति । एकत्वप्रत्ययश्च स्यान्मिथ्या च न स्याद्विरोधाभावात् । कस्यचिदेकत्वप्रत्ययस्य मिथ्यात्वदर्शनात् सर्वस्य मिथ्यात्वसाधनेतिप्रसंगादिति चेत् समानमन्यत्र ।। व्यभिचारविनिर्मुक्तेः संविन्मात्रस्य सर्वदा। न भ्रांततेति चेत्सिद्धा नानासंतानसंविदः॥३१॥ यथैव मम संवित्तिमात्रं सत्यं व्यवस्थितम् । स्वसंवेदनसंवादात्तथान्येषामसंशयम् ॥ ३२ ॥ बहुत्वप्रत्ययवदेकत्वप्रत्ययोपि मिथ्यास्तु तस्य व्यभिचारित्वात् खप्नादिवत् । खसंविन्मात्रस्य तु परमात्मनो निरुपाधेर्व्यभिचारविनिर्मुक्तत्वात् सर्वदा संवादान मिथ्यात्वमिति वदतां सिद्धाः स्वसंविदात्मनो नानासंतानाः । खस्येव परेषामपि संविन्मात्रस्याव्यभिचारित्वात् । तथाहि । नानासंतानसंविदः सत्याः सर्वदा व्यभिचारविनिर्मुक्तत्वात् खसंविदात्मवदिति न मिथ्या प्रतिपाद्यप्रतिपादका, यतः परार्थ जीवसाधनमभ्रांतं न सिद्ध्येत् ॥ अन्ये त्वत्तो न संतीति स्वस्य निर्णीत्यभावतः । नान्ये मत्तोपि संतीति वचने सर्वशून्यता ३३ तस्याप्यन्यैरसंवित्तेविशेषाभावतोन्यथा । सिद्धं तदेव नानात्वं पुंसां सत्यसमाश्रयम् ॥ ३४ ॥ मत्तोन्येपि निरुपाधिकं स्वरूपमात्रमव्यभिचारि संविदंतीति निर्णीतेरसंभवात् तत्र प्रत्यक्षस्याप्रवृत्तेरव्यभिचारिणो लिंगस्याभावादनुमानानुत्थानादिति वचने सर्वशून्यतापत्तिः । त्वत्संविदोपि तथान्यैर्निश्चेतुमशक्तेः सर्वथा विशेषाभावात् । यदि पुनरपरैरनिश्चयेपि तथा स्वसंविदः खयं निश्चयात् सत्यत्वसिद्धिस्तदा त्वया निश्चेतुमशक्यानामपि तथा परसंविदां सत्यत्वसिद्धेः सिद्धं पुंसां नानात्वं पारमार्थिकम् ।। आत्मानं संविदंत्यन्ये न वेति यदि संशयः । तदा न पुरुषाद्वैतनिर्णयो जातु कस्यचित् ॥३५।। मत्तः परेप्यात्मानः खसंविदंतो न संत्येवेति निर्णये हि कस्यचित्पुरुषाद्वैते निर्णयो युक्तो न पुनः संशये तत्रापि संशयप्रसंगात् । “पुरुष एवेदं सर्व" इत्यागमात्पुरुषाद्वैतसिद्धिरिति चेत् "संत्यनंताजीवा” इत्यागमान्नानाजीवसिद्धिरस्तु । पुरुषाद्वैतविधिस्रगागमेन प्रकाशनात् प्रत्यक्षस्यापि विधातृतया स्थितस्य तत्रैव प्रवृत्तेस्तेन तस्याविरोधात् ततः पुरुषाद्वैतनिर्णय इति चेत्, नानात्वागमस्यापि तेनाविरोधान्नानाजीवनिर्णयोऽस्तु । तथाहि; आहुर्विधातृप्रत्यक्षं न निषेद्धृविपश्चितः । न नानात्वागमस्तेन प्रत्यक्षेण विरुध्यते ॥३६॥ तेनानिषेधतेऽन्यस्याभावाभावात् कथंचन । संशीतिगोचरत्वाद्वान्यस्याभावाविनिश्चयात् ॥३७॥ . भवतु नाम विधातृप्रत्यक्षमनिषेद्ध च तथापि तेन नानात्वविधायिनो नागमस्य विरोधः संभवत्येकत्वविधायिन इव विधायकत्वाविशेषात् । कथमेकत्वमनिषेधत्प्रत्यक्षं नानात्वमात्मनो विदधातीति Page #104 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। चेत् , नानात्वमनिषेधदेकत्वं कथं विदधीत ? तस्यैकत्वविधानमेव नानात्वप्रतिषेधकत्वमिति चेत् , नानात्वविधानमेवैकत्वनिषेधनमस्तु । किं पुनः प्रत्यक्षमात्मनो नानात्वस्य विधायकमिति चेत् तदेकत्वस्य किं ? न ह्यस्मदादिप्रत्यक्षमिंद्रियजं मानसं वा स्वसंवेदनमेक एवात्मा सर्व इति विधातुं समर्थ नानात्मभेदेषु तस्य प्रवृत्तेः । योगिप्रत्यक्षं समर्थमिति चेत् , पुरुषनानात्वमपि विधातुं तदेव समर्थमस्तु तत्पूर्वकागम, श्चेत्यविरोधः । स्वसंवेदनमेवास्मदादेः खैकत्वस्य विधायकमिति चेत्, तथान्येषां स्लैकत्वस्य तदेव विधायकमनुमन्यतां । कथं ? यथैव च ममाध्यक्षं विधात न निषेध वा । प्रत्यक्षत्वात्तथान्येषामन्यथैतत्तथा कुतः ॥ ३८ ॥ परेषां प्रत्यक्षं स्वस्य विधायकं परस्य न निषेधकं वा प्रत्यक्षत्वान्मम प्रत्यक्षवत् । विपर्ययो वा अतिप्रसंगविपर्ययाभ्यां प्रत्यात्मस्वसंवेदनस्यैकत्वविधायित्वासिद्धेरात्मबहुत्वसिद्धिरात्मैकत्वासिद्धिर्वा । न च विधायकमेव प्रत्यक्षमिति नियमोस्ति, निषेधकत्वेनापि तस्य प्रतीयमानत्वात् । तथाहि; विधात्रहं सदैवान्यनिषेद्ध न भवाम्यहम् । स्वयं प्रत्यक्षमित्येवं वेत्ति चेन्न निषेद्धकम् ॥३९॥ विधातृ च नान्यनिषेद्धप्रत्यक्षमिति न प्रमाणांतरान्निश्चयो द्वैतप्रसंगात् । खत एव यथा निश्चये सिद्धं तस्य निषेधकत्वं परस्य निषेहं न भवामीति स्वयं प्रतीतेः ।। संति सत्यास्ततो नाना जीवाः साध्यक्षसिद्धयः । प्रतिपाद्याः परेषां ते कदाचित्प्रतिपादकाः ४० यतश्चैवं प्रमाणतो नानात्मनः सिद्धास्ततो न तेषां प्रतिपाद्यप्रतिपादकभावो मिथ्या येन परार्थ जीवसाधनमसिद्धं स्यात् ॥ परार्थ निर्णयोपायो वचनं चास्ति तत्त्वतः। तच जीवात्मकं नेति तद्वदन्यच किं न नः॥४१॥ न ह्युपायापाये परार्थसाधनं सिद्ध्यति तस्योपेयत्वादन्यथातिप्रसक्तेरिति । तस्योपायोस्ति वचनमन्यथानुपपत्तिलक्षणलिंगप्रकाशकं जीवात्मकमेव तदित्ययुक्तं, प्रतिपादकजीवात्मकत्वे तस्य प्रतिपाद्याद्यसंवेद्यत्वापत्तेः । प्रतिपाद्यजीवात्मकत्वे प्रतिपादकाद्यसंवेद्यतानुषक्तेः, सत्यजीवात्मकत्वे प्रतिपाद्यप्रतिपादकासंवेद्य. त्वासंगात् । प्रतिपादकाद्यशेषजीवात्मकत्वे तदनेकत्वे विरोधादेकवचनात्मकत्वेन तेषामेकत्वसिद्धेः । सत्यमेक एवात्मा प्रतिपादकादिभेदमास्तिष्णुते अनाद्यविद्यावशादित्यप्युक्तोत्तरप्रायमात्मनानात्वसाधनात् । कथं चात्मनः सर्वथैकत्वे प्रतिपादकस्यैव तत्र संप्रतिपत्तिर्न तु प्रतिपाद्यस्येति प्रतिपद्येमहि । तस्यैव वा विप्रतिपत्तिर्न पुनः प्रतिपादकस्येति तथा तद्भेदस्यैव सिद्धेः । यदि पुनरविद्याप्रभेदात्तथा विभागस्तदा साप्यविद्या प्रतिपादकगता कथं प्रतिपाद्यादिगता न स्यात् ? तद्गता वा प्रतिपादकगता तदभेदेपीति साश्चर्य नश्चेतः । प्रतिपादकगतेयमविद्या प्रतिपाद्यादिगतेयमिति च विभागसंप्रत्ययोनाद्यविद्याकृत एवेति चेत्, किमिदानीं सर्वोप्यविद्याप्रपंचः। सर्वात्मगतस्तत्त्वोस्तु सोप्यविद्यावशात्तथेति चेत् , तर्हि तत्त्वतो न क्वचिदविद्याप्रपंच इति न तत्कृतो विभागः । परमार्थतः एव प्रतिपादिकादिजीवविभागस्य सिद्धेः । ततो नैकात्मव्यवस्थानं येन वचसोशेषजीवात्मकत्वे यथोक्तो दोषो न भवेदिति न जीवात्मकं वचनं । तद्वच्छरीरादिकमप्यजीवात्मकमस्माकं प्रसिद्ध्यत्येव ।। बायेंद्रियपरिच्छेद्यः शब्दो नात्मा यथैव हि । तथा कार्यादिरअॅपि तदजीवोस्ति वस्तुतः४२ न केवलं प्रतिपादकस्य शरीरं लिप्यक्षरादिकं वा परप्रतिपत्तिसाधनं वचनवत् साक्षात् परसंवेद्यत्वादजीवात्मकं । किं तर्हि ? बायेंद्रियग्राह्यत्वाच्च । जीवात्मकत्वे तदनुपपत्तेरिति सूक्तं परार्थसाधनान्यथानुपपत्तेरजीवास्तित्वसाधनम् ॥ . Page #105 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०४ योपि ब्रूते पृथिव्यादिरजीवोध्यक्षनिश्चितः । तत्त्वार्थ इति तस्यापि प्रायशो दत्तमुत्तरम् ॥४३॥ अस्ति जीवः स्वार्थाजीवसाधनान्यथानुपपत्तेः पृथिव्यादिरजीव एव तत्त्वार्थ इति न स्वयं साधनमंतरेण निश्चेतुमर्हति कस्यचिदसाधनस्य निश्चयायोगात् । सत्त्वात्तथा निश्चय इति चेत् न, तस्याचेतनत्वात् चेतनत्वे तत्त्वांतरत्वसिद्धेस्तस्यैव जीवत्वोपपत्तेः । स्यान्मतमजीवविवर्तविशेषश्चेतनात्मकं प्रत्यक्ष न पुनर्जीव इति । तदसत् । चेतनाचेतनात्मकयोर्विवर्तविवर्तिभावस्य विरोधात् परस्परं विजातीय- * त्वाजलानलवत् । सुवर्णरूप्यवद्विजातीयत्वेपि तद्भावः स्यादिति चेन्न, तयोः पार्थिवत्वेन सजातीयत्वात् लोहत्वादिभिश्च तर्हि चेतनयोः सत्त्वादिभिः सजातीयत्वात्तद्भावो भवत्विति चेन्न भवतो जलानलाभ्यामनेकांतात् । तयोरद्रव्यांतरत्वात्तद्भाव इति चेन्न, असिद्धत्वात् । तयोरपि द्रव्यांतरत्वस्य निर्णयात्तद्भावायोगात् । निर्णेष्यते हि लक्षणभेदाच्चेतनाचेतनयोर्द्रव्यांतरत्वमिति न तयोर्विवर्तविवर्तिभावो येन चेतनात्मकं प्रत्यक्षं जीवद्रव्यखरूपं न स्यात् । प्रायेण दत्तोत्तरं च चेतनस्याद्रव्यांतरत्ववचनमिति न जीवमंतरेण खार्थजीवसाधनमुपपद्यते । एतेन स्मृतिप्रत्यभिज्ञानानुमानादिकं गौणपृथिव्याद्यजीवसाधनं खार्थ जीवमंतरेणानुपपन्नमिति निवेदितं, तस्यापि चेतनद्रव्यखरूपत्वाविशेषात् प्रधानादिरूपतया तस्य प्रतिविहितत्वात् ॥ न कायादिक्रियारूपो जीवस्यास्त्यास्रवः सदा । निःक्रियत्वाद्यथा व्योम्न इत्यसत्तदसिद्धितः ४४ क्रियावान् पुरुषोसर्वगतद्रव्यत्वतो यथा । पृथिव्यादिः स्वसंवेद्यं साधनं सिद्धमेव नः ॥४५॥ न हि क्रियावत्त्वे साध्ये पुरुषस्यासर्वगतद्रव्यत्वं साधनमसिद्धं तस्य स्वसंवेद्यत्वात् पृथिव्यादिवत् । भ्रांतमसर्वगतद्रव्यत्वेनात्मनः संवेदनमिति चेत् न, बाधकाभावात् । सर्वगत आत्माऽमूर्तत्वादाकाशवदित्येतद्बाधकमिति चेन्न, अस्य प्रतिवादिनां कालेनानेकांतात् । कालोपि सर्वगतस्तत एव तद्वदिति नात्र पक्षस्यानुमानागमबाधितत्वम् । तथाहि । आत्मा कालश्चासर्वगतो नानाद्रव्यत्वात् पृथिव्यादिवत् । कालो नानाद्रव्यत्वेनासिद्ध इति चेन्न, युगपत्परस्परविरुद्धनानाद्रव्यक्रियोत्पत्तौ निमित्तत्वात्तद्वत् । खेन व्यभिचारीदं साधनमिति चेन्न, तस्यावगाहनक्रियामात्रत्वेन प्रसिद्धस्तत्रानिमित्तत्वात् । निमित्तत्वे वा परिकल्पनानर्थक्यात् तत्कार्यस्याकाशादेवोत्पत्तिघटनात् परापरत्वपरिणामक्रियादीनामाकाशनिमित्तकत्वविरोधादवगाहनवत् परापरयौगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिंगः कालोन्य एवाकाशादिति चेत् , स्यादेवं यदि परत्वादिप्रत्ययनिमित्तत्वमाकाशस्य विरुध्येत । शब्दलिंगत्वादाकाशस्य तन्निमित्तत्वं विरुध्यत एवेति चेन्न, एकस्यापि नानाकार्यनिमित्तत्वेन दर्शनात् खयमीश्वरस्य तथाभ्युपगमाच्च । यदि पुनरीशस्य नानार्थसिसृक्षाभिसंबंधान्नानाकार्यनिमित्तत्वमविरुद्धं तदा नभसोपि नानाशक्तिसंबंधात्तदविरुद्धमस्तु विशेषाभावात् । तथा चात्मादिक्कालाद्यशेषद्रव्यकल्पनमनर्थकं तत्कार्याणामाकाशेनैव निवर्तयितुं शक्यत्वात् । अथ परस्परविरुद्धबुद्ध्यादिकार्याणां युगपदेकद्रव्यनिवर्त्यत्वविरोधात्तन्निमित्तानि नानात्मादिद्रव्याणि कल्प्यंते तर्हि नानाद्रव्यक्रियाणामन्योन्यविरुद्धानां सकृदेककालद्रव्यनिमित्तत्वानुपपत्तेस्तन्निमित्तानि नानाकालद्रव्याण्यनुमन्यध्वं । तथा च नासिद्धं नानाद्रव्यत्वमात्मकालयोरसर्वगतत्वसाधनं । नापि पृथिव्यादिदृष्टांतः साधनधर्मविकलः पृथिव्यप्तेजोवायूनां धारणक्लेदनपचनस्पंदनलक्षणपरस्परविरुद्धक्रियानिमित्तत्वेन सकृदुपलभ्यमानत्वात् । नापि साध्यधर्मविकलस्तेषां कथंचिन्नानाद्रव्यत्वसिद्धेरित्यनुमानविरुद्धं पक्षं कालात्मसर्वगतत्वासाधनं, लोकाकाशप्रदेशेषु प्रत्येकमेकैकस्य कालाणोरवस्थानादनराशिवत् कालाणवोऽसंख्याताः स्वयं वर्तमानानामर्थानां निमित्तहेतव इत्यागमविरुद्धं पक्षं च । न चायमागमोप्र Page #106 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । माणं सर्वथाप्यसंभवद्बाधकत्वादात्मादिप्रतिपादकागमवत् । ततः सिद्धम सर्वगतद्रव्यत्वमात्मनः क्रियावत्त्वं साधयत्येव । कालाणुनानैकांतिकमिति चेन्न, तत्रासर्वगतद्रव्यत्वस्याभावात् । सर्वगतद्रव्यत्वप्रतिषेधे हि तत्सदृशेन्यत्र सकृन्नानादेशसंबंधिनि संप्रत्ययो न पुनर्निरंशे कालाणौ । ' नञिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिरिति वचनात् प्रसह्यप्रतिषेधानाश्रयणात् । असंख्येयभागादिषु जीवानामिति जीवाव• गाहस्य नानालोकाकाशप्रदेशवर्तितया वक्ष्यमाणत्वात् । तथा च कतिपयप्रदेशव्यापि द्रव्यत्वादिति हेत्वर्थः प्रतिष्ठितः । न च कालाणुः स्याद्वादिनां कतिपयप्रदेशव्यापिद्रव्यं यतस्तेन हेतोर्व्यभिचारः । कालादन्यत्वे सत्य सर्वगतद्रव्यत्वादिति स्पष्टं साधनव्यभिचारि वाच्यमिति चेन्न किंचिदनिष्टमीहगर्थस्य हेतोरिष्टत्वात् । परेषां तु कालस्य सर्वगतद्रव्यत्वेनाभिप्रेतत्वात्तेन व्यभिचारचोदनस्यासंभवाद्वार्तिके तथा विशेषणाभावः । एवं च निरवद्यात्साधनादात्मनः क्रियावत्त्वसिद्धेः कायादिक्रियारूपोऽस्यास्रवः प्रसिद्ध्यत्येव । कायालंबनाया जीवप्रदेश परिस्पंदनक्रियायाः कायास्रवत्वाद्वागालंबनाया वागाश्रयत्वान्मनोवर्गणालंबनाया मानसाश्रयत्वात् ॥ बंधः पुंधर्मतां धत्ते द्विष्ठत्वान्न प्रधानके । केवलेsसंभवात्तस्य धर्मोसौ नावधार्यते ॥ ४६ ॥ न हि प्रधानस्यैव धर्मो बंधः संभवति तस्य द्विष्ठत्वादिति । जीवस्यापि धर्मः सोवधार्यते सर्वथा पुरुषस्य बंधाभावे बंधफलानुभवनायोगाद्वंधवत् प्रकृतिसंसर्गाद्वंधफलानुभवनं तस्येति चेत्, स एव बंधवि - बर्तात्मिकया प्रकृत्या संसर्गः पुरुषस्य बंधः । इति सिद्धः कथंचित्पुरुषधर्मः संसर्गस्य द्विष्ठत्वात् ॥ संवरो जीवधर्मः स्यात् कर्तृस्थो निर्जरापि च । मोक्षश्च कर्मधर्मोपि कर्मस्थो बंधवन्मतः ॥४७॥ धर्मिधर्मात्मकं तत्त्वं सप्तभेदमितीरितम् । श्रद्धेयं ज्ञेयमाध्येयं मुमुक्षोर्नियमादिह ॥ ४८ ॥ जीवाजीवौ हि धर्मिणौ तद्धर्मास्त्वावादय इति धर्मिधर्मात्मकं तत्त्वं सप्तविधमुक्तं मुमुक्षोरवश्यं श्रद्धेयत्वाद्विज्ञेयत्वादाध्येयत्वाच्च सम्यग्दर्शनज्ञानध्यानविषयत्वान्निर्विषयसम्यग्दर्शनाद्यनुपपत्तेस्तद्विषयांतरस्यासंभवात् । संभवे तत्रैवांतर्भावात् ॥ " न च तत्त्वांतराभावस्तत्त्वमष्टममासजेत् । सप्ततत्त्वास्तितारूपो ह्येषोऽन्यस्याप्रतीतितः ॥ ४९ ॥ तत्त्वं सतश्च सद्भावोऽसतोऽसद्भाव इत्यपि । वस्तुन्येव द्विधा वृत्तिर्व्यवहारस्य वक्ष्यते ॥ ५० ॥ यथा हि सति सवेन वेदनं सिद्धमंजसा । तथा सदंतरे सिद्धमसत्त्वेन प्रवेदनम् ॥ ५१ ॥ असद्रूपप्रतीतिर्हि नावस्तुविषया कचित् । भावांशविषयत्वात् स्यात् सितत्वादिप्रतीतिवत् ॥ ५२ ॥ भावांशोसत्सदाभावविशेषणतयेक्षणात् । सर्वथाभावनिर्मुक्तस्यादृष्टेः पाटलादिवत् ॥ ५३ ॥ न ह्यभावः सर्वथा तुच्छः प्रत्यक्षतोऽनुमानतो वा प्रतीयते यतोस्य सर्वदा भावविशेषणतया दर्शनमप्रसिद्धं स्यात् तत्प्रसिद्ध्यदभावस्य भावांशत्वं साधयति सितत्वादिवत् । ततो न क्वचिदवस्तुनि कस्यचिदसत्त्वप्रतीतिर्वस्तुन्येव तत्प्रतीतेस्तत्त्वांतराभावस्य सप्ततत्त्व..... • (?) सिद्धेरन्यमतत्वासंभावनैवेति सर्वसंग्रहः ॥ प्रमाणादय एव स्युः पदार्थाः षोडशेति तु । बुवाणानां न सर्वस्य संग्रहो व्यवतिष्ठते ॥५४॥ तत्रानध्यवसायस्य विपर्यासस्य वा गतेः । नास्याप्रमाणरूपस्य प्रमाणग्रहणागतिः ।। ५५ ।। संशीतिवत्प्रमेयांतर्भावे तत्त्वद्वयं भवेत् । संशयादेः पृथग्भावे पृथग्भावोस्य किं ततः ॥ ५६ ॥ प्रमाणविधिसामर्थ्यादप्रमाणगतौ यदि । तत्रानध्यवसायादेरंतर्भावो विरुध्यते ॥ ५७ ॥ संशयस्य तदत्रैव नांतर्भावः किमिष्यते । प्रमाणभावरूपत्वाविशेषात्तस्य सर्वथा ॥ ५८ १३ Page #107 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०५ प्रमाणवृत्तिहेतुत्वात् संशयश्चेत् पृथकृतः । तत एव विधीयेत जिज्ञासादिस्तथा न किम् ॥५९ अभावस्याविनाभावसंबंधादेरसंग्रहात् । प्रमाणादिपदार्थानामुपदेशो न दोषजित् ॥ ६० ॥ द्रव्यादिषट्पदार्थानामुपदेशोपि तादृशः । सर्वार्थसंग्रहाभावादनाप्तोपज्ञमित्यतः ॥ ६१ ॥ सूत्रेवधारणाभावाच्छेषार्थस्यानिराकृतौ । तत्त्वेनैकेन पर्याप्तमुपदिष्टेन धीमताम् ॥ ६२॥ प्रमाणादिसूत्रे द्रव्यादिसूत्रे वावधारणाभावादनध्यवसायविपर्ययजिज्ञासाद्यविनाभावविशेषणविशेष्य- . भावप्रागभावादयः संगृहीता एवेति सर्वसंग्रहे प्रमाणं तत्त्वं द्रव्यं तत्त्वमिति चोपदेशः कर्तव्यस्तत्रानवधारणादेव प्रमेयादीनां गुणादीनां वानध्यवसायादिवत्संग्रहोपपत्तेरित्याकुलत्वादनाप्तमूल एवायं प्रमाणाधुपदेशो द्रव्याद्युपदेशो वा प्रकृत्याधुपदेशवत् ॥ नन्वेवं सप्ततत्त्वार्थवचनेनाप्यसंग्रहात् । रत्नत्रयस्य तद्बाध्येप्ययुक्तत्वमितीतरे ॥ ६३॥ न हि रत्नत्रयं जीवादिष्वंतर्भवत्यद्रव्यत्वादास्रवादित्वाभावाच्च । तस्य तत्त्वांतरत्वे कथं सप्तैव तत्त्वानि यतो जीवादिसूत्रेण सर्वतत्त्वासंग्रहात् , तदप्ययुक्तं न भवेदिति केचित् ॥ तदसत्तस्य जीवादिस्वभावत्वेन निर्णयात् । तथा पुण्यास्रवत्वेन संवरत्वेन वा स्थितेः ॥६४॥ जीवाजीवप्रभेदानामनंतत्वेपि नान्यता । प्रसिद्धयत्यास्रवादिभ्य इत्यव्याप्त्याद्यसंभवः॥६५॥ न हि जीवो द्रव्यमेव पर्याय एव वा येन तत्पर्यायविशेषाः सम्यग्दर्शनादयः तद्रहणेन न गृह्यते, द्रव्यपर्यायात्मकस्य जीवत्वस्याभिप्रेतत्वात् । ततो नाद्रव्यत्वेपि रत्नत्रयस्य जीवेंतर्भावाभावः । तथास्रवादित्वाभावोप्यसिद्धस्तस्य पुण्यास्रवत्वेन संवरत्वेन च वक्ष्यमाणत्वात् इति नास्रवादिप्वनंतर्भावः । येपि च जीवाजीवयोरनंताः प्रभेदास्तेपि जीवस्य पुण्यागमस्य हेतवः पापागमस्य वा पुण्यपापागमननिरोधिनो वा तद्वंधनिर्जरणहेतवो वा मोक्षस्वभावा वा, गत्यंतराभावात् । इति नास्रवादिभ्योऽन्यतां लभ्यते येनाव्याप्तिरतिव्याप्त्यसंभवौ तु दूरोत्सारितावेवेति निरवा जीवादिसप्ततत्त्वप्रतिपादकं सूत्रं, ततस्तदाप्तोपज्ञमेव ॥ नन्वेते जीवादयः शब्दब्रह्मणो विवर्ताः शब्दब्रह्मैव नाम तत्त्वं नान्यदिति केचित् । तेषां कल्पनारोपमात्रत्वात् । तस्य च स्थापनामात्रमेवेत्यन्ये, तेषां द्रव्यांतःप्रविष्टत्वात् । तद्व्यतिरेकेणासंभवात् द्रव्यमेवेत्येके । पर्यायमात्रव्यतिरेकेण सर्वस्याघटनाद्भाव एवेत्यपरे । तन्निराकरणाय लोकसमयव्यवहारेष्वप्रकृतापाकरणाय प्रकृतव्याकरणाय च संक्षेपतो निक्षेपप्रसिद्ध्यर्थमिदमाह; नामस्थापनाद्रव्यभावतस्तन्यासः॥५॥ न नाममात्रत्वेन स्थापनामात्रत्वेन द्रव्यमानत्वेन भावमात्रत्वेन वा संकरव्यतिरेकाभ्यां वा जीवादीनां निक्षेप इत्यर्थः । तत्र संज्ञाकानपेक्ष्यैव निमित्तांतरमिष्टितः । नामानेकविध लोकव्यवहाराय सूत्रितम् ॥ १॥ न हि नाम्नोऽनभिधाने लोके तद्व्यवहारस्य प्रवृत्तिर्घटते येन तन्न सूत्र्यते । नापि तदेकविधमेव विशेषतोनेकविधत्वेन प्रतीतेः। किंचिद्धि प्रतीतमेकजीवनाम यथा डित्थ इति, किंचिदनेकजीवनाम यथा यूथ इति, किंचिदेकाजीवनाम यथा घट इति, किंचिदनेकाजीवनाम यथा प्रासाद इति । किंचिदेकजीवैकाजीवनाम यथा प्रतीहार इति, किंचिदेकजीवानेकाजीवनाम यथा काहार इति, किंचिदेकाजीवानेकजीवनाम यथा मंदुरेति, किंचिदनेकजीवाजीवनाम यथा नगरमिति प्रतिविषयमवांतरभेदाहुहुधा भिद्यते संव्यवहाराय नाम लोके । तच्च निमित्तांतरमनपेक्ष्य संज्ञाकरणं वक्तुरिच्छातः प्रवर्तते ॥ Page #108 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । किं पुनर्नानिमित्तं किं वा निमित्तांतरं ? इत्याह ; १४॥ नाम्नो वक्तुरभिप्रायो निमित्तं कथितं समम् । तस्मादन्यत्तु जात्यादिनिमित्तांतर मिष्यते ॥ २ ॥ जातिद्वारेण शब्दो हि यो द्रव्यादिषु वर्तते । जातिहेतुः स विज्ञेयो गौरव इति शब्दवत् ॥३॥ जातावेव तु यत्संज्ञाकर्म तन्नाम मन्यते । तस्यामपरजात्यादिनिमित्तानामभावतः ॥ ४ ॥ गुणे कर्मणि वा नाम संज्ञा कर्म तथेष्यते । गुणकर्मातराभावाज्जातेरप्यनपेक्षणात् ॥ ५ ॥ गुणप्राधान्यतो वृत्तो द्रव्ये गुणनिमित्तकः । शुक्लः पाटल इत्यादिशब्दवत्संप्रतीयते ॥ ६ ॥ कर्मप्राधान्यतस्तत्र कर्महेतुर्निबुध्यते । चरति लवते यद्वत् कश्चिदित्यतिनिश्चितम् ॥ ७ ॥ द्रव्यांतरमुखे तु स्यात्प्रवृत्तो द्रव्यहेतुकः । शब्दस्तद्विविधस्तज्ज्ञैर्निराकुलमुदाहृतः ॥ ८ ॥ संयोगिद्रव्यशब्दः स्यात् कुंडलीत्यादिशब्दवत् । समवायिद्रव्यशब्दो विषाणीत्यादिरास्थितः ९ कुंडलीत्यादयः शब्दा यदि संयोगहेतवः । विषाणीत्यादयः किं न समवायनिबंधनाः ॥ १०॥ तथा सति न शब्दानां वाच्या जातिगुणक्रियाः । द्रव्यवत्समवायेन स्वसंबंधिषु वर्तनात् ११ यथा जात्यादयो द्रव्ये समवायबलात् स्थिताः । शब्दानां विषयस्तद्वत् द्रव्यं तत्रास्तु किंचन १२ संयोगवश्चैवं वर्तमानं तथेष्यताम् । द्रव्यमात्रे तु संज्ञानं नामेति स्फुटमीक्ष्यते ॥ १३ ॥ तेन पंचतयी वृत्तिः शब्दानामुपवर्णिता । शास्त्रकारैर्न बाध्येत न्यायसामर्थ्य संगता वक्तुर्विवक्षायामेव शब्दस्य प्रवृत्तिस्तत्प्रवृत्तेः सैव निमित्तं न तु जातिद्रव्यगुणक्रियास्तदभावात् । स्वलक्षणेध्यक्षतस्तदनवभासनात्, अन्यथा सर्वस्य तावतीनां बुद्धीनां सकृदुदयप्रसंगात् । प्रत्यक्षपृष्टभाविन्यां तु कल्पनायामवभासमाना जात्यादयो यदि शब्दस्य विषयास्तदा कल्पनैव तस्य विषय इति केचित् । तेप्यनालोचितवचनाः । प्रतीतिसिद्धत्वाज्जात्यादीनां शब्दनिमित्तानां वक्तुरभिप्रायनिमित्तांतर तोपपत्तेः । सदृशपरिणामो हि जातिः पदार्थानां प्रत्यक्षतः प्रतीयते विसदृशपरिणामाख्यविशेषवत् । पिंडोयं गौरयं च गौरिति प्रत्ययात् खंडोयं मुंडोयमितिप्रत्ययवत् । भ्रांतोयं सादृश्यप्रत्ययः इति चेत् विसदृशप्रत्ययः कथमभ्रांतः ? सोपि भ्रांत एव खलक्षणप्रत्ययस्यैवाभ्रांतत्वात् तस्य स्पष्टाभत्वादविसंवादकत्वाच्चेति चेत्, नाक्षजस्य सादृश्यादिप्रत्ययस्य स्पष्टाभत्वाविशेषादभ्रांतत्वस्य निराकर्तुमशक्तेः । सादृश्यवैसदृश्यव्यतिरेकेण खलक्षणस्य जातुचिदप्रतिभासनात् । सदृशेतरपरिणामात्मकस्यैव सर्वदोपलंभात् । सर्वतो व्यावृत्तानंशक्षणिकस्खलक्षणस्य प्रत्ययविषयतया निराकरिष्यमाणत्वात् । सविकल्पप्रत्यक्षे सदृश - परिणामस्य स्पष्टमवभासनात् सर्वथा बाधकाभावात् । वृत्तिविकल्पादिदूषणस्यात्रानवतारात् । न हि सदृशपरिणामो विशेषेभ्योत्यंतं भिन्नो नाप्यभिन्नो येन भेदाभेदैकांतदोषोपपातः । कथंचिद्भेदाभेदात् । न च तेषु तस्य कथंचित्तादात्म्यादन्या वृत्तिरेकदेशेन सर्वात्मना वा यतः सावयवत्वं सादृश्यपरिणामस्य व्यक्त्यंतरा वृत्तिर्वा स्यात् । न चास्य सर्वगतत्वं येन कर्कादिषु गोत्वादिप्रत्ययसांकर्ये, नापि स्वव्यक्तिषु सर्वाखेक एव येनोत्पित्सुव्यक्तौ पूर्वाधारस्य त्यागेनागमने तस्य निःसामान्यत्वं तदत्यागेनागतौ सावयवत्वं प्रागेव तद्देशेस्तित्वे खमप्रत्ययहेतुत्वं प्रसज्यते, विसदृशपरिणामेनेव सदृशपरिणामेनाक्रांताया एवोत्लित्सुव्यक्तेः खकारणादुत्पत्तेः । कथमेवं नित्या जातिरुत्पत्तिमद्व्यक्तिवदिति चेत्, द्रव्यार्थादेशादिति ब्रूमः । व्यक्तिरपि तथा नित्या स्यादिति चेत् न किंचिदनिष्टं, पर्यायार्थादेशादेव विशेषपर्यायस्य सामान्यपर्यायस्य वा नित्यत्वोपगमात् । नोत्पत्तिमत्सामान्यमुत्पित्सुव्यक्तेः पूर्वं व्यक्त्यंतरे तत्प्रत्ययादिति चेत् । तत एव विशेषोप्युत्पत्तिमान्मा भूत् । पूर्वो विशेषः स्वप्रत्ययहेतुरन्य एवोत्पित्सुविशेषादिति चेत्, पूर्वव्यक्तिसामान्यमप्यन्यदस्तु । तर्हि सामान्यं समानप्रत्ययविषयो न स्यात् व्यक्त्यात्मकत्वाद्व्यक्तिस्वात्मवदिति ९९ Page #109 -------------------------------------------------------------------------- ________________ १०० तत्त्वार्थश्लोकवार्तिके [सू० ५ चेत् न, सदृशपरिणामस्य व्यक्तेः कथंचिद्भेदप्रतीतेः । प्रथममेकव्यक्तावपि सदृशपरिणामः समानप्रत्ययविषयः स्यादिति चेत् न, अनेकव्यक्तिगतस्यैवानेकस्य सदृशपरिणामस्य समानप्रत्ययविषयतया प्रतीतेः विशेषप्रत्ययविषयतया वैसदृशपरिणामवत् । ननु च प्रतिव्यक्तिभिन्नो यदि सदृशपरिणामः परं सदृशपरिणाममपेक्ष्य समानप्रत्ययविषयस्तदा व्यक्तिरेव परां व्यक्तिमपेक्ष्य तथास्तु विशेषाभावादलं सदृशपरिणामकल्पनयेति चेत् न, विसदृशव्यक्तेरपि व्यक्त्यंतरापेक्षया समानप्रत्ययविषयत्वप्रसंगात् । तथा च दधिकरभादयोपि समाना इति प्रतीयेरन् । ननु चैकस्यां गोव्यक्तौ गोत्वं सदृशपरिणामो गोव्यक्त्यंतरसदृशपरिणाममपेक्ष्य यथा समानप्रत्ययविषयस्तथा सत्त्वादिसदृश परिणामं कर्कादिव्यक्तिगतमपेक्ष्य स तथास्तु भेदाविशेषात्तदविशेषेपि शक्तिः तादृशी तस्य तया किंचिदेव सदृशपरिणामं सन्निधाय तथा न सर्वमिति नियमकल्पनायां दधिव्यक्तिरपि दधिव्यक्त्यंतरापेक्ष्य दधित्वप्रत्ययतामियतु तादृशशक्तिसंधानात्करभादीनपेक्ष्य मास्मेय इति चेत् सा तर्हि शक्तिर्व्यक्तीनां कासांचिदेव समानप्रत्ययत्व हेतुर्यद्येका तदा जातिरेवैकसादृश्यवत् । तदुक्तं जातिवादिना । " अभेदरूपं सादृश्यमात्मभूताश्च शक्तयः । जातिपर्यायशब्दत्वमेषामभ्युपवर्ण्यते" इति । अथ शक्तिरपि तासां भिन्ना सैव सदृशपरिणाम इति नाममात्रं भिद्यते कथं नियतव्यक्त्याश्रयाः केचिदेव सदृशपरिणामाः समानप्रत्ययविषया इति चेत्, शक्तयः कथं काश्चिदेव नियतव्यक्त्याश्रयाः समानप्रत्ययविषयत्व हेतव ? इति समः पर्यनुयोगः । शक्तयः खात्मभूता एव व्यक्तीनां स्वकारणात्तथोपजाता इति चेत् सदृशपरिणामास्तथैव संतु । ननु च यथा व्यक्तयः समाना एता इति प्रत्ययस्तत्समानपरिणामविषयस्तथा समानपरिणामा एते इति तत्र समानप्रत्ययोपि तदपरसमानपरिणामहेतुरस्तु । तथा चानवस्थानं । यदि पुनः समानपरिणामेषु खसमानपरिणामाभावेपि समानप्रत्ययस्तदा खंडादिव्यक्तिषु किं समानपरिणामकल्पनया । नित्यैकव्यापिसामान्यवत्तदनुपपत्तेरिति चेत् कथमिदानीमर्थानां विसदृशपरिणामा विशेषप्रत्ययविषयाः ? खविसदृश परिणामांतरेभ्य इति चेदनवस्थानं । स्वत एवेति चेत्सर्वत्र विसदृशपरिकल्पनानर्थक्यं । खकारणादुपजाताः सर्वेर्था विसदृश - प्रत्ययविषयाः स्वभावत एवेति चेत्, समानप्रत्ययविषयास्ते स्वभावतः स्वकारणादुपजायमानाः किं नानुमन्यते तथा प्रतीत्यपलापे फलाभावात् । केवलं स्वस्वभावो विशेषप्रत्ययविषयोर्थानां विसदृशपरिणामः, समानप्रत्ययविषयः सदृशपरिणाम इति व्यपदिश्यते न पुनरव्यपदेश्यः । सामर्थ्य वा तत्ता - दृशमिति पर्यंते व्यवस्थापयितुं युक्तं, ततो लोकयात्रायाः प्रवृत्त्यनुपपत्तेः । संनिवेशविशेषस्तत्प्रत्ययविषयो व्यपदिश्यत इति चेत्, स कथं परिमिताखेव व्यक्तिषु न पुनरन्यासु स्यात् । स्वहेतुवशादिति चेत् स एव हेतुस्तत्प्रत्ययविषयोस्तु किं संनिवेशेन, सोपि हेतुः कुतः परिमिताखेव व्यक्तिषु स्यादिति समानः पर्यनुयोगः । खहेतोरिति चेत् सोपि कुत इत्यनिष्टानं पर्यंते नित्यो हेतुरुपेयते । अनवस्थानपरिहरणसमर्थ इति चेत् प्रथमत एव सोभ्युपेयतां संनिवेशविशेषप्रसवाय । सोपि कुतः परिमिताखेव व्यक्तिषु संनिवेशविशेषं प्रसूते न पुनरन्यास्खिति वाच्यं । स्वभावात्तादृशात्सामर्थ्याद्वा व्यपदेश्यादिति चेत् तर्हि तेन वाग्गोचरातीतेन खभावेन सामर्थ्येन वा वचनमार्गावतारिवस्तुनिबंधना लोकयात्रा प्रवर्तत इति । समभ्यधायि भर्तृहरिणा । " खभावो व्यपदेश्यो वा सामर्थ्य वावतिष्ठते । सर्वस्यांते यतस्तस्माद्व्यवहारो न कल्पते" इति । तस्माद्वाग्गोचरवस्तुनिबंधनं लोकव्यवहारमनुरुध्यमानैर्व्यपदेश्यैव जातिः सदृशपरिणामलक्षणा स्फुटमेषितव्या । तत्साध्यस्य कार्यस्य तदधिकरणेन साधयितुमशक्तेः । पुरुषे दंडीतिप्रत्ययवद्दंड संबंधेन साध्यस्य तदधिकरणेन पुरुषमात्रेण वा साधयितुमशक्यत्वात् । दंडोपादित्सया दंडीतिप्रत्ययः साध्यते इति चायुक्तं, ततो दंडोपा दित्सावानिति प्रत्ययस्य प्रसूतेः । अन्यथा Page #110 -------------------------------------------------------------------------- ________________ → प्रथमोऽध्यायः । 1 स्यापीच्छाकारणैः संस्तवोपकारगुणदर्शनादिभिः साध्यत्वप्रसंगात् । ततः सर्वस्य खानुरूपप्रत्ययविषयत्वं वस्तुनोभिप्रेयता समानपरिणामस्यैव समानप्रत्ययविषयत्वमभिप्रेतव्यं । एकत्वस्वभावस्य सामान्यस्यैकत्वप्रत्ययविषयत्वप्रसंगात् । स एवायं गौरित्येकत्वप्रत्यय एवेति चेत् न, तस्योपचरितत्वात् । स इव स इति तत्समाने तदेकत्वोपचारात् स गौरयमपि गौरिति समानप्रत्ययस्य सकलजनसाक्षिकस्यास्ख लद्रूपतया - नुपचरितत्वसिद्धेः । कश्चिदाह । दंडीत्यादिप्रत्ययः परिच्छिद्यमानदंडसंबंधादिविषयतया नार्थांतरविषयः कल्पयितुं शक्यः समानप्रत्ययस्तु परिच्छिद्यमानव्यक्तिविषयत्वाभावादतरविषयस्तच्चार्थातरं सामान्यं प्रत्यक्षतः परिच्छेद्यमन्यथा तस्य यत्नोपनेयप्रत्ययत्वाघटनात् नीलादिवदिति । तदसत् । सामान्यस्य विशेषवत्प्रत्यक्षत्वेपि यत्नोपनीयमानप्रत्ययत्वाविरोधात् । प्रमाणसंप्लवस्यैकत्रार्थे व्यवस्थापनात् सामान्यमेव परिच्छिद्यमानखरूपं न विशेषास्तेषां व्यावृत्तिप्रत्ययानुमेयत्वादिति वदतोपि निषेद्धुमशक्तेः । न हि वस्तुखरूपमेव व्यावर्तमानाकारप्रत्ययस्य निबंधनं अपि तु तत्संसर्गिणोर्थास्ते च भेदहेतवो यदा सकला - स्तिरयंते तदा सद्वस्तु पदार्थ इति वा निरुपाधिसामान्यप्रत्ययः प्रसूते, यदा तु गुणकर्मभ्यां भेदहेतवो अतिरोभूताः शेषास्तिरोधीयते तदा द्रव्यमिति बुद्धिरेवमवांतरसामान्येष्वशेषेष्वपि बुद्धयः प्रवर्तते भेदहेतूनां पुनराविर्भूतानां वस्तुना संसर्गे तत्र विशेषप्रत्ययः । तथाच सामान्यमेव वस्तुखरूपं विशेषास्तूपाधिबलावलंबिन इति मतांतरमुपतिष्ठेत । वस्तुविशेषा नोपाधिका यत्नोपनेयप्रत्ययत्वाभावात् स्वयं प्रतीयमानत्वादिति चेत् तत एव सामान्यमौपाधिकं माभूत् । सामान्यविशेषयोर्वस्तुखभावत्वे सर्वत्रोभयप्रत्ययप्रसक्तिरिति चेत् किं पुनस्तयोरेकतरप्रत्यय एव क्वचिदस्ति । दर्शनकाले सामान्यप्रत्ययस्याभावाद्विशेषप्रत्यय एवास्तीति चेत् न, तदापि सद्द्रव्यत्वादिसामान्यप्रत्ययस्य सद्भावादुभयप्रत्ययसिद्धेः । प्रथममेकां गां पश्यन्नपि हि सदादिना सादृश्यं तत्रार्थीतरेण व्यवस्यत्येव अन्यथा तदभावप्रसंगात् । प्रथममवग्रहे सामान्यस्यैव प्रतिभासनान्नोभयप्रत्ययः सर्वत्रेति चायुक्तं, वर्णसंस्थानादिसमानपरिणामात्मनो वस्तुनोऽर्थांतराद्विसदृशपरिणामात्मनश्चावग्रहे प्रतिभासनात् । क्वचिदुभयप्रत्ययासत्त्वेपि वा न वस्तुनः सामान्यविशेषात्मकत्वविरोधः, प्रतिपुरुषं क्षयोपशम विशेषापेक्षया प्रत्ययस्याविर्भावात् । यथा वस्तुस्वभावं प्रत्ययोत्पत्तौ कस्यचिदनाद्यंतवस्तुप्रत्ययप्रसंगात् परस्य स्वर्गप्रापणशक्त्यादिनिर्णयानुषंगात् । ततो विशेषप्रत्ययाद्विशेषमुररीकुर्वता समानप्रत्ययात्सामान्यमुररीकर्तव्यमिति प्रतीतिप्रसिद्धा जातिर्निमित्तांतरं तथा द्रव्यं वक्ष्यमाणं गुणाः क्रिया च प्रतीतिसिद्धेति न तन्निमित्तांतरत्वमसिद्धं वक्रभिप्रायात् येन कल्पनारोपितानामेव जात्यादीनां शब्दैरभिधानात्कल्पनैव शब्दानां विषयः स्यात्, पंचतयी वा शब्दानां प्रवृत्तिरबाधिता न भवेत् ॥ जातिः सर्वस्य शब्दस्य पदार्थो नित्य इत्यसन् । व्यक्तिसंप्रत्ययाभावप्रसंगाद्धनितः सदा ॥ १५ ॥ कश्चिदाह । जातिरेव सर्वस्य शब्दस्यार्थः सर्वदानुवृत्तिप्रत्ययपरिच्छेद्ये वस्तुखभावे शाब्दव्यवहारदर्शनात् । यथैव हि गोरिति शब्दोनुवृत्तिप्रत्ययविषये गोत्वे प्रवर्तते इति जातिस्तथा शुक्लशब्दस्तथाविधे शुक्लत्वे प्रवर्तमानो न गुणशब्दः । चरतिशब्दश्चरणसामान्ये प्रवृत्तो न क्रियाशब्दः, विषाणीति शब्दोपि विषाणित्वसामान्ये वृत्तिमात्रसमवायिद्रव्यशब्दः, दंडीति शब्दश्च दंडित्वसामान्ये वृत्तिमुपगच्छन्न संयोगिद्रव्यशब्दः, डित्थशब्दोपि बालकुमारयुवमध्यस्थ विरडित्थावस्थासु प्रतीयमाने डित्थत्वसामान्ये प्रवर्तमानो न यदृच्छाशब्दः । कथं जातिशब्दो जातिविषयः स्याज्जातौ जात्यंतरस्याभावादन्यथानवस्थानुषंगादिति च न चोद्यं, जातिष्वपि जात्यंतरस्योपगमाज्जातीनामानंत्यात् । यथाकांक्षाक्षयं व्यवहारपरिसमाप्तेरनवस्थानासंभवात् । कालो दिगाकाशमिति शब्दाः कथं जातिविषयाः कालादिषु जातेरसंभवात्तेषामेक १०१ Page #111 -------------------------------------------------------------------------- ________________ १०२ तत्त्वार्थश्लोकवार्तिके [सू०५ द्रव्यत्वादित्यपि न शंकनीयं, कालशब्दस्य त्रुटिलवादिकालभेदेष्वनुस्यूतप्रत्ययावच्छेद्ये कालत्वसामान्ये प्रवर्तनात् । पूर्वापरादिदिग्भेदेष्वन्वयज्ञानगम्ये दिक्त्वसामान्ये दिक्छब्दस्य प्रवृत्तेः । पाटलिपुत्रचित्रकूटाद्याकाशभेदेष्वनुस्यूतप्रतीतिगोचरे चाकाशसामान्ये प्रवर्तमानस्याकाशशब्दस्य संप्रत्ययाज्जातिशब्दत्वोपपत्तेः । कालादीनामुपचरिता एव भेदा न परमार्थसंत इति दर्शनेन तजातिरप्युपचरिता तेष्वस्तु । तथा च उपचरितजातिशब्दाः कालादय इति न व्यक्तिशब्दाः । कथमतत्त्वशब्दो जातौ प्रवर्तत इति च नोपा- । लंभः, तत्त्वसामान्यस्यैव विचारितस्यातत्त्वशब्देनाभिधानात् । तदुक्तं । “न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः । अतत्त्वमिति मन्यते तत्त्वमेवाविभावितम् ॥” इति । एतेन प्रागभावादिशब्दानां भावसामान्ये वृत्तिरुक्ता, प्रागभावादीनां भावखभावत्वादन्यथा निरुपाख्यत्वापत्तेरिति । तदेतदसत्यम् । सर्वदा जातिशब्दाघ्यक्तिसंप्रत्ययस्याभावानुषंगात् । तथा चार्थाक्रियार्थिनः प्रतिपत्तन् प्रति शब्दप्रयोगोनर्थकः स्यात् । ततः प्रतीयमानया जात्याभिप्रेतार्थस्य वाहदोहादेरसंपादनात् । खविषयज्ञानमात्राक्रियायाः संपादनाददोष इति चेन्न, तद्विज्ञानमात्रेण व्यवहारिणः प्रयोजनाभावात् । न शब्दजातौ लक्षितायामर्थक्रियाथिनां व्यक्तौ प्रवृत्तिरुत्पद्यते अति प्रसंगात् ॥ शब्देन लक्षिता जातिर्व्यक्तीर्लक्षयति स्वकाः । संबंधादित्यपि व्यक्तमशब्दार्थज्ञतेहितम् ॥१६ तथाह्यनुमितेरर्थो व्यक्तिर्जातिः पुनलनेः । कान्यथाक्षार्थताबाधा शब्दार्थस्यापि सिध्यतु १७ अक्षणानुगतः शब्दो जातिं प्रत्यापयेदिह । संबंधात् सापि निःशेषा स्वव्यक्तीरिति तनयः १८ द्रव्यत्वजातिः शब्देन लक्षिता द्रव्यं लक्षयति तत्र तस्याः समवायात् । गुणत्वजातिर्गुणं कर्मत्वजातिः कर्म । तत एव द्रव्यं तु समवेतसमवायाप्रत्यापयति । विवक्षासामान्यं तु शब्दात्प्रतीतं विवक्षितार्थ संयुक्तसमवायादेरित्येतदशब्दार्थज्ञताया एव विजृमितं । द्रव्यगुणकर्मणां विवक्षितार्थानां चैवमनुमेयानां शब्दार्थत्वाभिधानात् । शब्दात्परंपरया तेषां प्रतीयमानत्वात् शब्दार्थत्वे कथमक्षार्थता न स्यादक्षात्परंपरायाः प्रतीयमानत्वात् । शब्दो हि श्रोत्रेणावगतो जातिं प्रत्यायः यति सापि खव्यक्तीरिति सर्वः शब्दार्थोक्षार्थ एव । तथानुमानार्थाः करणेन प्रतीताल्लिंगाल्लिंगिनि ज्ञानोत्पत्तेः । एतेनार्थापत्त्यादिपरिच्छेद्यस्यार्थस्याक्षार्थताप्रसक्तिर्व्याख्याता, पारंपर्येणाक्षात्परिच्छिद्यमानत्वाविशेषादित्यक्षार्थ एव शब्दो निर्वाधः स्यान्न शब्दाद्यर्थः सामान्यशब्दार्थवादिनो न चैवं प्रसिद्धः ॥ यद्यस्पष्टावभासित्वाच्छब्दार्थः कश्चनेष्यते । लिंगार्थोपि तदा प्राप्तः शब्दार्थो नान्यथा स्थितिः १९ __ शब्दाप्रतीता जातिर्जात्या वा लक्षिता व्यक्तिः शब्दार्थ एवास्पष्टावभासित्वादित्ययुक्तं, लिंगार्थेन व्यभिचारात् । तस्यापि पक्षीकरणे लिंगार्थयोः स्थित्ययोगात् ॥ यत्र शब्दात्प्रतीतिः स्यात्सोर्थः शब्दस्य चेन्ननु । व्यक्तेः शब्दार्थता न स्यादेवं लिंगात्प्रतीतितः२० शब्दादेव प्रतीयमानं शब्दार्थमभिप्रेत्य शब्दलक्षितात्सामान्याल्लिंगात् प्रतीयमानां व्यक्तिं शब्दार्थमाचक्षाणः कथं स्वस्थः, परंपरया शब्दात्प्रतीयमानत्वात्तस्याः शब्दार्थत्वेक्षार्थतां कथं बाध्यते तथाक्षेणापि प्रतीयमानत्वादुपचारस्योभयत्राविशेषात् । नच लक्षितलक्षणयापि शब्दव्यक्तौ प्रवृत्तिः संभवतीत्याहशब्दप्रतीतया जात्या न च व्यक्तिः स्वरूपतः । प्रत्येतुं शक्यते तस्याः सामान्याकारतो गतेः॥२१ व्यक्तिसामान्यतो व्यक्तिप्रतीतावनवस्थितेः । क विशेषे प्रवृत्तिः स्यात्पारंपर्येण शब्दतः ।। २२॥ शब्दलक्षणतया हि जात्या व्यक्तेः प्रतिपत्तुरनुमानमर्थापत्तिर्वा ? प्रथमपक्षे न तस्याः व्यक्तेः खरूपेणा Page #112 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। साधारणेनार्थक्रियासमर्थन प्रतीतिस्तेन जातेाप्त्यसिद्धेरन्वयात्तदंतरेणापि व्यत्तयंतरेषूपलब्धेर्व्यभिचाराच्च, सामान्यरूपेण तु तत्प्रतिपत्तौ नाभिमतव्यक्तौ प्रवृत्तिरतिप्रसंगात् । यदि पुनर्जातिलक्षितव्यक्तिसामान्यादभिमतव्यक्तेः प्रतीतिस्तदा साप्यनुमानमर्थापत्तिर्वेति स एव पर्यनुयोगस्तदेव चानुमानपक्षे दूषणमित्यनवस्थानं शब्दप्रतीतया जात्या व्यक्तेः प्रतिपत्तिरेवेति चेत् , प्रतिनियतरूपेण सामान्यरूपेण वा ? न ताव, दादिविकल्पस्तेन सह जातेरविनाभावाप्रसिद्धेः। द्वितीयविकल्पे तु नाभिमतव्यक्तौ प्रवृत्तिरित्यनुमानपक्षभावी दोषः । सामान्यविशेषस्यानुमानार्थत्वाददोष इत्यपरः। तस्यापि शब्दार्थो जातिमात्रं मा भूत् सामान्यविशेषस्यैव तदर्थतोपपत्तेः । संकेतस्य तत्रैव ग्रहीतुं शक्यत्वात् । तथा च शब्दाप्रत्यक्षादेरिव सामान्यविशेषात्मनि वस्तुनि प्रवृत्तेः परमतसिद्धेर्न जातिरेव शब्दार्थः ।। द्रव्यमेव पदार्थोस्तु नित्यमित्यप्यसंगतम् । तत्रानंत्येन संकेतक्रियायुक्तेरनन्वयात् ॥ २३ ॥. वांछितार्थप्रवृत्त्यादिव्यवहारस्य हानितः । शब्दस्याक्षादिसामर्थ्यादेव तत्र प्रवृत्तितः ॥ २४॥ न हि क्षणिकखलक्षणमेव शब्दस्य विषयस्तत्र साकल्येन संकेतस्य कर्तुमशक्तेरानंत्यादेकत्र संकेतकरणे अनन्वयादभिमतार्थे प्रवृत्त्यादिव्यवहारस्य विरोधात् । खयमप्रतिपन्ने खलक्षणे संकेतस्यासंभवाच्च । वाचकानां प्रत्यक्षादिभिः प्रतिपन्नेक्षादिसामर्थ्यादेव प्रवृत्तिसिद्धेः । प्रतिपत्तुः शब्दार्थापेक्षयानर्थक्यात् किं तु द्रव्यनित्यमपि तस्यानंत्याविशेषात् । स्यान्मतं । तत्र साकल्येन संकेतस्य करणमशक्तेः । किं तर्हि कचिदेकत्र न चानन्वयोस्य संकेतव्यवहारकालव्यापित्वान्नित्यत्वादिति । तदसंगतं । कर्के संकेतितादश्वशब्दाच्छोणादौ प्रवृत्त्यभावप्रसंगात् तत्र तस्यानन्वयात् । न च प्रतिपाद्यप्रतिपादकाभ्यामध्यक्षादिना नित्येपि कर्के प्रतिपन्ने वाचकस्य संकेतकरणं किंचिदर्थ पुष्णाति प्रत्यक्षादेरेव तत्र प्रवृत्त्यादिसिद्धेः । खयं ताभ्यामप्रतिपन्ने तु कुतः संकेतो वाचकस्यातिप्रसंगात् । केचिदाहुः । न नाना द्रव्यं नित्यं शब्दस्यार्थः किंत्वेकमेव प्रधानं तस्यैवात्मा वस्तुखभावः शरीरं तत्त्वमित्यादिपर्यायशब्दरभिधानात् । यथैकोयमात्मोदकं नामेत्यात्मशब्दो द्रव्यवचनो दृष्टः । वस्त्वेकं तेज इति जलं नामैकः खभावः शरीरं तत्त्वमिति च दर्शनानतिक्रमात् । यथा च द्रव्यमात्मेत्यादयः शब्दपर्याया द्रव्यस्य वाचकास्तथान्येपि सर्वे रूपादिशब्दाः प्रत्यस्तमयादिशब्दाश्च कथंचित्सदापन्नाः सर्वे शब्दा द्रव्यस्याद्वयस्य वाचकाः शब्दत्वाद्रव्यमात्मेत्यादिशब्दवत् । तदुक्तं । "आत्मा वस्तुस्वभावश्च शरीरं तत्त्वमि त्यपि । द्रव्यमित्यस्य पर्यायास्तच्च नित्यमिति स्मृतम् ॥” इति । न च नित्यशब्देनोदयास्तमयशब्दाभ्यामद्रव्यशब्देन व्यभिचारस्तद्विपरीतार्थाभिधायकत्वादिति न मंतव्यं, द्रव्योपाधिभूतरूपादिविषयत्वादनित्यादिशब्दानां रूपादयो व्युत्पद्यते वियंति चेत्यनित्याः द्रव्यत्वाभावाचाद्रव्यत्वमिति कथ्यते । न चोपाधिविषयत्वादमीषां शब्दानामद्रव्यविषयत्वं येन तैः साधनस्य व्यभिचार एव सत्यस्यैव वस्तुनस्तरसत्यैराकारैरवधार्यमाणत्वादसत्योपाधिभिः शब्दैरपि सत्याभिधानोपपत्तेः । तदप्यभिधायि । “सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥” कथं पुनरसत्यानुपाधीनभिधाय तदुपाधीनां सत्यमभिदधानाः शब्दा द्रव्यविषया एव तदुपाधीनामपि तद्विषयत्वात् अन्यथा नोपाधिव्यवच्छिन्नं वस्तुशब्दार्थः इति न चोद्यं, कतरद्देवदत्तस्य गृहमदो यत्रासौ काक इति खामिविशेषावच्छिन्नगृहप्रतिपत्तौ काकसंबंधस्य निबंधनत्वेनोपादानेपि तत्र वर्तमानस्य गृहशब्दस्याभिधेयत्वेन काकानपेक्षणात् । रुचकादिशब्दानां च रुचकवर्धमानखस्तिकाद्याकारैरपायिभिरुपहितं सुवर्णद्रव्यमभिदधतामपि शुद्धसुवर्णविषयतोपपत्तेः । तदुक्तं । “अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥" "सुवर्णादि यथा युक्तं खैराकारैरपायिभिः । रुचकाद्यभिधानानां शुद्धमेवेति वाच्यताम् ॥” इति । Page #113 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ५ तद्वद्रूपाद्युपाधिभिरुपधीयमानद्रव्यस्य रूपादिशब्दैरभिधानेपि शुद्धस्य द्रव्यस्यैवाभिधानसिद्धेर्न तेषामद्रव्यविषयत्वं तदुपाधीनामसत्यत्वाद् गृहस्य काकाद्युपाधिवत् सुवर्णस्य रुचकाद्याकारोपाधिवच्च । सत्यत्वे पुनरुपाधीनां रूपाद्युपाधीनामपि सत्यत्वप्रसंगात् तथा तदुपाधीनामित्यनवस्थानमेव स्यात् उपाधितद्वतोरव्यवस्थानात् । भ्रांतत्वे पुनरुपाधीनां द्रव्योपाधीनामसत्यत्वमस्तु तद्व्यतिरेकेण तेषां संभवात् स्वयमसंभवतां शब्दैरभिधाने तेषां निर्विषयत्वप्रसंगादिति सविषयत्वं शब्दानामिच्छता शुद्धद्रव्यविषयत्वमेष्टव्यं तस्य सर्वत्र सर्वदा व्यभिचाराभावादुपाधीनामेव व्यभिचारात् । न च व्यभिचारिणामप्युपाधीनामभिधायकाः शब्दाः सविषयाणामखप्नादिप्रत्ययानां खमविषयत्वप्रसंगात् इति शुद्धद्रव्यपदार्थवादिनः । तेपि न परी - क्षकाः । सर्वशब्दानां खरूपमात्राभिधायित्वप्रसंगात् । परेपि ह्येवं वदेयुः । सर्वे विवादापन्नाः शब्दाः स्वरूपमात्रस्य प्रकाशकाः शब्दत्वान्मेघशब्दवदिति । नन्विदमनुमानवाक्यं यदि स्वरूपातिरिक्तं साध्यं प्रकाशयति तदानेनैव व्यभिचारः साधनस्य । नोचेत् कथमतः साध्यसिद्धिरतिप्रसंगादिति दूषणं शुद्धद्रव्याद्वैतवाचकत्वसाधनेपि समानं । तद्वाक्येनापि द्रव्यमात्राव्यतिरिक्तस्य तद्वाचकत्वस्य शब्दधर्मस्य प्रकाशने तेनैव हेतोर्व्यभिचारात् । तदप्रकाशने साध्यसिद्धेरयोगात् । द्रव्याद्वैतवादिनः शब्दस्य तद्वाचकत्वधर्मस्य परमार्थतो द्रव्यादव्यतिरिक्तत्वात् साधनवाक्येन तत्प्रकाशनेपि न हेतोर्व्यभिचार इति चेत् तर्हि शब्दाद्वैतवादिनोपि सुतरां प्रकृतसाधनवाक्येन न व्यभिचारः खरूपमात्राभिधायकस्य साध्यस्य शब्दधर्मस्य शब्दादव्यतिरिक्तस्य तेन साधनात् द्रव्यमात्रे शब्दस्य प्रवेशनेन तद्धर्मस्यापि तत्र पारंपर्यानुषक्तेः परिहरणात् । ननु शब्दाद्वैते कथं वाच्यवाचकभावः शुद्धद्रव्याद्वैते कथं ? कल्पनामात्रादिति चेत्, इतरत्र समानं । यथैव ह्यात्मा वस्तुखभावः शरीरं तत्त्वमित्यादयः पर्याया द्रव्यस्यैवं कथ्यते तदा शब्दस्यैव ते पर्याया इत्यपि शक्यं कथयितुमविशेषात् । ननु च जातिद्रव्यगुणकर्माणि शब्देभ्यः प्रतीयते न च तानि शब्दखरूपं श्रोत्रग्राह्यत्वाभावादित्यपि न चोद्यं, जात्यादिभिराकारैरसत्यैरेव सत्यस्य शब्दखरूपस्यावधार्यमाणत्वात् । तच्छब्दैश्चासत्योपाधिवशाद्भेदमनुभवद्भिस्तस्यैवाभिधानात् । न च जात्याद्युपाधिकथनद्वारेण तदुपाधिशब्दस्वरूपाभिधानाद्, अन्यथा तदुपाधिव्यवच्छिन्नशब्दरूपप्रकाश नासंभवात् । जात्यादिशब्दा जात्याद्युपाधिप्रतिपादका एवेति न शंकनीयं, जात्याद्युपाधीनामसत्यत्वात् गृहस्य काकादिवत्सुवर्णस्य रुचकाद्याकारोपाधिवच्च । न च जात्याद्युपाधयः सत्या एव तदुपाधीनामपि सत्यत्वापत्तेः उपाधितद्वतोः क्वचिद्व्यवस्थानायोगात् । तदुपाधीनामसत्यत्वे मौलोपाधीनामप्यसत्य त्वानुषंगात् । न चासत्यानामुपाधीनां प्रकाशकाः शब्दाः सत्या नाम निर्विषयत्वात् । ततः सविषयत्वं शब्दस्येच्छता खरूपमात्रविषयत्वमेषितव्यं, तस्य तत्राव्यभिचारात् । जात्यादिशब्दानां तु जात्याद्यभावेपि भावाद्व्यभिचारदर्शनात् । न हि गौरव इत्यादयः शब्दा गोत्वाश्वत्वादिजात्यभावेपि वाहकादौ न प्रवर्तते । तत्रोपचारात् प्रवर्तत इति चेन्नापरागतयोपि यत्र वचन तेषां प्रवर्तनात् । तथा द्रव्यशब्दा दंडीविषाणीत्यादयो गुणशब्दाः शुक्लादयश्चरत्यादयश्च क्रियाशब्दाः द्रव्यादिव्यभिचारिणोभ्यूह्याः । सन्मात्रं न व्यभिचरंतीति चेत् न, असत्यपि सत्ताभिधायिनां शब्दानां प्रवृत्तिदर्शनात् । न किंचित्सदस्तीत्युपयन् सदेव सर्वमिति ब्रुवाणः कथं स्वस्थो नाम, ततोनर्थंतरे गुणादाविव शुद्धद्रव्येपि शब्दस्य व्यभिचारात् खरूपमात्राभिधायित्वमेव श्रेय इतीतरे । तकेत्र प्रष्टव्याः । कथममी शब्दाः स्वरूपमात्र प्रकाशयंतो रूपादिभ्यो भिद्येरन्? तेषामपि खरूपमात्र प्रकाशने व्यभिचाराभावात् । न स्वरूपप्रकाशिनो रूपादयोऽचेतनत्वादिति चेत् किं वै शब्दश्चेतनः ? परमब्रह्मस्वभावत्वात् शब्दज्योतिषश्चेतनत्वमेवेति चेत्, रूपादयः किं न तत्खभावाः? परमार्थतस्तेषामसत्त्वात् । अतत्खभावा एवेति चेत्, शब्दज्योतिरपि तत एव तत्खभावं मा " १०४ " Page #114 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १०५ D भूत् । तस्य सत्यत्वे वा द्वैतसिद्धिः शब्दज्योतिः परमब्रह्मणोः खभावतद्वतोर्वस्तुसतोर्भावात् शब्दज्योति - रसत्यमपि परमब्रह्मणोधिगत्युपायत्वात्तत्स्वरूपमुच्यते " शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति" वचनात् । न तथा रूपादय इति चेत् कथमसत्यं तद्वदधिगतिनिमित्तं रूपादीनामपि तथानुषंगाभावात् । तस्य विद्यानुकूलत्वाद्भावनाप्रकर्षसात्मभावे विद्यावभासमर्थकारणता न तु रूपादीनामिति चेत्, रूपादयः कुतो न विद्यानुकूलाः ? भेदव्यवहारस्याविद्यात्मनः कारणत्वादिति चेत्, तत एव शब्दोपि विद्यानुकूलो मा भूत् । गुरुणोपदिष्टस्य तस्य रागादिप्रशमहेतुत्वाद्विद्यानुकूलत्वे रूपादीनां तथैव तदस्तु विशेषाभावात् । तेषामनिर्दिश्यत्वान्न गुरूपदिष्टत्वसंभव इति चेत् न, खमत विरोधात् । " न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्वे शब्दे प्रतिष्ठितम् ॥” इति वचनात् । शाब्दः प्रत्ययः सर्वः शब्दान्वितो नान्य इति चायुक्तं, श्रोत्रजशब्दप्रत्ययस्याशब्दान्वितत्वप्रसक्तेः खाभिधानविशेषात् प्रत्यक्ष एवार्थः प्रत्ययैर्निश्चीयत इत्यभ्युपगमाच्च । ननु च रूपादयः शब्दान्नार्थांतरं तेषां तद्विवत् । ततो न ते गुरुणोपदिश्यते येन विद्यानुकूलाः स्युरिति चेत्, तर्हि शब्दोपि परमब्रह्मणो नान्य इति कथं गुरुणोपदेश्यः । ततो भेदेन प्रकल्प्य शब्दं गुरुरुपदिशतीति चेत्, रूपादीनपि तथोपदिशतु । तथा च शब्दाद्वैतमुपायतत्त्वं परमब्रह्मणो न पुना रूपाद्वैतं रसाद्वैतादि चेति ब्रुवाणो न प्रेक्षावान् । ननु च लोके शब्दस्य परप्रतिपादनोपायत्वेन सुप्रतीतत्वात् सुघटस्तस्य गुरूपदेशो न तु रूपादीनामिति चेत् न, तेषामपि खप्रतिपत्त्युपायतया हि प्रतीतत्वात् । तद्विज्ञानं खप्रतिपत्त्युपायो न त एवेति चेत् तर्हि शब्दज्ञानं परस्य प्रतिपत्त्युपायो न शब्द इति समानं । परंपरया शब्दस्य प्रतिपत्त्युपायत्वे रूपादीनां सुप्रतिपत्त्युपायतास्तु । न हि धूमादिरूपादीनां विज्ञानात् पावकादिप्रत्तिपत्तिर्जनस्याप्रसिद्धाः । शब्दः साक्षात्परप्रतिपत्त्युपायस्तस्य प्रतिभासादभिन्नत्वादिति चेत्, तत एव रूपादयः साक्षात्स्वप्रतिपत्तिहेतवः संतु । एवं च यथा श्रोत्रप्रतिभासादभिन्नः शब्दस्तत्समानाधिकरणतया संवेदनाच्छ्रोत्रप्रतिभासश्च परमब्रह्म तत्त्वविकल्पाच्छब्दात् सोपि च ब्रह्मतत्त्वात्संवेदनमात्र लक्षणादव्यभिचारिखरूपादिति । ततः परमब्रह्मसिद्धिः । तथा रूपादयः खप्रतिभासादभिन्नाः, सोपि प्रतिभासमात्र विकल्पाल्लिंगात्, सोपि च परमात्मनः खसंवेदनमात्रलक्षणादिति न शब्दाद्रूपादीनां कंचन विशेषमुत्पश्यामः । सर्वथा तमपश्यंतश्च शब्द एव खरूपप्रकाशनो न तु रूपादयः, स एव परमब्रह्मणोधिगमोपायस्तत्स्वभावो वा न पुनस्त इि कथं प्रतिपद्येमहि । अत्रापरः प्राह । पुरुषाद्वैतमेवास्तु पदार्थः प्रधानशब्दब्रह्मादेस्तत्स्वभावत्वात्तस्यैव विधिरूपस्य नित्यद्रव्यत्वादिति । तदप्यसारं । तदन्यापोहस्य पदार्थत्वसिद्धेः । शब्दो हि ब्रह्म ब्रुवाणः स्वप्रतिपक्षादपोढं ब्रूयात् । किं वान्यथा प्रथमपक्षे विधिप्रतिषेधात्मनो वस्तुनः पदार्थत्वसिद्धिः । द्वितीयपक्षेपि सैव, स्वप्रतिपक्षादव्यावृतस्य परमात्मनः शब्देनाभिधानात् । तद्विधिरेवान्यनिषेध इति चेत्, तदन्यप्रतिषेध एव तद्विधिरस्तु । तथा चान्यापोह एव पदार्थः स्यात् स्वरूपस्य विधेस्तदपोह इति नाम - मात्रभेदादर्थो न भिद्यते एव यतोनिष्टसिद्धिः स्यादिति चेत् । न । अन्यापोहस्यान्यार्थापेक्षत्वात् स्वरूपविधेः परानपेक्षत्वादर्थभेदगतेः । परमात्मन्यद्वये सति ततोन्यस्यार्थस्याभावात् कथं तदपेक्षयान्यापोह इति चेत् न । परपरिकल्पितस्यावश्याभ्युगमनीयत्वात् । सोप्यविद्यात्मक एवेति चेत्, किमविद्यातोपोहस्तदपेक्षो नेष्टः ? सोप्यविद्यात्मक एवेति चेत् तर्हि तत्त्वतो नाविद्यातपोहः परमात्मन इति कुतोविद्यात्वं येन स एव पदस्यार्थो नित्यः प्रतिष्ठेत । सत्यपि च परमात्मनि संवेदनात्मन्यद्वये कथं शब्दविषयत्वं ? खसंवेदनादेव तस्य प्रसिद्धेस्तत्प्रतिपत्तये शब्दवैयर्थ्यात् । ततो मिथ्याप्रवाद एवायं नित्यं द्रव्यं पदार्थ इति ॥ १४ Page #115 -------------------------------------------------------------------------- ________________ १०६ तत्त्वार्थश्लोकवार्तिके [सू० ५ व्यक्तावेकत्र शब्देन निर्णीतायां कथंचन । तद्विशेषणभूताया जातेः संप्रत्ययः स्वतः॥२५॥ गुडशब्दाद्यथा ज्ञाने गुडे माधुर्यनिर्णयः । स्वतः प्रतीयते लोके प्रोक्तो निंबे च तिक्तता ॥२६॥ प्रतीतया पुनर्जात्या विशिष्टां व्यक्तिमीहिताम् । यां यां पश्यति तत्रायं प्रवर्तेतार्थसिद्धये ॥२७॥ तथा च सकलः शाब्दव्यवहारः प्रसिद्ध्यति । प्रतीतेर्वाधशून्यत्वादित्येके संप्रचक्षते ॥ २८ ॥ न प्रधानं शुद्धद्रव्यं शब्दतत्त्वमात्मतत्त्वं वाद्वयं पदार्थः प्रतीतिबाधितत्वात् । नापि भेदवादिनां । नानाव्यक्तिषु नित्यासु वाशब्दस्य प्रवृत्तिः तत्र संकेतकरणासंभवादिदोषावतारात् । किं तर्हि ? व्यक्तावेकस्यां शब्दः प्रवर्तते शृंगग्राहिकया परोपदेशाल्लिंगदर्शनाद्वा तस्यां ततो निर्णीतायां तद्विशेषणभूतायां जातौ खत एव निश्चयो यथा गुडादिशब्दाद्गुडादेनिर्णये तद्विशेषणे माधुर्यादौ तथाभ्यासादिवशाल्लोके संप्रत्ययात् । ततः खनिश्चतया जात्या विशिष्टामभिप्रेतां यां व्यक्तिं पश्यति तत्र तत्रेष्टसिद्धये प्रवर्तते । तावता च सकलशाब्दव्यवहारः सिद्ध्यति बाधकामावादिति व्यक्तिपदार्थवादिनः प्राहुः ॥ तदप्यसंगतं जातिप्रतीतेत्तिसंभवे । शब्देनाजन्यमानायाः शब्दवृत्तिविरोधतः ॥ २९ ॥ पारंपर्येण चेच्छब्दात्सा वृत्तिः करणान्न किम् । ततो न शब्दतो वृत्तिरेषां स्याज्जातिवादिवत् ३० प्रतीतायामपि शब्दाद्यक्तावेकत्र यावत् खतस्तज्जातिर्न प्रतीता न तावत्तद्विशिष्टां व्यक्तिं प्रतीत्य कश्चित् प्रवर्तते इति । जातिप्रत्ययादेव प्रवृत्तिसंभवे शब्दात् सा प्रवृत्तिरिति विरुद्धं, जातिप्रत्ययस्य शब्देनाजन्यमानत्वात् । शब्दायक्तिप्रतीतिभावे तद्विशेषणभूताया जातेः संप्रत्ययात्तत एव जातिर्गम्यत एवेति चेत् , कथमेवं व्यक्तिवज्जातिरपि शब्दार्थो न स्यात् ? तस्याः शब्दतोऽश्रयमाणत्वादिति चेत् , किमिदानीं शब्दतो गम्यमानोर्थः शब्दस्याविषयः । प्रधानभावेनाविषय एवेति चेन्न, गम्यमानस्यापि प्रधानभावदर्शनात् यथा गुडशब्दाद्गम्यमानं माधुर्य पित्तोपशमनप्रकरणे । न चात्र जातेरप्रधानत्वमुचितं तत्प्रतीतिमंतरेण प्रवृत्त्यर्थिनः प्रवृत्त्यनुपपत्तेः । यदि पुनर्जातिः शब्दाद्गम्यमानापि नेष्यते तत्प्रत्ययस्याभ्यासादिवशादेवोत्पत्तेस्तदा कथमशब्दाजातिप्रत्ययान्न प्रवृत्तिः ? पारंपर्येण शब्दात् सा प्रवृत्तिरिति चेत् , करणात् किं न स्यात् ? यथैव हि शब्दाव्यक्तिप्रतीतिस्ततो जातिप्रत्ययस्ततस्तद्विशिष्टे हि तव्यक्तौ संप्रत्ययात्प्रवृत्तिरिति शब्दमूला सा तथा शब्दस्याप्यक्षाप्रतीतेरक्षमूलास्तु तथा व्यवहारान्नैवमिति चेत् , समानमन्यत्र । ततो न व्यक्तिपदार्थवादिनां जातिपदार्थवादिनामिव शब्दात्समीहितार्थे प्रवृत्तिः शब्देनापरिच्छिन्न एव तत्र तेषां प्रवर्तनात् ॥ एतेन तद्द्वयस्यैव पदार्थत्वं निवारितम् । पक्षे द्वयोक्तदोषस्याशक्तेः स्याद्वादविद्विषाम् ॥३१॥ न हि जातिव्यक्ती परमभिन्ने भिन्ने वा सर्वथा संभाव्येते येन पदार्थत्वेन युगपत्प्रतीमः । येन खभावेन भिन्ने तेनैवाभिन्ने इत्यपि विरुद्धं, क्रमेण जातिव्यक्त्योः परस्परानपेक्षयोः पदार्थत्वे पक्षद्वयोक्तदोषासक्तिः। कचिजातिशब्दात् प्रतीत्य लक्षणया व्यक्ति प्रतिपद्यते, कचियक्तिं प्रतीत्य जातिमिति हि जातिव्यक्तिपदार्थवादिपक्षादेवासकृजातिव्यक्त्यात्मवस्तुनः पदार्थत्वे किमनेन स्याद्वादविद्वेषेण । केचिदत्राकृतिपदार्थवादिनः प्राहुः ॥ लोहिताकृतिमाचष्टे यथोक्तो लोहितध्वनिः । लोहिताकृत्यधिष्ठाने विभागालोहिते गुणे ॥३२॥ तदावेशात्तथा तत्र प्रत्ययस्य समुद्भवात् । द्रव्ये च समवायेन प्रसूयेत तदाश्रये ॥ ३३ ॥ गुणे समासृतत्वेन समवायात्तदाकृतेः । संयुक्तसमवेते च द्रव्येन्यत्रोपपादयेत् ॥ ३४ ॥ लोहितप्रत्ययं रक्तवस्त्रद्वयवृतेपि च । तथा गौरिति शब्दोपि कथयत्याकृतिं स्वतः ॥ ३५ ॥ Page #116 -------------------------------------------------------------------------- ________________ १०७ प्रथमोऽध्यायः। गोत्वरूपात्तदावेशात्तदधिष्ठान एव तु । तदाश्रये च गोपिंडे गोबुद्धिं कुरुतेंजसा ॥ ३६ ॥ कस्मात् पुनर्गुणे द्रव्ये द्रव्यांतरे च प्रत्ययं कुर्वन्नाकृतेरभिधायकः शब्द इति न चोद्यं, लोहितशब्दो ह्यर्थीतरनिरपेक्षो गुणसामान्ये स्वरूपं प्रतिलब्धखरूपः तदधिष्ठानो यदा न गुणस्य लोहितस्य नाप्यलोहितत्वेन व्यावेशात्प्रत्यायनं करोति तदा विभागाभावादाकृत्यधिष्ठान एव । स तु गुणे प्रत्ययमादधतीत्या• कृतिमभिधत्ते । यथोपाश्रयविशेषात् स्फटिकमणिं तद्गुणमुपलभ्यमानमध्यक्षं स्फटिकमणेरेव प्रकाशकं तदधिष्ठानस्य परोपहितगुणव्यावेशादविभागेन तद्गुणत्वप्रत्ययजननात् । एवं द्रव्यमभिदधानो लोहितशब्दः खाभिधेयलोहितत्वाकृतेर्लोहितगुणे समवेतायास्तस्य च द्रव्ये समवेतत्वादाकृत्यधिष्ठान एव तत्समवेतसमवायाद्गुणव्यवहितेपि द्रव्ये लोहितप्रत्ययमुपपादयेत् , एवमन्यत्र द्रव्ये लोहितद्रव्यस्य संयुक्तत्वात् तत्र च लोहितगुणस्य समवेतत्वात् तत्र च लोहिताकृतेः समवायात् संयुक्तसमवेतसमवायांतरमुपजनयेत् । एवं तु वस्त्रद्वयवृते शुक्ले वस्त्रे संयुक्तसमवेतसमवायादिति यथा प्रतीतं लोके तथा गौरिति शब्दादपि स्वतो गोत्वरूपामाकृतिं कथयति तत्र प्रतिलब्धखरूपस्तदधिष्ठान एव तद्गोपिंडे गोपत्ययं करोत्यविभागेन . तस्य तदावेशात् ॥ एवं पचतिशब्दोधिश्रयणादिक्रियागतैः । सामान्यैः सममेकार्थसमवेतं प्रबोधयेत् ॥ ३७॥ व्यापकं पचिसामान्यमधिश्रित्यादिकर्मणाम् । यथा भ्रमणसामान्यं भ्रमतीति ध्वनिर्जने।॥३८॥ पचत्यादिशब्दः क्रियाप्रतिपादक एव नाकृतिविषय इति मा मंस्थाः स्वयमाकृत्यधिष्ठानस्य तस्य पचनादिक्रियाप्रत्ययहेतुत्वात् । पचतिशब्दो हि याः काश्चनाधिश्रयणादिक्रियास्तासां यानि प्रत्यर्थनियतान्यधिश्रयणत्वादिसामान्यानि तैः सहैकार्थे समवेतं यत्सर्वविषयं पचिसामान्यमभिव्यक्तं तत्प्रतिपादयति यथा भ्रमतिशब्दोऽनेककर्मविषयं भ्रमणसामान्यं लोके ॥ तथा डित्थादिशब्दाश्च पूर्वापरविशेषगम् । यदृच्छत्वादिसामान्यं तस्यैव प्रतिबोधकाः ॥३९॥ न हि डित्थो डवित्थ इत्यादयो यदृच्छाशब्दास्तैरपि डित्थत्वाद्याकृतेरभिधानात् ॥ इत्येवमाकृतिं शब्दस्यार्थं ये नाम मेनिरे । तेनातिशेरते जातिवादिनं प्रोक्तनीतितः ॥ ४० ॥ जातिराकृतिरित्यर्थभेदाभावात्कथंचन । गुणत्वे त्वाकृतेर्व्यक्तिवाद एवास्थितो भवेत् ॥४१॥ न सर्वा जातिराकृतिर्नापि गुणश्चतुरस्रादिसंस्थानलक्षणः । किं तर्हि ? संस्थानविशेषव्यंग्या जातिलॊहितत्वगोत्वादिराकृतिः सा च संस्थानविशेषानभिव्यंग्यायाः सत्त्वादिजातेरन्या । न सर्व संस्थानविशेषेणैव व्यंग्यं तद्रहिताकाशादिष्वपि भावात् । द्रव्यत्वमनेनातयंग्यमुक्तं तथा गुणेषु संस्थानविशेषाभावात् । तद्वदात्मत्वादि तदनभिव्यंग्यं बहुधा प्रत्येयं । गोत्वं पुनर्न सानादिसन्निवेशविशेषमंतरेण पिंडमात्रेण युज्यते अश्वादिपिंडेनापि तदभिव्यक्तिप्रसंगात् । तथा राजत्वमानुषत्वादि सर्वमिति कश्चित् । सोपि न विपश्चित् । लोहितत्वादेः संस्थानविशेषरहितेन लोहितादिगुणेन व्यवच्छेद्यमानत्वात् । पचत्यादिसामान्यस्य च पचनादिकर्मणा तादृशेन व्यंग्यत्वादाकृतित्वाभावानुषंगात् । सत्त्वादिजातेश्चाकृतित्वानभ्युपगमे कथमाकृतिरेव पदार्थ इत्येकांतः सिद्धयेत् । जातिगुणकर्मणामपि पदार्थत्वसिद्धेळक्ताकृतिजातयश्च पदार्थ इत्यभ्युपगच्छतामदोष इति चेन्न, तेषामपि कस्यचित् पदस्य व्यक्तिरेवार्थः कस्यचिदाकृतिरेव कस्यचिजातिरेवेत्येकांतोपगमात् पक्षत्रयोक्तदोषानुषक्तेः । किं च । संस्थानविशेषेण व्यज्यमानां जातिमाकृतिं वदतां कुतः संस्थानानां विशेषः सिद्ध्येत् येनाकृतीनां विशेषस्तव्यंग्यतयावतिष्ठेत । न तावत्खत एव तन्निश्चितिरतिप्रसंगात् । परस्माद्विशेषणात्तद्विशेषो निश्चीयते इति चेत् , तद्विशेषणस्यापि Page #117 -------------------------------------------------------------------------- ________________ १०८ तत्त्वार्थश्लोकवार्तिके [सू० ५ कुतो विशेषोवसीयतां ? परस्माद्विशेषणादिति चेदनवस्थानात् । संस्थानविशेषा प्रतिपत्तिरिति कथं तयंग्याकृतिविशेषनिश्चयः । यदि पुनराकृतिविशेषनिश्चयादेतदभिव्यंजकसंस्थानविशेषनिश्चयः स्यादिति मतं तदा परस्पराश्रणं, संस्थानविशेषस्य निश्चये सत्याकृतिविशेषस्य निश्चयस्त न्निश्चये सति संस्थानविशेषनिश्चय इति । स्वत एवाकृतिविशेषस्य निश्चयाददोष इति चेत् न, संस्थानविशेषनिश्चयस्यापि खत एवानुषंगात् । प्रत्ययविशेषादाकृतिविशेषः संस्थानविशेषश्च निश्चीयत इति चेत् , कुतः प्रत्ययविशेषसिद्धिः? . न तावत्स्वसंवेदनतः सिद्धांतविरोधात् । प्रत्ययांतराच्चेदनवस्था । विषयविशेषनिर्णयादिति चेत् , परस्पराश्रयणं, विषयविशेषस्य सिद्धौ प्रत्ययविशेषस्य सिद्धिः तत्सिद्धौ च तत्सिद्धिरिति । न चैवं सर्वत्र विशेषव्यवस्थापह्नवः खसंविदितज्ञानवादिनां प्रत्ययविशेषस्य खार्थव्यवसायात्मनः खतः सिद्धेः सर्वत्र विषयव्यवस्थोपपत्तेः । कथं चायमाकृतीनां गोत्वादीनां परस्परं विशिष्टकृतामपरविशेषेण विरहोपि खयमुपपन्नः । गवादिव्यक्तीनां विशेषणवशादेव तामुपगच्छेत् तथा दृष्टत्वादिति चेत् न, तत्रैव विवादात् । तदविवादे वा व्यक्त्याकृत्यात्मकस्य वस्तुनः पदार्थत्वसिद्धिस्तथा दर्शनस्य सर्वत्र भावात् । योपि मन्यतेन्यापोहमानं शब्दस्यार्थ इति तस्यापियदि गौरित्ययं शब्दो विधत्तेन्यविवर्तनम् । विदधीत तदा गोत्वं तन्नान्यापोहगोचरः॥४२॥ खलक्षणमन्यस्मादपोह्यतेनेनेत्यन्यापोहो विकल्पस्तं यदि गोशब्दो विधत्ते तदा गामेव किं न विदध्यात् । तथा च नान्यापोहशब्दार्थः गोशब्देनागोनिवृत्तेः कल्पनात्मिकायाः खयं विधानात् ॥ अगोनिवृत्तिमप्यन्यनिवृत्तिमुखतो यदि । गोशब्दः कथयेनूनमनवस्था प्रसज्यते ॥ ४३ ॥ न गौरगौरिति गोनिवृत्तिस्तावदेका ततो द्वितीया त्वगोनिवृत्तिस्ततोन्या तन्निवृत्तिस्तृतीया ततोन्यनिवृतिश्चतुर्थी यदि गोशब्देन कथ्यते तन्मुखेन गतिप्रवर्तनात् तदा सापि न गोशब्देन विधिप्राधान्येनाभिधेया द्वितीयनिवृत्तेरपि तथाविधेयत्वप्रसंगात् । गौरेव विधिसिद्धेः खान्यनिवृत्तिद्वारेणाभिधीयत इति चेत् , तर्हि ततोन्या पंचमी निवृत्तिस्ततो निवृत्तिः षष्ठी सा गोशब्दस्यार्थ इत्यनवस्था सुदूरमप्यनुसृत्य तद्विधिद्वारेणाश्रयणात् । निवृत्तिपरंपरायामेव शब्दस्य व्यापारात् शब्दो विवक्षां विधत्ते न पुनर्बहिरर्थमित्यभ्युपगमे कथमन्यापोहकृत्सर्वः शब्दः सर्वथावक्तुरिच्छां विधत्तेसौ बहिरर्थं न जातुचित् । शब्दोन्यापोहकृत्सर्वः यस्य वांध्यविभितम् ॥४४॥ यथैव हि शब्देन बहिरर्थस्य प्रकाशने तत्र प्रमाणांतरा वृत्तिः सर्वात्मना तद्वेदनेनार्थस्य निश्चितत्वान्निश्चिते समारोपाभावात् । तद्व्यवच्छेदेपि प्रमाणांतरस्याप्रवृत्तेर्वस्तुनो धर्मस्य कस्यचिन्निश्चये सर्वधर्मात्मकस्य धर्मिणो निश्चयात्सर्वग्रहापत्तेरन्यथा तदात्मकस्यैकधर्मस्यापि निश्चयानुपपत्तिस्ततो भिन्नस्य धर्मस्य निश्चये धर्मिणि प्रवृत्तिघटनात् तेन तस्य संबंधाभावादनुपकार्योपकारकत्वात् । तदुपकारे वा धर्मोपकारशक्त्यात्मकस्य धर्मिणो धर्मद्वारेण शब्दात् प्रतिपत्तौ सकलग्रहस्य तदवस्थत्वात्तदुपकारशक्तेरपि ततो भेदेनानवस्थानात् । प्रत्यक्षवद्वस्तुविषयस्य शब्दप्रत्ययस्य स्पष्टप्रतिभासप्रसंगाच न शब्दस्य तद्विषयत्वं तथैव वक्तविवक्षायाः शब्देनाभिधाने विशेषाभावात् । न च तत्र प्रमाणांतरा वृत्तिरेवाभ्युपगंतुं युक्ता शब्दात्सामान्यतः प्रतिपन्नायामपि तस्यां विशेषसंश्रयात् प्रमाणांतरवृत्तेरेव निश्चयात् । ततो वक्तुरिच्छायां बहिरर्थवच्छब्दस्य प्रवृत्त्यसंभवेपि तामेव शब्दो विदधातीति कथं न वाध्यविनँभितं, सर्वशब्दानामन्यापोहकारित्वप्रतिज्ञानात् । ननु च विवक्षायाः खरूपे संवेद्यमाने शब्दो न प्रवर्तते एव कल्पितेन्यापोहे तस्य प्रवृत्तेस्ततोन्यापोहकारी सर्वः शब्द इति वचनान्न वांध्य विलसितमिति चेत् , स Page #118 -------------------------------------------------------------------------- ________________ 50 प्रथमोऽध्यायः । १०९ तर्हि कल्पितोन्यापोहः विवक्षातो भिन्नस्वभावो वक्तुः खसंवेद्यो न स्याद्भावांतरवत् तस्य तत्खभावत्वे वा संवेद्यत्वसिद्धेः कथं न संवेद्यमाने तत्स्वरूपे शब्दः प्रवर्तते । ननु च वक्तुर्विवक्षायाः खसंविदितं रूपं संवेदनमात्रोपादानं सकलप्रत्यये भावात् कल्पनाकारस्तु पूर्वशब्दवासनोपादानस्तत्र वर्तमानः शब्दः कथं स्वसंवेद्ये रूपे वास्तवे प्रवर्तते नाम यतो वस्तुविषयः स्यादिति चेत्, नैवं । खसंविदितरूपकल्पनाकारयोर्भिन्नोपादानत्वेन संतानभेदप्रसंगात् । तथा च सर्वचित्तचैतानामात्मसंवेदनं प्रत्यक्षमिति व्याहन्यतो स्वसंवेदनाद्भिन्नस्य विकल्पस्य स्वसंविदितत्वविरोधात् रूपादिवत् स्वसंवेदनस्यैवोपादानत्वात् । कल्पनोत्पत्तौ शब्दवासनायाः सहकारित्वान्न खसंविदितखरूपात् कल्पनाकारो भिन्नसंतान इति चेत्, कथमिदानीं ततोसावनन्य एव न स्यादभिन्नोपादानत्वात् । तथापि तस्य ततोन्यत्वे कथमुपादानभेदो भेदकः ? कार्याणां व्यतिरेकासिद्धेः कार्यभेदस्योपादानभेदमंतरेणापि भावात् तस्य तत्साधनतानुपपत्तेः । खसंविदिताकारस्य कल्पिताकारस्य चैकस्य विकल्पज्ञानस्य तथाविधानेकाकारविकल्पोपादानत्वाददोषोयमिति चेत्, नैकस्यानेकाकारस्य वस्तुनः सिद्ध्यनुषंगात् । संविदि कल्पिताकारस्य भ्रांतत्वान्नैकमनेकाकारं विकल्पवेदनमिति चेत् न, भ्रांतेतराकारस्य तदवस्थत्वात् । भ्रांताकारस्यासत्त्वे तदेकं सदसदात्मकमिति कुतो न सत्त्वसिद्धिः । यदि पुनरसदाकारस्या किंचिद्रूपत्वादेकरूपमेव विकल्पवेदनमिति मतिः, तदा तत्र शब्दः प्रवर्तत इति न क्वचित्प्रवर्तत इत्युक्तं स्यात् । तथोपगमे च विवक्षाजन्मानो हि शब्दास्तामेव गमयेयुरिति रिक्ता वाचोयुक्तिः । गमयेयुरिति संभावनायां लिङ्प्रयोगात्तामपि माजीगमन्न गीर्बहिरर्थवत्सर्वथा निर्विषयत्वेन तेषां व्यवस्थापनादित्यप्यात्मघातिनो वचनं स्वयं साधनदूषणवचनानर्थक्यप्रसक्तेः । संवृत्या तद्वचनमर्थवदिति चेत् केनार्थेनेति वक्तव्यं ? तदन्यापोहमात्रेणेति चेत्, विचारोपपन्नेनेतरेण वा ? न तावत्प्रथमपक्षस्तस्य विचार्यमाणस्याकिंचिद्रूपत्वसमर्थनात् । विचारानुपपन्नेन त्वन्यापोहेन सांवृत्तेन वचन - स्यार्थवत्त्वे बहिरर्थेन तथाभूतेन तस्यार्थवत्त्वं किमनिष्टं तथा व्यवहर्तुर्वचनाद्बहिः प्रवृतेरपि घटनात् ॥ अन्यापोहे प्रतीते च कथमर्थे प्रवर्तनम् | शब्दात्सिज्जनस्यास्य सर्वथातिप्रसंगतः ॥ ४५ ॥ न ह्यन्यत्र शब्देन चोद्यतेन्यत्र तन्मूला प्रवृत्तिर्युक्ता गोदोहचोदने बलीवर्दवाहनादौ तत्प्रसंगात् ॥ एकत्वारोपमात्रेण यदि दृश्यविकल्पयोः । प्रवृत्तिः कस्यचिदृश्ये विकल्पेप्यस्त्वभेदतः || ४६ || नैकत्वाध्यवसायोपि दृश्यं स्पृशति जातुचित् । विकल्प्यस्यान्यथा सिद्ध्छेद् दृश्यस्पर्शित्वमंजसा ४७ विकल्प्यदृश्यसामान्यैकत्वेनाध्यवसीयते । यदि दृश्यविशेषे स्यात् कथं वृत्तिस्तदर्थिनाम् ४८ ॥ तस्य चेद् दृश्यसामान्यैकत्वारोपात्क वर्तनम् । सौगतस्य भवेदर्थेनवस्थाप्यनुषंगतः ॥ ४९ ॥ नान्यस्माद्व्यावृत्तिरन्यार्थस्य न च व्यावृत्तोन्य एवेत्युच्यते घटस्याघटव्यावृत्तेः निवर्तमानस्याघटत्वसंगात् । तथा च न तस्या घटव्यावृत्तिर्नाम तस्माद्यैवान्या व्यावृत्तिः स एव व्यावृत्तः शब्दप्रतिपत्तिभेदस्तु संकेतभेदादेव व्यावृत्तिर्व्यावृत्त इति । धर्मधर्मिप्राधान्येन संकेतविशेषे प्रवृत्तेस्तद्वाच्यभेदस्तु न वास्तवोतिप्रसंगात् । तदुक्तं । “अपि चान्योन्यव्यावृत्तिवृत्त्योर्व्यावृत्त इत्यपि । शब्दाश्च निश्चयाश्चैवं संकेतं न निरुंधते” इति दृश्यविकल्पयोर्व्यावृत्त्योरेकत्वारोपाव्यावृत्तिचोदनेपि शब्देन विकल्पेन वा व्यावृत्तेः प्रवृत्तिरर्थे स्यादिति कश्चित् । तस्य विकल्प्येपि कदाचित्प्रवृत्तिरस्तु विशेषाभावात् । न हि दृश्यविकल्प्ययोरेकत्वाध्यवसायाविशेषेपि दृश्य एव प्रवृत्तिर्न तु विकल्पे जातुचिदिति बुद्ध्यामहे । दृश्येर्थ - क्रियार्थिनां प्रवृत्तिस्तस्यार्थक्रियायां समर्थनान्न पुनर्विकल्प्ये तस्य तत्रासमर्थत्वादिति चेन्ना, अर्थक्रियासमर्थेन विकल्पेन सहैकत्वाध्यारोपमापन्नस्य दृश्यस्यार्थक्रियासमर्थत्वै कांताभावात् । खतोर्थक्रियासमर्थे Page #119 -------------------------------------------------------------------------- ________________ ११० तत्त्वार्थश्लोकवार्तिके [सू० ५ दृश्यमिति चेत् तदेकत्वाध्यारोपाद्विकल्प्यमपि खतो न तत्समर्थमिति चेत् तदैक्यारोपाद् दृश्यमपि तदनयोरेकत्वेनाध्यवसितयोरविशेषात् सर्वथा क्वचित्प्रवृत्तौ कथमन्यत्रापि प्रवृत्तिर्विनिवार्यते । न चानयोरेकत्वाध्यवसायः संभवति दृश्यस्याध्यवसायाविषयत्वात् अन्यथा विकल्प्यस्य वस्तुसंस्पर्शित्वप्रसंगात् । न च परमार्थतो दृश्यमविषयीकुर्वन् विकल्पो विकल्प्येन सहैकतयाध्यवस्यति नामातिप्रसंगात् । ननु च दृश्यं विकल्पस्यालंबनं मा भूदध्यवसेयं तु भवतीति युक्तं तद्विकल्प्येन सहैकतयाध्यवसायत्वमिति चेत्, तर्हि न विशेषरूपं तेनैक्येनाध्यवसीयते सामान्याकारस्यैवाध्यवसेयत्वात् । दृश्यसामान्येन सह विकल्प्यमेकत्वेनाध्यवसीयत इति चेत्, कथं दृश्यविशेषे तदर्थिनां प्रवृत्तिः स्यात् । दृश्यविशेषस्य दृश्यसामान्येन सहैकत्वारोपात्तत्र प्रवृत्तिरिति चेत्, क्केदानीं सौगतस्य प्रवृत्तिरनवस्थानात् । सुदूरमप्यनुसृत्य विशेषेध्यवसायासंभवात् । ततोर्थप्रवृत्तिमिच्छता शब्दात्तस्य नान्यापोहमात्रं विषयोभ्युपेयो जातिमात्रादिवत् । सर्वथा निर्विषयः शब्दोस्त्वित्य संगतं वृत्त्यापि तस्य निर्विषयत्वे साधनादिवचनव्यवहारविरोधात् ॥ 5 किं पुनरेवं शब्दस्य विषय इत्याह ; - जातिव्यक्त्यात्मकं वस्तु ततोस्तु ज्ञानगोचरः । प्रसिद्धं बहिरंतश्च शाब्दव्यवहृतीक्षणात् ॥५०॥ यद्यत्र व्यवहृतिमुपजनयति तत्तद्विषयं यथा प्रत्यक्षादि । जातिव्यतयात्मके वस्तुनि व्यवहृतिमुपजनयत्तद्विषयं । तथा च शब्द इत्यत्र नासिद्धं साधनं बहिरंतश्च व्यवहृतेः सामान्यविशेषात्मनि वस्तुनि समीक्षणात् । तथा च यत्रैव शब्दात् प्रतिपत्तिस्तत्रैव प्रवृत्तिः तस्यैव प्राप्तिः प्रत्यक्षादेरिवेति सर्वे सुस्थं । सत्ताशब्दाद्रव्यत्वादिशब्दाद्वा कथं सामान्यविशेषात्मनि वस्तुनि प्रतिपत्तिरिति चेत्, सद्विशेषोपहितस्य सत्सामान्यस्य द्रव्यादिविशेषोपहितस्य च द्रव्यत्वादिसामान्यस्य तेन प्रतिपादनात् । तदनेनाभावशब्दादद्रव्यत्वादित्वाद्वा तत्र प्रतिपत्तिरुक्ता भावांतरखभावत्वादभावस्य गुणादिखभावत्वाच्चाद्रव्यत्वादेः भावोपहतस्याभावस्याभावशब्देन गुणाद्युपहितस्य चाद्रव्यत्वादेरद्रव्यत्वादिशब्देन प्रकाशनाद्वा । न च भावोपहितत्वमभावस्यासिद्धं सर्वदा घटस्याभावः पटस्याभाव इत्यादि भावोपाधेरेवाभावस्य प्रतीतेः । स्वातंत्र्येण सकृदप्यवेदनात् । तथैवाद्रव्यं गुणादिरजीवो धर्मादिरिति गुणाद्यपाधेरद्रव्यत्वादेः सुप्रतीतत्वात् न तस्य तदुपहितत्वमसिद्धं तथा प्रतीतेरबाधत्वात् । एतेन सत्सामान्यस्य विशेषोपहितत्वं द्रव्यत्वादिसामान्यस्य च द्रव्यत्वादिविशेषोपहितत्वमसिद्धं ब्रुवाणः प्रत्याख्यातः, सतां विशेषाणां भावः सत्ता द्रव्यादीनां भावो द्रव्यादित्वमिति सत्तादिसामान्यस्य स्वविशेषाश्रयस्यैव प्रत्ययाभिधानव्यवहारगोचरत्वात् । द्रव्यं सुवर्ण वानयेत्युक्ते तन्मात्रस्यानयनादर्शनात् खविशेषात्मन एव सदादिसामान्यस्य तगोचरत्वं प्रतीतिसिद्धं । सदादिविशेषमानयेति वचने तस्य सत्त्वादिसामान्यात्मकस्य व्यवहारगोचरत्ववत् । ततः सूक्तं सामान्यविशेषात्मनो वस्तुनः शब्दगोचरत्वं । तथा शब्दव्यवहारस्य निर्बाधमवभासनात् । कथमेवं पंचतयी शब्दानां वृत्तिर्जात्यादिशब्दानामभावादिति न शंकनीयं, यस्मात्;-- तत्र स्याद्वादिनः प्राहुः कृत्वायोद्धारकल्पनाम् । जातेः प्रधानभावेन कांश्चिच्छन्दान् प्रबोधकान् ५१ व्यक्तेः प्रख्यापकांश्चान्यान् गुणद्रव्यक्रियात्मनः । लोकसंव्यवहारार्थमपरान् पारिभाषिकान् ५२ न हि गौरव इत्यादिशब्दाज्जातेः प्रधानभावेन गुणीभूतव्यक्तिस्वभावायाः प्रकाशने गुणक्रियाद्रव्य - शब्दाद्वा यथोदिताद्व्यक्तेर्गुणाद्यात्मिकायाः प्राधान्येन गुणीभूतजात्यात्मनः प्रतिपादने स्याद्वादिनां कश्चिद्विरोधो येन सामान्यविशेषात्मक वस्तुविषयशब्दमाचक्षाणानां पंचतयी शब्दप्रवृत्तिर्न सिद्ध्येत् ॥ " Page #120 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । तेनेच्छामात्रतंत्रं यत्संज्ञाकर्म तदिष्यते । नामाचार्यैर्न जात्यादिनिमित्तापनविग्रहम् ॥ ५३ ॥ सिद्धे हि जात्यादिनिमित्तांतरे विवक्षात्मनः शब्दस्य निमित्तात् संव्यवहारिणां निमित्तांतरानपेक्षं संज्ञाकर्म नामेत्याहुराचार्यास्ततो जात्यादिनिमित्तं संज्ञाकरणमनादियोग्यतापेक्षं न नाम । केनचित् खेच्छया संव्यवहारार्थ प्रवर्तितत्वात् , परापरवृद्धप्रसिद्धेस्तथैवाव्यवच्छेदात् , बाधकाभावात् ॥ का पुनरियं स्थापनेत्याह;वस्तुनः कृतसंज्ञस्य प्रतिष्ठा स्थापना मता । सद्भावेतरभेदेन द्विधा तत्त्वाधिरोपतः ॥५४ ॥ स्थाप्यत इति स्थापना प्रतिकृतिः सा चाहितनामकस्येंद्रादेर्वास्तवस्य तत्त्वाध्यारोपात् प्रतिष्ठा सोऽयमित्यभिसंबंधेनान्यस्य व्यवस्थापना स्थापनामानं स्थापनेति वचनात् । तत्राध्यारोप्यमानेन भावेंद्रादिना समाना प्रतिमा सद्भावस्थापना मुख्यदर्शिनः स्वयं तस्यास्तद्बुद्धिसंभवात् । कथंचित्सादृश्यसद्भावात् । मुख्याकारशून्या वस्तुमात्रा पुनरसद्भावस्थापना परोपदेशादेव तत्र सोऽयमिति संप्रत्ययात् ॥ सादरानुग्रहाकांक्षाहेतुत्वात्प्रतिभिद्यते । नाम्नस्तस्य तथाभावाभावादत्राविवादतः ॥ ५५ ॥ स्थापनायामेवादरोनुग्रहाकांक्षा च लोकस्य न पुनर्नाम्नीत्यत्र न हि कस्यचिद्विवादोस्ति येन ततः सा न प्रतिभिद्यते । नाम्नि कस्यचिदादरदर्शनान्न ततस्तद्भेद इति चेन्न, खदेवतायामतिभक्तितस्तन्नामकेर्थे तदध्यारोपस्याशुवृत्तेस्तत्स्थापनायामेवादरावतारात् । तदनेन नाम्नि कस्यचिदनुग्रहाकांक्षाशंका व्युदस्ता, केवलमाहितनामके वस्तुनि कस्यचित्कादाचित्की स्थापना कस्यचित्तु कालांतरस्थायिनी नियता । भूयस्तथा संप्रत्ययहेतुरिति विशेषः ॥ नन्वनाहितनाम्नोपि कस्यचिदर्शनेजसा । पुनस्तत्सदृशे चित्रकर्मादौ दृश्यते स्वतः ॥५६॥ सोऽयमित्यवसायस्य प्रादुभोवः कथंचन । स्थापना सा च तस्येति कृतसंज्ञस्य सा कुतः॥५७॥ नैतत्सन्नाम सामान्यसद्भावात्तत्र तत्त्वतः । कान्यथा सोयमित्यादिव्यवहारः प्रवर्तताम् ॥५८॥ नन्वेवं सति नाम्नि स्थापनानुपपत्तेस्तस्यास्तेन व्याप्तिः कथं न तादात्म्यमिति चेन्न, विरुद्धधर्माध्यासात् ॥ तथाहिसिद्धं भावमपेक्ष्यैव स्थापनायाः प्रवृत्तितः । तदपेक्षां विना नाम भावाद्भिन्नं ततः स्थितम् ५९ किं खरूपप्रकारं द्रव्यमित्याह;यत्स्वतोभिमुखं वस्तु भविष्यत्पर्ययं प्रति । तद्व्यं द्विविधं ज्ञेयमागमेतरभेदतः ॥६०॥ न ह्यवस्त्वेव द्रव्यमबाधितप्रतीतिसिद्धं वा, नाप्यनागतपरिणामविशेष प्रति ग्रहीताभिमुख्यं न भवति पूर्वापरखभावत्यागोपादानस्थानलक्षणत्वाद्वस्तुनः सर्वथा तद्विपरीतस्य प्रतीतिविरुद्धत्वात् । तच्च द्विविधमागमनोआगमभेदात् प्रतिपत्तव्यम् ।। आत्मा तत्प्रभृतज्ञायी यो नामानुपयुक्तधीः । सोत्रागमः समाम्नातः स्याद्रव्यं लक्षणान्वयात्६१ अनुपयुक्तः प्राभृतज्ञायी आत्मागमः । कथं द्रव्यमिति नाशंकनीयं द्रव्यलक्षणान्वयात् । जीवादिप्राभृतज्ञस्यात्मनोनुपयुक्तस्योपयुक्तं तत्प्राभृतज्ञानाख्यमनागतपरिणामविशेष प्रति गृहीताभिमुख्यखभावत्वसिद्धेः ॥ नो आगमः पुनस्त्रेधा ज्ञशरीरादिभेदतः । त्रिकालगोचरं ज्ञातुः शरीरं तत्र च त्रिधा ॥२॥ भावि नोआगमद्रव्यमेष्यत् पर्यायमेव तत् । तथा तद्व्यतिरिक्तं च कर्मनोकर्मभेदभृत् ॥६३॥ Page #121 -------------------------------------------------------------------------- ________________ तत्वार्थश्लोकवार्तिके [सू० ५ ज्ञानावृत्त्यादिभेदेन कर्मानेकविधं मतम् । नोकर्म च शरीरत्वपरिणामनिरुत्सुकम् || ६४ ॥ पुद्गलद्रव्यमाहारप्रभृत्युपचयात्मकम् | विज्ञातव्यं प्रपंचेन यथागममबाधितम् ॥ ६५ ॥ ११२ नन्वागतपरिणामविशेषं प्रति गृहीताभिमुख्यं द्रव्यमिति द्रव्यलक्षणमयुक्तं, गुणपर्ययवद्रव्यमिति तस्य सूत्रितत्वात्, तदागमविरोधादिति कश्चित् । सोपि सूत्रार्थानभिज्ञः । पर्ययवद्रव्यमिति हि सूत्रकारेण वदता त्रिकालगोचरानतक्रमभाविपरिणामाश्रयं द्रव्यमुक्तं । तच्च यदानागतपरिणामविशेषं प्रत्यभिमुखं तदा वर्तमानपर्यायाक्रांतं परित्यक्तपूर्वपर्यायं च निश्चीयतेन्यथानागतपरिणामाभिमुख्यानुपपत्तेः खरविषाणादिवत् । केवलं द्रव्यार्थप्रधानत्वेन वचनेऽनागतपरिणामाभिमुखमतीतपरिणामं वानुपायि द्रव्यमिति निक्षेप - प्रकरणे तथा द्रव्यलक्षणमुक्तं । सूत्रकारेण तु परमतव्यवच्छेदेन प्रमाणांर्पणाद्गुणपर्ययवद्रव्यमिति सूत्रितं क्रमाक्रमानेकांतस्य तथा व्यवस्थितेः ॥ कुतस्तर्हि त्रिकालानुयायि द्रव्यं सिद्धमित्याह ; अन्वयप्रत्ययात्सिद्धं सर्वथा वाधवर्जितात् । तद्रव्यं बहिरंतथ मुख्यं गौणं ततोऽपरम् ॥ ६६ ॥ तदेवेदमित्येकत्वप्रत्यभिज्ञानमन्वयप्रत्ययः स तावज्जीवादिप्राभृतज्ञायिन्यात्मन्यनुपयुक्ते जीवाद्यागमद्रव्येस्ति । य एवाहं जीवादि प्राभृतज्ञाने खयमुपयुक्तः प्रागासन् स एवेदानीं तत्रानुपयुक्तो वर्ते पुनरुपयुक्तो भविष्यामीति संप्रत्ययात् । न चायं भ्रांतः सर्वथा बाधवर्जितत्वात् । न तावदस्मदादिप्रत्यक्षेण तस्य बाधस्तद्विषये स्वसंवेदनस्यापि विशदस्य वर्तमानपर्यायविषयस्याप्रवर्तनात् । नाप्यनुमानेन तस्य बाधस्तस्य तद्विपरीतविषयव्यवस्थापकस्यासंभवात् । यत्सत्तत्सर्वं क्षणिकमक्षणिके सर्वथार्थक्रियाविरोधात्तलक्षणसत्त्वानुपपत्तेरित्यनुमानेन तद्बाध इति चेन्नास्य विरुद्धत्वात् । सत्त्वं ह्यर्थक्रियया व्याप्तं, सा च क्रमयौगपद्याभ्यां ते च कथंचिदन्वयित्वेन, सर्वथानन्वयिनः क्रमयौगपद्यविरोधादर्थक्रियाविरहात् सत्त्वानुपपत्तेरिति समर्थनात् । सादृश्यप्रत्यभिज्ञानमात्मन्येकत्वप्रत्ययं बाधत इति चेन्न, एकत्र संताने तस्य जातुचिदभावात् । नाना संतानचित्तेषु तद्दर्शनादेकसंतानचित्तेषु सद्भाव इति चेन्न, अनेकसंतानविभागाभावप्रसंगात् । सदृशत्वाविशेषेपि केषांचिदेव चित्तविशेषाणामेकसंतानत्वं प्रत्यासत्तिविशेषात् परेषां नानासंतानविभागसिद्धौ सिद्धमेकद्रव्यात्मकचित्तविशेषाणामेकसंतानत्वं द्रव्यप्रत्यासत्तेरेव तथा भावनिबंधनत्वोपपत्तेरुपादानोपादेयभावानंतर्यादेरपाकृतत्वात् । ततोऽस्खलत्सादृश्यप्रत्यभिज्ञानात् सादृश्यसिद्धिवदस्खलदेकत्व प्रत्यभिज्ञानादेकत्वसिद्धिरेवेति निरूपितप्रायं । एतेन जीवादिनोआगमद्रव्य सिद्धिरुक्ता । य एवाहं मनुष्यजीवः प्रागासन् स एवाधुना देवो वर्ते पुनर्मनुष्यो भविष्यामीत्यन्वयप्रत्ययस्य सर्वथाप्यबाध्यमानस्य सद्भावात् । यदेवं जलं शुक्तिविशेषे पतितं तदेव मुक्ताफलीभूतमित्याद्यन्वयप्रत्ययवत् । ननु च जीवादिनोआगमद्रव्यमसंभाव्यं जीवादित्वस्य सार्वकालिकत्वेनानागतत्वासिद्धेस्तदभिमुख्यस्य कस्यचिदभावादिति चेत् । सत्यमेतत् । तत एव जीवादिविशेषापेक्षयोदाहृतो जीवादिद्रव्यनिक्षेपो । नन्वेवमागमद्रव्यं वा बाधितात्तदन्वयप्रत्ययान्मुख्यं सिद्ध्यतु ज्ञायकशरीरं तु त्रिकालगोचरं तद्व्यतिरिक्तं च कर्म नोकर्मविकल्पमनेकविधं कथं तथा सिद्ध्येत् प्रतीत्यभावादिति चेन्न तत्रापि तथाविधान्वयप्रत्ययस्य सद्भावात् । यदेव मे शरीरं ज्ञातुमारभमाणस्य तत्त्वं तदेवेदानीं परिसमाप्ततत्त्वज्ञानस्य वर्तत इति वर्तमानज्ञायकशरीरे तावदन्वयप्रत्ययः । यदेवोपयुक्ततत्त्वज्ञानस्य मे शरीरमासीत्तदेवाधुनानुपयुक्ततत्त्वज्ञानस्येत्यतीतज्ञायकशरीरे प्रत्यवमर्शः । यदेवाधुनानुपयुक्ततत्त्वज्ञानस्य शरीरं तदेवोपयुक्ततत्त्वज्ञानस्य भविष्यतीत्यनागतज्ञायकशरीरे प्रत्ययः । तर्हि ज्ञायकशरीरं भाविनोआगमद्रव्यादनन्यदेवेति L Page #122 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । चेन्न, ज्ञायकविशिष्टस्य ततोन्यत्वात् । तस्यागमद्रव्यादन्यत्वं सुप्रतीतमेवानात्मत्वात् । कर्म नोकर्म वान्वयप्रत्ययपरिच्छिन्नं ज्ञायकशरीरादनन्यदिति चेत् न, कार्मणस्य शरीरस्य तैजसस्य च शरीरस्य शरीरभावमापन्नस्याहारादिपुद्गलस्य वा ज्ञायकशरीरत्वासिद्धेः, औदारिकवैक्रियिकाहारकशरीरत्रयस्यैव ज्ञायकशरीरत्वोपपत्तेरन्यथा विग्रहगतावपि जीवस्योपयुक्तज्ञानत्वप्रसंगात् तैजसकार्मणशरीरयोः सद्भावात् । • कर्म नोकर्म नोआगमद्रव्यं भाविनोआगमद्रव्यादनांतरमिति चेन्न, जीवादिप्राभृतज्ञायिपुरुषकर्म नोकर्म भावमापन्नस्यैव तथाभिधानात् ततोन्यस्य भाविनोआगमद्रव्यत्वोपगमात् । तदेतदुक्तप्रकारं द्रव्यं यथोदितखरूपापेक्षया मुख्यमन्यथात्वेनाध्यारोपितं गौणमवबोद्धव्यम् ॥ सांप्रतो वस्तुपर्यायो भावो द्वेधा स पूर्ववत् । आगमः प्राभृतज्ञायी पुमांस्तत्रोपयुक्तधीः ॥६७ नोआगमः पुनर्भावो वस्तु तत्पर्ययात्मकम् । द्रव्यादतिरं भेदप्रत्ययादू ध्वस्तबाधनात् ।।६८॥ वस्तुनः पर्यायस्वभावो भाव इति वचनात्तस्यावस्तुस्वभावता व्युदस्यते । सांप्रत इति वचनात्कालत्रयव्यापिनो द्रव्यस्य भावरूपता । नन्वेवमतीतस्यानागतस्य च पर्यायस्य भावरूपताविरोधाद्वर्तमानस्यापि सा न स्यात्तस्य पूर्वापेक्षयानागतत्वात् उत्तरापेक्षयातीतत्वादतो भावलक्षणस्याव्याप्तिरसंभवो वा स्यादिति चेन्न, अतीतस्यानागतस्य च पर्यायस्य खकालापेक्षया सांप्रतिकत्वाद्भावरूपतोपपत्तेरननुयायिनः परिणामस्य सांप्रतिकत्वोपगमादुक्तदोषाभावात् । स तु भावो द्वेधा द्रव्यवदागमनोआगमविकल्पात् । तत्प्राभृतविषयोपयोगाविष्ट आत्मा आगमः जीवादिपर्यायाविष्टोऽन्य इति वचनात् । कथं पुनरागमो जीवादिभाव इति चेत् , प्रत्ययजीवादिवस्तुनः सांप्रतिकपर्यायत्वात् । प्रत्ययात्मका हि जीवादयः प्रसिद्धा एवार्थाभिधानात्मकजीवादिवत् । तत्र जीवादिविषयोपयोगाख्येन तत्प्रत्ययेनाविष्टः पुमानेव तदागम इति न विरोधः, ततोन्यस्य जीवादिपर्यायाविष्टस्यार्थादे!आगमभावजीवत्वेन व्यवस्थापनात् । न चैवंप्रकारो भावोऽसिद्धस्तस्य बाधरहितेन प्रत्ययेन साधितत्वात् प्रोक्तप्रकारद्रव्यवत् । नापि द्रव्यादनांतरमेव तस्याबाधितभेदप्रत्ययविषयत्वात् अन्यथान्वयप्रत्ययविषयत्वानुषंगाद्रव्यवत् ॥ नामोक्तं स्थापना द्रव्यं द्रव्यार्थिकनयार्पणात् । पर्यायार्थार्पणाद् भावस्तैासः सम्यगीरितः६९ नन्वस्तु द्रव्यं शुद्धमशुद्धं च द्रव्यार्थिकनयादेशात् नामस्थापने तु कथं तयोः प्रवृत्तिमारभ्य प्रागुपरमादन्वयित्वादिति ब्रूमः । न च तदसिद्धं देवदत्त इत्यादि नाम्नः क्वचिद्वालाद्यवस्थाभेदाद्भिन्नेपि विच्छेदानुपपत्तेरन्वयित्वसिद्धेः । क्षेत्रपालादिस्थापनायाश्च कालभेदेपि तथात्वाविच्छेद इत्यन्वयित्वमन्वयप्रत्ययविषयत्वात् । यदि पुनरनाद्यनंतान्वयासत्त्वान्नामस्थापनयोरनन्वयित्वं तदा घटादेरपि न स्यात् । तथा च कुतो द्रव्यत्वं ? व्यवहारनयात्तस्यावांतरद्रव्यत्वे तत एव नामस्थापनयोस्तदस्तु विशेषाभावात् । ततः सूक्तं नामस्थापनाद्रव्याणि द्रव्यार्थिकस्य निक्षेप इति । भावस्तु पर्यायार्थिकस्य सांप्रतिकविशेषमात्रत्वात्तस्य । तदेतैर्नामादिभिया॑सो न मिथ्या, सम्यगित्यधिकारात् । सम्यक्त्वं पुनरस्य सुनयैरधिगम्यमानत्वात् ॥ तेषां दर्शनजीवादिपदार्थानामशेषतः । इति संप्रतिपत्तव्यं तच्छब्दग्रहणादिह ॥ ७० ॥ यदमस्त कश्चित् तद्रहणं सूत्रेनर्थकं तेन विनापि नामादिभिया॑सः । सम्यग्दर्शनजीवादीनामित्यभिसंबंधसिद्धेस्तेषां प्रकृतत्वान्न जीवादीनामेव अनंतरत्वात्तदभिसंबंधप्रसक्तिस्तेषां विशेषादिष्टत्वात् प्रकृतदर्शनादीनामबाधकत्वात् तद्विषयत्वेनाप्रधानत्वाच्च । नापि सम्यग्दर्शनादीनामेव नामादिन्यासाभिसंबंधापत्तिः जीवादीनामपि प्रत्यासन्नत्वेन तदभिसंबंधघटनादिति । तदनेन निरस्तं । सम्यग्दर्शनादीनां प्रधा १५ Page #123 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ५ नानामप्रत्यासन्नानां जीवादीनां च प्रधानानां प्रत्यासन्नानां नामादिन्यासाभिसंबंधार्थत्वात् तग्रहणस्य । तदभावे प्रत्यासत्तेः प्रधानं बलीय इति न्यायात् सम्यग्दर्शनादीनामेव तत्प्रसंगस्य निवारयितुमशक्तेः ॥ नन्वनंतः पदार्थानां निक्षेपो वाच्य इत्यसन् । नामादिष्वेव तस्यांतर्भावात्संक्षेपरूपतः ॥ ७१ ॥ संख्यात एव निक्षेपस्तत्प्ररूपकनयानां संख्यातत्वात्, संख्याता एव नयास्तच्छब्दानां संख्यातत्वात् । “यावंतो वचनपथास्तावंतः संभवति नयवादाः" इति वचनात् । ततो न निक्षेपोऽनंतविकल्पः प्रपंचतोपि प्रसंजनीय इति चेन्न, विकल्पापेक्षयार्थापेक्षया च निक्षेपस्यासंख्याततोपपत्तेरनंततोपपत्तेश्च तथाभिधानात् । केवलमनंतभेदस्यापि निक्षेपस्य नामादिविजातीयस्याभावान्नामादिष्वंतर्भावात् संक्षेपतश्चातुर्विध्यमाह ॥ नन्वेवम्— ११४ द्रव्यपर्यायतो वाच्यो न्यास इत्यप्यसंगतम् । अतिसंक्षेपतस्तस्यानिष्टेरत्रान्यथास्तु सः ॥ ७२ ॥ न ह्यत्रातिसंक्षेपतो निक्षेपो विवक्षितो येन तद्विविध एव स्याद्रव्यतः पर्यायतश्चेति तथा विवक्षायां तु तस्य द्वैविध्ये न किंचिदनिष्टं । संक्षेपतस्तु चतुर्विधोसौ कथित इति सर्वमनवद्यम् ॥ ननु न्यासः पदार्थानां यदि स्यान्यस्यमानता । तदा तेभ्यो न भिन्नः स्यादभेदाद्धर्मधर्मिणोः ७३ मैदे नामादितस्तस्य परो न्यासः प्रकल्प्यताम् । तथा च सत्यवस्थानं व स्यात्तस्येति केचन ७४ न हि जीवादयः पदार्था नामादिभिर्न्यस्यते, न पुनस्तेभ्यो भिन्नो न्यास इत्यत्र विशेषहेतुरस्ति यतोनवस्था न स्यात् धर्मधर्मिणोर्भेदोपगमात् । तन्न्यासस्यापि तैर्न्यासांतरे तस्यापि तैर्न्यासांतरे तस्यापि तैन्यासांतरस्य दुर्निवारत्वादिति केचित् ॥ तदयुक्तमनेकांतवादिनामनुपद्रवात् । सर्वथैकांतवादस्य प्रोक्तनीत्या निवारणात् ।। ७५ । द्रव्यार्थिकनयात्तावदभेदे न्यासतद्वतोः । न्यासो न्यासवदर्थानामिति गौणी वचोगतिः ७६ पर्यायार्थनयाद्भेदे तयोर्मुख्यैव सा मता । न्यासस्यापि च नामादिन्यासेष्टेर्नानवस्थितिः ७७ भेदप्रभेदरूपेणानंतत्वात्सर्ववस्तुनः । सद्भिर्विचार्यमाणस्य प्रमाणान्नान्यथा गतिः ॥ ७८ ॥ न्यस्यमानता पदार्थेभ्योऽनर्थंतरमेव चेत्येकांतवादिन एवोपद्रवते न पुनरनेकांतवादिनस्तेषां द्रव्यार्थिकनयार्पणात्तदभेदस्य, पर्यायार्थार्पणाद्भेदस्येष्टत्वात् । तत्राभेदविवक्षायां पदार्थानां न्यास इति गौणी वाचोयुक्तिः पदार्थेभ्योऽनन्यस्यापि न्यासस्य भेदेनोपचरितस्य तथा कथनात् । न हि द्रव्यार्थिकस्य तद्भेदो मुख्योस्ति तस्याभेदप्रधानत्वात् । भेदविवक्षायां तु मुख्या सा पर्यायार्थिकस्य भेदप्रधानत्वात् । न च तत्रानवस्था, न्यासस्यापि नामादिभिर्न्यासोपगमात् । नामजीवादयः स्थापनाजीवादयो द्रव्यजीवादयो भावजीवादयश्चेति जीवादिभेदानां प्रत्येकं नामादिभेदेन व्यवहारस्य प्रवृत्तेः परापरतत्प्रभेदानामनंतत्वात् सर्वस्य वस्तुनोऽनंतात्मकत्वेनैव प्रमाणतो विचार्यमाणस्य व्यवस्थितत्वात् सर्वथैकांते प्रतीत्यभावात् ॥ ननु नामादयः केन्ये न्यस्यमानार्थरूपतः । यैर्न्यासोस्तु पदार्थानामिति केप्यनुयुंजते ॥ ७९ ॥ तेभ्योपि भेदरूपेण कथंचिदवसायतः । नामादीनां पदार्थेभ्यः प्रायशो दत्तमुत्तरम् ॥ ८० ॥ नामेंद्रादिः पृथक्तावद्भावेंद्रादेः प्रतीयते । स्थापनेंद्रादिरप्येवं द्रव्ये॑द्रादिश्च तत्त्वत्तः ॥ ८१ ॥ तद्भेदश्च पदार्थेभ्यः कथंचिद्धटरूपवत् । स्थाप्यस्थापकभावादेरन्यथानुपपत्तितः ॥ ८२ ॥ नामादयो विशेषा जीवाद्यर्थात् कथंचिद्भिन्ना निक्षिप्यमाणनिक्षेपकभावात् सामान्यविशेषभावात् प्रत्ययादिभेदाच्च । ततस्तेषामभेदे तदनुपपत्तेरिति । घटाद्रूपादीनामिव प्रतीतिसिद्धत्वान्नामादीनां न्यस्यमानार्थाद्भेदेन तस्य तैर्न्यासो युक्त एव । न हि नामेंद्रः स्थापनेंद्रो द्रव्येंद्रो वा भावेंद्रादभिन्न एव प्रती L Page #124 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ११५ यते येन नार्मेंद्रादिविशेषाणां तद्वतो भेदो न स्यात् । नन्वेवं नामादीनां परस्परपरिहारेण स्थितत्वादेकत्रार्थेवस्थानं न स्यात् विरोधात् शीतोष्णस्पर्शवत्, सत्त्वासत्त्ववद्वेति चेन्न असिद्धत्वाद्विरोधस्य नामादीनामेकत्र दर्शनाद् विरोधस्यादर्शनसाध्यत्वात् । परमैश्वर्यमनुभवत्कश्चिदात्मा हि भावेंद्रः सांप्रतिकेंद्रवपर्यायाविष्टत्वात् । स एवानागतमिंद्रत्वपर्यायं प्रति गृहीताभिमुख्यत्वाद्रव्येंद्रः, स एवेंद्रांतरत्वेन • व्यवस्थाप्यमानः स्थापनेंद्र:, स एवेंद्रांतर नान्नाभिधीयमानो नामेंद्र इत्येकत्रात्मनि दृश्यमानानां कथमिह विरोधो नाम अतिप्रसंगात् । तत एव न नामादीनां संकरो व्यतिकरो वा स्वरूपेणैव प्रतीतेः । तदनेन नामादीनामेकत्राभावसाधने विरोधादिसाधनस्यासिद्धिरुक्ता । येनात्मना नाम तेनैव स्थापनादीनामेकत्रैकदा विरोध एवेति चेत् न, तथानभ्युपगमात् ॥ · एकत्रार्थे विरोधश्चेन्नामादीनां सहोच्यते । नैकत्वासिद्धितोर्थस्य बहिरंतश्च सर्वथा ॥ ८३ ॥ न हि बहिरंतर्वा सर्वथैकस्वभावं भावमनुभवामो नानैकस्वभावस्य तस्य प्रतीतेर्बाधकाभावात् । न च तथाभूतेर्थे, येन स्वभावेन नामव्यवहारस्तेनैव स्थापनादिव्यवहरणं तस्य प्रतिनियतस्वभाव निबंधनतयाभूतेरिति कथं विरोधः सिद्ध्येत् । किं च । नामादिभ्यो विरोधोनन्योऽन्यो वा स्यादुभयरूपो वा ? प्रथमद्वितीयपक्षयोर्नासौ विरोधक इत्याह ; नामादेरविभिन्नश्चेद्विरोधो न विरोधकः । नामाद्यात्मवदन्यश्चेत्कः कस्यास्तु विरोधकः ॥ ८४ ॥ न तावदात्मभूतो विरोधो नामादीनां विरोधकः स्यादात्मभूतत्वान्नामादिखात्मवत् विपर्ययो वा । नाप्यनात्मभूतोऽनात्मभूतत्वाद्विरोधकोर्थांतरवत् विपर्ययो वा ॥ भिन्नाभिन्नो विरोधश्चेत्किं न नामादयस्तथा । कुतश्चित्तद्वतः संति कथंचिद्भिदभिद्भुतः ॥८५॥ विरोधो विरोधिभ्यः कथंचिद्भिन्नोऽभिन्नश्चाविरुद्धो न पुनर्नामादयस्तद्वतोर्थादिति ब्रुवाणो न प्रेक्षावान् ॥ एकस्य भावतोऽक्षीणकारणस्य यदुद्भवे । क्षयो विरोधकस्तस्य सोर्थो यद्यभिधीयते ॥ ८६ ॥ तदा नामादयो न स्युः परस्परविरोधकाः । सकृत्संभविनोर्थेषु जीवादिषु विनिश्चिताः ||८७ न विरोध नाम कश्चिदर्थो येन विरोधिभ्यो भिन्नः स्यात् केवलमक्षीणकारणस्य संतानेन प्रवर्तमानस्य शीतादेः क्षयो यस्योद्भवे पावकादेः स एव तस्य विरोधकः । क्षयः पुनः प्रध्वंसाभावलक्षणः कार्यं तरोत्पाद एवेत्यभिन्नो विरोधिभ्यां भिन्न इव कुतश्चिव्यवह्रियत इति यदुच्यते तदापि नामादयः क्वचिदेकत्र परस्परविरोधिनो न स्युः सकृत्संभवित्वेन विनिश्चितत्वात् । न हि द्रव्यस्य प्रबंधेन वर्तमानस्य नामस्थापनाभावानामन्यतमस्यापि तत्रोद्भवे क्षयोनुभूयते नाम्नो वा स्थापनाया भावस्य वा तथा वर्तमानस्य तदितरप्रवृत्तौ येन विरोधो गम्येत । तथानुभवाभावेपि तद्विरोधकल्पनायां न किंचित्केनचिदविरुद्धं सिद्ध्येत् । न च कल्पित एव विरोधः सर्वत्र तस्य वस्तुधर्मत्वेनाध्यवसीयमानत्वात् सत्त्वादिवत् । सत्त्वादोपि सत्त्वेनाध्यवसीयमानाः कल्पिता एवेत्ययुक्तं तत्त्वतोर्थस्यासत्त्वादिप्रसंगात् । सकलधर्मनैरात्म्योपगमाददोषोयमिति चेत् कथमेवं धर्मी तात्त्विकः । सोपि कल्पित एवेति चेत् किं पुनरकल्पितं ? स्पष्टमवभासमानं स्खलक्षणमिति चेत् नैकवेंद्र द्वित्वस्य बाधितत्वप्रसंगात् । यदि पुनरबाधितस्पष्टसंवेदनवेद्यत्वात्स्खलक्षणं परमार्थसत् नैकद्रौ द्वित्वादिबाधितत्वादिति मन्यसे तदा कथमबाधितविकल्पाध्यवसीयमानस्य धर्मस्य धर्मिणो वा परमार्थसत्त्वं निराकुरुषे । विकल्पाध्यवसितस्य सर्वस्याबाधितत्वासंभवान्न वस्तुसत्त्वमिति चेत्, कुतस्तस्य तदसंभवनिश्चयः । विवादापन्नो धर्मादिर्नाबाधितो विकल्पाध्यवसितत्वात् मनोराज्यादिवदित्यनुमानादिति चेत्, स तर्ह्यबाधितत्वाभावस्तस्यानुमानविकल्पेनाध्य " Page #125 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०५ वसितः परमार्थसन्नपरमार्थसन् वा ? प्रथमपक्षे तेनैव हेतो-भिचारः, पक्षांतरे तत्त्वतस्तस्याबाधितत्वं अबाधितत्वाभावस्याभावे तदबाधितत्वविधानात् । न चाविचारसिद्धयोधर्मिधर्मयोरबाधितत्वाभावः प्रमाणसिद्धमबाधितत्वं विरुणद्धि संवृत्तिसिद्धेन परमार्थसिद्धस्य बाधनानिष्टेः । तदिष्टौ वा खेष्टसिद्धेश्योगात् । कथं विकल्पाध्यवसितस्याबाधितत्वं प्रमाणसिद्धमिति चेत् , दृष्टस्य कथं ? बाधकाभावादिति चेत् तत एवान्यस्यापि । न हि दृष्टस्यैव सर्वत्र सर्वदा सर्वस्य सर्वथा बाधकामावो निश्चेतुं शक्यो न पुनरध्यवसितस्येति ब्रुवाणः स्वस्थः प्रतीत्यपलापात् । ततो विरोधः कचित्तात्त्विक एवाबाधितप्रत्ययविषयत्वादिष्टो वस्तुखभाववदिति विरोधिभ्यां भिन्नसिद्धेः । स भिन्न एव सर्वथेत्ययुक्तमुक्तोत्तरत्वात् । ताभ्यां भिन्नस्य तस्य विरोधकत्वे सर्वः सर्वस्य विरोधकः स्यादिति । ननु चार्थांतरभूतोपि विरोधिनोर्विरोधको विरोधः तद्विशेषणत्वे सति विरोधप्रत्ययविषयत्वात् , यस्तु न तयोर्विरोधकः स न तथा यथापरोर्थः ततो न सर्वः सर्वस्य विरोधक इति चेन्न; तस्य तद्विशेषणत्वानुपपत्तेः । विरोधो हि भावः स च तुच्छखभावो यदि शीतोष्णद्रव्ययोर्विशेषणं तदा सकृत्तयोरदर्शनापत्तिः । अथ शीतद्रव्यस्यैव विशेषणं तदा तदेव विरोधि स्यान्नोष्णद्रव्यं । तथा च न द्विष्ठोसौ एकत्रावस्थितेः । न चैकत्र विरोधः सर्वदा तत्प्रसंगात् । एतेनोष्णद्रव्यस्यैव विरोधो विशेषणं इत्यपि निरस्तं । यदि पुनः कर्मस्थक्रियापेक्षया विरुद्धमानत्वं विरोधः स शीतद्रव्यस्य विशेषणं, कर्तृस्थक्रियापेक्षया विरोधः स उष्णद्रव्यस्य । विरोधसामान्यापेक्षया विरोधस्योभयविशेषणत्वोपपत्तेर्द्विष्ठत्वं तदा रूपादेरपि द्विष्ठत्वनियमापत्तिस्तत्सामान्यस्य द्विष्ठत्वात् , रूपादेर्गुणविशेषणात् तत्सामान्यस्य पदार्थातरत्वात् न तदनेकस्थत्वे तस्यानेकस्थत्वमिति चेत् तर्हि कर्मकर्तृस्थाद्विरोधविशेषात् पदार्थातरस्य । विरोधसामान्यस्य द्विष्ठत्वे कुतस्तविष्ठत्वं येन द्वयोर्विशेषणं विरोधः । एतेन गुणयोः कर्मणोर्द्रव्यगुणयोः गुणकर्मणोः द्रव्यकर्मणोर्वा विरोधो विशेषणं इत्यपास्तं, विरोधस्य गुणत्वे गुणादावसंभवाच्च । तस्याभावरूपत्वे कथं सामान्यविशेषभावो येनानेकविरोधिविशेषणभूतविरोधविशेषमव्यापि विरोधसामान्यमुपेयते । यदि पुनः षट्पदार्थव्यतिरेकत्वात् पदार्थशेषो विरोधोऽनेकस्थः, स च विरोध्यविरोधकभावप्रत्ययविशेषसिद्धेः समाश्रीयते तदा तस्य कुतो द्रव्यविशेषणत्वं ? न तावत्संयोगात् पुरुषे दंडवत्तस्याद्रव्यत्वेन संयोगानाश्रयत्वात् , नापि समवायाद्गवि विषाणवत्तस्य द्रव्यगुणकर्मसामान्यविशेषव्यतिरिक्तत्वेनासमवायित्वात् । न च संयोगसमवायाभ्यामसंबंधस्य विरोधस्य कचिद्विशेषणता युक्ता, सर्वस्य सर्वविशेषणानुषंगात् । समवायवत्समवायिषु संयोगसमवायासत्त्वेपि तस्य विशेषणतेति चेन्न, तस्यापि तथा साध्यत्वात् । न चाभाववद्भावेषु तस्य विशेषणता तस्यापि तथा सिध्यभावात् । न ह्यसिद्धमसिद्धस्योदाहरणं, अतिप्रसंगात् । ननु च विरोधिनावेतौ समवायिनाविमौ नास्तीह घट इति विशिष्टप्रत्ययः कथं विशेषणविशेष्यभावमंतरेण स्यात् । दंडीति प्रत्ययवद्भवति चायमबाधितवपुर्न च द्रव्यादिषट्पदार्थानामन्यतमनिमित्तोऽयं तदनुरूपत्वात् प्रतीतेः, नाप्यनिमित्तः कदाचित्कचिद्भावात् । ततोस्यापरेण हेतुना भवितव्यं सतो विशेषणविशेष्यभावः संबंधशेषः पदार्थशेषेष्वविनाभाववदिति समवायवदभाववद्वा विरोधस्य क्वचिद्विशेषणत्वसिद्धौ तस्यापि विशेषणविशेष्यभावस्य स्वाश्रयविशेषाश्रयिणः कुतस्तद्विशेषणत्वं । परस्माद्विशेषणविशेष्यभावादितिचेत् तस्यापि खविशेष्यविशेषणत्वं । परस्मादित्यनवस्थादप्रतिपत्तिविशेष्यस्य विशेषणप्रतिपत्तिमंतरेण तदनिष्टेः, नागृहीतविशेषणा विशेष्ये बुद्धिरिति वचनात् । सुदूरमपि गत्वा विशेषणविशेष्यभावस्यापरविशेषणविशेष्यभावाभावेपि खाश्रयविशेषणत्वोपगमे समवायादेरपि क विशेषणत्वं, तदभावेपि किं न स्यात् ? इति न विशेषणविशेष्यभावसिद्धिः । तदसिद्धौ च न किंचित्कस्यचिद्विशेषणमिति न विरोधो विरोधिविशेषणत्वेन सिध्यति । Page #126 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ११७ विरोधप्रत्ययविशेषत्वं तु केवलं विरोधमात्रं साधयेन्न पुनरनयोर्विरोध इति तत्प्रतिनियम, ततो न विरोधिभ्योत्यंतभिन्नो विरोधोभ्युपगंतव्यः । कथंचिद्विरोध्यात्मकत्वे तु विरोधस्य प्रतिनियमसिद्धिर्न कश्चिदुपालंभ इति सूक्तं विरोधवत्वाश्रयान्नामादीनां भिन्नाभिन्नत्वसाधनं । नामादिभिर्व्यासोऽर्थानामनर्थक इति चेन्न, तस्य प्रकृतव्याकरणार्थत्वादप्रकृताव्याकरणार्थत्वाच्च । भावस्तम्भप्रकरणे हि तस्यैव , व्याकरणं नामस्तंभादीनामव्याकरणं च अप्रकृतानां न नामादिनिक्षेपाभावेर्थस्य घटते, तत्संकरव्यतिक राभ्यां व्यवहारप्रसंगात् । ननु भावस्तंभस्य मुख्यत्वाध्याकरणं न नामादीनां “गौणमुख्ययोर्मुख्ये संप्रत्यय" इति वचनात् । नैतन्नियतं, गोपालकमानय कटजकमानयेत्यादौ गौणे संप्रत्ययसिद्धेः । न हि तत्र यो गाः पालयति यो वा कटे जातो मुख्यस्तत्र संप्रत्ययोस्ति । किं तर्हि ? यस्यैतन्नाम कृतं तत्रैव गौणे प्रतीतिः। कृत्रिमत्वाद्गौणे संप्रत्ययो न मुख्ये तस्याकृत्रिमत्वात् "कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्यय" इति वचनात् । नैतदेकांतिकं पांसुलपादस्य तत्रैवोभयगतिदर्शनात् । स ह्यप्रकरणज्ञत्वादुभयं प्रत्येति किमहं यो गाः पालयति यो वा कटे जातस्तमानयामि किं वा यस्यैषा संज्ञा तं? इति विकल्पनात् । प्रकरणज्ञस्य कृत्रिमे संप्रत्ययोस्तीति चेत् न, तस्याकृत्रिमेपि संप्रत्ययोपपत्तेस्तथा प्रकरणात् । ननु च जीवशब्दादिभ्यो भावजीवादिष्वेव संप्रत्ययस्तेषामर्थक्रियाकारित्वादितिचेत् न, नामादीनामपि स्वार्थक्रियाकारित्वसिद्धेः । भावार्थक्रियायास्तैरकरणादनर्थक्रियाकारित्वं तेषामिति चेत्, नामाद्यर्थक्रियायास्तर्हि भावेनाकरणात्तस्यानर्थक्रियाकारित्वमस्तु । कांचिदप्यर्थक्रियां न नामादयः कुर्वतीत्ययुक्तं तेषामवस्तुत्वप्रसंगात् । न चैतदुपपन्नं भाववन्नामादीनामबाधितप्रतीत्या वस्तुत्वसिद्धेः । एतेन नामैव वास्तवं न स्थापनादित्रयमिति शब्दाद्वैतवादिमतं, स्थापनैव कल्पनात्मिका न नामादित्रयं वस्तु सर्वस्य कल्पितत्वादिति विभ्रमैकांतवादिमतं, द्रव्यमेव तत्त्वं न भावादित्रयमिति च द्रव्याद्वैतवादिदर्शनं प्रतिव्यूढं । तदन्यतमापाये सकलसंव्यवहारानुपपत्तेश्च युक्तः सर्वपदार्थानां नामादिभिया॑सस्तावता प्रकरणपरिसमाप्तेः ॥ ननु नामादिभियंस्तानामखिलपदार्थानामधिगमः केन कर्तव्यो यतस्तद्व्यवस्था अधिगमजसम्यग्दर्शनव्यवस्था च स्यात् । न चास्तधना कस्यचिद्व्यवस्था सर्वस्य स्वेष्टतत्त्वव्यवस्थानुषंगादिति वदंतं प्रत्याह सूत्रकार; प्रमाणनयैरधिगमः ॥ ६॥ सर्वार्थानां मुमुक्षुभिः कर्तव्यो न पुनरसाधन एवाधिगम इति वाक्यार्थः ॥ कथमसौ तैः कर्तव्य इत्याह;सूत्रे नामादिनिक्षिप्ततत्त्वार्थाधिगमस्थितः । काय॑तो देशतो वापि स प्रमाणनयैरिह ॥१॥ तनिसर्गादधिगमाद्वेत्यत्र सूत्रे नामादिनिक्षिप्तानां तत्त्वार्थानां योधिगमः सम्यग्दर्शनहेतुत्वेन स्थितः स इह शास्ने प्रस्तावे वा काय॑तः प्रमाणेन कर्तव्यो देशतो नयैरेवेति व्यवस्था । नन्वेवं प्रमाणनयानामधिगमस्तथान्यैः प्रमाणनयैः कार्यस्तदधिगमोप्यपरैरित्यनवस्था, खतस्तेषामधिगमे सर्वार्थानां खतः सोस्त्विति न तेषामधिगमसाधनत्वं । न वानधिगता एव प्रमाणनयाः पदार्थाधिगमोपाया ज्ञापकत्वादतिप्रसंगाचेत्यपरः । सोप्यप्रस्तुतवादी । प्रमाणनयानामभ्यासानभ्यासावस्थयोः खतः परतश्चाधिगमस्य वक्ष्यमाणत्वात् । परतस्तेषामधिगमे कचिदभ्यासात्वतोधिगमसिद्धेरनवस्थापरिहरणात् । खतोधिगमे सर्वार्थानामधिगमस्य तेषामचेतनत्वेनातिप्रसंगात् । चेतनार्थानां कथंचित्प्रमाणनयात्मकत्वेन खतोधिगमस्येष्टत्वाच्च श्रेयान् प्रमाणनयैरधिगमोर्थानां सर्वथा दोषाभावात् ॥ Page #127 -------------------------------------------------------------------------- ________________ तत्त्वार्थ श्लोकवार्तिके [सू० ६ ११८ ननु च प्रमाणं नयाश्चेति द्वंद्ववृत्तौ नयस्य पूर्वनिपातः स्यादल्पाच्तरत्वान्न प्रमाणस्य बह्वच्तस्त्वादित्या - क्षेपे प्राह; प्रमाणं च नयाश्चेति द्वंद्वे पूर्वनिपातनम् । कृतं प्रमाणशब्दस्याभ्यर्हितत्वेन बह्वचः ॥ २ ॥ न ह्यल्पाच्तरादभ्यर्हितं पूर्वं निपततीति कस्यचिदप्रसिद्धं लक्षणहेत्वोरित्यत्र हेतुशब्दादल्पाच्तरादपि लक्षणपदस्य बह्वचोऽभ्यर्हितस्य पूर्वप्रयोगदर्शनात् ॥ कथं पुनः प्रमाणमभ्यर्हितं नयादित्याह ; - 1 प्रमाणं सकलादेशि नयादभ्यर्हितं मतम् । विकलादेशिनस्तस्य वाचकोपि तथोच्यते ॥ ३ ॥ कथमभ्यर्हितत्वानभ्यर्हितत्वाभ्यां सकला देशित्वविकलादेशित्वे व्याप्तिसिद्धे यतः प्रमाणनययोस्ते सिद्ध्यत इति चेत्, प्रकृष्टापकृष्टविशुद्धिलक्षणत्वादभ्यर्हितत्वानभ्यर्हितत्वयोस्तद्व्यापकत्वमिति ब्रूमः । न हि प्रकृष्टां विशुद्धिमंतरेण प्रमाणमनेकधर्मधर्मिखभावं सकलमर्थमादिशति, नयस्यापि सकलादेशित्वप्रसंगात् । नापि विशुद्ध्यपकर्षमंतरेण नयो धर्ममात्रं वा विकलमादिशति प्रमाणस्याविकलादेशित्वप्रसंगात् ॥ स्वार्थनिश्चायकत्वेन प्रमाणं नय इत्यसत् । खार्थैकदेशनिर्णीतिलक्षणो हि नयः स्मृतः ॥ ४ ॥ नयः प्रमाणमेव स्वार्थव्यवसायकत्वादिष्टप्रमाणवद् विपर्ययो वा ततो न प्रमाणनययोर्भेदोस्ति येनाभ्यर्हितेतरता चिंत्या इति कश्चित् । तदसत् । नयस्य स्वार्थैकदेशलक्षणत्वेन स्वार्थनिश्चायकत्वासिद्धेः । स्वार्थीशस्यापि वस्तुत्वे तत्परिच्छेदे छेदलक्षणत्वात्प्रमाणस्य स न चेद्वस्तु तद्विषयो मिथ्याज्ञानमेव स्यात्तस्यावस्तुविषयत्वलक्षणत्वादिति चोद्यमसदेव । कुतः ? नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ ५ ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुत्वं वा स्यात्तच्चेत्कास्तु समुद्रवित् ॥ ६ ॥ यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसंगात् समुद्र बहुत्वापत्तिर्वा तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारायोगात् समुद्रांशः स एवोच्यते । तथा स्वार्थैकदेशो नयस्य न वस्तु खार्थैकदेशांतराणामवस्तुत्वप्रसंगात्, वस्तु बहुत्वानुषक्तेर्वा । नाप्यवस्तु शेषांशानामप्यवस्तुत्वेन क्वचिदपि वस्तुव्यवस्थानुपपत्तेः । किं तर्हि ? । वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाभावात् ॥ नांशेभ्योर्थातरं कश्चित्तत्त्वतोंशीत्ययुक्तिकम् । तस्यैकच स्थविष्ठस्य स्फुटं दृष्टेस्तदंशवत् ॥ ७ ॥ नांतर्बहिर्वाशेभ्यो भिन्नोंशी कश्चित्तत्त्वतोस्ति यो हि प्रत्यक्षबुद्धावात्मानं न समर्पयति प्रत्यक्षतां च स्वीकरोति । सोयममूल्यदानक्रयीत्ययुक्तिकमेव, स्थविष्ठस्यैकस्य स्फुटं साक्षात्करणात् तद्व्यतिरेकेणांशानामेवाप्रतिभासनात् । तथा इमे परमाणवो नात्मनः प्रत्यक्षबुद्धौ खरूपं समर्पयंति प्रत्यक्षतां च स्वीकर्तुमुत्सहंत इत्यमूल्यदानक्रयिणः ॥ कल्पनारोपितोंशी चेत् स न स्यात् कल्पनांतरे । तस्य नार्थक्रियाशक्तिर्न स्पष्टज्ञानवेद्यता ||८|| शक्यते हि कल्पनाः प्रतिसंख्यानेन निवारयितुं नेंद्रियबुद्धय इति स्वयमभ्युपेत्य कल्पनांतरे सत्यप्यनिवर्तमानं स्थवीयान्सं एकमवयविनं कल्पनारोपितं ब्रुवन् कथमवयवेवयविवचनः ? यदि पुनरवयविकल्पनायाः कल्पनांतरस्य वाशुवृत्तेर्विच्छेदानुपलक्षणात् सहभावाभिमानो लोकस्य । ततो न कल्पनांतरे सति कल्पनात्मनोप्यवयविनोस्तित्वमिति मतिः तदा कथमिंगियबुद्धीनां कचित्सहभावस्तात्त्विकः सिद्ध्येत् । Page #128 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । तासामप्याशुवृत्तेर्विच्छेदानुपलक्षणात्सहभावाभिमानसिद्धेः । कथं वाश्वं विकल्पयतोपि च गोदर्शनाद्दर्शनकल्पनाविरहसिद्धिः ? कल्पनात्मनोपि गोदर्शनस्य तथाश्वविकल्पेन सहभावप्रतीतेरविरोधात् । ततः सर्वत्र कल्पनायाः कल्पनांतरोदये निवृत्तिरेष्टव्या, अन्यथेष्टव्याघातात् । तथा च न कल्पनारोपितोंशी कल्पनांतरे सत्यप्यनिवर्तमानत्वात् स्वसंवेदनवत् । तस्यार्थक्रियायां सामर्थ्याच्च न कल्पनारोपितत्वं । न हि माणवकेऽग्निरध्यारोपितः पाकादावाधीयते । करांगुलिष्वारोपितो वैनतेयो निर्विषीकरणादावाधीयत इति चेत् न, समुद्रोल्लंघनाद्यर्थक्रियायामपि तस्याधानप्रसंगात् । निर्विषीकरणादयस्तु तदा पानादिमात्रनिबंधना एवेति न ततो विरुध्यंते । नन्वर्थक्रियाशक्तिरसिद्धावयविनः परमाणूनामेवार्थक्रियासमर्थसिद्धेस्त एव साधारणार्थक्रियाकारिणो रूपादितया व्यवह्नियंते । जलाहरणादिलक्षणसाघारणार्थक्रियायां प्रवर्तमानास्तु घटादितया । ततो घटाद्यवयविनो अवस्तुत्वसिद्धिस्तस्य संवृतसत्त्वादितिचेन्न, परमाणूनां जलाहरणाद्यर्थक्रियायां सामर्थ्यानुपपत्तेर्घटादेरेव तत्र सामर्थ्यात् परमार्थसिद्धेः । परमाणवो हि तत्र प्रवर्तमानाः कंचिदतिशयमपेक्षते नवा ? न तावदुत्तरः पक्षः सर्वदा सर्वेषां तत्र प्रवृत्तिप्रसंगात् । स्वकारणकृतमतिशयमपेक्षंत एवेति चेत्, कः पुनरतिशयः ? समानदेशतयोत्पाद इति चेत्, का पुनस्तेषां समानदेशता : भिन्नदेशानामेवोपगतत्वात् जलाहरणाद्यर्थक्रियायोग्यदेशता तेषां समानदेशता नान्या, यादृशि हि देशे स्थितः परमाणुरेकस्तत्रोपयुज्यते तादृशि परेपि परमाणवः स्थितास्तत्रैवोपयुज्यमानाः समानदेशाः कथ्यंते न पुनरेकत्र देशे वर्तमाना, विरोधात् । सर्वेषामेकपरमाणुमात्रत्वप्रसंगात् सर्वात्मना परस्परानुप्रवेशादन्यथैकदेशत्वायोगादिति चेत् । का पुनरियमेका जलाहरणाद्यर्थक्रियाः यस्यामुपयुज्यमाना भिन्नदेशवृत्तयोप्यणवः समानदेशाः स्युः । प्रतिपरमाणुभिद्यमाना हि सानेकैव युक्ता भवतामन्यथाने कघटादिपरमाणुसाध्यापि सैका स्यादविशेषात् सत्यं । अनेकैव सा जलाहरणाद्याकारपरमाणूनामेव तत् क्रियात्वेन व्यवहरणात् । तद्व्यतिरेकेण क्रियाया विरोधात् केवलमेककार्य करणादेकत्वेनोपचर्यत इतिचेन्न, तत्कार्याणामप्येकत्वासिद्धेस्तत्त्वतोनेकत्वेनोपगतत्वात् स्वकीयैककार्यकरणात् तत्कार्याणामेकत्वोपगमे स्यादनवस्था तत्त्वतः सुदूरमपि गत्वा बहूनामेकस्य कार्यस्यानभ्युपगमात् । तदुपगमे वा नानाणूनामेकोवयवी कार्ये किं न भवेत् । यदि पुनरेकतया प्रतीयमानत्वादेकैव जलाहरणाद्यर्थक्रियोपेयते तदा घटाद्यवयवी तत एवैकः किं न स्यात् ? संवृत्त्यास्तु तदेकत्वप्रत्ययस्य सांवृतत्वादिति चेत्, जलाहरणाद्यर्थक्रियापि संवृत्त्यैकास्तु तदविशेषात् । तथोपगमे कथं तत्त्वतो भिन्नदेशानामणूनामेकस्यामर्थक्रियायां प्रवृत्तेः समानदेशता ययोत्पादेतिशयस्तैस्तत्रापेक्षते । तदनपेक्षाश्च कथं साधारणाद्यर्थक्रियाहेत वोतिप्रसंगादिति न घटादिव्यवहारभाजः स्युः । न चायं घटाद्येकत्वप्रत्ययः सांवृतः स्पष्टत्वादक्षजत्वाद्वाधकाभावाच्च यतस्तदेकत्वं पारमार्थिकं न स्यात् । ततो युक्तांशिनोर्थक्रियायां शक्तिरंशवदिति नासिद्धं साधनं स्पष्टज्ञानवेद्यत्वाच्च नांशी कल्पनारोपितोंशवत् । नन्वंशा एव स्पष्टज्ञानवेद्या नांशी तस्य प्रत्यक्षेऽप्रतिभासनादिति चेत् न, अक्षव्यापारे सत्ययं घटादिरिति संप्रत्ययात् । असति तदभावात् । नन्वक्षव्यापारेंशा एव परमसूक्ष्माः संचिताः प्रतिभासंते त एव स्पष्टज्ञानवेद्याः केवलप्रतिभासानंतरमाश्वेवांशिविकल्पः प्रादुर्भवन्नक्षव्यापारभावीति लोकस्य विभ्रमः, सविकल्पाविकल्पयोर्ज्ञानयोरेकत्वाध्यवसायाद्युगपद्वृत्तेर्लघुवृत्तेर्वा । यदांशदर्शनं स्पष्टं तदैव पूर्वीशदर्शनजनितांशिविकल्पस्याभावात् । तदुक्तं । “मनसोर्युगपद्वृत्तेस्सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति" इति । तदप्ययुक्तं । विकल्पेनास्पष्टेन सहैकत्वाध्यवसाये निर्विकल्पस्यांश दर्शनस्यास्पष्टत्वप्रतिभासनानुषंगात् । स्पष्टप्रतिभासेन दर्शनेनाभिभूतत्वाद्विकल्पस्य स्पष्टप्रतिभासनमेवेति चेत् न, अश्वविकल्पगोदर्शनयोर्युगपद्वृत्तौ तत एवाश्वविकल्पस्य स्पष्टप्रतिभासप्रसंगात् । तस्य भिन्नविषयत्वान्न गोदर्शनेनाभिभवोस्तीतिचेत्, किमिदानी ११९ Page #129 -------------------------------------------------------------------------- ________________ १२० तत्त्वार्थ लोकवार्तिके [सू० ६ 1 " कविषयत्वे सति विकल्पस्य दर्शनेनाभिभवः साध्यते ततस्तस्य स्पष्टप्रतिभास इति मतं । नैतदपि साधीयः । शब्दखलक्षणदर्शनेन तत्क्षणक्षयानुमानविकल्पस्याभिभवप्रसंगात् । नहि तस्य तेन युगपद्भावो नास्ति विरोधाभावात् ततोस्य स्पष्टप्रतिभासः स्यात् । भिन्नसामग्रीजन्यत्वादनुमान विकल्पस्य न दर्शनेनाभिभव इति चेत्, स्यादेवं । यद्यभिन्नसामग्रीजन्ययोर्विकल्पदर्शनयोरभिभाव्याभिभावकभावः सिद्ध्येत् नियमात् । न चासौ सिद्धः सकलविकल्पस्य स्वसंवेदनेन स्पष्टावभासिना प्रत्यक्षेणाभिन्नसामग्रीजन्येनाप्यभिभवाभावात् । खविकल्पवासनाजन्यत्वाद्विकल्पस्य पूर्वसंवेदनमात्रजन्यत्वाच्च स्वसंवेदनस्य । तयोर्भिन्नसामग्रीजन्यत्वमेवेति चेत् । कथमेवमंशदर्शनेनांशिविकल्पस्याभिभवो नाम तथा दृष्टत्वादिति चेन्न, अंशदर्शनेनांशि विकल्पोऽभिभूत इति कस्यचित्प्रतीत्यभावात् । ननु चापि विकल्पः स्पष्टाभोऽनुभूयते नचासौ युक्तस्तस्यास्पष्टावभासित्वेन व्याप्तत्वात् । तदुक्तं | “न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता" इति । ततोस्य दर्शनाभिभवादेव स्पष्टप्रतिभासोऽन्यथा तदसंभवादिति चेन्न, विकल्पस्यास्पष्टावभासित्वेन व्याप्त्यसिद्धेः । कामाद्युपप्लुतचेतसां कामिन्यादिविकल्पस्य स्पष्टत्वप्रतीतेः सोक्षज एव प्रतिभासो न विकल्पज इत्ययुक्तं, निमीलिताक्षस्यांधकारावृतनयनस्य च तदभावप्रसंगात् । भावनातिशयजनितत्वात्तस्य योगिप्रत्यक्षतेत्यसंभाव्यं भ्रांतत्वात् । ततो विकल्पस्यैवाक्षजस्य मानसस्य वा कस्यचित्स्पष्टमतिज्ञानावरणक्षयोपशमापेक्षस्याभ्रांतस्य प्रांतस्य वा निर्बाधप्रतीतिसिद्धत्वादवयविविकल्पस्य स्वतः स्पष्टतोपपत्तेः सिद्धमंशिनः स्पष्टज्ञानवेद्यत्वमंशवत् । तच्च न कल्पनारोपितत्वे संभव - तीति तस्यानारोपितत्वसिद्धेः । ननु स्पष्टज्ञानवेद्यत्वं नावयविनो अनारोपितत्वं साधयति कामिन्यादिना स्पष्टभावनातिशयजनिततद्विकल्पवेद्येन व्यभिचारादिति चेन्न, स्पष्टसत्यज्ञानवेद्यत्वस्य हेतुत्वात् । तथा स्वसंवेद्येन सुखादिनानैकांत इत्यपि न मंतव्यं, कल्पनानारोपितत्वस्याक्षजत्वस्य साध्यतयानभ्युपगमात् । परमार्थसत्त्वस्यैव साध्यत्वात् । ननु परमार्थसतोवयविनः स्पष्टज्ञानेन वेदनं सर्वावयववेदनपूर्वकं कतिपयावयववेदनपूर्वकं वावयवावेदनपुरःसरं वा ? न तावदाद्यः पक्षः सर्वदा तदभावप्रसंगात् किंचिज्ज्ञस्य सर्वावयववेदनासंभवात् । तदवयवानामपि स्थवीयसामवयवित्वेन सकलावयववेदनपुरःसरत्वे तस्य परमाणूनामवयवानामवेदनेन तदारब्धशताणुकादीनां वेदनानुषंगादभिमतपर्वतादेरपि वेदनानुपपत्तेः । एतेन द्वितीयपक्षोपाकृतः, कतिपयपरमाणुवेदने तदवेदनानुपपत्तेरविशेषात् । तृतीयपक्षे तु सकलावयवशून्ये देशेवयविवेदनप्रसंगस्ततो नावयविनः स्पष्टज्ञानेन वित्तिः । यतः स्पष्टज्ञानवेद्यत्वं तत्त्वतः सिच्छेत् । इत्यपि प्रतीतिविरुद्धं, सर्वस्य हि स्थवीयानर्थः स्फुटतरमवभासत इति प्रतीतिः ॥ भ्रांतिरिंद्रियजेयं चेत्स्थविष्टाकारदर्शिनी । काभ्रांत मंद्रियज्ञानं प्रत्यक्षमिति सिद्धय ॥ ९ ॥ प्रत्यासन्नेष्वयुक्तेषु परमाणुषु चेन्न ते । कदाचित्कस्यचिद्बुद्धिगोचराः परमात्मवत् ॥ १० ॥ सर्वदा सर्वथा सर्वस्येंद्रियबुध्यगोचरान् परमाणून संस्पृष्टान् स्वयमुपयंस्तत्रेंद्रियजं प्रत्यक्षमभ्रांतं कथं ब्रूयात्, यतस्तस्य स्थविष्टाकारदर्शनं भ्रांतं सिच्छेत् । कयाचित् प्रत्यासत्त्या तानिंद्रियबुद्धिविषयानिच्छत् कथमवयविवेदनमपाकुर्वीत सर्वस्यावयव्यारंभकपरमाणूनां कार्यतोऽन्यथा वा वेदनसिद्धेस्तद्वेदनपूर्वकावयविवेदनोपपत्तेः सहावयवावयविवेदनोपपत्तेर्वा नियमाभावात् । यदि पुनर्न परमाणवः कथंचित्कस्यचिदिंद्रियबुद्धेर्गोचरा नाप्यवयवी । न च तनेंद्रियजं प्रत्यक्षमत्रांतं सर्वमालंबते, प्रांतमितिवचनात् । सर्वज्ञानानामनालंबनत्वादिति मतिस्तदा प्रत्यक्षं कल्पनापोढमभ्रांतमिति वचोऽनर्थकमेव स्यात् कस्यचित्प्रत्यक्षस्याभावात् ॥ स्वसंवेदनमेवैकं प्रत्यक्षं यदि तत्त्वतः । सिद्धिरंशांशिरूपस्य चेतनस्य ततो न किम् ॥ ११ ॥ यर्थेद्रियजस्य बहिःप्रत्यक्षस्य तत्त्वतोऽसद्भावस्तथा मानसस्य योगिज्ञानस्य च स्वरूपमात्र पर्यवसितत्वात् Page #130 -------------------------------------------------------------------------- ________________ १२१ प्रथमोऽध्यायः । ततः खसंवेदनमेकं प्रत्यक्षमितिचेत् सिद्धं तर्हि चेतनातत्त्वमंशांशिखरूपं स्वसंवेदनात्तस्यैव प्रतीयमानत्वात् । न हि सुखनीलाद्याभासांशा एव प्रतीयंते खशरीरव्यापिनः सुखादिसंवेदनस्य महतोऽनुभवात् नीलाद्याभासस्य चंद्रनीलादेः प्रचयात्मनः प्रतिभासनात् ॥ विज्ञानप्रचयोप्येष भ्रांतश्चेत् किमविभ्रमम् । स्वसंवेदनमध्यक्ष ज्ञानाणोरप्रवेदनात् ॥ १२ ॥ न हि खसंविदि प्रतिभासमानस्य विज्ञानप्रचयस्य भ्रांततायां किंचित्वसंवेदनमभ्रांतं नाम यतस्तदेव प्रत्यक्षं सिद्ध्येत् । विज्ञानपरमाणोः संवेदनं तदितिचेत् न, तस्य सर्वदाप्यप्रवेदनात् । सर्वस्य ग्राह्यग्राहकात्मनः संवेदनस्य सिद्धेः । स्यान्मतं । न बुद्ध्या कश्चिदनुभाव्यो भिन्नकालोस्ति सुप्रसिद्धभिन्नकालाननुभाव्यवत् । तस्य हेतुत्वेनाप्यनुभाव्यत्वसाधने नयनादिनानेकांतात् । खाकारार्पणक्षमेणापि तेन तत्साधने समानार्थसमनंतरप्रत्ययेन व्यभिचारात् तेनाध्यवसायसहितेनापि तत्साधने भ्रांतज्ञानसमनंतरप्रत्ययेनानेकांतात् । तत्त्वतः कस्यचित्तत्कारणत्वाद्यसिद्धेश्च । नापि समानकालस्तस्य स्वतंत्रत्वात् , योग्यताविशेषस्यापि तद्व्यतिरिक्तस्यासंभवात् तस्याप्यनुभाव्यत्वासिद्धेः । परेण योग्यताविशेषणानुभाव्यत्वेनवस्थानात् , प्रकारांतरासंभवाच्च । नापि बुद्धाहकत्वेन परोनुभवोस्ति, सर्वथानुभाव्यवदनुभावकस्यासंभवे तदघटनात् । ततो बुद्धिरेव खयं प्रकाशते ग्राह्यग्राहकवैधुर्यात् । तदुक्तं । “नान्योनुभाव्यो बुझ्यास्ति तस्या नानुभवोऽ. परः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥” इति ॥ अत्रोच्यते;नान्योनुभाव्यो बुद्धास्ति तस्या नानुभवोपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सा न प्रकाशते ॥१३॥ न हि बुद्ध्यान्योनुभाव्यो नास्ति संतानांतरस्याननुभाव्यत्वानुषंगात् । कुतश्चिदवस्थितेरयोगात् । तदुपगमे च कुतः खसंतानसिद्धिः ? पूर्वोत्तरक्षणानां भावतोननुभाव्यत्वात् । स्यादाकूतं । यथा वर्तमानबुद्धिः खरूपमेव वेदयते न पूर्वामुत्तरां वा बुद्धिं संतानांतरं बहिरर्थ वा । तथातीतानागता च बुद्धिस्ततः खसंविदितः खसंतानः खसंविदितक्रमवय॑नेकबुद्धिक्षणात्मकत्वादिति । तदसत् । वर्तमानया बुद्ध्या पूर्वोत्तरबुद्ध्योरवेदनात् खरूपमात्रवेदित्वानिश्चयात् । ते चानुमानबुद्ध्या वेद्यते । खरूपमात्रवेदिन्यावित्यप्यसारं । संतानांतरसिद्धिप्रसंगात् । तथा च संतानांतरं खसंतानश्चानुमानबुद्ध्यानुभाव्यो न पुनर्बहिरर्थ इति कुतो विभागः सर्वथाविशेषाभावात् । विवादापन्ना बहिरर्थबुद्धिरनालंबना बुद्धित्वात् खानादिबुद्धिवदित्यनुमानाद्वहिरोंननुभाव्यो बुद्ध्या सिद्धयति न पुनः संतानांतरं । खसंतानश्चेति न बुद्ध्यामहे, खप्नसंतानांतरखसंतानबुद्धेरनालंबनत्वदर्शनादन्यथापि तथात्वसाधनस्य कर्तुं शक्यत्वात् । बहिरर्थना ह्यतादूषणस्य च संतानांतरग्राह्यतायां समानत्वात् तस्यास्तत्र कथंचिददूषणत्वे बहिरर्थग्राह्यतायामप्यदूषणत्वात् कथं ततस्तत्प्रतिक्षेप इत्यस्त्येव बुद्ध्यानुभाव्यः । एतेन बुद्धेर्बुद्ध्यंतरेणानुभवोपि परोस्तीति निश्चितं ततो न ग्राह्यग्राहकवैधुर्यात् वयं बुद्धिरेव प्रकाशते । माभूत् संतानांतरस्य खसंतानस्य वा व्यवस्थितिर्बहिरर्थवत्संवेदना। द्वैतस्य ग्राह्यग्राहकाकारविवेकेन खयं प्रकाशनादित्यपरः । तस्यापि संतानांतराद्यभावोऽनुभाव्यः, संवेदनस्य स्यादन्यथा तस्याद्वयस्याप्रसिद्धेः । स्वानुभवनमेव संतानांतराद्यभावानुभवनं संवेदनस्येति च न सुभाषितं, खरूपमात्रसंवेदनस्यैवासिद्धिः । न हि क्षणिकानंशखभावं संवेदनमनुभूयते, स्पष्टतयानुभवनस्यैव क्षणिकत्वात् । क्षणिकं वेदनमनुभूयत एवेति चेत् न, एकक्षणस्थायित्वस्याक्षणिकत्वस्याभिधानात् । अथ स्पष्टानुभवनमेवैकक्षणस्थायित्वं अनेकक्षणस्थायित्वे तद्विरोधात् । तत्र तदविरोधे वानाद्यनंतस्पष्टानुभवप्रसंगात् । तथा चेदानी स्पष्टं वेदनमनुभवामीति प्रतीतिर्न स्यादितिमतं । तदसत् । क्षणिकत्वे वेदनस्येदानीमनुभवामीति प्रतीतौ पूर्व पश्चाच तथा प्रतीतिविरोधात् । तदविरोधे वा कथमनाद्यनंतरसंवेदनसिद्धिर्न १६ Page #131 -------------------------------------------------------------------------- ________________ १२२ तत्त्वार्थश्लोकवार्तिके [सू० ६ भवेत् । सर्वदेदानीमनुभवामीति प्रतीतिरेव हि नित्यता सैव च वर्तमानता तथाप्रतीतेर्विच्छेदाभावात् । ततो न क्षणिकसंवेदनसिद्धिः । इदानीमेवानुभवनं स्पष्टं न पूर्व न पश्चादिति प्रतीतेः क्षणिकं संवेदनमितिचेत्, स्यादेवं यदि पूर्व पश्चाद्वानुभवस्य विच्छेदः सिद्ध्येत् । न चासौ प्रत्यक्षतः सिद्ध्यति तदनुमानस्य वैफल्यप्रसंगात्, पश्यन्नपीत्यादिग्रंथस्य विरोधात् । प्रत्यक्षपृष्टभाविनो विकल्पादिदानीमनुभवनं ममेति निश्चयान्नोक्तग्रंथविरोधः । तद्बलादिदानीमेवेत्यनिश्चयाच्च नानुमाने नैष्फल्यं ततस्तथा निश्चयादिति चेत्, नैतत्सारं । प्रत्यक्षपृष्टभाविनो विकल्पस्येदानीमनुभवो मे न पूर्व पश्चाद्वेति विधिनिषेधविषयतयानुत्पत्तौ वर्तमानमात्रानुभवव्यवस्थापकत्वायोगात् । पश्यन्नपीत्यादिविरोधस्य तदवस्थत्वादन्यथा सर्वत्रेदमुपलभे नेदमुपलभेहमिति विकल्पद्वयानुत्पत्तावपि दृष्टव्यवहारप्रसंगात् । तदन्यव्यवच्छेदविकल्पाभावेपीदानीं तेनानुभवननिश्चये तदेवानुमाननैष्फल्यमिति यत्किंचिदेतत् । एतेनानुमानादनुभवस्य पूर्वोत्तरक्षणव्यवच्छेदः सिद्ध्यतीति निराकृतं खतस्तेनाध्यक्षतो व्याप्तेरसिद्धेः, परतोनुमानात् सिद्धावनवस्थाप्रसंगात् । विपक्षे बाधकप्रमाणबलाव्याप्तिः सिद्धेतिचेत् । किं तत्र बाधकं प्रमाणं ? न तावदध्यक्षं तस्य क्षणिकत्वनिश्चायित्वेनाक्षणिकत्वे बाधकत्वायोगात् । नाप्यनुमानं क्षणिकत्वविषयं तस्यासिद्धव्याप्तिकत्वात् । प्रथमानुमानात्तव्याप्तिसिद्धौ परस्पराश्रयणात् । सति सिद्धव्याप्तिके विपक्षे बाधकेनुमाने प्रथमानुमानस्य सिद्धव्याप्तिकत्वं तत्सिद्धौ च तत्सद्भाव इति । विपक्षे बाधकस्यानुमानस्यापि परस्माद्विपक्षे बाधकानुमानाव्याप्तिसिद्धौ सैवानवस्था । एतेन व्यापकानुपलंभात् सत्त्वस्य क्षणिकत्वेन व्याप्तिं साधयन् निक्षिप्तः । सत्त्वमिदमर्थक्रियाया व्याप्तं साधनं क्रमयौगपद्याभ्यां ते चाक्षणिकाद्विनिवर्तमानेर्थक्रियां स्वव्याप्यां निवर्तयतः । सापि निवर्तमान सत्त्वं । ततस्तीरादर्शिशकुनिन्यायेन क्षणिकत्व एव सत्त्वमवतिष्ठत इति हि प्रमाणांतरं क्रमयौगपद्ययोरर्थक्रियया तस्याश्च सत्त्वेन व्याप्यव्यापकभावस्य सिद्धौ सिद्ध्यति । तस्य वाध्यक्षतः सिद्ध्यसंभवे ऽनुमानांतरादेव सिद्धौ कथमनवस्था न स्यात् ? तत्सिद्धावपि नाक्षणिके क्रमयौगपद्ययोर्निवृत्तिः सिद्धा शश्वदविच्छिन्नात्मन्येवानुभवेऽनेककालवर्तित्वलक्षणस्य क्रमस्योपपत्तेर्यौगपद्यस्य वाविच्छिन्नानेकप्रतिभासलक्षणस्य तत्रैव भावात् सुखसंवेदने प्राच्यदुःखसंवेदनाभावान्नाविच्छिन्नमेकं संवेदनं यदनाद्यनंतकालवर्तितया क्रमवत् स्यादितिचेन्न, सुखदुःखाद्याकाराणामनाद्यविद्योपदर्शितानामेव विच्छेदात् । एतेन नानानीलपीतादिप्रतिभासानां देशविच्छेदाद्युगपत्सकलव्यापिनोनुभवस्याविच्छेदाभावः प्रत्युक्तः, तत्त्वतस्तद्वद्विच्छेदाभावात् । ततो न क्षणिकमद्वयं संवेदनं नाम तस्य व्यापि नित्यस्यैव प्रतीतिसिद्धत्वात् । तदेवास्तु ब्रह्मतत्त्वमित्यपरस्तं प्रत्याह; - यन्न प्रकाशसामान्यं सर्वत्रानुगमात्मकम् । तत्प्रकाशविशेषाणामभावे केन वेद्यते ॥ १४ ॥ केनचिद्विशेषेण शून्यस्य संवेदनस्यानुभवेपि विशेषांतरेणाशून्यत्वान्न सकलविशेषविरहितत्वेन कस्यचित्तदनुभवः खरश्रृंगवत् ॥ नात्र संवेदनं किंचिदनंशं बहिरर्थवत् । प्रत्यक्षं बहिरंत सांशस्यैकस्य वेदनात् ।। १५ ।। यथैव क्षणिकमक्षणिकं वा नानैकं वा बहिर्वस्तु नानंशं तस्य क्षणिकेतरात्मनो नानैकात्मनश्च साक्षात् प्रतिभासनात् तथांतःसंवेदनमपि तदविशेषात् ॥ स्वांशेषु नांशिनो वृत्तौ विकल्पोपात्तदूषणम् । सर्वथार्थातरत्वस्याभावादंशांशिनोरिह || १६ | तादात्म्यपरिणामस्य तयोः सिद्धेः कथंचन । प्रत्यक्षतोनुमानाच्च न प्रतीतिविरुद्धता ॥ १७ ॥ स्वांशेष्वंशिनः प्रत्येकं कात्र्येन वृत्तौ बहुत्वमेकदेशेन सावयवत्वमनवस्था चेति न दूषणं सम्यक्तस्य स्वांशेभ्यो भिन्नस्यानभ्युपगमात् । कथंचित्तादात्म्यपरिणामस्य प्रसिद्धेस्तस्यैव समवायत्वेन साधनात् । न ५ Page #132 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १२३ वांशांशिनोस्तादात्म्यात्तादात्म्ये विरुद्धे प्रत्यक्षतस्तथोपलंभाभावप्रसंगात् । न च तथोपलंभोनुमानेन बाध्यते तस्य तत्साधनत्वेन प्रवृत्तेः । तथाहि-ययोर्न कथंचित्तादात्म्यं तयोर्नीशांशिभावो यथा सह्यविन्ध्ययोः, अंशांशिभावश्चावयवावयविनोधर्मधर्मिणोर्वा खेष्टयोरिति नैकांतभेदः । तदेवं परमार्थतोंशांशिसद्भावात्सूक्तं वस्त्वंश एव तत्र च प्रवर्तमानो नयः । स्वाथैकदेशव्यवसायफललक्षणो नयः प्रमाणमिति कश्चिदाह;यथांशिनि प्रवृत्तस्य ज्ञानस्येष्टा प्रमाणता । तथांशेष्वपि किं न स्यादिति मानात्मको नयः॥१८॥ यथांशो न वस्तु नाप्यवस्तु । किं तर्हि ? वस्त्वंश एवेति मतं, तथांशी न वस्तु नाप्यवस्तु तस्यांशित्वादेव वस्तुनोंशांशिसमूहलक्षणत्वात् । ततोंशेष्विव प्रवर्तमानं ज्ञानमंशिन्यपि नयोस्तु नोचेत् यथा तत्र प्रवृत्तं ज्ञानं प्रमाणं तथांशेष्वपि विशेषाभावात् । तथोपगमे च न प्रमाणादपरो नयोस्तीत्यपरः ॥ तन्नांशिन्यपि निःशेषधर्माणां गुणतागतौ । द्रव्यार्थिकनयस्यैव व्यापारान्मुख्यरूपतः ॥ १९ ॥ धर्मिधर्मसमूहस्य प्राधान्यार्पणया विदः । प्रमाणत्वेन निर्णीतेः प्रमाणादपरो नयः ॥ २० ॥ गुणीभूताखिलांशेशिनि ज्ञानं नय एव तत्र द्रव्यार्थिकस्य व्यापारात् । प्रधानभावार्पितसकलांशे तु प्रमाणमिति नानिष्टापत्तिरंशिनोत्र ज्ञानस्य प्रमाणत्वेनाभ्युपगमात् । ततः प्रमाणादपर एव नयः । नन्वेवमप्रमाणात्मको नयः कथमधिगमोपायः स्यान्मिथ्याज्ञानवदिति च न चोद्यं । यस्मात्नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ॥२१॥ प्रमाणादपरो नयोऽप्रमाणमेवान्यथा व्याघातः सकृदेकस्य प्रमाणत्वाप्रमाणत्वनिषेधासंभवात् । प्रमाणत्वनिषेधेनाप्रमाणत्वविधानादप्रमाणप्रतिषेधेन च प्रमाणत्वविधेर्गत्यंतराभावादिति न चोद्यं, प्रमाणैकदेशस्य गत्यंतरस्य सद्भावात् । न हि तस्य प्रमाणत्वमेव प्रमाणादेकांतेनाभिन्नस्यानिष्टे प्यप्रमाणत्वं भेदस्यैवानुपगमात् देशदेशिनोः कथंचिद्भेदस्य साधनात् । येनात्मना प्रमाणं तदेकदेशस्य भेदस्तेनाप्रमाणत्वं येनाभेदस्तेन प्रमाणत्वमेवं स्यादिति चेत् किमनिष्टं देशतः प्रमाणप्रमाणत्वयोरिष्टत्वात् , सामस्त्येन नयस्य तन्निषेधात् समुद्रैकदेशस्य तथासमुद्रत्वासमुद्रत्वनिषेधवत् । कात्स्येन प्रमाणं नयः संवादकत्वात्वेष्टप्रमाणवदिति चेन्न, अस्यैकदेशेन संवादकत्वात् कास्येन तत्सिद्धेः । कथमेवं प्रत्यक्षादेस्ततः प्रमाणत्वसिद्धिस्तस्यैकदेशेन संवादकत्वादिति चेन्न, कतिपयपर्यायात्मकद्रव्ये तस्य तत्त्वोपगमात् । तथैव सकलादेशिस्वप्रमाणत्वेनाभिधानात् सकलादेशः प्रमाणाधीन इति । न च सकलादेशित्वमेव सत्यत्वं विकलादेशिनो नयस्यासत्यत्वप्रसङ्गात् । न च नयोपि सकलादेशी, विकलादेशो नयाधीन इति वचनात् । नाप्यसत्यः सुनिश्चितासंभवद्बाधत्वात् प्रमाणवत् । ततः सूक्तं सकलादेशि प्रमाणं विकलादेशिनो नयादभ्यर्हितमिति सर्वथा विरोधाभावात् ॥ प्रमाणेन गृहीतस्य वस्तुनोंशेविगानतः । संप्रत्ययनिमित्तत्वात्प्रमाणाचेन्नयोचितः ॥ २२ ।। नाशेषवस्तुनिर्णीतेः प्रमाणादेव कस्यचित् । तादृक् सामर्थ्यशून्यत्वात् सन्नयस्यापि सर्वदा ॥२३॥ नयोभ्यर्हितः प्रमाणात् तद्विषयांशे विप्रतिपत्तौ संप्रत्ययहेतुत्वादिति चेन्न, कस्यचित्प्रमाणादेवाशेषवस्तुनिर्णयात्तद्विषयांशे विप्रतिपत्तेरसंभवान्नयात् संप्रत्ययासिद्धेः । कस्यचित् तत्संभवे नयात्संप्रत्ययसिद्धिरिति चेत् , सकले वस्तुनि विप्रतिपत्तौ प्रमाणात् किं न संप्रत्ययसिद्धिः । सोयं सकलवस्तुविप्रतिपत्तिनिराकरणसमर्थात् प्रमाणाद्वस्त्वेकदेशविप्रतिपत्तिनिरसनसमर्थ सन्नयमभ्यर्हितं ब्रुवाणो न न्यायवादी ॥ __ मतेरवधितो वापि मनःपर्ययतोपि वा । ज्ञातस्यार्थस्य नांशेस्ति नयानां वर्तनं ननु ॥ २४ ॥ निःशेषदेशकालार्थागोचरत्वविनिश्चयात् । तस्येति भाषितं कैश्चियुक्तमेव तथेष्टितः ॥ २५ ॥ Page #133 -------------------------------------------------------------------------- ________________ १२४ तत्त्वार्थश्लोकवार्तिके [सू०६ न हि मत्यवधिमनःपर्ययाणामन्यतमेनापि प्रमाणेन गृहीतस्यार्थस्यांशे नयाः प्रवर्तते तेषां निःशेषदेशकालार्थगोचरत्वात् मत्यादीनां तदगोचरत्वात् । न हि मनोमतिरप्यशेषविषया करणविषये तज्जातीये वा प्रवृत्तेः ॥ - त्रिकालगोचराशेषपदार्थांशेषु वृत्तितः । केवलज्ञानमूलत्वमपि तेषां न युज्यते ॥ २६ ॥ परोक्षाकारतावृत्तेः स्पष्टत्वात् केवलस्य तु । श्रुतमूला नयाः सिद्धा वक्ष्यमाणाः प्रमाणवत्॥२७॥ __ यथैव हि श्रुतं प्रमाणमधिगमजसम्यग्दर्शननिबंधनतत्त्वार्थाधिगमोपायभूतं मत्यवधिमनःपर्यायकेवलात्मकं च वक्ष्यमाणं तथा श्रुतमूला नयाः सिद्धास्तेषां परोक्षाकारतया वृत्तेः । ततः केवलमूला नयास्त्रिकालगोचराशेषपदार्थीशेषु वर्तनादिति न युक्तमुत्पश्यामस्तद्वत्तेषां स्पष्टत्वप्रसंगात् । न हि स्पष्टस्यावधेर्मनःपर्ययस्य वा भेदाः खयमस्पष्टा न युज्यंते श्रुताख्यप्रमाणमूलत्वे तु नयानामस्पष्टावभासित्वेनाविरुद्धानां सूक्तं तेभ्यः प्रमाणस्याभ्यर्हितत्वात् प्राग्वचनम् ।। ननु प्रमाणनयेभ्योधिगमस्याभिन्नत्वान्न तत्र तेषां करणत्वनिर्देशः श्रेयानित्यारेकायामाह;प्रमाणेन नयैश्चापि स्वार्थाकारविनिश्चयः । प्रत्येयोऽधिगमस्तज्ज्ञैस्तत्फलं स्यादभेदभृत् ॥ २८ ॥ तेनेह सूत्रकारस्य वचनं करणं कृतः । सूत्रे यद्धटनां याति तत्प्रमाणनयैरिति ॥ २९ ॥ न हि प्रमाणेन नयैश्चाध्यवसायात्माधिगमः कचित्संभाव्यः क्षणक्षयादावपि तत्प्रसंगात् । व्यवसायजननः खयमध्यवसायात्माप्यधिगमो युक्त इति चेन्न, तस्य तजननविरोधात् । खलक्षणवत् बोधः खयमविकल्पकोपि विकल्पमुपजनयति न पुनरर्थ इति किंकृतो विभागः । पूर्वविकल्पवासनापेक्षादिविकल्पप्रतिभासाद्विकल्पस्योत्पत्तौ कथमर्थात्तादृशानोत्पत्तिः । यथा चाप्रतिभातादर्थात्तदुत्पत्तावतिप्रसंगस्तथा खयमनिश्चितादपि । यदि पुनरर्थदर्शनं तद्विकल्पवासनायाः प्रबोधकत्वाद्विकल्पस्य जनकं तदा क्षणक्षयादौ विकल्पजननप्रसंगस्तत एव तस्य नीलादाविव तत्राप्यविशेषात् । क्षणक्षयादावनभ्यासान्न तत्तद्विकल्पवासनायाः प्रबोधकमिति चेत् , कोयमभ्यासो नाम? बहुशो दर्शनमिति चेन्न, तस्य नीलादाविव तत्राप्यविशेषादभावासिद्धेः । तद्विकल्पोत्पत्तिरभ्यास इति चेत्, तस्य कुतः क्षणक्षयादिदृष्टावभावः ? तद्विकल्पवासनाप्रबोधकत्वाभावादिति चेत् , सोयमन्योन्यसंश्रयः। सिद्धे हि क्षणक्षयादौ दर्शनस्य तद्विकल्पवासनाप्रबोधकत्वाभावेभ्यासाभावस्य सिद्धिस्तत्सिद्धौ च तत्सिद्धिरिति । एतेन नीलादौ दर्शनस्य तद्वासनाप्रबोधकत्वाभ्यासेभ्योऽन्योन्याश्रयो व्याख्यातः । सति तद्वासनाप्रबोधकत्वे तद्विकल्पोत्पत्तिलक्षणोभ्यासस्तत्र च सति तदिति नीलादाविव क्षणक्षयादावपि दर्शनस्यास्याविशेष एव, कचिदभ्यासस्यानभ्यासस्य वा व्यवस्थापयितुमशक्तेः । वस्तुस्वभावान्नीलादावनुभवः पटीयांस्तद्वासनायाः प्रबोधको न तु क्षणक्षयादाविति चेत् , किमिदं तत्रानुभवस्य पटीयस्त्वं ? तद्विकल्पजनकत्वमिति चेत् तदेव कुतः ? तद्वासनाप्रबोधकत्वादिति चेत् , सोयमन्योन्यसंश्रयः । स्पष्टत्वं तु यदि तस्य पटीयस्त्वं तदा क्षणक्षयादावपि समानं । प्रकरणार्थित्वापेक्षो नीलादावनुभवस्तद्वासनायाः प्रबोधक इत्यप्यसारं, क्षणक्षयादावपि तस्याविशेषात् । सत्यपि क्षणक्षयादौ प्रकरणेर्थित्वे च तद्विकल्पवासनाप्रबोधकाभावाच्च नीलादौ न तदपेक्षं दर्शनं तत्प्रबोधकं युक्तं, व्यभिचारात् । नीलादौ दर्शनस्य सामर्थ्य विशेषस्तत्कार्येण विकल्पेनानुमीयमानस्तद्वासनायाः प्रबोधको नाभ्यासादिति चेत् तर्हि सामर्थ्य विशेषोर्थस्यैव साक्षाव्यवसायेनामीयमानो व्यवसायस्य जनकोस्तु किमदृष्टपरिकल्पनया ? यतश्च सामर्थ्य विशेषाद्दर्शनं व्यवसायस्य जनकं तद्वासनायाश्च प्रबोधकं तत एवात्मा तज्जनकस्तत्प्रबोधकश्चास्तु । तथा च नान्येव विवादो दर्शनमात्मेति Page #134 -------------------------------------------------------------------------- ________________ 9 प्रथमोऽध्यायः । १२५ नार्थे तत्तदावरण विच्छेदविशिष्टस्यात्मन एवेंद्रियादिबहिरंगकारणापेक्षस्य यथासंभवं व्यवसायजनकत्वेने - ष्टत्वात् तद्व्यतिरेकेण दर्शनस्याप्रतीतिकत्वाच्चेति निवेदयिष्यते प्रत्यक्षप्रकरणे । ततो नाध्यवसायात्मा प्रत्येयोधिगमोर्थानां सर्वथानुपपन्नत्वात् । पुरुषस्य स्वव्यवसाय एवाधिगमो नार्थव्यवसायस्तद्व्यतिरेकेणार्थस्याभावादिति केचिद्वेदांतवादिनः, तेपि न तात्त्विकाः । पुरुषाद्भिन्नस्याजीवार्थस्य जीवादिसूत्रे साधितत्वात् तयवसायस्यापि घटनात् । अर्थस्यैव व्यवसायो न स्वस्य स्वात्मनि क्रियाविरोधादित्यपरः । सोपि यत्किंचनभाषी, खात्मन्येव क्रियायाः प्रतीतेः । खात्मा हि क्रियायाः स्वरूपं यदि तदा कथं तत्र तद्विरोधः सर्वस्य वस्तुनः स्वरूपे विरोधानुषक्तेर्निः खरूपत्वप्रसंगात् । क्रियावदात्मा खात्मा चेत्, तत्र तद्विरोधे क्रियाया निराश्रयत्वं सर्वद्रव्यस्य च निष्क्रियत्वमुपढौकेत । न चैवं । कर्मस्थायाः क्रियायाः कर्मणि कर्तृस्थायाः कर्तरि प्रतीयमानत्वात् । यदि पुनः ज्ञानक्रियायाः कर्तृसमवायिन्याः स्वात्मनि कर्मतया विरोधस्ततोन्यत्रैव कर्मत्वदर्शनादिति मतं, तदा ज्ञानेनार्थमहं जानामीत्यत्र ज्ञानस्य करणतयापि विरोधः स्यात् क्रियातोन्यस्य करणत्वदर्शनात् । ज्ञानक्रियायाः करणज्ञानस्य चान्यत्वादविरोध इति चेत्, किं पुनः करणज्ञानं का वा ज्ञानक्रिया ? विशेषणज्ञानं करणं विशेष्यज्ञानं तत्फलत्वात् ज्ञानक्रियेति चेत्, स्यादेवं यदि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतिरुत्पद्येत । न च कस्यचि - दुत्पद्यते । विशेषणज्ञानेन विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामीत्यनुभवात् । करणत्वेन ज्ञानक्रियायाः प्रतीयमानत्वादविरोधे कर्मत्वेनाप्यत एवाविरोधोस्तु विशेषाभावात् । चक्षुरादिकरणं ज्ञानक्रियातो भिन्नमेवेति चेन्न, ज्ञानेनार्थं जानामीत्यपि प्रतीतेः । ज्ञायतेऽनेनेति ज्ञानं चक्षुराद्येव ज्ञानक्रियायां साधकतमं करणमिति चेत् न, तस्य साधकतमत्वनिराकरणात् । तत्र ज्ञानस्यैव साधकतमत्वोपपत्तेः । ननु यदेवार्थस्य ज्ञानक्रियायां ज्ञानं करणं सैव ज्ञानक्रिया, तत्र कथं क्रियाकरणव्यवहारः प्रतीतिकः स्याद्विरोधादिति चेन्न, कथंचिद्भेदात् । प्रमातुरात्मनो हि वस्तुपरिच्छित्तौ साधकतमत्वेन व्याप्तं रूपं करणं, निर्व्यापारं तु क्रियोच्यते, खातंत्र्येण पुनर्व्याप्रियमाणः कर्तात्मेति निर्णीतप्रायं । तेन ज्ञानात्मक एवात्मा ज्ञानात्मनार्थं जानातीति कर्तृकरणक्रियाविकल्पः प्रतीतिसिद्ध एव । तद्वत्तत्र कर्मव्यवहारोपि ज्ञानात्मा आत्मात्मानमात्मना जानातीति घटते । सर्वथा कर्तृकरणकर्मक्रियानामभेदानभ्युपगमात्, तासां कर्तृत्वादिशक्तिनिमित्तत्वात् कथंचिदभेदसिद्धेः । ततो ज्ञानं येनात्मनार्थं जानाति तेनैव खमिति वदतां खात्मनि क्रियाविरोध एव, परिच्छेद्यस्य रूपस्य सर्वथा परिच्छेद कखरूपादभिन्नस्योपगतेश्च । कथंचित्तद्भेदवादिनां तु नायं दोषः । ननु च येनात्मना ज्ञानमात्मानं व्यवस्यति येन चार्थ तौ यदि ततोनन्यौ तदा तावेव न. ज्ञानं तस्य तत्र प्रवेशात् खरूपवत् ज्ञानमेव वा तयोस्तत्रानुप्रवेशात् । तथाच न खार्थव्यवसायः । यदि पुनस्तौ ततोन्यौ, तदा स्वसंवेद्यौ खाश्रयज्ञानवेद्यौ वा ? प्रथमपक्षे खसंविदितज्ञानत्रयप्रसंगः तत्र च प्रत्येकं स्वार्थव्यवसायात्मकत्वे स एव पर्यनुयोगोऽनवस्था च । द्वितीयपक्षेपि स्वार्थ व्यवसाय हेतुभूतयोः स्वस्वभावयोर्ज्ञानं यदि व्यवसायात्मकं तदा स एव दोषोऽन्यथा प्रमाणत्वाघटनात् । ततो न स्वार्थव्यवसायः संभवतीत्येकांतवादिनामुपालंभः स्याद्वादिनां न, यथाप्रतीति तदभ्युपगमात् स्वार्थव्यवसायखभावद्वयात् कथंचिदभिन्नस्यैकस्य ज्ञानस्य प्रतिपत्तेः । सर्वथा ततस्तस्य भेदाभेदयोरसंभवात्, तत्पक्षभाविदूषणस्य निर्विषयत्वाद्दूषणाभासतोपपत्तेः । परिकल्पितयोर्भेदाभेदैकांतयोस्तद्दूषणस्य प्रवृत्तौ सर्वत्र प्रवृत्ति - प्रसंगात् कस्यचिदिष्टतत्त्वव्यवस्थानुपपत्तेः । संवेदनमात्रमपि हि स्वरूपं संवेदयमानं येनात्मना संवेदयते तस्य हेतोर्भेदाभेदैकांत कल्पनायां यथोपवर्णितदूषणमवतरति किं पुनरन्यत्र । यदि पुनः संवेदनं संवेदनमेव, तस्य स्वरूपे वेद्यवेदकभावात् संवृत्या तत्स्वरूपं संवेदयत इति वचनं तदा खार्थव्यवसायः । 7 Page #135 -------------------------------------------------------------------------- ________________ १२६ तत्त्वार्थश्लोकवार्तिके [सू० ६ स्वार्थव्यवसाय एव स्वस्यार्थस्य च व्यवसाय इत्ययोद्धारकल्पनया नयव्यवहारात् । ततो नासंभवः । स्वार्थविनिश्चयस्य खसंवेदनेर्थव्यवसायात्सत्त्वादव्याप्तिरिति चेन्न, ज्ञानस्वरूपस्यैवार्थत्वात् तस्यार्यमाणत्वादन्यथा बहिरर्थस्याप्यनर्थत्वप्रसंगात् । ननु स्वरूपस्य बाह्यस्य चार्थत्वेऽर्थव्यवसाय इत्यस्तु, नार्थः स्वग्रहणेन । सत्यं । केवलं खस्मै योग्योर्थः खात्मा परात्मा तदुभयं वा स्वार्थ इत्यपि व्याख्याने तद्ग्रहणस्य सार्थकत्वान्न दोषः । स्वरूपलक्षणेर्थे व्यवसायस्याप्रमाणेपि भावादतिव्याप्तिरितिचेत् न, तत्र सर्ववेदनस्य प्रमाणत्वो- ' पगमात् । न च प्रमाणत्वाप्रमाणत्वयोरेकत्र विरोधः, संवादासंवाददर्शनात्तथा व्यवस्थानात् । सर्वत्र प्रमाणेतरत्वयोस्तावन्मात्रायत्तत्वादिति वक्ष्यते । चक्षुर्दर्शनादौ किंचिदिति खार्थविनिश्चयस्य भावादतिव्याप्तिरित्यपि न शंकनीयं, आकारग्रहणात् । न हि तत्र स्वार्थाकारस्य विनिश्चयोस्ति निराकारस्य सन्मात्रस्य तेनालोचनात् । विपर्ययज्ञाने कस्यचित्कदाचित् क्वचित्स्वार्थाकारनिश्चयस्य भावादपि नातिव्याप्तिर्विग्रहणात् । विशेषेण देशकालनरांतरापेक्षबाधकाभावरूपेण निश्चयो हि विनिश्चयः, स च विपर्ययज्ञाने नास्तीति निरवद्यः खार्थाकारविनिश्चयोधिगमः कार्यतः प्रमाणस्य देशतो नयानामभिन्नफलत्वेन कथंचिप्रत्येयः प्रमाणनयतत्फलविद्भिः । एवं च प्रमाणनयैरधिगम इत्यत्र सूत्रे प्रमाणनयानां यत्करणत्वेन वचनं सूत्रकारस्य तद्धनां यात्येव तेभ्योधिगमस्य फलस्य कथंचिद्भेदसिद्धेः ॥ सारूप्यस्य प्रमाणस्य स्वभावोधिगमः फलम् । तद्भेदः कल्पनामात्रादिति केचित्प्रपेदिरे ॥ ३० ॥ संवेदनस्यार्थेन सारूप्यं प्रमाणं तत्र ग्राहकतया व्याप्रियमाणत्वात् पुत्रस्य पित्रा सारूप्यवत् । पितृस्वरूपो हि पुत्रः पितृरूपं गृह्णातीति लोकोभिमन्यते न च तत्त्वतस्तस्य ग्राहको नीरुपत्वप्रसंगात् । तद्वदर्थसरूपसंवेदनमर्थं गृह्णातीति व्यवहरतीति तत् तस्य ग्राहकत्वात् प्रमाणमर्थाधिगतिः फलं तस्य तदर्थत्वात् । न च संवेदनादर्थसारूप्यमन्यदेव स्वसंवेद्यत्वादधिगतिवत् । न ह्यधिगतिः संवेदनादन्या तस्यानधिगमप्रसंगात् । ततस्तदेव प्रमाणं फलं न पुनः प्रमाणात्तत्फलं भिन्नमन्यत्र कल्पनामात्रादिति केचित् ॥ तन्न युक्तं निरंशायाः संवित्तेर्द्वयरूपतां । प्रतिकल्पयतां हेतुविशेषासंभवित्वतः ॥ ३१ ॥ न हि निरंशां संवित्तिं खयमुपेत्य प्रमाणफलद्वयरूपतां तत्त्वप्रविभागेन कल्पयतो युक्तिवादिनस्तथाकल्पने हेतु विशेषस्यासंभवित्वात् ॥ " विना हेतुविशेषेण नान्यव्यावृत्तिमात्रतः । कल्पितोर्थोर्थसंसिद्ध्यै सर्वथातिप्रसंगतः ॥ ३२ ॥ न हि निमित्तविशेषाद्विना कल्पितं सारूप्यमन्यद्वा किंचिदर्थं साधयति, मनोराज्यादेरपि तथानुषंगात् । नाप्यसारूप्यव्यावृत्तितः सारूप्यं अनधिगतिव्यावृत्तितोधिगतिः संवेदनेनंशेपि वस्तुतो व्यवहियत इति युक्तं, दरिद्रेप्यराज्यव्यावृत्त्या राज्यं अनिंद्रत्वव्यावृत्त्या इंद्रत्वमित्यादिव्यवहारानुषंगात् । यदि पुनस्तत्र राज्यादेरभावात्तद्व्यावृत्तिरसिद्धा तदा संवेदनस्य सारूप्यादिशून्यत्वात् कथमसारूप्यादिव्यावृत्तिः ? यतस्तन्निबंधनं सारूप्यकल्पनं तस्यात्र स्यात् । ततो न साकारो बोधः प्रमाणम् ॥ प्रतिकर्मव्यवस्थानस्यान्यथानुपपत्तितः । साकारस्य च बोधस्य प्रमाणत्वापवर्णनम् ॥ ३३ ॥ क्षणक्षयादिरूपस्य व्यवस्थापकता न किम् । तेन तस्य स्वरूपत्वाद्विशेषांतरहा नितः ॥ ३४ ॥ यथैव हि नीलवेदनं नीलस्याकारं बिभर्ति तथा क्षणक्षयादेरपि तदभिन्नत्वाद्विशेषांतरस्य चाभावात् । ततो नीलाकारत्वान्नील वेदनस्य नीलव्यवस्थापकत्वे क्षणक्षयादिव्यवस्थापकतापत्तिरन्यथा तदाकारेण व्यभिचारात् न तदाकारत्वात्तद्व्यवस्थापकत्वं साध्यते । किं तर्हि तद्व्यवस्थापकत्वात्तदाकारत्वमिति चेन्न, स्वरूपव्यवस्थापकत्वेनानेकांतात् ॥ Page #136 -------------------------------------------------------------------------- ________________ " प्रथमोऽध्यायः । १२७ प्रमाणं योग्यतामात्रात्स्वरूपमधिगच्छति । यथा तथार्थमित्यस्तु प्रतीत्यनतिलंघनात् ॥ ३५ ॥ स्वरूपेपि च सारूप्यान्नाधिगत्युपवर्णनम् । युक्तं तस्य द्विनिष्ठत्वात् कल्पितस्याप्यसंभवात् ||३६|| कल्पने वानवस्थानात् कुतः संवित्तिसंभवः । स्वार्थेन घटयत्येनां प्रमाणे खावृतिक्षयात् ॥ ३७ ॥ नायं दोषस्ततो नैव सारूप्यस्य प्रमाणता । नाभिन्नोधिगमस्तस्मादेकांतेनेति निश्वयः ॥ ३८ ॥ स्वरूपे प्रतिनियमव्यवस्थापकत्वं संवेदनस्य सारूप्यापायेपि ब्रुवाणः कथमर्थे सारूप्यं ततः साधयेत् । निराकारस्य बोधस्य केनचिदर्थेन प्रत्यासत्तिविकर्षाभावात् सर्वैकवेदनापत्तिरित्ययुक्तं, स्वरूपसंवेदनस्यापि तथा प्रसंगात्। ननु च संवेदनमसंवेदनाद्भिन्नं खकारणात्तदुत्पन्नं स्वरूपप्रकाशकं युक्तमेव अन्यथा तस्यासंवेदनत्वप्रसक्तेरिति चेत्, तर्ह्यर्थसंवेदनमप्यनर्थसंवेदनाद्भिन्नं खहेतोरुपजातमर्थप्रकाशकमस्तु तस्यान्यथानर्थसंवेदनत्वापत्तिरिति समानं । सर्वस्यार्थस्य प्रकाशकं कस्मान्नेति चेत्, खसंवेदनमपि पररूपस्य कस्मान्न प्रकाशकं ? स्वरूपप्रकाशने योग्यतासद्भावात् । पररूपप्रकाशने तु तदभावादिति चेत्, प्रतिनियतार्थप्रकाशने सर्वार्थप्रकाशनाभावात् समः परिहारः । प्रतीत्यनतिलंघनस्याप्यविशेषात् संवृत्त्या सारूप्येपि संवेदनस्य सारूप्यादधिगतिरित्ययुक्तं, तस्य द्विष्ठत्वादेकत्रासंभवात् । ग्राह्यस्य स्वरूपस्य ग्राहकात् खरूपाद्भेदकल्पनया तस्य तेन सारूप्यकल्पनाददोष इति चेत् । तदपि ग्राह्यं ग्राहकं च स्वरूपं । यदि स्वसंविदितं तदान्यग्राह्यग्राहकस्वरूपकल्पने प्रत्येकमनवस्था । तदखसंविदितं चेत् कथं संवेदनस्वरूपमिति यत्किंचिदेतत् । न चायं दोषः समानः संवित्तिं खार्थेन घटयति सति प्रमाणे वावरणक्षयात् क्षयोपशमाद्वा तथास्खभावत्वात् प्रमाणस्य । तन्न सारूप्यमस्य प्रमाणमधिगतिः फलमेकांततोनर्थातरं तत इति निश्चितम् ॥ भिन्न एवेति चायुक्तं खयमज्ञानताशितः । प्रमाणस्य घटस्यैव परत्वात् स्वार्थनिश्चयात् ॥ ३९ ॥ यत्स्वार्थाधिगमादत्यंतं भिन्नं तदज्ञानमेव यथा घटादि । तथा च कस्यचित्प्रमाणं न वाज्ञानस्य प्रमाणता युक्ता ॥ चक्षुरादि प्रमाणं चेदचेतनमपीष्यते । न साधकतमत्वस्याभावात्तस्याचितः सदा ॥ ४० ॥ चितस्तु भावनेत्रादेः प्रमाणत्वं न वार्यते । तत्साधकतमत्वस्य कथंचिदुपपत्तितः ॥ ४१ ॥ साधकतमत्वं प्रमाणत्वेन व्याप्तं तदर्थपरिच्छित्तौ चक्षुरादेरुपलभ्यमानं प्रमाणत्वं साधयतीति यदी - प्यते तदा तद्रव्यचक्षुरादि भावचक्षुरादि वा ? न तावद्रव्यनेत्रादि तस्य साधकतमत्वासिद्धेः । न हि तत्साधकतमं स्वार्थपरिच्छित्तावचेतनत्वाद्विषयवत् । यत्तु साधकतमं तच्चेतनं दृष्टं यथा विशेषणज्ञानं विशेप्यपरिच्छित्तौ । न च चेतनं पौगलिकं द्रव्यनयनादीति न साधकतमं यतः प्रमाणं सिद्ध्येत् । छिदौ परश्वादिना साधकतमेन व्यभिचार इति चेन्न, स्वार्थपरिच्छित्तौ साधकतमत्वाभावस्य साध्यत्वात् । न हि सर्वत्र साधकतमत्वं प्रमाणत्वेन व्याप्तं परश्वादेरपि प्रमाणत्वप्रसंगात् । भावनेत्रादिचेतनं प्रमाणमिति तु नानिष्टं तस्य कथंचित्साधकतमत्वोपपत्तेः, आत्मोपयोगस्य स्वार्थप्रमितौ साधकतमत्वात्तस्य भावेंद्रियत्वोपगमात् ॥ हानादिवेदनं भिन्नं फलमिष्टं प्रमाणतः । तदभिन्नं पुनः स्वार्थाज्ञानव्यावर्तनं समम् ॥ ४२ ॥ स्याद्वादाश्रयणे युक्तमेतदप्यन्यथा न तु । हानादिवेदनस्यापि प्रमाणादिभिदेक्षणात् ॥ ४३ ॥ हानोपादानानपेक्ष्यं ज्ञानं व्यवहितं फलं प्रमाणस्याज्ञानव्यावृत्तिरव्यवहितमित्यपि स्याद्वादाश्रयणे युक्तमन्यथा तदयोगात्, हानादिज्ञानस्यापि प्रमाणात् कथंचिदव्यवधानोपलब्धेः सर्वथा व्यवहितत्वासिद्धेः । तथाहि Page #137 -------------------------------------------------------------------------- ________________ १२८ तत्त्वार्थश्लोकवार्तिके [सू० ६ येनैवार्थो मया ज्ञातस्तेनैव त्यज्यतेधुना । गृह्येतोपेक्षते चेति तदैक्यं केन नेष्यते ॥ ४४ ॥ भेदैकां पुनर्न स्यात् प्रमाणफलता गतिः । संतानांतरवत्स्वेष्टेप्येकत्रात्मनि संविदोः ॥ ४५ ॥ न ह्येन प्रमितेर्थे परस्य हानादिवेदनं तत्प्रमाणफलं युक्तमतिप्रसंगात् । यस्य यत्र प्रमाणं ज्ञानं तस्यैव तत्र फलज्ञानमित्युपगमे सिद्धं प्रमाणफलयोरेकप्रमात्रात्मकयोरेकत्वं । न चैवं तयोर्भेदप्रतिभासो विरुध्यते विशेषापेक्षया तस्य व्यवस्थानात् ॥ पर्यायार्थार्पणाद्भेदो द्रव्यार्थादभिदास्तु नः । प्रमाणफलयोः साक्षादसाक्षादपि तत्त्वतः ॥ ४६ ॥ साक्षात्प्रमाणफलयोरभेद एवेत्ययुक्तं पर्यायशक्तिभेदमंतरेण करणसाधनस्य भावसाधनस्य च फलस्यानुपपत्तेः । सर्वथैक्ये तयोरेकसाधनत्वापत्तेः करणाद्यनेककारकस्यैकत्रापि कल्पनामात्रादुपपत्तिरिति चेन्न, तत्त्वतः संवेदनस्याकारकत्वानुषक्तेः । न चाकारकं वस्तु कूटस्थवत् तयोरसाक्षाद्भेद एवेत्यप्यसंगतं, तदेको पादानत्वाभावप्रसंगात् । न च तयोर्भिन्नोपादानता युक्ता संतानांतरवदनुसंधानविरोधात् । यदा पुनरव्यवहितं व्यवहितं च फलं प्रमाणाद्द्रव्यार्थादभिन्नं पर्यायार्थाद्भिन्नमिष्यते तदा न कश्चिद्विरोधस्तथाप्रतीतेः । तत्प्रमाणान्नयाच्च स्यात्तत्त्वस्याधिगमोपरः । स स्वार्थश्च परार्थश्व ज्ञानशब्दात्मकात्ततः ॥ ४७ ॥ ज्ञानं मत्यादिभेदेन वक्ष्यमाणं प्रपंचतः । शब्दस्तु सप्तधा वृत्तो ज्ञेयो विधिनिषेधगः ॥ ४८ ॥ मत्यादिज्ञानं वक्ष्यमाणं तदात्मकं प्रमाणं स्वार्थं शब्दात्मकं परार्थ, श्रुतविषयैकदेशज्ञानं नयो वक्ष्यमाणः स खार्थः शब्दात्मकः परार्थः कार्त्स्यतो देशतश्च तत्त्वार्थाधिगमः फलात्मा स च प्रमाणान्नयाच्च कथंचिद्भिन्न इति सूक्तं प्रमाणनयपूर्वकः । शब्दो विधिप्रधान एवेत्ययुक्तं, प्रतिषेधस्य शब्दादप्रतिपत्तिप्रसंगात् । तस्य गुणभावेनैव ततः प्रतिपत्तिरित्यप्यसारं, सर्वत्र सर्वदा सर्वथा प्रधानभावेनाप्रतिपन्नस्य गुणभावानुपपत्तेः । खरूपेण मुख्यतः प्रतिपन्नस्य क्वचिद्विशेषणत्वादिदर्शनात् प्रतिषेधप्रधान एव शब्द इत्यप्यनेनापास्तं । क्रमादुभयप्रधान एवं शब्द इत्यपि न साधीयः, तस्यैकैकप्रधानत्वप्रतीतेरप्यबाधितत्वात् । सकृद्विधिनिषेधात्मनोर्थस्यावाचक एवेति च मिथ्या, तस्यावाच्यशब्देनाप्यवाच्यत्वप्रसक्तेः । विध्यात्मनोर्थस्य वाचक एवोभयात्मनो युगपदवाचक एवेत्येकांतोपि न युक्तः, प्रतिषेधात्मनः उभयात्मनश्च सहार्थस्य वाचकत्वावाचकत्वाभ्यां शब्दस्य प्रतीतेः । इत्थमेवेत्यप्यसंगतमन्यथापि संप्रत्ययात् । क्रमाक्रमाभ्यामुभयात्मनोर्थस्य वाचकश्चावाचकश्च नान्यथेत्यपि प्रतीतिविरुद्धं विधिमात्रादिप्रधानतयापि तस्य प्रसिद्धेरिति सप्तधा प्रवृत्तोर्थे शब्दः प्रतिपत्तव्यो विधिप्रतिषेधविकल्पात् ॥ तत्र प्रश्नवशात्कश्चिद्विधौ शब्दः प्रवर्तते । स्यादस्त्येवाखिलं यद्वत्स्वरूपादिचतुष्टयात् ॥ ४९ ॥ स्यान्नास्त्येव विपर्यासादिति कश्चिन्निषेधने । स्याद्वैतमेव तद्वैतादित्यस्तित्वनिषेधयोः ॥ ५० ॥ क्रमेण यौगपद्याद्वा स्यादवक्तव्यमेव तत् । स्यादस्त्यवाच्यमेवेति यथोचितनयार्पणात् ॥ ५१ ॥ स्यान्नास्त्यवाच्यमेवेति तत एव निगद्यते । स्याद्वयावाच्यमेवेति सप्तभंग्य विरोधतः ॥ ५२ ॥ न ह्येकस्मिन् वस्तुनि प्रश्नवशाद्विधिनिषेधयोर्व्यस्तयोः समस्तयोश्च कल्पनयोः सप्तधा वचनमार्गो विरुध्यते, तत्र तथाविधयोस्तयोः प्रतीतिसिद्धत्वादेकांतमंतरेण वस्तुत्वानुपपत्तेरसंभवात् । स्खलक्षणे तयोरप्रतीतेर्विकल्पाकारतया संवेदनान्न प्रतीतिसिद्धमिति चेत्, किं पुनर्व्यस्त समस्ताभ्यां विधिप्रतिषेधाभ्यां शून्यं खलक्षणमुपलक्ष्यते कदाचित् संहृतसकल विकल्पावस्थायामुपलक्ष्यत एव तदनंतरं व्युच्छित्तचित्तदशायामिदमित्यमस्त्यन्यथा नास्तीत्यादिविधिप्रतिषेधधर्म विशेषप्रतीतेः पूर्वं तथाविध Page #138 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १२९ वासनोपजनितविकल्पबुद्धौ प्रवृत्तेः । केवलं तान् धर्मविशेषांस्तत्र प्रतिभासमानानपि कुतश्चिद्विभ्रमहेतोः खलक्षणेप्यारोपयंस्तदपि तद्धर्मात्मकं व्यवहारी मन्यते । वस्तुतस्तद्धर्माणामसंभवात् । संभवे वा प्रत्यक्षे प्रतिभासप्रसंगादेकत्रापि नानाबुद्धीनां निवारयितुमशक्तेरिति केचित् । तेपि पर्यनुयोज्याः । कुतः ? सकलधर्मविकलं स्खलक्षणमभिमतदशायां प्रतिभासमानं विनिश्चितमिति । प्रत्यक्षत एवेति चेन्न, तस्या, निश्चायकत्वात् । निश्चयजनकत्वान्निश्चायकमेव तदिति चेत् , तस्तित्वादिधर्मनिश्चयजननात्तन्निश्चयोपि प्रत्यक्षोस्तु तस्य तन्निश्चायकत्वोपपत्तेः अन्यथा स्खलक्षणनिश्चायकत्वस्य विरोधात् । यदि पुनरस्तित्वादिधर्मवासनावशात्तद्धर्मनिश्चयस्योत्पत्तेर्न प्रत्यक्षं तन्निश्चयस्य जनकमिति मतं तदा खलक्षणं शुद्धं प्रतिभातमिति निश्चयस्यापि स्खलक्षणवासनाबलादुदयान्न तत्तस्य जनकं स्यात् । खलक्षणेनुभवनाभावे निश्चयायोगो न पुनरस्तित्वादिधर्मेष्विति स्वरुचिप्रकाशमानं श्रुतिमात्रात्तद्धर्मनिश्चयस्योत्पत्तौ स्खलक्षणनिर्णयस्यापि तत एवोत्पत्तिरस्तु । तथा च न वस्तुतः खलक्षणस्य सिद्धिस्तद्धर्मवत् खलक्षणस्य तन्निश्चयजननासमर्थादपि प्रत्यक्षासिद्धौ तद्धर्माणामपि तथाविधादेवाध्यक्षात् सिद्धिः स्यात् । प्रत्यक्षे खलक्षणमेव प्रतिभाति न तु कियंतो धर्मा इत्ययुक्तं, सत्त्वादिधर्माक्रांतस्यैव वस्तुनः प्रतिभासनात् । प्रत्यक्षादुत्तरकालमनिश्चिताः कथं प्रतिभासंते नाम तद्धर्मा इति चेत् , खलक्षणं कथं ? स्खलक्षणत्वेन सामान्येन रूपेण निश्चितमेव तत् प्रत्यक्षपृष्टभाविना निश्चयेनेति चेत् , तद्धर्माः कथं सामान्येनानिश्चिताः समानाकारस्यावस्तुत्वात् । तेन निश्चिता न ते वास्तवाः स्युरितिचेत् स्खलक्षणं कथं तेन निश्चीयमानं वस्तु सत् । तथा तदवस्त्वेवेतिचेत् यथा न निश्चीयते तथा वस्तु तदित्यायातं । तच्चानुपपन्नं । पुरुषाद्यद्वैतवत् खलक्षणमेव वस्तु सत् खार्थक्रियानिमित्तत्वान्नात्माद्यद्वैतमित्यपि न सत्यं, सत्त्वादिधर्माणामभावे तस्य तन्निमित्तत्वासिद्धेः खर)गादिवत् सर्वत्र सर्वथैकांतेप्यक्रियानिमित्तत्वस्य निराकृतत्वाच्च । बहिरंतर्वानेकांतात्मन्येव तस्य समर्थनात् क्षणिकखलक्षणस्य तन्निमित्तत्वमंगीकृत्याशक्यनिश्चयस्यापि धर्माणां तत्प्रतिक्षेपे तान्यप्यंगीकृत्य स्खलक्षणे तत्प्रतिक्षेपस्य कर्तुं सुशकत्वात् । तथाहि-सत्त्वादयो धर्मा एवार्थक्रियाकारिणः संहृतसकलविकल्पावस्थायामुपलक्ष्यंते न खलक्षणं तस्य खवासनाप्रबोधाद्विकल्पबुद्धौ प्रतिभासनात् । केवलं तत्रावभासमानमपि तद्धर्मेध्यारोपयन् कुतश्चिद्विभ्रमादर्थक्रियानिमित्तमिव जनोनुमन्यते परमार्थतस्तस्यासंभवात् । संभवेवाध्यक्षेऽवभासानुषंगात् चित्रसंविदां सकृदपनेतुमशक्तेः । खलक्षणस्य वस्तुतोसत्त्वे कस्यायत्ताः सत्त्वादयो धर्मा इति चेत् तेषां परमार्थतोसत्त्वे कस्य खलक्षणमाश्रय इति समः पर्यनुयोगः । खरूपस्यैवेति चेत् तर्हि धर्माः स्वरूपायत्ता एव संतु खलक्षणमनिर्देश्यं वस्य परस्य वाश्रयत्वेनान्यथा वा निर्देष्टुमशक्यत्वादिति चेत् तत एव धर्मास्तथा भवंतु विरोधाभावात् । स्याद्वादिनां शुद्धद्रव्यस्येवार्थपर्यायाणामनिर्दिश्यत्वोपगमात् । यथा च व्यंजनपर्यायाणां सदृशपरिणामलक्षणानां निर्देश्यत्वं तैरिष्टं तथा द्रव्यस्याप्यशुद्धस्येति नैकांततः किंचिदनिर्देश्यं निर्देश्यं वा कुतः । समानेतरपरिणामा धर्मा इति चेत् स्खलक्षणानि कुतः? तथा खकारणादुत्पत्तेरिति चेत् तुल्यमितरत्र । खलक्षणान्येककार्यकरणाकरणाभ्यां समानेतररूपाणीत्ययुक्तं, केषांचिदेककार्यकारिणामपि विसदृशत्वेक्षणात् कथमन्यथेंद्रियविषयमनस्काराणां गडूच्यादीनां च ज्ञानादेज्वरोपशमनादेश्चैककार्यस्य करणं भेदे खभावत एवोदाहरणार्ह । चित्रकाष्ठकर्माद्यनेककार्यकारिणामपि मनुष्याणां समानत्वदर्शनात् समान इति प्रतीतेरन्यथानुपपत्तेः । समानासमानकार्यकरणाद्भावानां तथाभाव इति चेत् कुतस्तत्कायोणां तथा भावः ? समानेतरखकार्यकरणादिति चेत् , स एव पर्यनुयोगोनवस्था च । तथोत्पत्तिरिति चेत् सर्वभावानां तत एव तथाभावोस्तु । समानेतरकारणत्वाचेषां तथाभाव इत्यप्यनेनापास्तं, समानेतरपरि १७ . Page #139 -------------------------------------------------------------------------- ________________ १३० [सू० ६ णामयोगादर्थास्तथेत्यप्यसारं, तत्परिणामानामपरथा परिणामयोगात् तथाभावेनवस्थितेः । खतस्तु तथात्वेर्थानामपि व्यर्थस्तथापरिणामयोगः, समानेतराकारौ विकल्पनिर्भासिनावेव स्खलक्षणेष्वध्यारोप्येते न तु वास्तवावित्यप्ययुक्तं तयोस्तत्र स्पष्टमवभासनात् तद्विकल्पानां तेषां जातुचिदप्रतिपत्तेरिति । तथा परिणतानामेव स्वलक्षणानां तथात्वसिद्धिरप्रतिबंधा तद्वद्धर्माणामस्तित्वादीनामपीति परमार्थत एव समानाकाराः पर्यायाः शब्दैर्निर्देश्याः पर्यायिवत् । सूक्ष्मास्त्वर्थपर्यायाः केचिदत्यंतासमानाकारा न तैर्नि - देश्याः इति निरवद्यं दर्शनं न पुनर्विकल्पप्रतिभासिनोर्विकल्पात्मन एव समानाकाराः शब्दैरभिधेयाः । बाह्यार्थः सर्वथानभिधेय इत्येकांतः प्रतीतिविरोधात् । प्रतिपादयित्रा य एवोद्धृत्य कुतश्चिज्जात्यंतरादर्थात्वयमधिगत्य धर्मी धर्मो वा शब्देन निर्दिष्टः स एव मया प्रतिपन्न इति व्यवहारस्या विसंवादिनः सुप्रसिद्धत्वाच्च । तद्भांतत्वव्यवस्थापनोपायापायात् । नन्वेकत्र वस्तुन्यनंतानां धर्माणामभिलापयोग्याना - मुपगमादनंता एवं वचनमार्गाः स्याद्वादिनां भवेयुः न पुनः सप्तैव वाच्येयत्तात्वात् वाचकेयत्तायाः । ततो विरुद्वैव सप्तभंगीति चेत् न, विधीयमाननिषिध्यमानधर्मविकल्पापेक्षया तदविरोधात् " प्रतिपर्यायं सप्तभंगी वस्तुनि” इति वचनात् तथानंताः सप्तभंग्यो भवेयुरित्यपि नानिष्टं, पूर्वाचार्यैरस्तित्व नास्तित्वविकल्पात्सप्तभंगीमुदाहृत्य “एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भंगिनीमेनां नयैर्नयविशारद" इत्यतिदेशवचनात् तदनंतत्वस्याप्रतिषेधात् । ननु च प्रतिपर्यायमेक एव भंगः स्याद्वचनस्य न तु सप्तभंगी तस्य सप्तधा वक्तुमशक्तेः । पर्यायशब्दैस्तु तस्याभिधाने कथं तन्नियमः सहस्रभंग्या अपि तथा निषेद्धुमशक्तेरिति चेत् नैतत्सारं, प्रश्नवशादिति वचनात् । तस्य सप्तधा प्रवृत्तौ तत्प्रतिवचनस्य सप्तविधवोपपत्तेः प्रश्नस्य तु सप्तधा प्रवृत्तिः वस्तुन्येकस्य पर्यायस्याभिधाने पर्यायांतराणामाक्षेपसिद्धेः । कुतस्तदाक्षेप इति चेत् तस्य तन्नांतरीयकत्वात् । यथैव हि क्वचिदस्तित्वस्य जिज्ञासायां प्रश्नः प्रवर्तते तथा तन्नांतरीयके नास्तित्वेपि क्रमार्पितोभयरूपत्वादौ चेति जिज्ञासायाः सप्तविधत्वात् प्रश्नसप्तविधत्वं ततो वचन सप्त विधत्वं । क्वचिदस्तित्वस्य नास्तित्वादिधर्मषटुनांतरीयकत्वासिद्धेस्तज्जिज्ञासायाः सप्तविधत्वमयुक्तमिति चेन्न, तस्य युक्तिसिद्धत्वात् । तथाहि — धर्मिण्येकत्रास्तित्वं प्रतिषेध्यधर्मैरविनाभावि धर्मत्वात् साधनास्तित्ववत् न हि कचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमंतरेणोपपन्नं तस्य साधनाभासत्वप्रसंगात् इति सिद्धमुदाहरणं । हेतुमनभ्युपगच्छतां तु खेष्टतत्त्वास्तित्वमनिष्टरूपनास्तित्वेनाविनाभावि सिद्धं, अन्यथा तदव्यवस्थितेरिति तदेव निदर्शनं । ननु च साध्याभावे साधनस्य नास्तित्वं नियतं साध्यसद्भावेस्तित्वमेव तत्कथं तत्प्रतिषेध्यत्वानुपपत्तेः । खरूपनास्तित्वं तु यत्तत्प्रतिषेध्यं तेनाविनाभावि - त्वेन खरूपास्तित्वस्य व्याघातस्तेनैव रूपेणास्ति नास्ति चेति प्रतीत्यभावात् । तथा खेष्टतत्त्वेस्तित्वमेवानिष्टतत्त्वे नास्तित्वमिति न तत्प्रतिषेध्यं येन तस्य तदविनाभावित्वं सिद्ध्येत् । तेनैव तु रूपेण नास्तित्वं विप्रतिषिद्धमिति कथं निदर्शनं नाम प्रकृतसाध्ये स्यादिति चेन्न, हेतोत्रिरूपत्वादिविरोधात् । खेष्टतत्त्वविधौ चावधारणवैयर्थ्यात् । पक्षसपक्षयोरस्तित्वमन्यत्साधनस्य विपक्षे नास्तित्वं ब्रुवाणः खेष्टतत्त्वस्य च कथमेकस्य विधिप्रतिषेधयोर्विप्रतिषेधान्निदर्शनाभावं विभावयेत् । क्वचिदस्तित्व सिद्धिसामर्थ्यात्तस्यान्यत्र नास्तित्वस्य सिद्धेर्न रूपांतरत्वमिति चेत् व्याहतमेतत् सिद्धौ सामर्थ्यसिद्धं च न रूपांतरं चेति कथमवधेयं कस्यचित् कचिन्नास्तित्वसामर्थ्याच्चास्तित्वस्य सिद्धेस्ततो रूपांतरत्वाभावप्रसंगात् । सोयं भावाभावयोरेकत्वमाचक्षाणः सर्वथा न क्वचित्प्रवर्तेत नापि कुतश्चिन्निवर्तेत तन्निवृत्तिविषयस्य भावस्याभावपरिहारेणासंभवादभावस्य च भावपरिहारेणेति । वस्तुतोस्तित्वनास्तित्वयोः क्वचिद्रूपांतरत्वमेष्टव्यं । तथा चास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावे धर्मरूपं च यत्र हेतौ खेष्टतत्त्वे वा सिद्धं तदेव निदर्शनमिति न तदभा - तत्त्वार्थश्लोकवार्त Page #140 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। वाशंका । प्रतिषेध्यं पुनर्यथास्तित्वस्य नास्तित्वं तथा प्रधानभावतः क्रमार्पितोभयात्मकत्वादिधर्मपंचकमपि तस्य तद्वत्प्रधानभावार्पितास्तित्वादन्यत्वोपपत्तेः । एतेन नास्तित्वं क्रमार्पितं द्वैतं सहार्पितं चावक्तव्योत्तरशेषभंगत्रयं वस्तुतोन्येन धर्मषट्रेन प्रतिषेध्येनाविनाभावि साधितं प्रतिपत्तव्यं । क्रमार्पितोभयादीनां विरुद्धत्वेन संभवान्न तदविनाभावित्वं शक्यसाधनं धर्मिणः साधनस्य वासिद्धेरिति चेत् न, स्वरूपादि• चतुष्टयेन कस्यचिदस्तित्वस्य पररूपादिचतुष्टयेन च नास्तित्वस्य सिद्धौ क्रमतस्तद्वयादस्तित्वनास्तित्वद्वयस्य सहावक्तव्यस्य सहार्पितखपररूपादिचतुष्टयाभ्यां खरूपचतुष्टयाच्चास्त्यवक्तव्यत्वस्य ताभ्यां पररूपादिचतुष्टयाच्च नास्त्यवक्तव्यत्वस्य क्रमाक्रमार्पिताभ्यां ताभ्यामुभयावक्तव्यत्वस्य च प्रसिद्धेविरोधाभावाच्च धर्मिणः साधनस्य च प्रसिद्धेः । न हि खरूपेस्ति वस्तु न पररूपेस्तीति विरुध्यते, स्वपररूपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुत्वस्य, खरूपोपादानवत् पररूपोपादाने सर्वथा खपरविभागाभावप्रसंगात् । स चायुक्तः, पुरुषाद्वैतादेरपि पररूपादपोढस्य तथाभावोपपत्तेरन्यथा द्वैतरूपतयापि तद्भावसिद्धेरेकानेकात्मवस्तुनो निषेद्धुमशक्तेः पररूपापोहनवत्स्वरूपापोहने तु निरूपाख्यत्वस्य प्रसंगात् । तच्चानुपपन्नं । ग्राह्यग्राहकभावादिशून्यस्यापि संविन्मात्रत्वस्य खरूपोपादानादेव तथा व्यवस्थापनादन्यथा प्रतिषेधात् । तथा सर्व वस्तु खद्रव्येस्ति न परद्रव्ये तस्य स्वपरद्रव्यखीकारतिरस्कारव्यवस्थितिसाध्यत्वात् । खद्रव्यवत् परद्रव्यस्य स्वीकारे द्रव्याद्वैतप्रसक्तेः खपरद्रव्यविभागाभावात् । तच्च विरुद्धं । जीवपुद्गलादिद्रव्याणां भिन्नलक्षणानां प्रसिद्धेः। कथमेकं द्रव्यमनंतपर्यायमविरुद्धमुक्तमिति चेत् , जीवादीनामनंतद्रव्याणामनिराकरणादिति ब्रूमः । सन्मानं हि शुद्धं द्रव्यं तेषामनंतभेदानां व्यापकमेकं तदभावे कथमात्मानं लभते । कथमिदानीं तदेव खद्रव्येस्ति परद्रव्ये नास्तीति सिद्ध्येत् । न हि तस्य खद्रव्यमस्ति पर्यायत्वप्रसंगाद्यतस्तत्रास्तित्वं । नापि द्रव्यांतरं यत्र नास्तित्वमिति चेन्न कथंचित् , न हि सन्मानं खद्रव्येस्ति परद्रव्ये नास्तीति निगद्यते । किं तर्हि, वस्तु । न च तत्संग्रहनयपरिच्छेद्यं वस्तु वस्त्वेकदेशत्वात् पर्यायवत् । ततो यथा जीववस्तु पुद्गलादिवस्तु वा खद्रव्ये जीवत्वेन्वयिनि पुद्गलादित्वे वा पर्याये च स्वभावे ज्ञानादौ रूपादौ वास्ति न परद्रव्ये परखरूपे वा तथा परमं वस्तु सत्त्वमात्रे खद्रव्ये खपर्याये च जीवादिभेदप्रभेदेस्ति न परिकल्पिते सर्वथैकांते कथंचिदिति निरवा तथा खक्षेत्रेस्ति परक्षेत्रे नास्तीत्यपि न विरुध्यते खपरक्षेत्रप्राप्तिपरिहाराभ्यां वस्तुनो वस्तुत्वसिद्धेरन्यथा क्षेत्रसंकरप्रसंगात् । सर्वस्याक्षेत्रत्वापत्तेश्च । न चैतत्साधीयः प्रतीतिविरोधात् । तत्र परमस्य वस्तुनः खात्मैव क्षेत्रं तस्य सर्वद्रव्यपर्यायव्यापित्वात् तव्यतिरिक्तस्य क्षेत्रस्याभावात् तदपरस्य वस्तुनो गगनस्यानेन खात्मैव क्षेत्रमित्युक्तं तस्यानंत्यात् क्षेत्रांतराघटनात् । जीवपुद्गलधर्माधर्मकालवस्तूनां तु निश्चयनयात् खात्मा व्यवहारनयादाकाशं क्षेत्रं ततोप्यपरस्य वस्तुनो जीवादिभेदरूपस्य यथायोगं पृथिव्यादि क्षेत्रं प्रत्येयं । नचैवं स्वरूपात्खद्रव्याद्वा क्षेत्रस्यान्यता न स्यात् तव्यपदेशहेतोः परिणामविशेषस्य ततोन्यत्वेन प्रतीतेरविरोधात् । तथा खकालेस्ति परकाले नास्तीत्यपि न विरुद्धं स्वपरकालग्रहणपरित्यागाभ्यां वस्तुनस्तत्त्वप्रसिद्धरन्यथा कालसांकर्यप्रसंगात् । सर्वदा सर्वस्याभावप्रसंगाच । तत्र परमस्य वस्तुनोनाद्यनंतः कालोपरस्य च जीवादिवस्तुनः सर्वदा विच्छेदाभावात् तत्र तदस्ति न परकालेन्यथा कल्पिते क्षणमात्रादौ जीवविशेषरूपं तु मानुषादिवस्तु खायुः प्रमाणवकालेस्ति न परायुःप्रमाणे पुद्गलविशेषरूपं च पृथिव्यादि तथा परिणामस्थितिनिमित्ते खकालेस्ति न तद्विपरीते तदा तस्यान्यवस्तुविशेषत्वेनभावात् । नन्वेवं युगपदेकत्र वस्तुनि सत्त्वासत्त्वद्वयस्य प्रसिद्धस्तदेव प्रतिषेध्येनाविनाभावि साध्यं न तु केवलमस्तित्वं नास्तित्वादि वा तस्य तथाभूतस्यासंभवादिति चेन्न, नयोपनीतस्य केवलास्तित्वादेरपि भावात् सिद्धे वस्तुन्येकत्रास्तित्वादौ नानाधर्मे वादिप्रतिवादिनोः प्रसिद्धो धर्मस्तदप्रसिद्धेन धर्मेणाविना Page #141 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके १३२ [सू० ६ भावी साध्यत इति युक्तिसिद्धमस्तित्वादिधर्मसप्तकं कुतश्चित्प्रतिपत्तुर्विप्रतिपत्तिसप्तकं जनयेत् । जिज्ञासायाः सप्तविधत्वं तच प्रश्नसप्तविधत्वं तदपि वचन सप्तविधत्वमिति सूक्ता प्रश्नवशादेकत्र सप्तभंगी, भंगांतरनिमित्तस्य प्रश्नांतरस्यासंभवात् । तदभावश्च जिज्ञासांतरासंभवात् तदसंभवोपि विप्रतिपत्त्यंतरायोगात् तदयोगोपि विधिप्रतिषेधविकल्पनया धर्मांतरस्य वस्तुन्यविरुद्धस्यानुपपत्तेः, तदनुपपत्तावपि प्रश्नांतरस्याप्रवर्तमानस्यासंबंधप्रलापमात्रतया प्रतिवचनानर्हत्वात् । तद्धि प्रश्नांतरं व्यस्तास्तित्वनास्तित्वविषयं समस्ततद्विषयं वा ? प्रथमपक्षे प्रधानभावेन प्रथमद्वितीयप्रश्नावेव गुणभावेन तु सत्त्वस्य द्वितीयप्रश्नः स्यादसत्त्वस्य प्रथमः । समस्तास्तित्वनास्तित्वविषये तु प्रश्नांतरं क्रमतस्तृतीयः सह चतुर्थः प्रथमचतुर्थसमुदायविषयः पंचमः द्वितीयचतुर्थसमुदायविषयः षष्ठस्तृतीयचतुर्थसमुदायविषयः सप्तम इति सप्तखेवांतर्भवति । प्रथमतृतीययोः समुदाये तु प्रश्नः पुनरुक्तः, प्रथमस्य तृतीयावयवत्वेन पृष्टत्वात् । तथा प्रथमस्य चतुर्थादिभिर्द्वितीयस्य तृतीयादिभिस्तृतीयस्य चतुर्थादिभिश्चतुर्थस्य पंचमादिभिः पंचमस्य षष्ठादिना षष्ठस्य सप्तमेन सहभावे प्रश्नः पुनरुक्तः प्रत्येयस्ततो न त्रिचतुः पंचषट्सप्तयोगकल्पनया प्रतिवचनांतरं संभवति । नापि तत्संयोगानवस्थानं यतः सप्तभंगीप्रसादेन सप्तशतभंग्यपि जायत इति चोद्यं भवेत् । नन्वेवं तृतीयादीनामपि प्रश्नानां पुनरुक्तत्वप्रसक्तिरिति चेन्न, तृतीये द्वयोः क्रमशः प्रधानभावेन पृष्टेः प्रथमे द्वितीये वा तथा तयोरपृष्टेः । सत्त्वस्यैवासत्त्वस्यैव च प्रधानतया पृष्टत्वात् । चतुर्थे तु द्वयोः सह प्रधानत्वे पृष्टेर्न पुनरुक्तता । पंचमे तु सत्त्वावक्तव्यतयोः प्रधानतया पृष्टेः पूर्वं तयोरपृष्टेरपुनरुक्तता । षष्ठेपि नास्तित्वावक्तव्यतयोस्तथा पृष्टेरेव । सप्तमे क्रमाक्रमार्पितयोः सत्त्वासत्त्वयोः प्रधानतया पृष्टेः कुतः पौनरुक्त्यं । नन्वेवं तृतीयस्य प्रथमेन संयोगे द्वयोरस्तित्वयोरेकस्य नास्तित्वस्य प्राधान्याद् द्वितीयेन संयोगे द्वयोर्नास्तित्वयोरेकस्यास्तित्वस्य क्रमशः पृष्टेनापुनरुक्ततास्तु पूर्वं तथा पृष्टेरभावात् । तथा चतुर्थस्य पंचमेन संयोगे द्वयोरव्यक्तयोरेकस्यास्तित्वस्य षष्ठेन संयोगे द्वयोरव्यक्तयोरेकस्य नास्तित्वस्य सप्तमेन संयोगे द्वयोरव्यक्तयोरेकस्यास्तित्वस्य नास्तित्वस्य च क्रमेण प्रधानतया पृष्टेर्न पुनरुक्तता । तथा पंचमस्य षष्ठेन संयोगे द्वयोरव्यक्तयोरेकस्यास्तित्वस्य नास्तित्वस्य पृष्टेः पंचमस्य सप्तमेन संयोगे द्वयोरव्यक्तयोर्नास्तित्वयोश्चैकस्यास्तित्वस्य सप्तमस्य प्रथमेन संयोगे द्वयोरस्तित्वयोरेकस्य नास्तित्वस्यावक्तव्यस्य च द्वितीयेन संयोगे द्वयोर्नास्तित्वयोरेकस्यावक्तव्यस्य च तृतीयेन संयोगे द्वयोरस्तित्वयोर्नास्तित्वयोश्चैकस्यावक्तव्यस्य क्रमशः प्रधानभावेन पृष्टेर्न पुनरुक्तत्वमिति तत्प्रतिवचनानामप्येकादशानामपुनरुक्तत्वसिद्धेरष्टादशभंगास्तथा संयोगे च भंगांतराणि सिध्येयुस्तथा तत्संयोगेपि ततो भंगांतराणीति कथं शतभंगी निषिध्यते ? द्विभंगीप्रसंगादिति केचित् तदयुक्तं । अस्तित्वस्य नास्तित्वस्य तदवक्तव्यस्य चानेकस्यैकत्र वस्तुन्यभावात् नाना वस्तुषु सप्तभंग्याः स्वयमनिष्टेः । यत्पुनर्जीववस्तुनि जीवत्वेनास्तित्वमेवाजीवत्वेन च नास्तित्वं मुक्तत्वेनापरममुक्तत्वेन चेत्याद्यनंतखपरपर्यायापेक्षयानेकं तत्संभवति वस्तुनोऽनंतपर्यायात्मकत्वादिति वचनं तदपि न सप्तभंगीविघातकृत्, जीवत्वाजीवत्वापेक्षाभ्यामिवास्तिनास्तित्वाभ्यां मुक्तत्वामुक्तत्वाद्यपेक्षाभ्यामपि पृथक् सप्तभंगीकल्पनात् विवक्षितवक्तव्यत्वावक्तव्यत्वाभ्यामपि सप्तभंगी प्रकल्पमानान्यैवानेन प्रतिपादिता । प्रकृताभ्यामेव धर्माभ्यां सहार्पिताभ्यामवक्तव्यत्वस्यानेकस्यासंभवादेकत्र तत्प्रकल्पनया भंगांतरानुपपत्तेः । यत्तु ताभ्यामेवासहार्पिताभ्यां वक्तव्यत्वं तदपि न शेषभंगेभ्यो भिद्यते, तेषामेव वक्तव्यत्वात् । ततो नातिव्यापिनी सप्तभंगी नाप्यव्यापिन्यसंभविनी वा यतः प्रेक्षावद्भिर्नाश्रीयते । ननु च सप्तसु वचनविकल्पेष्वन्यतमेनानंतधर्मात्मकस्य वस्तुनः प्रधानगुणभावेन Page #142 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १३३ प्रतिपादनाच्छेषवचनविकल्पानामानर्थक्यादनाश्रयणीयत्वमेवेति चेत् न, तेष्वपरापरधर्मप्राधान्येन शेषधर्मगुणभावेन च वस्तुनः प्रतिपत्तेः साफल्यात् । तत्रास्त्येव सर्वमित्यादिवाक्येऽवधारणं किमर्थमित्याह;वाक्येवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात्तस्य कुत्रचित् ॥ ५३॥ ननु गौरेवेत्यादिषु सत्यप्यवधारणेनिष्टार्थनिवृत्तेरभावादसत्यपि चैवकारे भावान्नावधारणसाध्यान्यनिवृत्तिस्तदन्वयव्यतिरेकानुविधानाभावात् । न ह्येवकारोनिष्टार्थनिवृत्तिं कुर्वन्नेवकारांतरमपेक्षते अनवस्थाप्रसंगात् । तत्प्रयोगे प्रकरणादिभ्योऽनिष्टार्थनिवृत्तिरयुक्ता सर्वशब्दप्रयोगे तत एव तत्प्रसक्तेस्ततो न तदर्थमवधारणं कर्तव्यमित्येके, तेपि न शब्दाम्नायं विदंति । तत्र हि ये शब्दाः खार्थमात्रेनवधारिते संकेतितास्ते तदवधारणविवक्षायामेवकारमपेक्षते तत्समुच्चयादिविवक्षायां तु चकारादिशब्दं । न चैवमेवकारादीनामवधारणाद्यर्थ ब्रुवाणानां तदन्यनिवृत्तावेवकारांतराद्यपेक्षा संभवति यतोनवस्था तेषां वयं द्योतकत्वात् द्योतकांतरानपेक्षत्वात् प्रदीपादिवत् । नन्वेवमेवेत्यादिशब्दप्रयोगे द्योतकस्याप्येवंशब्दस्यान्यनिवृत्तौ द्योतकांतरस्यैवकारादेरपेक्षणीयस्य भावात् सो द्योतको द्योत्येथे द्योतकांतरापेक्षः स्यात् तथा चानवस्थानान्न क्वचिदवधारणाद्यर्थप्रतिपत्तिरिति चेत् न, एवशब्दादेः खार्थे वाचकत्वादन्यनिवृत्तौ द्योतकांतरापेक्षोपपत्तेः । न हि द्योतका एव निपाताः क्वचिद्वाचकानामपि तेषामिष्टत्वात् । द्योतकाश्च भवंति निपाता इत्यत्र चशब्दाद्वाचकाश्चेति व्याख्यानात् । न चैवं सर्वे शब्दा निपातवत्स्वार्थस्य द्योतकत्वेनाम्नाता येन तन्नियमे द्योतकं नापेक्षेरन् । ततो वाचकशब्दप्रयोगे तदनिष्टार्थनिवृत्त्यर्थः श्रेयानेवकारप्रयोगः सर्वशब्दानामन्यव्यावृत्तिवाचकत्वात् । तत एव तत्प्रतिपत्तेस्तदर्थमवधारणमयुक्तमित्यन्ये, तेषां विधिरूपतयार्थप्रतिपत्तिः शब्दात् प्रसिद्धा विरुध्यते कथं चान्यव्यावृत्तिस्वरूपं विधिरूपतयान्यव्यावृत्तिशब्दः प्रतिपादयेन्न पुनः सर्वे शब्दाः स्वार्थमिति बुध्यामहे । तस्यापि तदन्यथा वृत्तिप्रतिपादनेनवस्थानं स्वार्थविधिप्रतिपादिता सिद्धिर्वेत्युक्तप्रायं । विधिरूप एव शब्दार्थो नान्यनिवृत्तिरूपो यतस्तत्प्रतिपत्तयेवधारणमित्यपरे, तेषामपि खवचनविरोधः । सुरा न पातव्येत्यादिनसहितशब्दप्रयोगात्प्रतिषेधप्रतिपत्तेः खयमिष्टेः । केषांचित्प्रतिषेध एव द्वैराश्येन स्थितत्वाबोधवत् इति तु येषां मतं तेषां घटमानयेत्यादिविधायकशब्दप्रयोगे घटमेव नाघटमानयैव मा नैषीरित्यन्यव्यावृत्तेरप्रतिपत्तेस्तद्वैयर्थ्यप्रसंगोनुक्तसमत्वात् । सुरा न पातव्येत्यादिप्रतिषेधकशब्दप्रयोगे च सुरातोन्यस्योदकादेः पानविधेरप्रतीतेः सुराशब्दप्रयोगस्यानर्थकत्वापत्तिः, सुरापानस्यैव ततः प्रतिषेधात् पयःपानादेरप्रतिषेधादविधानाच्च न दोष इति । किमिदानीं शब्दस्य क्वचित्प्रतिषेधनं तदन्यत्रौदासीन्यं च विषयः स्यात् तथा कचिद्विधानं तदन्यत्र विधानं न प्रतिषेधनं चेति नैवं व्याघातादिति चेत् , तत एवान्याप्रतिषेधे स्वार्थस्य विधानं तदविधाने चान्यप्रतिषेधो मा भूत् । सर्वस्य शब्दस्य विधिप्रतिषेधद्वयं विषयोस्तु तथा चावधारणमनर्थकं तदभावेपि खार्थविधाने न्यनिवृत्तिसिद्धेरित्यपरः, तस्यापि सकृद्विधिप्रतिषेधौ खार्थेतरयोः शब्दः प्रतिपादयंस्तदनुभयव्यवच्छेदं यदि कुर्वीत तदा युक्तमवधारणं तदर्थत्वात् । नो चेत् अनुक्तसमः तदनुभयस्य व्याघातादेवासंभवाद् । व्यवच्छेदकरणमनर्थकमिति चेत् न, असंभविनोपि केनचिदाशंकितस्य व्यवच्छेद्यतोपपत्तेः खयमनिष्टतत्त्ववत् । यदेव मूढमतेराशंकास्थानं तस्यैव निवर्त्यत्वात् कचित्किंचिदनाशंकमानस्य प्रतिपाद्यत्वासंभवात् तं प्रयुंजानस्य यत्किंचनभाषित्वादुपेक्षाहत्वात् । तत एव सर्वः शब्दः स्वार्थस्य विधायकः प्राधान्यात् सामर्थ्यादन्यस्य निवर्तकः सकृत्स्वार्थविधानस्यान्यनिवर्तनस्य वा योगात् । न हि शब्दस्य द्वौ व्यापारौ Page #143 -------------------------------------------------------------------------- ________________ १३४ तत्त्वार्थश्लोकवार्तिके [सू०६ खार्थप्रतिपादनमन्यनिवर्तनं चेति, तदन्यनिवृत्तेरेवासंभवात् तस्याः खलक्षणादभिन्नायाः खमानखलक्षणेध्वनुगमनायोगादेकस्खलक्षणवत् । ततो भिन्नायास्तदन्यव्यावृत्तिरूपत्वाघटनात् स्खलक्षणांतरवत् खान्यव्यावृत्तेरपि च तस्या व्यावृत्तौ सजातीयेतरखलक्षणयोरैक्यप्रसंगादवस्तुरूपायाः खत्वान्यत्वाभ्यामेवावाच्यायां निरूपत्वात् इदमस्मायावृत्तमिति प्रत्ययोपजननासमर्थत्वान्न शब्दार्थत्वं नापि तद्विशिष्टार्थस्य तस्याविशेषणत्वायोगात्तद्विशेषणत्वे वा विशेष्यस्य निरूपत्वप्रसंगादन्यथा नीलोपहितस्योत्पलादेर्लीलत्वविरोधात् तदन्यव्यावृत्तवस्तुदर्शनभाविना तु प्रतिषेधविकल्पेन प्रदर्शितायास्तस्याः प्रतीतेर्विधिविकल्पोपदर्शितशब्दार्थविधिसामर्थ्याद्गतिरभिधीयत इति केषांचिदभिनिवेशः सोपि पापीयान् , खार्थविधिसामर्थ्यादन्यव्यावृत्तिगतिवत् क्वचिदन्यव्यावृत्तिसामर्थ्यादपि खार्थविधिगतिप्रसिद्धेः शब्दानित्यत्वसाधने सत्त्वादेर्व्यतिरेकगतिसामर्थ्यादन्वयगतेरभ्युपगमात् तदभिधानेन्यथा पुनरुक्तत्वाघटनात् शब्देन विधीयमानस्य निषिध्यमानस्य च धर्मस्य वस्तुस्वभावतया साधितत्वात् । सर्वथा धर्मनैरात्म्यस्य साधयितुमशक्तेश्च, बौद्धेपि च शब्दस्यार्थे अनवधारणस्यासिद्धेरलं विवादेन । केचिदाहुः-नैकं वाक्यं स्वार्थस्य विधायकं सामर्थ्यादन्यनिवृत्तिं गमयति । किं तर्हि ? प्रतिषेधवाक्यं, तत्सामर्थ्यगतौ तु ततोन्यप्रतिषेधगतिरिति तेपि नावधारणं निराकर्तुमीशास्तदभावे विधायकवाक्यादन्यप्रतिषेधकवाक्यगतेरयोगात् । यदि चैकं वाक्यमेकमेवार्थ ब्रूयादनेकार्थस्य तेन वचने भिद्येत तदितिमतं तदा पदमपि नानेकार्थमाचक्षीतानेकत्वप्रसंगात् । तथा च य एव लौकिकाः शब्दास्त एव वैदिका इति व्याहन्येत । पदमेकमनेकमर्थ प्रतिपादयति न पुनस्तत्क्रमात्मकं वाक्यमिति तमोविजूंभितमात्रं, पदेभ्यो हि यावतां पदार्थानां प्रतिपत्तिस्तावंतस्तदवबोधास्तद्धेतुकाश्च वाक्यार्थावबोधा इति चतुःसंधानादिवाक्यसिद्धिर्न विरुध्यते । केवलं पदमनर्थकमेव ज्ञेयादिपदवयवच्छेद्याभावाद् वाक्यस्थस्यैव तस्य व्यवच्छेद्यसद्भावादिति येप्याहुस्तेपि शब्दन्यायबहिष्कृता एव, वाक्यस्थानामिव केवलानामपि पदानामर्थवत्त्वप्रतीतेः । समुदायार्थेन तेषामनर्थवत्त्वे वाक्यगतानामपि तदस्तु विशेषाभावात् । पदांतरापेक्षत्वात्तेषां विशेषस्तन्निरपेक्षेभ्यः केवलेभ्य इति केचित् । न । तस्य सतोपि तथा प्रविभागकरणासामर्थ्यात् । न हि स्वयमसमर्थानां वाक्यार्थप्रतिपादने सर्वथा पदांतरापेक्षायामपि सामर्थ्यमुपपन्नमतिप्रसंगात् , तदा तत्समर्थत्वेन तेषामुत्पत्तेः । केवलावस्थातो विशेष इति चेत्तर्हि वाक्यमेव वाक्यार्थप्रकाशने समथै तथा परिणतानां पदानां पदव्यपदेशाभावात् । यदि पुनरवयवार्थेनानर्थवत्त्वं केवलानां तदा पदार्थाभाव एव सर्वत्र स्यात् ततोन्येषां पदानामभावात् । वाक्येभ्योद्धृत्य कल्पितानामर्थवत्त्वं न पुनरकल्पितानां केवलानामिति ब्रुवाणः कथं खस्थः । व्यवच्छेद्याभावश्चासिद्धः केवलज्ञेयपदस्याज्ञेयव्यवच्छेदेन खार्थनिश्चयनहेतुत्वात् । सर्व हि वस्तु ज्ञानं ज्ञेयं चेति द्वैराश्येन यदा व्याप्तमवतिष्ठते तदा ज्ञेयादन्यतामादधानं ज्ञानमज्ञेयं प्रसिद्धमेव ततो ज्ञेयपदस्य तद्व्यवच्छेद्यं कथं प्रतिक्षिप्यते । यदि पुनर्ज्ञानस्यापि खतो ज्ञायमानत्वान्नाज्ञेयत्वमिति मतं, तदा सर्वथा ज्ञानाभावात् कुतो ज्ञेयव्यवस्था ? खतो ज्ञेयं ज्ञानमिति चेत् न, ज्ञापकस्य रूपस्य कर्तृसाधनेन ज्ञानशब्देन वाच्यस्य करणसाधनेन वा साधकतमस्य भावसाधनेन च क्रियामात्रस्य कर्मसाधनेन प्रतीयमानाद्रूपाद्भेदेन प्रसिद्धरज्ञेयत्वोपपत्तेः । कथमज्ञेयस्य ज्ञापकत्वादेर्ज्ञानरूपस्य सिद्धिः ? ज्ञायमानस्य कुतः ? खत एवेति चेत् , परत्र समानं । यथैव हि ज्ञानं ज्ञेयत्वेन खयं प्रकाशते तथा ज्ञायकत्वादिनापि विशेषाभावात् । ज्ञेयांतराद्यनपेक्षस्य कथं ज्ञायकत्वादिरूपं तस्येति चेत् ज्ञायकाद्यनपेक्षस्य ज्ञेयत्वं कथं ? खतो न ज्ञेयरूपं नापि ज्ञायकादिरूपं ज्ञानं सर्वथा व्याघातात् किंतु ज्ञानखरूपमेवेति चेन्न, तदभावे तस्याप्यभावानुषंगात् । तद्भावेपि च सिद्धं ज्ञेयपदस्य व्यवच्छेद्यमिति सार्थकत्व Page #144 -------------------------------------------------------------------------- ________________ " प्रथमोऽध्यायः । १३५ मेव । ज्ञानं हि स्याद्ज्ञेयं स्याद्ज्ञानं । अज्ञानं तु ज्ञेयमेवेति स्याद्वादिमते प्रसिद्धं सिद्धमेव । कथंचित्तव्यवच्छेद्यं न च ज्ञानं स्वतः परतो वा, येन रूपेण ज्ञेयं तेन ज्ञेयमेव येन तु ज्ञानं तेन ज्ञानमेवेत्यवधारणे स्याद्वादिविरोधः; सम्यगेकांतस्य तथोपगमात् । नाप्यनवस्था परापरज्ञानज्ञेयरूपपरिकल्पनाभावात् तावतैव कस्यचिदाकांक्षानिवृत्तेः । साकांक्षस्य तु तत्र तत् रूपांतरकल्पनायामपि दोषाभावात् सर्वार्थज्ञानोत्पत्तौ सकलापेक्षापर्यवसानात् । पराशंकितस्य वा सर्वस्याज्ञेयस्य व्यवच्छेद्यत्ववचनान्न ज्ञेयपदस्यानर्थकत्वं सर्वपदं व्यादिसंख्यापदं वानेन सार्थकमुक्तमसर्वस्यायादेश्च व्यवच्छेद्यस्य सद्भावात् । न ह्यसर्वशब्दाभिधेयानां समुदायिनां व्यवच्छेदे तदात्मनः समुदायस्य सर्वशब्दवाच्यस्य प्रतिषेधादिष्टापवादः संभवति, समुदायिभ्यः कथंचिद्भेदात्समुदायस्य । नाप्यव्यादीनां प्रतिषेधे व्यादिविधान विरोधः परमसंख्यातोल्पसंख्यायाः कथंचिदन्यत्वात् । तदेवं विवादापन्नं केवलं पदं सव्यवच्छेद्यं पदत्वाद्धादिपदवत् सव्यवच्छेद्यत्वाच्च सार्थकं तद्वदिति प्रतियोगिव्यवच्छेदेन स्वार्थप्रतिपादने वाक्यप्रयोगवत्पदप्रयोगेपि युक्तमवधारणमन्यथानुक्तसमत्वात् तत्प्रयोगस्यानर्थक्यात् । अन्ये त्वाहुः सर्व वस्त्विति शब्दो द्रव्यवचनो जीव इत्यादिशब्दवत् तदभिधेयस्य विशेष्यत्वेन द्रव्यत्वात्, अस्तीति गुणवचनस्तदर्थस्य विशेषणत्वेन गुणत्वात् । तयोः सामान्यात्मनोर्विशेषाद्यवच्छेदेन विशेषणविशेष्यसंभवत्वावद्योतनार्थ एवकारः । शुक्ल एव पट इत्यादिवत् स्वार्थसामान्याभिधायकत्वाद्विशेषणविशेष्यशब्दयोस्तत्संबंधसामान्यद्योतकत्वोपपत्तेः एवकारस्येति । तेपि यदि विशिष्टपदप्रयोगेनैवकारः प्रयोक्तव्य इत्यभिमन्यंते स्मृते तदा न स्याद्वादिनस्तेषां नियतपदार्थावद्योतकत्वेनाप्येवकारस्येष्टत्वात् । अथास्त्येव सर्वमित्यादिवाक्ये विशेष्यविशेषणसंबंधसामान्यावद्योतनार्थ एवकारोन्यत्र पदप्रयोगे नियतपदार्थावद्योतनाथपीति निजगुस्तदा न दोषः । केन पुनः शब्देनोपात्तोर्थ एवकारेण द्योत्यत इति चेत्, येन सह प्रयुज्यते असाविति प्रत्येयं । पदेन हि सह प्रयुक्तोसौ नियतं तदर्थमवद्योतयति वाक्येन वाक्यार्थमिति सिद्धं । ननु च सदेव सर्वमित्युक्ते सर्वस्य सर्वथा सत्त्वप्रसक्तिः सत्त्वसामान्यस्य विशेषणत्वाद्वस्तु सामान्यस्य च विशेष्यत्वात् तत्संबंधस्य च सामान्या देवकारेण द्योतनात् । तथा च जीवोप्यजीवसत्त्वे नास्तीति व्याप्तं स्वप्रतियोगिनो नास्तित्वस्यैवास्तीति पदेन व्यवच्छेदात् जीव एवास्तीत्यवधारणे तु भवेदजीवनास्तिता । नैव सेष्टा प्रतीतिविरोधात् । ततः कथमस्त्येव जीव इत्यादिवत्सदेव सर्वमिति वचनं घटत इत्यारे कायामाह ; 1 सर्वथा तत्प्रयोगेपि सत्त्वादिप्राप्तिविच्छिदे । स्यात्कारः संप्रयुज्येतानेकांतद्योतकत्वतः ||५४ || स्यादस्त्येव जीव इत्यत्र स्यात्कारः संप्रयोगमर्हति तदप्रयोगे जीवस्य पुद्गलाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेर्विच्छेदाघटनात् तत्र तथाशब्देनाप्राप्तित्वात् । प्रकरणादेजवे पुद्गलाद्यस्तित्वव्यवच्छेदे तु तस्याशब्दार्थत्वं तत्प्रकरणादेरशब्दत्वात् । न चाशब्दादर्थप्रतिपत्तिर्भवंती शाब्दी युक्तातिप्रसंगात् । नन्वस्तित्वसामान्येन जीवस्य व्याप्तत्वात् पुद्गलाद्यस्तित्वविशेषैरव्याप्तेर्न तत्प्रसक्तिः कृतकस्यानित्यत्वसामान्येन व्याप्तस्यानित्यत्वविशेषाप्रसक्तिवत् । ततोनर्थक स्तन्निवृत्तये स्यात्प्रयोग इति चेन्न, अवधारणवैयर्थ्यप्रसंगात् । स्वगतेनास्तित्वविशेषेण जीवस्यास्तित्वावधारणात् प्रतीयते कृतकस्य स्वगतानित्यत्वविशेषेणानित्यत्ववदिति चेन्न, खगतेनेति विशेषणात् परगतेन नैवेति संप्रत्ययादवधारणानर्थक्यस्य तदवस्थत्वात् । न चानवधारणकं वाक्यं युक्तं, जीवस्यास्तित्ववन्नास्तित्वस्याप्यनुषंगात् कृतकस्य नित्यत्वानुषंगवत् । तत्रास्तित्वस्यानवधृतत्वात् कृतकेनानित्यत्वानवधारणे नित्यत्ववत् । सर्वेण हि प्रकारेण जीवादेरस्तित्वाभ्युपगमे तन्नास्तित्वनिरासे वावधारणं फलवत्स्यात् । यथा कृतकस्य सर्वेणानित्यत्वेन शब्दघटादिगतेनानित्यत्वा Page #145 -------------------------------------------------------------------------- ________________ १३६ तत्त्वार्थश्लोकवार्तिके [सू०६ भ्युपगमे तन्नित्यत्वनिरासे च नान्यथा, तथावधारणसाफल्योपगमे च जीवादिरस्तित्वसामान्येनास्ति, न पुनरस्तित्वविशेषेण पुद्गलादिगतेनेति प्रतिपत्तये युक्तः स्यात्कारप्रयोगस्तस्य तादृगर्थद्योतकत्वात् । ननु च योस्ति स खायत्तद्रव्यक्षेत्रकालभावैरेव नेतरस्तेषामप्रस्तुतत्वादिति केचित् , सत्यं । स तु तादृशोर्थः शब्दात्प्रतीयमानः । कीदृशात्प्रतीयते इति शाब्दव्यवहारचिंतायां स्यात्कारो द्योतको निपातः प्रयुज्यते लिडंतप्रतिरूपकः । केन पुनः शब्देनोक्तोनेकांतः ? स्यात्कारेण द्योत्यत इति चेत्, सदेव सर्वमित्यादिवाक्येनाभेदवृत्त्याभेदोपचारेण चेति ब्रूमः । सकलादेशो हि यौगपद्येनाशेषधात्मकं वस्तु कालादिभिरभेदवृत्त्या प्रतिपादयत्यभेदोपचारेण वा तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारेण भेदप्राधान्येन वा तस्य नयायत्तत्वात् । कः पुनः क्रमः किं वा यौगपद्यं ? यदास्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकस्य शब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः। यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेकाशेषरूपस्य प्रतिपादनसंभवाद्योगपद्यं । के पुनः कालादयः ? कालः आत्मरूपं अर्थः संबंधः उपकारो गुणिदेशः संसगः शब्द इति । तत्र स्याज्जीवादि वस्तु अस्त्येव इत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानंतधर्मा वस्तुन्येकडेति, तेषां कालेनाभेदवृत्तिः । यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानंतगुणानामपीत्यात्मरूपेणाभेदवृत्तिः । य एव चाधारोओं द्रव्याख्योस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः । य एवाविष्वम्भावः कथंचित्तादात्म्यलक्षणः संबंधोस्तित्वस्य स एवाशेषविशेषाणामिति संबंधेनाभेदवृत्तिः । य एव चोपकारोस्तित्वेन खानुरक्तकरणं स एव शेरैरपि गुणैरित्युपकारेणाभेदवृत्तिः । य एव च गुणिदेशोस्तित्वस्य स एवान्यगुणानामिति गुणिदेशेनाभेदवृत्तिः । य एव चैकवस्त्वात्मनास्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसर्गेणाभेदवृत्तिः । य एव वास्तीतिशब्दोस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषानंतधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः । पर्यायार्थे गुणभावे द्रव्यार्थिकत्वप्राधान्यादुपपद्यते, द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानां कालादिभिरभेदवृत्तिः अष्टधा संभवति । प्रतिक्षणमन्यतोपपत्तेर्भिन्नकालत्वात् । सकृदेकत्र नानागुणानामसंभवात् । संभवे वा तदाश्रयस्य तावद्वा भेदप्रसंगात् । तेषामात्मरूपस्य च भिन्नत्वात् तदभेदे तद्भेदविरोधात् । स्वाश्रयस्यार्थस्यापि नानात्वात् अन्यथा नानागुणाश्रयत्वविरोधात् संबंधस्य च संबंधिभेदेन भेददर्शनात् नानासंबंधिभिरेकत्रैकसंबंधाघटनात् तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् गुणिदेशस्य च प्रतिगुणं भेदात् तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसंगात् । संसर्गस्य च प्रतिसंसर्गिभेदात् तदभेदे संसर्गिभेदविरोधात् । शब्दस्य च प्रतिविषयं नानात्वात् सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेः शब्दांतरवैफल्यात् । तत्त्वतोस्तित्वादीनामेकत्र वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । तदेवाभ्यामभेदवृत्त्यभेदोपचाराभ्यामेकेन शब्देनैकस्य जीवादिवस्तुनोऽनंतधर्मात्मकस्योपात्तस्य स्यात्कारो द्योतकः समवतिष्ठते ॥ स्वाच्छब्दादप्यनेकांतसामान्यस्थावबोधने । शब्दांतरप्रयोगोत्र विशेषप्रतिपत्तये ॥ ५५ ॥ स्यादिति निपातोऽयमनेकांतविधिविचारादिषु बहुष्वर्थेषु वर्तते, तत्रैकार्थविवक्षा च स्यादनेकांतार्थस्य वाचको गृह्यते इत्येके । तेषां शब्दांतरप्रयोगोऽनर्थकः स्याच्छब्देनैवानेकांतात्मनो वस्तुनः प्रतिपादितत्वादित्यपरे, तेपि यद्यनेकांतविशेषस्य वाचके स्याच्छब्दे प्रयुक्ते शब्दांतरप्रयोगमनर्थकमाचक्षते तदा न निवार्यते, शब्दांतरत्वस्य स्याच्छब्देन कृतत्वात् । अनेकांतसामान्यस्य तु वाचके तस्मिन् प्रयुक्ते Page #146 -------------------------------------------------------------------------- ________________ १३७ प्रथमोऽध्यायः। जीवादिशब्दांतरप्रयोगो नानर्थकस्तस्य तद्विशेषप्रतिपत्त्यर्थत्वात् कस्यचित्सामान्येनोपादानेपि विशेषार्थिना विशेषोऽनुप्रयोक्तव्यो वृक्षशब्दाद्वृक्षत्वसामान्यस्योपादानेपि धवादितद्विशेषार्थितया धवादिशब्दविशेषवदिति वचनात् । भवतु नाम द्योतको वाचकश्च स्याच्छब्दोऽनेकांतस्य तु प्रतिपदं प्रतिवाक्यं वा श्रूयमाणः समये लोके च कुतस्तथा प्रतीयत इत्याह;सोप्रयुक्तोपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते । यथैवकारो योगादिव्यवच्छेदप्रयोजनः ॥५६॥ यथा चैत्रो धनुर्धरः पार्थो धनुर्धरः नीलं सरोजं भवतीत्यत्रायोगस्यान्ययोगस्यात्यंतयोगस्य च व्यवच्छेदायाप्रयुक्तोप्येवकारः प्रकरणविशेषसामर्थ्यात्तद्विद्भिरवगम्यते, तस्यान्यत्र विशेषणेन क्रियया च सह प्रयुक्तस्य तत्फलत्वेन प्रतिपन्नत्वात् । तथा सर्वत्र स्यात्कारोपि सर्वस्यानेकांतात्मकत्वव्यवस्थापनसामर्थ्यादेकांतव्यवच्छेदाय किं न प्रतीयते । न हि कश्चित्पदार्थों वाक्यार्थो वा सर्वथैकांतात्मकोस्ति प्रतीतिविरोधात् । कथंचिदेकांतात्मकस्तु सुनयापेक्षोनेकांतात्मक एव ततो युक्तः प्रमाणवाक्ये नयवाक्ये च सप्तविकल्पे स्यात्कारस्तदर्थ शब्दांतरं वा श्रूयमाणं गम्यमानं वावधारणवत् । किं पुनः प्रमाणवाक्यं किं वा नयवाक्यं ? सकलादेशः प्रमाणवाक्यं विकलादेशो नयवाक्यमित्युक्तं । कः पुनः सकलादेशः को वा विकलादेशः ? अनेकात्मकस्य वस्तुनः प्रतिपादनं सकलादेशः, एकधर्मात्मकवस्तुकथनं विकलादेश इत्येके, तेषां सप्तविधप्रमाणनयवाक्यविरोधः । सत्त्वासत्त्वावक्तव्यवचनानां सैकैकधर्मात्मजीवादिवस्तुप्रतिपादनप्रमाणानां सर्वदा विकलादेशत्वेन यथावाक्यतानुषंगात् क्रमार्पितोभयसदवक्तव्यासदवक्तव्यो. भयावक्तव्यवचनानां वानेकधर्मात्मकवस्तुप्रकाशिनां सदा सकलादेशत्वेन प्रमाणवाक्यतापत्तेः । न च त्रीण्येव नयवाक्यानि चत्वार्येव प्रमाणवाक्यानीति युक्तं सिद्धांतविरोधात् । धर्भिमात्रवचनं सकलादेशः धर्ममात्रकथनं तु विकलादेश इत्यप्यसारं, सत्त्वाद्यन्यतमेनापि धर्मेणाविशेषितस्य धर्मिणो वचनासंभवात् । धर्ममात्रस्य कचिद्धर्मिण्यवर्तमानस्य वक्तुमशक्तेः । स्याजीव एव स्यादस्त्येवेति धर्मिमात्रस्य च धर्ममात्रस्य वचनं संभवत्येवेति चेत् न, जीवशब्देन जीवत्वधर्मात्मकस्य जीववस्तुनः कथनादस्तिशब्देन चास्तित्वस्य कचिद्विशेष्ये विशेषणतया प्रतीयमानस्याभिधानात् । द्रव्यशब्दस्य भावशब्दस्य चैवं विभागाभाव इति चेन्न, तद्विभागस्य नामादिसूत्रे प्ररूपितत्वात् । येपि हि पाचकोऽयं पाचकत्वमस्येति द्रव्यभावविधायिनोः शब्दयोविभागमाहुस्तेषामपि न पाचकत्वधर्मादिविशेषः पाचकशब्दाभिधेयोर्थः संभवति, नापि पाचकानाश्रितः पाचकत्वधर्म इत्यलं विवादेन । सदादिवाक्यं सप्तविधमपि प्रत्येक विकलादेशः समुदितं सकलादेश इत्यन्ये, तेपि न युक्त्यागमकुशलास्तथा युक्त्यागमयोरभावात् । सकलाप्रतिपादकत्वात् प्रत्येकं सदादिवाक्यं विकलादेश इति न समीचीना युक्तिस्तत्समुदायस्यापि विकलादेशत्वप्रसंगात् । न हि सदादिवाक्यसप्तकं समुदितं सकलार्थप्रतिपादकं सकलश्रुतस्यैव तथाभावप्रसिद्धेः । एतेन सकलार्थप्रतिपादकत्वात् सप्तभंगीवाक्यं सकलादेश इति युक्तिरसमीचीनोक्ता, हेतोरसिद्धत्वात् । सदादिवाक्यसप्तकमेव सकलश्रुतं नान्यत्तव्यतिरिक्तस्याभावात् अतो न हेतोरसिद्धिरिति चेन्न, एकानेकादिसप्तभंगात्मनो वाक्यस्याश्रुतत्वप्रसंगात् । सकलश्रुतार्थस्य सदादिसप्तविकल्पात्मकवाक्येनैव प्रकाशनात् तस्य प्रकाशितप्रकाशनतयानर्थकत्वात् । तेन सत्त्वादिधर्मसप्तकस्यैव प्रतिपादनादेकत्वादिधर्मसप्तकस्य चैकानेकादिसप्तविशेषात्मकवाक्येन कथनात् तस्यानर्थक्यादश्रुतत्वप्रसंग इति. चेन्न, तस्य सकलादेशत्वाभावापत्तेरनंतधर्मात्मकस्य वस्तुनोऽप्रतिपादनात् । यदि पुनरस्तित्वादिधर्मसप्तकमुखेनाशेषानंतसप्तभंगीविषयानंतधर्मसप्तकखभावस्य वस्तुनः कालादिभिरभेदवृत्त्याभेदोपचारेण प्रकाशनात्सदादि १८ Page #147 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ६ C सप्तविकल्पात्मकवाक्यस्य सकलादेशत्वसिद्धिस्तदा स्यादस्त्येव जीवादिवस्त्वित्यस्य सकलादेशत्वमस्तु । विवक्षितास्तित्वमुखेन शेषानंतधर्मात्मनो वस्तुनस्तथावृत्त्या कथनात् । स्यान्नास्त्येवेत्यस्य च नास्तित्वमुखेन, स्यादवक्तव्यमेवेत्यस्यावक्तव्यत्वमुखेन, स्यादुभयमेवेत्यस्य च क्रमार्पितोभयात्मकत्वमुखेन, स्यादस्त्यवक्तव्यमेवेत्यस्य चास्त्यवक्तव्यत्वमुखेन, स्यान्नास्त्यवक्तव्यमेवेत्यस्य च नास्त्यवक्तव्यत्वमुखेन स्यादुभयावक्तव्यमेवेत्यस्य चोभयावक्तव्यत्वमुखेनेति प्रत्येकं सप्तानामपि वाक्यानां कुतो विकलादेशत्वं ? प्रथमेनैव वाक्येन सकलस्य वस्तुनः कथनात् द्वितीयादीनामफलत्वमिति चेत्, तदाप्येकसप्तभंग्या सकलस्य वस्तुनः प्रतिपादनात् परासां सप्तभंगीनामफलत्वं किं न भवेत् ? प्रधानभावेन खविषयधर्मसप्तकस्वभावस्यैवार्थस्यैकया सप्तभंग्या प्रकथनात्, स्वगोचरधर्मसप्तकांतराणामपराभिः सप्तभंगीभिः कथनान्न तासामफलत्वमिति चेत्, तर्हि प्रथमेन वाक्येन स्वविषयैकधर्मात्मकस्य वस्तुनः प्रधानभावेन कथनात् द्वितीयादिभिः खगोचरैकैकधर्मात्मकस्य प्रकाशनात् कुतस्तेषामफलता कथं पुनरर्थस्यैकधर्मात्मकत्वं प्रधानं तथा शब्देनोपात्तत्वात् शेषानंतधर्मात्मकत्वमप्येवं प्रधानमस्त्विति चेन्न, तस्यैकतो वाक्यादश्रूयमाणत्वात् । कथं ततस्तस्य प्रतिपत्तिः अभेदवृत्त्याभेदोपचारेण वा गम्यमानत्वात् । तर्हि श्रूयमाणस्येव गम्यमानस्यापि वाक्यार्थत्वात् प्रधानत्वमन्यथा श्रूयमाणस्याप्यप्रधानत्वमिति चेन्न, अग्निर्माणवक इत्यादि वाक्यैक्यार्थेनानैकांतात् । माणवकेग्नित्वाध्यारोपो हि तद्वाक्यार्थो भवति न च प्रधानमारोपितस्याग्नेरप्रधानत्वात् । तत्र तदारोपोपि प्रधानभूत एव तथा शब्देन विवक्षितत्वादिति चेत्, कस्तर्हि गौणः शब्दार्थोस्तु न कश्चिदिति चेन्न, गौणमुख्ययोर्मुख्ये संप्रत्ययवचनात् । घृतमायुरन्नं वै प्राणा इति कारणे कार्योपचारं, मंचाः क्रोशतीति तात्स्थात्ताच्छन्दोपचारः । साहचर्याद्यष्टिः पुरुष इति, सामीप्यादृक्षा ग्राम इति च गौणं शब्दार्थ व्यवहरन् खयमगौणः शब्दार्थः सर्वोपीति कथमातिष्ठेत ? न चेदुन्मत्तः । गौण एव च शब्दार्थ इत्यप्ययुक्तं, मुख्याभावे तदनुपपत्तेः । कल्पनारोपितमपि हि सकलं शब्दार्थमाचक्षाणैरगोव्यावृत्तोर्थादर्थो बुद्धिनिर्भासी गोशब्दस्य मुख्योर्थस्ततोन्यो वाहीकादिर्गौण इत्यभ्युपगंतव्यं । तथा च गौणमुख्ययोर्वाक्यार्थयोः सर्वैः शब्दव्यवहारवादिभिरिष्टत्वान्न कस्यचित्तदपह्नवो युक्तोऽन्यत्र वचनानधिकृतेभ्यः । ननु यत्र शब्दादस्खलत्प्रत्ययः स मुख्यः शब्दार्थः श्रूयमाण इव गम्यमानेपि यत्र त्वस्खलत्प्रत्ययः स गौणोस्तु ततो न श्रूयमाणत्वं मुख्यत्वेन व्याप्तं गौणत्वेन वा गम्यमानत्वं येन शब्दोपात्त एव धर्मो मुख्यः स्यादपरस्तु गौण इति चेन्न, अस्खलप्रत्ययत्वस्यापि मुख्यत्वेन व्याप्त्यभावात् प्रकरणादिसिद्धस्यास्खलप्रत्ययस्यापि गौणत्वसिद्धेः प्रतिपत्रा बुभुत्सितं वस्तु यदा मुख्योर्थस्तदा तं प्रति प्रयुज्यमानेन शब्देनोपात्तो धर्मः प्रधानभावमनुभवतीति विशेषानंतधर्मेषु गुणभावसिद्धेः । नन्वस्तु प्रथमद्वितीयवाक्याभ्यामेकैकधर्ममुख्येन शेषानंतधर्मात्मकस्य वस्तुनः प्रतिपत्तिः कथंचिदभिहितप्रकाराश्रयणात्तृतीयादिवाक्यैस्तु कथं सत्त्वस्यैव वानंशशब्दस्य तेभ्योऽप्रतिपत्तेरिति चेन्न, तृतीयाद्वाक्याद् द्वाभ्यामात्मकाभ्यां सत्त्वासत्त्वाभ्यां सहार्पिताभ्यां निष्पन्नस्यैकस्यावक्तव्यत्वस्यानंशशब्दस्य प्रतीतेः। चतुर्थात्ताभ्यामेव क्रमार्पिताभ्यामुभयात्मकत्वस्य वंशस्य प्रत्ययात् । पंचमात्रिभिरात्मभिर्द्यशस्यास्त्यवक्तव्यत्वस्य निर्ज्ञानात् । षष्ठाच त्रिभिरात्मभिर्द्यशस्य नास्त्यवक्तव्यत्वस्यावगमात् । सप्तमाच्चतुर्भिरात्मभिस्र्यंशस्यास्तिनास्त्यवक्तव्यत्वस्यावबोधात् । न च धर्मस्य सांशत्वेनैकखभावत्वे वा धर्मित्वप्रसंगः द्वित्वादिसंख्यायास्तथाभावेपि धर्मत्वदर्शनात् । निरंशैकखभावा द्वित्वादिसंख्येति चेन्न, द्वे द्रव्ये इति सांशानेकखभावता प्रतीतिविरोधात् । संख्येययोर्द्रव्ययोरनेकत्वात्तत्र तथा प्रतीतिरिति चेत्, कथमन्यत्रानेकत्वे तत्र तथाभावप्रत्ययोतिप्रसंगात् । समवायादिति चेत् स कोन्योन्यत्र कथंचित्तादात्म्यादिति । 3 १३८ " Page #148 -------------------------------------------------------------------------- ________________ १३९ प्रथमोऽध्यायः॥ संख्येयवत्कथंचित्तदभिन्नायाः संख्यायाः सांशत्वादनेकखभावत्वसिद्धेः । एवं खभावस्यानेकत्वेपि तद्वतो द्रव्यस्य कथंचित्तदभिन्नस्यैकत्वानेकांशत्वमवक्तव्यत्वस्य सिद्धमंशस्य चानेकत्वेप्येकधर्मत्वमस्त्यवक्तव्यस्थादेरविरुद्धं, तथा श्रुतज्ञानेवभासमानत्वात् तद्बाधकाभावाच्च । त एतेस्तित्वादयो धर्मा जीवादिवस्तुनि सर्वसामान्येन तदभावेन च, विशिष्टसामान्येन तदभावेन, विशिष्टसामान्येन तदभावसामान्येन च, • विशिष्टसामान्येन च द्रव्यसामान्येन गुणसामान्येन च धर्मसमुदायेन तद्व्यतिरेकेण च धर्मसामान्यसंबंधेन तदभावेन च धर्मविशेषसंबंधेन तदभावेन च निरूप्यते । तत्रार्थप्रकरणसंभवलिंगौचित्यदेशकालाभिप्रायगम्यः शब्दस्यार्थ इत्यर्थाद्यनाश्रयणेभिप्रायमात्रवशवर्तिना सर्वसामान्येन च वस्तुत्वेन जीवादिरस्त्येव तदभावेन चावस्तुत्वेन नास्त्येवेति निरूप्यते । तथा श्रुत्युपात्तेन विशिष्टसामान्येन जीवादित्वेनास्ति तत्प्रतियोगिना तदभावेनाजीवादित्वेन नास्तीति च भंगद्वयं । तेनैव विशिष्टसामान्येनास्ति तदभावसामान्येन वस्त्वंतरात्मना सर्वेण सामान्येन नास्तीति च भंगद्वयं, तेनैव विशिष्टसामान्येनास्ति तद्विशेषणमुख्यत्वेन नास्तीति च भंगद्वयं, सामान्येनाविशेषितेन द्रव्यत्वेनास्ति विशिष्टसामान्येन प्रतियोगिनैवाजीवादित्वेन नास्तीति च भंगद्वयं, द्रव्यसामान्येनाविशेषितेनैवास्ति गुणसामान्येन गुणत्वेन स एव नास्तीति च भंगद्वयं, धर्मसमुदायेन त्रिकालगोचरानंतशक्तिज्ञानादिसमितिरूपेणास्ति तद्व्यतिरेकेणोपलभ्यमानेन रूपेण नास्तीति च भंगद्वयं, धर्मसामान्यसंबंधेन यस्य कस्यचिद्धर्मस्याश्रयत्वेनास्ति तदभावेन कस्यचिदपि धर्मस्यानाश्रयत्वेन नास्तीति च भंगद्वयं, धर्मविशेषसंबंधेन नित्यत्वचेतनत्वाद्यन्यतमधर्मसंबंधित्वेनास्ति तदभावेन तदसंबंधित्वेन नास्तीति च भंगद्वयमित्यनेकधा विधिप्रतिषेधकल्पनया सर्वत्र मूलभंगद्वयं निरूपणीयं । अथास्ति जीव इत्यस्तिशब्दवाच्यादर्थाद्भिन्नखभावो जीवशब्दवाच्योर्थः स्यादभिन्नखभावो वा ? यद्यभिन्नखभावस्तदा तयोः सामानाधिकरण्यविशेषत्वाभावो घटकुटशब्दवत् तदन्यतराप्रयोगश्च, तद्वदेव विपर्ययप्रसंगो वा । सर्वद्रव्यपर्यायविषयास्तिशब्दवाच्यादभिन्नस्य च जीवस्य सर्वद्रव्यपर्यायात्मकत्वप्रसंगः सर्वद्रव्यपर्यायाणां वा जीवत्वमिति संकरव्यतिकरौ स्यातां । यदि पुनरस्तिवाच्यादर्थाद्भिन्न एव जीवशब्दवाच्योर्थः कल्प्यते तदा जीवस्यासद्रूपत्वप्रसंगोस्तिशब्दवाच्यादर्थाद्भिन्नत्वात् खरगवत् विपर्ययप्रसंगात् । जीववत्सकलार्थेभ्योभिन्नस्यास्तित्वस्याभावप्रसक्तिरनाश्रयत्वात् । तस्य जीवादिषु समवायाददोषोऽयमितिचेन्न, समवायस्य सत्त्वाद्भिन्नस्यासद्रूपत्वात् स तद्वतोः संबंधत्वविरोधात् । न च समवाये सत्त्वस्य समवायांतरमुपपन्नं अनवस्थानुषंगात् खयं तथानिष्टेश्च । तत्र तस्य विशेषणाभावाददोष इति चेत् सोपि विशेषणाभावः संबंधो यदि सत्त्वाद्भिन्नस्तदा न सद्रूप इति खरविषाणवत्कथं संबंधः ? परस्माद्विशेषणीभावात्सत्त्वस्य प्रथमविशेषणीभावे यद्यसद्रूपत्वाभावस्तदा सैवानवस्था तत्रापि सत्त्वस्य भिन्नस्यान्यविशेषणीभावकल्पनादिति न किंचित्सन्नाम । सत्त्वाद्भिन्नस्य सर्वस्य स्वभावस्यासद्रूपत्वप्रसिद्धेरिति । सर्वथैकांतवादिनामुपालंभो न स्याद्वादिनामस्तिशब्दवाच्यादर्थाज्जीवशब्दवाच्यस्यार्थस्य कथंचिद्भिन्नत्वोपगमात् । तथैव वाचिंत्यप्रतीतिसद्भावाच्च । पर्यायार्थादेशाद्धि भवनजीवनयोः पर्याययोरस्तिजीवशब्दाभ्यां वाच्ययोः प्रतीतिविशिष्टतया प्रतीतेर्भेदः द्रव्यार्थादेशात्तु तयोरव्यतिरेकादेकतरस्य ग्रहणेनान्यतरस्य ग्रहणादभेदः प्रतिभासत इति न विरोधः संशयो वा तथा निश्चयात् । तत एव न संकरो व्यतिकरो वा, येन रूपेण जीवस्यास्तित्वं तेनैव नास्तित्वानिष्टेः येन च नास्तित्वं तेनैवास्तित्वानुपगमात् तदुभयस्याप्युभयात्मकत्वानास्थानाच्च । न चैवमेकांतोपगमे कश्चिद्दोषः सुनयार्पितस्यैकांतस्य समीचीनतया स्थितत्वात् प्रमाणार्पितस्यास्तित्वानेकांतस्य प्रसिद्धेः । येनात्मनानेकांतस्तेनात्मनानेकांत एवेत्येकांतानुषंगोपि नानिष्टः प्रमाणसाधनस्यैवानेकांतत्वसिद्धः नयसाधनस्यैकांत Page #149 -------------------------------------------------------------------------- ________________ १४० तत्त्वार्थश्लोकवार्तिके त्वव्यवस्थितेरनेकांतोप्यनेकांत इति प्रतिज्ञानात् ॥ तदुक्तं । "अनेकांतोप्यनेकांतः प्रमाणनयसाधनः । अनेकांतः प्रमाणात्ते तदेकांतार्पितान्नयात्” इति । न चैवमनवस्थानेकांतस्यैकांतापेक्षित्वेनैवानेकांतत्वव्यवस्थितेः एकांतस्याप्यनेकांतापेक्षितयैवैकांतव्यवस्थानात् । न चेत्थमन्योन्याश्रयणं, खरूपेणानेकांतस्य वस्तुनः प्रसिद्धत्वेनैकांतानपेक्षत्वादेकांतस्याप्यनेकांतानपेक्षत्वात् । तत एव तयोरविनामावस्यान्योन्यापेक्षया प्रसिद्धेः कारकज्ञापकादिविशेषवत् । तदुक्तं । “धर्मधयेविनाभावः सिध्यत्यन्योन्यवीक्षया । न । खरूपं खतो ह्येतत्कारकज्ञापकांगवत् ॥” इति । किं चार्थाभिधानप्रत्यायनात् तुल्यनामत्वात्तदन्यतमस्यापह्नवे सकलव्यवहारविलोपात्तेषां भ्रातत्वैकाते कस्यचिदम्रांतस्य तत्त्वस्याप्रतिष्ठितेरवश्यं परमार्थसत्त्वमुररीकर्तव्यं । तथा चार्थाभिधानप्रत्ययात्मना स्यादस्त्येव जीवादिस्तद्विपरीतात्मना तु स एव नास्तीति भंगद्वयं सर्वप्रवादिनां सिद्धमन्यथा खेष्टतत्त्वाव्यवस्थितेः । तथा चोक्तं । “सदेव सर्व को नेच्छेत्खरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥” इति कथमवक्तव्यो जीवादिः? द्वाभ्यां यथोदितप्रकाराभ्यां प्रतियोगिभ्यां धर्माभ्यामवधारणात्मकाभ्यां युगपत्प्रधाननयाप्तिाभ्यामेकस्य वस्तुनो भवित्सायां तादृशस्य शब्दस्य प्रकरणादेश्चासंभवादिति केचित् । तत्र कोयं गुणानां युगपद्भावो नामेति चित्यं । कालाद्यभेदवृत्तिरिति चेत् न, परस्परविरुद्धानां गुणानामेकत्र वस्तुन्येकस्मिन् काले वृत्तेरदर्शनात् सुखदुःखादिवत् । नाप्यात्मरूपेणाभेदवृत्तिस्तेषां युगपद्भावस्तदात्मरूपस्य परस्परविभक्तत्वात्तद्वत् । न चैकद्रव्याधारतया वृत्तियुगपद्भावस्तेषां भिन्नाधारतया प्रतीतेः शीतोष्णस्पर्शवत् । संबंधाभेदो युगपद्धावइत्यप्ययुक्तं, तेषां संबंधस्य भिन्नत्वाद्देवदत्तस्य छत्रदंडादिसंबंधवत् समवायस्याप्येकत्वाघटनाद्भिन्नाभिधानप्रत्ययहेतुत्वात् संयोगवत् । न चोपकाराभेदस्तेषां युगपद्भावः प्रतिगुणमुपकारस्य भिन्नत्वान्नीलपीताद्यनुरंजनवत् पटादौ । न चैकदेशो गुणिनः संभवति निरंशत्वोपगमात् । यतो गुणिदेशाभेदो युगपद्भावो गुणानामुपपद्येत । न तेषामन्योन्यं संसर्गों युगपद्भावस्तस्यासंभवादासंसृष्टरूपत्वाद्गुणानां शुक्लकृष्णादिवत् तत्संसर्गे गुणभेदविरोधात् । न च शब्दाभेदो युगपद्भावो गुणानां भिन्नशब्दाभिधेयत्वान्नीलादिवत् । ततो युगपद्भावात् सदसत्त्वादिगुणानां न तद्विवक्षा युक्ता यस्यामवक्तव्यं वस्तु स्यात् इत्येकांतवादिनामुपद्रवः, स्याद्वादिनां कालादिभिरभेदवृत्तेः परस्परविरुद्धष्वपि गुणेषु सत्त्वादिष्वेकत्र वस्तुनि प्रसिद्धेः प्रमाणे तथैव प्रतिभासनात् खरूपादिचतुष्टयापेक्षया विरोधाभावात् । केवलं युगपद्वाचकाभावात्सदसत्त्वयोरेकत्रावाच्यता सत्तामात्रनिबंधनत्वाभावाद्वाच्यतायाः । विद्यमानमपि हि सदसत्त्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन वक्तुमशक्यं तस्यासत्त्वप्रतिपादनासमर्थत्वात् तथैवासदित्यभिधानेन तद्वक्तुमशक्यं तस्य सत्त्वप्रत्यायने सामर्थ्याभावात् । सांकेतिकमेकपदं तदभिधातुं समर्थमित्यपि न सत्यं, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामोपपत्तेः । तौ सदिति शतृशानयोः संकेतितसच्छब्दवत् द्वंद्ववृत्तिपदं तयोः सकृदभिधायकमित्यनेनापास्तं, सदसत्त्वे इत्यादिपदस्य क्रमेण धर्मद्वयप्रत्यायनसमर्थत्वात् । कर्मधारयादिवृत्तिपदमपि न तयोरभिधायकं, तत एव प्रधानभावेन धर्मद्वयप्रत्यायने तस्यासामर्थ्याच्च । वाक्यं तयोरभिधायकमनेनैवापास्तमिति सकलवाचकरहितत्वादवक्तव्यं वस्तु युगपत्सदसत्त्वाभ्यां प्रधानभावार्पिताभ्यामाक्रांतं व्यवतिष्ठते तच्च न सर्वथैवावक्तव्यमेव शब्देनास्य वक्तव्यत्वादित्येके । ते च पृष्टव्याः । किमभिधेयमवक्तव्यशब्दस्येति ? युगपत्प्रधानभूतसदसत्त्वादिधर्मद्वयाक्रांतं वस्त्विति चेत् , कथं तस्य सकलवाचकरहितत्वं? अवक्तव्यपदस्यैव तद्वाचकस्य सद्भावात् । यथा वक्तव्यमिति पदं सांकेतिकं तस्य वाचकं तथान्यदपि किं न भवेत् ? तस्य क्रमेणैव तत्प्रत्यायकत्वादिति चेत् , तत एवावक्तव्यमितिपदस्य तद्वाचकत्वं माभूत् । ततोपि हि सकृत्प्रधानभूतसदसत्त्वादिधर्माक्रांतं वस्तु क्रमे Page #150 -------------------------------------------------------------------------- ________________ १४१ प्रथमोऽध्यायः। णैव प्रतीयते सांकेतिकपदांतरादिव विशेषाभावात् वक्तव्यत्वाभावस्यैवैकस्य धर्मस्थावक्तव्यपदेन प्रत्यायनाच न तथाविधवस्तुप्रत्यायनं सुघटं येनावक्तव्यपदेन तब्यक्तमिति युज्यते । कथमिदानीं “अवाच्यतैकांतेप्युक्ति वाच्यमिति युज्यते” इत्युक्तं घटते ? सकृद्धर्मद्वयाक्रांतत्वेनेव सत्त्वाचेकैकधर्मसमाक्रांतत्वेनाप्यवाच्यत्वे वस्तुनो वाच्यत्वाभावधर्मेणाक्रांतस्यावाच्यपदेनाभिधानं न युज्यते इति व्याख्यानात् । • येन रूपेणावाच्यं तेनैव वाच्यमवाच्यशब्देन वस्त्विति व्याचक्षाणो वस्तु येनात्मना सत् तेनैवासदिति विरोधान्नोभयैकात्म्यं वस्तुन इति कथं व्यवस्थापयेत् ? सर्वत्र स्याद्वादन्यायविद्वेषितापत्तेः । ततो वस्तुनि मुख्यवृत्त्या समानबलयोः सदसत्त्वयोः परस्पराभिधानव्याघातेन व्याघाते सतीष्टविपरीतनिर्गुणत्वापत्तेः । विवक्षितोभयगुणेनाभिधानात् अवक्तव्योर्थ इत्ययमपि सकलादेशः परस्परावधारितविविक्तरूपैकात्मकाभ्यां गुणाभ्यां गुणिविशेषणत्वेन युगपदुपक्षिप्ताभ्यामविवक्षितांशभेदस्य वस्तुनः समस्तैकेन गुणरूपेणाभेदवृत्त्याभेदोपचारेण वाभिधातुं प्रक्रांतत्वात् । स चावक्तव्यशब्देनान्यैश्च पड़िर्वचनैः पर्यायांतरविवक्षया च वक्तव्यत्वात्स्यादव्यक्तव्य इति निर्णीतमेतत् । एतेन सर्वथा वस्तु सत् खलक्षणमवक्तव्यमेवेतिमतमपास्तं खलक्षणमनिर्देश्यमित्यादिवचनव्यवहारस्य तत्राभावप्रसंगात् । यदि पुनरखलक्षणं शब्देनोच्यते निर्देश्यव्यावृत्त्या च निर्देश्यशब्देन विकल्पप्रतिभासिन एवाभिधानात् न तु वस्तु रूपं परामृश्यत इति मतं, तदा कथं वस्तु तथा प्रतिपन्नं स्यात् ? तथा व्यवसायादिति चेत्, सोपि व्यवसायो यदि वस्तुसंस्पर्शी शब्दस् स्पृशतु करणवत् । न हि करणजनितं ज्ञानं वस्तु संस्पृशति न पुनः करणमिति युक्तं । करणमुपचारात्तत्स्पृशतीति चेत् तथा शब्दोपीति समानं । शब्दजनितो व्यवसायोपि न वस्तु संस्पृशतीति चेत् कथं ततो वस्तुरूपं प्रत्येयं? भ्रांतिमात्रादिति चेत्, न हि परमार्थतस्तदनिर्देश्यमवधारणं वा सिद्ध्येत् । दर्शनात्तथा तसिद्धिरिति चेत् न, तस्यापि तत्रासामर्थ्यात् । न हि प्रत्यक्षं भावस्यानिर्देश्यतां प्रत्येति निर्देशयोग्यस्य साधारणासाधारणरूपस्य वस्तुनस्तेन साक्षात्करणात् । खलक्षणव्यक्तिरिक्ता केयं निर्देश्यता साधारणता वा प्रतिभातीति चेत् तस्यासाधारणतानिर्देश्यता वा केति समः पर्यनुयोगः । खलक्षणत्वमेव सेति चेत् समः समाधिः, साधारणतानिर्देश्यतयोरपि तत्वरूपत्वात् । तर्हि निर्देश्यं साधारणमिति खलक्षणमेव नामांतरेणोक्तं स्यादिति चेत् तवाप्यसाधारणमनिर्देश्यमिति किं न नामांतरेण तदेवाभिमतं । तथेष्टौ वस्तु न साधारणं नाप्यसाधारणं न निर्देश्य नाप्यनिर्देश्यमन्यथा चेत्यायातं । ततोऽकिंचिद्रूपं जात्यंतरं भवन्न दूरीकर्तव्यं गत्यंतराभावात् । तदकिंचिद्रूपं चेत् कथं वस्तु व्याघातं सकृत्कल्पितरूपाभावादकिंचिद्रूपं नानुभूयमानरूपाभावादिति चेत् तवाप्यसाधारणं । तत्किमिदानीमनुभूयमानरूपं वस्तु स्थितं तथा वा ? स्थाने तैमिरिकानुभूयमानमपीदुद्वयं वस्तु स्यात् । सुनिर्णीतासंभवबाधकप्रमाणं वस्तु नान्यदिति चेत् तर्हि यथा प्रत्यक्षतोनुभूयमानं तादृशं वस्तु तद्वल्लिंगशब्दादिविकल्पोपदर्शितमपि देशकालनरांतराबाधितरूपत्वे सति किं नाभ्युपेयते विशेषाभावात् । ततो जात्यंतरमेव सर्वथैकांतकल्पनातीतं वस्तुत्वमित्युक्तेः स्यादवक्तव्यमिति सूक्तं "क्रमार्पिताभ्यां तु सदसत्त्वाभ्यां विशेषितं" । जीवादि वस्तु स्यादस्ति च नास्ति चेति वक्तुं शक्यत्वाद्वक्तव्यं स्यादस्तीत्यादिवत् । कथमस्त्यवक्तव्यमिति चेत् प्रतिषेधशब्देन वक्तव्यमेवास्तीत्यादि विधिशब्देनावक्तव्यमित्येके तदयुक्तं, सर्वथाप्यस्तित्वेनावक्तव्यस्य नास्तित्वेन वक्तव्यतानुपपत्तेः विधिपूर्वकत्वात् प्रतिषेधस्य । सर्वथैकांतप्रतिषेधोपि हि विधिपूर्वक एवान्यथा मिथ्यादृष्टिगुणस्थानाभावप्रसंगात् । दुर्नयोपकल्पितं रूपं सुनयप्रमाणविषयभूतं न भवतीति प्रतिषेधे सर्वथैकांतस्य न कश्चिद्याघातः । अस्तित्वविशिष्टतया सहार्पिततदन्यधर्मद्वयविशिष्टतया च वस्तुनि प्रतिपित्सिते तदस्त्यवक्तव्यमित्यन्ये, तदप्य Page #151 -------------------------------------------------------------------------- ________________ १४२ तत्त्वार्थश्लोकवार्तिके [सू० ७ सारं । तत्रास्त्यवक्तव्यावक्तव्यादिभंगांतरप्रसंगात् । ततोपि सहार्पिततदन्यधर्मद्वयविशिष्टस्य ततोप्यपरसहार्पितधर्मद्वयविशिष्टस्य वस्तुनो विवक्षाया निराकर्तुमशक्तेः प्रतियोगिधर्मयुगलानामेकत्र वस्तुन्यनंतानां संभवात् तेषां च सहार्पितानां वक्तुमशक्यत्वात् अस्त्यनंतावक्तव्यं वस्तु स्यात् तच्चानिष्टं । येन रूपेण वस्त्विति तेन तत्प्रतियोगिना च सहाक्रांतं यदा प्रतिपत्तुमिष्टं तदास्त्यवक्तव्यमिति केचित् , तेपि यावद्भिः खभावैः यावंति वस्तुनोस्तित्वानि तत्प्रतियोगिभिस्तावद्भिरेव धर्मः, यावंति च नास्तित्वानि तद्युगलैः सहार्पि- . तैस्तावत्यवक्तव्यानि च रूपाणि ततस्तावत्यः सप्तभंग्य इत्याचक्षते चेत् प्रतिष्ठत्येव युक्त्यागमाविरोधात् । एतेन नास्त्यवक्तव्यं चिंतितं प्रत्येयं, स्यादस्ति नास्त्यवक्तव्यं च वस्त्विति प्रमाणसप्तभंगी सकलविरोधवैधुर्यात् सिद्धा । नयसप्तभंगी तु नयसूत्रे प्रपंचतो निरूपयिष्यते । ततः परार्थोधिगमः प्रमाणनयैर्वचनात्मभिः कर्तव्यः स्वार्थ इव ज्ञानात्मभिः, अन्यथा कात्येनैकदेशेन च तत्त्वार्थाधिगमानुपपत्तेः ॥ तदेवं संक्षेपतोधिगमोपायं प्रतिपाद्य मध्यमप्रस्थानतस्तमुपदर्शयितुमनाः सूत्रकारः प्राह; निर्देशवामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ निर्देशादीनामितरेतरयोगे द्वंद्वः करणनिर्देशश्च बहुवचनांतः प्रत्येयस्तथा तसि विधानात् । स्थितिशब्दस्य स्वतंत्रत्वादल्पाक्षरत्वाच्च पूर्वनिपातोस्त्विति न चोद्यं, बहुप्वनियमात् । सर्वस्य निर्देशपूर्वकत्वात्खामित्वादिनिरूपणस्य पूर्व निर्देशग्रहणमर्थान्न्यायान्न विरुध्यते स्वामित्वादीनां तु प्रश्नवशात् क्रमः । ननु च संक्षिप्तैः प्रमाणनयैः संक्षेपतोऽधिगमो वक्तव्यो मध्यमप्रस्थानतस्तैरेव मध्यमप्रपंचैर्न पुननिर्देशादिभिस्ततो नेदं सूत्रमारंभणीयमित्यनुपपत्तिचोदनायामिदमाह;निर्देशाद्यैश्च कर्तव्योधिगमः कांश्चन प्रति । इत्याह सूत्रमाचार्यः प्रतिपाद्यानुरोधतः ॥ १॥ ये हि निर्देश्यमानादिषु स्वभावेषु तत्त्वान्यप्रतिपन्नाः प्रतिपाद्यास्तान् प्रति निर्देशादिभिस्तेषामधिगमः कर्तव्यो न केवलं प्रमाणनयैरेवेति सूक्तं निर्देशादिसूत्रं विनेयाशयवशवर्तित्वात्सूत्रकारवचनस्य । विनेयाशयः कुतस्तादृश इति चेत् ततोन्यादृशः कुतः तथा विवादादिति । तत एवायमीदृशोस्तु न्यायस्य समानत्वात् ॥ किं पुनर्निर्देशादय इत्याह;यत्किमित्यनुयोगेर्थखरूपप्रतिपादनम् । कास्य॑तो देशतो वापि स निर्देशो विदां मतः ॥२॥ कस्य चेत्यनुयोगे सत्याधिपत्यनिवेदनं । स्वामित्वं साधनं केनेत्यनुयोगे तथा वचः ॥३॥ केति पर्यनुयोगे तु वचोधिकरणं विदुः । कियच्चिरमिति प्रश्ने प्रत्युत्तरवचः स्थितिः ॥४॥ कतिधेदमिति प्रश्ने वचनं तत्त्ववेदिनाम् । विधानं कीर्तितं शब्दं तत्त्वज्ञानं च गम्यताम्॥५॥ किं कस्य केन कस्मिन् कियच्चिरं कतिविधं वा वस्तु तद्रूपं चेत्यनुयोगे कायेन देशेन च तथा प्रतिवचनं । निर्देशादय इति वचनात् प्रवक्तुः पदार्थाः शब्दात्मकास्ते प्रत्येयाः तथा प्रकीर्तितास्तु सर्वे सामर्थ्यात्ते ज्ञानात्मका गम्यतेऽन्यथा तदनुपपत्तेः । सत्यज्ञानपूर्वका मिथ्याज्ञानपूर्वका वा? शब्दा निर्देशादयः सत्या नाम सुषुप्तादिवत् , नाप्यसत्या एव ते संवादकत्वात् प्रत्यक्षादिवत् ॥ किं खभावनिर्देशादिभिरर्थस्याधिगमः स्यादित्याह;तैराधिगमो भेदात्स्यात्प्रमाणनयात्मभिः । अधिगम्यस्वभावैर्वा वस्तुनः कर्मसाधनः ॥ ६॥ कर्तृस्थोऽधिगमस्तावद्वस्तुनः साकल्येन प्रमाणात्मभिर्भेदेन निर्देशादिभिर्भवतीति प्रमाणविशेषास्त्वते । Page #152 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। देशस्तु नयात्मभिरिति नयाः ततो नाप्रमाणनयात्मकैस्तैरधिगतिरिष्टा यतो व्याघातः । कस्य पुनः प्रमाणस्यैते विशेषाः श्रुतस्यास्पष्टसर्वार्थाविषयता प्रतीतिरिति केचित् । मतिश्रुतयोरित्यपरे । तेत्र प्रष्टव्याः । कुतो मतेर्भेदास्ते इति ? मतिपूर्वकत्वादुपचारादिति चेन्न, अवधिमनःपर्ययविशेषत्वानुषंगात् । यथैव हि मत्यार्थ परिच्छिद्य श्रुतज्ञानेन परामृशन्निर्देशादिभिः प्ररूपयति तथावधिमनःपर्ययेण वा । न चैवं, • श्रुतज्ञानस्य तत्पूर्वकत्वप्रसंगः साक्षात्तस्यानिद्रियमतिपूर्वकत्वात् परंपरया तु तत्पूर्वकत्वं नानिष्टं । शब्दात्मनस्तु श्रुतस्य साक्षादपि नावधिमनःपर्ययपूर्वकत्वं विरुध्यते केवलपूर्वकत्ववत् । ततो मुख्यतः श्रुतस्यैव भेदा निर्देशादयः प्रतिपत्तव्याः किमुपचारेण, प्रयोजनाभावात् । तत एव श्रुतैकदेशलक्षणनयविशेषाश्च ते व्यवतिष्ठते । येषां तु श्रुतं प्रमाणमेव तेषां तद्वचनमसाधनांगतया निग्रहस्थानमासज्यत इति क्वचिस्कथंचित्प्रश्नप्रतिवचनव्यवहारो न स्यात् । खपरार्थानुमानात्मकोसौ इति चेन्न, तस्य सर्वत्राप्रवृत्तेरत्यंतपरोक्षेष्वर्थेषु तदभावप्रसंगात् । न च श्रुतादन्यदेव खार्थानुमानं मतिपूर्वकं परार्थानुमानं चेति, तद्भेदत्वमिष्टमेव निर्देशादीनां । प्रामाण्यं पुनः श्रुतस्याग्रे समर्थयिष्यत इति नेह प्रतन्यते । कर्मस्थः पुनरधिगमोर्थानामधिगम्यमानानां खभावभूतैरेव निर्देशादिभिः कात्स्यैकदेशाभ्यां प्रमाणनयविषयैर्व्यवस्थाप्यते । निर्देश्यमानत्वादिभिरेव धर्मैरर्थानामधिगतिप्रतीतेः कर्मत्वात्तेषां कथं करणत्वेन घटनेति चेत् , तथा प्रतीतेः । अग्नेरुष्णत्वेनाधिगम इत्यत्र यथा । नन्वनेः कर्मणः करणमुष्णत्वं भिन्नमेवेति चेत् न, तद्भेदैकांतस्य निराकरणात् । कथंचिद्भेदस्तु समानोन्यत्र । न हि निर्देशत्वादयो धर्माः करणतया समभिधीयमाना जीवादेः कर्मणः पर्यायार्थाद्भिन्ना नेष्यते । द्रव्यात्तु ततस्तेषामभेदेपि भेदोपचारात्कर्मकरणनिर्देशघटनेति केचित् । परे पुनः कर्मसाधनाधिगमपक्षे निर्देश्यत्वादीनां कर्मतया प्रतीतेः करणत्वमेव नेच्छंति तेषां विशेषणत्वेन घटनात् । न हि यथाग्निरुष्णत्वेन विशिष्टोधिगमोपायैरधिगम्यत इति प्रतीतिरविरुद्धा तथा सर्वेर्था निर्देश्यादिभिर्भावैरधिगम्यंत इति निर्णयोप्यविरुद्धो नावधार्यते । तथा सति परापरकरणपरिकल्पनायां मुख्यतो गुणतो वानवस्थाप्रसक्तिरपि निवारिता स्यात् । तदपरिकल्पनायां वा वाभिमतधर्माणामपि करणत्वं मा भूदित्यपि चोद्यमानमनवकाश्यं स्यात् । नन्वेवमपरापरविशेषणकल्पनायामप्यनवस्था विशेषणांतररहितस्य वा जीवादेः खाभिमतधर्मविशेषणैः प्रतिपत्तौ तैरपि रहितस्य प्रतिपत्तिरस्तु विशेषाभावादिति चेन्न, विशेष्यात् कथंचिदभिन्नत्वाद्विशेषणानां । वस्तुतोऽनंता विधयोपि हि धर्मा निर्देशादिभिः संगृहीता विशेषणान्येव, तव्यतिरिक्तस्य धर्मस्यासंभवात् । तत्र जीवादिवस्तु विशेष्यमेव द्रव्यार्थादेशात् निर्देश्यत्वादि विशेषणमेव पर्यायार्थात् । प्रमाणादेशादपि विशेषणविशेष्यात्मकं वस्तु जात्यंतरमिति प्ररूपणायां नोक्तदोषावकाशः । नन्वेवं निर्देशादिधर्माणां करणत्वपक्षेपि न परापरधर्मकरणत्वपरिकल्पनादनवस्था तव्यतिरेकेण परापरधर्माणामभावात्तेषां तु करणत्वं तैरधिगम्यमानस्यार्थस्य कर्मता नयादेशात् , प्रमाणादेशात्तु कर्मकरणात्मकं जात्यंतरं वस्तु प्ररूप्यते इति न किंचिदवद्यं । नैतत्साधीयः । करणत्वे निर्देशादीनां कर्मसाधनतानुपपत्तेः विशेषणत्वे तु तदुपपत्तेः । विशेषणविशेष्यभूतस्य जीवाद्यर्थस्य कर्मसाधनोधिगमः प्रतिपत्तुं शक्यत इति विशेषणत्वपक्ष एव श्रेयान् सकलविशेषणरहितत्वाद्वस्तुनो न संभवत्येव निर्दिश्यमानरूपमिति मतमपाकुर्वन्नाह; भावा येन निरूप्यते तद्रूपं नास्ति तत्त्वतः । तत्स्वरूपवचो मिथ्येत्ययुक्तं निःप्रमाणकम् ॥७॥ यत्तदेकमनेकं च रूपं तेषां प्रतीयते । प्रत्यक्षतोनुमानाच्चाबाधितादागमादपि ॥ ८॥ न हि प्रत्यक्षानुमेयागमगम्यमानानामर्थानां प्रत्यक्षानुमानागमैरेकमनेकं च रूपं परस्परापेक्षं न Page #153 -------------------------------------------------------------------------- ________________ १४४ तत्वार्थ लोकवार्त [सू० ७ प्रतीयते परस्परनिराकरणप्रवणस्यैव तस्याप्रतीतेः । न चाप्रतीयमानस्य सर्वथैकांतस्याप्यवस्थितौ प्रतीयमानस्यापि जात्यंतरस्यावस्थितिर्नाम खेष्टरूपस्यापि तत्प्रसंगात् । तथा चैकरूपाभावस्य भावेष्वनवस्थितौ स्यादेवैकरूपस्य विधिस्तदनवस्थितौ अनेकरूपस्य परस्परव्यवच्छेदरूपयोरेकतरप्रतिषेधोन्यतरस्य विधेरवश्यं भावान्नीलत्वानीलत्ववत् परस्परव्यवच्छेदखभावौ एकरूपभावाभावौ प्रतीतौ, तदनेनानेकरूपाभावस्य भावेष्वनवस्थितावनेकरूपस्य विधिस्तदनवस्थितावेकरूपस्य निवेदितः समानत्वान्न्यायस्य न तु वाध्यक्षे. सकलधर्मरहितस्य स्वलक्षणस्य प्रतिभासनात् न तत्रैकमनेकं वा रूपं परस्परं सापेक्षं निरपेक्षं वा तद्रहितत्वं वा प्रतिभाति कल्पनारोपितस्य तु तथा प्रतिभासनस्य तत्त्वतोसत्त्वात् । संवृत्त्या तत्सद्भावोभीष्ट एव । तथा चैकरूपतदभावयोरनेकरूपतदभावयोश्चैकानेकरूपयोः परस्परव्यवच्छेदस्वभावयोरेकतरस्य प्रतिषेधेऽन्यतरस्य विधेरवश्यंभावेपि न किंचिद्विरुद्धं, भावाभावोभयव्यवहारस्यानादिशब्द विकल्पवासनोद्भूतविकल्पपरिनिष्ठितस्य शब्दार्थतयोपगमात् । तदुक्तं । “अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । शब्दार्थस्त्रिविधो धर्मो भावाभावो भयाश्रयः ||" इति केचित् । तेपि नानवद्यवचसः । सुखनीलादीनामपि रूपाणां कल्पितत्वप्रसंगात् । स्पष्टमवभासमानत्वान्न तेषां कल्पितत्वमिति चेन्न, स्वप्नावभासिभिरने - कांतात् । न हि चैषामपि कल्पितत्वं मानसविश्रमात्मना वनस्योपगमात् तस्य करणजविभ्रमात्मनोपगमे वा कथमिंद्रियजविभ्रमात्तद्धांतेः पृथक् प्ररूपणं न विरुध्यते । मानसविभ्रमत्वेपि विशदत्वं खमस्य विरुध्यत इति चेन्न, विशदाक्ष ज्ञानवासनासद्भूतत्वेन तस्य वैशद्यसंभवात् । न च तत्र विशदरूपतयावभासमानानामपि सुखनीलादीनां पारमार्थिकत्वं विसंवादात् । तद्वज्जाग्रद्दशायामपि तेषामनादींद्रियादिजज्ञानवासनोद्भूतप्रतिभासपरिनिष्ठितत्वात्प्रत्यक्षा एव ते न वस्तुस्वभावा इति शक्यं वक्तुं । बाधकाभावाद्वास्तवास्ते इति चेत्, शब्दार्थास्तथा संतु । न चाभावस्यापि शब्दार्थत्वात्सर्वशब्दार्थानामवास्तवत्वमिति युक्तं, भावांतररूपत्वादभावस्य । ननु तुच्छाभावस्याशब्दार्थत्वे कथं प्रतिषेधो नाम निर्विषयप्रसंगादिति चेन्न, वस्तुस्वभावस्याभावस्य विधानादेव तुच्छखभावस्य तस्य प्रतिषेधसिद्धेः क्वचिदनेकांतविधानात् । सर्वथैकांतप्रतिषेधसिद्धिवत् तथा तस्य मुख्यः प्रतिषेधो न स्यादिति चेन्न किंचिदनिष्टं, न हि सर्वस्य मुख्येनैव प्रतिषेधेन भवितव्यं गौणेन वेति नियमोस्ति यथाप्रतीतस्योपगमात् । ननु गौणेपि प्रतिषेधे तुच्छाभावस्य शब्दार्थत्वसिद्धिर्गम्यमानस्य शब्दार्थत्वाविरोधात् सर्वथैकांतवदिति चेन्न, तस्यागम्यमानत्वात्तद्वत् । यथैव हि वस्तुनोनेकांतात्मकत्वविधानात् सर्वथैकांताभावो गम्यते न सर्वथैकांतस्तथा वस्तुरूपस्याभावस्य विधानात्तुच्छाभावस्याभावो न तु स गम्यमानः । ननु तुच्छाभावस्याभावगतौ तस्य गतिरवश्यंभाविनी प्रतिषेध्यनांतरीयकत्वात् प्रतिषेघस्येति चेन्न, व्याघातात् । तुच्छाभावस्याभावश्च कुतश्चिद्गम्यते भावश्चेति को हि ब्रूयात्स्वस्थः । ननु वस्तुरूपस्याभावस्य विधानात्तुच्छाभावस्याभावगतिस्ततेस्तस्य गतिस्ततो न व्याघातो नाम, यत एव हि तस्याभावगतिस्तत एव भावस्यापि गतौ व्याघातो नान्यथेति चेन्न, सामस्त्येन तस्याभावगतौ पुनर्भावगतेर्व्याहतेरवस्थानात् । प्रतिनियतदेशादितया तु कस्यचिदभावगतावपि न भावगतिर्विहन्यत इति युक्तं । कथमिदानीं “ संज्ञिनः प्रतिषेधो न प्रतिषेध्याहते कचित्” इति मतं न विरुध्यते ? तुच्छाभावस्य प्रतिषेध्यस्याभावेपि प्रतिषेधसिद्धेरन्यथा तस्य शब्दार्थतापत्तेरिति चेन्न, संज्ञिनः सम्यग्ज्ञानवतः प्रतिषेध्याहते न क्वचिदंतर्बहिर्वा प्रतिषेध इति व्याख्यानात्तदविरोधात् । सकलप्रमाणाविषयस्य तुच्छाभावस्य प्रतिषेधः स्वयमनुभूतसकलप्रमाणाविषयत्वेन तदनुवदनमेवेति स्यात्प्रतिषेधादृते प्रतिषेधः स्यान्नेत्यनेकांतवादिनामविरोधः प्रमाणवृत्तांतवादपरत्वात्तेषां । न हि यथा जीवादिवस्तु प्रतिनियतदेशादितया विद्यमानमेव देशांतरादितया नास्तीति प्रमाणमुप Page #154 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १४५ दर्शयति तथा तुच्छाभावं तस्य भावरूपत्वप्रसंगात् । सर्वत्र सर्वदा सर्वथा वस्तुरूपमेवाभावं तदुपदर्शयति तथा तुच्छाभावाभावमुपदर्शयतीति तद्वचने दोषाभावः । नन्वेवं तुच्छाभावसदृशस्यानर्थकत्वे प्रयोगो न युक्तोतिप्रसंगात्, प्रयोगे पुनरर्थः कश्चिद्वक्तव्यः स च बहिर्भूतो नास्त्येव च कल्पनारूढस्त्वन्यव्यवच्छेद एवोक्तः स्यात्तद्वत्सर्वशब्दानामन्यापोहविषयत्वे सिद्धेर्न वास्तवाः शब्दार्था इति चेत् " नैतदपि सारं, अभावशब्दस्याभावसामान्य विषयत्वात्तस्य विवादापन्नत्वात् । सर्वो हि किमयमभावो वस्तुधर्मः किं वा तुच्छ इति प्रतिपद्यते न नास्तीति प्रत्ययार्थोऽभावमात्रे । तत्र च वस्तुधर्मतामभावस्याचक्षाणाः स्याद्वादिनः कथमभावशब्दं कल्पितार्थं स्वीकुर्युः ? स्वयं तुच्छरूपतां तु तस्य निराकुर्वतः परैरारोपितामाशंकितां वानुवदतीत्युक्तप्रायं । न चात्यंतासंभविनो रूपस्य वस्तुन्यारोपितस्य केनचिदाशंकितस्य चातुच्छादेः सर्वशब्दानामन्यव्यवच्छेदविषयत्वप्रसंजनं प्रायः प्रतीतिविरोधात् । कथमन्यथा कस्यचित्प्रत्यक्षस्य नीलविषयत्वे सर्वप्रत्यक्षाणां नीलविषयत्वप्रसंजनं नानुज्ञायते सर्वथा विशेषाभावात् । अथ यत्र प्रत्यक्षे नीलं प्रतिभासते निर्बाधात्तन्नीलविषयं यत्र पीतादि तत्तद्विषयमित्यनुगम्यते तर्हि यत्र शाब्दे ज्ञाने वस्तुरूपमकल्पितमाभाति तद्वस्तुरूपविषयं यत्र तु कल्पनारोपितरूपं तत्तद्गोचरमित्युक्तं । ततः शब्दार्थानां भावाभावोभयधर्माणामभावादिवासनोदितविकल्पपरिनिष्ठितत्वे प्रत्यक्षार्थानामपि तत्स्यात् तेषां बाधकाभावात् । पारमार्थिकत्वे वा तत एव शब्दार्थानामपि तद्भवेदिति न प्रतिपादितविरोधाभावः । यदप्युक्तं प्रत्यक्षे सकलधर्मरहितस्य स्वलक्षणस्य प्रतिभासनान्न तत्रैकमनेकं वा रूपं वा परस्परसापेक्षं वा निरपेक्षं वा तद्रहितं वा प्रतिभातीति । तदपि मोहविलसितमेव, अनेकांतात्मकवस्तुप्रतीतेरपह्नवात् । को हि महामोहविडंबितः प्रतिभासमानमाबालमबाधितमेकमनेकाकारं वस्तु प्रत्यक्षविषयतयानादृत्य कथमप्यप्रतिभासमानं ब्रह्मतत्त्वमिव स्वलक्षणं तथा आचक्षीत ? अतिप्रसंगात् तथानुमानादागमाच्च भावस्यैकानेकरूपविशिष्टस्य प्रतीयमानत्वान्न “ भावा येन निरूप्यते तत्त्वतः” इति वचनं निःप्रमाणकमेवोररीकार्य, यतः खरूपवचनं सूत्रे मिथ्या स्यात् । यथा च प्रत्यक्षमनुमानमागमो वानेकांतात्मकं वस्तु प्रकाशयति स्वनिर्णीताबाधं तथाग्रे प्रपंचयिष्यते । किं च- निःशेषधर्मनैरात्म्यं स्वरूपं वस्तुनो यदि । तदा न निःस्वरूपत्वमन्यथा धर्मयुक्तता ॥ ९ ॥ तत्त्वं सकलधर्मरहितत्वमकल्पनारोपितं प्रत्यक्षतः स्फुटमवभासमानं वस्तुनः खरूपमेव, तेन तस्य न निःखरूपत्वमितीष्टसिद्धं । कल्पनारोपितं तु तन्न वस्तुनः स्वरूपमाचक्ष्महे । न च कल्पितनिःशेषधर्मनैरात्म्यस्यात्मखरूपत्वे वस्तुनो निःशेषधर्मयुक्ततानिष्टा, कल्पितसकलधर्मयुक्तस्य तस्येष्टत्वात् । वस्तुकृताखिलधर्मसहितता तु न शक्यापादयितुं तया वस्तुनि कल्पित निःशेषधर्मनैरात्म्यस्वरूपत्वस्याविनाभावात् तामंतरेणापि तस्योपपत्तेरिति केचित् । तेपि महामोहाभिभूतमनसः । स्वयं वस्तुभूतसकलधर्मात्मकतायाः खीकरणेपि तदसंभवाभिधानात् । कल्पिताखिलधर्मरहितत्वं हि वस्तुनः स्वरूपं ब्रुवाणेन वस्तुभूतसकलधर्मसहितता स्वीकृतैव तस्य तन्नांतरीयकत्वात् । कल्पनापोढं प्रत्यक्षमित्यत्र कल्पनाकाररहितत्वस्य वस्तुभूताकारनांतरीयकत्वेन प्रत्यक्षे तद्वचनात्तत्सिद्भिवत् तथा कल्पनाकाररहितत्वस्य वचनाद्वस्तुभूताकारसिद्धिर्न प्रत्यक्षे स्वीकृतैवेति चेत्, तत्किमिदानीं सकलाकाररहितत्वमस्तु तस्य संविदाकारमात्रत्वात्तत्त्वतस्तथापि नेति चेत् कथं न वस्तुभूताकारसिद्धिः । न हि संविदाकारो वस्तुभूतो न भवति संविदद्वैतस्याप्यभावप्रसंगात् । ततः कल्पितत्वेन निःशेषधर्माणां नैरात्म्यं यदि वस्तुनः स्वरूपं तदा स्वरूपसंसिद्धिः यस्मादन्यथा वस्तुभूतत्वेना खिलधर्मयुक्तता तस्य सिद्धेति व्याख्या प्रेयसी । अथवा १९ Page #155 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू०७ वस्तुभूतनिःशेषधर्माणां नैरात्म्यं वस्तुनो यदि स्वरूपं तदा तस्य स्वरूपसंसिद्धिस्तत्वरूपस्यानिराकरणात् । अन्यथा तस्य पररूपत्वप्रकारेण तु सैव वस्तुभूतधर्मयुक्तता वास्तवाखिलधर्माभावस्य वस्तुनः परभावे तादृशसकलधर्मासद्भावस्य खात्मभूतत्वप्रसिद्धेरन्यथा तदनुपपत्तेः । अथवा कल्पितानां वस्तुभूतानां च निःशेषधर्माणां नैरात्म्यं वस्तुनः खरूपं यदि तदा तस्य स्वरूपसंसिद्धिरन्यथा कल्पिताकल्पितसकलधर्मयुक्तता तस्येति व्याख्येयं सामान्येन निःशेषधर्मवचनात् । व्याघातश्चास्मिन् पक्षे नाशंकनीयः कल्पितानां वस्तुभूतानां च धर्माणां वस्तुनि यथाप्रमाणोपपन्नत्वात् । ततो यत्सकलधर्मरहितं तन्न वस्तु यथा पुरुषाद्यद्वैतं तथा च क्षणिकत्वलक्षणमिति जीवादिवस्तुनः स्वधर्मसिद्धिः सकलधर्मरहितेन धर्मेणानेकांतस्तस्य वस्तुत्वादिति चेन्न, वस्त्वंशत्वेन तस्य प्ररूपितत्वात् वस्तुत्वासिद्धेः । अन्यथा वस्त्वनवस्थानानुषंगात् । तदेवं सर्वथा वस्तुनि खरूपस्य निराकर्तुमशक्तेः सूक्तं निर्देश्यमानत्वमधिगम्यं ॥ न कश्चित्कस्यचित्स्वामी संबंधाभावतोंजसा । पारतंत्र्यविहीनत्वात् सिद्धस्येत्यपरे विदुः १० ___ संबंधो हि न तावदसिद्धयोः खखामिनोः शशाश्वविषाणवत् , नापि सिद्धासिद्धयोस्तत् वंध्यापुत्रवत् । सिद्धयोस्तु पारतंत्र्याभावादेवासंबंध एव अन्यथातिप्रसंगात् । केनचिद्रूपेण सिद्धस्यासिद्धस्य च पारतंत्र्ये सिद्धे परतंत्रसंबंध इत्यपि मिथ्या, पक्षद्वयभाविदोषानुषंगात् । न चैकस्य निष्पन्नानिष्पन्ने रूपे स्तः प्रतीघातात् । तन्न तत्त्वतः संबंधोस्तीति । तदुक्तं । “पारतंत्र्ये हि संबंधे सिद्धे का परतंत्रता । तस्मासर्वस्य भावस्य संबंधो नास्ति तत्त्वतः ॥” इति संबंधमात्राभावे च सिद्धे सति न कश्चित्कस्यचित्वामी नाम यतः स्वामित्वमर्थानामधिगम्यं स्यादित्येके ॥ • तथा स्याद्वादसंबंधो भावानां परमार्थतः । स्वातंत्र्यात् किं न देशादिनियमोद्धूतिरीक्ष्यते ११ पारतंत्र्यस्याभावाद्भावानां संबंधाभावमभिदधानास्तेन संबंधं व्याप्तं क्वचित्प्रतिपद्यते न वा ? प्रतिपद्यते चेत् कथं सर्वत्र सर्वदा संबंधाभावमभिदधुर्विरोधात् । नो चेत् कथमव्यापकाभावादव्याप्याभावसिद्धेः । परोपगमात् तस्य तेन व्याप्तिसिद्धेरदोष इति चेन्न, तथा खप्रतिपत्तेरभावानुषंगात् । परोपगमाद्धि परः प्रतिपादयितुं शक्यः । सर्वथा संबंधाभावान्नाशक्य एव प्रत्यक्षत इति चेन्न, तस्य खांशमात्रपर्यवसानात् । न कश्चित्केनचित्कथंचित्कदाचित्संबंध इतीयतो व्यापारात्कर्तुमसमर्थत्वादन्यथा सर्वज्ञत्वापत्तेः । सर्वार्थानां साक्षात्करणमंतरेण संबंधाभावस्य तेन प्रतिपत्तुमशक्तेः । केषांचिदर्थानां स्वातंत्र्यमसंबंधेन व्याप्तं सर्वोपसंहारेण प्रतिपद्य ततोन्येषामसंबंधप्रतिपत्तिरानुमानिकी स्यादितिचेत् तत्तर्हि खातंत्र्यमर्थानां न तावदसिद्धानां, सिद्धानां तु खातंत्र्यात्संबंधाभावे तत्त्वतः किंन्न देशादिनियमेनोद्भवो दृश्यते तस्य पारतंत्र्येण व्याप्तत्वात् । न हि स्वतंत्रोर्थः सर्वनिरपेक्षतया नियतदेशकालद्रव्यभावजन्मास्ति न चाजन्मा सर्वथार्थक्रियासमर्थः स्वयं तस्याकारणात् । प्रत्यासत्तिविशेषाद्देशादिभिस्तन्नियतोत्पत्तिरर्थस्य स्यादिति चेत् , स एव प्रत्यासत्तिविशेषः संबंधः पारमार्थिकः सिद्ध इत्याह;. द्रव्यतः क्षेत्रतः कालभावाभ्यां कस्यचित्स्वतः । प्रत्यासन्नकृतः सिद्धः संबंधः केनचित्स्फुटः १२' . ___ कस्यचित्पर्यायस्य खतः केनचित्पर्यायेण सहैकत्र द्रव्ये समवायाद्रव्यप्रत्यासत्तिर्यथा स्मरणस्यानुभवेन सहात्मन्येकत्र समवायस्तमंतरेण तत्रैव यथानुभवस्मरणानुपपत्तेः सोममित्रानुभवाद्विष्णुमित्रस्मरणानुपपत्तिवत् । संतानैकत्वादुपपत्तिरिति चेन्न, संतानस्यावस्तुत्वेन तन्नियमहेतुत्वाघटनात् । वस्तुत्वे वा नाममात्रं भिद्येत सतां नो द्रव्यमिति । तथैकसंतानाश्रयत्वमेव द्रव्याद्रव्याश्रयत्वं चेति न कश्चिद्विशेषः यत्संतानो वासनाप्रबोधस्तत्संतानं स्मरणमिति नियमोपगमोपि न श्रेयान् , प्रोक्तदोषानतिक्रमात् । संतानस्यात्म Page #156 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १४७ द्रव्यत्वोपपत्तौ यदात्मद्रव्यपरिणामो वासनाप्रबोधस्तदात्मद्रव्यविवर्तः स्मरणमिति परमतसिद्धेः । कथं परस्परभिन्नखभावकालयोरेकमात्मद्रव्यं व्यापकमिति च न चोद्यं, सकृन्नानाकारव्यापिना ज्ञानेनैकेन प्रतिविहितत्वात् । समसमयवर्तिनो रसरूपयोरेकगुणिव्याप्तयोरनुमानानुमेयव्यवहारयोरेकद्रव्यप्रत्यासत्तिरनेनोक्ता तदभावे तयोस्तव्यवहारयोग्यतानुपपत्तेः । एकसामग्र्यधीनत्वात्तदुपपत्तिरिति चेत् कथमेका• सामग्री नाम ? एकं कारणमिति चेत् , तत्सहकार्युपादानं वा ? सहकारि चेत् कुलालकलशयोर्दण्डादिरेका सामग्री स्यात् समानक्षणयोस्तयोरुत्पत्तौ तस्य सहकारित्वात् । तथा एतयोरनुमानानुमेयव्यवहारयोग्यता अव्यभिचारिणी स्यात् तदेकसामग्र्यधीनत्वात् । एकसमुदायवर्तिसहकारिकारणमेका सामग्री न भिन्नसमुदायवर्ति यतोयमतिप्रसंग इति चेत् , कः पुनरयमेकः समुदायः ? साधारणार्थक्रियानियताः प्रविभागरहिता रूपादय इति चेत् कथं प्रविभागरहितत्वमेकत्वपरिणामाभावे तेषामुपपद्यतेतिप्रसंगात् । सांवृत्यैकत्वपरिणामेनेति चेन्न, तस्य प्रविभागाभावहेतुत्वायोगात् । प्रविभागाभावोपि तेषां सांवृत इति चेन्न हि तत्त्वतः प्रविभक्ता एव रूपादयः समुदाय इत्यापन्नं । न चैवं केषांचित्समुदायेतरव्यवस्था साधारणार्थक्रियानियतत्वेतराभ्यां सोपपन्नेति वा युक्तं, सूर्योबुजयोरपि समुदायप्रसंगात् । तयोरंबुजप्रबोधरव्योः साधारणार्थक्रियानियतत्वात् । ततो वास्तवमेव प्रविभागरहितसमुदायविशेषस्तेषामेकत्वाध्यवसायहेतुरंगीकर्तव्यः । स चैकत्वपरिणामं तात्त्विकमंतरेण न घटत इति सोपि प्रतिपत्तव्य एव, स चै द्रव्यमिति सिद्धं । खगुणपर्यायाणां समुदायस्कंध इति वचनात् । तथासति रसरूपयोरेकार्थात्मकयोरेकद्रव्यप्रत्यासत्तिरेव लिंगलिंगिव्यवहारहेतुः कार्यकारणभावस्यापि नियतस्य तदभावेनुपपत्तेः संतानांतरवत् । न हि कचित्पूर्वे रसादिपर्यायाः पररसादिपर्यायाणामुपादानं नान्यत्र द्रव्ये वर्तमाना इति नियमस्तेषामेकद्रव्यतादात्म्यविरहे कथंचिदुपपन्नः । एकमुपादानमेका सामग्रीति द्वितीयोपि पक्षः सौगतानामसंभाव्य एव, नानाकार्यस्यैकोपादानवविरोधात् । यदि पुनरेकं द्रव्यमनेककार्योपादानं भवेत्तदा सैवेकद्रव्यप्रत्यासत्तिरायाता । रसरूपयोः क्षेत्रप्रत्यासत्तिर्यथा बलाकासलिलयोरेकस्यां भूमौस्थितयोः संयुक्तसंयोगो हि ततो नान्यः प्रतिष्ठामियति । जन्यजनकभाव एव तयोः परस्परं प्रत्यासत्तिरितिचेन्न, अन्यतरसमुद्भूतायाः परत्र सरसि बलाकाया निवाससंभवात् । नैका बलाका पूर्व सरः प्रविहाय सरोंतरमधितिष्ठंती काचिदस्ति प्रतिक्षणं तद्भेदादितिचेन्न, कथंचित्तदक्षणिकत्वस्य प्रतीतेर्बाधकाभावात्तद्भांतत्वानुपपत्तेः । क्षितेः प्रतिप्रदेशं भेदादेकत्र प्रदेशे बलाकासलिलयोरनवस्थानान्नैव तत्क्षेत्रप्रत्यासत्तिरितिचेन्न, क्षित्याद्यवयविनस्तदाधारस्यैकस्य साधनात् । न चैकस्यावयविनो नानावयवव्यापिनः सकृदसंभवः प्रतीतिसिद्धत्वाद्वेद्याद्याकारव्याप्येकज्ञानवत् । कालप्रत्यासत्तियेथा सहचरयोः सम्यग्दर्शनज्ञानसामान्ययोः शरीरे जीवस्पर्शविशेषयोर्वा पूर्वोत्तरयोर्भरणिकृत्तिकयोः कृत्तिकारोहिण्योर्वा तयोः प्रत्यासत्त्यंतरस्याव्यवस्थानात् । भावप्रत्यासत्तिर्यथा गोगवययोः केवलिसिद्धयोर्वा तयोरेकतरस्य हि यादृग्भावः संस्थानादिरनंतज्ञानादिर्वा तादृक्तदन्यतरस्य सुप्रतीत इति न प्रत्यासत्त्यंतरं कयोश्चिदनेकप्रत्यासत्तिसंबंधे वा न किंचिदनिष्टं प्रतिनियतोद्भूतेः सर्वपदार्थानां द्रव्यादिप्रत्यासत्तिचतुष्टयव्यतिरेकेणानुपपद्यमानत्वेन प्रसिद्धेः । सैव चतुर्विधा प्रत्यासत्तिः स्फुटः संबंधो बाधकाभावादिति न संबंधाभावो व्यवतिष्ठते । ननु च द्रव्यप्रत्यासत्तिरेकेन द्रव्येण कयोश्चित्पर्याययोः क्रमभुवोः सहभुवोर्वा तादात्म्यं तच्च रूपश्लेषः स च द्वित्वे सति संबंधिनोरयुक्त एव विरोधात् तयोरैक्येपि न संबंधः संबंधिनोरभावे तस्याघटनात् द्विष्ठत्वादन्यथातिप्रसंगात् । नैरंतय तयो रूपश्लेषः । इत्यप्ययुक्तं, तस्यांतराभावरूपत्वे तात्त्विकत्वायोगात् प्राप्तिरूपत्वेपि प्राप्तेः । परमार्थतः कास्यैकदेशाभ्यामसंभवाद्गत्यंतराभावात् । कल्पि Page #157 -------------------------------------------------------------------------- ________________ १४८ तत्त्वार्थश्लोकवार्तिके [सू०७ तस्य तु रूपश्लेषस्याप्रतिषेधात् न स तात्त्विकः संबंधोस्ति प्रकृतिभिन्नानां स्वस्वभावव्यवस्थितेः अन्यथा सांतरत्वस्य संबंधप्रसंगादिति केचित् । तदुक्तं । “रूपश्लेषो हि संबंधो द्वित्वे स च कथं भवेत् । तस्मात् प्रकृतिभिन्नानां संबंधो नास्ति तत्त्वतः ॥” इति । तदेतदेकांतवादिनश्चोद्यं न पुनः स्याद्वादिनां । ते हि कथंचिदेकत्वापत्तिं संबंधिनो रूपश्लेषं संबंधमाचक्षते । न च सा द्वित्वविरोधिनी कथंचित्स्वभावनैरंतर्य वा तदपि नांतराभावरूपमस्तित्वं छिद्रमध्यविरहेष्वन्यतमस्यांतरस्याभावो हि तत्वभावांतरात्मको वस्तुभूत एव यदा रूपश्लेषः कयोश्चिदास्थीयते निर्बाध तथा प्रत्ययविषयस्तदा कथं कल्पनारोपितः स्यात् । केनचिदंशेन तादात्म्यमतादात्म्यं च संबंधिनोविरुद्धमित्यपि न मंतव्यं तथानुभवाच्चित्राकारसंवेदनवत् । एतेन प्राप्त्यादिरूपं नैरंतर्य रूपश्लेष इत्यपि खीकृतं तस्यापि कथंचित्तादात्म्यानतिक्रमात् । ततः खखभावव्यवस्थितेः प्रकृतिभिन्नानामर्थानां न संबंधस्तात्त्विक इत्ययुक्तं तत एव तेषां संबंधसिद्धेः । खखभावो हि भावानां प्रतीयमानः कथंचित्प्रत्यासत्तिविप्रकर्षश्च सर्वथा तदप्रतीतेस्तेन चावस्थितिः कथं संबंधाभावैकांतं साधयेत् संबंधैकांतवत् । न चापेक्षत्वात् संबंधस्वभावस्य मिथ्याप्रतिभासः सूक्ष्मत्वादिवदसंबंधखभावस्यापि तथानुषंगात् । स चासंबंधस्वभावोऽनापेक्षिकः कथंचिदर्थमपेक्ष्य कस्यचित्तव्यवस्थितेरन्यथानुपपत्तेः । स्थूलत्वादिवत् प्रत्यक्षबुद्धौ प्रतिभासमानो अनापेक्षिक एव तत्पृष्टभाविना तु विकल्पेनाध्यवसीयमानो यथापेक्षिकस्तथा वास्तवो भवतीतिचेत् , संबंधखभावोपि समानं । न हि स प्रत्यक्षेन प्रतिभासते यतोऽनापेक्षिको न स्यात् । ननु च परापेक्षैव संबंधस्तस्य तन्निष्ठत्वात् तदभावे सर्वथाप्यसंभवात् । परापेक्षमाणो भावः खयमसत्त्वादपेक्षते स तथा न तावदसन्नपेक्षो धर्माश्रयत्वविरोधात् खरश्रृंगवत् । नापि सन् सर्वनिराशंसत्वादन्यथा सत्त्वविरोधात् कथंचित्सन्नसन्नापेक्ष्य इत्ययमपि पक्षो न श्रेयान् पक्षद्वयदोषानतिक्रमात् । न चैकोर्थः सन्नसंश्व केनचिद्रूपेण संभवति विरोधादन्यथातीतानागताद्यशेषात्मको वर्तमानार्थः स्यादिति न क्वचित्सदसत्त्वव्यवस्था, संकरव्यतिकरापत्तेः । ततोपरापेक्षाणामसन्निबंधनः संबंधः सिध्येत् । तदुक्तं । “परापेक्षादिसंबंधः सोसत्कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्ष्यते ॥” इति कश्चित् । सोपि सर्वथा सदसत्त्वाभ्यां भावस्य परापेक्षाया विरोधमप्रतिपद्यमानः कथं तां प्रतिषेध्यात् । प्रतिपद्यमानस्तु स्वयं प्रतिषेद्भुमसमर्थस्तस्याः क्वचिसिद्धेरन्यथा विरोधायोगात् कथं चानिराकुर्वन्नपि परापेक्षा सर्वत्र संबंधस्यानापेक्षिकत्वं प्रत्याचक्षीत ? न चेदुन्मत्तः । खलक्षणमेव संबंधोऽनापेक्षिकः स्यान्न ततोऽन्यः । स चेष्टो नाममात्रे विवादाद्वस्तुन्यविवादादितिचेत् । कः पुनः संबंधमस्खलक्षणमाहतस्यापि खेन रूपेण लक्ष्यमाणस्य खलक्षणत्वात् । ननु कुतः संबंधस्तथा द्वयोः संबंधिनोः सिद्धः ? एकेन गुणाख्येन संयोगेनान्येन वा धर्मेणांतरस्थितेनावाच्येन वा वस्तुरूपेण संबंधादितिचेत् , स तत्संबंधिनोरनर्थातरम तरं वा ? यद्यनर्थातरं तदा संबंधिनावेव प्रसज्यते । तथा च न संबंधो नाम । स ततो तरं चेत् संबंधिनौ केवलौ कथं संबंधौ स्यातां तत्त्वान्यत्वाभ्यामवाच्यश्चेत् कथं वस्तुभूतः स्यात् । भवतु चार्थातरमनर्थातरं वा संबंधः । स तु द्वयोरेकेन कुतः स्यात् । परेणैकेन संबंधादिति चेत् तेनापि न संबंधः । परेणैकेन संबंधादित्यनवस्थानात् संबंधमतिः सुदूरमपि गत्वा द्वयोरेकाभिसंबंधमंतरेणापि संबंधत्वेन ...(2) अभिसंबंधत्वमतिः केवलयोः संबंधिनोरतिप्रसंगात् । यदि संबंधश्च खेनासाधारणेन रूपेण स्थितस्तदा सिद्धममिश्रणमर्थानां परमार्थतः । तदुक्तं । "द्वयोरेकाभिसंबंधात् संबंधो यदि तद्वयोः । कः संबंधोऽनवस्था च न संबंधमतिस्तथा ॥" "तौ च भावौ तदन्यश्च सर्वे ते खात्मनि स्थिताः । इत्यमिश्राः खयं भावास्तन्मिश्रयति कल्पना ॥" इति कथं संबंधः खलक्षणमिष्यते संबंधिनोरीतरं ततोऽनतिरस्य तु तथेष्टौ न वस्तुव्यतिरेकेण Page #158 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १४९ संबंधोन्यत्र कल्पनामात्रादिति वदन्नपि न स्याद्वादिमतमवबुध्यते । तद्विभेदाभेदैकांतपराङ्मुखं न तद्दोषास्पदं । येन रूपेण लक्ष्यमाणः संबंधो अन्यो वार्थः खलक्षणमिति तु परस्परापेक्षभेदाभेदात्मकं जात्यं तरमेवोक्तं तस्याबाधितप्रतीतिसिद्धत्वेन खलक्षणव्यपदेशात् । ततो न कल्पनामेवानुरुंधानैः प्रतिपत्तृभिः क्रियाकारकवाचिनः शब्दाः संयोज्यंतेऽन्यापोहप्रतीत्यर्थमेवेति घटते येनेदं शोभेत । “तामेव चानुरुंधानौ । क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थ संयोज्यंतेऽभिधायिकाः ॥” इति क्रियाकारकादीनां संबंधिन तत्संबंधस्य च वस्तुरूपप्रतीतये तदभिधायिकानां प्रयोगसिद्धेः सर्वत्रान्यापोहस्यैव शब्दार्थत्वनिराकरणाच्च । ततः कश्चित्कस्यचित्स्वामी संबंधात्सिध्यत्येवेति स्वामित्वमर्थानामधिगम्यं निर्देश्यत्ववदुपपन्नमेव ॥ न किंचित्केनचिद्वस्तु साध्यते सन्न चाप्यसत् । ततो न साधनं नामेत्यन्ये तेप्यसदुक्तयः १३ साधनं हि कारणं तच्च न सदेव कार्य साधयति स्वरूपवत् , नाप्यसत्खरविषाणवत् । प्रागसत्साधय' तीति न वा युक्तं, सदेव साधयतीति पक्षानतिक्रमात् । न ह्युत्पत्तेः प्रागसत् प्रागेव कारणं निष्पादयति, तस्यासत एव निष्पादनप्रसक्तेः । उत्पत्तिकाले सदेव करोतीति तु कथनेन कथं न सत्पक्षः । कथंचित्सह करोतीत्यपि न व्यवतिष्ठते, येन रूपेण सत्तेन करणायोगादन्यथा खात्मनोपि करणप्रसंगात् । येन चात्मना तदसत्तेनापि न कार्यतामियर्ति शशविषाणवदित्युभयदोषावकाशात् । सदसद्रपं कार्य नाऽनाकुलं, न च कथंचिदपि कार्यमसाधयत् किंचित्साधनं नाम कार्यकरणभावस्य तत्त्वतोसंभवाच्च । तदुक्तं । "कार्यकारणभावोपि तयोरसहभावतः । प्रसिद्ध्यति कथं द्विष्ठोऽद्विष्ठे संबंधता कथं ॥" "क्रमेण भाव एकत्र वर्तमानोन्यनिस्पृहः । तदभावेपि भावाच्च संबंधो नैकवृत्तिमान् ॥” “यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते । उपकारी ह्यपेक्षः स्यात् कथं चोपकरोत्यसत् ॥” “यद्येकार्थाभिसंबंधात्कार्यकारणता तयोः । प्राप्ता द्वित्वादिसंबंधात् सव्येतरविषाणयोः ॥” “द्विष्ठो हि कश्चित्संबंधो नातोन्यत्तस्य लक्षणं । भावाभावोपधिर्योगः कार्यकारणता यदि ॥" योगोपाधी न तावेव कार्यकारणतात्र किं । भेदाच्चेन्न त्वयं शब्दो नियोक्तारं समाश्रितः ॥” “पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यत्कार्यमन्वेति विनाप्याख्यातृभिर्जनः ॥" "दर्शनादर्शने मुक्त्वा कार्यबुद्धरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवाथै निवेशिता ।' "तद्भावभावात्तत्कार्यगतिर्यस्य तु वर्तते । संकेतविषयाख्या सा सानादेोगतिर्यथा ॥" "भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलंभतः ॥" "एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः । विकल्पा दर्शयंत्यर्थान् मिथ्यार्थान् घटितानिव ॥" "भिन्ने का घटनाऽभिन्ने कार्यकारणतापि का । भावे वान्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं न तौ ॥” इति । तदेतदसढूषणं । खाभिमतेप्यकार्यकारणभावे समानत्वात् । तथाहि । अकार्यकारणभावोद्विष्ठ एव कथमसहभाविनोः कार्यकारणत्वाभ्यां निषेध्ययोरर्थयोर्वर्तते । न वा द्विष्ठोसौ संबंधाभावत्त्वविरोधात् । पूर्वत्र भावे वर्तित्वा परत्र क्रमेण वर्तमानोपि यदि सोन्यनिस्पृह एवैकत्र तिष्ठत्कथमसंबंधः ? परस्य ह्यनुत्पन्नस्याभावेपि पूर्वत्र वर्तमानः पूर्वस्य च नष्टत्वेनाभावेपि परत्र वर्तमानोसावेकवृत्तिरेव स्यात् । पूर्वत्र वर्तमानः परमपेक्षते परत्र च तिष्ठत्पूर्वमतो संबंधो द्विष्ठ एवान्यनिस्पृहत्वाभावादिति चेत् कथमनुपकारं तथोत्तरमपेक्ष्यतेति प्रसंगात् । सोपकारकमपेक्षत इति चेत् नासतस्तदोपकारकत्वायोगात् । यदि पुनरेकेनाभिसंबंधात्पूर्वपरयोरकार्यकारणभावस्तदा सव्येतरविषाणयोः स स्यादेकेन द्वित्वादिनाभिसंबंधात् । तथा च सिद्धसाध्यता । द्विष्ठो हि कश्चिदसंबंधो नातोन्यत्तस्य लक्षणं येनाभिमतसिद्धिः । यदि पुनः पूर्वस्याभाव एव यो भावोऽभावेऽभावस्तदुपधियोगोकार्यकारणभावस्तदा तावेव भावाभावावयोगोपाधी किं नोऽकार्य Page #159 -------------------------------------------------------------------------- ________________ १५० - तत्त्वार्थश्लोकवार्तिके [सू०७ कारणभावः स्यात् तयोर्भेदादिति चेत् , शब्दस्य नियोक्तसमाश्रितत्वेन भेदेप्यभेदवाचिनः प्रयोगाभ्युपगमात् । खयं हि लोकोयमेकमदृष्टस्य दर्शनेप्यपश्यंस्तददर्शने च पश्यद्विनाप्याख्यातृभिरकार्यमवबुध्यते । न च तथा दर्शनादर्शने मुक्त्वा कचिदकार्यबुद्धिरस्ति । न च तयोरकार्यादिश्रुतिविरुध्यते लाघवार्थत्वात् तन्निवेशस्य । या पुनरतद्भावाभावादकार्यगतिरुपवर्ण्यते सा संकेतविषयाख्या, यथा असानादेरगोगतिः । नैतावता तत्त्वतोकार्यकारणभावो नाम । भावे हि अभाविनी वा भाविता अहेतुफलते प्रसिद्धे । । प्रसिद्धे प्रत्यक्षानुपलंभाभ्यामेव । तदेतावन्मात्रतत्त्वार्था एवाकार्यकारणगोचरा विकल्पा दर्शयंत्यर्थान् मिथ्यार्थात्खयमघटितानपीति समायातं । भिन्ने हि भावे का नामाघटना तत्वान्यावभासते ? येनासौ तात्त्विकी स्यात् । अभिन्ने सुतरां नाघटना । न च भिन्नावौँ केनचिदकार्यकारणभावेन योगादकार्यकारणभूतौ स्यातां संबंधविधिप्रसंगात् । तदेवं न तात्त्विकोऽर्थो नाम कार्यकारणभावो व्यवतिष्ठतेऽकार्यकारणभाववत् । खखभावव्यवस्थितार्थान् विहाय नान्यः कश्चिदकार्यकारणभावोस्त्विति । तथा व्यवहारस्तु कल्पनामात्रनिर्मित एव कार्यकारणव्यवहारवदितिचेत् तर्हि वास्तव एव कार्यकारणभावोऽकार्यकारणभाववत् । केवलं तब्यवहारो विकल्पशब्दलक्षणो विकरूपनिर्मित इति किमनिष्टं । वस्तुरूपयोरपि कार्यकारणभावे तयोरभावो वस्तुत्वेति न तु युक्तं, व्याघातात् क्वचिन्नीलेतरत्वाभाववत् । ततो यदि कुतश्चिामाणात् कार्यकारणभावः परमार्थतः केषांचिदर्थानां सिध्येत् तदा तत एव कार्यकारणभावोपि प्रतीतेरविशेषात्तथैव हि गवादीनामसाध्यसाधनभावः परस्परमतद्भावभावित्वप्रतीतेर्व्यवतिष्ठते । तथामिधूमादीनां साध्यसाधनभावोपि तद्भावमावित्वप्रतीतेर्बाधकाभावात् । नन्वकस्मादग्निं धूमं वा केवलं पश्यतः कारणत्वं कार्यत्वं वा किं न प्रतिभातीतिचेत् किं पुनरकारणत्वमकार्यत्वं वा प्रतिभाति । सातिशयसंविदा प्रतिभात्येवेति चेत् , कारणत्वं कार्यत्वं वा तत्र तेषां न प्रतिभातीति कोशपानं विधेयं । अस्मदादीनां तु तदप्रतिभासनं तथा निश्चयानुपपत्तेः क्षणक्षयादिवत् । तथोभयत्र समानं । यथैव हि तद्भावभावित्वानध्यबसायिनां न कचित्कार्यत्वकारणत्वनिश्चयोस्ति तथा खयमतद्भावभावित्वव्यवसायिनामकार्यकारणत्वनिश्चयोपि प्रतिनियतसामग्रीसापेक्षकत्वाद्वस्तुधर्मनिश्चयस्य । न हि सर्वत्र समानसामग्रीप्रभावो निर्णयस्तस्यांतरंगबहिरंगसामग्रीवैचित्र्यदर्शनात् । धूमादिज्ञानसामग्रीमात्रात्तत्कार्यत्वादिनिश्चयानुत्पत्तेः न कार्यत्वादि धूमादिखरूपमिति चेत् तर्हि क्षणिकत्वादिरपि तत्स्वरूपं माभूत्तत एव क्षणिकत्वाभावे वस्तुत्वमेव न स्यादिति चेत् कार्यत्वकारणत्वाभावेपि कुतो वस्तुत्वं खरशृंगवत् । सर्वथाप्यकार्यकारणस्य वस्तुत्वानुपपत्तेः कूटस्थवत् । क्षणिकैकांतवद्वा विशेषासंभवात् । ननु च सदपि कार्यत्वं कारणत्वं वा वस्तुत्वखरूपं न संबंधोऽद्विष्ठत्वात् । कार्यत्वं कारणे हि न वर्तते कारणत्वं वा कार्ये येन द्विष्ठं भवेत् । कार्यकारणभावस्तयोरेको वर्तमानः संबंध इति चेन्न, तस्य कार्यकारणाभ्यां भिन्नस्याप्रतीतेः । सतोपि प्रत्येकपरिसमात्या तत्र वृत्तौ तस्यानेकत्वापतेः । एकदेशेन वृत्तौ सावयवत्वानुषक्तेः खावयवेष्वपि वृत्तौ प्रकृतपर्यनुयोगस्य तदवस्थत्वादनवस्थानावतारात् । कार्यकारणांतराले तस्योपलंभप्रसंगाच्च ताभ्यां तस्याभेदेपि कथमेकत्वं भिन्नाभ्यामभिन्नस्याभिन्नत्वविरोधात् । स्वयमभिन्नस्यापि भिन्नार्थस्तादात्म्ये परमाणोरेकस्य सकलाथैस्तादात्म्यप्रसंगादेकपरमाणुमात्रं जगत्स्यात् सकलजगत्स्वरूपो वा परमाणुरिति भेदाभेदैकोतवादिनोरुपलंभः स्याद्वादिनस्तथानभ्युपगमात् । कार्यकारणभावस्य हि संबंधस्याबाधिततथाविधप्रत्ययारूढस्य खसंबंधिनो वृत्तिः कथंचित्तादात्म्यमेवानेकांतवादिनोच्यते । खाकारेषु ज्ञानवृत्तिवत् कुतोनेकसंबंधितादात्म्ये कार्यकारणभावस्य संबंधस्यैकत्वं न विरुध्यते इति चेत् , नानाकारतादात्म्ये ज्ञानस्यैकत्वं कुतो न विरुध्यते ? तदशक्यविवेचनत्वादिति चेत् तत एवान्यत्रापि कार्यकारण Page #160 -------------------------------------------------------------------------- ________________ . प्रथमोऽध्यायः । १५१ योर्हि द्रव्यरूपतयैकत्वात् कार्यकारणभावस्यैकत्वमुच्यते न च तस्य शब्दे विवेचनत्वं मृद्द्रव्यात् कुशूलघटयोर्हेतुफलभावेनोपगतयोर्द्रव्यांतरं नेतुमशक्तेः । क्रमभुवोः पर्याययोरेकद्रव्यप्रत्यासत्तेरुपादानोपादेयत्वस्य वचनात् । न चैवंविधः कार्यकारणभावः सिद्धांतविरुद्धः सहकारिकारणेन कार्यस्य कथं यत् स्यादेकद्रव्यप्रत्यासत्तेरभावादिति चेत् कालप्रत्यासत्तिविशेषात् तत्सिद्धिः । यदनंतरं हि यदवश्यं भवति तत्तस्य सहकारिकारणमितरत्कार्यमिति प्रतीतं । न चेदं सहकारित्वं क्वचिद्भावप्रत्यासत्तिः क्षेत्रप्रत्यासत्तिर्वा नियमाभावात् । निकटदेशस्यापि चक्षुषो रूपज्ञानोत्पत्तौ सहकारित्वदर्शनात् । संदंशकादेश्चासुवर्णस्वभावस्य सौवर्णकटकोत्पत्तौ यदि पुनर्यावत्क्षेत्रं यद्यस्योत्पत्तौ सहकारि दृष्टं यथाभावं च तत्तावत्क्षेत्रं तथाभावमेव सर्वत्रेति नियता क्षेत्राभावप्रत्यासत्तिः सहकारित्वं काये निगद्यते तदा न दोषो विरोधाभावात् । तदेवं व्यवहारनयसमाश्रयणे कार्यकारणभावो द्विष्ठः संबंधः संयोगसमवायादिवत्प्रतीतिसिद्धत्वात् पारमार्थिक एव न पुनः कल्पनारोपितः सर्वथाप्यनवद्यत्वात् । संग्रहर्जुसूत्रनयाश्रयणे तु न कस्यचित्कश्चित्संबंधोन्यत्र कल्पनामात्रात् इति सर्वमविरुद्धं । न चात्र साध्यसाधनभावस्य व्यवहारनयादाश्रयणे कथंचिदसंभव इति सूक्तं साधनत्वमधिगम्यमर्थानां तदपलपंतोऽसदुक्तय एव इत्याह; - मोक्षादिसाधनाभ्यासाभावासक्तेस्तदर्थिनाम् । तत्राविद्याविलासेष्टौ व मुक्तिः पारमार्थिकी १४ संविश्चेत्संविदेवेत्यदोषः सा यद्यसाधना । नित्या स्यादन्यथा सिद्धं साधनं परमार्थतः ॥ १५ ॥ नित्यसर्वगतेष्विष्टौ तस्याः संवित्त्र्यसंभवात् । व व्यवस्थापनानंशक्षणिकज्ञानतत्त्ववत् ॥ १६ ॥ न हि क्षणिकानंशसंवेदनं खतः प्रतिभासते सर्वस्य भ्रांत्यभावानुषंगात् । तद्वन्नित्यं सर्वगतं ब्रह्मेति न तत्संवेदनमेव मुक्तिः पारमार्थिकी युक्ता, ततः सकलकर्मविप्रमोक्षो मुक्तिरुररीकर्तव्या । सा बंधपूर्वि - तात्त्विक बंधोभ्युपगंतव्यः तयोः ससाधनत्वात् । अन्यथा कादाचित्कत्वायोगात्साधनं तात्त्विकमभ्युपगंतव्यं न पुनरविद्याविलासमात्रमिति सूक्तं साधनमधिगम्यम् ॥ आधाराधेयभावस्य पदार्थानामयोगतः । तत्त्वतो विद्यते नाधिकरणं किंचिदित्यसत् ॥ १७ ॥ स्फुटं द्रव्यगुणादीनामाधाराधेयतागतेः । प्रसिद्धिबाधितत्वेन तदभावस्य सर्वथा ।। १८ ।। न हि द्रव्यमप्रसिद्धं गुणादयो वा प्रत्यभिज्ञानादिप्रत्ययेनाबाधितेन तन्निरूपणात् । नाप्याधाराधेयता द्रव्यगुणादीनामप्रसिद्धा यतः सर्वथाधिकरणमसदिति पक्षः प्रसिद्धिबाधितो न स्यात् । हेतुश्चासिद्धः पदार्थानामाधाराधेयभावस्य विचार्यमाणस्यायोगादिति । स्थाल्यां दधि पटे रूपमिति तत्प्रत्ययस्य निर्वाधस्य तत्साधनत्वात् कार्यकारणभावविशेषस्य साधकोयं प्रत्यय इति चेत् स एवाधाराधेयभावोस्तु | सांवृतोसाविति चेत् न, कार्यकारणभावस्य तात्त्विकस्य साधितत्वात् । तद्विशेषस्य तात्त्विकत्वसिद्धेः । कथं तर्हि गुणादीनां द्रव्याधारत्वे द्रव्यस्याप्यन्याधारत्वं न स्याद्यतोऽनवस्था निवार्येत । तेषां वा द्रव्यानाधारत्वप्रसक्तिरिति चेत् — नानवस्थाप्रसंगोत्र व्योम्नः स्वाश्रयतास्थितेः । सर्वलोकाश्रयस्यांत विहीनस्य समंततः ॥ १९ ॥ स्वाश्रयं व्योम, समंतततविहीनत्वान्यथानुपपत्तेः । समंततोंतविहीनं तत् सकलासर्वगतार्थाभावस्वभावत्वे सत्येकद्रव्यरूपत्वात् । रूपादिपरमाणूनां रसादिपरमाणुभावरूपत्वादविरोध इति चेत् ते तर्हि रूपरसादिपरमाणवः सर्वे सकृत्परस्परं संसृष्टा व्यवहिता वा स्युः ? न तावत्संसृष्टाः कार्त्स्न्येनैकदेशेन वा संसर्गस्य स्वयं निराकरणात् । व्यवहितत्वे तु तेषामनंतानामनंतप्रदेशं व्यवधायकं किंचिदुररीकर्तव्यं तदेव व्योम तेषामभावे । इति सिद्धं सकलासर्वगतार्थाभावखभावत्वं व्योम्नः । न च तस्यानंताः प्रदेशाः Page #161 -------------------------------------------------------------------------- ________________ १५२ तत्त्वार्थश्लोकवार्तिके परस्परमेकशो व्यवहिता यतस्तद्व्यवधायकांतर कल्पनायामनवस्था कथंचिदेकद्रव्यतादात्म्येनाव्यवहितत्वात् अन्यथा तदव्यवधानायोगात् । भवितव्यं वा व्यवधानेन तेषां प्रसिद्धसत्त्वानां व्यवधानेनवस्थानात् । येन चैकेन द्रव्येण तेषां कथंचित्तादात्म्यं ततो व्योमेति तस्यैकद्रव्यत्वसिद्धिरिति नासिद्धं व्योम्नो गतत्त्वसाधनं । ततस्तदनंतं सर्वलोकाधिकरणमिति नानवस्था तदाधारान्तरानुपपत्तेः ॥ [सू० ७ व्योमवत्सर्वभावानां स्वप्रतिष्ठानुषंजनं । कर्तुं नैकांततो युक्तं सर्वगत्वानुषंगवत् ॥ २० ॥ निश्चयनयात्सर्वे भावाः स्वप्रतिष्ठा इति युक्तं न पुनः सर्वथा व्योमवत्तेषां सर्वगतत्वामूर्तत्वादिप्रसंगस्यापि दुर्निवारत्वात् । सर्वद्रव्याणां सर्वगतत्वे को दोष इति चेत् प्रतीतिविरोध एवामूर्तत्वादिति वक्ष्यामः । प्रतीत्यतिक्रमे तु कारणाभावात्सर्वमसमंजसं मानमेयं प्रलापमात्रमुपेक्षणीयं स्यादिति यथाप्रतीतिसिद्धमधिकरणमधिगम्यमर्थानाम् ॥ अस्थिरत्वात्पदार्थानां स्थि तिर्नैवास्ति तात्त्विकी । क्षणादूर्ध्वमितीच्छंति केचित्तदपि दुर्घटम् २१ निरन्वयक्षयैकांते संतानाद्यनवस्थितेः । पुण्यपापाद्यनुष्ठानाभावासक्तेर्निरूपणात् ॥ २२ ॥ I संवृत्या संतानसमुदायसाधर्म्यात् प्रेत्यभावानां पुण्यपापमुक्तिमार्गानुष्ठानस्य चाभ्युपगमात् परमार्थतस्तदभावासक्तिर्नानिष्टेति चेत्, किमिदानीं संवेदनाद्वैतमस्तु परमार्थं सत् निरन्वयविनश्वराणामेकक्षणस्थितीनां नानापदार्थानामनुभवात् । तदपि नेति चेत् तर्हि इष्टं संतानादि सर्वे निरंकुशत्वात् तच्च निरन्वयक्षयैकांते संवृत्त्यापि न स्यात् । तथा च निरूपितं "संतानः समुदायश्च साधर्म्य च निरंकुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिहवे ||" इति । ननु च बीजांकुरादीनामेकत्वाभावेपि संतानः सिद्धस्तिलादीनां समुदायसाधर्म्यं च तद्वत्सर्वत्र तत्सिद्धौ किमेकत्वेनेति चेन्न, सर्वबीजांकुरादीनामेकसंतानत्वापत्तेः, सकलतिलादीनां वा समुदायसाधर्म्यप्रसक्तेः । प्रत्यासत्तेर्विशेषात्केषांचिदेव संतानः समुदायः साधर्म्यं च विशिष्टमिति चेत्, स कोन्योऽन्यत्रैकद्रव्यक्षेत्रभावप्रत्यासत्तेरिति नान्वयनिह्नवो युक्तः । न ह्यव्यभिचारी कार्यकारणभावः संताननियमहेतु:, सुगतेतरचित्तानामेकसंतानत्वप्रसंगादिति समर्थितं प्राक् । नाप्येकसामध्यधीनत्वं समुदायैकत्वनियमनिबंधनं धूमेंधनविकारादिरूपादीनां नानासमुदायानामेकसमुदायत्वानुषंगात् प्रतीतमातुलिंगरूपादिवत् । एतेन समानकालत्वं तन्निमित्तमिति प्रत्युक्तं, एकद्रव्याधिकरणत्वं तु सहभुवामेकसमुदायत्वव्यवस्था हेतुरिति सत्येवान्विते द्रव्ये तिलादिरूपादिसमुदायैकत्वनियमः साधर्म्यं । न पुनर्नानाद्रव्याणां समानहेतुकत्वादिति वार्तामात्रं विसदृशहेतूनामपि बहुलं साधर्म्यदर्शनात् । रजतशुक्तिकादिवत् समानपरिणामसत्त्वात् साधर्म्ये भावप्रत्यासत्तिविशेषादेव साधर्म्य | न च समानपरिणामो नाना परिणामिद्रव्याभावे संभवतीति न तद्वादिनामेकद्रव्यापह्नवः श्रेयान् । प्रेत्यभावः कथमेकत्वाभावे न स्यादितिचेत् तस्य मृत्वा पुनर्भवनलक्षणत्वात् । संतानस्यैव मृत्वा पुनर्भवनं न पुनर्द्रव्यस्येति चेन्न, संतानस्यैकद्रव्याभावे नियमायोगस्य प्रतिपादनात् । कथंचिदेकद्रव्यात्मनो जीवस्य प्रेत्यभावसिद्धेः । पुण्यपापाद्यनुष्ठानं पुनरपि संवाहकर्तृक्रियाफलानुभवितृनानात्वे कृतनाशाकृताभ्यागमप्रसक्तेर्दूरोत्सारितमेव । तत्संतानैक्ये चैकद्रव्यत्वस्य सिद्धेर्न निरन्वयक्षयैकांतस्तद्वादिभिरभ्युपगंतव्यः । ततः सर्वथा संतानाद्युपगमे द्रव्यस्य कालांतरस्थायिनः प्रसिद्धेर्न क्षणादूर्ध्वमस्थितिः पदार्थानाम् ॥ यथा चैकक्षणस्थायी भावो हेतोः समुद्भवेत् । तथानेकक्षणस्थायी किन्न लोके प्रतीयते ॥ २३॥ ननु प्रथमे क्षणे यथार्थानां क्षणद्वयस्थास्नुता तथा द्वितीयेपीति न कदाचिद्विनाशः स्यादन्यथा सैव क्षणस्थितिः प्रतिक्षणं स्वभावात्ततो न कालांतरस्थायी भावो हेतोः समुद्भवन् प्रतीयतेऽन्यत्र विभ्रमादिति Page #162 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । न मंतव्यं, क्षणक्षयस्थायिनां तृतीयादिकक्षणस्थायित्वविरोधात् । प्रथमक्षणे द्वितीयक्षणापेक्षायामिव द्वितीयक्षणे प्रथमक्षणापेक्षायां क्षणद्वयस्थातुत्वाविशेषात् प्रतिक्षणं स्वभावभेदानुपपत्तेः कालांतरस्थायित्व - सिद्धेः । ननु च प्रथमक्षणे द्वितीयक्षणापेक्षं क्षणद्वयस्थायित्वमन्यदेव द्वितीयक्षणे प्रथमक्षणापेक्षात्ततोस्त्येव प्रतिक्षणं स्वभावभेदोऽसत्तः क्षणमात्रस्थितिः सिद्ध्येत्सर्वार्थानामिति वदतं प्रत्याह; - क्षणमात्रस्थितिः सिद्धैवर्जुसूत्रनयादिह । द्रव्यार्थिकनयादेव सिद्धा कालांतरस्थितिः ॥ २४ ॥ न हि वयमृजुसूत्र नया प्रतिक्षणस्वभावभेदात् क्षणमात्रस्थितिं प्रतीक्षयामः ततः कालांतरस्थितिविरोधात् । केवलं यथार्जुसूत्रात्क्षण स्थितिरेव भावः स्वहेतोरुत्पन्नस्तथा द्रव्यार्थिकनयात्कालांतरस्थितिरेवेति प्रतिचक्ष्महे सर्वथाप्यबाधितप्रत्ययात्तत्सिद्धिरिति स्थितिरधिगम्या | • १५३ विश्वमेकं सदाकाराविशेषादित्यसंभवि । विधानं वास्तवं वस्तुन्येवं केचित्प्रलापिनः ।। २५ । सदाकाराविशेषस्य नानार्थानामपहवे । संभवाभावतः सिद्धे विधानस्यैव तत्त्वतः ॥ २६ ॥ सर्वमेकं सदविशेषादिति विरुद्धं साधनं, नानार्थाभावे सदविशेषस्यानुपपत्तेस्तस्याभेदनिष्ठत्वात् । ननु च सदेकत्वं सदविशेषो न तत्साधर्म्यं यतो विरुद्धं साधयेदिति चेन्न, तस्य साध्यसमत्वात् । को हि सदेकमिच्छत् सर्वमेकं नेच्छेत् । यदि पुनः सत्ताविशेषाभावादिति हेतुस्तदाप्यसिद्धं, सद्घटः सत्पट इति विशेषस्य प्रतीतेः । मिथ्येयं प्रतीतिर्घटादिविशेषस्य स्वप्नादिवद्व्यभिचारादिति चेन्न, सत्ताद्वैते सम्यङ्मिथ्याप्रतीतिविशेषस्यासंभवात् संभवे वा तद्वदन्यत्र तत्संभवः कथं नानुमन्यते ? मिथ्याप्रतीतेरविद्यात्वादविद्यायाश्च नीरूपत्वान्न सा सन्मात्रप्रतीतेर्द्वितीया यतो भेदः सिद्ध्येत् इति चेन्न, व्याघातात् । प्रतीतिर्हि सर्वा स्वयं प्रतिभासमानरूपा सा कथं नीरूपा स्यात् । ग्राह्यरूपाभावान्नीरूपा मिथ्याप्रतीतिरितिचेत्तर्हि ग्राह्यरूपसहिता सम्यक् प्रतीतिरिति तद्विशेषसिद्धेः । सम्यक्प्रतीतिरपि ग्राह्यरूपरहितेतिचेत् कथमिदानीं सत्येतरप्रतीतिव्यवस्था ? यथैव हि सन्मानप्रतीतिः स्वरूप एवाव्यभिचारात्सत्या तथा भेदप्रतीतिरपि । यथा वा सा ग्राह्याभावादसत्या तथा सन्मात्रप्रतीतिरपीति न विद्या - विद्याविभागं बुद्ध्यामहेन्यत्र कथंचिद्भेदवादात् । ततो न सन्मात्रं तत्त्वतः सिद्धं साधनाघटनादिति विधानस्यैव नानार्थाश्रयस्य सिद्धेस्तदधिगम्यमेव निर्देशादिवत् ॥ तदेवं मानतः सिद्धैर्निर्देशादिभिरंजसा । युक्तं जीवादिषूक्तेषु निरूपणमसंशयम् ॥ २७ ॥ न हि प्रमाणनयात्मभिरेव निर्देशादिभिर्जीवादिषु भावसाधनोधिगमः कर्तव्य इति युक्तं तद्विषयैरपि निर्दिश्यमानत्वादिभिः कात्स्यैकदेशार्पितैः कर्मसाधनस्याधिगमस्य करणात् तेषामुक्तप्रमाणसिद्धत्वादिति व्यवतिष्ठते ॥ यथागममुदाहार्या निर्देष्टव्यादयो बुधैः । निश्चयव्यवहाराभ्यां नयाभ्यां मानतोपि वा ॥२८॥ निश्चयनय एवंभूतः व्यवहारनयोऽशुद्धद्रव्यार्थिकस्ताभ्यां निर्देष्टव्यादयो यथागममुदाहर्तव्या विकलादेशात् प्रमाणतश्च सकलादेशात् । तद्यथा । निश्चयनयादनादिपारिणामिक चैतन्य लक्षणजीवत्वपरिणतो जीवः व्यवहारादौपशमिकादिभावचतुष्टयखभावः, निश्चयतः स्वपरिणामस्य व्यवहारतः सर्वेषां निश्वयतो जीवत्वसाधनः व्यवहारादौ पशमिकादिभावसाधनश्च निश्चयतः स्वप्रदेशाधिकरणो व्यवहारतः शरीराद्यधिकरणः, निश्चयतो जीवनसमयस्थितिः व्यवहारतो द्विसमयादिस्थितिरनाद्यवासन स्थितिर्वा, निश्चयतोनंतविधान एव व्यवहारतो नारकादिसंख्येयासंख्येयानंतविधानश्च । प्रमाणतस्तदुभयनय - परिच्छित्तिरूपसमुदायखभाव इत्यादयो जीवादिष्वप्यागमाविरोधान्निर्देशादीनामुदाहरणमवगंतव्यम् || २० Page #163 -------------------------------------------------------------------------- ________________ १५४ तत्त्वार्थश्लोकवार्तिके न केवलं निर्देश दीनामधिगमस्तत्त्वार्थानां किं तर्हि ; सत्संख्याक्षेत्रस्पर्शन कालांतरभावात्पबहुत्वैश्च ॥ ८ ॥ स्वार्थोऽधिगमो ज्ञानात्मकैः, परार्थः शब्दात्मकैः कर्तव्य इति घटनात् ॥ ननु पूर्वसूत्र एवाधिगमस्य हेतोः प्रतिपादितत्वात् किं चिकीर्षुरिदं सूत्रमब्रवीत् इति चेत्;सदादिभिः प्रपंचेन तत्त्वार्थाधिगमं मुनिः । संदिदर्शयिषुः प्राह सूत्रं शिष्यानुरोधतः ॥ १ ॥ ये हि शिष्याः संक्षेपरुचयस्तान् प्रति " प्रमाणनयैरधिगमः" इति सूत्रमाह, ये च मध्यमरुचयस्तान् प्रति निर्देशादिसूत्रं, ये पुनर्विस्तररुचयस्तान् प्रति सदादिभिरष्टाभिस्तत्त्वार्थाधिगमं दर्शयितुमिदं सूत्रं, शिष्यानुरोधेनाचार्यवचनप्रवृत्तेः ॥ नास्तित्वैकांतविच्छियै तावत् प्राक् च प्ररूपणम् । सामान्यतो विशेषात्तु जीवाद्यस्तित्वभिद्विदे२ नन्वेकत्वादस्तित्वस्य न सामान्यविशेषसंभवो येन सामान्यतो नास्तित्वैकांतस्य विशेषतो जीवादिनास्तित्वस्य व्यवच्छेदात्तत्प्ररूपणं प्रागेव संख्यादिभिः क्रियते । न ह्येका सत्ता सर्वत्र, सर्वदा तस्या विच्छेदाभावात् । सत्ताशून्यस्य कस्यचिद्देशस्य वानुपपत्तेः, सत्प्रत्ययस्य सर्वत्र सर्वदा सद्भावात् । सत्प्रत्ययस्यैकरूपत्वेपि सत्तानेकत्वे च न किंचिदेकं स्यादिति कश्चित् सोऽसमीक्षिताभ्यधायी । सत्तायास्तद्वाह्यार्थेभ्यः सर्वथा भिन्नायाः प्रतीत्यभावात् तेभ्यः कथंचिद्भिन्नायास्तु प्रतीतौ तद्वत्सामान्यविशेषवत्त्वसिद्धे नोक्तोपालंभः ॥ [सू०८ 9 सर्वमसदेवेति वदंतं प्रत्याह; - सन्मात्रापह्नवे संवित्सत्त्वाभावान्न साधनम् । स्वेष्टस्य दूषणं वास्ति नानिष्टस्य कथंचन ॥ ३ ॥ संवेदनाधीनं हीष्टस्य साधनमनिष्टस्य च दूषणं ज्ञानात्मकं न च सर्वशून्यतावादिनः संवेदनमस्ति, विप्रतिषेधात् । ततो न तस्य च युक्तं । नापि परार्थं वचनात्मकं तत एवेति न सन्मात्रापहृवोपायात् संविन्मात्रं ग्राह्यग्राहकभावादिशून्यत्वाच्छून्यमिति चेत्; ग्राह्यग्राहकभावादिशून्यं संवित्तिमात्रकम् । न स्वतः सिद्धमारेकाभावापत्तेरशेषतः ॥ ४ ॥ परतो ग्रहणे तस्य ग्राह्यग्राहकतास्थितिः । परोपगमतः सा चेत्स्वतः सापि न सिध्यति ॥ ५॥ कुतश्चिग्राहकात्सिद्धः पराभ्युपगमो यदि । ग्राह्यग्राहकभावः स्यात्तत्त्वतो नान्यथा स्थितिः ॥ ६ ग्राह्यग्राहकभावोतः सिद्धस्स्वेष्टस्य साधनात् । सर्वथैवान्यथा तस्यानुपपत्तिर्विनिश्चयात् ॥ ७ ॥ न हि ग्राह्यग्राहकभावादिशून्यस्य संवेदनस्य स्वयमिष्टस्य साधनं स्वाभ्युपगमतः पराभ्युपगमतो वा स्वतः परतो वा परमार्थतः ग्राह्यग्राहकभावाभावे घटते, अतिप्रसंगात् । संवृत्या घटत एवेति चेत्, तर्हि संवेदनमात्रं परमार्थं सत् संवृत्तिसिद्धं । ग्राहकवेद्यत्वाद्भेदव्यवहारवत् स्वरूपस्य खतो गतिरितिचेत्, कुतस्तत्र संशयः ? तथा निश्चयानुपपत्तेरिति चेन्न, सुगतस्यापि तत्र तत्प्रसंगात् । तस्य विधूतकल्पनाजालत्वान्न खरूपे संशय इति चेत्; तदिदमनवस्थितप्रज्ञास्यसुभाषितं संवेदनाद्वैततत्त्वं प्रतिज्ञाय विधूतकल्पनाजालः सुगतः, पृथग्जनाः कल्पनाजालावृत्तमनस इति भेदस्य कथनात् कथं च संवेदनाद्वैतवादिनः संवृत्तिपरमार्थसत्यद्वयविभागः सिद्धः ? संवृत्त्येति चेत्, सोऽयमन्योन्यसंश्रयः । सिद्धे हि परमार्थसंवृत्तिसत्यविभागे संवृत्तिराश्रीयते तस्यां च सिद्धायां तद्विभाग इति कुतः किं सिद्ध्येत्, तन्न तत्त्वतो ग्राह्यग्राहकभावाभावे वेष्टसाधनं नामेति विनिश्वयः ॥ Page #164 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १५५ बाध्यबाधकमावस्याप्यबाधेनिष्टसाधनं । स्वान्योपगमतः सिधेनेत्यसावपि तात्त्विकम् ॥८॥ न हि बाध्यबाधकभावादेरनिष्टस्याबाधनं खतः सर्वेषां प्रतिभासते, विप्रतिपत्तावभावप्रसंगात् । संविन्मात्रप्रतिभासनमेव तत्प्रतिभासनमिति चेत् न, तस्यासिद्धत्वात् । परतो बाधकादनिष्टस्य बाधनमिति चेत् सिद्धस्तर्हि बाध्यबाधकभावः इति तन्निराकरणप्रकरणसंबंधं प्रलापमात्रं । संवृत्त्या अनिष्टस्य बाधनाद• दोष इति चेत् तर्हि तत्त्वतो न वा बाध्यबाधकमावस्य बाधनमिति दोष एव । पराभ्युपगमात् तद्वाधनमिति चेत् तस्य सांवृतत्वे दोषस्य तदवस्थत्वात् । पारमार्थिकत्वेपि तदनतिक्रम एवेति सर्वथा बाध्यबाधकभावाभावे तत्त्वतो नानिष्टबाधनमनुपपन्नम् ॥ कार्यकारणभावस्याभावे संविदकारणा । सती नित्यान्यथा व्योमारविंदादिवदनमा ॥९॥ सर्वथैवाफलत्वाच्च तस्याः सिध्येन वस्तुता । सफलत्वे पुनः सिद्धा कार्यकारणतांजसा ॥१०॥ न संविदकारणा नापि सकारणा नाफला नापि सफला यतोऽयं दोषः । किं तर्हि ? संवित्संविदेवेति चेत् , नैवं परमब्रह्मसिद्धेः संविन्मात्रस्य सर्वथाप्यसिद्धेः समर्थनात् ॥ वाच्यवाचकताप्येवमिष्टानिष्टात्मनोः स्वयम् । साधनाढूषणाच्चापि वाग्भिः सिद्धान्यथा न तत् ११ स्वयमिष्टानिष्टयोः साधनदूषणे परं प्रति वाग्भिः प्रकाशयित्वातीत्य वाचकभावं निराकरोति कथं खस्थः । नो चेत् कथमिष्टानिष्टयोः साधनदूषणमिति चिंत्यं । संवृत्त्या चेत् न तया तस्योक्तस्याप्यनुक्तसमत्वात् । खप्नादिवत्संवृत्तेदृषारूपत्वात् । तदमृषारूपत्वे परमार्थस्य संवृतिरिति नामकरणमात्रं स्यात्ततो न ग्राह्यग्राहकभावादिशून्यं संवित्तिमात्रमपि शून्यसाधनाभावात् सर्वशून्यतावत् ॥ तत्सत्प्ररूपणं युक्तमादावेव विपश्चिताम् । कान्यथा परधर्माणां निरूपणमनाकुलम् ॥ १२॥ सत्प्ररूपणाभावेऽर्थानां धर्मिणामसत्त्वात् क संख्यादिधर्माणां प्ररूपणं सुनिश्चितं प्रवर्तते शशविषाणादिवत् । कल्पनारोपितार्थेषु तत्प्ररूपणमिति चेत् न तेष्वपि कल्पनारोपितेन रूपेणासत्सु न तन्निरूपणं युक्तमतिप्रसंगात् । सत्सु तन्निरूपणे सत्प्ररूपणमेवादौ प्रेक्षावतां युक्तमिति निराकुलम् ॥ निर्देशवचनादेतद्भिन्नं द्रव्यादिगोचरात् । सन्मात्रविषयीकुर्वदर्थानस्तित्वसाधनम् ॥ १३ ॥ निर्देशवचनात्सत्त्वसिद्धेः सद्वचनं पुनरुक्तमित्यसारं, निर्देशवचनस्य द्रव्यादिविषयत्वात् सद्वचनस्य सन्मात्रविषयत्वात् भिन्नविषयत्वेन ततस्तस्य पुनरुक्तत्वासिद्धेः । न हि यथा जीवादयोसाधारणधर्माधाराः प्रतिपक्षव्यवच्छेदेन निर्देशवचनस्य विषयास्तथा सद्वचनस्य तेन सर्वद्रव्यपर्यायसाधनेन सत्त्वस्याभिधानात् । तस्यापि स्वप्रतिपक्षासत्त्वव्यवच्छेदेन प्रवृत्तेरसाधारणविषयत्वमेवेति चेन्न, असत्त्वस्य सदंतररूपत्वेन सद्वचनादव्यवच्छेदात् भवदपि सामर्थ्यान्नास्तित्वसाधनं सद्वचनं सप्रतिपक्षव्यवच्छेदेन सन्मात्रगोचरं निर्देशवचनाद्भिन्नविषयमेव ततो महाविषयत्वात् । निर्दिश्यमानवस्तुविषयं हि निर्देशवचनं न खामित्वादिविषयं, सद्वचनं पुनः सर्वविषयमिति महाविषयत्वं । सत्त्वमपि निर्दिश्यमानं निर्देशवचनेन विषयीक्रियमाणं न तस्याविषय इति चेन्न, स्वामित्वादिवचनविषयसत्त्वस्य तदविषयत्वात् । किं सदिति हि प्रश्ने स्यादुत्पादव्ययध्रौव्ययुक्तं सदिति निर्देशवचनं, न पुनः कस्य सत् केन कस्मिन् कियचिरं किं विधानमिति प्रश्वतरति तत्र स्वामित्वादिवचनानामेवावतारात् । नैवं, सद्वचनं किमित्यनुयोग एव प्रवर्तते सर्वथा सर्वानुयोगेषु तस्य प्रवृत्तेः । संख्या दिवचनविषये सद्वचनस्याप्रवृत्तेर्न सर्वविषयत्वमिति चेन्न, तस्यासत्त्वप्रसंगात् । न ह्यसंत एव संख्यादयः संख्यादिवचनैर्विषयीक्रियते तेषामसत्त्व Page #165 -------------------------------------------------------------------------- ________________ १५६ तत्त्वार्थश्लोकवार्तिके [सू०८ प्रसंगात् । सतां न तेषां निर्विषयीकरणे सिद्धं । सद्वचनेनापि विषयीकरणमिति तदेव सर्वविषयत्वेन महाविषयं ततो न पुनरुक्तम् ॥ गत्यादिमार्गणास्थानैः प्रपंचेन निरूपणम् । मिथ्यादृष्ट्यादिविख्यातगुणस्थानात्मकात्मनः १४ कृतमन्यत्र प्रतिपत्तव्यमिति वाक्यशेषः । सोपस्कारत्वात् वार्तिकस्य सूत्रवत् । संख्या संख्यावतो भिन्ना न काचिदिति केचन । संख्यासंप्रत्ययस्तेषां निरालंबः प्रसज्यते१५ नैव संख्यासंप्रत्ययोस्तींद्रियजः तत्रैकस्मिन् खलक्षणप्रतिभासमाने स्पष्टमेकत्वसंख्यायाः प्रतिभासनाभावात् । न हीदं खलक्षणमियमेकत्वसंख्येति प्रतिभासद्वयमनुभवामः । नापि लिंगजोऽयं संख्यासंप्रत्ययः संख्याप्रतिबद्धलिंगस्य प्रत्यक्षसिद्धस्याभावात् । तत एव न शाब्दोऽयं प्रत्यक्षानुमानमूलः । योगिप्रत्यक्षमूलोऽयमिति चेन्न, तस्य तथावगंतुमशक्यत्वात् । ततोऽयं मिथ्याप्रत्ययो निरालंबन एवेति केचित् , तेषां तस्य दिशाविनियमो न स्यात् कारणरहितत्वादन्यानपेक्षणात् सर्वदा सत्त्वमसत्त्वं वा प्रसज्येत । अनिरालंबनोपि समनंतरप्रत्ययनियमात् प्रतिनियतोयमिति चेन्न बहिः संख्यायाः प्रतिनियताया प्रतीयते।। वासनामात्रहेतुश्चेत्सा मिथ्याकल्पनात्मिका । वस्तु सापेक्षिकत्वेन स्थविष्ठत्वादिधर्मवत् ।।१६।। नीरूपेषु शशश्वाविषाणेष्वपि किं न सा तत्कल्पना सुसत्या सुखरूपेण तु सांजसा बहिर्वस्तुबु संख्याध्यवसीयमाना वासनामात्रहेतुका मिथ्याकल्पनात्मिकैवापेक्षिकत्वादिधर्मवदिति चेन्न, नीरूपेषु शशादिविषाणेष्वपि तत्प्रसंगात् । तत्कल्पनावस्त्येवेति चेत् तर्हि ताः कल्पनाः स्वरूपेण सत्याः किं वा न सत्याः ? न तावदुत्तरः पक्षः स्वमतविरोधात् । कथमिदानीं स्वरूपेण सत्यासु कल्पनालु संख्या परमार्थतो न स्यात् , ताखपि कल्पनांतरारोपितापेक्षिकत्वाविशेषात् । बहिर्वस्तुष्वेवेति चेत् , स्यादेवं यदि विकल्पनारोपितत्वेनापेक्षिकं व्याप्तं सिद्ध्येत् ।। न चापेक्षिकता व्याप्ता नीरूपत्वेन गम्यते । वस्तु सत्स्वपि नीलादिरूपेष्वस्थाः प्रसिद्धितः१७ नीलनीलांतरयोहि रूपो यथा नीलापेक्षं नीलांतररूपं तथा नीलांतरापेक्षं नीलमिति नीलादिरूपेषु वस्तु सत्वपि भावादपेक्षिकताया न कल्पनारोपितत्वेन व्याप्तिरवगम्यते यतः संख्यांतरया बहिरंतन - रूपत्वं । यदि पुनरस्पष्टावभासित्वे सत्यापेक्षिकत्वादिति हेतुस्तदा साधनविकलो दृष्टांतः, स्थविष्ठत्वादिधर्माणां स्पष्टावभासित्वात् । तत्र भ्रांतमिति चेन्न, बाधकाभावात् । स्थविष्टत्वादिधर्मप्रतिभासो न स्पष्टो विकल्पत्वादनुमानादिविकल्पवदित्यनुमानं तद्बाधकमिति चेन्न, पुरोवर्तिनि वस्तुनौद्रिाजविकल्पेन स्पष्टेन व्यभिचारात् । तस्यापि पक्षीकरणादव्यभिचार इति चेत्तर्हि संभाव्यव्यभिचारी हेतुः स्पष्टत्वेन विकल्पत्वस्य विरोधासिद्धेः क्वचिद्विकल्पत्वस्यास्पष्टत्वेन दर्शनात् । स्पष्टत्वेन विरोधे चंद्रद्वयप्रतिभासत्वस्य सत्यत्वेनादर्शनात् स्वसंवित्प्रतिभासत्वस्यापि सत्यत्वं मा भूत् तथा तद्विरोधसिद्धेरविशेषात् । अथ प्रतिभासित्वाविशेषेपि खसंवित्प्रतिभासः सत्यः शशिद्वयप्रतिभासश्चासत्यः संवादादसेवादाचोच्यते तर्हि विकल्पत्वाविशेषपींद्रियजविकल्पः स्पष्टः साक्षादर्थग्राहकत्वात् नानुमानादिविकल्पोऽसाक्षादर्थवाहकत्वादित्यनुमन्यतां । तथा चेंद्रियजविकल्पे व्यभिचार एव निर्विकल्पत्वादिंद्रियजन्य ज्ञानस्यानिद्रियजो विकल्पोस्तीतिचेन्न, तस्याने व्यवस्थापयिष्यमाणत्वात् ततो नावस्पष्टावभासित्वं दृष्टांतेस्तीति । साधनवैकल्यमेव सर्वत्र संख्यायां च तन्नास्तीति पक्षाव्यापको हेतुर्वनस्पति चैतन्ये वापवत् । न हि स्पष्टावभासिष्वर्थेष्वस्पष्टावभासित्वं संख्यायाः प्रसिद्धं । न च तत्र स्पष्टसंख्यानुभवाभाव तदनुसारी विकल्पः पाश्चात्यो युक्तः, पीतानुभवाभावे पीतविकल्पवत् तदमिलापविकल्पे वासना । तस्माद्युक्त एवेति चेत् Page #166 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। तर्हि पीतादिविकल्पोपि तत एवेति न पीताद्याकारो वास्तवोर्थेषु संख्यावदिति नीरूपत्वं । सत्येंद्रियज्ञानेवभासनात् पीताद्याकारो वास्तव एवेति चेत् तत एव संख्या वास्तवी किं न स्यात् । न हि सा तत्र नावभासते तदवभासाभावात् कस्यचित्तदक्षव्यापारांतरांतरं तदनिश्चयात् तदविज्ञाने तस्याः प्रतिभासनमिति चेत् , तत एव पीताद्याकारः स्यात्तत्र तन्मा भूत् । यदि पुनरभ्यासादिसाकल्ये सर्वस्याक्षव्यापारांतरं • पीताद्याकारेषु निश्चयोत्पत्तेस्तद्वेदने तत्प्रतिभासनमिति मतं तदा संख्याप्रतिभासनमपि तत एवानुमन्यतां । न हि तदभ्यासादिप्रत्ययासाकल्ये सर्वस्याक्षव्यापारान्निश्चयः संख्यायामसिद्ध इति कश्चित् पीताद्याकाराद्विशेषः संख्यावत्पीताद्याकाराणामपि वस्तुन्यभाव एवेति वायुक्तं, सकलाकाररहितस्य वस्तुनोऽप्रतिभासनात् पुरुषाद्वैतवत् । विधूतसकलकल्पनाकलापं खसंवेदनमेव स्वतः प्रतिभासमानं सकलाकाररहितं वस्तु मतमिति चेत् तदेव ब्रह्मतत्त्वमस्तु न च तत्प्रतिभासते कस्यचिन्नानकात्मन एव सर्वदा प्रतीतेः । सर्वस्य प्रतीत्यनुसारेण तत्त्वव्यवस्थायां बहिरंतश्च वस्तुभेदस्य सिद्धेः । कथं पीताद्याकारवत् संख्यायाः प्रतिक्षेपः प्रतीत्यतिक्रमे कुतः खेष्टसिद्धिरित्युक्तप्रायं । ततः सा चैकत्वादिसंख्येयं सर्वेष्वर्थेषु वास्तवी । विद्यमानापि निर्णीतिं कुर्याद्धेतोः कुतश्चन ॥१८॥ प्रतिक्षणविनाशादि बहिरंतर्यथास्थितेः । स्वावृत्त्यपायवैचित्र्याद्बोधवैचित्र्यनिष्ठितेः ॥ १९ ॥ न हि प्रमेयस्य सत्तैव प्रमातुनिश्चये हेतुः सर्वस्य सर्वदा सर्वनिश्चयप्रसंगात् । नापींद्रियादिसामग्रीमात्रं व्यभिचारात् । खावरणविगमाभावे तत्सद्भावेपि प्रतिक्षणविनाशादिषु बहिरंतश्च निश्चयानुत्पत्तेः, खावरणविगमविशेषवैचित्र्यादेव निश्चयवैचित्र्यासिद्धेरन्यथानुपपत्तेः । तथा सति नियतमेकत्वाद्यशेषं संख्या सर्वेष्वर्थेषु विद्यमानापि निश्चयकारणस्य क्षयोपशमलक्षणस्याभावे निश्चयं जनयति तद्भाव एव कस्यचित्तदनिश्चयात् ॥ . यत्रैकत्वं कथं तत्र द्वित्वादेरपि संभवः । परस्परविरोधाच्चेत्तयो वं प्रतीतितः ॥ २० ॥ प्रतीते हि वस्तुन्येकत्वसंख्या द्वितीयाद्यपेक्षायां द्वित्वादिसंख्या वा नैकस्थत्वात्तस्यास्ततो न विरोधः ॥ वस्तुन्येकत्र दृष्टस्य परस्परविरोधिनः । वृत्तिधर्मकलापस्य नोपालंभाय कल्पते ॥ २१ ।। स्थाद्वादविद्विषामेव विरोधप्रतिपादनात् । यथैकत्वं पदार्थस्य तथा द्वित्वादि वांछताम् ।।२२।। ये खलु पदार्थस्य येन रूपेणैकत्वं तेनैव द्वित्वादि वांछंति तेषामेव स्याद्वादविद्विषां विरोधस्य प्रतिपादनात् । “विरोधान्नोभयैकात्म्यं स्वाद्वादन्यायविद्विषा" इति वचनात् न स्याद्वादिनामेकत्वादिधर्मकलापस्य परस्परं प्रतिपक्षभूतस्य वृत्तिरेकत्रैकदा विरुध्यते तथा दृष्टत्वात् । ततो नोपालंभः प्रकल्पनीयः ॥ स्याद्वादिनां कथं न विरुद्धता उभयैकात्म्याविशेषादिति चेत् ;येनैकत्वं स्वरूपेण तेन द्वित्वादि कथ्यते । नैवानंतात्मनोऽर्थस्येत्यस्तु केयं विरुद्धता ॥२३॥ द्वितीयाद्यनपेक्षेण हि रूपेणार्थस्यैकत्वं तदक्षिण द्वित्वादिकामात दूरोत्सारितैव विरुद्धताऽनयोः खरूपभेदः पुनरनंतात्मकत्वात्तस्य तत्त्वतो व्यवतिष्ठते कल्पनारोपितस्य तस्य निराकरणात् भवंश्चैकत्वादीनामेकत्र सर्वथाप्यसतां विरोधः स्यात्सतां वा । किं चातः । सर्वथैवासतां नास्ति विरोधः कूर्मरोमवत् । सतामपि यथा दृष्टस्वेष्टतत्त्व विशेषवत् ॥ २४ ॥ न सर्वथाप्यसतां विरोधो नापि यथा दृष्टसतां । किं तर्हि, सहैकत्रादृष्टानामिति चेत् कथमिदानीमेकत्वादीनामेकत्र सकृदुपलभ्यमानानां विरोधः सिद्धयेत् ? मूर्तत्वादीनामेव तत्त्वतो भेदनयात्तत्सिद्धेः । ननु च यथैकस्यार्थस्य सर्वसंख्यात्मकत्वं तथा सर्वार्थात्मकत्वमस्तु तत्कारणत्वादन्यथा तदयोगात् ॥ Page #167 -------------------------------------------------------------------------- ________________ १५८ तत्त्वार्थश्लोकवार्तिके [सू० ८ सर्व सर्वात्मकं सिद्धयेदेवमित्यतिसाकुलम् । सर्वकार्योद्भवे सत्त्वस्यार्थस्येदृक्षशक्तितः ॥ २५ ॥ भवदपि हि सर्व सर्वकार्योद्भवे शक्तं सर्वकार्योद्भावनशक्त्यात्मकं सिध्येद्यथा सर्वसंख्याप्रत्ययविषयभूतं सर्वसंख्यात्मकमिति शक्त्यात्मना सर्वे सर्वात्मकत्वमिष्टमेव ॥ L " व्यक्त्यात्मनानुभावस्य सर्वात्मत्वं न युज्यते । सांकर्यप्रत्ययापत्तेरव्यवस्थानुषंगतः ॥ २६ ॥ न हि सर्वथा शक्तिव्यक्त्योरभेदो येन व्यक्त्यात्मनापि सर्वस्य सर्वात्मकत्वे सांकर्येण प्रत्ययस्यापत्ते - र्भावस्याव्यवस्थानुषज्यते कथंचिद्भेदात् । पर्यायार्थतो हि शक्तेर्व्यक्तिर्भिन्ना तदप्रत्यक्षत्वेपि प्रत्यक्षादभेदेन तदघटनात् । ननु च यथा प्रत्ययनियमाद्व्यक्तयः परस्परं न संकीर्यते तथा शक्तयोपि तत एवेति कथं शक्त्यात्मकं सर्वे स्यात् । न हि दहनस्य दहनयुक्तावनुमानप्रत्ययः स एवोद्यानशक्तौ यत्सूत्रप्रत्ययप्रतिनियमो न भवेदिति कश्चित् सोप्युक्तानभिज्ञ एव । न हि वयं शक्तीनां संकरं ब्रूमो व्यक्तीनामिव तासां कथंचित्परस्परमसांकर्यात् । किं तर्हि, भावस्यैकस्य यावंति कार्याणि कालत्रयेपि साक्षात्पारंपर्येण वा तावत्यः शक्तयः संभाव्यंत इत्यभिदध्महे प्रत्येकं सर्वभावानां कथंचिदनुकार्यस्य कस्यचिदभावात् । सर्वं कृतकमेकांततस्तथा स्यादितिचेन्न, सर्वथा सर्वेण सर्वस्योपकार्यत्वासिद्धेः । द्रव्यार्थतः कस्यचित्केनचिदनुपकरणात् । न चोपकार्यत्वानुपकार्यत्वयोरेकत्र विरोधः, संविदि वेद्यवेदकाकारवत् प्रत्यक्षेतरखसंविद्वेद्याकारविवेकवद्वा निर्बाधनात्प्रत्ययात्तथा सिद्धेः । अन्यथा कस्यचित्तत्त्वनिष्ठानासंभवात् । नन्वेवं सर्वत्र सर्वसंख्यया संप्रत्ययासत्त्वात् कथमेकत्वादिसंख्या सर्वा सर्वत्र व्यवतिष्ठते अतिप्रसक्तेरिति चेन्न, एकत्रैकप्रत्ययवद्वितीयाद्यपेक्षया द्वित्वादिप्रत्ययानामनुभवात् । सकृत्सर्वसंख्यायाः प्रत्ययो नानुभूयते एवेति चेत् । सत्यं । क्रमादभिव्यक्तिः क्वचिद्वित्वसंख्या हि द्वितीयाभिव्यक्ता द्वित्वप्रत्ययविज्ञेया, तृतीयाद्यपेक्षया तु त्रित्वादिसंख्याभिव्यक्ता त्रित्वादिप्रत्ययवेद्या । तथानभिव्यक्तायास्तस्याः तत्प्रत्ययाविषयत्वादसकृत्सर्वसंख्यासंप्रत्ययः । ननु संख्याभिव्यक्तः प्राकुतस्तनी कुतः सिद्धा : तदा तत्प्रत्ययस्यासंभवात् । तत्संभवे वा कथं नाभिव्यक्ता ? यदि पुनरसती तदा कुतोऽभिव्यक्तिस्तस्याः मंडूकशिखावदित्येकांतवाद - नामुपालंभः न स्याद्वादिनां सदसदेकांतानभ्युपगमात् । सा हि शक्तिरूपतया प्राक्कुतस्तनी परापेक्षातः पश्चादभिव्यक्त्यान्यथानुपपत्त्या सिद्धा व्यक्तिरूपतया त्वसती साक्षात्स्वप्रत्ययाविषयत्वादिति द्रव्यार्थ - प्राधान्यादुपेयते । पर्यायार्थप्राधान्यात्तु सापेक्षा कार्या तद्भावभावात् । न ह्यसत्यामपेक्षायां द्वित्वादिसंख्योत्पद्यत इति न भावस्य व्यक्तसंख्यापेक्षया सर्व संख्यात्मकत्वं यतस्तद्वत् सर्वं सर्वात्मकत्वं यतस्तद्वप्रसज्यते । तत्प्रसंग एव च सर्वत्र सर्वसंख्याप्रत्ययस्य यथासंभवमनुभूयमानस्य बाधकः स्यात् तद्बाधिताच्च संख्याप्रत्ययात् सिद्धा वास्तवी संख्या || ततो निर्बाधनादेव प्रत्ययात्तत्त्वनिष्ठितौ । संख्यासंप्रत्ययात्सत्या तात्त्विकीति व्यवस्थितम् २७ यत्र निर्बाधः प्रत्ययस्तत्तात्त्विकं यथोभयप्रसिद्धं वस्तुरूपं, निर्बाधप्रत्ययश्च संख्यायामिति सा तात्त्विक सिद्धा || सा नैव तत्त्वतो येषां तेषां द्रव्यमसंख्यकम् । संख्यातोत्यन्तभिन्नत्वाद्गुणकर्मादिवन्न किम् २८ समवायवशादेवं व्यपदेशो न युज्यते । तस्यैकरूपताभीष्टे नियमाकारणत्वतः ।। २९ ।। संख्या तद्वतो भिन्नैव भिन्नप्रतिभासत्वात् सह्यविंध्यवदित्येके, तेषां द्रव्यमसंख्यं स्यात् संख्यातोत्यं - तभिन्नत्वाद्गुणादिवत् । तत्र संख्यासमवायात्ससंख्यमेव तदिति चेत् न, तद्वशादेवं व्यपदेशस्यायोगात् । न समवायः संख्यावद्द्रव्यमिति व्यपदेशनिमित्तं नियमाकारणत्वात् । प्रतिनियमाकारणं समवायः सर्व Page #168 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १५९ समवायिसाधारणैकरूपत्वात् सामान्यादिमत्तु द्रव्यमिति प्रतिनियतव्यपदेशनिमित्तं समवाय इत्यप्यनेनापास्तं । केनचिदंशेन क्वचिन्नियमहेतुः समवाय इति चेन्न, तस्य सावयवत्वप्रसक्तेः खसिद्धांत विरोधात् । निरंश एव समवायस्तथा शक्तिविशेषान्नियमहेतुरित्ययुक्तं, अनुमानविरोधात् ॥ समवायो न संख्यादि तद्वतां घटने प्रभुः । निरंशत्वाद्यथैवैकः परमाणुः सकृत्तव ॥ ३० ॥ न हि निरंशः सकृदेकः परमाणुः संख्यादि भवतां परस्परमिष्टव्यपदेशनघटने समर्थः सिद्धः तद्वत्समवायोपि विशेषाभावात् । शक्तिविशेषयोगात् समवायस्तत्र परिवृढ इति चेत्, परमाणुस्तथास्तु । सर्वगतत्वात्स तत्र समर्थ इति चेन्न, निरंशस्य तदयोगात् परमाणुवत् । ननु निरंशोपि समवायो यदा यत्र ययोः समवायिनोर्विशेषणं तदा तत्र तयोः प्रतिनियतव्यपदेशहेतुर्विशेषणविशेष्यभावात् प्रतिनियामकात् स्वयं तस्य प्रतिनियतत्वादिति चेन्न, असिद्धत्वात् ॥ युगपन्न विशेष्यंते तेनैव समवायिनः । भिन्नदेशादवृत्तित्वादन्यथातिप्रसंगतः ॥ ३१ ॥ न खादिभिरनेकांतस्तेषां सांशत्वनिश्चयात् । निरंशत्वे प्रमाभावाद्व्यापित्वस्य विरोधतः ||२३|| विशेषणविशेष्यत्वं संबंधः समवायिभिः । समवायस्य सिद्ध्येत द्वौ वः प्रतिनियामकः ॥३३॥ न हि भेदैकांते समवायसमवायिनां विशेषणविशेष्यभावः प्रतिनियतः संभवति यतः समवायस्य क्वचिन्नियमहेतुत्वे प्रतिनियामकः स्यात् ॥ सन्नप्ययं ततस्तावन्नाभिन्नः स्वमतक्षतेः । भिन्नयेत्स स्वसंबंधिसंबंधोन्योस्य कल्पनात् ॥ ३४ ॥ सोपि तद्भिन्नरूपश्वेदनवस्थोपवर्णिता । तादात्म्यपरिणामस्य समवायस्य तु स्थितिः ।। ३५ ।। सुदूरमपि गत्वा विशेषणविशेष्यभावस्य स्वसंबंधिभ्यां कथंचिदनन्यत्वोपगमे समवायस्य खसम - वायिभ्यामन्यत्वसिद्धेः सिद्धः कथंचित्तादात्म्यपरिणामः समवाय इति संख्या तद्वतः कथंचिदन्या ॥ गणनामात्ररूपेयं संख्योक्तातः कथंचन । भिन्ना विधानतो भेदगणनालक्षणादिह || ३६ || निर्देशादिसूत्रे विधानस्य वचनादिह संख्योपदेशो न युक्तः पुनरुक्तत्वाद्विधानस्य संख्यारूपत्वादिति न चोद्यं, तस्य ततः कथंचिद्भेदप्रसिद्धेः । संख्या हि गणनामात्ररूपा व्यापिनी, विधानं तु प्रकारगणनारूपं ततः प्रतिविशिष्टमेवेति युक्तः संख्योपदेशस्तत्त्वार्थाधिगमे हेतुः ॥ निवासलक्षणं क्षेत्रं पदार्थानां न वास्तवम् । स्वस्वभावव्यवस्थानादित्येके तदपेशलम् ॥ ३७ ॥ राज्ञः सति कुरुक्षेत्रे तन्निवासस्य दर्शनात् । तस्मिन्नसति चादृष्टे वास्तवस्याप्रबाधनात् ॥ ३८ ॥ नन्वेवं राज्ञः कुरुक्षेत्रं कारणमेव तत्र निवसनखभावस्य तस्य तेन जन्यमानत्वादिति चेत् किमनिष्टं, कारणविशेषस्य क्षेत्रत्वोपगमात् कारणमात्रस्य क्षेत्रत्वेतिप्रसंगः प्रमाणगोचरस्यास्य नावस्तुत्वं स्वतत्त्ववत् । नानुमागोचरस्यापि वस्तुत्वं न व्यवस्थितम् ॥३९॥ न वास्तवं क्षेत्रमापेक्षिकत्वात् स्थौल्यादिवदित्ययुक्तं, तस्य प्रमाणगोचरत्वात् स्वतत्त्ववत् । न ह्यापेक्षिकमप्रमाणगोचरः सुखनीलेतरादेः प्रमाणविषयत्वसिद्धेः । संविन्मात्रवादिनस्तस्यापि तदविषयत्वमिति चेन्न तस्या निरस्तत्वात् । ननु च क्षेत्रत्वं कस्य प्रमाणस्य विषयः स्यात् ? न तावत्प्रत्यक्षस्य तत्र तस्यानवभासनात् । न हि प्रत्यक्षभूभागमात्रप्रतिभासमाने कारणविशेषरूपे क्षेत्रत्वमाभासते कार्यदर्शनात्त्वनुमीयमानं कथं वास्तवमनुमानस्यावस्तुविषयत्वादिति कश्चित् सोप्ययुक्तवादी । वस्तुविषयत्वादनुमितेरन्यथा प्रमाणतानुपपत्तेरिति वक्ष्यमाणत्वात् ॥ " Page #169 -------------------------------------------------------------------------- ________________ १६० तत्त्वार्थश्लोकवार्तिके [सू०८ ननु निर्देशादिसूत्रेधिकरणवचनादिह क्षेत्रस्य वचनं पुनरुक्तं तयोरेकत्वादिति शंकामपनुदन्नाह;सामीप्यादिपरित्यागाध्यापकस्य परिग्रहात् । शरीरे जीव इत्यधिकरणं क्षेत्रमन्यथा ॥ ४० ॥ शरीरे जीव इत्यधिकरणं व्यापकाधाररूपमुक्तं, सामीप्याद्यात्मकाधाररूपं तु क्षेत्रमिहोच्यते ततोन्यथैवेति न पुनरुक्तता क्षेत्रानुयोगस्य ॥ त्रिकालविषयार्थोपश्लेषणं स्पर्शनं मतम् । क्षेत्रादन्यत्वभाग्वर्तमानार्थश्लेषलक्षणात् ॥ ४१॥ । त्रिकालविषयोपश्लेषणं स्पर्शनं, वर्तमानार्थोपश्लेषणात् क्षेत्रादन्यदेव कथंचिदवसेयं । सर्वस्यार्थस्य वर्तमानरूपत्वात्स्पर्शनमसदेवेति चेन्न, तस्य द्रव्यतोऽनादिपर्यतरूपत्वेन त्रिकालविषयोपपत्तेः । नन्विदमयुक्तं वर्तते वस्तु त्रिकालविषयरूपमनाद्यनंतं चेति । तद्धि यद्यतीतरूपं कथमनंतं ? विरोधात् । तथा यद्यनागतं कथमनादि ? ततो न त्रिकालवर्तीति । द्रव्यतोऽनादिपर्यते सिद्धे वस्तुन्यबाधिते । स्पर्शनस्य प्रतिक्षेपस्त्रिकालस्य न युज्यते ॥ ४२ ॥ न हि येनात्मनातीतमनागतं वा तेनानंतमनादि वा वस्तु ब्रूमहे, यतो विरोधः स्यात् । नापि स तदात्मा वस्तुनो भिन्न एव, येन तस्यातीतत्वेऽनागतत्वे च वस्तुनोऽनंतत्वमनादित्वं च कथंचिन्न सिध्येत् । ततोऽनाद्यनंतवस्तुनः कथंचित्रिकालविषयत्वं न प्रतिक्षेपार्हम विरुद्धत्वादिति श्लेषांशस्तल्लक्षणः स्पर्शनोपदेशः ॥ स्थितिमत्सु पदार्थेषु योवधि दर्शयत्यसौ। कालः प्रचक्ष्यते मुख्यस्तदन्यः स्वस्थितेः परः॥४३॥ न हि स्थितिरेव प्रचक्ष्यमाणः कालः स्थितिमत्सु पदार्थेष्ववधिदर्शनहेतुः कालत्वात् स्थानक्रियैव व्यवहारकालो नातोऽन्यो मुख्य इति चेन्न, तदभावे तदनुपपत्तेः । तथाहि; न क्रियामात्रकं कालो व्यवहारप्रयोजनः । मुख्यकालादृते सिद्ध्येद्वर्तनालक्षणात्कचित् ॥४४॥ न हि व्यावहारिकोपि कालः क्रियामात्रं समकालस्थितिरिति कालविशेषणायाः स्थितेरभावप्रसंगात् । परमः सूक्ष्मः कालो हि समयः सकलतादृशक्रियाविशेषणतामात्मसात् कुर्वस्ततोऽन्य एव व्यवहारकालस्यावलिकादेर्मूलमुन्नीयते । स च मुख्यकालं वर्तनालक्षणमाक्षिपति तस्मादृते क्वचित्तदघटनात् । न हि किंचिद्गौणं मुख्याहते दृष्टं येनातस्तस्यासाधनं ॥ परत्वमपरत्वं च समदिग्नतयोः सतोः । समानगुणयोः सिद्धं तादृक्कालनिबंधनं ॥ ४५ ॥ परापरादिकालस्य तत्त्वहेत्वंतरान्न हि । यतोऽनवस्थितिस्तत्राप्यन्यहेतुप्रकल्पनात् ॥ ४६ ॥ स्वतस्तत्त्वतथात्वे च सर्वार्थानां न तद्भवेत् । व्याप्यसिद्धेर्मनीषादिरमूर्तत्वादिधर्मवत् ॥४७॥ यथाप्रतीतिभावानां स्वभावस्य व्यवस्थितौ । काले परापरादित्वं स्वतोस्त्वन्यत्र तत्कृतम् ४८ कान्यथा व्यवतिष्ठते धर्माधर्मनभांस्यपि । गत्यादिहेतुतापत्तेर्जीवपुद्गलयोः स्वतः ।। ४९ ॥ शरीरवाङ्मनःप्राणापानादीनपि पुद्गलाः । प्राणिनामुपकुर्युने स्वतस्तेषां हि देहिनः ॥ ५० ॥ जीवा वा चेतना न स्युः कायाः संतु स्वकास्तथा । निंबादिमधुरस्तिक्तो गुडादिः कालविद्विषाम् ५१ एकत्रार्हे हि दृष्टस्य स्वभावस्य कुतश्चन । कल्पना तद्विजातीये स्वेष्टतत्त्वविधातिनी ॥ ५२ ॥ तस्माजीवादिभावानां स्वतो वृत्तिमतां सदा । कालः साधारणो हेतुर्वर्तनालक्षणः स्वतः ॥५३ न हि जीवादीनां वृत्तिरसाधारणादेव कारणादिति युक्तं, साधारणकारणाद्विना कस्यचित्कार्यस्यासंभवात् करणज्ञानवत् । तत्र हि मनःप्रभृति साधारणं कारणं चक्षुराद्यसाधारणमन्यतरापाये तदनुपपत्तेः । तद्वत्सकलवृत्तिमतां वृत्तौ कालः साधारणं निमित्तश्योपादानमसाधारणमिति युक्तं पश्यामः । Page #170 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १६१ खादि तन्निमित्तं साधारणमितिचेन्न, तस्यान्यनिमित्तत्वेन प्रसिद्धेः । केनचिदात्मना तत्तन्निमित्तत्वमपीतिचेत् स एवात्मा काल इति न तद्भावः । तथा सति कालो द्रव्यं न स्यादिति चेन्न, तस्य द्रव्यत्वेन वक्ष्यमाणत्वात् ॥ स्वहेतोर्जायमानस्य कुतश्चिद्विनिवर्तते । पुनः प्रसूतितः पूर्व विरहोंतरमिष्यते ॥ ५४॥ काल एव स चेदिष्टं विशिष्टत्वान्न भेदतः । सूचनं तस्य सूत्रेसिन् कथंचिन्न विरुध्यते ॥५५॥ ननु न केवलं विरहकालोतरं । किं तर्हि छिद्रं मध्यं वा अंतरशब्दस्यानेकार्थवृत्तेश्छिद्रमध्यविरहेष्वन्यतमग्रहणमिति वचनात् । न चेदं वचनमयुक्तं कालव्यवधानवत्क्षेत्रस्य व्यवधायकस्य भागस्य च पदार्थेषु भावादिति कश्चित् । सोपि यदि मुख्यमंतरं छिद्रं मध्यं वा ब्रूयात् तदानुपहतवीर्यस्य न्यग्भावे पुनरुद्भूतिदर्शनात्तद्वचनमिति विरुध्यते । विरहकालाख्यस्यांतरस्यानेन समर्थनात् । अथाप्रधानं तदिष्टमेव । सांतरं काष्ठं सछिद्रमिति प्रतीतेर्मुख्यं छिद्रमिति चेन्न, तत्रापि विरहस्य तथाभिधानात् । द्रव्यविरहः छिद्रं न कालविरह इति चेन्न, द्रव्यविरहस्य पदार्थप्ररूपणानंगत्वात् । क्षेत्रं व्यवधायकं छिद्रमिति चायुक्तं तस्य मध्यव्यपदेशप्रसंगात् । भागो व्यवधायको मध्यमिति वायुक्तिकं हिमवत्सागरांतरमित्यादिषु मध्यस्यांतरस्य व्यवधायकभागस्याप्रतीतेः । पूर्वापरादिभागविरहोंतरालभागो मध्यमितिचेत् तर्हि सर्व एव व क्षेत्रविरहोंतरालरूपः छिद्रं इति विरह एवांतरं न्याय्यं तत्र छिद्मध्ययोः कथंचिद्विरहकालादनन्यत्वेपि जीवतत्त्वाधिगमानंगत्वादिहानधिकारादवचनं । विरहकालस्य तु तदंगत्वादुपदेश इति युक्तं । पुद्गलतत्त्वनिरूपणायां तु छिद्रमध्ययोरपि वचनं वार्तिककारस्य सिद्धम् ॥ अत्रौपशमिकादीनां भावानां प्रतिपत्तये । भावो नामादिसूत्रोक्तोप्युक्तस्तत्त्वानुयुक्तये ॥५६॥ नामादिषु भावग्रहणात्पुनर्भावग्रहणमयुक्तमिति न चोद्यं, अत्रौपशमिकादिभावापेक्षत्वात्तग्रहणस्य विनेयाशयवशो वा तत्त्वाधिगमहेतुविकल्पः सर्वोऽयमित्यनुपालंभः ॥ एतेल्पे बहवश्चैतेऽमीभ्योतिविविक्तये । कथ्यतेल्पबहुत्वं तत्संख्यातो भिन्नसंख्यया ॥५७॥ प्रत्येकं संख्यया पूर्व निश्चितार्थेपि पिंडतः । कथ्यतेल्पबहुत्वं यत्तत्ततः किं न भिद्यते ॥५८॥ ननु यथा विशेषतोऽर्थानां गणना संख्या तथा पिंडतोपि ततो न संख्यातोल्पबहुत्वं भिन्नमितिचेन्न, कथंचिद्भेदस्य त्वयैवाभिधानात् । न हि सर्वथा ततस्तदभेदविशेषे संख्या पिंडं संख्येति वक्तुं शक्यम् ॥ इति प्रपंचतः सर्वभावाधिगतिहेतवः । सदादयोनुयोगाः स्युस्ते स्याद्वादनयात्मकाः ॥५९॥ सकलं हि वस्तुसत्त्वादयोऽनुयुजानाः स्याद्वादात्मका एव विकल्पयंतु नयात्मका एवेति न प्रमाणनयेभ्यो भिद्यते । तत्प्रभेदास्तु प्रपंचतः सर्वे तत्त्वार्थाधिगमहेतवोऽनुवेदितव्याः ॥ सत्त्वेन निश्चिता भावा गम्यंते संख्यया बुधैः । संख्यातः क्षेत्रतो ज्ञेयाः स्पर्शनेन च कालतः६० तथांतराच्च भावेभ्यो ज्ञेयं तेल्पबहुत्वतः । क्रमादिति तथैतेषां निर्देशो व्यवतिष्ठते ॥ ६१ ॥ प्रश्नक्रमवशाद्वापि विनेयानामसंशयम् । नोपालंभमवाप्नोति प्रत्युत्तरवचःक्रमः ॥ ६२ ॥ ततो युक्त एव सूत्रे सदादिपाठक्रमः शब्दार्थन्यायाविरोधात् । सामान्येनाधिगम्यंते विशेषेण च ते यथा । जीवादयस्तथा ज्ञेया व्यासेनान्यत्र कीर्तिताः६३ जीवस्तत्र संसारी मुक्तश्च, संसारी स्थावरश्च त्रसश्च, स्थावरः पृथिवीकायिकादिरेकेंद्रियः सूक्ष्मो बादरश्च, सूक्ष्मः पर्याप्तकोपर्याप्तकश्च, तथा बादरोपि, त्रसः पुनर्दीन्द्रियादिः पर्याप्तकोऽपर्याप्तकश्चेति २१ Page #171 -------------------------------------------------------------------------- ________________ १६२ तत्त्वार्थश्लोकवार्तिके [सू०९ सामान्येन विशेषेण च यथा सत्त्वेनाधिगम्यते संख्यादिभिश्च तथा संक्षेपेणाजीवादयोपीहैव । व्यासेन तु गत्यादिमार्गणासु सामान्यतो विशेषतश्च जीववदजीवादयोऽन्यत्र कीर्तिता विज्ञातव्याः॥ इत्युद्दिष्टौ त्र्यात्मके मुक्तिमार्गे सम्यग्दृष्टेर्लक्षणोत्पत्तिहेतून् । तत्त्वन्यासौ गोचरस्याधिगंतुं हेतु नानीतिकश्चानुयोगः ॥१॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥ किमर्थमिदं सूत्रमाहेत्युच्यतेअथ स्वभेदनिष्ठस्य ज्ञानस्येह प्रसिद्धये । प्राह प्रवादिमिथ्याभिनिवेशविनिवृत्तये ॥१॥ न हि ज्ञानमन्वयमेवेति मिथ्याभिनिवेशः कस्यचिन्निवर्तयितुं शक्यो विना मत्यादिभेदनिष्ठसम्यग्ज्ञाननिर्णयात् तदन्यमिथ्याभिनिवेशवत् । न चैतस्मात्सूत्रादृते तन्निर्णय इति सूक्तमिदं संपश्यामः ॥ किं पुनरिह लक्षणीयमित्युच्यतेज्ञानं संलक्षितं तावदादिसूत्रे निरुक्तितः । मत्यादीन्यत्र तद्भेदाल्लक्षणीयानि तत्त्वतः ॥२॥ न हि सम्यग्ज्ञानमत्र लक्षणीयं तस्यादिसूत्रे ज्ञानशब्दनिरुक्त्यैवाव्यभिचारिण्या लक्षितत्वात् तद्भेदमासृत्य मत्यादीनि तु लक्ष्यंते तन्निरुक्तिसामर्थ्यादिति बुध्यामहे । कथं ? मत्यावरणविच्छेदविशेषान्मन्यते यथा । मननं मन्यते यावत्स्वार्थे मतिरसौ मता ॥३॥ श्रुतावरणविश्लेषविशेषाच्छ्रवणं श्रुतम् । शृणोति स्वार्थमिति वा श्रूयतेस्मेति वागमः ॥४॥ अवध्यावृतिविध्वंसविशेषादवधीयते । येन स्वार्थोवधानं वा सोवधिनियतः स्थितिः ॥५॥ यन्मनःपर्ययावारपरिक्षयविशेषतः । ................(2)मनः पर्येति योपि वा ॥६॥ स मनःपर्ययो ज्ञेयो मनोन्नार्था मनोगताः । परेषां स्वमनो वापि तदालंबनमात्रकम् ॥ ७॥ क्षायोपशमिकज्ञानासहायं केवलं मतम् । यदर्थमर्थिनो मार्ग केवंते वा तदिष्यते ॥ ८ ॥ मत्यादीनां निरुक्त्यैव लक्षणं सूचितं पृथक् । तत्प्रकाशकसूत्राणामभावादुत्तरत्र हि ॥९॥ यथादिसूत्रे ज्ञानस्य चारित्रस्य च लक्षणम् । निरुक्तेर्व्यभिचारे हि लक्षणांतरसूचनम् ॥१०॥ न मत्यादीनां निरुक्तिस्तल्लक्षणं व्यभिचरति ज्ञानादिवत् न च तदव्यभिचारेपि तल्लक्षणप्रणयनं युक्तमतिप्रसंगात् सूत्रातिविस्तरप्रसक्तिरिति संक्षेपतः सकललक्षणप्रकाशनावहितमनाः सूत्रकारो न निरुक्तिलभ्ये लक्षणे यत्नांतरमकरोत् ॥ . खतत्त्वाल्पाक्षरत्वाभ्यां विषयाल्पत्वतोपि च । मतेरादौ वचो युक्तं श्रुतात्तस्य तदुत्तरम् ॥११॥ मतिसंपूर्वतः साहचर्यात् मत्या कथंचन । प्रत्यक्षत्रितयस्यादाववधिः प्रतिपाद्यते ॥ १२ ॥ सर्वस्तोकविशुद्धित्वात्तुच्छत्वाचावधिध्वनेः । ततः परं पुनर्वाच्यं मनःपर्ययवेदनम् ॥ १३ ॥ विशुद्धतरतायोगात्तस्य सर्वावधेरपि । अंते केवलमाख्यातं प्रकर्षातिशयस्थितेः ॥ १४ ॥ तस्य निर्वृत्त्यवस्थायामपि सद्भावनिश्चयात् । न हि सूत्रेस्मिन्मत्यादिशब्दानां पाठक्रमे यथोक्तहेतुभ्यः शब्दार्थन्यायाश्रयेभ्योऽन्येपि हेतवः किं नोक्ता इति पर्यनुयोगः श्रेयांस्तदुक्तावप्यन्ये किन्नोक्ता इति पर्यनुयोगस्यानिवृत्तेः कुतश्चित्कस्यचित्कचित्संप्रतिपत्तौ तदर्थहेत्वंतरावचनमिति समाधानमपि समानमन्यत्र । Page #172 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १६३ ज्ञानशब्दस्य संबंधः प्रत्येकं भुजिवन्मतः । समूहो ज्ञानमित्यस्यानिष्टार्थस्य निवृत्तये ॥ १५ ॥ मत्यादीनि ज्ञानमित्यनिष्टार्थो न शंकनीयः प्रत्येकं ज्ञानशब्दस्याभिसंबंधाद्भुजिवत् । न चायमयुक्तिकः, सामान्यस्य खविशेषव्यापित्वात् सुवर्णत्वादिवत् । यथैव सुवर्णविशेषेषु कटकादिषु सुवर्णसामान्यं प्रत्येकमभिसंबध्यते कटकं सुवर्णं कुंडलं सुवर्णमिति । तथा मतिर्ज्ञानं श्रुतं ज्ञानं अवधिर्ज्ञानं मनःपर्ययो ज्ञानं * केवलं ज्ञानमित्यपि विशेषाभावात् सामान्यबहुत्वमेवं स्यादिति चेत्, कथंचिन्नानिष्टं सर्वथा सामान्यैकत्वेअनेकत्वखाश्रयै सकृद्वृत्तिविरोधादेकपरमाणुवत् । क्रमशस्तत्र तद्वृत्तौ सामान्याभावप्रसंगात् सकृदनेकाश्रयवर्तिनः सामान्यस्योपगमात् । न चैकस्य सामान्यस्य कथंचिद्बहुत्वमुपपत्तिविरुद्धं बहुव्यक्तितादात्म्यात् । यमात्मानं पुरोधाय तस्य व्यक्तिस्तादात्म्यं यं च तादात्म्यं तौ चेद्भिन्नौ भेद एव, नो चेदभेद एवेत्यपि वाणो अनभिज्ञ एव । यमात्मानमासृत्य भेदः संव्यवह्रियते स एव हि भेदो नान्यः, यं चात्मानमवलंब्याभेदव्यवहारः स एवाभेद इति तत्प्रतिपत्तौ कथंचिद्भेदाभेदौ प्रतिपन्नावेव तदप्रतिपत्तौ किमाश्रयोऽयमु पालंभः स्यात् प्रतिपत्तिविषयः । पराभ्युपगमाश्रय इति चेत् स यदि तवात्रा सिद्धः कथमाश्रयितव्यः । अथ सिद्धः कथमुपालंभो विवादाभावात् । अथ परस्य वचनादभ्युपगमः सिद्धः स तु सम्यग्मिथ्या चेति विषादसद्भावादुपालंभः श्रेयान् दोषदर्शनात् । गुणदर्शनात् क्वचित्समाधानवदिति चेत्, कस्य पुनर्दोषस्यात्र दर्शनं ? अनवस्थानस्येति चेन्न, तस्य परिहृतत्वात् । विरोधस्येति चेन्न, प्रतीतौ सत्यां विरोधस्यानवता - रात् । संशयस्येति चेन्न, चलनाभावात् । वैयधिकरण्यापि न दर्शनं सामान्यविशेषात्मनोनेकाधिकरणतयाबसायात् । संकरव्यतिकरयोरपि न तत्र दर्शनं तद्व्यतिरेकेणैव प्रतीतेः । मिथ्याप्रतीतिरियमिति चेन्न, सकलबाधकाभावात् । विशेषमात्रस्य सामान्यमात्रस्य वा परिच्छेदकप्रत्ययः बाधकमिति चेन्न, तस्य जातुचित्तदपरिच्छेदित्वात् सर्वजात्यंतरस्य सामान्यविशेषात्मनो वस्तुनस्तत्र प्रतिभासनात् । प्रत्यक्षपृष्ठभाविनि विकल्पे तथा प्रतिभासनं न प्रत्यक्षे निर्विकल्पात्मनीति चेन्न, तस्यासिद्धत्वात् सर्वथा निर्विकल्पस्य निराकरिष्यमाणत्वात् । अनुमानं बाधकमिति चेन्न, तस्य निर्विशेषमात्रग्राहिणो भावात् सामान्यमात्रमाहिवत् । सामान्यविशेषात्मन एव जात्यंतरस्यानुमानेन व्यवस्थितेः । यथा हि । सामान्यविशेषात्मकमखिलं वस्तु, वस्त्वन्यथानुपपत्तेः । वस्तुत्वं हि तावदर्थक्रियाव्याप्तं सा च क्रमयौगपद्याभ्यां, ते स्थिति पूर्वापरभावत्यागोपादानाभ्यां ते च सामान्यविशेषात्मकत्वेन सामान्यात्मनोपाये स्थित्यसंभवात् विशेषात्मनोसंभवे पूर्वापरखभावत्यागोपादानस्यानुपपत्तेः । तदभावे क्रमयौगपद्ययोगादनयोरर्थक्रियानवस्थितेः न कस्यचित्सामान्यैकांतस्य विशेषैकांतस्य वा वस्तुत्वं नाम खरविषाणवत् । न हि सामान्यं विशेषनिरपेक्षं कांचिदप्यर्थक्रियां संपादयति, नापि विशेषः सामान्यनिरपेक्षः, सुवर्णसामान्यस्य कटकादिविशेषाश्रयस्यैवार्थक्रियायामुपयुज्यमानत्वात् कटकादिविशेष्यं च सुवर्णसामान्यानुगतस्यैवेति सकलाविकलजनसाक्षिकमवसीयते । तद्वदिह ज्ञानसामान्यस्य मत्यादिविशेषाक्रांतस्य स्वार्थक्रियायामुपयोगो मत्यादिविशेषस्य च ज्ञानसामान्यान्वितस्येति युक्ता ज्ञानस्य मत्यादिषु प्रत्येकं परिसमाप्तिः । ततश्च मत्या - दिसमूहो ज्ञानमित्यनिष्टोर्थो निवर्तितः स्यात् । कुतोयमर्थोनिष्ठः ? केवलस्य मत्यादिक्षयोपशमिकज्ञानचतुष्टयासंपृक्तस्य ज्ञानत्वविरोधात् । मत्यादीनां चैकशः सोपयोगानामुक्तज्ञानांतरासंपृक्तानां ज्ञानत्वव्याघातात् तस्य प्रतीतिविरोधाच्चेति निश्चीयते । किं मतिश्रुतावधिमनः पर्ययकेवलान्येव ज्ञानमिति पूर्वावधारणं द्रष्टव्यं तानि ज्ञानमेवेति परावधारणं वा तदुभयमविरोधादित्याह ; मत्यादीन्येव संज्ञानमिति पूर्वावधारणात् । मत्यज्ञानादिषु ध्वस्तसम्यग्ज्ञानत्वमुह्यते ॥ १६ ॥ Page #173 -------------------------------------------------------------------------- ________________ १६४ तत्त्वार्थश्लोकवार्तिके [सू०९ संज्ञानमेव तानीति परमादवधारणात् । तेषामज्ञानतापास्ता मिथ्यात्वोदयसंसृता ॥ १७ ॥ न ह्यत्र पूर्वापरावधारणयोरन्योन्यं विरोधोस्त्येकतरव्यवच्छेद्यस्यान्यतरेणानपहरणात् । नापि तयोरन्यतरस्य वैयर्थ्यमेकतरसाध्यव्यवच्छेद्यस्याम्यतरेणासाध्यत्वादित्यविरोध एव ।। किं पुनरत्र मतिग्रहणात् सूत्रकारेण कृतमित्याह;--- मतिमात्रग्रहादत्र स्मृत्यादेओनता गतिः । तेनाक्षमतिरेवैका ज्ञानमित्यपसारितम् ॥ १८ ॥ . सानुमा सोपमाना च सार्थापत्त्यादिकेत्यपि । संवादकत्वतस्तस्याः संज्ञानत्वाविरोधतः॥१९॥ अक्षमतिरेवैका सम्यग्ज्ञानमगौणत्वात् प्रमाणस्य नानुमानादि ततोर्थनिश्चयस्य दुर्लभत्वादिति केषांचिदर्शनं । सानुमानसहिता सम्यग्ज्ञानं खसामान्यलक्षणयोः प्रत्यक्षपरोक्षयोरर्थयोः प्रत्यक्षानुमानाभ्यामवगमात् ताभ्यां तत्परिच्छित्तौ प्रवृत्तौ प्राप्तौ च विसंवादाभावादित्यन्येषां । सैवानुमानोपमानसहिता सम्यग्ज्ञानं, उपमानाभावे तथा चात्र धूम इत्युपनयस्यानुपपत्तेरिति परेषां । सैवानुमानोपमानार्थापत्त्यभावसहितागमसहिता च सम्यग्ज्ञानं तदन्यतमापायेापरिसमाप्तेरितीतरेषां । तन्मतिमात्रग्रहणादपसारितं । ततः स्मृत्यादीनां सम्यग्ज्ञानतावगमात् तथावधारणाविरोधात् । न च तासां प्रमाणत्वं विरुद्धं संवादकत्वाद् । दृष्टप्रमाणागृहीतग्रहणादप्रमाणत्वमितिचेन्न, इष्टप्रमाणस्याप्यप्रमाणत्वप्रसंगादिति चेतयिष्यमाणत्वात् ॥ श्रुता वाचात्र किं कृतमित्याह;श्रुतस्याज्ञानतामिच्छंस्तद्वाचैव निराकृतः । स्वार्थेक्षमतिवत्तस्य संविदित्वेन निर्णयात् ॥ २०॥ न हि श्रुतज्ञानमप्रमाणं कचिद्विसंवादादिति ब्रुवाणः स्वस्थः प्रत्यक्षादेरप्यप्रमाणत्वापत्तेः । संवादकत्वात्तस्य प्रमाणत्वे तत एव श्रुतं प्रमाणमस्तु । न हि ततोथै परिच्छिद्य प्रवर्तमानोर्थक्रियायां विसंवाद्यते प्रत्यक्षानुमानत इव श्रुतस्याप्रमाणतामिच्छन्नेव श्रुतवचनेन निराकृतो द्रष्टव्यः ॥ अत्रावध्यादिवचनात् किं कृतमित्याह;जिघ्रत्यतींद्रियज्ञानमवध्यादिवचोबलात् । प्रत्याख्यातसुनिर्णीतबाधकत्वेन तद्गतेः ॥ २१ ॥ सिद्धे हि केवलज्ञाने सर्वार्थेषु स्फुटात्मनि । कार्येन रूपिषु ज्ञानेष्ववधिः केन वाध्यते॥२२ परिचित्तागतेष्वर्थेष्वेवं संभाव्यते न किम् । मनःपर्ययविज्ञानं कस्यचित्प्रस्फुटाकृतिः ॥२३॥ स्वल्पज्ञानं समारभ्य प्रकृष्टज्ञानमंतिमम् । कृत्वा तन्मध्यतो ज्ञानतारतम्यं न हन्यते ॥ २४ ॥ न ह्येवं संभाव्यमानमपि युक्त्यागमाभ्यामवध्यादिज्ञानत्रयमतींद्रियं प्रत्यक्षेण बाध्यते तस्य तदविषयत्वाच्च । नाप्यनुमाने, नार्थापत्त्यादिभिर्वा तत एवेत्यविरोधः सिद्धः ॥ ___ कश्चिदाह, मतिश्रुतयोरेकत्वं साहचर्यादेकत्रावस्थानादविशेषाचेति तद्विरुद्धं साधनं तावदाह; न मतिश्रुतयोरैक्यं साहचर्यात्सहस्थितेः । विशेषाभावतो नापि ततो नानात्वसिद्धितः ॥२५॥ साहचर्यादिसाधनं कथंचिन्नानात्वेन व्याप्तं सर्वथैकत्वे तदनुपपत्तेरिति तदेव साधयेन्मतिश्रुतयोर्न पुनः सर्वथैकत्वं तयोः कथंचिदेकत्वस्य साध्यत्वे सिद्धसाध्यतानेनैवोक्ता ॥ साहचर्यमसिद्धं च सर्वदा तत्सहस्थितिः । नैतयोरविशेषश्च पर्यायार्थनयार्पणात् ॥ २६ ॥ सामान्यार्पणायां हि मतिश्रुतयोः साहचर्यादयो न विशेषार्पणायां पौर्वापर्यादिसिद्धेः । कार्यकारणभावादेकत्वमनयोरेवं स्यादितिचेत् न, ततोपि कथंचिद्भेदसिद्धेस्तदाह; कार्यकारणभावात्स्यात्तयोरेकत्वमित्यपि । विरुद्ध साधनं तस्य कथंचिद्भेदसाधनात् ॥ २७ ॥ Page #174 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १६५ न ह्युपादानोपादेयभावः कथंचिद्भेदमंतरेण मतिश्रुतपर्याययोर्घटते यतोस्य विरुद्धसाधनत्वं न भवेत् कथंचिदेकत्वस्य साधने तु न किंचिदनिष्टम् ॥ गोचराभेदतश्चेन्न सर्वथा तदसिद्धितः । श्रुतस्यासर्व पर्यायद्रव्यग्राहित्ववाच्यपि ॥ २८ ॥ केवलज्ञानवत्सर्वतत्त्वार्थग्राहितास्थितेः । मतेस्तथात्वशून्यत्वादन्यथा स्वमतक्षतेः ॥ २९ ॥ “मतिश्रुतयोर्निबंधो द्रव्येष्वसर्व पर्यायेषु" इति वचनाद्गोचराभेदस्ततस्तयोरेकत्वमिति न प्रतिपत्तव्यं सर्वथा तदसिद्धेः । श्रुतस्यासर्वपर्यायद्रव्यग्राहित्ववचनेपि केवलज्ञानवत्सर्वतत्त्वार्थग्राहित्ववचनात् । " स्याद्वाद - केवलज्ञाने सर्वतत्त्वप्रकाशने " इति तद्व्याख्यानात् । न मतिस्तस्यार्थित्वात्मिकायाः स्वार्थानुमानात्मिकायाश्च तथाभावरहितत्वात् । न हि यथा श्रुतमनंतव्यंजन पर्यायसमाक्रांतानि सर्वद्रव्याणि गृह्णाति तथाभावरहितत्वात् । स्वमतसिद्धांतेऽस्याः वर्णसंस्थानादिस्तोकपर्यायविशिष्टद्रव्य विषयतया प्रतीतेः । स्वमतविरोधोपि तस्यान्यथैवावतारात् तयोरसर्वपर्यायद्रव्यविषयत्वमात्रमेव हि खसिद्धांते प्रसिद्धं न पुनरनंत व्यंजनपर्यायाशेषद्रव्यविषयत्वमिति तद्व्याख्यानमप्यविरुद्धमेव बाधकाभावादिति न विषयाभेदस्तदेकत्वस्य साधकः ॥ इंद्रियानिंद्रियायत्तवृत्तित्वमपि साधनम् । न साधीयोप्रसिद्धत्वाच्छ्रुतस्याक्षानपेक्षणात् ॥ ३० ॥ मतिश्रुतयोरेकत्व मंद्रियानिंद्रियायत्तवृत्तित्वादित्यपि न श्रेयः साधनमसिद्धत्वात् साक्षादक्षानपेक्षत्वाच्छ्रुतस्य, परंपरया तु तस्याक्षानपेक्षत्वं भेदभावनमेव साक्षादक्षापेक्षयोर्विरुद्धधर्माध्याससिद्धेः ॥ नानिंद्रियनिमित्तत्वादीहनश्रुतयोरिह । तादात्म्यं बहुवेदित्वाच्छ्रुतस्येहाव्यपेक्षया ॥ ३१ ॥ अवग्रहग्रहीतस्य वस्तुनो भेदमीहते । व्यक्तमीहा श्रुतं त्वर्थान् परोक्षान् विविधानपि ॥ ३२ ॥ न हि यादृशमनिंद्रियनिमित्तत्वमीहायास्तादृशं श्रुतस्यापि । तन्निमित्तत्वमात्रं तु न तयोस्तादात्म्यगमकमविनाभावाभावात् सत्त्वादिवत् । केचिदाहुर्मतिश्रुतयोरेकत्वं श्रवणनिमित्तत्वादिति, तेपि न युक्तिवादिनः । श्रुतस्य साक्षाच्छ्रवणनिमित्तत्वासिद्धेः तस्यानिंद्रियवत्त्वादृष्टार्थसजातीयविजातीयनानार्थपरामर्शनखभावतया प्रसिद्धत्वात् । श्रुतावधारणाद्ये तु श्रुतं व्याचक्षते न ते तस्य श्रोत्रमतेर्भेदं प्रख्यापयितुमीशते । श्रुतावधारणाच्छ्रुतमित्याचक्षाणाः शब्दं श्रुत्वा तस्यैवावधारणं श्रुतं संप्रतिपन्नास्तदर्थस्यावधारणं तदिति प्रष्टव्याः । प्रथमकल्पनायां श्रुतस्य श्रवणमतेरभेदप्रसंगोऽशक्यप्रतिषेधः, द्वितीयकल्पनायां तु श्रोत्रमतिपूर्वमेव श्रुतं स्यान्नेद्रियांतरमंतिपूर्वं ॥ तथाहि 1 शब्दं श्रुत्वा तदर्थानामवधारणमिष्यते । यैः श्रुतं तैर्न लभ्येत नेत्रादिमतिजं श्रुतम् ॥ ३३ ॥ यदि पुना रूपादीनुपलभ्य तदविनाभाविनामर्थानामवधारणं श्रुतमित्यपीष्यते श्रुत्वावधारणात् श्रुतमित्यस्य दृष्ट्वावधारणात् श्रुतमित्याद्युपलक्षणत्वादिति मतं तदा न विरोधः प्रतिपत्तिगौरवं न स्यात् । न चैवमपि मतेः श्रुतस्याभेदः सिद्ध्येत् तल्लक्षणभेदाच्चेत्युपसंहर्तव्यम् ॥ तस्मान्मतिः श्रुताद्भिन्ना भिन्नलक्षणयोगतः । अवध्यादिवदर्थादिभेदाच्चेति सुनिश्चितम् ||३४|| यथैव ह्यवधिमनःपर्ययकेवलानां परस्परं मतेः स्खलक्षणभेदोर्थभेदः कारणादिभेदश्च सिद्धस्तथा श्रुतस्यापीति युक्तं तस्य मतेर्नानात्वमवध्यादिवत् । ततः सूक्तं मत्यादिज्ञानपंचकम् ॥ सर्वज्ञानमनध्यक्षं प्रत्यक्षोर्थः परिस्फुटः । इति केचिदनात्मज्ञाः प्रमाणव्याहतं विदुः ।। ३५ ।। परोक्षा नो बुद्धिः प्रत्यक्षोर्थः स हि बहिर्देश संबंध: प्रत्यक्षमनुभूयत इति केचित् संप्रतिपन्नास्तेप्यनात्मज्ञा प्रमाणव्याहताभिधायित्वात् ॥ Page #175 -------------------------------------------------------------------------- ________________ १६६ तत्त्वार्थ श्लोकवार्तिके [सू०९ प्रत्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् । प्रत्यात्मवेद्यमाहंति तत्परोक्षत्वकल्पनाम् ॥ ३६ ॥ साक्षात्प्रतिभासमानं हि प्रत्यक्षं खस्मिन् विज्ञानमनुमेयमपरत्र व्याहारादेरिति प्रत्यात्मवेद्यं सर्वस्य ज्ञानपरोक्षत्वकल्पनामाहत्येव ॥ किंच विज्ञानस्य परोक्षत्वे प्रत्यक्षोर्थः स्वतः कथम् । सर्वदा सर्वथा सर्वः सर्वस्य न तथा भवेत ३७ ग्राहकपरोक्षत्वेपि सर्वदा सर्वथा सर्वस्य पुंसः कस्यचिदेव खतः प्रत्यक्षोर्थ कश्चित्कदाचित्कथंचिदिति व्याहततरां ॥ ततः परं च विज्ञानं किमर्थमुपकल्प्यते । कादाचित्कत्वसियर्थमर्थज्ञप्तेने सा परा ॥ ३८ ॥ विज्ञानादित्यनध्यक्षात् कुतो विज्ञायते परैः । लिंगाचेत्तत्परिच्छित्तिरपि लिंगांतरादिति ॥३९ कावस्थानमनेनैव तत्रार्थापत्तिराहता । अविज्ञातस्य सर्वस्य ज्ञापकत्वविरोधतः ॥ ४०॥ खतः प्रत्यक्षादर्थात्परं विज्ञानं किमर्थ चोपकल्पित इति च वक्तव्यं परैः कादाचित्कत्वसिद्ध्यर्थमर्थज्ञप्तेरिति चेत् , उच्यते । न सा पूर्वा विज्ञानात् ततो नाध्यक्षा सती कुतो विज्ञातव्या ? लिंगाचेत्तत्परिच्छित्तिरपि लिंगांतरादेव इत्येतदुपस्थापनविरोधाविशेषात् । अर्थापत्त्यंतरात्तस्य ज्ञानेनवस्थानात् । एतेनोपमानादेस्तद्विज्ञानेप्यनवस्थानमुक्तं सादृश्यादेरज्ञातस्योपमानाधुपजनकत्वासंभवात् ज्ञानेप्युपमानांतरादिपरिकल्पनस्यावश्यं भावित्वात् । तदेवं प्रमाणविरुद्धं संविदंतोऽनात्मज्ञा एव ॥ ज्ञाताहं बहिरर्थस्य सुखादेश्चेति निर्णयात् । स्वसंवेद्यत्वतः पुंसो न दोष इति चेन्मतम् ॥४१॥ खसंवेद्यांतरादन्यद्विज्ञानं किं करिष्यते । करणेन विना कर्तुः कर्मणि व्यावृतिने चेत् ॥४२॥ खसंवित्तिक्रिया न स्यात् स्वतः पुंसोर्थवित्तिवत् । यदि स्वात्मा स्वसंवित्तावात्मनः करणं मतम् ४३ स्वार्थवित्तौ तदेवास्तु ततो ज्ञानं स एव नः । न सर्वथा प्रतिभासरहितत्वात् परोक्षं ज्ञानं करणत्वेन प्रतिभासनात् । केवलं कर्मत्वेनाप्रतिभासमानत्वात् परोक्षं तदुच्यत इति कश्चित् तं प्रत्युच्यते कर्मत्वेनापरिच्छित्तिरप्रत्यक्षं यदीष्यते । ज्ञानं तदा परो न स्यादध्यक्षस्तत एव ते ॥४४॥ यदि पुनरात्मा कर्तृत्वेनेव कर्मत्वेनापि प्रतिभासतां विरोधाभावादेव । ततः प्रत्यक्षमस्तु अर्थों अनंशत्वान्न ज्ञानं करणं कर्म च विरोधादित्याकूतं, तत एवात्मा कर्ता कर्म च मा भूदित्यप्रत्यक्ष एव स्यात् ॥ तथास्त्विति मतं ध्वस्तप्रायं न पुनरस्य ते । स्वविज्ञानं ततोध्यक्षमात्मवदवतिष्ठते ॥ ४५ ॥ अप्रत्यक्षः पुरुष इति मतं प्रायेणोपयोगात्मकालप्रकरणे निरस्तमिति नेह पुनर्निरस्यते । ततः प्रत्यक्ष एष कथंचिदात्माभ्युपगंतव्यः । तद्विज्ञानं प्रत्यक्षमिति व्यवस्था श्रेयसी प्रतीत्यनतिक्रमात् ॥ प्रत्यक्षं वफलज्ञानं करणं ज्ञानमन्यथा । इति प्राभाकरी दृष्टिः स्वेष्टव्याघातकारिणी ॥४६॥ कर्मत्वेन परिच्छित्तेरभावो ह्यात्मनो यथा । फलज्ञानस्य तद्वच्चेत्कुतस्तस्य समक्षता ॥४७॥ तत्कर्मत्वपरिच्छित्तौ फलज्ञानांतरं भवेत् । तत्राप्येवमतो न स्यादवस्थानं कचित्सदा ॥४८॥ फलत्वेन फलज्ञाने प्रतीते चेत्समक्षता । करणत्वेन तद्द्वाने कर्तृत्वेनात्मनीप्यताम् ॥ ४९ ॥ तथा च न परोक्षत्वमात्मनो न परोक्षता । करणात्मनि विज्ञाने फलज्ञानत्ववेदिनः ॥५०॥ साक्षात्करणज्ञानस्य करणत्वेनात्मनि खकर्तृत्वेन प्रतीतावपि न प्रत्यक्षता, फलज्ञानस्य फलस्वेन Page #176 -------------------------------------------------------------------------- ________________ १६७ प्रथमोऽध्यायः । प्रतीतौ प्रत्यक्षमिति मतं व्याहतं । ततः खरूपेण स्पष्टप्रतिभासमानत्वात् करणज्ञानमात्मा वा प्रत्यक्षः स्याद्वादिनां सिद्धः फलज्ञानवत् ॥ ज्ञानं ज्ञानांतराद्वेद्यं स्वात्मज्ञप्तिविरोधतः । प्रमेयत्वाद्यथा कुंभ इत्यप्यश्लीलभाषितम् ॥५१॥ ज्ञानांतरं यदा ज्ञानादन्यस्मात्तेन विद्यते । तदानवस्थितिप्राप्तेरन्यथा ह्यविनिश्चयात् ।। ५२ ॥ अर्थज्ञानस्य विज्ञानं नाज्ञातमवबोधकम् । ज्ञापकत्वाद्यथा लिंगं लिंगिनो नान्यथा स्थितिः५३ न ह्यर्थज्ञानस्य विज्ञानं परिच्छेदकं कारकं येनाज्ञातमपि ज्ञानांतरेण तस्य ज्ञापकं स्यात् अनवस्थापरिहारादिति चिंतितप्रायम् ॥ प्रधानपरिणामत्वात् सर्व ज्ञानमचेतनम् । सुखक्ष्मादिवदित्येकप्रतीतेरपलापिनः ॥ ५४॥ चेतनात्मतया वित्तेरात्मवत्सर्वदा धियः । प्रधानपरिणामत्वासिद्धेश्चेति निरूपणात् ॥ ५५ ॥ तत्स्वार्थव्यवसायात्मज्ञानं चेतनमंजसा । सम्यगित्यधिकाराच्च संमत्यादिकभेदभृत् ॥५६॥ तत्प्रमाणे ॥ १०॥ कुतः पुनरिदमभिधीयते;स्वरूपसंख्ययोः केचित्प्रमाणस्य विवादिनः । तत्प्रत्याह समासेन विदधत्तद्विनिश्चयम् ॥१॥ तदेव ज्ञानमास्थेयं प्रमाणं नेंद्रियादिकम् । प्रमाणे एव तद् ज्ञानं वैकत्र्यादिप्रमाणवित् ॥ २॥ प्रमाणं हि संख्यावन्निर्दिष्टमत्र तत्त्वसंख्यावद्विवचनान्न प्रयोगात् । तत्र तदेव मत्यादिपंचभेदं सम्यग्ज्ञानं प्रमाणमित्येकं वाक्यमिंद्रियाद्यचेतनव्यवच्छेदेन प्रमाणवरूपनिरूपणपरं । तन्मत्यादिज्ञानं पंचविधं प्रमाणे एवेति द्वितीयमेकच्यादिसंख्यांतरव्यवच्छेदेन संख्याविशेषव्यवस्थापनप्रधानमित्यतः सूत्राप्रमाणस्य खरूपसंख्याविवादनिराकरणपुरःसरनिश्चयविधानात् इदमभिधीयत एव ॥ ननु प्रमीयते येन प्रमाणं तदितीरणम् । प्रमाणलक्षणस्य स्यादिद्रियादेः प्रमाणता ॥३॥ तत्साधकतमत्वस्याविशेषात्तावता स्थितिः। प्रामाण्यस्यान्यथा ज्ञान प्रमाणं सकलं न किम् ४ इंद्रियादिप्रमाणमिति साधकतमत्वाल्लुप्रतीतौ विशेषेण ज्ञानवत् यत्पुनरप्रमाणं तन्न साधकतमं यथा प्रमेयमचेतनं चेतनं वा शशधरद्वयविज्ञानमिति प्रमाणत्वेन साधकतमत्वं व्याप्तं न पुननित्वमज्ञानत्वं वा तयोः सद्भावेपि प्रमाणत्वानिश्चयादिति कश्चित् ॥ तत्रेदं चिंत्यते तावदिंद्रियं किमु भौतिकम् । चेतनं वा प्रमेयस्य परिच्छित्तौ प्रवर्तते ॥५॥ न तावद्भौतिकं तस्याचेतनत्वाद् घटादिवत् । मृतद्रव्येद्रियसापि तत्र वृत्तिप्रसंगतः ॥६॥ प्रमात्राधिष्ठितं तच्चेत्तत्र वर्तेत नान्यथा । किं न खापाद्यवस्थायां तदधिष्ठानसिद्धितः ॥ ७॥ आत्मा प्रयत्नवांस्तस्याधिष्ठानानाप्रयत्नकः । खापादाविति चेत्कोयं प्रयत्नो नाम देहिनः॥८॥ प्रमेये प्रमितावाभिमुख्यं चैतदचेतनम् । यद्यकिंचित्करं तत्र पटवत् किमपेक्षते ॥९॥ चेतनं चैतदेवास्तु भावेंद्रियमवाधितम् । यत्साधकतमं वित्तौ प्रमाणं स्वार्थयोरिह ॥ १० ॥ एतेनैवोत्तरः पक्षः चिंतितः संप्रतीयते । ततो नाचेतनं किंचित्प्रमाणमिति संस्थितम् ॥११॥ प्रमीयतेऽनेनेति प्रमाणमिति करणसाधनत्वविवक्षायां साधकतमं प्रमाणमित्यभिमतमेव अन्यथा तस्य करणत्वायोगात् । केवलमर्थप्रमितौ साधकतमत्वमेवाचेतनस्य कस्यचिन्न संभावयाम इति भावेंद्रियं चेतनात्मकं साधकतमत्वात् प्रमाणमुपगच्छामः । न चैवमागमविरोधः प्रसज्यते, "लब्ध्युपयोगौ भावेंद्रियं" इति वचनात् उपयोगस्यार्थग्रहणस्य प्रमाणत्वोपपत्तेः ॥ . Page #177 -------------------------------------------------------------------------- ________________ १६८ तत्त्वार्थश्लोकवार्तिके [सू०१० . अर्थग्रहणयोग्यत्वमात्मनश्चेतनात्मकम् । सन्निकर्षः प्रमाणं नः कथंचित्केन वार्यते ॥ १२ ॥ तथापरिणतो ह्यात्मा प्रमिणोति स्वयं स्वभुः । यदा तदापि युज्येत प्रमाणं कर्तसाधनम् ॥१३ संनिकर्षः प्रमाणमित्येतदपि न स्याद्वादिना वार्यते कथंचित्तस्य प्रमाणत्वोपगमे विरोधाभावात् । पुंसोऽर्थग्रहणयोग्यत्वं सन्निकर्षो न पुनः संयोगादिरिष्टः । न ह्यर्थग्रहणयोग्यतापरिणतस्यात्मनः प्रमाणत्वे कश्चिद्विरोधः कर्तृसाधनस्य प्रमाणस्य तथैव च घटनात् । प्रमात्रात्मकं च स एव प्रमाणमिति चेत् ,' प्रमातृप्रमाणयोः कथंचित्तादात्म्यात् ॥ प्रमाता भिन्न एवात्मप्रमाणाद्यस्य दर्शने । तस्यान्यात्मा प्रमाता स्यात् किन भेदाविशेषतः॥१४॥ प्रमाणं यत्र संबद्धं स प्रमातेति चेन किम् । कायः संबद्धसद्भावात्तस्य तेन कथंचन ॥ १५॥ प्रमाणफलसंबंधो प्रमातैतेन दूषितः । संयुक्तसमवायस्य सिद्धेः प्रमितिकाययोः ॥१६॥ ज्ञानात्मकप्रमाणेन प्रमित्या चात्मनः परः । समवायो न युज्येत तादात्म्यपरिणामतः॥१७॥ ततो नात्यंतिको भेदः प्रमातुः स्वप्रमाणतः । वासंनिर्णीतरूपायाः प्रमितेश्च फलात्मनः १८ तथा च युक्तिमत्प्रोक्तं प्रमाणं भावसाधनम् । सतोपि शक्तिभेदस्य पर्यायार्थादनाश्रयात्॥१९॥ सर्वथा प्रमातुः प्रमितिप्रमाणाभ्यामभेदादेवं तद्विभागः कल्पितः स्यान्न पुनर्वास्तव इति न मंतव्यं, कथंचिद्भेदोपगमात् । सर्वथा तस्य ताभ्यां भेदादुपचरितं प्रमातुः प्रमितिप्रमाणत्वं न तात्त्विकमित्यपि न मंतव्यं कथंचित्तदभेदस्यापीष्टेः । तथाहि; स्यात्प्रमाता प्रमाणं स्यात्प्रमितिः स्वप्रमेयवत् । एकांताभेदभेदौ तु प्रमात्रादिगतौ क नः २० एकस्यानेकरूपत्वे विरोधोपि न युज्यते । मेचकज्ञानवत्प्रायश्चिंतितं चैतदंजसा ॥ २१॥ यथैव हि मेचकज्ञानस्यैकस्यानेकरूपमविरुद्धबाधितप्रतीत्या रूढत्वात् तथात्मनोपि तदविशेषात् । न ह्ययमात्मार्थग्रहणयोग्यतापरिणतः सन्निकर्षाख्यं प्रतिपद्यमानोप्रबाधप्रतीत्यारूढो न भवति येन कथंचिप्रमाणं न स्यात् । नाप्ययमव्यापृतावस्थोऽर्थग्रहणव्यापारांतरवार्थविदात्मको न प्रतिभाति येन कथंचिअमितिर्न भवेत् । म चायं प्रमितिप्रमाणाभ्यां कथंचिदर्थीतरभूतः खतंत्रो न चकास्ति येन प्रमाता न स्यात् ॥ संयोगादि पुनर्येन सन्निकर्षोभिधीयते । तत्साधकतमत्वस्य भावात्तस्याप्रमाणता ॥ २२ ॥ सतींद्रियार्थयोस्तावत्संयोगेनोपजायते । स्वार्थप्रमितिरेकांतव्यभिचारस्य दर्शनात् ॥ २३॥ क्षितिद्रव्येण संयोगो नयनादेर्यथैव हि । तस्य व्योमादिनाप्यस्ति न च तज्ज्ञानकारणम् ॥२४ संयुक्तसमवायश्च शब्देन सह चक्षुषः । शब्दज्ञानमकुवोणो रूपचिचक्षुरेव किम् ॥ २५ ॥ संयुक्तसमवेतार्थसमवायोप्यभावयन् । शब्दत्वस्य न नेत्रेण बुद्धिं रूपत्ववित्करः ॥ २६ ॥ श्रोत्रस्यायेन शब्देन समवायश्च तद्विदम् । अकुर्वन्न त्वशब्दस्य ज्ञानं कुर्यात्कथं तु वः ॥२७॥ तस्यैवादिमशब्देषु शब्दत्वेन समं भवेत् । समवेतसमवायं सद्विज्ञानमनादिवत् ॥ २८ ॥ अंत्यशब्देषु शब्दत्वे ज्ञानमेकांततः कथम् । विदधीत विशेषस्याभावे यौगस्य दर्शने ॥२९॥ तथागतस्य संयुक्तविशेषणतया दृशा । ज्ञानेनाधीयमानेपि समवायादिवित्कुतः ॥ ३० ॥ योग्यतां कांचिदासाद्य संयोगादिरयं यदि । क्षित्यादिवित्तदेव स्यात्तदा नैवास्तु संमता ॥३१ खात्मा स्वावृतिविच्छेदविशेषसहितः कचित् । संविदं जनयनिष्टः प्रमाणमविगानतः ॥३२॥ शक्तिरिंद्रियमित्येतदनेनैव निरूपितं । योग्यताव्यतिरेकेण सर्वथा तदसंभवात् ॥ ३३ ॥ Page #178 -------------------------------------------------------------------------- ________________ "प्रथमोऽध्यायः । १६९ सन्निकर्षस्य योग्यताख्यस्य प्रमितौ साधकतमस्य प्रमाणव्यपदेश्यं प्रतिपाद्यमानस्य खावरणक्षयोपशमविशिष्टात्मरूपतानिरूपणेनैव शक्तेः । इंद्रियतयोपगतायास्सा निरूपिता बोद्धव्या तस्या योग्यतारूपत्वात् । ततो व्यतिरेकेण सर्वथाप्यसंभवात् सन्निकर्षवत् । न हि तव्यतिरेकः सन्निकर्षः संयोगादिः खार्थप्रमितौ साधकतमः संभवति व्यभिचारात् । तत्र करणत्वात्सन्निकर्षस्य साधकतमत्वं तद्वदिंद्रियशक्ति, रपीतिचेत् , कुतस्तत्करणत्वं ? साधकतमत्वादिति चेत् परस्पराश्रयदोषः । तद्भावाभावयोस्तद्वत्तासिद्धः साधकतमत्वमित्यपि न साधीयोऽसिद्धत्वात् । खार्थप्रमितेः सन्निकर्षादिसद्भावेप्यभावात् , तदभावेपि च भावात् सर्वविदः कथं वा प्रमातुरेवं साधकतमत्वं न स्यात् । न हि तस्य भावाभावयोः प्रमितेर्भावाभाववत्त्वं नास्ति ? साधारणस्यात्मनो नास्त्येवेति चेत् संयोगादेरिंद्रियस्य च साधारणस्य सा किमस्ति ? तस्यासाधारणस्यास्त्येवेति चेत् , आत्मनोप्यसाधारणस्यास्तु । प्रमातुः किमसाधारणत्वमितिचेत् , सन्निकर्षादेः किम् ? विशिष्टप्रमितिहेतुत्वमेवेतिचेत् , प्रमातुरपि तदेव तस्य सततावस्थायित्वात् । सर्वप्रमितिसाधारणकारणत्वसिद्धेर्न संभवतीति चेत् , तर्हि कालांतरस्थायित्वात्संयोगादेरिंद्रियस्य च तत्साधारणकारणत्वं कथं न सिद्धयेत् ? तदसंभवनिमित्तं यदा प्रमित्युत्पत्ती व्याप्रियते तदैव सन्निकर्षादि तत्कारणं नान्यदा इत्यसाधारणमिति चेत् , तर्हि यदात्मा तत्र व्याप्रियते तदैव तत्कारणं नान्यदा इत्यसाधारणो हेतुरस्तु । तथा सति तस्य नित्यत्वापत्तिरिति चेत् नो दोषोयं, कथंचित्तस्या नित्यत्वसिद्धेः सन्निकर्षादिवत् । सर्वथा कस्यचिन्नित्यत्वेऽर्थक्रियाविरोधादित्युक्तप्रायं ।। प्रमाणं येन सारूप्यं कथ्यतेऽधिगतिः फलम् । सन्निकर्षः कुतस्तस्य न प्रमाणत्वसंमतः॥३४॥ सारूप्यं प्रमाणमस्याधिगतिः फलं संवेदनस्यार्थरूपतामुक्तार्थेन घटयितुमशक्तेः । नीलस्येदं संवेदनमिति निराकारसंविदः केनचित्प्रत्यासत्तिविप्रकर्षे सिद्धे सर्वार्थेन घटनप्रसक्तेः सर्वेकवेदनापत्तेः । सर्वैकवेदनापत्तेः करणादेः सर्वार्थसाधारणत्वेन तत्प्रतिनियमनिमित्ततानुपपत्तेरित्यपि येनोच्यते तस्य सन्निकर्षः प्रमाणमधिगतिः फलं तस्मादतरेणार्थघटनासंभवात् साकारस्य समानार्थसकलवेदनसाधारणत्वात् केनचिप्रत्यासत्तिविप्रकर्षे सिद्धे सकलसमानार्थेन घटनप्रसक्तेः सर्वसमानार्थंकवेदनापत्तेः, तदुत्पत्तेरिंद्रियादिना व्यभिचारान्नियामकत्वायोगात् । तदव्यवसायस्य मिथ्यात्वसमनंतरप्रत्ययेन कुतश्चित् सिते शंखे पीताकारज्ञानजनितापरपीताकारज्ञानस्य तजन्मादिरूपसद्भावेपि तत्र प्रमाणत्वाभावादिति कुतो न संमतं । सत्यपि सन्निकर्षेधिगतेरभावान्न प्रमाणमिति चेत् ; सन्निकर्षे यथा सत्यप्याधिगतिशून्यता । सारूप्येपि तथा सेष्टा क्षणभंगादिषु स्वयम् ॥३५॥ __ यथा चक्षुरादेराकाशादिभिः सत्यपि संयोगादौ सन्निकर्षे तदधिगतेरभावस्तथा क्षणक्षयवर्गप्रापणशक्त्यादिभिर्दानादिसंवेदनस्य सत्यपि सारूप्ये तदधिगतेः शून्यता खयमिष्टैव तदालंबनप्रत्ययत्वेपि तस्य तच्छून्यत्वतावत् । “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति वचनात् । ततो नायं सन्निकर्षवादिनमतिशेते ॥ किं च स्वसंविदप्रमाणत्वं सारूप्येण विना यदि । किं नार्थवेदनस्येष्टं पारंपर्यस्य वर्जनात् ॥ ३६ ॥ सारूप्यकल्पने तत्राप्यनवस्थोदिता न किम् । प्रमाणं ज्ञानमेवास्तु ततो नान्यदिति स्थितम् ॥३७ - खसंविदः स्वरूपे प्रमाणत्वं नास्त्येवान्यत्रोपचारादित्ययुक्तं सर्वथा मुख्यप्रमाणाभावप्रसंगात् स्वमतविरोधात् । प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनमिति वचनात् मुख्यप्रमाणाभावे न खमतविरोध: सौगतस्येति चेत् , स्यादेवं । यदि मुख्यं प्रमाणमयं न वदेत् "अज्ञातार्थप्रकाशो वा स्वरूपाधिगते २२ Page #179 -------------------------------------------------------------------------- ________________ १७० तत्त्वार्थश्लोकवार्तिके [सू०१० परं" इति संवेदनाद्वैताश्रयणात् । तदपि न च । तदित्येवेति चेत् न तस्य निरस्तत्वात् । किं चेदं संवेदनं सत्यं प्रमाणमेव मृषासत्यमप्रमाणं । न हि न प्रमाणं नाप्यसत्यं । सर्वविकल्पातीतत्वात् संवेदनमेवेति चेत् सुव्यवस्थितं तत्त्वं । को हि सर्वथानवस्थितात्खरविषाणादस्य विशेषः । खयं प्रकाशमानत्वमितिचेत् तद्यदि परमार्थसत् प्रमाणत्वमन्वाकर्षति । ततो द्वयं संवेदनं यथाखरूपे केनचितदतत्स्वरूपमपि प्रमाणं तथा हि बहिरर्थे किं न भवेत् तस्य तव्यभिचारिणो निराकर्तुमशक्तेः । पारंपर्यं च परिहृतमेव स्यात् संविदर्थयोरंतराले सारूपस्याप्रवेशात् । यदि पुनः संवेदनस्य स्वरूपसारूप्यं प्रमाणं सारूप्याधिगतिः फलमिति परिकल्प्यते तदानवस्थोदितैव । ततो ज्ञानादन्यदिद्रियादिसारूप्यं न प्रमाणमन्यत्रोपचारादिति स्थितं ज्ञानं प्रमाणमिति ॥ मिथ्याज्ञानं प्रमाणं न सम्यगित्यधिकारतः । यथा यत्राविसंवादस्तथा तत्र प्रमाणता ॥३८॥ यदि सम्यगेव ज्ञानं प्रमाणं तदा चंद्रद्वयादिवेदनं वावल्यादौ प्रमाणं कथमुक्तमिति न चोद्यं, तत्र तस्याविवादात् सम्यगेतदिति खयमिष्टेः । कथमियमिष्टिरविरुद्धेति चेत्, सिद्धांताविरोधात्तथा प्रतीतेश्च ॥ स्वार्थे मतिश्रुतज्ञानं प्रमाणं देशतः स्थितं । अवध्यादि तु कायेन केवलं सर्ववस्तुषु ॥३९।। खस्मिन्नर्थे च देशतो ग्रहणयोग्यतासद्भावात् मतिश्रुतयोर्न सर्वथा प्रामाण्यं, नाप्यवधिमनःपर्यययोः सर्ववस्तुषु केवलस्यैव तत्र प्रामाण्यादिति सिद्धांताविरोध एव "यथा यत्राविसंवादस्तथा तत्र प्रमाणता" इति वचनस्य प्रत्येयः । प्रतीत्यविरोधस्तूच्यते अनुपप्लतदृष्टीनां चंद्रादिपरिवेदनम् । तत्संख्यादिषु संवादि न प्रत्यासन्नतादिषु ॥ ४० ॥ तथा ग्रहोपरागादिमात्रे श्रुतमवाधितम् । नांगुलिद्वितयादौ तन्मानभेदेऽन्यथा स्थिते ॥४१॥ एवं हि प्रतीतिः सकलजनसाक्षिका सर्वथा मतिश्रुतयोः खार्थे प्रमाणतां हंतीति तया तदेतत्प्रमाणमबाधम् ॥ ननूपप्लतविज्ञानं प्रमाणं किं न देशतः । स्वनादाविति नानिष्टं तथैव प्रतिभासनात् ॥ ४२ ॥ खप्नाद्युपप्लुतविज्ञानस्य क्वचिदविसंवादिनः प्रामाण्यस्येष्टौ तव्यवहारः स्यादितिचेत् ;प्रमाणव्यवहारस्तु भूयः संवादमाश्रितः । गंधद्रव्यादिवद्भूयो विसंवादं तदन्यथा ॥ ४३ ॥ सत्यज्ञानस्यैव प्रमाणत्वव्यवहारो युक्तिमान् भूयः संवादात् । वितथज्ञानस्यैव वाप्रमाणत्वव्यवहारो भूयो विसंवादात् तदाश्रितत्वात्तव्यवहारस्य । दृष्टो हि लोके भूयसि व्यपदेशो यथा गंधादिना गंधद्रव्यादेः सत्यपि स्पर्शवत्त्वादौ । येषामेकांततो ज्ञानं प्रमाणमितरच न । तेषां विप्लतविज्ञानप्रमाणेतरता कुतः॥४४॥ अथायमेकांतः सर्वथा वितथज्ञानमप्रमाणं सत्यं तु प्रमाणमिति चेत् तदा कुतो वितथवेदनस्य स्वरूपे प्रमाणता बहिरर्थे त्वप्रमाणतेति व्यवतिष्ठेत् ॥ स्वरूपे सर्वविज्ञानप्रमाणत्वे मतक्षतिः । बहिर्विकल्प विज्ञानप्रमाणत्वे प्रमांतरम् ॥ ४५ ॥ न हि सत्यज्ञानमेव स्वरूपे प्रमाणं न पुनर्मिथ्याज्ञानमिति युक्तं । नापि सर्वं तत्र प्रमाणमिति सर्वचित्तचैतानामात्मसंवेदनं प्रत्यक्षमिति खमतक्षतेः सर्व मिथ्याज्ञानं विकल्पविज्ञानमेव बहिरर्थे प्रमाणं खरूपवदित्यप्ययुक्तं, प्रकृतप्रमाणाप्रमाणांतरसिद्धिप्रसंगात् । तिमिराश्वभ्रमणनौयातसंक्षोभायाहितविभ्र Page #180 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १७१ मस्य वेदनस्य प्रत्यक्षत्वे प्रत्यक्षमभ्रांतमिति विशेषणानर्थक्यं । तस्याप्यभ्रांततोपगमे कुतो विसंवादित्वं विकल्पज्ञानस्य च प्रत्यक्षत्वे कल्पनापोढं प्रत्यक्षमिति विरुध्यते तस्यानुमानत्वे प्रमाणांतरत्वमनिवार्यमिति मिथ्याज्ञानं खरूपे प्रमाणं बहिरर्थे त्वप्रमाणमित्यभ्युपगंतव्यं । तथा च सिद्धं देशतः प्रामाण्यं । तद्वदवितथवेदनस्यापीति सर्वमनवा एकत्र प्रमाणत्वाप्रमाणत्वयोः सिद्धिः । कथमेकमेव ज्ञानं प्रमाणं ,वाप्रमाणं च विरोधादिति चेत् नो, असिद्धत्वाद्विरोधस्य । तथाहि; न चैकत्र प्रमाणत्वाप्रमाणत्वे विरोधिनी । प्रत्यक्षत्वपरोक्षत्वे यथैकत्रापि संविदि ॥ ४६॥ ययोरेकसद्भावेऽन्यतरानिवृत्तिस्तयोर्न विरोधो यथा प्रत्यक्षत्वपरोक्षत्वयोरेकस्यां संविदि । तथा च प्रमाणत्वाप्रमाणत्वयोरेकत्र ज्ञाने ततो न विरोधः ॥ खसंविन्मात्रतोध्यक्षा यथा बुद्धिस्तथा यदि । वेद्याकारविनिर्मुक्ता तदा सर्वस्य बुद्धता ॥ ४७ तया यथा परोक्षत्वं हृत्संवित्तेरतोपि चेत् । बुद्धादेरपि जायेत जाड्यं मानविवर्जितम् ॥४८॥ न हि सर्वस्य बुद्धता बुद्धादेरपि च जाड्यं सर्वथेत्यत्र प्रमाणमपरस्यास्ति यतः संविदाकारेणेव वेद्याकारविवेकेनापि संवेदनस्य प्रत्यक्षता युज्येत तद्वदेव वा संविदाकारेण परोक्षता तदयोगे च कथं दृष्टांतः साध्यसाधन विकलः हेतुर्वा न सिद्धः स्यात् ॥ यैव बुद्धेः स्वयं वित्तिवेद्याकारविमुक्तता । सैवेत्यध्यक्षतैवेष्टा तस्यां किमपरोक्षता ॥ ४९ ॥ बुद्धेः खसंवित्तिरेव वेद्याकारविमुक्तता तया प्रत्यक्षतायां वेद्याकारविमुक्तयापि प्रत्यक्षतैव यदीष्यते तदा तस्याः परोक्षतायां स्वसंवित्तेरपि परोक्षता किं नेष्टा ? खसंवित्तिवेद्याकारविमुक्तयोस्तादात्म्याविशेषात् ।। ननु च केवलभूतलोपलब्धिरेव घटानुपलब्धिरिति घटानुपलब्धितादात्म्येपि न केवलभूतलोपलब्धेरनुपलब्धिरूपतास्ति तद्वद्वेद्याकारविमुक्त्यनुपलब्धितादात्म्येपि न खरूपोपलब्धेरनुपलब्धिखभावता व्यापकस्य व्याप्याव्यभिचारात् व्याप्यस्यैव व्यापकव्यभिचारसिद्धेः पादपत्वशिशिपात्ववत् खरूपोपलब्धिमानं हि व्याप्यं व्यापिका च वेद्याकारमुक्तानुपलब्धिरिति चेत् नैतदेवं तयोः समव्याप्तिकत्वेन परस्पराव्यभिचारसिद्धेः कृतकत्वानित्यवत् । न हि वेद्याकारविवेकानुपलब्धावपि कचित्संवेदने कदाचित्वरूपोपलब्धिर्नास्ति ततः प्रत्यक्षत्वात् स्वसंवेदनादभिन्नो ग्राह्याकारविवेकः प्रत्यक्षो न पुनः परोक्षाद्वाह्याकारविवेकादभिन्नं खसंवेदनं बुद्धेः परोक्षमित्याचक्षाणो न परीक्षाक्षमः प्रत्यक्षत्वपरोक्षत्वयोभिन्नाश्रयत्वान्न तादात्म्यमिति चेन्न एकज्ञानाश्रयत्वात्तदसिद्धेः । संविन्मात्रविषया प्रत्यक्षता वेद्याकारविवेकविषया परोक्षतेति तयोभिन्नविषयत्वे कथं खसंविप्रत्यक्षतैव वेद्याकारविवेकपरोक्षता खसंवेदनस्यैव वेद्याकारविवेकरूपत्वादितिचेत् , कथमेवं प्रत्यक्षपरोक्षत्वयोभिन्नाश्रयत्वं धर्मिधर्मविभेदविषयत्व. कल्पनादितिचेत् तर्हि परमार्थतस्तयोभिन्नाश्रयत्वमिति संविन्मात्रप्रत्यक्षत्वे वेद्याकारविवेकस्य प्रत्यक्षत्वमायातं तथा तस्य परोक्षत्वे संविन्मात्रस्य परोक्षतापि किं न स्यात् । तत्र निश्चयोत्पत्तः प्रत्यक्षतेति चेत्, वेद्याकारविवेकनिश्चयानुपपत्तेः परोक्षतैवास्तु । तथा चैकत्र संविदि सिद्धे प्रत्यक्षतरते प्रमाणेतरयोः प्रसारिके स्त इति न विरोधः ॥ सर्वेषामपि विज्ञानं स्ववेद्यात्मनि वेदकम् । नान्यवेद्यात्मनीति साद्विरुद्धाकारमंजसा ॥५०॥ सर्वप्रवादिनां ज्ञानं खविषयस्य खरूपमात्रस्योभयस्य वा परिच्छेदकं तदेव नान्यविषयस्येति सिद्धं विरुद्धाकारमन्यथा सर्ववेदनस्य निर्विषयत्वं सर्वविषयत्वं वा दुर्निवारं खविषयस्याप्यन्यविषयवदपरिच्छेदाखविषयवद्वान्यविषयावसायात् । खान्यविषयपरिच्छेदनापरिच्छेदनखभावयोरन्यतरस्यां परमार्थ Page #181 -------------------------------------------------------------------------- ________________ १७२ तत्त्वार्थश्लोकवार्तिके [सू०१० तायामपीदमेव दूषणमुन्नेयमिति । परमार्थतस्तदुभयखभावविरुद्धमेकत्र प्रमाणेतरत्वयोरविरोधं साधयति ॥ किं च; स्वव्यापारसमासक्तोन्यव्यापारनिरुत्सुकः । सर्वो भावः स्वयं वक्ति स्याद्वादन्यायनिष्ठताम् ५१ • सर्वोग्निसुखादिभावः खामर्थक्रियां कुर्वन् तदैवान्यामकुर्वन्ननेकांतं वक्तीति किं नश्चिंतया । स एव च प्रमाणेतरभावाविरोधमेकत्र व्यवस्थापयिष्यतीति सूक्तं “यथा यत्राविसंवादस्तथा तत्र प्रमाणता" इति ।। चंद्रे चंद्रत्वविज्ञानमन्यत्संख्याप्रवेदनम् । प्रत्यासन्नत्वविच्चान्यत्वेकाद्याकारविन्न चेत् ॥५२॥ • हतं मेचकविज्ञानं तथा सर्वज्ञता कुतः । प्रसिधेदीश्वरस्येति नानाकारैकवित्स्थितिः ॥५३ ।। एक एवेश्वरज्ञानस्याकारः सर्ववेदकः । तादृशो यदि संभाव्यः किं ब्रह्मैवं न ते मतम् ॥५४॥ तच्चेतनेतराकारकरंबितवपुः स्वयम् । भावैकमेव सर्वस्य संवित्तिभवनं परम् ॥ ५५ ॥ यद्यकस्य विरुध्येत नानाकारावभासिता । तदा नानार्थबोधोपि नैकाकारोवतिष्ठते ॥ ५६ ॥ : नाना ज्ञानानि नेशस्य कल्पनीयानि धीमता । क्रमात्सर्वज्ञताहानेरन्यथा ननु संधितः ॥५७।। .. तस्मादेकमनेकात्मविरुद्धमपि तत्त्वतः । सिद्धं विज्ञानमन्यच्च वस्तुसामर्थ्यतः स्वयम् ॥ ५८ ॥ नन्वेकमनेकात्मकं तत्त्वतः सिद्धं चेत् कथं विरुद्धमिति स्याद्वादविद्विषामुपालंभः क्वचित्तद्विरुद्धमुपलभ्य सर्वत्र विरोधमुद्भावयतां न पुनरबाध्यप्रतीत्यनुसारिणाम् ॥ प्रमाणमविसंवादि ज्ञानमित्युपवर्ण्यते । कैश्चित्तत्राविसंवादो यद्याकांक्षानिवर्तनम् ॥ ५९ ॥ . तदा स्वप्नादिविज्ञानं प्रमाणमनुषज्यते । ततः कस्यचिदर्थेषु परितोषस्य भावतः ॥ ६० ॥ . न हि खप्तौ वेदनेनार्थ परिच्छिद्य प्रवर्तमानोर्थक्रियायामाकांक्षातो न निवर्तते प्रत्यक्षतोनुमानतो वा दहनाद्यवभासस्य दाहाद्यर्थक्रियोपजननसमर्थस्याकांक्षितदहनाद्यर्थप्रापणयोग्यताखभावस्य जाग्रद्दशायामिवानुभवात् । तादृशस्येवाकांक्षानिवर्तनस्य प्रमाणे प्रेक्षावद्भिरर्थ्यमानत्वात् । ततोतिव्यापि प्रमाणसामान्यलक्षणमिति आयातम् ॥ अर्थक्रिया स्थितिः प्रोक्ता विमुक्तिः सा न तत्रचेत् । शान्दादाविव तद्भावोस्त्वभिप्रायनिवेदनात् ६१ . नाकांक्षानिवर्तनमपि संवादनं । किं तर्हि ? अर्थक्रिया स्थितिः । सा चाविमुक्तिरविचलमनर्थक्रियायां । न च तत्वप्नादौ दहनाद्यवभासस्यास्तीति केचित् । तेषां गीतादिशब्दज्ञानं चित्रादिरूपज्ञानं वा कथं प्रमाणं तथा विमुक्तेरभावात् तदनंतरं कस्यचित्साध्यस्य फलस्यानुभवनात् । तत्रापि प्रतिपत्तुरभिप्रायनिवेदनात् साध्याविमुक्तिरितिचेत् , तर्हि निराकांक्षतैव स्वार्थक्रियास्थितिः खनादौ कथं न स्यात् । प्रबोधावस्थायां प्रतिपत्तुरभिप्रायचलनादितिचेत् , किमिदं तच्चलनं नाम ? धिङ्ग मिथ्या प्रतर्कितं मया इति प्रत्ययोपजननमिति चेत् , तत्वमादावप्यस्ति । न हि खप्नोपलब्धार्थक्रियायाश्चलनं जाग्रद्दशायां बाधकानुभवनमनुमन्यते, न पुनर्जाग्रद्दशोपलब्धार्थक्रियायाः स्वप्नादाविति युक्तं वक्तुं, सर्वथा विशेषाभावात् । स्वप्नादिषु बाधकप्रत्ययस्य सबाधत्वान्न तदनुभवनं तच्च फलमितिचेत् , कुतस्तस्य सबाधत्वसिद्धिः । कस्यचित्ताशस्य सबाधकत्वदर्शनादिचेत् , नन्वेवं जागबाधकप्रत्ययस्य कस्यचित्सबाधत्वदर्शनात् सर्वस्य सबाधत्वं सिद्ध्येत् । तस्य निर्वाधस्यापि दर्शनान्नैवमिति चेत् , सत्यस्वप्नजप्रत्ययस्य निर्बाधस्यावलोकनात्सर्वस्य तस्य सबाधत्वं. मा भूत् । तस्मादविचारितरमणीयत्वमेवाविचलनमर्थक्रियायाः संवादनमभिप्रायनिवेदनात् क्वचिदभ्युपगंतव्यं । ते च खप्नादावपि दृश्यंत इति तत्प्रत्ययस्य प्रामाण्यं दुर्निवारम् ॥ | Page #182 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १७३ ग्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् । ततोपर्यनुयोज्याश्वेत्तत्रैते व्यवहारिणः ॥ ६२ ॥ शास्त्रेण क्रियतां तेषां कथं मोहनिवर्तनम् । तदनिष्टौ तु शास्त्राणां प्रतीतिर्व्याहता न किम् ६३ व्यवहारेण प्रामाण्यस्योपगमात्तत्रापर्यनुयोज्या एव व्यवहारिणः । किं न भवंतः स्वप्नादिप्रत्ययस्य जाग्रत्प्रत्ययवत् प्रमाणत्वं व्यवहरति तद्वद्वादो जाग्रद्बोधस्याप्रमाणत्वमिति केवलं तदनुसारिभिस्तदनुरोधा'देव क्वचित्प्रमाणत्वमप्रमाणत्वं चानुमंतव्यमिति ब्रुवाणः कथं शास्त्रं मोहनिवर्तनमाचक्षीत न चेद्याक्षिप्तः । ये हि यस्यापर्यनुयोज्यास्तच्छास्त्रेण कथं तेषां मोहनिवर्तनं क्रियते । व्यवहारे मोहवत् क्रियत इति चेत् कुतस्तेषां विनिश्चयः ? प्रसिद्धव्यवहारातिक्रमादितिचेत् कोसौ प्रसिद्धो व्यवहारः ? सुगतशास्त्रोपदर्शित इति चेत् कपिलादिशास्त्रोपदर्शितः कस्मान्न स्यात् ? तत्र व्यवहारिणामननुरोधादिति चेत्, तर्हि यत एव व्यवहारिजनानां सुगतशास्त्रोक्तो व्यवहारः प्रसिद्धात्मा व्यवस्थित एवमतिक्रामतां तत्र मोहनिवर्तनं सिद्धमिति किं शास्त्रेण तदर्थेन तेन । तन्निवर्तनस्यानिष्टौ तु व्याहता शास्त्रप्रणीतिः किं न भवेत् ? ॥ I युक्त्या यन्न घटामेति दृष्ट्वापि श्रदधे न तत् । इति ब्रुवन् प्रमाणत्वं युक्त्या श्रद्धातुमर्हति ॥ ६३ ॥ न केवलं व्यवहारी दृष्टं दृष्टमपि तत्त्वं युक्त्या श्रद्धातव्यं । सा च युक्ति: शास्त्रेण व्युत्पाद्यते । ततो शास्त्रप्रणीतिव्याहतेति ब्रुवन् कस्यचित्प्रमाणत्वं युक्त्यैव श्रद्धातुमर्हति ॥ तथासति प्रमाणस्य लक्षणं नावतिष्ठते । परिहर्तुमतिव्याप्तेरशक्यत्वात्कथंचन ॥ ६४ ॥ प्रमाणस्य हि लक्षणमविसंवादनं तच्च यथा सौगतैरुपगम्यते तथा युक्त्या न घटत एवातिव्याप्तेर्दुःपरिहरत्वादित्युक्तं स्वप्नादिज्ञानस्य प्रमाणत्वापादनात् ॥ क्षणक्षयादिबोधे विमुक्त्यभावाच्च दृष्यते । प्रत्यक्षेपि किमव्यात्या तदुक्तं नैव लक्षणम् || ६५ || क्षणिकेषु विभिन्नेषु परमाणुषु सर्वतः । संभवोप्यविमोक्षस्य न प्रत्यक्षानुमानयोः ॥ ६६ ॥ न हि वस्तुनः क्षणक्षये सर्वतो व्यावृत्तिर्न स परमाणुखभावे वा प्रत्यक्षमपि संवादलक्षणमविमोक्षाभावादित्युक्तं प्राक् । प्रत्यक्षानुमानयोर्वा विमोक्षस्यासंभवादव्यात्या वासंभवेन च तल्लक्षणं दूष्यत एव, ततोतिव्याप्त्यव्यात्यसंभवदोषोपद्रुतं न युक्तिमल्लक्षणमविसंवादनम् ॥ अज्ञातार्थप्रकाश लक्षणं परमार्थतः । गृहीतग्रहणान्न स्यादनुमानस्य मानता ॥ ६७ ॥ प्रत्यक्षेण गृहीतेपि क्षणिकत्वादिवस्तुनि | समारोपव्यवच्छेदात्प्रामाण्यं लैंगिकस्य चेत् ||६८॥ स्मृत्यादिवेदनस्यातः प्रमाणत्वमपीष्यताम् । मानद्वैविध्य विध्वंस निबंधनमवाधितम् ।। ६९ ।। मुख्यं प्रामाण्यमध्यक्षेऽनुमाने व्यावहारिकम् । इति ब्रुवन्न बौद्धः स्यात् प्रमाणे लक्षणद्वयम् ॥७० चार्वाकोपि ह्येवं प्रमाणद्वयमिच्छत्येव प्रत्यक्षमेकमेव प्रमाणमगौणत्वात् प्रमाणस्येति वचनादनुमानस्य गौणप्रामाण्यानिराकरणात् ॥ तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । प्रमाणमिति योप्याह सोप्येतेन निराकृतः ॥ ७१ ॥ गृहीतग्रहणाभेदादनुमानादि संविदः । प्रत्यभिज्ञाननिर्णीत नित्यशब्दादिवस्तुषु ।। ७२ ।। ( न प्रत्यभिज्ञाननिर्णीतेषु नित्येषु शब्दात्मादिष्वर्थेष्वनुमानादिसंविदः प्रवर्तते पिष्टपेषणवद्वैयर्थ्यादनवस्थाप्रसंगाच्च । ततो न गृहीतग्रहणमित्ययुक्तं, दर्शनस्य परार्थत्वादित्यादि शब्दानित्यत्वसाधनस्याभ्युपगमात् । तत एव तत्साधनं न पुनः प्रत्यभिज्ञानादित्यसारं, नित्यः शब्दः प्रत्यभिज्ञायमानत्वादित्यत्र हेत्वसिद्धिप्रसंगात् । प्रत्यभिज्ञायमानत्वं हि हेतुः तदा सिद्धः स्याद्यदा सर्वेषु प्रत्यभिज्ञानं प्रवर्तेत तच्च Page #183 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १० प्रवर्तमानं शब्दनित्यत्वे प्रवर्तते न शब्दरूपमात्रे प्रत्यक्षत्ववदनेकांतार्थप्रसंगात् । यदि पुनः प्रत्यभिज्ञानान्नित्यशब्दादिसिद्धावपि कुतश्चित्समारोपस्य प्रसूतेस्तव्यवच्छेदार्थमनुमानं न पूर्वार्थमिति मतं तदा स्मृतितर्कादेरपि पूर्वार्थत्वं मा भूत् तत एव । तथा च वाभिमतप्रमाणसंख्याव्याघातः । कथं वा प्रत्यभिझानं गृहीतग्राहि प्रमाणमिष्टं तद्धि प्रत्यक्षमेव वा ततोऽन्यदेव वा प्रमाणं स्यात् ॥ प्रत्यक्षं प्रत्यभिज्ञा चेद्रहीतग्रहणं भवेत् । ततोन्यच्चेत्तथाप्येवं प्रमाणांतरता च ते ॥७३॥ । न ह्यननुभूतार्थे प्रत्यभिज्ञा सर्वथातिप्रसंगात् । नाप्यस्मर्यमाणे यतो ग्रहीतग्राहिणी न भवेत् ॥ प्रत्यक्षेणाग्रहीतेर्थे प्रत्यभिज्ञा प्रवर्तते । पूर्वोत्तरविवतैकग्राहाचेन्नाक्षजत्वतः ॥ ७४ ॥ पूर्वोत्तरावस्थयोर्यध्यापकमेकत्वं तत्र प्रत्यभिज्ञा प्रवर्तते न प्रत्यक्षेण परिच्छिन्नेवस्थामात्रे स्मर्यमाणेनुभूयमाने वा ततो न ग्रहीतग्राहिणी चेत् तत् नेन्द्रियजत्वात्तस्याः कथमन्यथा प्रत्यक्षतर्भावः । न चेंद्रियं पूर्वोत्तरावस्थयोरतीतवर्तमानयोः वर्तमाने तदेकत्वे प्रवर्तितुं समर्थ वर्तमानार्थग्राहित्वात् संबंध वर्तमानं च गृह्यते चक्षुरादिभिरिति वचनात् ॥ पूर्वोत्तरविवर्ताक्षज्ञानाभ्यां सोपजन्यते । तन्मात्रमितिचेत्केयं तद्भिनैकत्ववेदिनी ॥ ७५॥ न हि पूर्वोत्तरावस्थाभ्यां भिन्ने च सर्वथैकत्वे तत्परिच्छेदिभ्यामक्षज्ञानाभ्यां जन्यमानं प्रत्यभिज्ञानं प्रवर्तते स्मरणवत् संतानांतरैकत्ववद्वा ॥ विवर्ताभ्यामभेदश्चेदेकत्वस्य कथंचन । तद्राहिण्या:कथं न सात्पूर्वार्थत्वं स्मृतेरिव ॥ ७६ ॥ यद्यवस्थाभ्यामेकत्वस्य कथंचिदभेदात्तद्राहींद्रियज्ञानाभ्यां जनितायाः प्रत्यभिज्ञाया ग्रहणं न विरुध्यते सर्वथाभेदे तद्विरोधादिति मतिस्तदास्याः कथं पूर्वार्थत्वं न स्यात् स्मृतिवत् । कथंचित्पूर्वार्थत्वे वा सर्व प्रमाणं नैकांतेनापूर्वार्थ । तद्वदेवं च तत्रापूर्वार्थविज्ञानं प्रमाणमित्यसंबंधं । एतेनानुमानमेव प्रत्यभिज्ञानप्रमाणांतरमेव चेति प्रत्याख्यातं, सर्वथाप्यपूर्वार्थत्वनिराकृतेः सर्वप्रमाणानां प्रमाणांतरासिद्धिप्रसंगाच्च । तत्त्वार्थव्यवसायात्मज्ञानं मानमितीयता । लक्षणेन गतार्थत्वाद्यर्थमन्यद्विशेषणम् ॥ ७७ ॥ गृहीतमगृहीतं वा स्वार्थ यदि व्यवस्यति । तन लोके न शास्त्रेषु विजहाति प्रमाणताम् ॥७८ बाधवर्जितताप्येषा नापरा स्वार्थनिश्चयात् । स च प्रवाध्यते चेति व्याघातान्मुग्धभाषितम् ७९ बाधकोदयतः पूर्व वर्तते स्वार्थनिश्चयः । तस्योदये तु बाध्यतेत्येतदप्यविचारितम् ॥ ८॥ अप्रमाणादपि ज्ञानात्प्रवृत्तेरनुषंगतः । बाधकोद्भूतितः पूर्व प्रमाणं विफलं ततः ॥ ८१॥ बाधकाभाव विज्ञानात्प्रमाणत्वस्य निश्चये । प्रवृत्त्यंगे तदेव स्यात्प्रतिपत्तुः प्रवर्तकम् ।। ८२॥ तस्यापि च प्रमाणत्वं बाधकाभाववेदनात् । परमादित्यवस्थानं क नामैवं लभेमहि ॥ ८३ ।। बाधकामावबोधस्य स्वार्थनिर्णीतिरेव चेत् । बाधकांतरशून्यत्वनिर्णीतिः प्रथमेत्र सा ॥८४॥ संप्रत्ययो यथा यत्र तथा तत्रास्त्वितीरणे । बाधकामावविज्ञानपरित्यागः समागतः ॥८५॥ यच्चार्थवेदने बाधाभावज्ञानं तदेव नः । स्यादर्थसाधनं बाधसद्भावज्ञानमन्यथा ॥८६॥ तत्र देशांतरादीनि वापेक्ष्य यदि जायते । तदा सुनिश्चितं बाधाभावज्ञानं न चान्यथा ॥ ८७ अदुष्टकारणारब्धमित्येतच्च विशेषणम् । प्रमाणस्य न साफल्यं प्रयात्यव्यभिचारतः ॥ ८८ ॥ दुष्टकारणजन्यस्य स्वार्थनिर्णीत्यसंभवात् । सर्वस्य वेदनस्योत्थं तत एवानुमानतः ॥ ८९॥ खार्थनिधायकत्वेनादुष्टकारणजन्यता । तथा च तत्त्वमित्येतत्परस्परसमाश्रितम् ॥९० ॥ Page #184 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १७५ यदि कारण दोषस्याभावज्ञानं च गम्यते । ज्ञानस्यादुष्टहेतूत्था तदा स्यादनवस्थितिः ॥ ९१ ॥ हेतुदोषविहीनत्वज्ञानस्यापि प्रमाणता । स्वहेतुदोषशून्यत्वज्ञानात्तस्यापि सा ततः ॥ ९२ ॥ गत्वा सुदूरमेकस्य तदभावेपि मानता । यदीष्टा तद्वदेव स्यादाद्यज्ञानस्य सा न किम् ॥९३॥ एवं न बाधवर्जितत्वमदुष्टकारणारब्धत्वं लोकसंमतत्वं वा प्रमाणस्य विशेषणं सफलपूर्वार्थवत् । "स्वार्थव्यवसायात्मकत्वमात्रेण सुनिश्चितासंभवद्वाधकत्वात्मना प्रमाणत्वस्य वा व्यवस्थितेरपि परीक्षकैः प्रतिपत्तव्यम् ॥ स्वतः सर्वप्रमाणानां प्रामाण्यमिति केचन । यतः स्वतोऽसती शक्तिः कर्तुं नान्येन शक्यते ९४ तेषां स्वतोप्रमाणत्वमज्ञानानां भवेन्न किम् । तत एव विशेषस्याभावात्सर्वत्र सर्वथा ॥ ९५ ॥ यथार्थबोधकत्वेन प्रमाणत्वं व्यवस्थितम् । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ ९६ ॥ तथा मिथ्यावभासित्वादप्रमाणत्वमादितः । अर्थयाथात्म्यहेतूत्थगुणज्ञानादपोद्यते ॥ ९७ ॥ यद्यथार्थान्यथाभावाभावज्ञानं निगद्यते । अर्थयाथात्म्य विज्ञानमप्रमाणत्वबाधकम् ॥ ९८ ॥ तथैवास्त्वर्थयाथात्म्याभावज्ञानं स्वतः सताम् । अर्थान्यथात्वविज्ञानं प्रमाणत्वापवादकम् ९९ - विज्ञानकारणे दोषाभावः प्रज्ञायते गुणः । यथा तथा गुणाभावो दोषः किं नात्र मन्यते ॥ १०० यथा च जातमात्रस्यादुष्टा नेत्रादयः स्वतः । जात्यंधादेस्तथा दुष्टाः शिष्टैस्ते किं न लक्षिताः १०१ धूमादयो यथाग्न्यादीन् विना न स्युः स्वभावतः । धूमाभासादयस्तद्वत्तैर्विना संत्यबाधिताः १०२ यथा शब्दाः स्वतस्तत्त्वप्रत्यायनपरास्तथा । शब्दाभासास्तथा मिथ्यापदार्थप्रतिपादकाः ॥ १०३ दुष्टे वक्तरि शब्दस्य दोषस्तत्संप्रतीयते । गुणो गुणवतीति स्याद्वऋधीनमिदं द्वयम् ॥ १०४ ॥ यथा वगुणैर्दोषः शब्दानां विनिवर्त्यते । तथा गुणोपि तद्दोषैरिति स्पृष्टमभीक्ष्यते ॥ १०५ यथा च वक्रभावेन न स्युर्दोषास्तदाश्रयाः । तद्वदेव गुणा न स्युर्मेघध्वानादिवद्ध्रुवम् ॥ १०६ ततश्च चोदनाबुद्धिर्न प्रमाणं न वा प्रमा । आप्तानाप्तोपदेशोत्थबुद्धेस्तत्त्वप्रसिद्धितः ॥ १०७ ॥ एवं समत्वसंसिद्धौ प्रमाणत्वेतरत्वयोः । स्वत एव द्वयं सिद्धं सर्वज्ञानेष्वितीतरे ॥ १०८ ॥ यथा प्रमाणानां स्वतः प्रामाण्यं सर्वथा विशेषाभावात् तयोरुत्पत्तौ खकार्ये च सामग्र्यंतरखग्रहणनिरपेक्षत्वोपपत्तेः प्रकारांतरासंभवादित्यपरे ॥ - स्वतः प्रमाणेतरैकांतवादिनं प्रत्याह ;तन्नानभ्यासकालेपि तथा भावानुषंगतः । न च प्रतीयते तादृक् परतस्तत्त्वनिर्णयात् ॥ १०९ ॥ स्वतः प्रामाण्येतरैकांत वादिनामभ्यासावस्थायामिवानभ्यासदशायामपि खत एव प्रमाणत्वमितरच्च स्यादन्यथा तदेकांतहानिप्रसंगात् । न चेदृक् प्रतीयतेऽनभ्यासे परतः प्रमाणत्वस्येतरस्य च निर्णयात् । न हि तत्तदा कस्यचित्तध्यार्थावबोधकत्वं मिथ्यावभासित्वं वा नेतुं शक्यं स्वत एव तस्यार्थान्यथात्व हेतूत्थं - दोषज्ञानादर्थयाथात्म्यहेतुत्थगुणज्ञानाद्वा अनपवादप्रसंगात् । तथा च नांप्रमाणत्वस्यार्थान्यथाभावाभावज्ञानं बाधकं प्रमाणत्वस्य वार्थान्यथात्वविज्ञानं सिध्येत् । न चानभ्यासे ज्ञानकारणेषु दोषाभावो गुणाभावो वा गुणदोषस्वभावः खतो विभाव्यते यतो जातमात्रस्यादुष्टा दुष्टा वा नेत्रादयः प्रत्यक्ष हेतवः सिद्धेयुः धूमादितदाभासा वानुमानहेतवः शब्दतदाभासा वा शाब्दज्ञानहेतवः प्रमाणांत रहेतवो वा यथोपवर्णिता इति । कथं वानभ्यासे दुष्टो वक्ता गुणवान् वा स्वतः शक्योवसातुं यतः शब्दस्य दोषवत्त्वं गुणवत्त्वं वा वऋधीनमनुरुध्यते । तथा वक्तुर्गुणैः शब्दानां दोष उपनीयते दोषैर्वा गुण इत्येतदपि Page #185 -------------------------------------------------------------------------- ________________ १७६ तत्त्वार्थश्लोकवार्तिके [सू० १० नामभ्यासे स्वतो निर्णेयं, वक्तरहितत्वं वा गुणदोषाभावनिबंधनतया चोदनाबुद्धेः प्रमाणेतरत्वाभावनिबंधनमिति न प्रमाणेतरत्वयो समत्वं सिद्ध्येत् स्वतस्तन्निबंधनं सर्वथानभ्यासे ज्ञानानामुत्पत्तौ स्वकार्ये च सामग्र्यंतरवग्रहणनिरपेक्षत्वासिद्धेश्च । ततो न खत एवेति युक्तमुत्पश्यामः ।। । द्वयं परत एवेति केचित्तदपि साकुलम् । स्वभ्यस्तविषये तस्य परापेक्षानभीक्षणात् ॥ ११०॥ .. खभ्यस्तेपि विषये प्रमाणाप्रमाणयोस्तद्भावसिद्धौ परापेक्षायामनवस्थानापत्तेः कुतः कस्यचित्प्रवृत्तिनिवृत्ती च स्यातामिति न परत एव तदुभयमभ्युपगंतव्यं ॥ तत्र प्रवृत्तिसामर्थ्यात्प्रमाणत्वं प्रतीयते । प्रमाणस्यार्थवत्वं चेन्नानवस्थानुपंगतः ॥ १११ ॥ प्रमाणेन प्रतीतेथे यत्तद्देशोपसपेणम् । सा प्रवृत्तिः फलस्याप्तिस्तस्याः साममिष्यते ॥११२।। प्रसूतिर्वा सजातीयविज्ञानस्य यदा तदा । फलप्राप्तिरपि ज्ञाता सामर्थ्य नान्यथा स्थितिः११३ तद्विज्ञानस्य चान्यस्मात् प्रवृत्तिबलतो यदि । तदानवस्थितिस्तावत्केनात्र प्रतिहन्यते॥११४॥ स्वतस्तदलतो ज्ञानं प्रमाणं चेत्तथा न किम् । प्रथमं कथ्यते ज्ञानं प्रद्वेषो निर्निबंधनम् ११५ एतेनैव सजातीयज्ञानोत्पत्ती निवेदिता । अनवस्थान्यतस्तस्य प्रमाणत्वव्यवस्थितेः ॥११६ ॥ न च सामर्थ्य विज्ञाने प्रामाण्यानवधारणे । तन्निबंधनमाद्यस्य ज्ञानस्यैतत् प्रसिद्ध्यति ॥११७॥ • न ह्यनवधारितप्रामाण्याद्विज्ञानात् प्रवृत्तिसामर्थ्य सिद्ध्यति यतोनवस्थापरिहारः । प्रमाणतोर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमित्येतद्वा भाष्यं सुघटं स्यात् प्रवृत्तिसामर्थ्यादसिद्धाप्रमाणस्यार्थवत्त्वाघटनात् । किं च प्रमाणतः प्रवृत्तिरपि ज्ञातप्रामाण्यादज्ञातप्रामाण्याद्वा स्यात् । ज्ञातप्रामाण्यतो मानात्प्रवृत्तौ केन वार्यते । परस्पराश्रयो दोषो वृत्तिप्रामाण्यसंविदोः॥११८ अविज्ञातप्रमाणत्वात् प्रवृत्तिश्चेदृथा भवेत् । प्रामाण्यवेदनं वृत्तेः क्षौरे नक्षत्रपृष्टिवत् ॥११९॥ अर्थसंशयतो वृत्तिरनेनैव निवारिता । अनर्थसंशयाद्वापि निवृत्तिर्विदुषामिव ॥ १२० ॥ परलोकप्रसिद्धर्थमनुष्ठानं प्रमाणतः । सिद्धं तस्य बहुक्लेशवित्तत्यागात्मकत्वतः ॥ १२१ ॥ इति ब्रुवन् महायात्राविवाहादिषु वर्तनम् । संदेहादभिमन्येत जाड्यादेव महातमात् ॥१२२॥ परलोकार्थानुष्ठाने महायात्रा विवाहादौ च बहुक्लेशवित्तत्यागाविशेषेपि निश्चितप्रामाण्याद्वेदनादेकत्रान्यत्र वर्तनं संदेहाच्च खयमाचक्षाणस्य किमन्यत्कारणमन्यत्र महातमाज्जाड्यात् । एकत्र परस्पराश्रयस्यान्यत्र प्रामाण्यव्यवस्थापनवैयर्थ्यस्य च तदवस्थत्वात् ॥ तस्मात्प्रेक्षावतां युक्ता प्रमाणादेव निश्चितात । सर्वप्रवृत्तिरन्येषां संशयादेरपि कचित ॥१२३॥ द्विविधा हि प्रवर्तितारो दृश्यते विचार्य प्रवर्तमाना केचिदविचार्य चान्ये । तत्रैकेषां निश्चितप्रामाण्यादेव वेदनात्. कचित्प्रवृत्तिरन्यथा प्रेक्षावत्वविरोधात् । परेषां संशयाद्विपर्ययावा अन्यथा प्रेक्षाकारित्वव्याघातादिति युक्तं वक्तुं, लोकवृत्तानुवादस्येवं घटनात् । सोयमुद्योतकरः खयं लोकप्रवृत्तानुवादमुपयप्रामाण्यपरीक्षायां तद्विरुद्धमभिदधातीति किमन्यदनात्मज्ञतायाः । ननु च लोकव्यवहारं प्रति बालपंडितयोः सदृशत्वादप्रेक्षावत्तयैव सर्वस्य प्रवृत्तेः क्वचित्संशयात् प्रवृत्तियुक्तैवान्यथा प्रेक्षावतः प्रवृत्त्यभावप्रसंगादितिचेत् न, तस्य कचित्कदाचित्प्रेक्षावत्तयापि प्रवृत्त्य विरोधात् ॥ ... प्रेक्षावता पुनर्जेया कदाचित्कस्यचित्कचित् । अप्रेक्षकारिताप्येवमन्यत्राशेषवेदिनः ॥ १२४ ॥ - प्रेक्षावरणक्षयोपशमविशेषस्य सर्वत्र सर्वदा सर्वेषामसंभवात् कस्यचिदेव कचित्कदाचिच्च प्रेक्षावतेतरयोः सिद्धिरन्यत्र प्रक्षीणाशेषावरणादशेषज्ञादिति निश्चितप्रामाण्यात्प्रमाणात्प्रेक्षावतः प्रवृत्तिः कदाचि Page #186 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १७७ दन्यदा तस्यैवाप्रेक्षावतः यतः संशयादेरपीति न सर्वदा लोकव्यवहारं प्रति बालपंडितसदृशौ । कथमेवं प्रेक्षावतः प्रामाण्यनिश्चयेऽनवस्थादिदोषपरिहार इति चेत् ; तत्राभ्यासात्प्रमाणत्वं निश्चितः स्वत एव नः । अनभ्यासे तु परत इत्याहुः केचिदंजसा१२५ तच स्याद्वादिनामेव स्वार्थनिश्चयनात् स्थितम् । न तु स्वनिश्चयोन्मुक्तनिःशेषज्ञानवादिनाम् १२६ ' क्वचिदत्यंताभ्यासात् खतः प्रमाणत्वस्य निश्चयान्नानवस्थादिदोषः, क्वचिदनभ्यासात् परतस्तस्य व्यवस्थिते व्याप्तिरित्येतदपि स्याद्वादिनामेव परमार्थतः सिद्ध्येत् खार्थनिश्चयोपगमात् । न पुनः खरूपनिश्चयरहितसकलसंवेदनवादिनामनवस्थाद्यनुषंगस्य तदवस्थत्वात् । तथाहि । वस्तुव्यवस्थानिबंधनस्य खरूपनिश्चयरहितस्याखसंवेदितस्यैवानुपयोगात् । तत्र निश्चयं जनयत एवं प्रमाणत्वमभ्युपगंतव्यम् । तन्निश्चयस्य स्वरूपे खयमनिश्चितस्यानुत्पादिताविशेषान्निश्चयांतरजननानुषंगादनवस्था, पूर्वनिश्चयस्योत्तरनिश्चयात्सिद्धौ तस्य पूर्वनिश्चयादन्योन्याश्रयणं । यदि पुनर्निश्चयः स्वरूपे निश्चयमजनयन्नपि सिध्यति निश्चयत्वादेव न प्रत्यक्षमनिश्चयत्वादिति मतं तदार्थज्ञानज्ञानं ज्ञानांतरापरिच्छिन्नमपि सिद्धयेत् तद्ज्ञानत्वात् न पुनरर्थज्ञानं तस्यातत्त्वादिति ज्ञानांतरवेद्यज्ञानवादिनोपि नार्थचिन्तनमुत्सीदेत् । ज्ञानं ज्ञानं च स्याज्ज्ञानांतरपरिच्छेद्यं च विरोधाभावादिति चेत् , तर्हि निश्चयो निश्चयश्च स्यात्वरूपे निश्चयं च जनयेत्तत एव सोपि तथैवेति स एव दोषः । खसंविदितत्वान्निश्चयस्य खयं निश्चयान्तरानपेक्षत्वेनुभवस्यापि तदपेक्षा मा भूत् , शक्यनिश्चयमजनयन्नेवार्थानुभवः प्रमाणमभ्यासपाटवादित्यपरः। तस्यापि “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता” इति ग्रंथो विरुध्यते । कश्चायमभ्यासो नाम ? पुनः पुनरनुभवस्य भाव इति चेत् , क्षणक्षयादौ तत्प्रमाणत्वापत्तिस्तत्र सर्वदा सर्वार्थेषु दर्शनस्य भावात् परमाभ्याससिद्धेः । पुनः पुनर्विकल्पस्य भावः स इति चेत् , ततोनुभवस्य प्रमाणत्वे निश्चयजननादेव तदुपगतं स्यादिति पक्षांतरं पाटवमेतेनैव निरूपितं । अविद्यावासनाप्रहाणादात्मलाभोनुभवस्य पाटवं न तु पौनः पुन्येनानुभवो विकल्पोत्पत्तिर्वा, यतोभ्यासेनैवास्य व्याख्येति चेत् ; कथमेवमप्रहणाविद्यावासनानां जनानामनुभवात्कचित्प्रवर्तनं सिद्धेत् , तस्य पाटवाभावात् प्रमाणत्वायोगात् । प्राणिमात्रस्याविद्यावासनाप्रहाणादन्यत्र क्षणक्षयाद्यनुभवादिति दोषापाकरणे कथमेकस्यानुभवस्य पाटवापाटवे परस्परविरुद्धे वास्तवेन स्यातां । तयोरन्यतरस्याप्यवास्तवत्वे क्वचिदेव प्रमाणत्वाप्रमाणत्वयोरेकत्रानुभवेनुपपत्तेः प्रकरणाप्रकरणयोरनुत्पत्तिरनेनोक्ता । अर्थित्वानर्थित्वे पुनरर्थज्ञानात्प्रमाणात्मकादुत्तरकालभाविनी कथमर्थानुभवस्य प्रामाण्येतरहेतुतां प्रतिपद्येते खमतविरोधात् । ततः खार्थव्यवसायात्मकज्ञानाभिधायिनामेवाभ्यासे खतोऽनभ्यासे परतः प्रामाण्यसिद्धिः ॥ स्वतः प्रमाणता यस्य तस्यैव परतः कथम् । तदैवैकत्र नैवातः साद्वादोस्ति विरोधतः॥१२७ नैतत्साधु प्रमाणस्यानेकरूपत्वनिश्चयात् । प्रमेयस्य च निभोगतत्त्ववादस्तु बाध्यते ॥ १२८ ॥ तत्र यत्परतो ज्ञानमनभ्यासे प्रमाणताम् । याति स्वतः स्वरूपे तत्तामिति कैकरूपता ॥१२९॥ स्वार्थयोरपि यस्य स्यादनभ्यासात्प्रमाणता । प्रतिक्षणविवर्तादौ तस्यापि परतो न किम् १३० स्थाद्वादो न विरुद्धोतः स्यात्प्रमाणप्रमेययोः । स्वद्रव्यादिवशाद्वापि तस्य सर्वत्र निश्चयः १३१ केवलज्ञानमपि खद्रव्यादिवशात्प्रमाणं न परद्रव्यादिवशादिति सर्व कथंचित्प्रमाणं, तथा तदेव खात्मनः स्वतः प्रमाणं छद्मस्थानां तु परत इति सर्व स्यात् स्वतः, स्यात्परतः प्रमाणमुपगम्यते विरोधाभावात् । न पुनर्यत्स्वतः तत्वत एव यत्परतस्तत्परत एवेति सर्वथैकांतप्रसक्तरुभयपक्षप्रक्षिप्तदोषानुषंगात् ॥ Page #187 -------------------------------------------------------------------------- ________________ १७८ तत्त्वार्थश्लोकवार्तिके [सू० १० नन्वसिद्धं प्रमाणं किं स्वरूपेण निरूप्यते । शशशृंगवदित्येके तदप्युन्मत्तभाषितम् ॥ १३२ ॥ स्वेष्टानिष्टार्थयोर्ज्ञातुर्विधानप्रतिषेधयोः । सिद्धिः प्रमाणसंसिद्ध्यभावेस्ति न हि कस्यचित् १३३ इष्टार्थस्य विधेरनिष्टार्थस्य वा प्रतिषेधस्य प्रमाणानां तत्त्वतोऽसंभवे कदाचिदनुपपत्तेर्न स्वरूपेणासिद्धं प्रमाणमनिरूपणात् शशशृंगवन्नास्ति प्रमाणं विचार्यमाणस्यायोगादिति स्वयमिष्टमर्थं साधयन्ननिष्टं च निराकुर्वन् प्रमाणत एव कथमननुमतः । ततः प्रमाणसिद्धिरर्थादायता ॥ ननु प्रमाणसंसिद्धिः प्रमाणांतरतो यदि । तदानवस्थितिर्नो चेत् प्रमाणान्वेषणं वृथा ॥ १३४ ॥ आद्यप्रमाणतः स्याच्चेत्प्रमाणांतरसाधनम् । ततश्चाद्यप्रमाणस्य सिद्धेरन्योन्यसंश्रयः ।। १३५ ।। प्रसिद्धेनाप्रसिद्धस्य विधानमिति नोत्तरम् । प्रसिद्धस्याव्यवस्थानात् प्रमाणविरहे कचित् ॥ १३६ परानुरोधमात्रेण प्रसिद्धोर्थो यदीष्यते । प्रमाणसाधनस्तद्वत्प्रमाणं किं न साधनम् ॥ १३७ ॥ पराभ्युपगमः केन सिद्ध्यतीत्यपि च द्वयोः । समः पर्यनुयोगः स्यात्समाधानं च नाधिकम् १३८ तत्प्रमाणप्रमेयादिव्यवहारः प्रवर्तते । सर्वस्याप्य विचारेण स्वप्नादिवदितीतरे ॥ १३९ ॥ तेषां संवित्तिमात्रं स्यादन्यद्वा तत्त्वमंजसा । सिद्धं स्वतो यथा तद्वत्प्रमाणमपरे विदुः ॥ १४० ॥ यथा स्वातंत्र्यमभ्यस्तविषयेऽस्य प्रतीयते । प्रमेयस्य तथा नेति न प्रमान्वेषणं वृथा ॥ १४१ ॥ परतोपि प्रमाणत्वेन भ्यस्तविषये कचित् । नानवस्थानुषज्येत तत एव व्यवस्थितेः ॥ १४२ ।। स्वरूपस्य खतो गतिरिति संविदद्वैतं ब्रह्म वा स्वतः, सिद्धमुपपन्नमभ्यस्तविषये सर्व प्रमाणं तथाभ्युपगंतुमर्हति । नोचेदनवधेयवचनो न प्रेक्षापूर्ववादी । न च यथा प्रमाणं स्वतः सिद्धं तथा प्रमेयमपि तस्य तद्वत्खातंत्र्याप्रतीतेः तथा प्रतीतौ वा प्रमेयस्य प्रमाणत्वापत्तेः, स्वार्थप्रमितौ साधकतमस्य स्वतंत्रस्य प्रमाणत्वात्मकत्वात् । ततो न प्रमाणान्वेषणमफलं, तेन विना स्वयं प्रमेयस्याव्यवस्थानात् । यदा पुनरभ्यस्तेर्थे परतः प्रमाणानां प्रामाण्यं तदापि नानवस्था परस्पराश्रयो वा स्वतः सिद्धप्रामाण्यात् कुतश्चित्वचित्प्रमाणादवस्थोपपत्तेः । ननु च क्वचित्कस्यचिदभ्यासे सर्वत्र सर्वस्याभ्यासोस्तु विशेषाभावादनभ्यास एव प्रतिप्राणि तद्वैचित्र्य कारणाभावात् । तथा च कुतोभ्यासानभ्यासयोः स्वतः परतो वा प्रामाण्यव्यवस्था भवेदिति चेत् । नैवं, तद्वैचित्र्यसिद्धेः ॥ दृष्टादृष्टनिमित्तानां वैचित्र्यादिह देहिनाम् । जायते कचिदभ्यासोऽनभ्यासो वा कथंचन १४३ दृष्टानि निमित्तान्यभ्यासस्य क्वचित्पौनःपुन्येनानुभवादीनि तद् ज्ञानावरणवीर्यांतरायक्षयोपशमादीन्यदृष्टानि विचित्राण्यभ्यास एव खहेतुवैचित्र्यात् जायंते, अनभ्यासस्य च सकृदनुभवादीन्यनभ्यासज्ञानावरणक्षयोपशमादीनि च । तद्वैचित्र्याद्वैचित्र्येऽभ्यासोऽनभ्यासश्च जायते । ततः युक्ता खतः परतश्च प्रामाण्यव्यवस्था ॥ तत्प्रसिद्धेन मानेन खतोसिद्धस्य साधनम् । प्रमेयस्य यथा तद्वत्प्रमाणस्येति धीधनाः ॥ १४४ ॥ न हि खसंवेदनवदभ्यासदशायां खतः सिद्धेन प्रमाणेन प्रमेयस्य स्वयमसिद्धस्य साधनमनुरुध्यमानैरनभ्यासदशायां खयमपि सिद्धस्य प्रमाणस्य तदपाकर्तुं युक्तं, सिद्धेनासिद्धस्य साधनोपपत्तेः । ततः सूक्तं संति प्रमाणानीष्ट साधनादिति ॥ एवं विचारतो मानस्वरूपे तु व्यवस्थिते । तत्संख्यानप्रसिद्ध्यर्थ सूत्रे द्वित्वस्य सूचनात् ॥ १४५ तत्प्रमाणे, इति हि द्वित्वनिर्देशः संख्यांतरावधारणनिराकरणाय युक्तः कर्तुं तत्र विप्रतिपत्तेः ॥ प्रमाणमेकमेवेति केचित्तावत् कुदृष्टयः । प्रत्यक्षमुख्यमन्यस्मादर्थनिर्णीत्यसंभवात् ॥ १४६ ॥ Page #188 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १७९ प्रत्यक्षमेव मुख्यं स्वार्थनिर्णीतावन्यानपेक्षत्वादन्यस्य प्रमाणस्य जन्मनिमित्तत्वात् न पुनरनुमादि तस्य प्रत्यक्षापेक्षत्वात् प्रत्यक्षजननानिमित्तत्वाच्च गौणतोपपत्तेः । न च गौणं प्रमाणमतिप्रसंगात् । ततः प्रत्यक्षमेकमेव प्रमाणमगौणत्वात् प्रमाणस्येति केचित् ।। तेषां तत्कि स्वतः सिद्धं प्रत्यक्षांतरतोपि वा । स्वस्य सर्वस्य चेत्येतद्भवेत् पर्यनुयोजनम् ॥१४७ खस्याध्यक्षं सर्वस्य वा खतो वा सिद्ध्येत् प्रत्यक्षांतराद्वेति पर्यनुयोगोऽवश्यंभावी ॥ स्वस्यैव चेत् स्वतः सिद्धं नष्टं गुर्वादिकीर्तनम् । तदव्यक्तप्रमाणत्वसिद्ध्यभावात्कथंचन॥१४८॥ प्रत्यक्षांतरतो वाप्यसिद्धौ स्यादनवस्थितिः । कचित्स्वतोऽन्यतो वेति स्याद्वादाश्रयणं परम् १४९ सर्वस्यापि स्वतोध्यक्षप्रमाणमिति चेन्मतिः । केनावगम्यतामेतदध्यक्षाद्योगिविद्विषाम् ॥१५० प्रमाणांतरतो ज्ञाने नैकमानव्यवस्थितिः । अप्रमाणागतावेव प्रत्यक्षं किमु पोष्यते ॥१५१ ॥ सर्वस्य प्रत्यक्षं खत एव प्रमाणमिति प्रमाणमंतरेणाधिगच्छन् प्रमेयमपि तथाधिगच्छतु विशेषाभावात् । ततस्तैः प्रत्यक्षं किमु पोण्यत इति चिंत्यम् ॥ प्रत्यक्षमनुमानं च प्रमाणे इति केचन । तेषामपि कुतो व्याप्तिः सिद्ध्येन्मानांतराद्विना १५२ योप्याह-प्रत्यक्षं मुख्यं प्रमाणं स्वार्थनिर्णीतावन्यानपेक्षत्वादिति तस्यानुमानं मुख्यमस्तु तत एव । न हि तत्तस्यामन्यानपेक्षं । खोत्पत्तौ तदन्यापेक्षमिति चेत् , तत्स्वनिमित्तमक्षादिकमपेक्षते न पुनः प्रमाणमन्यदितिचेत् , तथानुमानमपि । न हि तत्रिरूपलिंगनिश्चयं खहेतुमपेक्ष्य जायमानमन्यत्प्रमाणमपेक्ष्यते । यत्तु त्रिरूपलिंगग्राहि प्रमाणं तदनुमानोत्पत्तिकारणमेव न भवति, लिंगपरिच्छित्तावेव चरितार्थत्वात् । यदप्यभ्यधायि, प्रत्यक्षं मुख्यं प्रमाणांतरजन्मनो निमित्तत्वादिति तत्रिरूपलिंगादिनानैकांतिकं । यदि पुनरर्थस्यासंभवेऽभावात् प्रत्यक्षं मुख्यं तदानुमानमपि तत एव विशेषाभावात् । तदुक्तं- “अर्थस्यासंभवे भावात् प्रत्यक्षेपि प्रमाणता । प्रतिबंधखभावस्य तद्धेतुत्वे समं द्वयम्” इति संवादकत्वात्तन्मुख्यमिति चेत् तत एवानुमानं न पुनभ्यामथै परिच्छिद्य प्रवर्तमानोर्थक्रियायां संवाद्यते । वस्तुविषयत्वान्मुख्यं प्रत्यक्षमिति चेत् तत एवानुमानं तथास्तु प्राप्यवस्तुविषयत्वादनुमानस्य वस्तुविषयं प्रामाण्यं द्वयोः इति वचनात् । ततो मुख्य द्वे एव प्रमाणे प्रत्यक्षमनुमानं चेति केचित् , तेषामपि यावत्कश्चिड्रमः ससवोप्यग्निजन्मानमिजन्मा वा न भवतीति व्याप्तिः साध्यसाधनयोः कुतः प्रमाणांतराद्विनेति चित्यम् ॥ प्रत्यक्षानुपलंभाभ्यां न तावत्तत्प्रसाधनम् । तयोः सनिहितार्थत्वात् त्रिकालागोचरत्वतः१५३ कारणानुपलंभाच्चेत्कार्यकारणतानुमा । व्यापकानुपलंभाच्च व्याप्यव्यापकतानुमा ॥ १५४ ॥ तयाप्तिसिद्धिरप्यन्यानुमानादिति न स्थितिः । परस्परमपि व्याप्तिसिद्धावन्योन्यमाश्रयः १५५ योगिप्रत्यक्षतो व्याप्तिसिद्धिरित्यपि दुर्घटम् । सर्वत्रानुमितिज्ञानाभावात् सकलयोगिनः॥१५६ परार्थानुमितौ तस्य व्यापारोपि न युज्यते । अयोगिनः स्वयं व्याप्तिमजानानः जनान् प्रति१५७ योगिनोपि प्रति व्यर्थः स्वस्वार्थानुमिताविव । समारोपविशेषस्याभावात् सर्वत्र योगिनाम्१५८ एतेनैव हतादेशयोगिप्रत्यक्षतो गतिः । संबंधसास्फुटं दृष्टेत्यनुमानं निरर्थकम् ॥ १५९ ॥ तस्याविशदरूपत्वे प्रत्यक्षत्वं विरुध्यते । प्रमाणांतरतायां तु द्वे प्रमाणे न तिष्ठतः ॥ १६० ॥ न चाप्रमाणतो ज्ञानायुक्तो व्याप्तिविनिश्चयः । प्रत्यक्षादिप्रमेयस्याप्येवं निर्णीतसंगतः ॥१६१ प्रत्यक्षं मानसं येषां संबंधं लिंगलिंगिनोः । व्याप्त्या जानाति तेप्यर्थेतींद्रिये किमु कुर्वते १६२ Page #189 -------------------------------------------------------------------------- ________________ १८० तत्त्वार्थश्लोकवार्तिके [सू० १० यत्राक्षाणि प्रवर्तते मानसं तत्र वर्तते । नोन्यत्राक्षादिवैधुर्यप्रसंगात् सर्वदेहिनाम् ॥ १६३ ॥ संबंधोतींद्रियार्थेषु निश्चीयेतानुमानतः । तद्याप्तिश्चानुमानेनान्येन यावत्प्रवर्तते ॥ १६४ ॥ प्रत्यक्षनिश्चितव्याप्तिरनुमानोनवस्थितिः । निवर्त्यते तथान्योन्यसंश्रयश्चेति केचन ॥ १६५ ॥ तेषां तन्मानसं ज्ञानं स्पष्टं न प्रतिभासते । अस्पष्टं च कथं नाम प्रत्यक्षमनुमानवत् ॥१६६॥ तर्कश्चैवं प्रमाणं स्यात्स्मृतिसंज्ञा च किं न वः । मानसत्वाविसंवादाविशेषान्नानुमान्यथा१६७. मानसं ज्ञानमस्पष्टं व्याप्तौ प्रमाणमविसंवादकत्वादिति वदन् कथमयं तर्कमेवं नेच्छेत् ? स्मरणं प्रत्यभिज्ञानं वा कुतः प्रतिक्षिपेत् । तदविशेषात् मनोज्ञानत्वान्न तत्प्रमाणमितिचेत् , तत एव स्मरणादि प्रमाणमस्तु । न हि ततोथै परिच्छिद्य वर्तमानोर्थक्रियायां विसंवाद्यते प्रत्यक्षादिवत् ॥ तर्कादेर्मानसेध्यक्षे यदि लिंगानपेक्षिणः । सादंतर्भवनं सिद्धिस्ततोध्यक्षानुमानयोः ॥१६८॥ यदि तर्कादेर्मानसेध्यक्षेतर्भावः स्याल्लिंगानपेक्षत्वात्ततोऽध्यक्षानुमानयोः सिद्धिः प्रमाणांतरभाववादिनः संभाव्यते नान्यथा ॥ तदा मतेः प्रमाणत्वं नामांतरवृतोस्तु नः । तद्वदेवाविसंवादाच्छुतस्येति प्रमात्रयम् ॥१६९॥ यो ह्यवग्रहाद्यात्मकमिंद्रियजं प्रत्यक्षमक्ष नितत्वात् तदनपेक्षं तु स्मरणादि मानसं लिंगानपेक्षणादिति ब्रूयात् तेन मतिज्ञानमेवास्माकमिष्टं नामांतरेणोक्तं स्यात् । तद्विशेषस्तु लिंगापेक्षोनुमानमिति च प्रमाणद्वयं मतिज्ञानव्यक्त्यपेक्षयोपगतं भवेत् । तथा च शब्दापेक्षत्वात्कुतो ज्ञानं ततः प्रमाणांतरं सिद्ध्येत् संवादकत्वाविशेषादिति प्रमाणत्रयसिद्धेः । यत्प्रत्यक्षपरामर्शिवचः प्रत्यक्षमेव तत् लैंगिकं तत्परामर्श तत्प्रमाणांतरं न चेत् सर्वः प्रत्यक्षेणानुमानेन वा परिच्छिद्यार्थ स्वयमुपदिशेत् परस्मै नान्यथा तस्यानाप्तत्वप्रसंगात् । तत्र प्रत्यक्षपरामर्युपदेशः प्रत्यक्षमेव यथा लैंगिकमिति न श्रुतं ततः प्रमाणांतरं येन प्रमाणद्वयनियमो न स्यादिति चेत् ॥ नाक्षलिंगविभिन्नायाः सामग्र्या वचनात्मनः । समुद्भूतस्य बोधस्य मानांतरतया स्थिते १७० अक्षलिंगाभ्यां विभिन्ना हि वचनात्मा सामग्री तस्याः समुद्भूतं श्रुतं प्रमाणांतरं युक्तमिति न तदध्यक्षमेवानुमानमेव वा सामग्रीभेदात् प्रमाणभेदव्यवस्थापनात् ।। यत्रंद्रियमनोध्यक्षं योगिप्रत्यक्षमेव वा । लैंगिकं वा श्रुतं तत्र वृत्तेर्मानांतरं भवेत् ॥ १७१॥ प्रत्यक्षादनुमानस्य मा भूत्तर्हि विभिन्नता । तदर्थे वर्तमानत्वात् सामग्रीभित्समा श्रुतिः॥१७२ न हि विषयस्याभेदात् प्रमाणभेदः प्रत्यक्षादनुमानस्य भेदप्रसंगात् । न च तत्ततो भिन्नविषयं सामान्यविशेषात्मकवस्तुविषयत्वात् प्रत्यक्षमेव सामान्यविशेषात्मकवस्तुविषयं न पुनरनुमानं तस्य सामान्यविषयत्वादितिचेत् ततः कस्यचित्कचित्प्रकृत्यभावप्रसंगात् । सर्वोर्थक्रियार्थी हि प्रवर्तते नच सामान्यमशेषविशेषरहितं कांचिदर्थक्रियां संपादयितुं समर्थ तत्तु ज्ञानामात्रस्याप्यभावात् सामान्यादनुमिताद्विशेषानुमानात् प्रवर्तकमनुमानमिति चेत् , न अनवस्थानुषंगात् । विशेषेपि ह्यनुमानं तत्सामान्यविषयमेव परं विशेषमनुपाय यदेव प्रवर्तकं तत्राप्यनुमानं तत्सामान्यविषयमिति सुदूरमपि गत्वा सामान्यविशेषविषयमनुमानमुपगंतव्यं ततः प्रवृत्तौ तस्य प्राप्तिप्रसिद्धेः । सामग्रीभेदाद्भिन्नमनुमानमध्यक्षादिति चेत् तत एव श्रुतं ताभ्यां भिन्नमस्तु विशेषाभावात् ॥ शब्दलिंगाक्षसामग्रीभेदायेषां प्रमात्रयं । तेषामशब्दलिंगाक्षजन्मज्ञानं प्रमांतरम् ॥ १७३॥ योगिप्रत्यक्षमप्यक्षसामग्रीजनितं न हि । सर्वार्थागोचरत्वस्य प्रसंगादसदादिवत् ॥ १७४ ॥ Page #190 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। न हि योगिज्ञानमिंद्रियजं सर्वार्थग्राहित्वाभावप्रसंगादस्मदादिवत् । न हींद्रियैः साक्षात्परंपरया वा सर्वेः सकृत् संनिकृष्यंते न चासंनिकृष्टेषु तज्ज्ञानं संभवति । योगजधर्मानुगृहीतेन मनसा सर्वार्थज्ञानसिद्धेरदोष इति चेत् , कुतः पुनस्तेन मनसोऽनुग्रहः? सकृत्सर्वार्थसन्निकर्षकरणमिति चेत् तद्वदसंयोगजो धर्मः स्वयं सकृत्सर्वार्थज्ञानं परिस्फुटं किं न कुर्वीत परंपरापरिहारश्चैवं स्यान्नान्यथा योगजधर्मात् मनसोनुग्रहस्ततोऽशेषार्थज्ञानमिति परंपराया निष्प्रयोजनत्वात् । करणाद्विना ज्ञानमित्यदृष्टकल्पनत्यागः प्रयोजनमिति चेत् । नन्वेवं सकृत्सर्वार्थसन्निकर्षो मनस इत्यदृष्टकल्पनं तदवस्थानं, सकृत्सर्वार्थज्ञानान्यथानुपपत्तेस्तस्य सिद्धेर्नादृष्टकल्पनेति चेत् न, अन्यथापि तत्सिद्धेः आत्मार्थासन्निकर्षमात्रादेव तदुपपत्तेः । तथाहि । योगिज्ञानं करणक्रमातिवति साक्षात्सर्वार्थज्ञानवत्त्वात् यन्नैवं तन्न तथा यथास्सदादिज्ञानमिति युक्तमुत्पश्यामः । अत एव करणाद्विना ज्ञानमिति दृष्टपरिकल्पनं प्रक्षीणकरणावरणस्य सर्वार्थपरिच्छित्तिः स्वात्मन एव करणत्वोपपत्तेश्च भास्करवत् । न हि भानोः सकलजगन्मंडलप्रकाशनेतिरं करणमस्ति । प्रकाशस्तस्य तत्र करणमिति चेत् , स ततो नार्थातरं । निःप्रकाशत्वापत्तेरन तरमिति चेत्, सिद्धं खात्मनः करणत्वं समर्थितं च कर्तुरनन्यदविभक्तकर्तृकं करणमनेरौष्ण्यादिवदिति नार्थांतरकरणपूर्वकं योगिज्ञानं । नाप्यकरणं येन तदिद्रियजमदृष्टं वा कल्पितं संभवेत् । ये त्वाहुः, इंद्रियानिद्रियप्रत्यक्षमनिंद्रियप्रत्यक्षं चाक्षाश्रितं क्षीणोपशांतावरणस्य क्षीणावरणस्य चात्मनोक्षशब्दवाच्यत्वादनुमानं लिंगापेक्षं शब्दापेक्षं श्रुतमिति प्रत्यक्षानुमानागमाः प्रमाणानि व्यवतिष्ठते अक्षादिसामग्रीभेदादिति तेषां स्मृतिसंज्ञाचिंतानां प्रत्यक्षत्वप्रसंगः क्षीणोपशांतावरणात्मलक्षणमक्षमाश्रित्योत्पत्तिलिंगशब्दानपेक्षत्वाच ॥ प्रत्यक्षं विशदं ज्ञानं योगीतरजनेषु चेत् । स्मरणादेरवैशद्यादप्रत्यक्षत्वमागतम् ॥ १७५ ॥ विशदं ज्ञानं प्रत्यक्षमिति वचने स्मृत्यादेरप्रत्यक्षत्वमित्यायातं । तथा च प्रमाणांतरत्वं लैंगिके शाब्दे वानंतर्भावादप्रमाणत्वानुपपत्तेः । कथम्लिंगशब्दानपेक्षत्वादनुमागमता च न । संवादानाप्रमाणत्वमिति संख्या प्रतिष्ठिता ॥१७६॥ यथा हि स्मरणादेरविसंवादत्वान्न प्रत्यक्षत्वं तथा लिंगशब्दानपेक्षत्वान्नानुमानागमत्वं संवादकत्वान्नाप्रमाणत्वमिति प्रमाणांतरतोपपत्तेः सुप्रतिष्ठिता संख्या त्रीण्येव प्रमाणानीति ॥ एतेनैव चतुःपंचषट्प्रमाणाभिधायिनां । वेष्टसंख्याक्षतिज्ञेया स्मृत्यादेस्तद्विभेदतः ॥१७७॥ येप्यभिदधते प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि चत्वार्येवेति सहार्थापत्त्या पंचैवेति वा सहाभावेन षडेवेति वा, तेषामपि खेष्टसंख्याक्षतिः प्रमाणत्रयवादीष्टसंख्यानिराकरणेनैव प्रत्येतव्या । स्मृत्यादीनां ततो विशेषापेक्षयार्थीतरत्वसिद्धेः । न ह्युपमानेपत्त्यामभावे वा स्मृत्यादयोंतर्भावयितुं शक्याः सादृश्यादिसामग्र्यनपेक्षत्वात् उपमानार्थापत्तिरूपत्वेनवस्थाप्रसंगात् । अभावरूपत्वे सदंशे प्रवर्तकत्वविरोधात् । सादृश्यस्मृत्यादयो हि यद्युपमानरूपास्तदा तदुत्थापकसादृश्यादिस्मृत्यादिभिर्भवितव्यं अन्यथा तस्य तदुत्थापनसामर्थ्यासंभवात् स्मृत्याद्यगोचरस्यापि तदुत्थापनसामर्थ्यतिप्रसंगात् । प्रत्यक्षगोचरचारि सादृश्यमुपमानस्योत्थापकमिति चेन्न, तस्य दृष्टदृश्यमानगोगवयव्यक्तिगतस्य प्रत्यक्षागोचरत्वात् । गोसदृशो गवय इत्यतिदेशवाक्याहितसंस्कारो हि गवयं पश्यत्प्रत्येति गोसदृशोऽयं गवय इति । तत्र गोदर्शनकाले यदि गवयेन सादृश्यं दृष्टं श्रुतं गवयदर्शनसमये स्मर्यते प्रत्यभिज्ञायते च गवयप्रत्ययनिमित्तः सोयं गवयशब्दवाच्य इति संज्ञासंज्ञिसंबंधप्रतिपत्तिनिमित्तं वा तदा सिद्धमेव स्मृत्यादि Page #191 -------------------------------------------------------------------------- ________________ १८२ तत्त्वार्थश्लोकवार्तिके [सू० ११ विषयत्वमुपमानजननस्य सादृश्यस्येति कुतः प्रत्यक्षगोचरत्वं ? यतस्तत्सादृश्यस्मृत्यादेरुपमानत्वे अनवस्था न स्यात् । तथापत्त्युत्थापकस्यानन्यथा भवनस्य परिच्छेदकस्मृत्यादयो यद्यर्थापत्तिरूपास्तदा तदुत्थापका परानन्यथा भवनप्रमाणरूपत्वपरिच्छेदिरपरैः स्मृत्यादिभिर्भवितव्यमित्यनवस्था तासामनुमानरूपत्ववत्प्रतिपत्तव्याः । कथमभावप्रमाणरूपत्वे स्मृत्यादीनां सदंशे प्रवर्तकत्वं विरुध्यत इति चेत् , अभावप्रमाणस्यासदंशनियतत्वादिति ब्रूमः । न हि तद्वादिभिस्तस्य सदंशविषयत्वमभ्युपगम्यते । सामर्थ्यादभ्युपगम्यत इति चेत् , प्रत्यक्षादेरसदंशविषयत्वं तथाभ्युपगम्यतां विशेषाभावात् । एवं चाभावप्रमाणवैयर्थ्यमसदंशस्यापि प्रत्यक्षादिसमधिगम्यत्वसिद्धेः । साक्षादपरभावपरिच्छेदित्वान्नाभावप्रमाणस्य वैयर्थ्यमिति चेत् , तर्हि स्मृत्यादीनामभावप्रमाणरूपाणां साक्षादभावविषयत्वात्सदंशे प्रवर्तकत्वं कथं न विरुद्धं । ततो नोपमानादिषु स्मृत्यादीनामंतर्भाव इति प्रमाणांतरत्वसिद्धेः सिद्धा खेष्टसंख्याक्षतिः चतुःपंचषट्प्रमाणाभिधायिनाम् ॥ तद्वक्ष्यमाणकान् सूत्रद्वयसामर्थ्यतः स्थितः । द्वित्वसंख्याविशेषोत्राकलंकैरभ्यधायि यः १७८ प्रत्यक्षं विशदं ज्ञानं त्रिधा श्रुतमविष्णुतम् । परोक्षं प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ॥१७९।। त्रिधा प्रत्यक्षमित्येतत्सूत्रव्याहतमीक्ष्यते । प्रत्यक्षातींद्रियत्वस्य नियमादित्यपेशलम् ॥१८०॥ अत्यक्षस्य स्वसंवित्तिः प्रत्यक्षस्याविरोधतः । वैशद्यांशस्य सद्भावात् व्यवहारप्रसिद्धितः॥१८१ प्रत्यक्षमेकमेवोक्तं मुख्यं पूर्णेतरात्मकम् । अक्षमात्मानमाश्रित्य वर्तमानमतींद्रियम् ॥ १८२॥ पराप्तहतयाख्यातं परोक्षं तु मतिश्रुतम् । शब्दार्थश्रयणादेवं न दोषः कश्चिदीक्ष्यते ॥ १८३॥ प्रत्यक्षं विशदं ज्ञानं निधेति ब्रुवाणेनापि मुख्यमतींद्रियं पूर्ण केवलमपूर्णमवधिज्ञानं मनःपर्ययज्ञानं चेति निवेदितमेव, तस्याक्षमात्मानमाश्रित्य वर्तमानत्वात् । व्यवहारतः पुनरिंद्रियप्रत्यक्षमनिंद्रियप्रत्यक्षमिति वैशद्यांशसद्भावात् । ततो न तस्य सूत्रव्याहतिः । श्रुतं प्रत्यभिज्ञादि च परोक्षमित्येतदपि न सूत्रविरुद्धं, आद्ये परोक्षमित्यनेन तस्य परोक्षप्रतिपादनात् । अवग्रहेहावायधारणानां स्मृतेश्च परोक्षत्ववचनात् तद्विरोध इति चेन्न, प्रत्यभिज्ञादीत्यत्र वृत्तिद्वयेन सर्वसंग्रहात् । कथं प्रत्यभिज्ञाया आदिः पूर्व प्रत्यभिज्ञादीति स्मृतिपर्यंतस्य ज्ञानस्य संग्रहात् प्राधान्येनावग्रहादेरपि परोक्षत्ववचनात् प्रत्यभिज्ञा आदिर्यस्येति वृत्त्या पुनरभिनिबोधपर्यंतसंगृहीतेन काचित्परोक्षव्यक्तिरसंग्रहीता स्यात् । तत एव प्रत्यभिज्ञादीति युक्तं व्यवहारतो मुख्यतः खेष्टस्य परोक्षव्यक्तिसमूहस्य प्रत्यायनात् अन्यथा स्मरणादि परोक्षं तु प्रमाणे इति संग्रह इत्येवं स्पष्टमभिधानं स्यात् । ततः शब्दार्थाश्रयणान्न कश्चिद्दोषोत्रोपलभ्यते ॥ आये परोक्षम् ॥ ११॥ __ अक्षादात्मनः परावृत्तं परोक्षं ततः परैरिंद्रियादिभिरूक्ष्यते सिंच्यतेभिवर्ध्यत इति परोक्षं । किं पुनस्तत् , आद्ये ज्ञाने मतिश्रुते ॥ कुतस्तयोराद्यता प्रत्येयेत्युच्यते,आये परोक्षमित्याह सूत्रपाठक्रमादिह । ज्ञेयाद्यता मतिर्मुख्या श्रुतस्य गुणभावतः ॥१॥ यस्मादाये परोक्षमित्याह सूत्रकारस्तस्मान्मत्यादिसूत्रपाठक्रमादिहाद्यता ज्ञेया । सा च मतेर्मुख्या कथमप्यनाद्यतायास्तत्राभावात् श्रुतस्याद्यता गुणाभावात् निरुपचरिताद्यसामीप्यादाद्यत्वोपचारात् । अवध्याद्यपेक्षयास्तु तस्य मुख्याद्यतेति चेत् न, मनःपर्ययाद्यपेक्षयावधेरप्याद्यत्वसिद्धेर्मत्यवध्योर्ग्रहणप्रसंगात् द्वित्वनिर्देशस्याप्येवमविरोधात् । केवलापेक्षया सर्वेषामाद्यत्वेपि मत्यादीनां मतिश्रुतयोरिह . Page #192 -------------------------------------------------------------------------- ________________ १८३ प्रथमोऽध्यायः । संप्रत्ययः साहचर्यादिति चेन्न, मत्यपेक्षया श्रुतादीनामनाद्यताया अपि सद्भावामुख्याद्यतानुपपत्तेस्तदवस्थत्वात् । आद्यशब्दो हि यदाद्यमेव तत्प्रवर्तमानो मुख्यः, यत्पुनराधमनाद्यं च कथंचित्तत्र प्रवर्तमानो गौण इति न्यायात्तस्य गुणभावादाद्यता क्रमार्पणायाम् ॥ बुद्धौ तिर्यगवस्थानान्मुख्यं वाद्यत्वमेतयोः । अवध्यादित्रयापेक्षं कथंचिन्न विरुध्यते ॥२॥ परोक्ष इति वक्तव्यमाद्ये इत्यनेन सामानाधिकरण्यादिति चेत् । अत्रोच्यतेपरोक्षमिति निर्देशो ज्ञानमित्यनुवर्तनात् । ततो मतिश्रुते ज्ञानं परोक्षमिति निर्णयः ॥३॥ द्वयोरेकेन नायुक्ता समानाश्रयता यथा । गोदौ ग्राम इति प्रायः प्रयोगस्योपलक्षणात् ॥४॥ प्रमाणे इति वा द्वित्वे प्रतिज्ञाते प्रमाणयोः । प्रमाणमिति वर्तेत परोक्षमिति संगतौ ॥५॥ किं पुनस्तदनुवर्तनासिद्धमित्याह;ज्ञानानुवर्तनात्तत्र नाज्ञानस्य परोक्षता । प्रमाणस्यानुवृत्तेने परोक्षस्याप्रमाणता ॥६॥ अक्षेभ्यो हि परावृत्तं परोक्षं श्रुतमिष्यते । यथा तथा स्मृतिः संज्ञा चिंता चाभिनिबोधिकम् ७ अवग्रहादिविज्ञानमक्षादात्मा विधानतः । परावृत्ततयानातं प्रत्यक्षमपि देशतः ॥८॥ श्रुतं स्मृत्याद्यवग्रहादि च ज्ञानमेव परोक्षं यस्मादानातं तस्मान्नाज्ञानं शब्दादिपरोक्षमनधिगममात्रं वा प्रतीतिविरोधात् ॥ अस्पष्टं वेदनं केचिदर्थानालंबनं विदुः । मनोराज्यादि विज्ञानं यथैवेत्येव दुर्घटम् ॥ ९॥ स्पष्टस्याप्यवबोधस्य निरालंबनताप्तितः । यथा चंद्रद्वयज्ञानस्येति कार्थस्य निष्ठितः ॥१०॥ परोक्षं ज्ञानमनालंबनमस्पष्टत्वान्मनोराज्यादिज्ञानवत् अतो न प्रमाणमित्येतदपि दुर्घटमेव । प्रत्यक्षमनालंबनं स्पष्टत्वाचंद्रद्वयज्ञानादिति तस्याप्यप्रमाणत्वप्रसंगात् । तथा च क्वेष्टस्य व्यवस्था उपायासत्त्वात् ।। अनालंबनता व्याप्तिनं स्पष्टत्वस्य ते यथा । अस्पष्टत्वस्य तद्विद्धि लैंगिकस्यार्थवत्त्वतः ॥११॥ तस्यानर्थाश्रयत्वेर्थे स्यात्प्रवर्तकता कुतः । संबंधाचेन्न तस्यापि तथात्वेनुपपत्तितः ॥ १२ ॥ लिंगलिंगिधियोरेवं पारंपर्येण वस्तुनि । प्रतिबंधात्तदाभासशून्ययोरप्यवंचनम् ॥ १३॥ मणिप्रभामणिज्ञाने प्रमाणत्वप्रसंगतः । पारंपोन्मणौ तस्य प्रतिबंधाविशेषतः ॥ १४ ॥ यथैव न स्पष्टत्वस्यानालंबनतया व्याप्तित्वे खसंवेदनेन व्यभिचारात्तथैवास्पष्टत्वस्यानुमानेनानेकांतात् तस्याप्यनालंबनत्वे कुतोर्थे प्रवर्तकत्वं ? संबंधादिति चेन्न, तस्याप्यनुपपत्तेः । यद्धि ज्ञानं यमर्थमालंबते तत्र तस्य कथं संबंधो नामातिप्रसंगात् । तदनेन यदुक्तं “लिंगलिंगिधियोरेवं पारंपर्येण वस्तुनि । प्रतिबंधात्तदाभासशून्ययोरप्यवंचनं” इति तन्निषिद्धं, खविषये परंपरयापीष्टस्य संबंधस्यानुपपत्तेः सत्यपि संबंधे मणिप्रभायां मणिज्ञानस्य प्रमाणत्वप्रसंगाच्च तदविशेषात् ॥ तच्चानुमानमिष्टं चेन्न दृष्टांतः प्रसिद्धति । प्रमाणत्वव्यवस्थानेनुमानस्यार्थलब्धितः ॥ १५ ॥ न हि खयमनुमानं मणिप्रभायां मणिज्ञानमर्थप्राप्तितोनुमानस्य प्रमाणत्वव्यवस्थितौ दृष्टांतो नाम साध्यवैकल्यात्तथा ॥ मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतः । मिथ्याज्ञानविशेषेपि विशेषोर्थक्रियां प्रति ॥ १६ ॥ यथा तथा यथार्थत्वेप्यनुमानं तदोभयोः । नार्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥१७॥ ततो नास्यानुमानतदाभासव्यवस्था । Page #193 -------------------------------------------------------------------------- ________________ १८४ तत्त्वार्थश्लोकवार्तिके [सू० १२ दृष्टं यदेव तत्प्राप्तमित्येकत्वाविरोधतः । प्रत्यक्षं कस्यचित् तच्चेन्न स्याद्धांतं विरोधतः ॥ १८ ॥ प्रत्यक्षमभ्रांतमिति खयमुपयन् कथं भ्रांतं ज्ञानं प्रत्यक्षं सन्निदर्शनं ब्रूयात् ? ॥ अप्रमाणत्वपक्षेप तस्य दृष्टांतता क्षतिः । प्रमाणांतरतायां तु संख्या न व्यवतिष्ठते ॥ १९ ॥ ततः सालंबनं सिद्धमनुमानं प्रमात्वतः । प्रत्यक्षवद्विपर्यासो वान्यथा स्याद्दुरात्मनाम् ॥ २० ॥ कथं सालंबनत्वेन व्याप्तं प्रमाणत्वमिति चेत् — अर्थस्यासंभवे भावात्प्रत्यक्षेपि प्रमाणताम् । तदव्याप्तं प्रमाणत्वमर्थवत्त्वेन मन्यताम् ॥ २१ ॥ प्राप्यार्थापेक्षयेष्टं चेत्तथाध्यक्षेपि तेस्तु तत् । तथा वाध्यक्षमप्यर्थानालंबनमुपस्थितम् ॥ २२ ॥ प्रत्यक्षं यद्यवस्त्वालंबनं स्यात्तदा नार्थं प्रापयेदितिचेत् अनुमानमवस्त्वेव सामान्यमवलंबते । प्रापयत्यर्थमित्येतत्सचेतानाप्य मोक्षते ॥ २३ ॥ तस्माद्वस्त्वेव सामान्यविशेषात्मकमंजसा । विषयीकुरुतेध्यक्षं यथा तद्वच्च लैंगिकम् ॥ २४ ॥ सर्व हि वस्तु सामान्यविशेषात्मकं सिद्धं तद्व्यवस्थापयत्प्रत्यक्षं यथा तदेव विषयीकुरुते तयानुमानमपि विशेषाभावात् । तथा सति स्मृत्यादिश्रुतपर्यंतमस्पष्टमपि तत्त्वतः । स्वार्थालंबनमित्यर्थशून्यं तन्निभमेव नः || २५ ॥ यदार्थालंबनं परोक्षं तत्प्रमाणमितरत्प्रमाणाभासमिति प्रमाणस्यानुवर्तनात्सिद्धं ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ दे ननु च प्रत्यक्षाण्यन्यानीति वक्तव्यमवध्यादीनां त्रयाणां प्रत्यक्षविधानादिति न शंकनीयं । यस्मात् - मि प्रत्यक्षमन्यदित्याह परोक्षादुदितात्परं । अवध्यादित्रयं ज्ञानं प्रमाणं चानुवृत्तिः ॥ १ ॥ उक्तात्परोक्षादवशिष्टमन्यत्प्रत्यक्षमवधिज्ञानं मनः पर्ययज्ञानं केवलज्ञानमिति संबध्यते ज्ञानमित्यनुवर्तनात् । प्रमाणमिति च तस्यानुवृत्तेः । ततो न प्रत्यक्षाण्यन्यानीति वक्तव्यं विशेषानाश्रयात् सामान्याश्रयणादेवेष्टविशेषसिद्धेर्ग्रथगौरवपरिहाराच्च ॥ ज्ञानग्रहणसंबंधात्केवलावधिदर्शने । व्युदस्येते प्रमाणाभिसंबंधादप्रमाणता || २ ॥ सम्यगित्यधिकाराच्च विभंगज्ञानवर्जनं । प्रत्यक्षमिति शब्दाच्च परापेक्षान्निवर्तनम् ॥ ३ ॥ न क्षमात्मानमेवाश्रितं परमिंद्रयमनिंद्रियं वापेक्षते यतः प्रत्यक्षशब्दादेव परापेक्षान्निवृत्तिर्न भवेत् । तेनेंद्रियानिंद्रियानपेक्षमतीतव्यभिचारं साकारग्रहणमित्येतत्सूत्रोपात्तमुक्तं भवति । ततः । प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमंजसा । द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥ ४॥ सूत्रकारा इति ज्ञेयमाकलंकावबोधने । प्रधानगुणभावेन लक्षणस्याभिधानतः ॥ ५ ॥ यदा प्रधानभावेन द्रव्यार्थात्मवेदनं प्रत्यक्षलक्षणं तदा स्पष्टमित्यनेन मतिश्रुतमिंद्रियानिंद्रियापेक्षं व्युदस्यते, तस्य साकल्येनास्पष्टत्वात् । यदा तु गुणभावेन तदा प्रादेशिकप्रत्यक्षवर्जनं तदपाक्रियते, व्यवहाराश्रयणात् । साकारमिति वचनान्निराकारदर्शनव्युदासः । अंजसेति विशेषणाद्विभंगज्ञानमिंद्रियानिंद्रियप्रत्यक्षाभासमुत्सारितं । तच्चैवंविधं द्रव्यादिगोचरमेव नान्यदिति विषयविशेषवचनाद्दर्शितं । ततः सूत्रवार्तिकाविरोधः सिद्धो भवति । न चैवं योगिनां प्रत्यक्षमसंगृहीतं यथा परेषां तदुक्तं ॥ लक्षणं सममेतावान् विशेषोऽशेषगोचरं । अक्रमं करणातीतमकलंकं महीयसाम् || ६ || 1 Page #194 -------------------------------------------------------------------------- ________________ 0 प्रथमोऽध्यायः । तदस्तीति कुतोऽवगम्यत इति चेत् ; एतच्चास्ति सुनिर्णीतासंभवद्बाधकत्वतः । स्वसंवित्तिवदित्युक्त व्यासतोन्यत्र गम्यताम् ॥ ७ ॥ धर्म्यत्रासिद्ध इति चेन्नोभयसिद्धस्य प्रत्यक्षस्य धर्मित्वात् । तद्धि केषांचिदशेषगोचरं क्रमं करणातीतमिति साध्यतेऽकलंकत्वान्यथानुपपत्तेः । न चाकलंकत्वमसिद्धं तस्य पूर्वं साधनात् । प्रतिनियतगोचरत्वं विज्ञानस्य प्रतिनियतावरण विगमनिबंधनं भानुप्रकाशवत् निःशेषावरणपरिक्षयात् निःशेषगोचरं सिद्ध्यत्येव । ततः एवाक्रमं तत्क्रमस्य कलंकविगमक्रमकृतत्वात् । युगपत्तद्विगमे कुतो ज्ञानस्य क्रमः स्यात् । करणक्रमादिति चेन्न, तस्य करणातीतत्वात् । देशतो हि ज्ञानमविशदं चाक्षमनोपेक्षं सिद्धं न पुनः सकलविषयं परिस्फुटं सकृदुपजायमानमिति । न चैवंविधं ज्ञानं प्रत्यक्षं संभवद्बाधकं, प्रत्यक्षादेरतद्विषयस्य तद्बाधकत्वविरोधात् । तत एव न संदिग्धासंभवद्वाधकं निश्चितासंभवद्बाधकत्वात् । न हि तादृशं प्रत्यक्षं किंचित्संभवद्बाधकमपरमसंभवद्बाधकं सिद्धं येनेदं संप्रति संदेहविषयतामनुभवेत् । कथं वात्यंतमसंदिग्धासंभवद्बाधकं नाम : नियतदेशकालपुरुषापेक्षया निश्चितासंभवद्बाधकत्वेपि देशांतराद्यपेक्षया संदिग्धासंभवद्बाधकत्वमिति चेन्न सुष्ठु तथाभावस्य सिद्धेः । यथाभूतं हि प्रत्यक्षादि प्रमाणमत्रत्येदानींतनपुरुषाणामुत्पद्यमानबाधकं केवलस्य तथाभूतमेवान्यदेशकालपुरुषाणामपीति कुतस्तद्वाघनं संदेहः । यदि पुनरन्यादृशं प्रत्यक्षमन्यद्वा तद्वाधकमभ्युपगम्यते तदा केवले को मत्सरः, केवलेनैव केवलबाधनसंभवात् । ततः प्रसिद्धात्सु निर्णीतासंभवद्बाधकत्वात्स्वसंवेदनवन्महीयसां प्रत्यक्षमकलंकमस्तीति प्रतीयते प्रपंचतोऽन्यत्र तत्समर्थनात् ॥ २४ " प्रत्यक्षं कल्पनापोढमभ्रांतमिति केचन । तेषामस्पष्टरूपा स्यात् प्रतीतिः कल्पनाथवा ॥ ८ ॥ स्वार्थव्यवसितिर्नान्या गतिरस्ति विचारतः । अभिलापवती वित्तिस्तद्योग्या वापि सा यतः ९ अस्पष्टा प्रतीतिः कल्पना, निश्चितिर्वा कल्पना इति परिस्फुटं कल्पना लक्षणमनुक्त्वा अभिलापवती प्रतीतिः कल्पनेत्यादि तल्लक्षणमाचक्षाणो न प्रेक्षावान् ग्रंथगौरवापरिहारात् । न हि काचित्कल्पना स्पष्टास्ति विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता इति वचनात् । खमवती प्रतीतिरस्तीति चेन्न, तस्याः सौगतैरिंद्रियजत्वेनाभ्युपगमात् खप्नातिकेंद्रियव्यापारान्वयव्यतिरेकानुविधानात् मानसत्वे तस्या तदनुपपत्तेः । मरीचिकासु तोयप्रतीतिः स्पष्टेति चेन्न, तस्याः स्वयमस्पष्टत्वेपि मरीचिकादर्शनस्पष्टत्वाध्यारोपात्तथावभासनात् । ततो नाव्यापीदं लक्षणं । नाप्यतिव्यापि क्वचिदकल्पनायाः स्पष्टत्वाभावात् । दूरात्पादपादिदर्शने कल्पनारहितेप्यस्पष्टत्वप्रतीतेरतिव्यापीदं लक्षणमिति चेन्न, तस्य विकल्पास्पष्टत्वेनैकत्वारोपादस्पष्टतोपलब्धेः । खयमस्पष्टत्वे निर्विकल्पकत्वविरोधात् । ततो निरवद्यमिदं कल्पनालक्षणं । एतेन निश्चयः कल्पनेत्यपि निरवद्यं विचारितं, लक्षणांतरेणाप्येवंविधायाः प्रतीतेः कल्पनात्वविधानागत्यंतराभावात् ॥ १८५ तत्राद्यकल्पनापोढे प्रत्यक्षे सिद्धसाधनम् । स्पष्टे तस्मिन्नवैशद्यव्यवच्छेदस्य साधनात् ॥ १० ॥ अस्पष्टप्रतिभासायाः प्रतीतेरनपोहने । प्रत्यक्षस्यानुमानादेर्भेदः केनावबुध्यते ॥ ११ ॥ स्वार्थव्यवसितिस्तु स्यात्कल्पना यदि संमता । तदा लक्षणमेतत्स्यादसंभाव्येव सर्वथा ॥ १२ ॥ दविष्टपादपादिदर्शनस्यास्पष्टस्यापि प्रत्यक्षतोपगमात्कथं अस्पष्टप्रतीति लक्षणया कल्पनयापोढुं प्रत्यक्षमिति वचने सिद्धसाधनमिति कश्चित् । श्रुतमेतन्न प्रत्यक्षं श्रुतमस्पष्टतर्कणं इति वचनात् ततो न दोष इत्यपरः । पादपादिसंस्थानमात्रे दवीयस्यापि स्पष्टत्वावस्थितेः । श्रुतत्वाभावादक्षव्यापारान्वयव्यतिरेकानु Page #195 -------------------------------------------------------------------------- ________________ १८६ तत्त्वार्थश्लोकवार्तिके [सू० १२ विधानाच प्रत्यक्षमेव तत् तथाविधकल्पनापोढुं चेति सिद्धसाधनमेव । न हि सर्वमस्पष्टतर्कणं श्रुतमिति युक्तं स्मृत्यादेः श्रुतत्वप्रसंगात् व्यंजनावग्रहस्य वा । न हि तस्य स्पष्टत्वमस्ति परोक्षत्ववचनविरोधात् अव्यक्तशब्दादिजातग्रहणं व्यंजनावग्रह इति वचनाच मतिपूर्वमस्पष्टतर्कणं श्रुतमित्युपगमे तु सिद्धं स्मृत्यादिमतिज्ञानं व्यंजनावग्रहादि वा श्रुतं दविष्टपादपादिदर्शनं च प्रादेशिकं प्रत्यक्षमिति न किंचिद्विरुध्यते । यदि पुनर्नास्पष्टा प्रतीतिः कल्पना यतस्तदपोहने प्रत्यक्षस्य सिद्धसाधनं । किं तर्हि ? खार्थव्यवसितिः सर्वकल्पनेति मतं तदा प्रत्यक्षलक्षणमसंभाव्यं च तादृशकल्पनापोढस्य कदाचिदसंभवात् व्यवसायात्मकमानसप्रत्यक्षोपगमविरोधश्च । केषांचित्संहृतसकलविकल्पावस्थायां सर्वथा व्यवसायशून्यं प्रत्यक्षं प्रत्यात्मवेद्यं संभवतीति नासंभवि लक्षणमितिचेत् न, असिद्धत्वात् । यस्मात् संहृत्य सर्वतश्चित्तं स्तिमितेनांतरात्मना । स्थितोपि चक्षुषा रूपं स्वं च स्पष्टं व्यवस्यति ॥१३॥ ततो न प्रत्यक्षं कल्पनापोडं प्रत्यक्षत एव सिद्ध्यति, नाप्यनुमानात् । तथाहि पुनर्विकल्पयन् किंचिदासीन्मे स्वार्थनिश्चयः । ईदृगित्येव बुध्येत प्रागिद्रियगतावपि ॥१४॥ ततोन्यथास्मृतिर्न स्यात्क्षणिकत्वादिवत् पुनः । अभ्यासादिविशेषस्तु नान्यः स्वार्थविनिश्चयात् १५ अश्वं विकल्पयतः प्राग्न चेंद्रियगतावपीदृशः खार्थनिश्चयो ममासीदिति पश्चात् स्मरणात्तस्याः खार्थव्यवसायात्मकत्वस्य मानान्न निर्विकल्पकत्वानुमानं नाम । न हींद्रियगतेरध्यवसायात्मकत्वे स्मरणं युक्तं क्षणिकत्वादिदर्शनवत् अभ्यासादेर्गोदर्शनस्मृतिरितिचेन्न, तस्य व्यवसायादन्यस्य विचारासहत्वात् ॥ तदकल्पकमर्थस्य सामर्थ्येन समुद्भवात् । अर्थक्षणवदित्येके न विरुद्धस्यैव साधनम् ॥ १६ ॥ जात्याद्यात्मकभावस्य सामर्थेन समुद्भवात् । सविकल्पकमेव स्यात् प्रत्यक्षं स्फुटमंजसा ॥१७ परमार्थेन विशदं सविकल्पकं प्रत्यक्षं न पुनरविकल्पकं वैशद्यारोपात् । ननु कथं तज्जात्याद्यात्मकादर्थादुपजायेताविकल्पान्न हि वस्तु सत्सु जातिद्रव्यगुणकर्मसु शब्दाः संति तदात्मानो वा येन तेषु प्रतिभासमानेषु प्रतिभासेरन् । न च तत्र शब्दाप्रतीतौ कल्पना युक्ता तस्याः शब्दाप्रतीतिलक्षणत्वादशब्दकल्पनानामसंभवात् । ततो न विरुद्धो हेतुरिति चेत् । अत्रोच्यतेयथावभासतो कल्पात् प्रत्यक्षात्प्रभवन्नपि । तत्पृष्ठतो विकल्पः स्यात् तथाथोक्षाच स स्फुटः॥१८ दर्शनादविकल्पाद्विकल्पः प्रजायते न पुनरर्थादिति कुतो विशेषः । न चाभिलापवत्येव प्रतीतिः कल्पना जात्यादिमत्प्रतीतेरपि तथात्वाविरोधात् । संति चार्थेषु जात्यादयोपि तेषु प्रतिभासमानेषु प्रतिभासेरन् । ततो जात्याद्यात्मकार्थदर्शनं सविकल्पं प्रत्यक्षसिद्धमिति विरुद्धमेव साधनम् ॥ न च जात्यादिरूपत्वमर्थस्यासिद्धमंजसा । निर्वाधबोधविध्वस्तसमस्तारेकि तत्त्वतः ॥ १९॥ जात्यादिरूपत्वे हि भावानां निर्बाधो बोधः समस्तमारेकितं हंतीति किं नश्चिंतया । निर्बाधत्वं पुनर्जात्यादिबोधस्यान्यत्र समर्थितं प्रतिपत्तव्यं ततो जात्याद्यात्मकस्वार्थव्यवसितिः कल्पना स्पष्टा प्रत्यक्षे व्यवतिष्ठते ॥ संकेतस्मरणोपाया दृष्टसंकल्पनात्मिका । नैषा व्यवसितिः स्पष्टा ततो युक्ताक्षजन्मनि ॥२०॥ यदेव हि संकेतस्मरणोपायं दृष्टसंकल्पनात्मकं कल्पनं तदेव पूर्वापरपरामर्शशून्ये चाक्षुषे स्पर्शनादिके वा दर्शने विरुध्यते । न चेयं विशदावभासार्थव्यवसितिस्तथा, ततो युक्ता सा प्रत्यक्षे कुतः पुनरियं न संकेतस्मरणोपायेत्युच्यते ॥ Page #196 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः ! १८७ स्वतो हि व्यवसायात्मप्रत्यक्षं सकलं मतम् । अभिधानाद्यपेक्षायामन्योन्याश्रयणात्तयोः ॥ २१ ॥ सति ह्यभिधानस्मरणादौ क्वचिद्व्यवसाय: सति च व्यवसाये ह्यभिधानस्मरणादीति कथमन्योन्याश्रयणं न स्यात् । स्वाभिधानविशेषापेक्षा एवार्थनिश्चयैर्व्यवसीयते इति ब्रुवन्नार्थमध्यवस्यस्तदभिधानविशेषस्य स्मरति अननुस्मरन्न योजयति अयोजयन्न व्यवस्यतीत्यकल्पकं जगदर्थयेत् । खवचनविरुद्धं चेदं । 'किं च स्वाभिधानविशेषस्य निश्चयो यद्यपेक्षते । स्वाभिलाषांतरं नूनमनवस्था तदा न किम् ॥ २२ ॥ गत्वा सुदूरमप्येवमभिधानस्य निश्चये । स्वाभिलापानपेक्षस्य किमु नार्थस्य निश्चयः ॥ २३ ॥ अभिधानविशेषश्चेत् स्वस्मिन्नर्थे च निश्रयम् । कुर्वन् दृष्टः स्वशक्त्यैव लिंगाद्यर्थेपि तादृशः ॥ २४ ॥ शाब्दस्य निश्चयोर्थस्य शब्दापेक्षोस्त्वबाधितः । लिंगजन्माक्षजन्मा च तदपेक्षोभिधीयते ॥ २५ ॥ ततः प्रत्यक्षमास्थेयं मुख्यं वा देशतोपि वा । स्यान्निर्विकल्पकं सिद्धं युक्त्या स्यात्सविकल्पकं२६ सर्वथा निर्विकल्पत्वे स्वार्थव्यवसितिः कुतः । सर्वथा सविकल्पत्वे तस्य स्याच्छब्दकल्पना २७ न केवलं जैनस्य कथंचित्सविकल्पकं प्रत्यक्षं । किं तर्हि सौगतस्यापीत्याह ;सवितर्कविचारा हि पंच विज्ञानधातवः । निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।। २८ ।। इत्येवं स्वयमिष्टत्वान्नैकांतेनाविकल्पकं । प्रत्यक्षं युक्तमास्थातुं परस्यापि विरोधतः ॥ २९ ॥ विधूतकल्पनाजालं योगिप्रत्यक्षमेव चेत् । सर्वथा लक्षणाव्याप्तिदोषः केनास्य वार्यते ॥ ३० ॥ लौकिकी कल्पनापोढा यतोध्यक्षं तदेव चेत् । शास्त्रीया सास्ति तत्रेति नैकांतेनाविकल्पकम् ३१ तदपाये च बुद्धस्य न स्याद्धर्मोपदेशना । कुट्यादेर्या न सा तस्येत्येतत्पूर्वं विनिश्चितं ॥ ३२ ॥ ततः स्यात्कल्पनाखभावशून्यमभ्रांतं प्रत्यक्षमिति न व्याहतं । ये त्वाहुनेंद्रियानिंद्रियानपेक्षं प्रत्यक्षं तस्य तदपेक्षामंतरेणासंभवादिति तान् प्रत्याह; — नैत येपि चात्ममनोक्षार्थसन्निकर्षोद्भवं विदुः । प्रत्यक्षं नेश्वराध्यक्षं संग्रहस्तैः कृतो भवेत् ॥ ३३ ॥ नेश्वरस्याक्षजज्ञानं सर्वार्थविषयत्वतः । नाक्षैः सर्वार्थसंबंध ः सहैकस्यास्ति सर्वथा ॥ ३४ ॥ योगजाज्ञायते यत्तु ज्ञानं धर्मविशेषतः । न संनिकर्षजं तस्मादिति न व्यापि लक्षणं ॥ ३५ ॥ ननु च योगजाद्धर्मविशेषात् सर्वार्थैरक्षसन्निकर्षस्ततः सर्वार्थज्ञानमित्यक्षार्थसन्निकर्षजमेव तत् । त्सारं । तत्राक्षार्थसन्निकर्षस्य वैयर्थ्यात् । योगजो हि धर्मविशेषः सर्वार्थाक्षसन्निकर्षमुपजनयति न पुनः साक्षात्सर्वार्थज्ञानमिति खरुचिप्रदर्शनमात्रं, विशेषहेत्वभावादित्युक्तप्रत्ययम् ॥ सौत्रादिवृत्तिरध्यक्षमित्यप्येतेन चिंतितं । तस्या विचार्यमाणाया विरोधश्च प्रमाणतः ॥ ३६ ॥ इंद्रियाण्यर्थमालोचयंति तदालोचितं मनः संकल्पयति तत्संकल्पितमहं कारोभिमन्यते तदभिमतं बुद्धिरध्यवसति तदध्यवसितं पुरुषश्चेतयत इति श्रोत्रादिवृत्तिर्हि न सकृत्सर्वार्थविषया यतस्तत्प्रत्यक्षत्वे योगिप्रत्यक्षसंग्रहः स्यात् । न च प्रमाणतो विचार्यमाणा श्रोत्रादिवृत्तिः सांख्यानां युज्यते । सा हि न तावत्पुरुषपरिणामोनभ्युपगमात् नापि प्रधानस्यानंशस्यामूर्तस्य नित्यस्य सा कादाचित्कत्वात् । न ह्यकादाचित्कस्यानपेक्षस्य कादाचित्कः परिणामो युक्तः सापेक्षस्य तु कुतः कौटस्थ्यं नामापेक्षणार्थकृतातिशयस्यावश्यं भावान्निरतिशयत्वविरोधात् कौटस्थ्यानुपपत्तेः ॥ पुंसः सत्संप्रयोगे यदिंद्रियाणां प्रजायते । तदेव वेदनं युक्तं प्रत्यक्षमिति केचन ॥ ३७ ॥ ते न समर्था निराकर्तुं प्रत्यक्षमतींद्रियं प्रत्यक्षतोनुमानादेर्वा सर्वज्ञत्वप्रसंगतः । न सर्वज्ञः सर्वार्थ Page #197 -------------------------------------------------------------------------- ________________ १८८ तत्त्वार्थश्लोकवार्तिके [सू० १३ साक्षात्कारिज्ञानं नास्तीति कुतश्चित्प्रमाणान्निश्चेतुं समर्थ इति प्रतिपादितप्राय । न च तदभावान्निश्चये करणजमेव प्रत्ययमिति नियमः सिद्ध्येत् ॥ तत्वार्थव्यवसायात्मविधा प्रत्यक्षमंजसा । ज्ञानं विशदमन्यत्तु परोक्षमिति संग्रहः ॥ ३८ ॥ मतिः स्मृतिः संज्ञा चिंताभिनिबोध इत्यनांतरम् ॥ १३ ॥ किमर्थमिदमुच्यते । मतिभेदानां मतिग्रहणेन ग्रहणादन्यथातिप्रसंगात् ॥ मत्यादिष्ववबोधेषु स्मृत्यादीनामसंग्रहः । इत्याशंक्याह मत्यादिसूत्रं मत्यात्मनां विदे ॥१॥ मतिरेव स्मृतिः संज्ञा चिंता वाभिनिबोधकम् । नार्थीतरं मतिज्ञानावृतिच्छेदप्रसूतितः॥२॥ यथैव वीर्यातरायमतिज्ञानावरणक्षयोपशमान्मतिरवग्रहादिरूपा सूते तथा स्मृत्यादिरपि ततो मत्यात्मकत्वमस्य वेदितव्यम् ॥ इति शब्दात् किं गृह्यते इत्याह;इति शब्दात्प्रकारार्थाद्वद्धिर्मेधा च गृह्यते । प्रज्ञा च प्रतिभाभावः संभवोपमिती तथा ॥३॥ ननु च कथं मत्यादीनामनांतरत्वं व्यपदेशलक्षणविषयप्रतिभासभेदादिति चेत्कथंचिद्यपदेशादिभेदेप्येतदभिन्नता । न विरोधमधिष्ठातुमीष्टे प्रातीतिकत्वतः ॥ ४॥ न हि व्यपदेशादिभेदेपि प्रत्यक्षव्यक्तीनां प्रमाणांतरत्वं परेषां, नाप्यनुमानादिव्यक्तीनामनुमानादिता खेष्टप्रमाणसंख्या नियमव्याघातात् प्रत्यक्षतानुमानादित्वेन वा । व्यपदेशादिभेदाभावान्न दोष इति चेत् मतिज्ञानत्वेन सामान्यतस्तदभावादविरोधोस्तु । प्रातीतिकी ह्येतेषामभिन्नता कथंचिदिति न प्रतिक्षेपमर्हति । कः कस्य प्रकारः स्यादित्युच्यते; बुद्धिमतेः प्रकारः स्यादर्थग्रहणशक्तिका । मेधा स्मृतेः तथा शब्दस्मृतिशक्तिर्मनखिनाम्॥५॥ ऊहापोहात्मिका प्रज्ञा चिंतायाः प्रतिभोपमा । सादृश्योपाधिके भावे सादृश्ये तद्विशेषणे॥६॥ प्रवर्तमाना केषांचिद् दृष्टा सादृश्यसंविदः । संज्ञायाः संभवाद्यस्तु लैंगिकस्य तथागतेः॥७॥ मतिसामान्यात्मिकापि बुद्धिरिंद्रियानिद्रियनिमित्ता सन्निकृष्टार्थग्रहणशक्तिकावग्रहादिमतिविशेषस्य प्रकारः । यथोक्तशब्दस्मरणशक्तिका तु मेधा स्मृतेः । सा हि केषांचिदेव मनखिनां जायमाना विशिष्टा च स्मरणसामान्यात् । ऊहापोहात्मिका प्रज्ञा चिंतायाः प्रकारः प्रतिभोपमा च सादृश्योपाधिके वस्तुनि केषांचिद्वस्तूपाधिके वा सादृश्ये प्रवर्तमाना संज्ञायाः सादृश्यप्रत्यभिज्ञानरूपायाः प्रकारः, संभवार्थापत्त्यभावोपमास्तु लैंगिकस्य प्रकारस्तथा प्रतीतेः ।। प्रत्येकमितिशब्दस्य ततः संगतिरिष्यते । समाप्तौ चेति शब्दोयं सूत्रेस्मिन्न विरुध्यते ॥८॥ मतिरिति स्मृतिरिति संज्ञेति चिंतेत्यभिनिबोध इति प्रकारो न तदर्थातरमेव मतिज्ञानमेकमिति ज्ञेयं । मत्यादिभेदं मतिज्ञानं मतिपरिसमाप्तं तद्भेदानामन्येषामत्रैवांतर्भावादिति व्याख्येयं गत्यंतरासंभवात् तथा विरोधाभावाच्च । स्मृतिरप्रमाणमेव सा कथं प्रमाणेतर्भवतीति चेन्न, तदप्रमाणत्वे सर्वशून्यतापत्तेः । तथाहिस्मृतेः प्रमाणतापाये संज्ञाया न प्रमाणता । तदप्रमाणतायां तु चिंता न व्यवतिष्ठते ॥९॥ तदप्रतिष्ठितौ कात्र मानं नाम प्रवर्तते । तदप्रवर्तनेध्यक्षप्रामाण्यं नावतिष्ठते ॥१०॥ ततः प्रमाणशून्यत्वात्प्रमेयस्यापि शून्यता। सापि मानाद्विना नेति किमप्यस्तीति साकुलम् ११ Page #198 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १८९ तस्मात्प्रवर्तकत्वेन प्रमाणत्वेत्र कस्यचित् । स्मृत्यादीनां प्रमाणत्वं युक्तमुक्तं च कैश्चन ॥१२॥ अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिंतयेत् । आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥१३॥ अक्षज्ञानैर्विनिश्चित्य प्रवर्तत इति यथा प्रत्यक्षस्य प्रवर्तकत्वमुक्तं तथा स्मृत्वा प्रवर्तत इति स्मृतेरपि प्रत्यभिज्ञाय प्रवर्तत इति संज्ञाया अपि चिंतयत् तत् प्रवर्तत इति तर्कस्यापि आभिमुख्येन तद्भेदान् •विनिश्चित्य प्रवर्तत इत्यभिनिबोधस्यापि ततस्ततः प्रतिपत्तुः प्रवृत्तेर्यथाभासमाकांक्षानिवृत्तिघटनात् । तत्र प्रत्यक्षमेव प्रवर्तकं प्रमाणं न पुनः स्मृतिरिति मतमुपालभते;. अक्षज्ञानैर्विनिश्चित्य सर्व एव प्रवर्तते । इति ब्रुवन् स्खचित्तादौ प्रवर्तत इति स्मृतेः ॥ १४ ॥ कथम्गृहीतग्रहणात्तत्र न स्मृतेश्चेत्प्रमाणता । धारावाह्यक्षविज्ञानस्यैवं लभ्येत केन सा ॥ १५॥ विशिष्टस्योपयोगस्याभावे सापि न चेन्मता । तदभावे स्मरणेप्यक्षज्ञानवन्मानतास्तु नः॥१६॥ स्मृत्या स्वार्थ परिच्छिद्य प्रवृत्तौ न च बाध्यते । येन प्रेक्षावतां तस्याः प्रवृत्तिर्विनिवार्यते १७ स्मृतिमूलाभिलाषादेर्व्यवहारः प्रवर्तकः । न प्रमाणं यथा तद्वदक्षधीमूलिका स्मृतिः ॥१८॥ इत्याचक्षणिको नामानुमामस्त पृथकामा । प्रत्यक्षं तद्धि तन्मूलमिति चार्वाकतागतिः ॥१९॥ योपि प्रत्यक्षमनुमानं च प्रवर्तकं प्रमाणमिति मन्यमानः स्मृतिमूलस्याभिलाषादेरिव व्यवहारप्रवृत्तेहेंतोः प्रत्यक्षमूलस्सरणस्यापि प्रमाणतां प्रत्याक्षीत सोनुमानमपि प्रत्यक्षात्पृथक्प्रमाणं मामस्त तस्य प्रत्यक्षमूलत्वात् । न ह्यप्रत्यक्षपूर्वकमनुमानमस्ति । अनुमानांतरपूर्वकमस्तीति चेन्न, तस्यापि प्रत्यक्षपूर्वकत्वात् । सुदूरमपि गत्वा तस्याप्रत्यक्षपूर्वकत्वेनवस्थाप्रसंगात् । तत्पूर्वत्वे सिद्धे प्रत्यक्षपूर्वकमनुमानमिति न प्रमाणं स्यात् । ततश्च बाधकत्वप्राप्तिरस्य ।। स्वार्थप्रकाशकत्वेन प्रमाणमनुमा यदि । स्मृतिरस्तु तथा नाभिलाषादिस्तदभावतः ॥ २०॥ खार्थप्रकाशकत्वं प्रवर्तकत्वं न तु प्रत्यक्षार्थप्रदर्शकत्वं नाप्यर्थाभिमुखगतिहेतुत्वं तच्चानुमानस्यास्तीति प्रमाणत्वे स्मरणस्य तदस्तु तत एव नाभिलाषादेस्तदभावात् । न हि यथा स्मरणं खार्थस्मर्तव्यस्यैव प्रकाशकं तथाभिलाषादिस्तस्य मोहोदयफलत्वात् ॥ समारोपव्यवच्छेदस्समः स्मृत्यनुमानतः । स्वार्थे प्रमाणता तेन नैकत्रापि निवार्यते ॥२१॥ यथा चानुमायाः क्वचित्प्रवृत्तस्य समारोपस्य व्यवच्छेदस्तथा स्मृतेरपीति युक्तमुभयोः प्रमाणत्वमन्यथाप्रमाणत्वापत्तेः । स्मृतिरनुमानत्वेन प्रमाणमिष्टमेव नान्यथेति चेत् ॥ स्मृतिर्न लैंगिकं लिंगज्ञानाभावेपि भावतः । संबंधस्मृतिवन्न स्यादनवस्थानमन्यथा ॥ २२॥ परापरानुमानानां कल्पनस्य प्रसंगतः। विवक्षितानुमानस्याप्यनुमानांतराजनौ ॥ २३ ॥ संबंधस्मृतेर्खनुमानत्वे स्मर्तव्यार्थेन लिंगेन भाव्यं तस्य तेन संबंधस्त्वभ्युपगंतव्यस्तस्य च स्मरणं परं तस्याप्यनुमानत्वे तथेति परापरानुमानानां कल्पनादनवस्था । न ह्यनुमानांतरादनुमानस्य जनने कचिदवस्था नाम सा संबंधस्मृतिरप्रमाणमेवेति चेत् ॥ नाप्रमाणात्मनो स्मृत्या संबंधः सिद्धमृच्छति । प्रमाणानर्थकत्वस्य प्रसंगात्सर्ववस्तुनि ॥२४॥ न ह्यप्रमाणात् प्रमेयस्य सिद्धौ प्रमाणमर्थवन्नाम । न चाप्रमाणात् किंचित्सिद्ध्यति किंचिन्नेत्यर्धजरतीन्यायः श्रेयान् सर्वत्र तद्विशेषाभावात् ॥ स्मृतिस्तदितिविज्ञानमातीते भवेत्कथम् । स्यादर्थवदिति खेष्टं याति बौद्धस्य लक्ष्यते ॥२५॥ Page #199 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १३ प्रत्यक्षमर्थवन्न स्यादतीतेर्थे समुद्भवत् । तस्य स्मृतिवदेवं हि तद्वदेव च लैंगिकम् ॥ २६ ॥ नार्थाज्जन्मोपपद्येत प्रत्यक्षस्य स्मृतेरिव । तद्वत्स एव तद्भावादन्यथा न क्षणक्षयः ॥ २७ ॥ अर्थाकारत्वतध्यक्षं यदर्थस्य प्रबोधकं । तत एव स्मृतिः किं न स्वार्थस्य प्रतिबोधका ।। २८ ।। अस्पष्टत्वेन चेन्नानुमानेप्येवं प्रसंगतः । प्राप्यार्थेनार्थवत्ता चेदनुमानायाः स्मृतेर्न किम् २९ ततो न सौगतोऽनुमानस्य प्रमाणतामुपयंस्तामपाकर्तुमीशः सर्वथा विशेषाभावात् ॥ १९० मनसा जन्यमानत्वात्संस्कारसहकारिणा । सर्वत्रार्थानपेक्षेण स्मृतिर्नार्थवती यदि ॥ ३० ॥ तदा संस्कार एव स्यात्प्रवृत्तिस्तन्निबंधना । तत्रासंभवतोर्थे व्यक्तमीश्वरचेष्टितम् ॥ ३१ ॥ अनर्थविषयत्वेपि स्मृतेः प्रवर्तमानार्थे प्रवर्तते संस्कारे प्रवृत्तेरसंभवादिति स्फुटं राजचेष्टितं यथेष्टं प्रवर्तमानात् ॥ प्रत्यक्षं मानसं ज्ञानं स्मृतेर्यस्याः प्रजायते । सा हि प्रमाणसामग्रीवर्तिनी स्यात् प्रवर्तिका ॥ ३२ प्रमाणत्वाद्यथा लिंगिलिंगसंबंध संस्मृतिः । लिंगिज्ञानफलेत्याह सामग्रीमानवादिनः ॥ ३३ ॥ तदप्यसंगतं लिंगिज्ञानस्यैव प्रसंगतः । प्रत्यक्षत्वक्षतेर्लिंगतत्फलायाः स्मृतेरिव ॥ ३४ ॥ यस्याः स्मृतेः प्रत्यक्षं मानसं जायते सा तदेव प्रमाणं तत्सामग्र्यंतर्भूतत्वतः प्रवर्तिका स्वार्थे यथानुमानफला संबंधस्मृतिरनुमानमेवेति । वचनसंबंधं प्रमाणमनुमानसामग्र्यंतर्भूतमपीति चेत् — प्रत्यक्षवत्स्मृतेः साक्षात्फले स्वार्थविनिश्चये । किं साधकतमत्वेन प्रामाण्यं नोपगम्यते ||३५|| पारंपर्येण हानादिज्ञानं च फलमीक्ष्यते । तस्यास्तदनुस्मृत्यंतर्याथार्थ्य वृत्तितोर्थिनः ॥ ३६ ॥ ततो न योगोपि स्मृतेरप्रमाणत्वं समर्थयितुमीशः प्रत्यक्षादिप्रमाणत्वं वा, यथोक्तदोषानुषंगात् ॥ प्रत्यभिज्ञाय च स्वार्थ वर्तमानो यतोर्थभाक् । मतं तत्प्रत्यभिज्ञानं प्रमाणं परमन्यथा ॥ ३७ ॥ तद्विधैकत्वसादृश्यगोचरत्वेन निश्चितं । संकीर्णव्यतिकीर्णत्वव्यतिरेकेण तत्त्वतः ॥ ३८ ॥ तेन तु न पुनर्जातमदनांकुरगोचरं । सादृश्यप्रत्यभिज्ञानं प्रमाणं नैकतात्मनि ॥ ३९ ॥ एकत्वगोचरं न स्यादेकत्वे मानमंजसा । न सादृश्ये यथा तस्मिंस्तादृशेयमिति ग्रहः ॥ ४० ॥ न ह्येवं सादृश्यैकत्वप्रत्यभिज्ञानयोः संकरव्यतिकरव्यतिरेको लौकिकपरीक्षकयोरसिद्धोऽन्यत्र विभ्रमात् । ततो युक्तं खविषये नियमेन प्रवर्तकयोः प्रमाणत्वं प्रत्यक्षादिवत् ॥ तदित्यतीतविज्ञानं दृश्यमानेन नैकतां । वेत्ति नेदमिति ज्ञानमतीतेनेति केचन ॥ ४१ ॥ तत्सिद्धसाधनं ज्ञानद्वितयं ह्येतदिष्यते । मानदृष्टेर्थपर्याये दृश्यमाने च भेदतः ॥ ४२ ॥ द्रव्येण तद्बलोद्भूतज्ञानमेकत्वसाधनम् । दृष्टेक्ष्यमाणपर्यायव्यापिन्यन्यत्ततो मतम् ॥ ४३ ॥ न हि सांप्रतिकातीतपर्याययोर्दर्शनस्मरणे एव तत्प्रत्यभिज्ञानं यतो दोषावकाशः स्यात् । किं तर्हि ? तद्व्यापिन्येकत्र द्रव्ये संकलनज्ञानं । नन्वेवं तदनादिपर्यायव्यापि द्रव्यविषयं प्रसज्येत नियामकाभावादिति चेन्न, नियामकस्य सद्भावात् ॥ क्षयोपशमतस्तच्च नियतं स्यात्कुतश्चन । अनादिपर्ययव्यापि द्रव्यसंवित्तितोस्ति नः ॥ ४४ ॥ तया यावत्स्वतीतेषु पर्यायेष्वस्ति संस्मृतिः । केन तद्यापिनि द्रव्ये प्रत्यभिज्ञास्य वार्यते ॥ ४५ ॥ बालकोहं य एवासं स एव च कुमारकः । युवानो मध्यमो वृद्धोऽधुनास्मीति प्रतीतितः ॥४६ स्मृतिः किन्नानुभूतेषु स्वयं भेदेष्वशेषतः । प्रत्यभिज्ञानहेतुः स्यादिति चोद्यं न युक्तिमत् ४७ तादृक्षयोग्यताहानेः तद्भावे त्वस्ति सांगिनां । व्यभिचारी हि तन्नान्यो हेतुः सर्वः समीक्ष्यते ४८ Page #200 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १९१ स्मरणस्य हि नानुभवनमात्रं कारणं सर्वस्य सर्वत्र खानुभूतेर्थे स्मरणप्रसंगात् । नापि दृष्टसजातीयदर्शनं तस्मिन् सत्यपि कस्यचित्तदनुपपत्तेर्वासनाप्रबोधः कारणमिति चेत् कुतः स्यात् । दृष्टसजातीयदर्शनादिति चेन्न तद्भावेपि तदभावात् । एतेनार्थत्वादिस्तद्धेतुः प्रत्याख्यातः, सर्वस्य दृष्टस्य हेतोर्व्यभिचारात् । तदविद्यावासनाप्रहाणं तत्कारणमितिचेत्, सैव योग्यता स्मरणावरणक्षयोशमलक्षणा तस्यां • च सत्यां सदुपयोगविशेषा वासना प्रबोध इति नाममात्रं भिद्यते । ततो यत्रार्थेनुभवः प्रवृत्तस्तत्र स्मरणावरणक्षयोपशमे सत्यंतरंगे हेतौ बहिरंगे च दृष्टसजातीयदर्शनादौ स्मरणस्योत्पत्तिर्न पुनस्तदभावेतिप्रसंगादिति नानादिद्रव्यपर्यायेषु स्वयमनुभूतेष्वपि कस्यचित्स्मरणं, नापि प्रत्यभिज्ञानं तन्निबंधनं तस्य यथा स्मरणं तथा प्रत्यभिज्ञानावरणक्षयोपशमं च प्रादुर्भावादुपपन्नं तद्वैचित्र्यं योग्यतायास्तदावरणक्षयोपशमलक्षणाया वैचित्र्यात् ॥ कुतः पुनर्विचित्रा योग्यता स्यादित्युच्यते ; मलावृतमणेर्व्यक्तिर्यथानेकविधेक्ष्यते । कर्मावृतात्मनस्तद्वद्योग्यता विविधा न किम् ॥ ४९ ॥ स्वावरणविगमस्य वैचित्र्यान्मणेरिवात्मनः खरूपाभिव्यक्तिवैचित्र्यं न हि तद्विरुद्धं । तद्विगमस्तु स्वकारणविशेषवैचित्र्यादुपपद्यते । तद्विगमकारणं पुनर्द्रव्यक्षेत्रकालभवभावलक्षणं यदन्वयव्यतिरेकस्तत्संभावनेति पर्याप्तं प्रपंचेन । सादृश्यैकत्वप्रत्यभिज्ञानयोः सर्वथा निरवद्यत्वात् ॥ नन्वस्त्वेकत्वसादृश्यप्रतीतिर्नार्थगोचरा । संवादाभावतो व्योमकेशपाशप्रतीतिवत् ॥ ५० ॥ सादृश्यप्रत्यभिज्ञैकत्वप्रत्यभिज्ञा च नास्माभिरपहूयते तथा प्रतीतेः केवलं सानर्थविषया संवादाभावादाकाश केशपाशप्रतिभासनवदिति चेत् —— 2 तत्र यो नाम संवादः प्रमाणांतरसंगमः । सोध्यक्षेपि न संभाव्य इति ते क प्रमाणता ॥ ५१ ॥ प्रत्यक्षविषये तावन्नानुमानस्य संगतिः । तस्य स्वलक्षणे वृत्त्यभावादालंबनात्मनि ॥ ५२ ॥ तत्राध्यक्षांतरस्यापि न वृत्तिः क्षणभंगिनि । तथैव सिद्धसंवादस्यानवस्था तथा न किम् ॥५३॥ प्राप्य स्वलक्षणे वृत्तिर्यथाध्यक्षानुमानयोः । प्रत्यक्षस्य तथा किं न संज्ञया संप्रतीयते ॥ ५४ ॥ तयालंवितमन्यच्चेत्प्राप्तमन्यत्स्वलक्षणं । प्रत्यक्षेणानुमानेन किं तदेव भवन्मते ॥ ५५ ॥ गृहीतप्राप्तयोरेवाध्यारोपाच्चेत्तदेव तत् । समानं प्रत्यभिज्ञायां सर्वे पश्यंतु सद्भियः ॥ ५६ ॥ प्रत्यभिज्ञानमानत्वे प्रमाणं नान्यथेत्यपि । तत्र युक्तानुमानस्योत्थानाभावप्रसंगतः ॥ ५७ ॥ तत्र लिंगे तदेवेदमिति ज्ञानं निबंधनम् । लैंगिकस्यानुमानं चेदनवस्था प्रसज्यते ॥ ५८ ॥ लिंगप्रत्यवमर्शेण विना नास्त्येव लैंगिकम् । विभिन्नः सोनुमानाच्चेत्प्रमाणांतरमागतम् ||५९|| न हि लिंगप्रत्यवगमो प्रमाणं ततो व्याप्तिव्यवहारकालभावलिंगसादृश्याव्यवस्थितिप्रसंगात् । तथा चानुमानोदयासंभवस्तत्संभवेतिप्रसंगात् । अप्रमाणात्तदव्यवस्थितौ प्रमाणानर्थक्यप्रसंग इत्युक्तं । ततोनुमानं प्रत्यभिज्ञानं । किं तर्हि प्रमाणांतरं संवादकत्वात् प्रत्यक्षादिवत् । न हि दृश्यप्राप्ययोरेकत्वाध्यारोपेण प्रमाणांतरसंगमलक्षणः संवादः संज्ञायामसिद्धः, प्रत्यक्षादावपि तदसिद्धिप्रसंगात् । एतेनार्थक्रियास्थितिरविसंवादा ( ? ) न प्रत्यभिज्ञाप्रमाणमित्यपि प्रत्युक्तं । तत एव प्रत्यक्षादेरप्रमाणत्वप्रसंगात् । प्रतिपत्तुः परितोषात्संवादस्तत्र प्रमाणतां व्यवस्थापयतीति चेत्, प्रत्यभिज्ञानेपि । न हि ततः प्रवृत्तस्यार्थ - क्रियास्थितौ परितोषो नास्तीति । यदि पुनः बाधकाभावः संवादस्तदभावान्न प्रत्यभिज्ञा प्रमाणमिति मतं तदा न सिद्धो हेतुः संवादाभावादिति । तथाहि Page #201 -------------------------------------------------------------------------- ________________ १९२ तत्त्वार्थश्लोकवार्तिके [सू०१३ संवादो बाधवैधुर्यनिश्चयश्चेत्स विद्यते । सर्वत्र प्रत्यभिज्ञाने प्रत्यक्षादाविवांजसा ॥ ६० ॥ प्रत्यक्षं बाधकं तावन्न संज्ञानस्य जातुचित् । तद्भिन्नगोचरत्वेन परलोकमतेरिव ॥ ६१ ॥ यत्र प्रवर्तते ज्ञानं स्वयं तत्रैव साधकम् । बाधकं वा परस्य स्थानान्यत्रातिप्रसंगतः ॥ ६२ ॥ अदृश्यानुपलब्धिश्च बाधिका तस्य न प्रमा । दृश्या दृष्टिस्तु सर्वत्रासिद्धा तद्गोचरे सदा ॥६३॥ तदेवं न प्रत्यक्षस्वभावानुपलब्धिर्वा बाधिका ॥ यत्सत्तत्सर्व क्षणिकं सर्वथैव विलक्षणं । ततोऽन्यत्र प्रतीघातात्सत्त्वस्यार्थक्रियाक्षतेः ॥ ६४ ॥ अर्थक्रियाक्षतिस्तत्र क्रमवृत्तिविरोधतः । तद्विरोधस्ततोनंशः स्यान्नापेक्षाविघाततः ॥६५॥ इतीयं व्यापका दृष्टिर्नित्यत्वं हंति वस्तुनः । सादृश्यं च ततः संज्ञा बाधिकेत्यपि दुर्घटम् ६६ सत्त्वमिदमर्थक्रियया व्याप्तं सा च क्रमाक्रमाभ्यां तौ वा क्षणिकात्सदृशाच्च निवर्तमानौ स्वव्याप्यामर्थक्रियां निवर्तयतः । सा निवर्तमाना खव्याप्यं सत्त्वं निवर्तयतीति व्यापकानुपलब्धिनित्यस्यासत्त्वं सर्वथा सादृश्यं च साधयंती नित्यत्वसादृश्यविषयस्य प्रत्यभिज्ञानस्य बाधिकास्तीति केचित् । तदेतदपि दुर्घटम् । कुतः क्षणप्रध्वंसिनः संतः सर्वथैव विलक्षणाः । इति व्याप्तेरसिद्धत्वाद्विप्रकृष्टार्थशंकिनाम् ॥६७॥ नित्यानां विप्रकृष्टानामभावे भावनिश्चयात् । कुतश्चियाप्तिसंसिद्धिराश्रयेत यदा तदा ॥६८॥ नेदं नैरात्मकं जीवच्छरीरमिति साधयेत् । प्राणादिमत्त्वतोस्यैवं व्यतिरेकप्रसिद्धितः ॥ ६९॥ यथा विप्रकृष्टानां नित्याद्यर्थानामभावे सत्त्वस्य हेतोः सहाधनिश्चयस्तद्व्याप्तिसिद्धिनिबंधनं तथा विप्रकृष्टस्यात्मनः पाषाणादिस्वभावे प्राणादिमत्त्वस्य हेतोरभावनिश्चयोपि तद्व्याप्तिसिद्धेर्निबंधनं किं न भवेत् ? यतो व्यतिरेक्यपि हेतुर्न स्यात् । न च सत्त्वादस्य विशेषं पश्यामः सर्वथा गमकत्वागमकत्वयोरिति प्राणादिमत्त्वााप्तसिद्धिमुपयतां सत्त्वादेरपि तदसिद्धिर्बलादादापतत्येव । ततो न क्षणिकत्वं सर्वथा विलक्षणत्वं वार्थानां सिद्ध्यति विरुद्धत्वाच्च हेतोः । तथाहि क्षणिकेपि विरुद्यते भावेनंशे क्रमाक्रमौ । स्वार्थक्रिया च सत्त्वं च ततोनेकांतवृत्ति तत् ॥७० सर्वथा क्षणिके न क्रमाक्रमौ परमार्थतः संभवतस्तदसंभवे ज्ञानमात्रमपि स्वकीयार्थक्रियां कुतो यवतिष्ठते ? यतः सत्त्वं ततो विनिवर्तमानं कथंचित्क्षणिकेनेकांतात्मनि स्थितिमासाद्य तद्विरुद्धं न भवेदित्युक्तोत्तरप्रायं । तथा च किं कुर्यादित्याह;निहंति सर्वथैकांतं साधयेत्परिणामिनं । भवेत्तत्र न भावे तत्प्रत्यभिज्ञा कथंचन ॥ ७१॥ द्रव्यपर्यायात्मनि नित्यात्मके वस्तुनि जात्यंतरपरिणामिन्येव द्रव्यतः प्रत्यभिज्ञा सदृशपरिणामतो संभवति सर्वथा विरोधाभावान्न पुनर्नित्यायेकांते विरोधसिद्धेः । तथाहिनित्यैकांते न सा तावत्पौर्वापर्यवियोगतः । नाशकांतेपि चैकत्वसादृश्याघटनात्तथा ॥७२॥ नित्यानित्यात्मके त्वर्थे कथंचिदुपलक्ष्यते । जात्यंतरे विरुध्येत प्रत्यभिज्ञा न सर्वथा ॥७३॥ ततो न प्रत्यभिज्ञायाः किंचिद्बाधकमस्तीति बाधाविरहलक्षणस्य संवादस्य सिद्धेरप्रमाणत्वसाधनमयुक्तं । ननु चैकत्वे प्रत्यभिज्ञा तत्सिद्धौ प्रमाणं संवादात्तत्प्रमाणत्वसिद्धौ ततस्तद्विषयस्यैकत्वस्य सिद्धिरित्यन्योन्याश्रयः । प्रत्यभिज्ञांतरात्प्रथमप्रत्यभिज्ञाविषयस्य साधने तद्विषयस्यापि प्रत्यभिज्ञांतरात्साधनमित्यनवस्थानमिति चेन्न, प्रत्यक्षस्यापि नीलादौ प्रमाणत्वसाधने समानत्वात् । इतरथा हि नीलसंवेदनस्यार्थे नीले सिद्धे प्रमाणता । तत्र तस्यां च सिद्धायां नीलोर्थस्तेन सिद्ध्यति ॥७४॥ Page #202 -------------------------------------------------------------------------- ________________ १९३ प्रथमोऽध्यायः। इत्यन्योन्याश्रितं नास्ति यथाभ्यासबलात्कचित् । स्वतः प्रामाण्यसंसिद्धेरध्यक्षस्वार्थसंविदः७५ तदेकत्वस्य संसिद्धौ प्रत्यभिज्ञा तदाश्रया । प्रमाणं तत्प्रमाणत्वे तया वस्त्वेकता गतिः॥७६॥ इत्यन्योन्याश्रितिर्न स्यात्स्वतः प्रामाण्यसिद्धितः । स्वभ्यासात्प्रत्यभिज्ञायास्ततोन्यत्रानुमानतः ७७ प्रत्यभिज्ञांतरादाद्यप्रत्यभिज्ञार्थसाधने । यानवस्था समा सापि प्रत्यक्षार्थप्रसाधने ॥ ७८ ॥ प्रत्यक्षांतरतः सिद्धा स्वतः सा चेन्निवर्तते । प्रत्यभिज्ञांतरादेतत्तथाभूतानिवर्तताम् ॥ ७९ ॥ ततो नैकत्वं प्रत्यभिज्ञानं सावधं सर्वदोषपरिहारात् ॥ सादृश्यप्रत्यभिज्ञानमेतेनैव विचारितम् । प्रमाणं स्वार्थसंवादादप्रमाणं ततोन्यथा ॥ ८०॥ नन्विदं सादृश्यं पदार्थेभ्यो यदि भिन्नं तदा कुतस्तेषामिति प्रदृश्यते । संबंधत्वाच्चेत् , कः पुनः सादृश्यतद्वतामांतरभूतानामकार्यकारणात्मनां संबंधः ? समवाय इति चेत् , कः पुनरसौ ? न तावत्पदार्थातरमनभ्युपगमात् । अविभ्रमद्भाव इति चेत् सर्वात्मनैकदेशेन वा प्रतिव्यक्ति । सर्वात्मना चेत्सा. दृश्यबहुत्वप्रसंगः । न चैकत्र सादृश्यं तस्यानेकखभावत्वात् । यदि पुनरेकदेशेन सादृश्यं व्यक्तिषु समवेतं तदा सावयवत्वं स्यात् । तथा च तस्य सावयवैः संबंधचिंतायां स एव पर्यनुयोग इत्यनवस्था । यदि पुनरभिन्नं सादृश्यमर्थेभ्योऽभ्युपगम्यते तदापि तस्यैकत्वे तदभिन्नानामर्थानामेकत्वापत्तिरेकस्मादभिन्नानां सर्वथा नानात्वविरोधात् । पदार्थनानात्ववद्वा तस्य नानात्वेभ्योऽनर्थातरस्य सर्वथैकत्व विरोधात् । तथा चोभयोरपि पक्षयोः सादृश्यासंभवः । सादृश्यवतां सर्वथैकत्वे तत्र सादृश्यानवस्थानात् । सादृश्यं सर्वथा नानाचेत् सादृश्यरूपतानुपपत्तेः । सादृश्यमर्थेभ्यो भिन्नाभिन्नमिति युक्तं विरोधादुभयदोषानुषंगाच्च । तदर्थेभ्यो येनात्मना भिन्नं तेनैवाभिन्नं विरुध्यते । परेण भिन्नं तदन्येनाभिन्नमित्यवधारणात्तदुभयदोषप्रसक्तिः । संशयवैयधिकरण्यादयोपि दोषास्तत्र दुर्निवारा एवेति सादृश्यस्य विचारासहत्वात् कल्पनारोपितत्वमेव तद्विषयं च प्रत्यभिज्ञानं खार्थे संवादशून्यं न प्रमाणं नामातिप्रसंगात् । कल्पनारोपितादेव खार्थसंवादाप्रमाणत्वे मनोराज्यादिविकल्पकलापस्य प्रमाणत्वानुषंगात् तादृक्संवादस्य सद्भावादिति कश्चित् तं प्रत्याह; भेदाभेदविकल्पाभ्यां सादृश्यं येन दृष्यते । वैसादृश्यं कुतस्तस्य पदार्थानां प्रसिध्यतु ॥८१॥ विसदृशानां भावो हि वैसादृश्यं तच्च पदार्थेभ्यो भिन्नमभिन्न भिन्नाभिन्नं वा स्यादतोऽन्यगत्यभावात् । सर्वथा सादृश्यपक्षभावी दोषो दुर्निवार इति कुतस्तत्सिद्धिः । सादृश्यवद्वैसदृशमपि न परमार्थमर्थक्रियाशून्यत्वात् खलक्षणस्यैव सत्त्वस्य परमार्थत्वात् । तस्यार्थक्रियासमर्थत्वादितिचेत् , न वैसदृशसादृश्यत्यक्तं किंचित्खलक्षणं प्रमाणसिद्धमस्तीह यथा व्योमकुशेशयं । प्रत्यक्षसंविदि प्रतिभानं स्पष्टं स्खलक्षणमिति चेत् समानाकारता स्पष्टा प्रत्यक्ष प्रतिभासते । वर्तमानेषु भावेषु यथा भिन्नस्वभावता ॥ ८२॥ इदानींतनतया प्रतिभासमाना हि भावास्तेषु यथा परस्परं भिन्नरूपं प्रत्यक्षे स्पष्टमवभासते तथा समानमपीति सदृशेतरात्मकं स्खलक्षणसिद्धमन्यथा व्योमारविंदवत्तस्यानवभासनात् । स्पष्टावभासित्वं समानस्य रूपस्य भ्रांतमितिचेत् , भिन्नस्य कथमभ्रांतं । बाधकामावादिति चेत् , सामान्यस्पष्टावभासित्वे किं बाधकमस्ति ? न तावत्प्रत्यक्षं खलक्षणानि पश्यामीति प्रयतमानसस्यापि स्थूलस्थिराकारस्य साधनस्य स्फुटं दर्शनात् । तदुक्तं । “यस्य स्खलक्षणान्येकं स्थूलमक्षणिकं स्फुटम् । यद्वा पश्यति वैशचं तद्विद्धि सदृशस्मृतेः ॥” इति । नाप्यनुमानं लिंगाभावात् । खखभावस्थितलिंगादुत्पन्न भिन्नखलक्षणानुमान २५ Page #203 -------------------------------------------------------------------------- ________________ १९४ तत्त्वार्थश्लोकवार्तिके [सू० १३ - सादृश्यज्ञानवैशद्यस्य बाधकज्ञानमिति चेन्न तस्याविरुद्धत्वात् । तथाहि – सदृशेतर परिणामात्मकाः सर्वे भावाः खभावव्यवस्थितेरन्यथानुपपत्तेः । स्वस्वभावो हि भावानामबाधितप्रतीतिविषयः समानेतरपरिणामात्मकत्वं तस्य व्यवस्थितिरुपलब्धिस्तस्यैव साधिका न पुनरन्यत्र भिन्नस्य स्वलक्षणस्य जातुचिदनुपलभ्यमानस्य हेत्वसिद्धिप्रसंगात् । तेन हेतवस्तत्र प्रत्युक्ताः । ते हि यथोपलभ्यं ते तथा तैरुररीक्रियते अन्यथा वा ? प्रथमपक्षे विरुद्धाः साध्यविपरीतस्य साधनात्तस्यैव सत्त्वादिखभावेनोपलभ्यते । यदि पुनः पराभितस्वलक्षणस्वभावाः सत्त्वादयो मतास्तदा तेषामसिद्धिरेव । न च खयमसिद्धास्ते साध्यसाधनायालं न त्वयं दोषः सर्वहेतुषु स्यात् । तथाहि — धूमोऽनग्निजन्यरूपो वा हेतुरग्निजन्यत्वे साध्येऽन्यथारूपो वा ? प्रथमपक्षे विरुद्धस्तस्यानग्निजन्यत्वसाधनात् । सोग्निजन्यरूपस्तु न सिद्ध इति कुतः साध्यसाधनः । यदि पुनर्विवादापन्नविशेषणापेक्षो धूमः कंठादिविकारकारित्वादिप्रसिद्धखभावो हेतुरिति मतं तदा सत्त्वादयोपि तथा हेतवो न विरुद्धा नाप्यसिद्धा इति चेन्नैतत्सारं, सत्त्वादिहेतूनां विवादापन्नविशेषणापेक्षस्य प्रसिद्धखभावस्यासंभवात् । अर्थक्रियाकारित्वं प्रसिद्धः खभावस्तेषामितिचेत् न, तस्यापि हेतुत्वात् तत्प्रत्यक्षतोतिक्रमात्तद्दोषानुषंगस्य भावात् तदवस्थत्वात् । सत्त्वादिसामान्यस्य साध्येतरस्वभावस्य सत्त्वादिति चेन्न, अनेकांतत्वप्रसंगात् साध्येतरयोस्तस्य भावात् । न च परेषां सत्त्वादिसामान्यं प्रसिद्धं स्वलक्षणैकांतोपगमविरोधात् । कल्पितं सिद्धमितिचेत् व्याहतमिदं सिद्धं परमार्थसदभिधीयते तत्कथं कल्पितमपरमार्थसदिति न व्याहन्यते । न च कल्पितस्य हेतुत्वं अर्थो ह्यर्थ गमयतीति वचनात् । न च प्रतीयते स्वलक्षणात्मकोर्थो यस्य हेतुत्वं धर्मः कल्पते यस्तु प्रतीयते नासावर्थोऽभिमत इति । किंच तल्लिंगमाश्रित्य क्षणिक परमाणुखलक्षणानुमानं प्रवर्तेत यत्सादृश्यज्ञानवैशद्यप्रतिभासस्य बाधकं स्यात् । ततो विध्वस्तबाधं वैसादृश्यज्ञानवत्सादृश्यवैशद्यमिति । परमार्थसत्सादृश्यं प्रत्यभिज्ञानस्य विषयभावमनुभवत्येकत्ववत् ॥ तदविद्याबलादिष्टा कल्पनैकत्वभासिनी । सादृश्यभासिनी चेति वागविद्योदयाद्भुवम् ॥ ८३ ॥ तदेवं निर्बाधबोधाधिरूढे प्रसिद्धेप्येकत्वे सादृश्ये च भावानां कल्पनैवेयमेकत्वसादृश्यावभासिनी दुरंतानाद्यविद्योपजनिता लोकस्येति ब्रुवाणः परमदर्शनमोहोदयमेवात्मनो ध्रुवमवबोधयति, सहक्रमादिपर्यायव्यापिनो द्रव्यस्यैकत्वेन सुप्रतीतत्वात् । सादृश्यस्य च पर्यायसामान्यस्य प्रतिद्रव्यव्यक्तिव्यवस्थितस्य समाना इति प्रत्ययविषयस्योपचारादेकत्वव्यवहारभाजः सकलदोषासंस्पृष्टस्य सुस्पष्टत्वात् । ततस्तद्विषयप्रत्यभिज्ञानसिद्धिरनवद्यैव ॥ 1 संबंधं व्याप्तितोर्थानां विनिश्चित्य प्रवर्तते । येन तर्कः स संवादात् प्रमाणं तत्र गम्यते ॥ ८४ ॥ येन हि प्रत्ययेन प्रतिपत्ता साध्यसाधनार्थानां व्यात्या संबंधं निश्चित्यानुमानाय प्रवर्तते स तर्कः संबंधे संवादात्प्रमाणमिति मन्यामहे । कुतः पुनरयं संबंधो वस्तु सत् सिद्धो यतस्तर्कस्य तत्र संवादात् प्रमाणत्वं कल्पितो हि संबंधस्तस्य विचारासहत्वादित्यत्रोच्यते संबंधो वस्तु सन्नर्थक्रियाकारित्वयोगतः । स्वेष्टार्थतत्त्ववत्तत्र चिंता स्यादर्थभासिनी ॥ ८५ ॥ का पुनः संबंधस्यार्थक्रिया नाम ॥ येयं संबंधितार्थानां संबंधवशवर्तिनी । सैवेष्टार्थक्रिया तज्ज्ञैः संबंधस्य स्वधीरपि ॥ ८६ ॥ सति संबंधेर्थानां संबंधिता भवति नासतीति तदन्वयव्यतिरेकानुविधायिनी या प्रतीता सैवार्थक्रिया तस्य तद्विद्भिरभिमता यथा नीलान्वयव्यतिरेकानुविधायिनी कचिन्नीलता नीलस्यार्थक्रिया तस्यास्तत्साध्य - Page #204 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १९५ त्वात् । संबंधज्ञानं च संबंधस्यार्थक्रिया नीलस्य नीलज्ञानवत् । तदुक्तं । मत्या तावदियमर्थक्रिया यदुत खविषयविज्ञानोत्पादनं नामेति ॥ विशिष्टार्थान् परित्यज्य नान्या संबंधितास्तिचेत् । तदभावे कुतोर्थानां प्रतितिष्ठेविशिष्टता ८७ स्वकारणवशादेषा तेषांचेत् सैव संमता । संबंधितेति भिद्येत नाम नार्थः कथंचन ॥ ८८ ॥ • न हि संबंधाभावेाः परस्परं संबद्धा इति विशिष्टता तेषां प्रतितिष्ठत्यतिप्रसंगात् । स्वकारणवशात् केषांचिदेव संबंधप्रत्ययहेतुतासमानप्रत्ययहेतुतावदितिचेत् सैव संबंधिता तद्वदिति नाममात्रं भिद्यते न पुनरर्थः प्रसाधितश्च संबंधः परमार्थिकोऽर्थानां प्रपंचतः प्राक् संबंधितास्य मानव्यवस्थितिहेतुरित्यलं विवादेन निर्बाधं संबंधितायाः खबुद्धेः खार्थक्रियायाः संबंधस्य व्यवस्थानात् । पावकस्य दाहाद्यर्थक्रियावत् संवेदनस्य खरूपप्रतिभासनवद्वा तस्या वासनामात्रनिमित्तत्वे तु सर्वार्थक्रिया सर्वस्य वासनामात्रहेतुका स्यादिति न किंचित्परमार्थतार्थक्रियाकारीति कुतो वस्तुत्वव्यवस्था परितोषहेतोः पारमार्थिकत्वेप्युक्तं खप्नोपलब्धस्य तत्त्वप्रसंगात् इति न हि तत्र परितोषः कस्यचिन्नास्तीति सर्वस्य सर्वदा सर्वत्र नास्त्ये. वेति चेत् जाग्रद्दशार्थक्रियायास्तर्हि सुनिश्चितासंभवबाधकत्वात् परमार्थसत्त्वमित्यायातं । तथा चार्थानां संबंधितार्थक्रियासंबंधस्य कथं परमार्थसतीति न सिद्ध्येत् । न हि तत्र कस्यचित्कदाचिबाधकप्रत्यय उच्यते येन सुनिश्चितासंभवबाधकत्वं न भवेत् । सर्वथा संबंधाभाववादिनस्तत्रास्ति बाधकप्रत्यय इति चेत्, सर्वथा शून्यवादिनस्तत्त्वोपप्लववादिनो ब्रह्मवादिनो वा जाग्रदुपलब्धार्थक्रियायां किं न बाधकप्रत्ययः । स तेषामविद्याबलादिति चेत् संबंधितायामपि तत एव परेषां बाधकप्रत्ययो न प्रमाणबलादिति निर्विवादमेतत् यतः सैव तर्कात् संबंधं प्रतीत्य वर्तमानोर्थानां संबंधितामाबाधमनुभवति ।। तत्तकस्याविसंवादोनुमा संवादनादपि । विसंवादे हि तर्कस्य जातु तन्नोपपद्यते ॥ ८९ ॥ __ न हि तर्कस्यानुमाननिबंधने संबंधे संवादाभावेनुमानस्य संवादः संभविनिश्चितः संवादस्तर्कस्य नास्ति विप्रकृष्टार्थविषयत्वादितिचेत् तर्कसंवादसंदेहे निःशंकानुमितिः क ते । तदभावे न चाध्यक्षं ततो नेष्टव्यवस्थितिः॥९॥ तस्मात्प्रमाणमिच्छद्भिरनुमेयं वसंबलात् । चिंता चेति विवादेन पयोप्तं बहुनात्र नः ॥९१॥ सर्वेण वादिना ततः खेष्टसिद्धिः प्रकर्तव्या अन्यथा प्रलापमात्रप्रसंगात् । सा च प्रमाणसिद्धिमन्वाकर्षति तदभावे तदनुपपत्तेः । तत्र प्रत्यक्षं प्रमाणमवश्यमभ्युपगच्छतानुमानमुररीकर्तव्यमन्यथा तस्य सामस्त्येनाप्रमाणव्यवच्छेदेन प्रमाणसिध्ययोगात् । निःसंदेहमनुमानं छेदत्सता साध्यसाधनसंबंधग्राहि प्रमाणमसंदिग्धमेषितव्यमिति तदेव च तर्कः ततस्तस्य च संवादो निःसंदेह एव सिद्धोऽन्यथा प्रलापमात्रमहेयोपादेयमश्लीलविजंभितमायातीति पर्याप्तमत्र बहुभिर्विवादैरूहसंवादसिद्धेरुल्लंघनार्हत्वात् ॥ गृहीतग्रहणात्तर्कोऽप्रमाणमितिचेन्न वै । तस्यापूर्वार्थवेदित्वादुपयोगविशेषतः ॥ ९२ ॥ प्रत्यक्षानुपलंभाभ्यां संबंधो देशतो गतः । साध्यसाधनयोस्तोत्सामस्त्येनेति चिंतितम्॥१३॥ प्रमांतरागृहीतार्थप्रकाशित्वं प्रपंचतः । प्रामाण्यं च गृहीतार्थवाहित्वेपि कथंचन ॥ ९४॥ किं च । लिंगज्ञानाद्विना नास्ति लिंगिज्ञानमितीष्यति । यथा तस्य तदायत्तवृत्तिता न तदर्थिता॥१५॥ प्रत्यक्षानुपलंभादेविनानुभूतितस्तथा । तर्कस्य तज्ज्ञता जातु न तद्गोचरतः स्मृता ॥ ९६ ॥ न हि यद्यदात्मलाभकारणं तत्तस्य विषय एव लिंगज्ञानस्य लिंगिज्ञानविषयत्वप्रसंगात् प्रत्यक्षस्य च Page #205 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १३ चक्षुरादिगोचरतापत्तेः । स्वाकारार्पणक्षमकारणं विषय इति चेत् कथमिदानी प्रत्यक्षानुपलंभयोस्तात्मलाभनिमित्तयोर्विषयं खाकारमनर्पयतमूहाय साक्षात्कारणभावं चानुभवतं तर्कविषयमाचक्षतीत ? तथाचक्षाणो वा कथमनुमाननिबंधनस्य लिंगज्ञानस्य विषयमनुमानगोचरतया प्रत्यक्षं प्राचक्षीत ? न चेद्विक्षिप्तः । ततो न प्रत्यक्षानुपलंभार्थग्राही तर्कः । सर्वथा कथंचित्तदर्थवाहित्वं तु तस्य नाप्रमाणतां विरुणद्धि प्रत्यक्षानुमानवदित्युक्तं ॥ समारोपव्यवच्छेदात्स्वार्थे तर्कस्य मानता । लैंगिकज्ञानवन्नैव विरोधमनुधावति ॥ ९७ ॥ प्रवृत्तश्च समारोपः साध्यसाधनयोः कचित् । संबंधे तर्कतो मातुर्व्यवच्छेद्येत कस्यचित् ॥९८॥ संवादकोप्रसिद्धार्थसाधनस्तद्व्यवस्थितः । समारोपछिदूहोत्र मानं मतिनिबंधनः ॥ ९९ ॥ प्रमाणमूहः संवादकत्वादप्रसिद्धार्थसाधनत्वात् समारोपव्यवच्छेदित्वात्प्रमाणभूतमतिज्ञाननिबंधनत्वादनुमानादिवदिति सूक्तं बुद्ध्यामहे । ननूहो मतिः स्वयं न पुनर्मतिनिबंधन इति चेन्न, मतिविशेषस्य तस्य पूर्वमतिविशेषनिबंधनत्वाविरोधात् साधनस्यासिद्धत्वायोगात् । न च तन्निबंधनत्वं प्रमाणत्वेन व्याप्तमनुमानेन स्वयं प्रतिपन्नं लिंगज्ञानं मतिविशेषपूर्वकत्वस्य प्रमाणत्वव्याप्तस्य तत्र प्रतीतेर्व्यभिचाराभावात् । श्रुतेन व्यभिचार इति चेन्न, तस्य प्रमाणत्वव्यवस्थापनात् । तदव्यभिचारिणो मतिनिबंधनवात्संवादकत्वादेवोहः प्रमाणं व्यवतिष्ठत एव ॥ ननूहस्यापि संबंधे स्वार्थे नाध्यक्षतो गतिः । साध्यसाधनसंबंधे यथा नाप्यनुमानतः ॥१०॥ तस्योहांतरतः सिद्धौ कानवस्थानिवारणं । तत्संबंधस्य चासिद्धौ नोहः स्यादिति केचन १०१ ननुहस्यापि खार्थैरूदैः संबंधोभ्युपगंतव्यस्तस्य च साध्यसाधनस्येव नाध्यक्षाद्गतिस्तावतो व्यापारात् कर्तुमशक्तेः सन्निहितार्थग्राहित्वाच्च सविकल्पस्यापि प्रत्यक्षस्य । नाप्यनुमानतोऽनवस्थाप्रसंगात् तस्यापि ह्यनुमानस्य प्रवृत्तिर्लिंगलिंगिसंबंधनिश्चयात् स चोहात्तस्यापि प्रवृत्तिः स्वार्थसंबंधनिश्चायात् सोप्यनुमानांतरादिति तस्योहांतरासिद्धौ केयमनवस्थानिवृत्तिः । यदि पुनरयमूहः खार्थसंबंधसिद्धिमनपेक्षमाणः खविषये प्रवर्तते तदानुमानस्यापि तथा प्रवृत्तिरस्त्विति व्यर्थमूहपरिकल्पनमिति कश्चित् ॥ तन्न प्रत्यक्षवत्तस्य योग्यताबलतः स्थितेः । स्वार्थप्रकाशकत्वस्य कान्यथाध्यक्षनिष्ठितिः॥१०२ योग्यताबलादूहस्य खार्थप्रकाशकत्वं व्यवतिष्ठत एव पत्यक्षवत् । न हि प्रत्यक्षं खविषयसंबंधग्रहणापेक्षमनवस्थाप्रसंगात् । तथाहि ग्राह्यग्राहकभावो वा संबंधोन्योपि कश्चन । स्वार्थे न गृह्यते केन प्रत्यक्षस्येति चिंत्यताम् १०३ प्रत्यक्षस्यापि खार्थे संबंधो ग्राह्यग्राहकभावः कार्यकारणभावो वाभ्युपगंतव्य एवान्यथा ततः खार्थप्रतिपत्तिनियमायोगादतिप्रसंगात् । स च यदि गृहीत एवाध्यक्षप्रवृत्तिनिमित्तं तदा केन गृह्यत इति चिंत्यं खेन प्रत्यक्षांतरेणानुमानेन वा ॥ स तच्चत्तादृशाकारा प्रतीतिः स्वात्मनिष्ठिता । नासो घटोयमित्येवमाकारायाः प्रतीतितः१०४ प्रत्यक्षांतरतश्चेन्नाप्यनवस्थानुषंगतः । तत्संबंधस्य चान्येन प्रत्यक्षेण विनिश्चयात् ॥ १०५॥ नानुमानेन तस्यापि प्रत्यक्षायत्तता स्थितः । अनवस्थाप्रसंगस्य तदवस्थत्वतस्तराम् ॥ १०६ ॥ स्वसंवेदनतः सिद्धे स्वार्थसंवेदनस्य चेत् । संबंधोक्षधियः स्वार्थे सिद्ध कश्चिदतींद्रियः ॥१०७॥ क्षयोपशमसंज्ञेयं योग्यतात्र समानता । सैव तर्कस्य संबंधज्ञानसंवित्तितः स्वतः ॥ १०८ ॥ न प्रत्यक्षं स्वार्थे संबंधग्रहणापेक्षं प्रवर्तते कचिदकस्मात्तत्प्रवृत्तिदर्शनात् । किं तर्हि । तस्य खसंवेद Page #206 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। १९७ नादिवत्स्वार्थग्रहणसिद्धिः खतोतींद्रियः कश्चित्संबंधः । खार्थानुमानः सिद्ध्येदितिचेत् सैव योग्यता खावरणक्षयोपशमाख्या प्रत्यक्षस्यार्थप्रकाशनहेतुरिह समायाता । तर्कस्यापि खयं व्याप्तिग्रहणानुभवात्तज्ज्ञानावरणक्षयोपशमरूपा योग्यतानुमीयमाना सियतु प्रत्यक्षवदनवस्थापरिहारस्यान्यथा कर्तुमशक्तेः । ननु च यथा तकस्य खविषयसंबंधग्रहणमनपेक्षमाणस्य प्रवृत्तिस्तथानुमानस्यापि सर्वत्र ज्ञाने खावरण.क्षयोपशमस्य स्वार्थप्रकाशनहेतुरविशेषात् । ततोनर्थकमेव तत्संबंधग्रहणाय तर्कपरिकल्पनमितिचेत् , सत्यमनुमानस्यापि खयोग्यता ग्रहणनिरपेक्षकमनुमेयार्थप्रकाशनं न पुनरुत्पत्तिलिंगलिंगिसंबंधग्रहणनिर. पेक्षास्त्यगृहीततत्संबंधस्य प्रतिपत्तुः कचित्कदाचिदनुत्पत्तिनिश्चयात् । नैवं प्रत्यक्षस्योत्पत्तिरपि करणार्थसंबंधग्रहणापेक्षा खयमगृहीततत्संबंधस्यापि पुनस्तदुत्पत्तिदर्शनात् । तद्वदूहस्याप्यतींद्रियात्मार्थसंबंधग्रहणनिरपेक्षस्योत्पत्तिदर्शनान्नोत्पत्तावपि संबंधग्रहणापेक्षत्वमिति युक्तं तर्कः ॥ प्रमाणविषयस्यायं साधको न पुनः स्वयं । प्रमाणं तर्क इत्येतत्कस्यचिद्याहतं मतम् ॥१०९॥ प्रमाणविषये शुद्धिः कथं नामाप्रमाणतः । प्रमेयांतरतो मिथ्याज्ञानाच्चैतत्प्रसंगतः ॥ ११०॥ यथा संशयितार्थेषु प्रमाणानां प्रवर्तनं । निर्णयाय तथा लोके तर्कितेष्विति चेन्मतम्॥१११॥ संशयः साधकः प्राप्तः प्रमाणार्थस्य ते तथा । नाप्रमाणत्वतस्तर्कः प्रमाणमनुमन्यताम्॥११२॥ स चेत्संशयजातीयः संशयात्पृथगास्थितः । कथं पदार्थसंख्यानं नान्यथास्त्विति त्वश्रुते११३ तस्मात्प्रमाणकर्तव्यकारिणो वेदितात्मनः । सत्तकस्याप्रमाणत्वमवितळ प्रचक्ष्यते ॥ ११४॥ प्रमाणं तर्कः प्रमाणकर्तव्यकारित्वात् प्रत्यक्षादिवत् प्रत्ययसाधनं प्रमाणकर्तव्यं तत्कारी च तर्कः प्रसिद्ध इति नासिद्धो हेतुः । नाप्यनैकांतिकोऽप्रमाणे विपक्षे वृत्त्यभावात् । न हि प्रमेयांतरं संशयादि या प्रमाणविषयस्य साधनं विरोधात् । ततस्तर्कस्थप्रमाणविषयसाधकत्वमिच्छता प्रमाणत्वमुपगंतव्यम् । किं च सम्यक् तर्कः प्रमाणं स्यात्तथानुग्राहकत्वतः। प्रमाणस्य यथाध्यक्षमनुमानादि चाश्रुते ॥११५॥ अनुग्राहकता व्याप्ता प्रमाणत्वेन लक्ष्यते । प्रत्यक्षादौ तथाभासे नागमानुग्रहक्षतेः ॥११६ ॥ यस्मिन्नर्थ प्रवृत्तं हि प्रमाणं किंचिदादितः । तत्र प्रवृत्तिरन्यस्य यानुग्राहकतात्र सा ॥११७॥ पूर्वनिर्णीतदायस्य विधानादभिधीयते । उत्तरेण तु तद्युक्तमप्रमाणेन जातुचित् ॥ ११८ ॥ खयं प्रमाणानामनुग्राहकं तर्कमिच्छन्नाप्रमाणं प्रतिपत्तुं समर्थो विरोधात् । प्रमाणसामग्र्यंतर्भूतः कश्चित्तर्कः प्रमाणमिष्ट एवेति चेन्न, तस्य स्वयं प्रमाणत्वोपपत्तेः । तथाहि-प्रमाणं तर्कः साक्षात्परंपरया च स्वार्थनिश्चयने फले साधकतमत्वात्प्रत्यक्षवत् खविषयभूतस्य साध्यसाधनसंबंधाज्ञाननिवृत्तिरूपे साक्षात्वार्थनिश्चयने फले साधकतमस्तकः परंपरया तु स्वार्थानुमाने हानोपादानोपेक्षाज्ञाने वा प्रसिद्ध एवेत्युपसंह्रियते ॥ ततस्तर्कः प्रमाणं नः स्यात्साधकतमत्वतः । स्वार्थनिश्चयने साक्षादसाक्षाच्चान्यमानवत् ॥११९ साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः । प्रधानगुणभावेन विधानप्रतिषेधयोः ॥ १२० ॥ अन्यथानुपपत्त्येकलक्षणं तत्र साधनं । साध्यं शक्यमभिप्रेतमप्रसिद्धमुदाहृतम् ॥ १२१ ॥ तत्साध्याभिमुखो बोधो नियतः साधने तु यः। कृतोनिंद्रिययुक्तेनाभिनिबोधः स लक्षितः१२२ साध्याभावासंभवनियमलक्षणात्साधनादेव शक्याभिप्रेताग्रसिद्धत्वलक्षणस्य साध्यस्यैव यद्विज्ञानं तदनुमानमाचार्या विदुः यथोक्तहेतुविषयद्वारकविशेषणयोरन्यतरस्थानुमानत्वाप्रतीतेः । स एव वाभिनि Page #207 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १३ बोध इति लक्षितः । साध्यं प्रत्यभिमुखस्य नियमितस्य च साधनेनानिद्रिययुक्तेनाभिबोधस्याभिनिबोधत्वात् । ननु मतिज्ञानसामान्यमभिनिबोधः प्रोक्तो न पुनः खार्थानुमानं तद्विशेष इति चेन्न, प्रकरणविशेषाच्छब्दांतरसंनिधानादेर्वा सामान्यशब्दस्य विशेषे प्रवृत्तिदर्शनात् गोशब्दवत् । तेन यदा कृतषट्त्रिंशत्रिशतभेदमाभिनिबोधिकमुच्यते तदाभिनिबोधसामान्य विज्ञायते, यदा त्ववग्रहादिमतिविशेषानभिधाय ततः पृथगभिनिबोध इत्युच्यते तदा खार्थानुमानमिति इंद्रियानिद्रियाभ्यां नियमितस्यासर्वपर्यायद्रव्यं प्रत्यभिमुखस्य बोधस्यास्याभिनिबोधिकव्यपदेशादभिनिबोध एवाभिनिबोधिकमिति खार्थेकस्य ठणो विधानात् । न च तदनिद्रियेण लिंगापेक्षेणं नियमितं साध्यार्थाभिमुखं बोधनमाभिनिबोधिकमिति विरुध्यते, तल्लक्षणवाक्ये वाक्यांतरोपप्लवात् । न तु नैकलक्षणाल्लिंगाल्लिंगिनि ज्ञानमनुमानं यदभिनिबोधशब्देनोच्यते । किं तर्हि । त्रिरूपाल्लिंगादनुमेये ज्ञानमनुमानमिति परमतमुपदर्शयन्नाह;निश्चितं पक्षधर्मत्वं विपक्षे सत्त्वमेव च । सपक्ष एव जन्मत्वं तत्रयं हेतुलक्षणम् ॥ १२३॥ केचिदाहुर्न तद्युक्तं हेत्वाभासेपि संभवात् । असाधारणतापायाल्लक्षणत्वविरोधतः ॥ १२४ ॥ असाधारणो हि स्वभावो भावलक्षणमव्यभिचारादग्नेरौष्ण्यवत् । न च त्रैरूप्यस्यासाधारणता तद्धेतौ तदाभासेपि तस्य समुद्भवात् । ततो न तद्धेतुलक्षणं युक्तं पंचरूपत्वादिवत् ॥ कुत एव तदित्युच्यते वक्तृत्वादावसार्वज्ञसाधने त्रयमीक्ष्यते । न हेतुत्वं विना साध्याभावासंभूष्णुतां यतः॥१२५॥ इदमिह संप्रधार्य त्रैरूप्यमानं वा हेतोर्लक्षणं विशिष्टं वा त्रैरूप्यमिति ? प्रथमपक्षेन तदसाधारणहेत्वाभासेपि तावदादित्वलक्षणमेव बुद्धोसर्वज्ञो वक्तृत्वादे रथ्यापुरुषवदिल्यत्र हेतोः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे वासत्त्वं । सर्वज्ञो वक्ता पुरुषो वा न दृष्ट इति । न च गमकत्वमन्यथानुपपन्नत्वविरहात् । विशिष्टं त्रैरूप्यं हेतुलक्षणमिति चेत् कुतो न तदविशिष्टं ? ॥ सर्वज्ञत्वेन वक्तृत्वं विरुद्धं न विनिश्चितं । ततो न तस्य हेतुत्वमित्याचक्षणकः स्वयम्॥१२६।। तदेकलक्षणं हेतोर्लक्षयत्येव तत्त्वतः । साध्याभावविरोधो हि हेतोर्नान्यस्ततो मतः ॥१२७॥ तदिष्टौ तु त्रयेणापि पक्षधर्मादिनात्र किं । तदभावेपि हेतुत्वसिद्धेः कचिदसंशयम् ॥१२८॥ साध्याभावविरोधित्वाद्धेतुस्त्रैरूप्यमविशिष्टकर्तृत्वादिति वदन्नन्यथानुपपन्नत्वमेव विशिष्टत्वमभ्युपगच्छति साध्याभावविरोधित्वस्यैवान्यथानुपपन्नत्वनियमव्यपदेशात् । तथा पक्षधर्मत्वमेकमन्यथानुपपन्नत्वेन विशिष्टं सपक्षे सत्त्वं वा विपक्षासत्त्वमेव वा निश्चितं साध्यसाधनायालमिति कितन्त्रयेण समुदितेन कर्तव्यं यतस्तद्धेतुलक्षणमाचक्षीत । न हिपक्षधर्मत्वशून्योयं हेतुः सादेकलक्षणः । उदेष्यच्छकटं व्योम कृत्तिकोदयवत्त्वतः ॥ १२९ ॥ इति प्रयोगतः पक्षधर्मतामेष्यते यदि । तदा धूमोनिमानेष धूमत्वादितिगद्यताम् ॥१३० ॥ ततः स्वभावहेतुः स्यात्सर्वो लिंगस्त्रिवान्न ते । यदि लोकानुरोधेन भिन्नाः संबंधभेदतः।।१३१॥ विषयस्य च भेदेन कायोद्यनुपलब्धयः । किं न तादात्म्यतज्जन्मसंबंधाभ्यां विलक्षणात १३२ अन्यथानुपपन्नत्वाद्धेतुः स्यात्कृत्तिकोदयः ।। यथैव हि लोकः कार्यस्वभावयोः संबंधभेदात्ततोनुपलभस्य च विषयभेदा दमनुरुध्यते तथाविनाभावनियममात्रात्कार्यादिहेतुत्रयात्कृत्तिकोदयादि हेतोरपीति कथमसौं चतुर्थी हेतुने स्यात् । न ह्यत्र लोकस्यानुरोधनवचो बाधकादिति शक्यं वक्तुं बाधकासंभवात् । नन्विदमन्यथानुपपन्नत्वं नियतं संबंधेन व्याप्तं तदभावे तत्संभवेतिप्रसंगात् सोपि तादात्म्यतज्जन्मभ्यामतादात्म्यवतस्तजन्मनो वा संबंधानुपपत्तेः। Page #208 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १९९ ततः कृत्तिकोदयादौ साध्ये न तादात्म्यस्य तदुत्पत्तेर्वा वैधुर्ये कुतः संबंधस्तदभावे कुतोन्यथानुपपन्नत्वनियमो येन स गमको हेतुः स्यादिति व्यापकानुपलंभो बाधकस्तत्र लोकानुरोधस्य प्रतीयते कृत्तिकोदयादेर्गमकत्वं हेतुत्वनिबंधनं तदेवान्यथानुपपन्नत्वं साधयति तदपि संबंध सोपि तादात्म्यतज्जन्मनोरन्यतरं । तत्र तदुत्पत्तिर्वर्तमानभविष्यतोः कृत्तिकोदयशकटोदययोः परस्परमन्वयव्यतिरेकानुविधानासंभवान्न 'युज्यत एव तादात्म्यं तु व्योम्नः शकटोदयवत्त्वे साध्ये कृत्तिकोदयवत्त्वं शक्यं कल्पयितुं साधनधर्ममात्रानुबंधिनः साध्यधर्मस्य तदात्मत्वोपपत्तेः । यत एव बाह्यालोकतमोरूपभूतसंघातस्य व्योमव्यवहाराहस्य कृत्तिकोदयवत्त्वं तत एव भविष्यच्छकटोदयवत्त्वं हेत्वंतरानपेक्षत्वादेः सिद्धं न तन्मानानुबंधित्वमनित्यत्वं नित्यत्वस्य कृतकत्वमात्रानुबंधित्ववदिति केचित्तान् प्रत्याह; नान्यथानुपपन्नत्वं ताभ्यां व्याप्तं निक्षेपणात् । संयोग्यादिषु लिंगेषु तस्य तत्त्वपरीक्षकैः १३३ अर्वाग्भागोऽविनाभावी परभागेन कस्यचित् । सोपि तेन तथा सिद्धः संयोगी हेतुरीदृशः१३४ ।। सानादिमानयं गोत्वागौर्वा सानादिमत्त्वतः । इत्यन्योन्याश्रयीभावः समवायिषु दृश्यते १३५ चंद्रोदयोऽविनाभावी पयोनिधिविवर्धनैः । तानि तेन विनाप्येतत्संबंधद्वितयादिह ॥ १३६ ॥ एवंविधं रूपमिदमामत्वमेव रसत्वादित्येकार्थसमवायिनो वृक्षोयं शिंशपात्वादित्येतस्य वा तदुत्पत्तितादात्म्यबलादविनाभावित्वं । नास्त्यत्र शीतस्पर्शोमेरिति विरोधिनस्तादात्म्यबलात्तदिति खमनोरथं प्रथयतोपि संयोगिसमवायिनोर्यथोक्तयोस्ततोन्यस्य च प्रसिद्धस्य हेतोर्विनैव ताभ्यामविनाभावित्वमायातं । नास्त्येवात्राविनाभावित्वं विनियतमित्येतदाशंक्य परिहरन्नाह; संयोगिना विना वह्निः स्वेन धमेन दृश्यते । गवा विना विषाणादिः समवायीति चेन्मतिः१३७ कारणेन विना खेन तस्मादव्यापकेन च । वृक्षत्वेन क्षते किं न चूतत्वादिरनेकशः ॥१३८॥ ततो यथाविनाभूते संयोगादिन लक्ष्यते । व्यापको व्यभिचारत्वात्तादात्म्यात्तत्तथा न किम् १३९ देशकालाद्यपेक्षश्चेद्भमादेर्वह्निसाधनः । चूतत्वादिर्विशिष्टात्मा वृक्षत्वज्ञापको मतः ॥ १४० ॥ संयोगादि विशिष्टस्तनिश्चितः साध्यसाधनः । विशिष्टता तु सर्वस्य सान्यथानुपपन्नता॥१४१॥ सोयं कार्यादिलिंगस्याविशिष्टस्यागमकतामुपलक्ष्य कार्यस्वभावैर्यावद्भिरविनाभाविकारणे तेषां हेतुः खभावाभावेपि भावमात्रानुविरोधिनि "इष्टं विरुद्धकार्येपि देशकालाद्यपेक्षणं । अन्यथा व्यभिचारी स्याद्भस्मे वा शीतसाधन" इत्यादिवचनेन खयं विशिष्टतामुपपन्ने यथा हेतोर्गमकत्वमविनाभावनियमेन व्याप्तमाचष्टे विनाभावनियमं तदभावेपि तत्संभवादन्यथा तस्य तेन विशेषणानर्थक्यात् । ततः संयोगादिरप्यविनाभावनियमविशिष्टो गमको हेतुरित्यभ्युपगंतुमर्हति विशिष्टतायाः सर्वत्रान्यथानुपपत्तिरूपत्वसिद्धेरिति न तदुत्पत्तितादात्म्याभ्यामन्यथानुपपन्नत्वं व्याप्तं । तद्विशिष्टाभ्यां व्याप्तमिति चेत् तन्यथानुपपन्नत्वेनान्यथानुपपन्नत्वं व्याप्तमित्यायातं । तच्च न सारं तस्यैव तेनैव व्याप्यव्यापकभावविरोधात् व्याप्यव्यापकयोः कथंचिद्भेदप्रसिद्धेः। "व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च" इति तयोविरुद्धधर्माध्यासवचनात् । अथ मतं ताभ्यां संबंधो व्याप्तस्तेनान्यथानुपपन्नत्वमिति । तदप्यविचारितमेव, तव्यतिरिक्तस्य संयोगादेः संबंधस्य सद्भावात् । कार्यकारणभावयोरसंयोगादिरूपकार्योपकारकभावमंतरेण क्वचिदप्यभावादिति चेन्न, नित्यद्रव्यसंयोगाद्देशांतरेणैव भावात् । न च नित्यद्रवां न संभवेत् क्षणिकपरिणामवत्तस्य प्रमाणसिद्धत्वात् तदवश्यं सर्वसंबंधव्यक्तीनां व्यापकस्तदुत्पत्तितादात्म्याभ्यामन्य एवाभिधातव्यो योग्यतालक्षण इत्याह; Page #209 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १३ योग्यताख्यश्च संबंधः सर्वसंबंधभेदगः । स्यादेकस्तद्वशाल्लिंगमेकमेवोक्तलक्षणम् ॥ १४२ ॥ विशेषतोपि संबंधद्वयस्यैवाव्यवस्थितेः । संबंधषवन्नातो लिंगेयत्ता व्यवस्थितेः ॥१४३॥ तद्विशेषविवक्षायामपि संख्यावतिष्ठते । न लिंगस्य परैरिष्टा विशेषाणां बहुत्वतः ॥ १४४ ॥ संबंधत्वसामान्यं सर्वसंबंधभेदानां व्यापकं न योग्यताख्यः संबंध इत्यचोद्यं, प्रत्यासत्तेरिह योग्यतायाः सामान्यरूपयोः खयमुपगमात् । सैवान्यथानुपपत्तिरित्यपि न मंतव्यं प्रत्यासत्तिमात्रे कचित्सत्यपि तदभावात् । न हि द्रव्यक्षेत्रकालभावप्रत्यासत्तयः सर्वत्र कार्यकारणभावसंयोगादिरूपाः सत्योप्यविनाभावरहिता न दृश्यते ततः संबंधवशादपि सामान्यतोन्यथानुपपत्तिरेकैवेति तल्लक्षणमेकं लिंगमनुमंतव्यं । विशेषतोपि संबंधद्वयस्य तादात्म्यतजन्माख्यस्याव्यवस्थानात् । संयोगादिसंबंधषटूवत्तदव्यवस्थाने च कुतो लिंगेयत्तानियम इति तद्विशेषविवक्षायामपि न परैरिष्टा लिंगसंख्यावतिष्ठते विशेषाणां बहुत्वात् । परेष्टसंबंधसंख्यामतिकामंतो हि संबंधविशेषास्तदिष्टलिंगसंख्यां विघटयंत्येव खेष्टविशेषयोः शेषविशेषाणामंतर्भावयितुमशक्तेः विषयस्य विधिप्रतिषेधरूपस्य भेदाल्लिंगभेदस्थितिरित्यपीष्टं तत्संख्याविरोध्येव । यस्मात्यथैवास्तित्वनास्तित्वे भिद्यते गुणमुख्यतः । तथोभयं क्रमेणेष्टमक्रमेण त्ववाध्यता ॥ १४५॥ अवक्तव्योत्तरा शेषास्त्रयो भंगाश्च तत्त्वतः । सप्त चैवं स्थिते च स्युस्तद्वशाः सप्तहेतवः ॥१४६॥ विरोधान्नोभयात्मादिरर्थश्चेन्न तथेक्षणात् । अन्यथैवाव्यवस्थानात्प्रत्यक्षादिविरोधतः ॥१४७॥ निराकृतनिषेधो हि विधिः सर्वात्मदोषभाक । निर्विधिश्च निषेधः स्यात्सर्वथा स्वव्यथाकरः१४८ ननु च यथा भावाभावोभयाश्रितस्त्रिविधो धर्मः शब्दविषयोनादिवासनोद्भूतविकल्पपरिनिष्ठित एव न बहिः खलक्षणात्मकस्तथा स्यादवक्तव्यादि परमार्थतोसन्नेवार्थक्रियारहितत्वान्मनोराज्यादिवत् न च सर्वथा कल्पितोर्थो मानविषयो नाम येन तद्भेदात्सप्तविधो हेतुरापाद्यते इत्यत्रोच्यते नानादिवासनोद्भूतविकल्पपरिनिष्ठितः । भावाभावोभयाद्यर्थ स्पष्टं ज्ञानेवभासनात् ॥१४९॥ शब्दज्ञानपरिच्छेद्योपि पदार्थोस्पष्टतयावभासमानोपि नैकांततः कल्पनारोपितखार्थक्रियाकारित्वान्निधिमनुभूयते किं पुनरध्यक्षे स्पष्टमवभासमानो भावाभावोभयादिरर्थ इति परमार्थसन्नेव ॥ भावाभावात्मकोनार्थः प्रत्यक्षेण यदीक्षितः । कथं ततो विकल्पः स्याद्भावाभावावबोधनः१५० नीलदर्शनतः पीतविकल्पो हि न ते मतः । भ्रांतेरन्यत्र तत्त्वस्य व्यवस्थितिमदीप्सितः॥१५१॥ तद्वासनाप्रबोधाचेद्भावाभावविकल्पना । नीलादिवासनोबोधात्तद्विकल्पवदिष्यते ॥ १५२ ॥ भावाभावेक्षणं सिद्धं वासनोद्बोधकारणं । नीलादिवासनोद्धोधहेतुतदृष्टिवत्ततः ॥१५३ ॥ यथा नीलादिदर्शनं नीलादिवासनोबोधस्य कारणमिष्टं तथा भावाभावोभयाद्यर्थदर्शनं तद्वासनाप्रबोधस्य खयमेषितव्यमिति भावाद्यर्थस्य प्रत्यक्षतः परिच्छेदः सिद्धः ॥ यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता । कान्यथा स्यादनाश्वासाद्विकल्पस्य समुद्भवे ॥ १५४ ॥ यदि हि भावादिविकल्पवासनायाः प्रबोधकारणमाभोगायेव न पुनर्भावादिदर्शनं तदा नीलादिविकल्पवासनयापि न नीलादिदर्शनं प्रबोधनिबंधनमाभोगशब्दयोरेव तत्कारणत्वापत्तेः । एवं च नीलादौ दर्शनाभावेपि विकल्पवासनायाः संभवात् सर्वत्र प्रत्यक्षपृष्ठभाविनो विकल्पस्य सामर्थ्यात्प्रत्यक्षस्य प्रमाणतावस्थापनेऽनाश्वास एव स्यात् । खलक्षणदर्शनप्रभवो विकल्पस्तत्प्रमाणताहेतुर्न सर्व इति चेन्नान्योन्याश्रयप्रसंगात् । तथाहि-सिद्धे खलक्षणदर्शनप्रभवत्वे विकल्पस्य ततस्तद्दर्शनप्रमाणतासिद्धिः Page #210 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः ! तत्सिद्धौ च स्वस्य खलक्षणदर्शनप्रभवत्वसिद्धिरिति नान्यतरस्यापि तयोर्व्यवस्था । स्वलक्षणदर्शनप्रभवत्वं नीलादिविकल्पस्य स्वसंवेदनादेव सिद्धं सर्वेषां विकल्पस्य प्रत्यात्मवेद्यत्वात् ततो नान्योन्याश्रय इति चेत्, तर्हि भावाभावोभयादिविकल्पस्याप्यलिंगजस्य शब्दजस्य च भावादिदर्शनप्रभवत्वं स्वसंवेदनादेव कुतो न सिद्ध्येत् ? सर्वथा विशेषाभावात् । तदयं नीलाद्यर्थं पारमार्थिकमिच्छता चाद्यमवितथोपगंतुमर्हत्येवेति तदनुमाने सप्त हेतवः स्युः । यतश्चैवं कृत्तिकोदयादेः कथंचित्प्रतीत्यतिक्रमेण खभावहेतुत्वं ब्रुवतः सर्वः स्वभावहेतुः स्यादेक एव । संबंधभेदात्तद्भेदं साधयतः सामान्यतो विशेषतश्च खेष्टलिंगसंख्याक्षतिः । विषयभेदाच्च तद्भेदमिच्छतः सप्तविधो हेतुरर्थस्यास्तित्वादिसप्त रूपतयानुमेयत्वोपपत्तेः ॥ तस्मात्प्रतीतिमाश्रित्य हेतुं गमकमिच्छता । पक्षधर्मत्वशून्योस्तु गमकः कृत्तिकोदयः ॥ १५५॥ पल्वलोदकनैर्मल्यं तदागस्त्युदये स च । तत्र हेतुः सुनिर्णीतः पूर्व शरदि सन्मतः ॥ १५६ ॥ चंद्रादौ जलचंद्रादि सोपि तत्र तथाविधः । छायादिपादपादौ च सोपि तत्र कदाचन । १५७ पर्णकोयं स्वसद्धेतुर्बलादाहेति दूरगे । कार्यकारणभावस्याभावेपि सहभाविता ।। १५८ ॥ पित्रोर्ब्राह्मणता पुत्रब्राह्मण्ये पक्षधर्मकः । सिद्धो हेतुरतो नायं पक्षधर्मत्वलक्षणः ।। १५९ ।। २०१ नन्वाकाशकालादेर्धर्मित्वे भविष्यच्छकटोदय पल्वलोदकनैर्मल्यादेः साध्यत्वे कृत्तिकोदयत्वागस्त्युदयादेर्हेतुत्वे पक्षधर्मत्वयुक्तस्यैव हेतुत्वमतो नापक्षधर्मत्वलक्षणो हेतुः कश्चिदिति चेत्, किमेवं चाक्षुषस्वादिः शब्दानित्यत्वहेतुर्न स्यात् ? न हि जगतो वा धर्मचाक्षुषत्वं महानसधूमः पक्षधर्मः । तथाहिब्दानित्ययोगि जगच्चाक्षुषत्वयोगित्वात् महोदधि जगन् महानसधूमयोगित्वादिति कथं न चाक्षुषत्वं शब्दानित्यत्वं साधयेत् महानसधूमो वा महोदधौ वह्निं तथा त्वया संभवादिति चेत् कृत्तिकोदयादेः कुतोन्वयसंभवः पूर्वोपलब्धाकाशादेर्दृष्टांतस्य सद्भावादन्वयः सिद्ध्यतीति चेत्, पूर्वोपलब्धजगतो दृष्टांतस्य सिद्धेश्वाक्षुषत्वयोगित्वादेरन्वयोस्तु विशेषाभावात् तथाप्यस्याविनाभावासंभवाद्गमकत्वे विनाभावखभावमेव पक्षधर्मत्वं गमकत्वांगं लिंगस्य लक्षणं । तथा च न धर्मधर्मिसमुदायः पक्षो नापि तत्तद्धर्मी तद्धर्मत्वस्याविनाभावस्वभावत्वाभावात् । किं तर्हि, साध्य एव पक्ष इति प्रतिपत्तव्यं तद्धर्मत्वस्यैवाविनाभावित्वनियमादियुच्यते ॥ साध्यः पक्षस्तु नः सिद्धस्तद्धर्मो हेतुरित्यपि । तादृक्षपक्षधर्मत्वसाधनाभाव एव वै ॥ १६० ॥ कथं पुनः साध्यस्य धर्मस्य धर्मो हेतुस्तस्याधर्मित्वप्रसंगादिति चेत् न, तेनाविनाभावात्तस्य धर्म इत्यभिधानात् । न हि साध्याधिकरणत्वात्साध्यधर्मः हेतुर्येन साध्यधर्मा धर्मी स्यात् । ततः साध्याविनाभावी हेतुः पक्षधर्म इति स्याद्वादिनामेव पक्षधर्मत्वं हेतोर्लक्षणमविरुद्धं स्पष्टमविनाभावित्वस्यैव तथाभिधानात् । तच्च कृत्तिकोदयादिषु साध्यधर्मिण्यसत्स्वपि यथा प्रतीतिर्विद्यत एवेति किमाकाशादिधर्मपरिकल्पनया प्रतीत्यतिलंघनापरयातिप्रसंगिन्या । तथा च न परिकल्पितं पक्षधर्मत्वं हेतोर्लक्षणं नाप्यन्वय इत्यभि - धीयते ॥ निःशेषं सात्मकं जीवच्छरीरं परिणामिना । पुंसा प्राणादिमत्त्वस्य त्वन्यथानुपपत्तित: १६१ सपक्ष सत्त्वशून्यस्य हेतोरस्य समर्थनात् । नूनं निश्चीयते सद्भिर्नान्वयो हेतुलक्षणम् ।। १६२ ।। न चादर्शनमात्रेण व्यतिरेकः प्रसाध्यते । येन संशयहेतुत्वं रागादौ वक्तृतादिवत् ॥ १६३ ॥ आत्माभावो हि भस्मादौ तत्कार्यस्यासमीक्षणात् । सिद्धः प्राणाद्यभावश्च व्यतिरेकविनिश्चयः १६४ २६ -श Page #211 -------------------------------------------------------------------------- ________________ २०२ तत्त्वार्थश्लोकवार्तिके [सू० १३ वाकक्रियाकारभेदादेरत्यंताभावनिश्चितः । निवृत्तिनिश्चिता तज्ज्ञैः चिंता व्यावृत्तिसाधनी १६५ सर्वकार्यासमर्थस्य चेतनस्य निवर्तनं । ततश्चेत्केन साध्येत कूटस्थस्य निषेधनम् ॥ १६६ ॥ __ यथा हि सर्वकारणासमर्थ चैतन्यं कार्याभावाद्भस्मादौ निषेद्धुमशक्यं तथा कूटस्थमपि क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् ॥ - क्षणिकत्वेन न व्याप्तं सत्त्वमेवं प्रसिद्ध्यति । संदिग्धव्यतिरेकाच ततोसिद्धिः क्षणक्षये ॥१६७॥ चेतनाचेतनार्थानां विभागश्च न सिद्ध्यति । चित्तसंताननानात्वं निजसंतान एव वा ॥१६८॥ न वेद्यवेदकाकारविवेकोतः स्वसंविदः । सर्वकार्येष्वशक्तस्य स त्वसंभवभाषणे ॥ १६९ ।। न संति चेतनेप्वचेतनास्तद्वेदनादिकार्यासत्त्वात् । तथा न संत्यचेतनार्थेषु चेतनास्तित एवेति चेतनाचेतनविभागो न सिद्ध्यत्येव सर्वकार्यकरणासमर्थानां तेषां तत्र निषेद्धुमशक्तेः । चेतनार्था एव संतु तथा विज्ञानवादावताराजडस्य प्रतिभासयोगादिति चेन्न, तथा विज्ञानसंतानानां नानात्वाप्रसिद्धेः । क्वचिच्चित्तसंततेः संतानांतराणां सर्वकार्यकरणासमर्थानां खकार्यासत्त्वेपि सत्त्वाविरोधात् । मा भूत्संतानांतरसिद्धिस्तथेष्टेरितिचेन्न, निजसंतानस्याप्यसिद्धिप्रसंगात् । वर्तमानचित्तक्षणे संवेद्यमाने पूर्वोत्तरचित्तक्षणानामनुभवमात्रमप्यकुर्वतां प्रतिषेद्भुमशक्यत्वादेकचित्तक्षणात्मकत्वापत्तेः । न चैकः क्षणः संतानो नाम तत एव संवेदनाद्वैतमस्तु उत्तमं पानद्वयमिति वचनात् । नेदमपि सिद्ध्यति वेद्यवेदकाकारविवेकस्याव्यवस्थानात् । संवेदने वेद्यवेदकाकारौ न स्तः स्वयमप्रतिभासनादिति न शक्यं वक्तुमप्रतिभासमानयोः सत्त्वविरोधात् । ततः क्वचित्कस्यचित्प्रतिभासनादेः स्वकार्यस्याभावादभावसाधने भस्मादौ चैतन्यस्य खकार्यनिवृत्तिनिश्चयादभावो निश्चेतव्य इति विपक्षे बाधकप्रमाणादेव प्राणादिमत्त्वस्य व्यतिरेकः साध्यते न पुनरदर्शनमात्रेण यतः संशयहेतुत्वं रागादौ वक्तृत्वादेरिव स्यात् । न चैवमपरिणामिनात्मना सात्मकं जीवच्छरीरस्य सिध्यति । यतः- परिणामिनमात्मानमंतरेण क्रमाक्रमौ । न स्यातां तदभावे च न प्राणादिक्रिया कचित्१७० तत्रैकांतात्मना जीवच्छरीरं सात्मकं भवेत् । निष्कलस्य सहानेकदेशदेहास्तिहानितः॥१७१॥ निष्कलः सकृदनेकदेशदेहं व्यामोत्यात्मेति कः श्रद्दधीत ? परममहत्त्वाट्यामोत्येवेति चेयाहतमिदं निरंशः परममहान् वेति परमाणोरपि परममहत्त्वप्रसंगात् । यदि पुनः खारंभकावयवाभावान्निरवयवत्वमात्मनो गगनत्वादिवदिति मतं तदा परमतसिद्धिः सर्वथा निरवयवत्वासिद्धेः परमाणुप्रमीयमाणखात्मभूतावयवानामात्मनोप्रतिषेधादिति समर्थयिष्यते ।। अनेकांतात्मकं सर्व सत्त्वादित्यादि साधनं । सम्यगन्वयशून्यत्वेप्यविनाभावशक्तितः॥१७२।। नित्यानित्यात्मकः शब्दः श्रावणत्वात्कथंचन । शब्दत्वाद्वान्यथाभावाभावादित्यादिहेतवः१७३ हेतोरन्वयवेधुर्ये व्यतिरेको न चेन वै । तेन तस्य विनैवेष्टेः सवानित्यत्वसाधने ॥ १७४ ॥ निश्चितो व्यतिरेक एव ह्यविनाभावः साधनस्य नान्यः स चोपदर्शितस्य सर्वस्य हेतोरन्वयासंभवेन सिद्ध्यत्येव । सत्येवाग्नौ धूम इत्यन्वयनिश्चयेन्यभावे न कचिद्धम इति व्यतिरेकनिश्चयस्य दृष्टत्वात् । संदिग्धेन्वयव्यतिरेकसंदेहाचेति न वै मंतव्यं सर्वे भावाः क्षणिकाः सत्त्वादित्यस्यान्वयासत्त्वेपि व्यतिरेकनिश्चयस्य स्वयमिष्टेरन्यथा तस्य गमकत्वायोगात् । नन्वत्र सत्येव क्षणिकत्वे सत्त्वमिति निश्चयमेवान्वयोस्तीति चेत् । अत्रोच्यतेसाध्ये सत्येव सद्भावनिश्चयः साधनस्य यः । सोन्वयश्चेत्तथैवोपपत्तिः स्वेष्टा परोऽफलः॥१७५ Page #212 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २०३ यथैव प्रतिषेधप्राधान्यादन्यथानुपपत्तिर्व्यतिरेक इतीप्यते तथाविधप्राधान्यात्तथोपपत्तिरेवान्वय इति किमनिष्टं स्याद्वादिभिस्तस्य हेतुलक्षणत्वोपगमात् । परोपगतस्तु नान्वयो हेतुलक्षणं पक्षधर्मत्ववत् नापि व्यतिरेकः । स हि विपक्षाव्यावृत्तिः विपक्षस्तद्विरुद्धस्तदन्यस्तदभावश्चेति त्रिविध एव । तत्र तद्विरुद्धे विपक्षे च तदन्यत्रैव हेतवः । असत्यनिश्चितासत्त्वाः साकल्यानेष्टसाधनाः ॥१७६॥ • यथा साध्यादन्यस्मिन् विपक्षे निश्चितासत्त्वा अपि हेतवोग्मित्वादयो नेष्टाः सत्त्वादिसाधनास्तेषां साध्याभावलक्षणेपि पक्षे कुतश्चिदनिश्चितासत्त्वरूपत्वात् । तथा साध्याविरुद्धेपि विपक्षे निश्चितासत्त्वा अपि धूमादयो नेष्टा अम्यादिसाधनास्तेषामन्यभावे स्वयमसत्त्वेनानिश्चयात् । ननु च साध्यविरुद्धो विपक्षः साध्याभावरूप एव पर्युदासाश्रयणात् प्रसह्यप्रतिषेधाश्रयणे तु तदभावस्तद्विरुद्धादन्य इति साध्याभावविपक्ष एव विपक्षहेतोरसत्त्वनिश्चयो व्यतिरेको नान्य इत्यत्रोच्यते; साध्याभावे विपक्षे तु योसत्त्वस्यैव निश्चयः । सोविनाभाव एवास्तु हेतो रूपात्तथाह च१७७ अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ १७८॥ यथा चैवमन्यथानुपपन्नत्वनियमे सति हेतोर्न किंचित्रयेण पक्षधर्मत्वादीनामन्यतमेनैव पर्याप्तत्वात्तस्यैवान्यथानुपपन्नखभावसिद्धेरिति च तस्मिंस्तत्रयस्य हेत्वाभासगतस्येवाकिंचित्करत्वं युक्तं ॥ तद्धेतोस्त्रिषु रूपेषु निर्णयो येन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः॥ १७९ ॥ तेन कृतं तु निर्णीतं हेतोलेक्षणमंजसा । हेत्वाभासाव्यवच्छेदि तद्वदेत्कथमन्यथा ॥ १८०॥ ननु च पक्षधर्मत्वे निर्णयश्चाक्षुषत्वादेरसिद्धप्रपंचस्य प्रतिपक्षत्वेन वर्णितः सपक्षसत्त्वे विरुद्धप्रपंचप्रतिपक्षत्वेन विपक्षासत्त्वे चानैकांतिकविस्तारप्रतिपक्षेणेति कथं हेत्वाभासाव्यवच्छेदि हेतोर्लक्षणं तेनोक्तं येन पारमार्थिक रूपं ज्ञानमितिचेत् अन्यथानुपपन्नत्वस्यैव हेतुलक्षणत्वेनाभिधानादिति ब्रूमः । तस्यैवासिद्धविरुद्धानेकांतिकहेत्वाभासप्रतिपक्षत्वसिद्धेः । न ह्यन्यथानुपपन्नत्वनियमवचनोसिद्धत्वादिसंभवो विरोधात् । न चैकेन सकलप्रतिपक्षव्यवच्छेदे सिद्धे तदर्थ त्रयमभिदधतां तदेकं समर्थ लक्षणं हेतोर्जातं भवति तदेव त्रिभिः खभावैरसिद्धादीनां त्रयाणां व्यवच्छेदकमतस्तानि त्रीणि रूपाणि निश्चितान्यनुक्तानि । तदवचने विशेषतो हेतुलक्षणसामर्थ्यस्यावचनप्रसंगात् । तदुक्तौ तु विशेषतो हेतुलक्षणं ज्ञातमेवेतिचेत् न, अबाधितविषयत्वादीनामपि वचनप्रसंगात् । तेषामनुक्तौ बाधितविषयत्वादिव्यवच्छेदासिद्धेः । निश्चितत्रैरूप्यस्य हेतोर्बाधितविषयत्वाद्यसंभवात्तद्वचनादेव तद्व्यवच्छेदसिद्धेनाबाधितविषयत्वादिवचनमिति चेत् न, हेतोः पंचभिः स्वभावैः पंचानां पक्षव्यापकत्वादीनां व्यवच्छेदकत्वाद्विशेषतल्लक्षणस्यैव कथनात् अन्यथा तदज्ञानप्रसंगात् । तद्विशेषविवक्षायां तु पंचरूपत्ववत् त्रिरूपत्वमिति न वक्तव्यं सामान्यतोन्यथानुपपन्नत्ववचनेनैव पर्याप्तत्वात् , रूपत्रयमंतरेण हेतोरसिद्धादित्रयव्यवच्छेदानुपपत्तेः । तत्र तस्य तद्भावादुपपन्नं वचनमिति चेत् रूपत्रयस्य सद्भावात्तत्र तद्वचनं यदि । निश्चितत्वस्वरूपस्य चतुर्थस्य वचो न किम् ॥१८१॥ त्रिषु रूपेषु चेद्रूपं निश्चितत्वं न साधने । नाज्ञाता सिद्धता हेतो रूपं स्यात्तद्विपयेयः ॥१८२॥ पक्षधर्मत्वरूपं स्याज्ज्ञातत्वे हेत्वभेदिनः । हेतोरज्ञानतेष्टा चेनिश्चितत्वं तथा न किम्॥१८॥ हेत्वाभासेपि तद्भावात्साधारणतया न चेत् । धर्मातरमिवारूपं हेतोः सदपि संमतम् ॥१८४॥ हंतासाधारणं सिद्धं साधनस्सैकलक्षणं । तत्त्वतः पावकस्यैव सोष्णत्वं तद्विदां मतम् ॥१८५॥ यो यस्यासाधारणे निश्चितः खभावः स तस्य लक्षणं यथा पावकस्यैव सोष्णत्वपरिणामस्तथा च . Page #213 -------------------------------------------------------------------------- ________________ २०४ तत्त्वार्थश्लोकवार्तिके [सू० १३ हेतोरन्यथानुपपन्नत्वनियम इति न साधारणानामन्यथानुपपत्तिनियमविकलाना पक्षधर्मत्वादीनां हेतुलक्षणत्वं निश्चितं तत्त्वमात्रवत् ॥ एतेन पंचरूपत्वं हेतोर्ध्वस्तं निबुध्यते । सत्त्वादिष्वग्निजन्यत्वे साध्ये धूमस्य केनचित् ॥१८६॥ अग्निजन्योयं धूमः सत्त्वात् द्रव्यत्वाद्वा धूमे सत्त्वादेरसंदिग्धत्वात् । तथान्वयं पूर्वदृष्टधूमेग्निजन्यत्वे व्याप्तस्य सत्त्वादेः सद्भावात् व्यतिरेकश्च खरविषाणादौ साध्याभावे साधनस्य सत्त्वादेरभावनिश्चयात् । तथात्राबाधितविषयत्वं विवादापन्ने धूमेग्मिजन्यत्वस्य बाधकाभावात् । तत एवासत्प्रतिपक्षत्वमनग्गिजन्यत्वसाधनप्रतिपक्षानुमानसंभवादिति सिद्धं साधारणत्वं पंचरूपत्वस्य त्रैरूप्यवत् सामस्त्येन व्यतिरेकनिश्चयस्थाभावादसिद्धमिति चेन्न, तस्यान्यथानुपपन्नत्वरूपत्वात् । तदभावे शेषाणामकिंचित्करत्वापत्तेस्तद्विकल्प. स्यैव पंचरूपत्वादेरलक्षणत्वेन साध्यत्वाद्युक्तोतिदेशः । एवमन्वयव्यतिरेकिणो हेतोः पंचरूपत्वमलक्षणं व्यवस्थाप्यान्वयिनोपि नान्वयो लक्षणं साधारणत्वादेवेत्याह; अन्वयो लोहलेख्यत्वे पार्थिवत्वेशनेस्तथा । तत्पुत्रत्वादिषु श्यामरूपत्वे क्वचिदीप्सिते॥१८७॥ लोहलेख्योऽशनिः पार्थिवत्वाद्धातुरूपवत् , स श्यामरूपस्तत्पुत्रत्वात्तन्नप्तत्वाद्वा परिदृष्टतत्पुत्रादिवदिति हेत्वाभासेपि सद्भावादन्वयस्य साधारणत्वं । ततो हेत्वलक्षणत्वं । यस्तु साध्यसद्भाव एव भावो हेतोरन्वयः सोऽन्यथानुपपन्नत्वमेव तथोपपत्त्याख्यमसाधारणं हेतुलक्षणं । परोपगतस्तु नान्वयस्तल्लक्षणं नापि केवलव्यतिरेकिणो व्यतिरेक इत्याह अदृष्टिमात्रसाध्यश्च व्यतिरेकः समीक्ष्यते । वक्तृत्वादिषु बुद्धादेः किंचिज्ज्ञत्वस्य साधने१८८ साध्याभावे त्वभावस्य निश्चयो यःप्रमाणतः । व्यतिरेकः स साकल्यादविनाभाव एव नः१८९ सत्यप्यबाधितविषयतायां सत्यप्यसत्प्रतिपक्षतायां च हेतौ न रूपांतरत्वमन्यथानुपपन्नत्वादित्याह;अबाधितार्थता च स्यान्नान्या तसादसंशया । न वा सत्प्रतिपक्षत्वं तदभावेनभीक्षणात् १९० न हि क्वचिद्धतौ साध्याभावासंभूष्णुतापायेप्यबाधितविषयत्वमसत्प्रतिपक्षत्वं समीक्ष्यते येन ततो रूपांतरत्वं । ननु च यथा स्पर्शाभावे क्वचिदसंभववतोपि रूपस्य स्पर्शाद्रूपांतरत्वं तथाविनाभावाभावे कचिदसंभवतोपि ततो रूपांतरत्वमबाधितविषयत्वस्यासत्प्रतिपक्षत्वस्य च न विरुध्यतेन्यथा स्पर्शाद्रूपस्यापि रूपांतरत्वविरोधादिति चेत् नैतत्सारं, अन्यथानुपपन्नत्वादबाधितविषयत्वादेरभेदात् । साध्याभावप्रकारेणोपपत्तेरभावो ह्यन्यथानुपपत्तिः स एव वाबाधितविषयत्वमसत्प्रतिपक्षत्वं च प्रतीयते ततोन्यत् किंचिन्नैवं स्पर्शाद्रूपस्याभेदः प्रतीतिभेदात्ततो विषमोऽयमुपन्यासः । ननु हेतूपन्यासे सति क्रमेण प्रतीयमानत्वादविनाभावाबाधित विषयत्वादीनामपि परस्परं भेद एवेति चेन्न, बाधकक्रमापेक्षत्वात्तत्क्रमप्रतीतेः । शकेंद्रपुरंदरादिप्रतीतिवदर्थप्रतीतेः क्रमाभावात् । न ह्यभिन्नेप्यर्थे बाधकभेदो विरुद्धो यतस्तत्क्रमप्रतीतिरर्थभेदक्रमं साधयेत् । ततो नाममात्रं भिद्यते हेतोरन्यथानुपपन्नत्वमबाधितविषयत्वमसत्प्रतिपक्षत्वमिति नार्थः । एतेन यदुक्तं हेतोरबाधितविषयत्वाभावेऽनुष्णोनिद्रव्यत्वात् नित्यो घटः सत्त्वात् प्रेत्यासुखप्रदो धर्मः पुरुषगुणविशेषत्वादित्येवमादेः प्रत्यक्षानुमानाभ्यामबाधितविषयस्याप्यगमकत्वप्रसक्तिरसत्प्रतिपक्षत्वाभावे च सत्प्रतिपक्षस्य सर्वगतं सामान्यं सर्वत्र सत्प्रत्ययहेतुत्वादित्येवमादेर्गमकत्वापत्तिरिति तत्प्रत्याख्यातं । प्रत्यक्षादिभिः साध्यविपरीतस्वभावव्यवस्थापनस्य बाधितविषयत्वस्य वचनात् । प्रतिपक्षानुमानेन च तस्य सत्प्रतिपक्षत्वस्याभिधानात् तद्व्यवच्छेदस्य च साध्यस्वभावेन तथोपपत्तिरूपेण Page #214 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। . २०५ सामर्थ्यादन्यथानुपपत्तिखभावेन सिद्धत्वादबाधितविषयत्वादे रूपांतरत्वकल्पनानर्थक्यात् सत्यपि तस्य रूपांतरत्वे तन्निश्चयासंभवः परस्पराश्रयणात् तत्साध्यविनिश्चययोरित्याह यावञ्च साधनादर्थः स्वयं न प्रतिनिश्चितः । तावन्न बाधनाभावस्तत्स्याच्छक्यविनिश्चयः १९१ सति हि बाधनाभावनिश्चये हेतोरबाधितविषयत्वासत्प्रतिपक्षत्वसिद्धेः साध्यनिश्चयस्तन्निश्चयाच्च • बाधनाभावनिश्चय इतीतरेतराश्रयान्न तयोरन्यतरस्य व्यवस्था । यदि पुनरन्यतः कुतश्चित्तबाधनाभावनिश्चयात्तदनिश्चयांगीकरणाद्वा परस्पराश्रयपरिहारः क्रियते तदाप्यकिंचित्करत्वं हेतोरुपदर्शयन्नाह;-- तद्भाधाभावनिर्णीतिः सिद्धा चेत्साधनेन किम् । यथैव हेतोर्वेशस्य बाधासद्भावनिश्चये ॥१९२ तत्साधनसमर्थत्वादकिंचित्करत्वं तथा वा विरहनिश्चये कुतश्चित्तस्य सद्भावसिद्धेः । सततसाधनाय प्रवर्तमानस्य सिद्धसाधनादपि न साधीयस्तल्लक्षणत्वं । नन्वेवमविनाभावोपि लक्षणं मा भून्निश्चयस्यापि साध्यसद्भावनियमनिश्चयायत्तत्वात् तस्य चाविनाभावाधीनत्वादितरेतराश्रयस्य प्रसंगात् इति चेन्न, अविनाभावनियमस्य हेतौ प्रमाणांतरानिश्चयोपगमादितरेतराश्रयानवकाशात् । ऊहाख्यं हि प्रमाणमविनाभावनिश्चयनिबंधनं प्रत्यक्षानुमानयोस्तत्राव्यापारादित्युक्तं तर्हि यत एवान्यथानुपपन्नत्वनिश्चयो हेतोस्तत एव साध्यसिद्धेस्तत्र हेतोरकिंचित्करत्वमिति चेन्न, ततो देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् सामान्यत एवोहात्तसिद्धेरित्युक्तप्रायं । अथवात्रिरूपहेतुनिष्ठानवादिनैव निराकृते । हेतोः पंचस्वभावत्वे तद्धंसे यतनेन किम् ॥ १९३ ॥ न हि स्याद्वादिनामयमेव पक्षो यत्स्वयं पंचरूपत्वं हेतोर्निराकर्तव्यमिति त्रिरूपव्यवस्थानवादिनापि तन्निराकरणस्याभिमतत्वात् परमतमभिमतप्रतिषिद्धमितिवचनात् तदलमत्राभिप्रयतनेनेति हेतुलक्षणं वार्तिककारेणैवमुक्तं "अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इति खयं स्याद्वादिनां तु तन्निराकरणप्रयत्ने त्रयं पंचरूपत्वं किमित्यपि वक्तुं युज्यते सांप्रतं पूर्ववदादित्रयेण वीतादित्रयेण वा किमिति व्याख्यानांतरं समर्थयितुं प्रत्यक्षपूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति न्यायसूत्रस्य वाक्यभेदात्रिसूत्री कैश्चित्परिकल्पिता स्यात् तामनूद्य निराकुर्वन्नाह; पूर्व प्रसज्यमानत्वात् पूर्वपक्षस्ततोपरः । शेषः सुपक्ष एवेष्टस्तद्योगो यस्य दृश्यते ॥ १९४ ॥ पूर्ववच्छेषवत्प्रोक्तं केवलास्वपि साधनम् । साध्याभावे भवत्तच त्रिरूपान्न विशिष्यते ॥१९५॥ यस्य वैधर्म्यदृष्टांताधारः कश्चन विद्यते । तस्यैव व्यतिरेकोस्ति नान्यस्येति न युक्तिमत् ॥१९६॥ ततो वैधHदृष्टांतेनेष्टोवश्यमिहाश्रयः । तदभावेप्यभावस्याविरोधाद्धेतुतद्वतोः ॥ १९७ ॥ केवलव्यतिरेकीष्टमनुमानं न पूर्ववत् । तथा सामान्यतो दृष्टं गमकत्वं न तस्य वः ॥१९८॥ तद्विरुद्धे विपक्षस्यासत्त्वे व्यवसितेपि हि । तदभावे त्वनिर्णीते कुतो निःसंशयात्मता ॥१९९॥ यो विरुद्धोत्र साध्येन तस्याभावः स एव चेत् । ततो निवर्तमानश्च हेतुः स्याद्वादिनां मतम्२०० अन्वयव्यतिरेकी च हेतुर्यस्तेन वर्णितः। पूर्वानुमानसूत्रेण सोप्येतेन निराकृतः ॥२०१॥ कार्यादित्रयवत्तस्मादेतेनापि त्रयेण किम् । भेदानां लक्षणानां च वीतादित्रितयेन च ॥२०२॥ पूर्ववच्छेषवत्केवलान्वयिसाधनं यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावंतौ जातिजातिमंतौ वा परस्परतो भिन्नौ भिन्नप्रतिभासत्वात् सह्यविंध्यवदिति तत्साध्याभावेपि यदि सत्तदानकांतिकमेव । अथासत्कथं न व्यतिरेक्यपि ? साध्याभावे साधनस्याभावो हि व्यतिरेकः स चास्यास्तीति तदा केवलान्वयि लिंगं त्रिरूपादविशिष्टत्वात् वैधर्म्यदृष्टांताधाराभावान्नास्य व्यतिरेक इति चेन्नेदं युक्तिमत् , तदभावेपि Page #215 -------------------------------------------------------------------------- ________________ २०६ तत्त्वार्थश्लोकवार्तिके [सू०१३ साध्याभावप्रयुक्तस्य साधनाभावस्याविरोधात् । न ह्यभावे कस्यचिदभावो विरुध्यते खरविषाणाभावे गगनकुसुमाभावस्य विरोधप्रसंगात् सर्वत्र वैधर्म्यदृष्टांतेधिकरणस्यावश्यं भावितयानिष्टत्वाच्च । किं चेदं भिन्नप्रतिभासित्वं यदि कथंचित्तदान्यथानुपपन्नत्वादेव कथंचिद्भेदसाधनं नान्वयित्वात् द्रव्यं गुणकर्मसामान्यविशेषसमवायप्रागभावादयः प्रमेयत्वात् पृथिव्यादिवदित्येतस्यापि गमकत्वप्रसंगात् । धर्मिग्राहकप्रमाणबाधितत्वेन कालात्ययापदिष्टत्वान्नेदं गमकमितिचेत् , त_बाधित विषयत्वमपि लिंगलक्षणं तच्चान्यथानुपपन्नत्वमेवेत्युक्तं । सत्प्रतिपक्षत्वान्नेदं गमकत्वमिति चेत्तर्हि असत्प्रतिपक्षत्वं हेतुलक्षणं तदप्यविनाभाव एवेति निवेदितं ततोन्यथानुपपन्नत्वाभावादेवेदमगमकं । एतेन सर्वथा भिन्नप्रतिभासत्वं भेदसाधनमगमकमुक्तं कालात्ययापदिष्टत्वसत्प्रतिपक्षत्वाविशेषात् । अवयवादीनां हि सत्त्वादिना कथंचिदभेदः प्रमाणेन प्रतीयते सर्वथा तद्भेदस्य सकृदप्यनवभासनात् । तत एवासिद्धत्वान्नेदं गमकं सिद्धस्यैवान्यथानुपपत्तिसंभवात् । तथा पूर्ववत्सामान्यतोऽदृष्टं केवलव्यतिरेकि लिंगं विपक्षे देशतः काय॑तो वा तस्यादृष्टत्वात् । सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् यन्न सात्मकं तन्न प्राणादिमद् दृष्टं यथा भस्मादि न च तथा जीवच्छरीरं तस्मात्सात्मकमिति । तदेतदपि न परेषां गमकं । साध्यविरुद्धे विपक्षे अनुभूयमानमपि साध्याभावे विपक्षे वयमसत्त्वेनानिश्चयात् तत्र तत्र तस्य तत्त्वसंभावनायां नैकांतिकत्वोपपत्तेः साध्यविरुद्ध एव साध्याभावस्ततो निवर्तमानत्वाद्गमकमेवेदमिति चेत् तर्हि तदन्यथानुपपन्नत्वसाधनं साध्याभावसंभवंनियमस्यैव स्याद्वादिभिरविनाभावस्येष्टत्वात् न पुनः केवलव्यतिरेकित्वान्नेदं क्षणिकं तत्सच्चित्तशून्यं जीवच्छरीरं प्राणादिमत्त्वात् सर्व क्षणिकं सत्त्वादित्येवमादेरपि गमकत्वप्रसंगात् । साध्याभावेप्यस्य सद्भावान्न साधनत्वमितिचेत् तीन्यथानुपपत्तिबलादेव परिणामिना सात्मकत्वे प्राणादिमत्त्वं साधनं नापरिणामिना सर्वथा तदभावात् । तथा पूर्ववच्छेषवत्सामान्यतो दृष्टमन्वयव्यतिरेकिसाधनं, यथाग्मिरत्र धूमादिति । तदपि केवलव्यतिरेकिणो योगोपगतस्य निराकरणादेव निराकृतं, साध्याभावसंभवनियमनिश्चयमंतरेण साधनत्वासंभवात् । तदनेन न्यायवार्तिकटीकाकारव्याख्यानमनुमानसूत्रस्य त्रिसूत्रीकरणेन प्रत्याख्यातं प्रतिपत्तव्यमिति लिंगलक्षणानामन्वयित्वादीनां त्रयेण पक्षधर्मत्वादीनामिव न प्रयोजनं । नापि पूर्ववदादिभेदानां कार्यादीनामिव सत्यन्यथानुपपन्नत्वे तेनैव पर्याप्तत्वात् । यदप्यत्रावाचि उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरिति वीतलक्षणं लिंगं तत्स्वरूपेणार्थपरिच्छेदकत्वं वीतधर्म इति वचनात् । तद्यथा--अनित्यः शब्दः उत्पत्तिधर्मकत्वाद्धटवदिति शब्दखरूपेणोत्पत्तिधर्मकत्वेनानित्यत्वार्थस्य परिच्छेदात् । तथोदाहरणवैधात्साध्यसाधनं हेतुरित्यवीतलक्षणं परपक्षप्रतिषेधेनार्थपरिच्छेदने वर्तमानमवीतमिति वचनात् । तद्यथा । नेदं नैरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसंगादिति । यदुभयपक्षसंप्रतिपन्नमप्राणादिमत्तन्निरात्मकं दृष्टं यथा घटादि न चेदमप्राणादिमज्जीवच्छरीरं तस्मान्न निरात्मकमिति निरात्मकत्वस्य परपक्षस्य प्रतिषेधनं जीवच्छरीरे सात्मकत्वस्यार्थपरिच्छित्तिहेतुत्वादिति न्यायवार्तिककारवचनात् । तथोदाहरणसाधम्येवैधयाभ्यां साध्यसाधनमनुमानमिति वीतावीतलक्षणं खपक्षविधानेन परपक्षप्रतिषेधेन चार्थपरिच्छेदहेतुत्वात् । तद्यथा-साग्निः पर्वतोयमनग्निर्न भवति धूमवत्त्वादन्यथा निघूमत्वप्रसंगात् । धूमवान्महानसः सामिदृष्टोऽनमिस्तु महानसो निधूम इति तदेतद्वीतादित्रितयं यदि साध्यभावसंभूष्णुः तदान्यथानुपपत्तिबलादेव गमकत्वं न पुनीतादित्वेनैवेत्यन्यथानुपपत्तिविरहेपि गमकत्वप्रसंगात् । यदि पुनरन्यथानुपपत्तिवीतादित्वं प्राप्य हेतोर्लक्षणं तदा “देवतां प्राप्य हरीतकी विरेचयते” इति कस्यचित्सुभाषितमायातं । हरीतक्यन्वयव्यतिरेकानुविधानाद्विरेचनस्य खदेवतोपयोगिनी तदन्वयव्यतिरेकानुविधानाभावात्तस्येति प्रकृतेपि समानं । हेतोरन्यथानुपपत्तिसद Page #216 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २०७ सत्त्वप्रयुक्तत्वाद्गमकत्वागमकत्वयोरिति न किंचिद्वीतादित्रितयेन लक्षणानां भेदानां वा सर्वथा गमकत्वानंगत्वात् सर्वभेदासंग्रहाच्च ॥ कारणात्कार्यविज्ञानं कार्यात्कारणवेदनम् | अकार्यकारणाच्चापि दृष्टात्सामान्यतो गतिः २०३ तादृशी त्रितयेणापि नियतेन प्रयोजनम् । किमेकलक्षणाध्यासादन्यस्याप्यनिवारणात् ॥ २०४॥ ननु च यवबीजसंतानोत्थं च कारणं वानुभयं वा स्यात् सर्वं वस्तु कार्य वा नान्या गतिरस्ति यतोs - न्यदपि लिंगं संभाव्यतेऽन्यथानुपपन्नत्वाध्यासादिति चेन्न, उभयात्मनोपि वस्तुनो भावात् । थै कारणात्कार्येनुमानं वृष्युत्पादनशक्तयोमी मेघा गंभीरध्वानत्वे चिरप्रभावत्वे च सति समुन्नतत्वात् प्रसिद्वैवंविधमेघवदिति । कार्यात्कारणे वह्निरत्र धूमान्महानसवदिति । अकार्यकारणादनुभयात्मनि ज्ञानं मधुररसमिदं फलमेवंरूपत्वात्तादृशान्यफलवदिति । तथैवोभयात्मकात् लिंगादुभयात्म के लिंगिनि ज्ञानमविरुद्धं परस्परोपकार्योपकारकयोरविनाभावदर्शनात् यथा बीजांकुर संतानयोः । न हि बीजसंतानों कुरसंतानाभावे भवति, नाप्यंकुरसंतानो बीजसंतानाभावे यतः परस्परं गम्यगमकभावो न स्यात् । तथा चास्त्यत्र देशे यवबीजसंतानो यवांकुरसंतानदर्शनात् । अस्ति यवांकुरसंतानो यवबीजोपलब्धेरि - त्यादि लिंगांतरसिद्धिः । ननूषरक्षेत्रस्थेन यवबीजसंतानेन व्यभिचारस्तदंकुरसंताने क्वचित्साध्ये तद्वीजसंताने चोक्ष्यते तदंकुरसंतानेन यवबीजमात्ररहित देशस्थेनेतिं न मंतव्यं विशिष्टदेशकालाद्यपेक्षस्य तदुभयस्यान्योन्यमविनाभावसिद्धेः स्खसाध्ये धूमादिवत् । धूमावयविसंतानो हि पावकावयवि संतानैरविनाभावी देशकालाद्यपेक्ष्यैवान्यथा गोपालघटिकायां धूमावयविसंतानेन व्यभिचारप्रसंगात् । संतानयोरुप - कार्योपकारकभावोपि न शंकनीयः पावकधूमावयविसंतानयोस्तदभावप्रसंगात् । न चैवं वाच्यं, तयोर्निमित्तानिमित्तभावोपगमात् । पावकधूमावयविद्रव्ययोर्निमित्तानिमित्तभावसिद्धेस्तत्संतानयोरुपचारनिमित्तभाव इति चेन्न, तद्व्यतिरिक्तसंतानसिद्धेः । कालादिविशेषात्संतानः संतानिभ्यो व्यतिरिक्त इति चेत्, कुतः कालादिविशेषस्तेषां संतानस्यानादिपर्यवसानत्वादप्रतिनियत क्षेत्र कार्यकारित्वाच्च संतानिनां तद्विपरीतत्वादिति चेन्न, तस्य पदार्थातरत्वप्रसंगात् । संतानो हि संतानिभ्यः सकलकार्य करणद्रव्येभ्योर्थातरं भवंस्तद्वृत्तिरतद्वृत्तिर्वा ? तद्वृत्तिश्चेन्न तावदगुणस्तस्यैकद्रव्यवृत्तित्वात् । संयोगादिवदनेकद्रव्यवृत्तिः संतानो गुणइति चेत् स तर्हि संयोगादिभ्योऽन्यो वा स्यात्तदन्यतमो वा ? यद्यन्यः स तदा चतुर्विंशति संख्याव्याघातः, तदन्यतमश्चेत् तर्हि न तावत्संयोगस्तस्य विद्यमानद्रव्यवृत्तित्वात् । संतानस्य कालत्रयवृत्तिसंतानिसमाश्रयत्वात् । तत एव न विभागोपि परत्वमपि वा तस्यापि देशापेक्षस्य वर्तमानद्रव्याश्रयत्वात् । पृथक्त्वं इत्यप्यसारं, भिन्नसंतानद्रव्य पृथक्त्वस्यापि संतानत्वप्रसंगात् । तत एवमसंख्योसौ । एतेन संयोगादीनां संतानत्वे भिन्नसंतानगतानामप्येषां संतानत्वप्रसंगः समापादितो बोद्धव्यः । कार्यकारणपरंपराविशिष्टा सत्तासंतान इति चेत् कुतस्तद्विशिष्टः कार्यकारणोपाधित्वादितिचेत्, कथमेवमनेका सत्ता न स्यात् । विशेषणानेकत्वादुपचारादने कास्त्वितिचेत् कथमेवं परमार्थतोनेकसंतान सिद्धिर्थेनैकसंतानांतरे प्रवृत्तिरविसंवादिनी स्यात् । येषां पुनरेकानेका च वस्तुनः सत्ता तेषां सामान्यतो विशेषतश्च तथा संतानैकत्वनानात्वव्यवहारो न विरुध्यते । न च विशिष्टकार्यकारणोपाधिकयोः सत्ताविशेषयोः संतानयोः परस्परमुपकार्योपकारकभावाभावः शाश्वतत्वादिति युक्तं वक्तुं कथंचिदशाश्वतत्वाविरोधात् । पर्यायार्थतः सर्वस्यानित्यत्वव्यवस्थितिः । ततः संतानिनामिव संतानयोः कथंचिदुपकार्योपकारकभावोऽभ्युपगंतव्य इति सिद्धमुभयात्मकयोरन्योन्यं साधनत्वं लिंगत्रितयनिमित्तं विघटयत्येव । न चैवमन्योन्याश्रयणं तयोरेकतरेण प्रसिद्धेनान्यतरस्याप्रसिद्धस्य साधनात् । तदुभयसिद्धौ कस्यचिदनुमानानुदयात् ॥ 2 Page #217 -------------------------------------------------------------------------- ________________ २०८ संप्रति पराभितसंख्यांतरनियममनूद्य दूषयन्नाह ; तत्त्वार्थश्लोकवार्तिके -- यच्चाभूतमभूतस्य भूतं भूतस्य साधनम् । तथाभूतमभूत्तस्याभूतं भूतस्य चेष्यते ॥ २०५ ॥ नान्यथानुपपन्नत्वाभावे तदपि संगतम् । तद्भावे तु किमेतेन नियमेनाफलेन वः ॥ २०६ ॥ न ह्यभूतादिलिंगचतुष्टयनियमो व्यवतिष्ठते भूताभूतोयं स्वभावस्यापि लिंगस्य तादृशि साध्ये संभवात् । न च तद्व्यवच्छेदमकुर्वन्नियमः सफलो नाम ॥ सर्वहेतुविशेषाणां संग्रहो भासते यथा । तथा तद्भेदनियमे द्विभेदो हेतुरिष्यताम् ॥ २०७ ॥ संक्षेपादुपलभश्रानुपलंभश्व वस्तुनः । परेषां तत्प्रभेदत्वात्तत्रांतर्भावसिद्धितः ॥ २०८ ॥ उपलब्ध्यनुपलब्ध्योरेवेति सर्वहेतुविशेषाणामंतर्भावः प्रतिभासते संक्षेपात्तेषां तत्प्रभेदत्वादिति तदिष्टिः श्रेयसी । न हि कार्यादयः संयोग्यादयः पूर्ववदादयो वीतादयो वा हेतुविशेषास्ततो भिद्यंते तदप्रभेदत्वाप्रतीतेः ॥ ______ [सू० १३ ननूपलभ्यमानत्वमुपलंभो यदीष्यते । तदा स्वभावहेतुः सद्व्यवहारप्रसाधने ॥ २०९ ॥ अथोपलभ्यते येन स तथा कार्यसाधनः । समानोनुपलभेपि विचारोयं कथं न ते ॥ २९० ॥ यद्युपलभः कर्मसाधनस्तदा स्वभावहेतुरेव सध्यवहारे साध्ये करणसाधनमनुपलभे ततः सोपि न स्वभावकार्यहेतुभ्यां भिन्नः स्यात् । कर्मसाधनत्वेनुपलभ्यमानत्वस्य खभावहेतुत्वात् । करणसाधनत्वेनुपलभनस्य कार्यस्वभावयोर्विधिसाधनत्वादनुपलंभस्य प्रतिषेधविषयत्वादन्यस्ताभ्यामनुपलंभ इत्य संगतं इत्याह यथा चानुपलंभेन निषेधोर्थस्य साध्यते । तथा कार्यस्वभावाभ्यामिति युक्ता न तद्भिदा२११ ननु च द्वौ साधन|वेकः प्रतिषेधहेतुरित्यत्र द्वावेव वस्तुसाधनौ प्रतिषेधहेतुरेवैक इति नियम्यते न पुनर्द्वी वस्तुसाधनावेव ताभ्यामन्यव्यवच्छेदस्यापि साधनात् । तथा नैक एव प्रतिषेधहेतुरित्यवधार्यते तत एव यतो लिंगत्रयनियमः संक्षेपान्न व्यवतिष्ठत इति न तद्विभेदो हेतुरिष्यते तस्याव्यवस्थानादित्य त्राह निषेधहेतुरेवैक इत्ययुक्तं विधेरपि । सिद्धेरनुपलं भेनान्यव्यवच्छिद्विधिर्यतः ॥ २१२ ॥ नास्तीह प्रदेशे घटादिरूपलब्धिलक्षणप्राप्तस्यानुपलब्धेरित्यनुपलंभेन यथा निषेध्यस्य प्रतिषेधस्तथा व्यवच्छेदस्य विधिरपि कर्तव्य एव । प्रतिषेधो हि साध्यस्ततोऽन्योऽप्रतिषेधस्तद्व्यवच्छेदस्य विधौ कथं प्रतिषेधः सिद्ध्येत् ? तद्विधौ वा कथं प्रतिषेधहेतुरेवैक इत्यवधारणं सुघटं गुणभावेन विधेरनुपलंभेन साधनात्प्राधान्येन प्रतिषेधस्यैव व्यवस्थापनात्सुघटं तथावधारणमिति चेत्, तर्हि द्वौ वस्तुसाधनावित्यव - धारणमस्तु ताभ्यां वस्तुत एव प्राधान्येन विधानात् प्रतिषेधस्य गुणभावेन साधनात् । यदि पुनः प्रतिघोपि कार्यस्वभावाभ्यां प्राधान्येन साध्यते यथा नानग्मिरत्र धूमात्, नावृक्षोऽयं शिंशपात्वादिति मतं तदानुपलभेनापि विधिः प्रधानभावेन साध्यतां । यथास्त्यत्राग्निरनौष्ण्यानुपलब्धेरिति कथं निषेधसाधन एवैक इत्येकं संविधत्सोरन्यत्प्रच्यवते । ननु च नानग्निरत्र धूमादिति विरुद्धकार्योपलब्धिः प्रतिषेधस्य साधिका नावृक्षोयं शिंशपात्वादिति विरुद्धव्याप्तोपलब्धिश्च यावत्कश्चित्प्रतिषेधः स सर्वोनुपलब्धेरिति वचनात् । तथास्त्यत्राग्निरनौष्ण्यानुपलब्धेरित्ययमपि स्वभावहेतु रौष्ण्योपलब्धेरेव हेतुत्वात्प्रतिषेधद्वयत्व* प्रकृतार्थसमर्थकत्वादिति न प्राधान्येन द्वौ प्रतिषेधसाधनौ । नाप्येको विधिसाधनो यतो दोषः स्यादिति कश्चित्, सोपि न प्रातीतिकाभिधायी कार्यस्वभावानुपलब्धिषु प्रतीयमानासु विपर्ययकल्पनात् । तथा Page #218 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २०९ हि-सर्वत्र कार्यखभावहेतोविरुद्धव्याप्तोपलब्धिरूपतापत्तेरनुपलब्धिरेवैका स्यात् अनुपलब्धेर्वा कार्यखभावहेतुतापत्तेस्तावेव स्यातां तत्र प्रतीत्यनुसरणे यथोपयोऋभिप्रायं कार्यखभावावपि प्राधान्येन विधिप्रतिषेधसाधनावुपेयौ । विधिसाधनश्चानुपलंभ इति न विषयभेदाल्लिंगसंख्यानियमः सिद्ध्येत् ॥ यसादनुपलंभोत्रानुपलभ्यत्वमिष्यते । तथोपलभ्यमानत्वमुपलभः स्वरूपतः ॥ २१३ ॥ • भिन्नावेतौ न तु स्वार्थाभेदादिति नियम्यते । भावाभावात्मकैकार्थगोचरत्वाविशेषतः॥२१४ उपलभ्यत्वानुपलभ्यत्वखरूपभेदादेव भिन्नादुपलंभौ मंतव्यौ न पुनः स्वविषयभेदादिति नियम्यते विधिप्रतिषेधात्मकैकवस्तुविषयत्वस्य तयोर्विशेषाभावात् । यथैवेत्युपलभेन प्राधान्याद्विधिर्गुणभावात् प्रतिषेधश्च विषयीक्रियते तथानुपलंभेनापि । यथानुपलभेन प्रतिषेधः प्राधान्यात् , विधिश्च गुणभावात्तथोपलंभेनापीति यथायोग्यमुदाहरिष्यते । ततः संख्येयादुपलंभानुपलंभावेव हेतू प्रतिपत्तव्यौ । तत्तत्रैवोपलंभः स्यात्सिद्धः कार्यादिभेदतः । कार्योपलब्धिरम्यादौ धूमादिः सुविधानतः२१५ कारणस्योपलब्धिः साद्विशिष्टजलदोन्नतेः । वृष्टौ विशिष्टता तस्साश्चिंत्या छायाविशेषतः २१६ कारणानुपलंभेपि यथा कार्ये विशिष्टता । बोध्याभ्यासात्तथा कार्यानुपलंभेपि कारणे॥२१७॥ समर्थ कारणं तेन नांत्यक्षणगतं मतम् । तद्बोधे येन वैयर्थ्यमनुमानस्य गद्यते ॥ २१८ ॥ न चानुकूलतामात्रं कारणस्य विशिष्टता । येनास्य प्रतिबंधादिसंभवाध्यभिचारिता ॥ २१९॥ वैकल्यप्रतिबंधाभ्यामनासाद्य स्वभावताम् । विशिष्टतात्र विज्ञातुं शक्या छायादिभेदतः २२० तद्विलोपेखिलख्यातव्यवहारविलोपनम् । तृप्त्यादिकार्यसिद्ध्यर्थमाहारादिप्रवृत्तितः ॥२२१॥ हेतुना यः समग्रेण कार्योत्पादोनुमीयते । अर्थातरानपेक्षत्वात्स स्वभाव इतीरणे ॥ २२२ ॥ कार्योत्पादनयोग्यत्वे कार्ये वा शक्तकारणम् । स्वभावहेतुरित्यायैर्विचार्य प्रथमे मतः॥२२३॥ स्वकार्ये भिन्नरूपैकस्वभावं कारणं वदेत् । कार्यस्यापि स्वभावत्वप्रसंगादविशेषतः ॥ २२४ ॥ समग्रकारणं कायेखभावो न तु तस्य तत् । कोन्यो ब्रूयादिति ध्वस्तप्रज्ञानैरात्मवादिनः २२५ यत्स्वकार्याविनामावि कारणं कार्यमेव तत् । कार्य तु कारणं भावीत्येतदुन्मत्तभाषितम्।।२२६ परस्पराविनाभावात् कयाश्चित् (१) । हेतुतत्त्वव्यवस्थैवमन्योन्याश्रयणाजनैः ॥ २२७ ॥ रात्र्यादिदायकादृष्टविशेषस्यानुमापकम् । पाणिचक्रादि तत्कार्य कथं वो भाविकारणम् ॥२२८ तत्परीक्षकलोकानां प्रसिद्धमनुमन्यताम् । कारणं कार्यवद्धेतुरविनाभावसंगतम् ॥ २२९ ॥ एवं कार्योपलब्धि कारणोपलब्धि च निश्चित्य संप्रत्यकार्यकारणोपलब्धि विभिद्योदाहरन्नाह;कार्यकारणनिर्मुक्तवस्तुदृष्टिर्विवक्ष्यते । तत्स्वभावोपलब्धिश्च..... (?) निश्चिताः ॥ २३० ॥ कथंचित्साध्यतादात्म्यपरिणाममितस्य या । स्वभावस्योपलब्धिः स्यात्साविनाभावलक्षणा२३१ उत्पादादित्रयाक्रांतं समस्तं सत्त्वतो यथा । गुणपर्ययवद्रव्यं द्रव्यत्वादिति चोच्यते ॥२३२॥ यथार्थस्य स्वभावोपलंभः सव्यवसायकः । (१) स्तस्यानुमानेन किं त्वयान्यत्प्रसाध्यते॥२३३॥ समारोपव्यवच्छेदस्तेनेत्यपि न युक्तिमत् । निश्चितेर्थे समारोपासंभवादिति केचन ॥ २३४ ॥ तदसद्वस्तुनोनेकस्वभावस्य विनिश्चिते । सत्त्वादावपि साध्यात्मनिश्चयान्नियमान्नृणाम् ॥२३५॥ निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते । चित्रताज्ञानवन्नानास्वभावैकार्थसाधनात्।।२३६॥ तत एव न पक्षस्य प्रमाणेन विरोधनं । नापि वृत्तिर्विपक्षस्ते हेतोरेकांततश्युतेः ॥ २३७ ॥ उत्पादव्ययनिर्मुक्तं न वस्तु खरशंगवत् । नापि धौव्यपरित्यक्तं त्र्यात्मकं स्वार्थतत्त्वतः २३८ २७ Page #219 -------------------------------------------------------------------------- ________________ २१० तत्त्वार्थ श्लोकवार्तिके [सू० १३ सहभावि गुणात्मत्वाभावे द्रव्यस्य तत्त्वतः । क्रमोत्पित्सु स्वपर्यायाभावत्वे च न कस्यचित् २३९ नाक्रमेण क्रमेणापि कार्यकारित्वसंगतिः । तदभावे कुतस्तस्य द्रव्यत्वं व्योमपुष्पवत् ॥ २४० ॥ एवं हेतुरयं शक्तः साध्यं साधयितुं ध्रुवं । सत्त्ववन्नियमादेव लक्षणस्य विनिश्चयात् ॥ २४१ ॥ तदियमकार्यकारणरूपस्य साध्यस्वभावस्योपलब्धिर्निश्चितोक्ता । साध्यादन्यस्योपलब्धि पुनर्विभज्य निश्चिन्वन्नाह ; साध्यादन्योपलब्धिस्तु द्विविधाप्यवसीयते । विरुद्धस्याविरुद्धस्य दृष्टेस्तेन विकल्पनात् ॥ २४२ ॥ साध्यादन्यस्य हि तेन साध्येन विरुद्धस्योपलब्धिर विरुद्धस्य वा द्विधा कल्प्यते सा गत्यंतराभावात् । तत्र— प्रतिषेधे विरुद्धोपलब्धिरर्थस्य तद्यथा । नास्त्येव सर्वथैकांतानेकांतस्योपलभतः ॥ २४३ ॥ यावत्कश्चिन्निषेधोत्र स सर्वोनुपलंभवान् । यत्तदेष विरुद्धोपलंभोस्त्वनुपलंभनम् ॥ २४४ ॥ इत्ययुक्तं तथाभूतश्रुतेरनुपलंभनं । तन्मूलत्वात्तथाभावे प्रत्यक्षमनुमास्तु ते ॥ २४५ ।। तथैवानुपलंभेन विरोधे साधिते कचित् । स्यात्स्वभावविरुद्धोपलब्धिवृत्तिस्तथैव वा ॥ २४६ ॥ लिंगे प्रत्यक्षतः सिद्धे साध्यधर्मिणि वा कचित् । लिंगिज्ञानं प्रवर्तेत नान्यथातिप्रसंगतः २४७ गौण व्यपदेशोयं कारणस्य फलेस्तु नः । प्रधानभावतस्तस्य तत्राभिप्राय वर्तनात् ॥ २४८ ॥ स्वभावविरुद्धोपलब्धि निश्चित्यानुपलब्धेरर्थांतरभूतां व्याप्यविरुद्धोपलब्धिमुदाहरति; - व्यापकार्थविरुद्धोपलब्धिरत्र निवेदिता । यथा न सन्निकर्षादिः प्रमाणं परसंमतम् ॥ २४९ ॥ अज्ञानत्वादतिव्याप्तेर्ज्ञानत्वेन मितेरिह । व्यापकव्यापकद्विष्टोपलब्धिर्वेयमिष्यते ।। २५० ।। स्यात्साधकतमत्वेन स्वार्थज्ञप्तौ प्रमाणता । व्याप्ता या च तदव्याप्तं ज्ञानात्मत्वेन साध्यते २५१ यदा प्रमाणत्वं ज्ञानत्वेन व्याप्तं साध्यतेऽज्ञानस्य प्रमाणत्वेतिप्रसंगात् तदा तद्विरुद्धस्याज्ञानत्वस्यो - पलब्धिर्व्यापकविरुद्धोपलब्धिर्बोध्या न सन्निकर्षादिरचेतनः प्रमाणमज्ञानत्वादिति । यदा तु प्रमाणत्वं साधकतमत्वेन व्याप्तं तदपि ज्ञानात्मकत्वेन व्याप्तं साध्यते साधकतमस्य प्रमाणतानुपपत्तेरज्ञानात्मकस्य च स्वार्थप्रमितौ साधकतमत्वायोगात् । छिदिक्रियादावेवाज्ञानात्मनः परश्वादेः साधकतमोपपत्तेः । तदा व्यापकव्यापकविरुद्धोपलब्धिः सैवोदाहर्तव्या ॥ व्यापकद्विष्ठकायोपलब्धिः कार्योपलब्धिगा | श्रुतिप्राधान्यतः सिद्धा पारंपर्याद्विरुद्धवत् ।। २५२ यथा नात्मा विभुः काये तत्सुखाद्युपलब्धितः । विभुत्वं सर्वभूतार्थसंबंधित्वेन वस्तुतः २५३ व्याप्तं तेन विरोधीदं कायसंबंधमात्रकं । काय एव सुखादीनां तत्कार्याणां विबोधनम् ॥ २५४ ॥ ननु प्रदेशवृत्तीनां तेषां संवादनं कथं । शरीरमात्र संबंधमात्मनो भावयेत्सदा ।। २५५ ।। यतो निःशेषमूर्तार्थसंबंधविनिवर्तनात् । विभुत्वाभावसिद्धिः स्यादिति केचित्प्रचक्ष्यते॥२५६॥ तदयुक्तं मनीषायाः साकल्येनात्मनः स्थितेः । तच्छ्रन्यस्यात्मताहानेस्तादात्म्यस्य प्रसाधनात् ॥ यद्यपि शिरसि मे सुखं पादे मे वेदनेति विशेषतः प्रदेशवृत्तित्वं सुखादीनामनुभूयते तदनुभवविशेषाणां च तथापि ज्ञानसामान्यस्य सर्वात्मद्रव्यवृत्तित्वमेव, ज्ञानमात्रशून्यस्यात्म विरोधादतिप्रसक्तेरिति साधितं उपयोगात्मसिद्धैौ । ततो युक्तेयं व्यापकविरुद्ध कार्योपलब्धिः ॥ विरुद्धकार्यसंसिद्धिर्नास्त्येकांतेनपेक्षिण्य- । ने कांतेर्थक्रियादृष्टेरित्येवमवगम्यते ॥ २५८ ॥ निरपेक्षैकांतेन ह्यनेकांतो विरुद्धस्तत्कार्यमर्थक्रिया नुपलब्धिर्निषेधस्याभावं साधयति ॥ कारणार्थविरुद्धानुपलब्धिर्ज्ञायते यथा । नास्ति मिथ्याचरित्रं मे सम्यग्विज्ञानवेदनात् २५९ Page #220 -------------------------------------------------------------------------- ________________ २११ प्रथमोऽध्यायः। तद्धि मिथ्याचरित्रस्य कारणं विनिवर्तयेत् । मिथ्याज्ञाननिवृत्तिस्तु तस्य तद्विनिवर्तिका २६० ननु च सम्यग्विज्ञानान्मिथ्याज्ञाननिवृत्तिर्न मिथ्याचारित्रस्य निवृत्तिका प्रादुर्भूतसम्यग्ज्ञानस्यापि पुंसोऽचारित्रप्रसिद्धेः पूर्वस्य लाभे भजनीयमुत्तरमिति वचनादन्यथा तव्याघातादिति चेन्न, मिथ्याचारित्रस्य मिथ्यागमादिज्ञानपूर्वस्य पंचाग्निसाधनादेनिषेधत्वात् । चारित्रमोहोदये सति निवृत्तिपरिणामाभावलक्षणस्याचारित्रस्य तु निषेध्यत्वानिष्टेर्मोहोदयमात्रापेक्षित्वस्य तु द्वयोरप्यचारित्रमिथ्याचारित्रयोरभेदेन वचनमागमे व्यवस्थितिविरुद्धमेव मिथ्यादर्शने मिथ्याचारित्रस्यांतर्भावाच मिथ्याज्ञानवत् ॥ कारणद्विष्ठकार्योपलब्धिर्याथात्म्यवाकृतः । तस्य तेनाविनाभावात् पारंपर्येण तत्त्वतः ॥२६१॥ नास्ति मिथ्याचारित्रमस्य याथात्म्यवाकृदिति कारणविरुद्धकार्योपलब्धिः । मिथ्याचारित्रस्य हि निषेधस्य कारणं मिथ्याज्ञानं तेन विरुद्धं सम्यग्ज्ञानस्य कार्य याथात्म्यवचनं तन्निर्माय सुविवेचितं निषेध्याभावं साधयत्येव व्यभिचाराभावात् ॥ कारणव्यापकद्विष्ठोपलब्धिर्नास्ति निर्वृतिः । सांख्यादेर्ज्ञानमात्रोपगमादिति यथेक्ष्यते ॥२६२॥ निवृतेः कारणं व्याप्तं दृष्ट्यादित्रितयात्मना । तद्विरुद्धं तु विज्ञानमात्रं सांख्यादिसम्मतम्२६३ न हीयं कारणव्यापकविरुद्धोपलब्धिरसिद्धा निषेध्यस्य निर्वाणस्य हेतोर्व्यापकस्य सम्यग्दर्शनादित्रयात्मकत्वस्य निश्चयात् तद्विरुद्धस्य ज्ञानमात्रात्मकत्वस्य सांख्यादिभिः स्वयं संमतत्वात् ॥ कारणव्यापकद्विष्ठकार्यदृष्टिस्तु तद्वचः । सम्यग्विवेचितं साध्याविनाभावि प्रतीयते ॥२६४॥ सांख्यादेर्नास्ति निर्वाणं ज्ञानमात्रवचनश्रवणादिति कारणव्यापकविरुद्धकार्योपलब्धिः प्रत्येया सुविवेचितस्य कार्यस्य साध्याविनाभावसिद्धेः ॥ द्रष्टा सहचरद्विष्ठोपलब्धिस्तद्यथा मयि । नास्ति मत्याद्यविज्ञानं तत्त्वश्रद्धानसिद्धितः॥२६५॥ सहचारिनिषेधेन मिथ्याश्रद्धानमीक्षितम् । तनिहत्येव तद्वातितत्त्वश्रद्धानमंजसा ॥ २६६ ॥ तदभावे च मत्याद्यविज्ञानं विनिवर्तते । मतिज्ञानादिभावेन तदास्य परिणामतः ॥ २६७ ।। सहचरविरुद्धोपलब्धिरपि हि गमिका प्रतीयते इति प्रसिद्धासौ। . तथा सहचरद्विष्ठकार्यसिद्धिर्निवेदिता । प्रशमादिविनिर्णीतेस्तन्नामाखिति साधने ॥ २६८ ॥ तस्मिन् सहचरव्यापि विरुद्धस्योपलंभनम् । सद्दर्शनत्वनिर्णीतेरिति तज्जैरुदाहृतम् ॥ २६९ ॥ तदेतत्सहचरव्यापि द्विष्ठकार्योपलंभनम् । प्रमाणादिप्रतिष्ठानसिद्धेरिति निबुध्यताम् ॥२७॥ सहचारिनिमित्तेन विरुद्धस्योपलंभनं । तन्नास्त्यमासु दृग्मोहः प्रतिपक्षोपलंभतः ॥ २७१॥ यथेयं सहचरविरुद्धोपलब्धिर्नास्ति मयि मत्याद्यज्ञानं तत्त्वश्रद्धानोपलब्धेरिति तथा सहचरविरुद्धकार्योपलब्धिः प्रशमादिनिश्चितेरिति सहचरव्यापकविरुद्धोपलब्धिः सदर्शनत्वनिश्चितेरिति सहचरव्यापकविरुद्धकार्योपलब्धिः प्रमाणादिव्यवस्थोपलब्धेरिति सहचरकारणविरुद्धोपलब्धिर्दर्शनमोहप्रतिपक्षपरिणामोपलब्धेरिति निबुध्यतां मत्याद्यज्ञानलक्षणनिषेध्याभावाविनाभावप्रतीतेरविशेषात् ।। इत्येवं तद्विरुद्धोपलब्धिभेदाः प्रतीतिगाः । यथायोगमुदाहार्याः स्वयं तत्त्वपरीक्षकैः ॥२७२॥ इत्येवं निषिद्धे विरुद्धोपलब्धिभेदाश्चतुर्दशोदाहृताः प्रतीतिमनुसरंति कार्यकारणखभावोपलब्धिर्भेदत्रयवत्ततो यथायोगमन्यान्युदाहरणानि लोकसमयप्रसिद्धानि परीक्षकैरुपदर्शनीयानि प्रतीतिदायोपपत्तेः ॥ संप्रति साध्येनाविरुद्धस्याकार्यकारणेनार्थस्योपलब्धिभेदान् विभज्य प्रदर्शयन्नाह;साध्यार्थेन विरुद्धस्य कार्यकारणभेदिनः । उपलब्धिस्त्रिधाम्नाता प्राक्सहोत्तरचारिणः ॥२७३ Page #221 -------------------------------------------------------------------------- ________________ २१२ तत्त्वार्थश्लोकवार्तिके [सू० १३ तत्र पूर्वचरस्योपलब्धिः सिद्धांतवेदिनाम् । यथोदेष्यति नक्षत्रं शकटं कृत्तिकोदयात् ॥ २७४ ॥ पूर्वचारितनिःशेषं कारणं नियमादपि । कार्यात्मलाभ हेतूनां कारणत्वप्रसिद्धितः ॥ २७५ ॥ न रोहिण्युदयस्तु स्यादमुष्मिन् कृत्तिकोदयात् । तदनंतरसंधित्वाभावात्कालांतरेक्षणात् ।। २७६ विशिष्टकालमासाद्य कृत्तिकाः कुर्वते यदि । शकटं भरणिः किं न तत्करोति तथैव च २७७ व्यवधानादहेतुत्वे तस्यास्तत्र के वासना । स्मृतिहेतुर्विभाव्येत तत्त एवेत्यवर्तिनम् ॥ २७८ ॥ कारणं भरणस्तत्र कृत्तिकासहकारिणी । यदि कालांतरापेक्षा तथा स्यादश्विनी न किम् २७९ पितामहः पिता किं न तथैव प्रपितामहः । सर्वो वानादिसंतानः सूनोः पूर्वत्वयोगतः २८० स्वरूपलाभतोश्चेत् पितृत्वं नेतरस्य तु । प्राक् शकटस्य मा भूवन कृत्तिकाहेतवस्तथा ॥ २८९ ॥ पूर्वपूर्वचरादीनामुपलब्धिः प्रदर्शिता । पूर्वाचार्योपलंभेन ततो नार्थांतरं मतम् ॥ २८२ ॥ सहचार्युपलब्धिः स्यात्कायश्चैतन्यवानयम् । विशिष्टस्पर्शसंसिद्धेरिति कैश्चिदुदाहृतम् ।। २८३॥ कार्ये हेतुरयं स्वेष्टः समानसमयत्वतः । स्वातंत्र्येण व्यवस्थानाद्वामदक्षिणशुंगवत् ॥ २८४ ॥ एकसामम्यधीनत्वात्तयोः स्यात्सहभाविता । कान्यथा नियमस्तस्यास्ततोन्येषामितीति चेत् २८५ नैकद्रव्यात्मतत्त्वेन विना तस्या विरोधतः । सामग्र्येका हि तद्रव्यं रसरूपादिषु स्फुटम् २८६ न च तस्यानुमासाद्यमानाद्रसविशेषतः । समानसमयस्यैव रूपादेरनुमानतः ॥ २८७ ॥ कार्येण कारणस्यानुमानं येनेदमुच्यते । कारणेनापि रूपादेस्ततो द्रव्येण नानुमा ॥ २८८ ॥ समानकारणत्वं तु सामग्र्येका यदीष्यते । पयोरसात्सरोजन्मरूपस्यानुमितिर्न किम् ॥ २८९ ॥ यथैव हि पयोप (?) रूपाद्रससहायकात् । तथा सरोद्भवेपीति स्यात्समाननिमित्तता ॥ २९० ॥ प्रत्यासत्तेरभावाच्चेत्साध्यसाधनतानयोः । नष्टैकद्रव्यतादात्म्यात् प्रत्यासत्तिः परा च सा २९१ नन्वर्थांतरभूतानामहेतुफलनाश्रिताम् । सहचारित्वमर्थानां कुतो नियतमीक्ष्यसे ।। २९२ ॥ कार्यकारणभावास्ते कस्मादिति समं न किम् । तथा संप्रत्ययात्तुल्यं समाधानमपीदृशं ॥ २९३ ॥ स्वकारणात्तथाविवेज्जातो धूमस्य कारकः । चैतन्यसहकार्यस्तु स्पर्शोगे तददृष्टतः ।। २९४ ॥ दृष्टाद्धेतोर्विना येथे नियमात्सहचारिणः । अदृष्टकरणं तेषां किंचिदित्यनुमीयते ॥ २९५ ॥ द्रव्यतोऽनादिरूपाणां स्वभावोस्तु न तादृशः । साध्यसाधनतैवैषां तत्कृतान्योन्यमित्यसत् २९६ ये चार्वाक परभागाद्या नियमेन परस्पराः । सहभावमितास्तेषां हेतुरेतेन वर्णितः ॥ २९७ ॥ ततोतीतैककालानां गतिः किंकार्यलिंगजा । नियमादन्यथा दृष्टिः सहचार्यादसिद्धितः ।। २९८ तथोत्तरचरस्योपलब्धिस्तज्ज्ञैरुदाहृता । उद्गाद्भरणिराग्नेयदर्शनान्नभसीति सा ।। २९९ ॥ सर्वमुत्तरचाह कार्यमित्यनिराकृतेः । नाना प्राणिगणादृष्टात्सातेतरफलाद्विना ॥ ३०० ॥ पूर्वोत्तरचराणि स्युर्भानि क्रमभुवः सदा । नान्योन्यं हेतुता तेषां कार्याबाधा ततो मता ३०१ साध्यसाधनता न स्यादविनाभावयोगतः । तदेवं सहचरोपलब्ध्यादीनां कार्यखभावानुपलब्धिभ्योन्यत्वभाजां व्यवस्थापनात्ततोन्ये हेत्वाभासा एवेति न वक्तव्यं सौगतैरित्युपदर्शयति ; पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमादिति वाच्यं न धीमता ॥ ३०२ ॥ पक्षधर्मात्यये युक्ताः सहचार्यादयो यतः । सत्यं च हेतवो नातो हेत्वाभासास्तथापरे ॥ ३०३ ॥ त्रिधैव वाविनाभावानियमाद्धेतुरास्थितः । कार्यादिर्नान्य इत्येषा व्याख्यैतेन निराकृता ॥ ३०४ तदेवं कस्यचिदर्थस्य विधौ प्रतिषेधोपलब्धिभेदानभिधाय संप्रति निषेधेनुपलब्धिप्रपंचं निश्चिन्वन्नाह; - Page #222 -------------------------------------------------------------------------- ________________ २१३ प्रथमोऽध्यायः । निषेधेनुपलब्धिः स्यात्फलहेतुद्वयात्मना । हेतुसाध्याविनाभावनियमस्य विनिश्चयात् ॥३०५॥ निषेधेनुपलब्धिरेवेति नावधारणीयं विरुद्धोपलब्ध्यादेरपि तत्र प्रवृत्तिः निषेध एवानुपलब्धिरित्यवधारणे तु न दोषः प्रधानेन विधौ तदप्रवृत्तेः । सा च कार्यकारणानुभयात्मनामवबोद्धव्या ॥ तत्र कार्याप्रसिद्धिः स्यान्नास्ति चिन्मृतविग्रहे । वाकियाकारभेदानामसिद्धेरिति निश्चिता ३०६ ' ननु वागादिप्वप्रतिबद्धसामर्थ्याया एव चितो नास्तित्वं वचनानुपलब्धेः सिद्ध्येन्न तु प्रतिबद्धसामर्थ्याया विद्यमानाया अपि वागादिकार्ये व्यापारासंभवान्नावश्यं कारणानि कार्य चिति भवंति प्रतिबंधवैकल्यसंभवे कस्यचित्कारणस्य स्वकार्याकरणदर्शनात्ततो नेयं कार्यानुपलब्धिर्गमिका चिन्मात्राभावसिद्धाविति कश्चित् । तथापि संबंधकार्याभावात्कथं नित्यात्माद्यभावसिद्धिरिति खमतव्याहतिरुक्ता । ततः खसंताने संतानांतरं वर्तमानक्षणे क्षणांतरं संविदद्वये वेद्याकारभेदं वा तत्कार्यानुपलब्धेरसत्वेन साधयकार्यानुपलब्धेरन्यथानुपपत्तिसामर्थ्यानिश्चयाद्गमकत्वमभ्युपगंतुमर्हत्येव । खभावानुपलब्धेस्तु तादृशेनिष्टे प्रकृतकार्यानुपलब्धौ पुनरन्यथानुपपन्नत्वसामर्थ्य निश्चयो लोकस्य खत एवात्यंताभ्यासात्तादृशं लोको विवेचयतीति प्रसिद्धेस्ततः साधीयसी कार्यानुपलब्धिः ॥ कारणानुपलब्धिस्तु नार्थिताचरणं शुभम् । सम्यग्बोधोपलंभस्याभावादिति विभाव्यते॥३०७॥ सम्यग्बोधो हि कारणं सम्यक्चारित्रस्य तदनुपलब्धितः वसंताने तदभावं साधयति कुतश्चिदुपजातस्य विभ्रमस्यान्यथा विच्छेदायोगात् ॥ अहेतुफलरूपस्य वस्तुनोनुपलंभनम् । द्वेधा निषेध्य तादात्म्येतरसादृष्टिकल्पनात् ॥ ३०८ ॥ तत्राभिन्नात्मनोः सिद्धिर्द्विविधा संप्रतीयते । स्वभावानुपलब्धिश्च व्यापकादृष्टिरेव च ॥३०९॥ आद्या यथा न मे दुःखं विषादानुपलंभतः । व्यापकानुपलब्धिस्तु वृक्षादृष्टेने शिंशपा॥३१०॥ कार्यकारणभिन्नस्यानुपलब्धिर्न बुध्यताम् । सहचारिण एवात्र प्रतिषेधेन वस्तुना ॥ ३११ ॥ मयि नास्ति मतिज्ञानं सदृष्ट्यनुपलब्धितः । रूपादयो न जीवादौ स्पर्शासिद्धेरितीयताम्३१२ सैवमनुपलब्धिः पंचविधोक्ता श्रुतिप्राधान्यात् । ननु कारणव्यापकानुपलब्धयोपि श्रूयमाणाः संति । सत्यं । तास्त्वत्रैवांतर्भावमुपयांतीत्याह;कारणव्यापकदृष्टिप्रमुखाश्चास्य दृष्टयः । तत्रांतर्भावमायांति पारंपर्यादनेकधा ॥ ३१३ ॥ काः पुनस्ता इत्याह;प्राणादयो न संत्येव भस्मादिषु कदाचन । जीवत्वासिद्धितो हेतुव्यापकादृष्टिरीदृशी ॥३१४॥ क्वचिदात्मनि संसारप्रसूतिर्नास्ति काय॑तः । सर्वकर्मोदयाभावादिति वा समुदाहृता॥३१५॥ तद्धेतुहेत्वदृष्टिः स्यान्मिथ्यात्वाद्यप्रसिद्धितः । तन्निवृत्तौ हि तद्वेतुकर्माभावात्क संमृतिः३१६ तत्कार्यव्यापकासिद्धियेथा नास्ति निरन्वयं । तत्त्वं क्रमाक्रमाभावादन्वयकांततत्त्ववत् ॥३१७॥ तत्कार्यव्यापकस्यापि पदार्थानुपलंभनं । परिणामविशेषस्याभावादिति विभाव्यताम् ॥३१८॥ कारणव्यापका दृष्टिः सांख्यादेर्नास्ति निर्वृतिः । सदृष्ट्यादित्रयासिद्धेरियं पुनरुदाहृता ३१९ कारणव्यापका व्याप्तिः स्वभावानुपलंभनं । तत्रैव परिणामस्यासिद्धेरिति यथोच्यते ॥३२०॥ परिणामनिवृत्तौ हि तद्याप्तं विनिवर्तते । सदृष्ट्यादित्रयं मार्ग व्यापकं पूर्ववत्परम् ।।३२१॥ सहचारिफला दृष्टिर्मत्यज्ञानादि नास्ति मे । नास्तिक्याध्यवसानादेरभावादिति दर्शिता ३२२ नास्तिक्यपरिणामो हि फलं मिथ्यादृशः स्फुटम् । सहचारितया मत्यज्ञानादिवद्विपश्चिताम्३२३ Page #223 -------------------------------------------------------------------------- ________________ २१४ तत्त्वार्थलोकवार्तिके [सू० १३ सहचारिनिमित्तस्यानुपलब्धिरुदाहृता । दृष्टिमोहोदयासिद्धेरिति व्यक्तं तथैव हि ॥ ३२४ ॥ सहभूव्यापका दृष्टिर्नास्ति वेदकदर्शनैः । सहभावि मतिज्ञानं तत्त्वश्रद्धानहानितः ॥ ३२५ ।। सहभूव्यापि हेत्वाद्यदृष्टयोप्यविरोधतः । प्रत्येतव्याः प्रपंचेन लोकशास्त्रनिदर्शनैः ॥ ३२६ ॥ सहचरव्यापककार्यानुपलब्धिर्यथा नास्त्यभव्ये सम्यग्विज्ञानं दर्शनमोहोपशमाद्यभावात् । सहचरव्यापककारणानुपलब्धिर्यथा तत्रैवाधःप्रवृत्तादिकरणकाललब्ध्याघभावात् । सहचरव्यापककारणव्यापकानुपलब्धिस्तत्रैव दर्शनमोहोपशमादित्वाभावादिति समयप्रसिद्धान्युदाहरणानि । लोकप्रसिद्धानि पुन श्वस्य दक्षिणं शृंगं शृंगारंभकाभावादिति सहचरव्यापककारणानुपलब्धिः । दक्षिणशृंगसहचारिणो हि वामशृंगस्य व्यापकं शृंगमात्रं तस्य कारणं तदारंभकाः पुद्गलविशेषाः तदनुपलब्धिर्दक्षिणशृंगस्याभावं साधयत्येव । सहचरव्यापककारणकारणानुपलब्धिस्तत्रैव शृंगारंभकपुद्गलसामान्याभावादिति प्रतिपत्तव्यानि ॥ उपलब्ध्यनुपलब्धिभ्यामित्येवं सर्वहेतवः । संगृह्यते न कार्यादित्रितयेन कथंचन ॥ ३२७ ॥ नापि पूर्ववदादीनां त्रितयो न निषेधने । साध्ये तस्यासमर्थत्वाद्विधा चैव प्रयुक्तितः॥३२८॥ ननु च कार्यखभावानुपलब्धिभिः सर्वहेतूनां संग्रहो मा भूत् सहचरादीनां तत्रांतर्भावयितुमशक्तेः । पूर्ववदादिभिस्तु भवत्येवं विधौ निषेधे च पूर्ववतः परिशेषानुमानस्य सामान्यतो दृष्टस्य च प्रवृत्तिविरोधात्सहचरादीनामपि तत्रांतर्भावयितुमशक्यत्वात् । ते हि पूर्ववदादिलक्षणयोगमनतिकामंतो न ततो भिद्यत इति कश्चित् । सोपि यदि पूर्ववदादीनां साध्याविरुद्धानामुपलब्धि विधौ प्रयुंजीत निषेध्यं विरुद्धानां च प्रतिषेधे निषेध्यखभावकारणादीनां त्वनुपलब्धि तदा कथमुपलब्ध्यनुपलब्धिभ्यां सर्वहेतुसंग्रहं नेच्छेत् ॥ पूर्ववत्कारणात्कार्येनुमानमनुमन्यते । शेषवत्कारणे कार्याद्विज्ञानं नियतस्थितेः ॥ ३२९ ।। कार्यकारणनिर्मुक्तादर्थात्साध्ये तथाविधे । भवेत्सामान्यतो दृष्टमिति व्याख्यानसंभवे॥३३०॥ विधौ तदुपलंभः स्युनिषेधेनुपलब्धयः । ततश्च पड्विधो हेतुः संक्षेपात्केन वायेते ॥ ३३१ ॥ अत्र निषेधेनुपलब्धय एवेति नावधार्यते खभावविरुद्धोपलब्ध्यादीनामपि तत्र व्यापारात् तत एव विधावेवोपलब्धय इति नावधारणं श्रेय इत्युक्तप्रायं । एतेन प्राग्व्याख्यानेपि पूर्ववदादीनामुपलब्धयस्तिस्रोनुपलब्धयश्चेति संक्षेपात् षड्डिधो हेतुरनिवार्यत इति निवेदितं । अतिसंक्षेपाद्विशेषतो द्विविध उच्यते सामान्यादेक एवान्यथानुपपत्तिनियमलक्षणोर्थ इति न किंचिद्विरुद्धमुत्पश्यामः ॥ पड्डिधो हेतुः कुतो न निवार्यत इत्याह; केवलान्वयसंयोगी वीतभूतादिभेदतः । विनिर्णीताविनाभावहेतूनामत्र संग्रहात् ॥ ३३२ ॥ न हि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिणः संयोगिसमवायिविरोधिनो वा वीतावीततदुभयस्वभावा वा भूतादयो वा कार्यकारणानुभवोपलंभनातिक्रमं नियता नियतहेतुभ्योन्ये भवेयुरविनाभावनियमलक्षणयोगिनां तेषां तत्रैवांतर्भवनादिति प्रकृतमुपसंहरन्नाह ।। अन्यथानुपपत्त्येकलक्षणं साधनं ततः । सूक्तं साध्यं विना सद्भिः शक्यत्वादिविशेषण ३३३ एवं हि यैरुक्तं “साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोपरं । साध्याभासं विरुद्धादिसाधनाविषयत्वतः ॥" इति तैः सूक्तमेव, अन्यथानुपपत्त्येकलक्षणसाधनविषयस्य साध्यत्वप्रतीतेस्तदविषयस्य प्रत्यक्षादिविरुद्धस्य प्रसिद्धस्यानभिप्रेतस्य वा साधयितुमशक्यस्य साध्याभासत्वनिर्णयात् । तत्र हि शक्यं साधयितुं साध्यमित्यनेन निराकृतः । प्रत्यक्षादिप्रमाणेन पक्ष इत्येतदास्थितम् ॥३३४॥ Page #224 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २१५ तेनानुष्णोग्रिरित्येष पक्षः प्रत्यक्षवाधितः । धूमोननिज एवायमिति लैंगिक बाधितः ॥ ३३५ ॥ प्रेत्य सुखप्रदो धर्म इत्यागमनिराकृतः । नृकपालं शुचीति स्याल्लोकरूढिप्रबाधितः ॥ ३३६ ॥ पक्षाभासः स्ववाग्वाध्यः सदा मौनव्रतीति यः । स सर्वोपि प्रयोक्तव्यो नैव तत्त्वपरीक्षकैः ३३७ शब्दक्षणक्षयैकांतः सत्त्वादित्यत्र केचन । दृष्टांताभावतोशक्यः पक्ष इत्यभ्यमंसत ।। ३३८ ॥ तेषां सर्वमतमिति पक्षो विरुध्यते । तत एवोभयोः सिद्धो दृष्टांतो न हि कुत्रचित् ३३९ प्रमाणबाधितत्वेन साध्याभासत्वभाषणे । सर्वस्तथेष्ट एवेह सर्वथैकांत संगरः ॥ ३४० ॥ तथा साध्यमभिप्रेतमित्यनेन निवार्यते । अनुक्तस्य स्वयं साध्याभावाभावः परोदितः ॥ ३४९ ॥ यथा ह्युक्तो भवेत्पक्षस्तथानुक्तोपि वादितः । प्रस्तावादिवलात्सिद्धः सामर्थ्यादुक्त एव चेत् ३४२ स्वागमोक्तोपि किं न स्यादेव पक्षः कथंचन । तथानुक्तोपि चोक्तो वा साध्यः खेष्टोस्तु तात्त्विकः ॥ नानिष्टतिप्रसंगस्य परिहर्तुमशक्तितः । ननु नेच्छति वादीह साध्यं साधयितुं स्वयम् ||३४४|| प्रसिद्धस्यान्यसंवित्तिकारणापेक्ष्यवर्तनात् । प्रतिवाद्यपि तस्यैतन्निराकृतिपरत्वतः ॥ ३४५ ॥ सत्या नोभयसिद्धान्तवेदिनः पक्षपातिनः । इत्ययुक्तमवक्तव्यमभिप्रेत विशेषणम् ॥ ३४६ जिज्ञासित विशेषत्वमिवान्ये संप्रचक्षते । तदसद्वादिनेष्टस्य साध्यत्वाप्रतिघातितः ।। ३४७ ।। स्वार्थानुमासु पक्षस्य तन्निश्वयविवेकतः । परार्थेष्वनुमानेषु परो बोधयितुं स्वयम् ॥ ३४८ ॥ किं नेष्टस्येह साध्यत्वं विशेषानभिधानतः । इष्टः साधयितुं साध्यः स्वपरप्रतिपत्तये || ३४९|| इति व्याख्यानतो युक्तमभिप्रेतविशेषणं । अप्रसिद्धं तथा साध्यमित्यनेनाभिधीयते ॥ ३५० ॥ तस्यारेका विपर्यासा व्युत्पत्तिविषयात्मता । तस्य तद्व्यवच्छेदत्वात्सिद्धिरर्थस्य तत्त्वतः ॥ ३५१ ततो न युज्यते वक्तुं व्यस्तो हेतोरपाश्रयः । संशयो ह्यनुमानेन यथा विच्छिद्यते तथा ।। ३५२ || अव्युत्पत्तिविपर्यासावन्यथा निर्णयः कथं । अव्युत्पन्नविपर्यस्तौ नाचार्यमुपसर्पतः ॥ ३५३ ॥ कौचेदेव यथा तद्वत्संशयात्मापि कथ नः । नावश्यं निर्णयाकांक्षा संदिग्धस्याप्यनर्थिनः ३५४ संदेहमात्रकास्थानात्स्वार्थसिद्धौ प्रवर्तनात् । यथाप्रवर्तमानस्य संदिग्धस्य प्रवर्तनम् ॥ ३५५ ॥ विधीयतेनुमानेन तथा किं न निषिध्यते । अव्युत्पन्नविपर्यस्तमनसोप्यप्रवर्तनम् ॥ ३५६ ॥ परानुग्रहवृत्तीनामुपेक्षानुपपत्तितः । अविनेयिषु माध्यस्थ्यं न चैवं प्रतिहन्यते ॥ ३५७ ॥ रागद्वेषविहीनत्वं निर्गुणेषु हि तेषु नः । स्वयं माध्यस्थ्यमालंब्य गुणदोषोपदेशना || ३५८ ॥ कार्या तेभ्योपि धीमद्भिस्तद्विनेयत्वसिद्धये । अव्युत्पन्नविपर्यस्ता प्रतिपाद्यत्वनिश्वये ॥ ३५९ ॥ प्रतिपाद्यः कथं नाम दुष्टोज्ञः स्वसुतो जनैः । लौकिकस्याप्रबोध्यत्वे कथमस्तु परीक्षकः ३६० प्रबोध्यस्तस्य यत्नेन क्रमतस्तत्त्वसंभवात् । प्रतिपाद्यस्ततस्त्रेधा पक्षस्तत्प्रतिपत्तये || ३६१ ।। संदिग्धादिः प्रयोक्तव्योऽप्रसिद्ध इति कीर्तनात् । सुप्रसिद्धश्च विक्षिप्तः पक्षोऽकिंचित्करत्वतः ३६२ तत्र प्रवर्तमानस्य साधनस्य स्वरूपवत् । समारोपे तु पक्षत्वं साधनेपि न वार्यते ॥ ३६३ ॥ स्वरूपेणैव निर्दिश्यस्तथा सति भवत्यसौ । जिज्ञासितविशेषस्तु धर्मी यैः पक्ष इष्यते ॥ ३६४ ॥ तेषां संति प्रमाणानि वेष्टसाधनतः कथं । धर्मिण्यसिद्धरूपेपि हेतुर्गमक इष्यते ॥ ३६५ ॥ अन्यथानुपपन्नत्वं सिद्धं सद्भिरसंशयं । धर्मिसंतानसाध्याश्चेत् सर्वे भावाः क्षणक्षयाः ॥ ३६६ ॥ इति पक्षो न युज्येत तोस्तद्धर्मतापि च । प्रत्यक्षेणाप्रसिद्धत्वाद्धर्मिणामिह कार्यतः ॥ ३६७॥ अनुमानेन तत्सिद्धौ धर्मसत्ताप्रसाधनं । परप्रसिद्धितस्तेषां धर्मित्वं हेतुधर्मवत् ॥ ३६८ ॥ ध्रुवं तेषां स्वतंत्रस्य साधनस्य निषेधकं । प्रसंगसाधनं वेच्छेत्तत्र धर्मिग्रहः कुतः || ३६९ ॥ Page #225 -------------------------------------------------------------------------- ________________ २१६ तत्त्वार्थश्लोकवार्तिके [सू० १३ इति धर्मिण्यसिद्धेपि साधनं मतमेव च । व्याप्यव्यापकभावे हि सिद्धे साधनसाध्ययोः ३७० प्रसंगसाधनं प्रोक्तं तत्प्रदर्शनमात्रकं । अथ निःशेषशून्यत्ववादिनं प्रति तार्किकैः ॥ ३७१ ॥ विरोधोद्भावनं स्वेष्टे विधीयतेति संमतं । तदप्रमाणकं तावदकिंचित्करमीक्ष्यते ॥ ३७२ ॥ सप्रमाणकता तस्य क प्रमाणाप्रसाधने । नन्विष्टसाधनात् संति प्रमाणानीति भाषणे ॥३७३॥ समः पर्यनुयोगोयं प्रमाशून्यत्ववादिनः । तदिष्टसाधनं तावदप्रमाणमसाधनम् ॥ ३७४॥ स्वसाध्येन प्रमाणं तु न प्रसिद्धं द्वयोरपि । तदसंगतमिष्टस्य संविन्मात्रस्य साधनम् ॥३७५॥ स्वयं प्रकाशनं ध्वस्तव्यभिचारं हि सुस्थितं । स्वसंवेदनमध्यक्षं वादिनो मानमंजसा ॥३७६॥ ततोन्येषां प्रमाणानामस्तित्वस्य व्यवस्थितिः । नन्विष्टसाधनं धर्मिप्रमाणैरपरैर्युतम् ॥ ३७७ ॥ तदिष्टसाधनत्वस्येतरथानुपपत्तितः । एवं प्रयोगतः सिद्धिः प्रमाणानामनाकुलम् ॥ ३७८ ॥ तत्सत्ता नैव साध्या स्यात्सर्वत्रेति परे विदुः । यतोभयं तदेवैषां स्वयमग्रे व्यवस्थितम् ।।३७९ हेतोरनन्वयत्वस्य प्रसंजनमसंशयं । सत्तायां हि प्रसाध्यायां विशेषस्यैव साधनात् ॥ ३८० ॥ यथानन्वयतादोषस्तथात्राप्यनिदर्शनात् । हेतोरनन्वयस्यापि गमकत्वोपवर्णने ॥ ३८१ ॥ सत्ता साध्यास्तु मानानामिति धर्मी न संगरः। धर्मिधर्मसमूहोत्र पक्ष इत्यपसारितम् ॥३८२ एतेनेति स्थितः साध्यः पक्षो विध्वस्तबाधकः । व्याप्तिकाले मतःसाध्यः पक्षो येषां निराकुलः॥ सोन्यथैव कथं तेषां लक्षणव्यवहारयोः। व्याप्तिः साध्येन निर्णीता हेतोः सार्धं प्रसाध्यते३८४ तदेवं व्यवहारेपीत्यनवा न चान्यथा । धर्मिणोप्यप्रसिद्धस्य साध्यत्वाप्रतिघातितः ॥३८५॥ . अस्ति धर्मिणि धर्मस्य चेति नोभयपक्षता । तद्यत्र साधनाद्बोधो नियमादभिजायते ॥३८६॥ स तस्य विषयः साध्यो नान्यः पक्षोस्तु जातुचित् ।। तदेवं शक्यत्वादिविशेषणसाध्यसाधनाय कालापेक्षत्वेन व्यवस्थापिते अन्यथानुपपत्त्येकलक्षणे साधने च प्रकृतमभिनिबोधलक्षणं व्यवस्थितं भवति । यः साध्याभिमुखो बोधः साधनेनानिद्रियसहकारिणा नियमितः सोभिनिबोधः खार्थानुमानमिति कश्चिदाह; इंद्रियाणींद्रियार्थाभिमुखो बोधो न तु स्मृतः । नियतोक्षमनोभ्यां यः केवलो न तु लिंगजः ३८७ इंद्रियानिद्रियाभ्यां नियमितः कृतः स्वविषयाभिमुखो बोधोभिनिबोधः प्रसिद्धो न पुनरनिंद्रियसहकारिणा लिंगेन लिंगिनियमितः केवल एव चिंतापर्यंतस्याभिनिबोधत्वाभावप्रसंगात् । तथा च सिद्धांतविरोधोऽशक्यः परिहर्तुमित्यत्रोच्यतेसत्यं स्वार्थानुमानं तु विना यच्छब्दयोजनात् । तन्मानांतरतां मागादिति व्याख्यायते तथा ३८८ - न हि लिंगज एव बोधोभिनिवोध इति व्याचक्ष्महे । किं तर्हि । लिंगजो बोधः शब्दयोजनरहितोभिनिबोध एवेति तस्य प्रमाणांतरत्वनिवृत्तिः कृता भवति सिद्धांतश्च संगृहीतः स्यात् । न हींद्रियानिद्रियाभ्यामेव स्वविषयेभिमुखो नियमितो बोधोभिनिबोध इति सिद्धांतोस्ति स्मृत्यादेस्तद्भावविरोधात् । किं तर्हि । सोनिंद्रियेणापि वाक्यभेदात् । कथं अनिद्रियजन्याभिनिबोधे कमनिंद्रियजाभिमुखनियमितबोधनमिति व्याख्यानात् । नन्वेवमप्यर्थापत्तिः प्रमाणांतरमप्रत्यक्षत्वात् परोक्षभेदेषूक्तेष्वनंतर्भावात् । प्रमाणषटू विज्ञातस्यार्थस्यानन्यथाभवनयुक्तस्य सामर्थ्याददृष्टान्यवस्तुकल्पने अर्थापत्तिव्यवहारात् । तदुक्तं । "प्रमाणषटू विज्ञातो यत्रार्थोनन्यथा भवेत् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥” प्रत्यक्षपूर्विका ह्यर्थापत्तिः प्रत्यक्षविज्ञातादर्थादन्यथा दृष्टेथे प्रतिपत्तियथा रात्रिभोजी देवदत्तोयं दिवा भोजनरहितत्वे Page #226 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २१७ चिरंजीवित्वे च सति स्तनपीनांगत्वान्यथानुपपत्तेरिति, तथोपमानपूर्विकोपमानविज्ञातादर्थाद्वाहादिशक्तिरयं गवयो गवयत्वान्यथानुपपत्तेरिति, तथागमपूर्विका आगमविज्ञातादर्थादर्थप्रतिपादनशक्तिः शब्दो नित्यार्थसंबंधत्वान्यथानुपपत्तेरिति, तथार्थापत्तिपूर्विकार्थापत्तिरपत्तिप्रमाणविज्ञातादर्थाद्यथा रात्रिभोजनशक्तिः विवादापन्नो देवदत्तोयं रात्रिभोजित्वान्यथानुपपत्तेरिति । तथैवाभावपूर्विकार्थापत्तिरभावप्रमाण• विज्ञातादर्थाद्यथास्मागृहाहहिस्तिष्ठति देवदत्तो जीवित्वे सत्यत्राभावान्यथानुपपत्तेरिति । एतेनाभावस्य प्रमाणांतरत्वमुक्तमुपमानस्य वा वस्तुनो सतः सदुपलंभकप्रमाणाप्रवृत्तेरभावप्रमाणस्यावश्याश्रयणीयत्वात् । सादृश्यविशिष्टाद्वस्तुनो वस्तुविशिष्टाद्वा सादृश्यात् परोक्षार्थप्रतिपत्तिरभ्युपगमनीयत्वाच्चेति केचित् । संभवः प्रमाणांतरमाढकं दृष्ट्वा संभवत्यद्वढिकमिति प्रतिपत्तेरन्यथा विरोधात् । प्रातिभं च प्रमाणांतरमत्यंताभ्यासादन्यजनावेद्यस्य रत्नादिप्रभावस्य झटिति प्रतिपत्तेर्दर्शनादित्यन्ये तान् प्रतीदमुच्यते;सिद्धः साध्याविनाभावोह्यर्थापत्तेः प्रभावकः। संभवादेश्च यो हेतुः सोपि लिंगान भिद्यते३८९ दृष्टांतनिरपेक्षत्वं लिंगस्यापि निवेदितम् । तन्न मानांतरं लिंगादर्थापत्त्यादिवेदनम् ॥ ३९० ॥ मतिज्ञान विशेषाणामुपलक्षणता स्थितं । तेन सर्व मतिज्ञानं सिद्धमाभिनिवोधिकम् ॥ ३९१ ॥ तदिद्रियानिद्रियनिमित्तम् ॥ १४ ॥ मतिविज्ञानस्याभ्यंतरत्वात्तन्निमित्तं मतिज्ञानावरणवीर्यांतरायक्षयोपशमलक्षणं प्रसिद्धमेव वामुनानुमानादेस्तद्भावायोगादतः किमर्थमिदमुच्यते सूत्रमित्याशंकायामाह;तस्य बाह्यनिमित्तोपदर्शनायेदमुच्यते । तदित्यादिवचः सूत्रकारेणान्यमतच्छिदे ॥ १॥ कस्य पुनस्तच्छब्देन परामर्शो यस्य बाह्यनिमित्तोपदर्शनार्थ तदित्यादिसूत्रमभिधीयत इति तावदाह;तच्छब्देन परामर्शोनांतरमिति ध्वनेः । वाच्यस्सैकस्य मत्यादिप्रकारस्याविशेषतः ॥२॥ मतिज्ञानस्य सामर्थ्याल्लभ्यमानस्य वाक्यवतः प्रत्यासन्नत्वादभिनिबोधस्य तच्छब्देन परामर्शः प्रसक्तश्चिंता तस्याः प्रत्यासत्तेरिति न मंतव्यमर्थातरमिति शब्देन वाच्यस्य मत्यादिप्रकारस्यैकस्याविशेषतः सामर्थ्याल्लभ्यमानस्य प्रत्यासन्नतरस्य सुखवद्भावात्तच्छब्देन परामर्शोत्पत्तेः खेष्टसिद्धेश्च तस्यास्य बाह्यनिमित्तमुपदर्शयितुमिदमुच्यते । किं पुनस्तदित्याह;वक्ष्यमाणं च विज्ञेयमद्रियमनिंद्रियम् । वक्ष्यते हि स्पर्शनादींद्रियं पंच द्रव्यभावतो द्वैविध्यमास्तिनुवानं तथानिंद्रियं चानियतमिंद्रियेप्टेभ्योन्यत्वमात्मसात्कुर्वदिति नेहोच्यते । तद्वाह्यनिमित्तं प्रतिपत्तव्यं । किमिदं ज्ञापकं कारकं वा तस्येष्टं कुतः खेष्टसंग्रह इत्याह;निमित्तं कारकं यस्य तत्तथोक्तं विभागतः । वाक्यस्यास्य विशेषाद्वा पारंपर्यस्य चाश्रितौ ॥३॥ तद्धि निमित्तमिह न ज्ञापकं तत्प्रकरणाभावात् । किं तर्हि । कारकं । तथा च सति प्रकृतमिद्रियमनिंद्रियं च निमित्तं यस्य तत्तथोक्तमेकं मतिज्ञानमिति ज्ञायते इष्टसंग्रहः । पुनरस्य वाक्यस्य विभजनात्तदिंद्रियानिद्रियनिमित्तं धारणापर्यंतं तदनिंद्रियनिमित्तं स्मृत्यादीनां सर्वसंग्रहात् । पारंपर्यस्य चाश्रयणे वाक्यस्याविशेषतो वाभिप्रेतसिद्धिः । यथा हि धारणापर्यंत तदिंद्रियानिद्रियनिमित्तं तथा स्मृत्यादिकमपि तस्य परंपरसेंद्रियानिद्रियनिमित्तत्वोपपत्तेः । किं पुनरत्र तदेवेंद्रियानिद्रियनिमित्तमित्यवधारणमाहोवित्तदिद्रियानिद्रियनिमित्तमेवेति कथंचिदुभयमिष्टमित्याह; २८ . Page #227 -------------------------------------------------------------------------- ________________ २१८ तत्त्वार्थश्लोकवार्तिके [सू०१४ वाक्यभेदाश्रये युक्तमवधारणमुत्तरं । तदभेदे पुनः पूर्वमन्यथा व्यभिचारिता ॥ ४ ॥ कुतः पुनरवधारणादन्यमतच्छित्कुतो वा मत्यज्ञानं श्रुतादीनि च व्यवच्छिन्नानीत्याह;ध्वस्तं तत्रार्थजन्यत्वमुत्तरादवधारणात् । मत्यज्ञानश्रुतादीनि निरस्तानि तु पूर्वतः ॥ ५ ॥ अत्रार्थजन्यमेव विज्ञानमनुमानात्सिद्धं नार्थाजन्यं यतस्तव्यवच्छेदार्थमुत्तरावधारणं स्यादिति मन्यमानस्यानुमानमुपन्यस्य दूषयन्नाह; खजन्यज्ञानसंवेद्यार्थः प्रमेयत्वतो ननु । यथानिंद्रियमित्येके तदसयभिचारतः ॥ ६ ॥ निःशेषवर्तमानार्थो न स्वजन्येन सर्ववित् । संवेदनेन संवेद्यः समानक्षणवर्तिना ॥७॥ स्वार्थजन्यमिदं ज्ञानं सत्यज्ञानत्वतोन्यथा । विपर्यासादिवत्तस्य सत्यत्वानुपपत्तितः ॥८॥ इत्यप्यशेषविद्धोधैरनैकांतिकमीरितं । साधनं न ततो ज्ञानमर्थजन्यमिति स्थितम् ॥९॥ नन्वेवमालोकजन्यत्वमपि ज्ञानस्य चाक्षुषस्य तस्यादिष्टं च तदन्यथानुपपत्तेः । परप्रत्ययः पुनरालोकलिंगादिरिति वचनात् । तदन्वयव्यतिरेकानुविधानात्तस्य तज्जन्यत्वार्थजन्यत्वमपि सत्यस्यास्मदादिज्ञानस्यास्तु विशेषाभावात् । न चैवं संशयादिज्ञानमंतरेण विरुध्यते तस्य सत्यज्ञानत्वाभावात् । नापि सर्वविद्वोधैरनैकांतिकत्वमस्मदादिसत्यज्ञानत्वस्य हेतुत्वात् । अस्मदादिविलक्षणानां तु सर्वविदां ज्ञानं चार्थाजन्यं निश्चित्यास्मदादिज्ञानेाजन्यत्वशंकायां नक्तंचराणां मार्जारादीनामंजनादिसंस्कृतचक्षुषां वास्मद्विजातीयानामालोकाजन्यत्वमुपलभ्यास्मदादीनामपि नार्थावेदनस्यालोकाजन्यत्वं शंकनीयमिति कश्चित् तं प्रत्याह; आलोकेनापि जन्यत्वेनालंबनतया भिदः । किं त्विद्रियबलाधानमात्रत्वेनानुमन्यते ॥१०॥ तथार्थजन्यतापीष्टा कालाकाशादितत्त्ववत् । सालंबनतया त्वर्थो जनकः प्रतिषिध्यते ॥११॥ इदमिह संप्रधार्य किमस्मदादिसत्यज्ञानत्वेनालोको निमित्तमात्रं चाक्षुषज्ञानस्येति प्रतिपाद्यते कालाकाशादिवत् आहोस्खिदालंबनत्वेनेति ? प्रथमकल्पनायां न किंचिदनिष्टं द्वितीयकल्पना तु न युक्ता प्रतीतिविरोधात् । रूपज्ञानोत्पत्तौ हि चक्षुर्बलाधानरूपेणालोकः कारणं प्रतीयते तदन्वयव्यतिरेकानुविधानस्यान्यथानुपपत्तेः तद्वदर्थोपि यदाद्यक्षणज्ञानस्य जनकः स्यान्न किंचिद्विरुध्यते तस्यालंबनत्वेन जनकत्वोपगमे व्याघातात् । आलंबनं ह्यालंबनत्वं ग्राह्यत्वं प्रकाश्यत्वमुच्यते तच्चार्थस्य प्रकाशकसमानकालस्य दृष्टं यथा प्रदीपः खप्रकाशस्य । न हि प्रकाश्योर्थः खप्रकाशकं प्रदीपमुपजनयति खकारणकलापादेव तस्योपजननात् प्रकाश्यस्याभावे प्रकाशकस्य प्रकाशकत्वायोगात् । स तस्य जनक इति चेत् , प्रकाशकस्याभावे प्रकाश्यस्यापि प्रकाश्यत्वाघटनात् । स तस्य जनकोस्तु तथा चान्योन्याश्रयणं प्रकाश्यानुपपत्ती प्रकाशकानुपपत्तेस्तदनुत्पत्तौ च प्रकाश्यानुत्पत्तिरिति । यदि पुनः खकारणकलापादुत्पन्नयोः प्रदीपघटयोः खरूपतोभ्युपगमादन्योन्यापेक्षौ प्रकाशकत्वप्रकाश्यत्वधर्मों परस्पराविनाभाविनौ भविष्येते तथान्योन्याश्रयणात्ततरादत्ताज्ञानार्थयोरपि खसामग्रीबलादुपजातयोः खरूपेण परस्परापेक्षया ग्राह्यग्राहकभावधर्मव्यवस्था स्थीयतां तथा प्रतीतेरविशेषात् । तदुक्तं । "धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया । न खरूपं खतो ह्येतत्कारकज्ञापकादिति" ततो ज्ञानस्यालंबनं चेदर्थो न जनकः जनकश्चेन्नालंबनं विरोधात् । पूर्वकालभाव्यर्थो ज्ञानस्य कारणं समानकालः स एवालंबनं तस्य क्षणिकत्वादिति चेत् न हि, यदा जनकस्तदालंबनमिति कथमालंबनत्वेन जनकोर्थः संविदः स्यात् । पूर्वकाल एवार्थो जनको ज्ञानस्यालंबनं च खाकारार्पणक्षमत्वादिति वचनमयुक्तं समानार्थसमनंतरज्ञानेन व्यभिचारात् । न त्वालंबनत्वेन Page #228 -------------------------------------------------------------------------- ________________ २१९ प्रथमोऽध्यायः । यो जनकः खाकारार्पणक्षमश्च स ग्राह्यो ज्ञानस्य न पुनः समनंतरत्वेनाधिपतित्वेन वा यतो व्यभिचार इति चेदितराश्रयप्रसंगात् । सत्यालंबनत्वेन जनकत्वेर्थस्य ज्ञानालंबनत्वं सति च तस्मिन्नालंबनत्वेन जनकस्य ग्राह्यत्वाव्यभिचारात् । परमाणुना व्यभिचार इत्यपि न श्रेयः परमाणोरेकस्यालंबनत्वेन ज्ञान जनकत्वासंभवात् । संचितालंबनाः पंच विज्ञानकाया इति वचनात् । प्रत्येकं परमाणूनामालंबनत्वेन ते • बुद्धिगोचरा इति ग्रंथविरोधात् । तर्हि योधिपतिसमनंतरालंबनत्वेनाजनको निमित्तमात्रत्वेन जनकः खाकारार्पणक्षमः खसंवेदनस्य ग्राह्योस्त्वव्यभिचारादिति चेन्न, तस्यासंभवात् । न हि संवेदनस्याधिपत्यादिव्यतिरिक्तोन्यः प्रत्ययोस्ति । तत्सामान्यमस्तीति चेत् न, तस्यावस्तुत्वेनोपगमाजनकत्वविरोधात् । वस्तुत्वे तस्य ततो तरत्वे तदेव ग्राह्यं स्यान्न पुनरर्थो नीलादिहेतुत्वसामान्यजनकनीलाद्यर्थो ग्राह्यः संवेदनस्येति ब्रुवाणः कथं जनक एव ग्राह्य इति व्यवस्थापयेत् । ततो न पूर्वकालोर्थः संविदो ग्राह्यः । किं तर्हि समानसमय एवेति प्रतिपत्तव्यं । नन्वेवं योगिविज्ञानं श्रुतज्ञानं स्मृतिप्रत्यभिज्ञादि वा कथमसमानकालार्थपरिच्छिदिः सिद्ध्येदिति चेत् समानसमयमेव ग्राह्यं संवेदनस्येति नियमाभावात् । अक्षज्ञानं हि खसमयवर्तिनमर्थ परिच्छिनत्ति स्वयोग्यताविशेषनियमाद्यथा स्मृतिरनुभूतमात्र पूर्वमेव प्रत्यभिज्ञातीतवर्त. मानपर्यायवृत्त्येकं पदं चिंता त्रिकालसाध्यसाधनव्याप्ति खार्थानुमानं त्रिकालमनुमेयं श्रुतज्ञानं त्रिकालगोचरानंतव्यंजनपर्यायात्मकान् भावान् अवधिरतीतवर्तमानानागतं च रूपिद्रव्यं मनःपर्ययोऽतीतानागतान् वर्तमानांश्चार्थान् परमनोगतान् , केवलं सर्वद्रव्यपर्यायानिति वक्ष्यतेग्रतः ॥ ततो नाकारणं वित्तेविषयोस्तीति दुर्घटम् । यं रूपस्याप्रवेद्यत्वापत्तेः कारणतां विना ॥१२॥ संवेदनस्य नाकारणं विषय इति नियमे खरूपस्याप्रवेद्यत्वमकारणत्वात् तद्वद्वर्तमानानागतानामतीतानां वा कारणानां योगिज्ञानाविषयत्वं प्रसज्यते ॥ अस्वसंवेद्यविज्ञानवादी पूर्व निराकृतः । परोक्षज्ञानवादी चेत्यलं संकथयानया ॥१३॥ ततः सूक्तमिदमुत्तरावधारणं परमतालंबनजन्यत्वव्यवच्छेदार्थ सूत्रे पूर्व तु मत्यज्ञाननिवृत्त्यर्थं संज्ञिपंचेंद्रियजमेवेति तदेवेंद्रियानिद्रियनिमित्तमुच्यते । संज्ञिपंचेंद्रियाणां मिथ्यादृशां मत्यज्ञानमपींद्रियानिद्रियनिमित्तमस्ति तस्य कुतो व्यवच्छेदः सम्यगधिकारात् । तत एवासंज्ञिपंचेंद्रियांतानां मत्यज्ञानस्य व्यवच्छेदोस्तु न हि श्रुतव्यवच्छेदाथै पूर्वावधारणं तस्यानिद्रियमात्रनिमित्तत्वात् । तथा मिथ्यादृशां दर्शनमोहोपहतमनिद्रियं सदप्यसत्कल्पनेति विवक्षायां तद्वेदनमिंद्रियजमेवेति मत्यज्ञानं सर्वत उभयनिमित्तं ततस्तद्यवच्छेदार्थं च युक्तं पूर्वावधारणम् ॥ अवग्रहेहावायधारणाः ॥१५॥ किमर्थमिदमुच्यते न तावत्तन्मतिभेदानां कथनार्थ मतिः स्मृत्यादिसूत्रेण कथनात् । नापि मतेरज्ञानभेदकथनार्थ प्रमाणांतरत्वप्रसंगादिति मन्यमानं प्रत्युच्यते; मतिज्ञानस्य निर्णीतप्रकारस्यैकशो विदि । मिदामवग्रहत्यादिसूत्रमाहाविपर्ययम् ॥१॥ मतिज्ञानस्य निर्णीताः प्रकारा मतिस्मृत्यादयस्तेषां प्रत्येकं भेदानां वित्त्यैकसूत्रमिदमारभ्यते । यथैव हींद्रियमनोमतेः स्मृत्यादिभ्यः पूर्वमवग्रहादयो भेदास्तथानिंद्रियनिमित्ताया अपीति प्रसिद्धं सिद्धांते ॥ किंलक्षणाः पुनरवग्रहादय इत्याह;अक्षार्थयोगजाद्वस्तुमात्रग्रहणलक्षणात् । जातं यद्वस्तुभेदस्य ग्रहणं तदवग्रहः ॥२॥ नागवं प्रसज्यते ॥ Page #229 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १५ गृहीतार्थसामान्ये यद्विशेषस्य कांक्षणम् । निश्चयाभिमुखं सेहा संशीर्भिन्नलक्षणा ॥ ३ ॥ तस्यैव निर्णयोवायः स्मृतिहेतुः सा धारणा । इति पूर्वोदितं सर्व मतिज्ञानं चतुर्विधम् ॥४॥ सामानाधिकरण्यं तु तदेवावग्रहादयः । तदिति प्राक्सूत्रतच्छब्द संबंधादिह युज्यते ॥ ५ ॥ तदिंद्रिया निंद्रियनिमित्तमित्यत्र पूर्वसूत्रे यत्तग्रहणं तस्येह संबंधात्सामानाधिकरण्यं युक्तं तदेवावग्रहादय इति भावतद्वतोर्भेदात्तस्यावग्रहादयोभिहितलक्षणा इति वैयधिकरण्यमेवेति नाशंकनीयं तयोः कथं-चिदभेदात्सामानाधिकरण्यघटनात् । भेदैकांते तदनुपपत्तेः सह्यविंध्यवदित्युक्तप्रायम् ॥ २२० तत्र यद्वस्तुमात्रस्य ग्रहणं पारमार्थिकम् । द्विधा त्रेधा कचिज्ज्ञानं तदित्येकं न चापरम् ॥ ६ ॥ तन्न साध्वक्षजस्यार्थभेदज्ञानस्य तत्त्वतः । स्पष्टस्यानुभवाद्बाधाविनिर्मुक्तत्वमिष्टमन्यथा तदव्यवस्थानात् तच्चार्थभेदज्ञानस्यापि स्पष्टस्यानुभूयते । प्रतिनियतकालसंवेदनेन कथमस्मदादेस्तत्र सर्वदा बाधरहितत्वं सिद्ध्येदितिचेत् प्रतिभासमात्रे कथं सकृदपि बाधानुपलंभनात्सर्वदा बाधासंभवनानुपपत्तेरिति चेत् भेदप्रतिभासेपि । तत एव चंद्रद्वयादिवेदने भेदप्रतिभासस्य बाधोपलंभादन्यत्रापि बाधसंभवनान्न भेदप्रतिभासे सदा बाघवैधुर्य सिद्ध्यतीति चेत्तर्हि वकुलतिलकादिवेदने दूरादभेदप्रतिभासस्य बाधसहितस्योपलंभनादभेदप्रतिभासेपि सदा बाधशून्यत्वं मासिधत् । तत्रापि प्रतिभासमात्रस्य बाधानुपलंभ इति चेत् चंद्रद्वयादिवेदनेपि विशेषमात्रप्रतिभासे बाधानुपलंभ एवेत्युपालंभसमाधानानां समानत्वादलमतिनिर्बंधनेन । ननु च विषयस्य सत्यत्वे संवेदनस्य सत्यत्वमिति न्याये प्रतिभासमात्रमेव परमब्रह्म सत्यं तद्विषयस्य सन्मात्रस्य सत्यत्वान्न भेदज्ञानं तद्गोचरस्यासत्यत्वादिति मतमनूद्य दूषयन्नाह; — ननु सन्मात्रकं वस्तु व्यभिचारविमुक्तितः । न भेदो व्यभिचारित्वात्तत्र ज्ञानं न तात्त्विकम् ॥ ७॥ इत्ययुक्तं सदाशेषविशेषविधुरात्मनः । सत्त्वस्यानुभवाभावाद्भेदमात्रकवस्तुवत् ॥ ८ ॥ दृष्टेर भेदभेदात्मवस्तुन्यव्यभिचारतः । पारमार्थिकता युक्ता नान्यथा तदसंभवात् ॥ ९ ॥ न हि सकल विशेषविकलं सन्मात्रमुपलभामहे निःसामान्यविशेषवत् सत्सामान्य विशेषात्मनो वस्तुनो दर्शनात् । न च तद्यभिचारोस्ति केनचित्सद्विशेषणरहितस्य सन्मात्रस्योपलभेपि सद्विशेषांतर हितस्यानुपलंभनात् । ततस्तस्यैव सत्सामान्यविशेषात्मनोर्थस्याव्यभिचारित्वलक्षणं पारमार्थिकत्वं युक्तमिति तद्विधातृप्रत्यक्षं सिद्धम् ॥ जात्यादिकल्पनोन्मुक्तं वस्तुमात्रं स्वलक्षणम् । तज्ज्ञानमक्षजं नान्यदित्यप्येतेन दूषितम् ॥ १० ॥ किं पुनरेवं स्याद्वादिनो दर्शनमवग्रहपूर्वकालभावि भवेदित्यत्रोच्यते किंचिदित्यवभास्यत्र वस्तुमात्रमपोद्धृतं । तद्राहि दर्शनं ज्ञेयमवग्रहनिबंधनम् ॥ ११ ॥ अनेकांतात्मके भावे प्रसिद्धेपि हि भावतः । पुंसः स्वयोग्यतापेक्षं ग्रहणं कचिदशतः ॥ १२ ॥ तेनार्थमात्रनिर्भासाद्दर्शनाद्भिन्नमिष्यते । ज्ञानमर्थविशेषात्माभासि वित्त्वेन तत्समम् ॥ १३ ॥ कृतो भेदो नयात्सत्तामात्रज्ञात्संग्रहात्परम् । नरमात्राच नेत्रादिदर्शनं वक्ष्यतेग्रतः ॥ १४ ॥ न हि सन्मात्रग्राही संग्रहो नयो दर्शनं स्यादित्यतिव्याप्तिः शंकनीया तस्य श्रुतभेदत्वादस्पष्टावभासितया नयत्वोपपत्तेः श्रुतभेदा नया इति वचनात् । नाप्यात्ममात्रग्रहणं दर्शनं चक्षुरवधिकेवलदर्शनानामभावप्रसंगात् । चक्षुराद्यपेक्षस्यात्मनस्तदावरणक्षयोपशमविशिष्टस्य चक्षुर्दर्शनादिविभागभावे तु नात्ममात्रग्रहणे दर्शन व्यपदेश: श्रेयानित्यग्रे प्रपंचतो विचारयिष्यते ॥ Page #230 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २२१ नन्ववग्रहविज्ञानं दर्शनाज्जायते यदि । तस्येंद्रियमनोजत्वं तदा किं न विरुध्यते ॥ १५ ॥ पारंपर्येण तज्जत्वात्तस्येहादिविदामिव । को विरोधः क्रमाद्वाक्षमनोजन्यत्वनिश्चयात् ॥ १६ ॥ इंद्रियानिंद्रियाभ्यां हि यस्त्वालोचनमात्मनः । स्वयं प्रतीयते यद्वत्तथैवावग्रहादयः ॥ १७ ॥ य एवाहं किंचिदिति वस्तुमात्र मंद्रियानिंद्रियाभ्यामद्राक्षं स एव तद्वर्णसंस्थानादिसामान्यभेदेनावगृह्णामि तद्विशेषात्मनाकांक्षामि तदेव तथावैमि तदेव धारयामीति क्रमशः स्वयं दर्शनावग्रहादीनामिंद्रियानिंद्रियोत्पाद्यत्वं प्रतीयते प्रमाणभूतात्प्रत्यभिज्ञानात् क्रमभाव्यनेकपर्यायव्यापिनो द्रव्यस्य निश्चयादित्युक्तप्रायम् ॥ वर्णसंस्थादिसामान्यं यत्र ज्ञानेवभासते । तन्नो विशेषणज्ञानमवग्रहपराभिधम् ॥ १८ ॥ विशेषनिश्चयो वा य इत्येतदुपपद्यते । ज्ञानेनेहाभिलाषात्मा संस्कारात्मा न धारणा ॥ १९ ॥ इति केचित्प्रभाषते तच्च न व्यवतिष्ठते । विशेषवेदनस्येह दृढस्येहात्वसूचनात् ॥ २० ॥ ततो दृढतरावायज्ञानाद् दृढतमस्य च । धारणत्वप्रतिज्ञानात् स्मृतिहेतोर्विशेषतः ॥ २१ ॥ अज्ञानात्मकतायां तु संस्कारस्येह तस्य वा । ज्ञानोपादानता न स्याद्रूपादेवि सास्ति च ||२२|| सुखादिना न चात्रास्ति व्यभिचारः कथंचन । तस्य ज्ञानात्मकत्वेन स्वसंवेदन सिद्धितः॥२३॥ सर्वेषां जीवभावानां जीवात्मत्वार्पणान्नयात् । संवेदनात्मतासिद्धेर्नाम सिद्धान्न संभवः ॥ २४ ॥ औपशमिकादयो हि पंच जीवस्य भावाः संवेदनात्मका एवोपयोगस्वभावजीवद्रव्यार्थादेव । तत्र केषांचिदसंवेदनात्मत्वोपदेशादन्यथा तद्व्यवस्थितिविरोधादिति वक्ष्यते ॥ तत एव प्रधानस्य धर्मा नावग्रहादयः । आलोचनादिनामानः स्वसंवित्तिविरोधतः ॥ २५ ॥ आलोचनसंकल्पनाभिमननाध्यवसाननामानोवग्रहादयः प्रधानस्य विवर्ताश्चेतनाः पुंसः स्वभाव इति येप्याहुस्तेपि न युक्तवादिनः, खसंवेदनात्मकत्वादेव तेषामात्मस्वभावत्वप्रसिद्धेरन्यथोपगमे खसंवित्ति - विरोधात् । न हीदं स्वसंवेदनं भ्रांतं बाधकाभावादित्युक्तं पुरस्तात् ॥ ननु दूरे यथैतेषां क्रमशोर्थे प्रवर्तनं । संवेद्यते तथासन्ने किन्न संविदितात्मनाम् ॥ २६ ॥ विशेषणविशेष्यादिज्ञानानां सममीदृशं । वेद्यं तत्र समाधानं यत्तदत्रापि युज्यते ॥ २७ ॥ तथैवालोचनादीनां गादीनां च बुध्यते । संबंधस्मरणादीनामनुमानोपकारिणाम् ॥ २८ ॥ अत्यंताभ्यासतो ह्याशु वृत्तेरनुपलक्षणम् । क्रमशो वेदनानां स्यात्सर्वेषामविगानतः ।। २९ ।। ततः क्रमभुवोवग्रहादयो अनभ्यस्तदेशादाविवाभ्यस्तदेशादौ सिद्धाः खावरणक्षयोपशमविशेषाणां क्रमभावित्वात् ॥ अत्रापरः प्राह । नाक्षजोवग्रहस्तस्य विकल्पात्मकत्वात्तत एव न प्रमाणमवस्तु विषयत्वादिति तं प्रत्याह; —– द्रव्यपर्यायसामान्यविषयोवग्रहोक्षजः । तस्यापरविकल्पेनानिषेध्यत्वात् स्फुटत्वतः ॥ ३० ॥ संवादकत्वतो मानं स्वार्थव्यवसितेः फलं । साक्षाद्व्यवहितं तु स्यादीहा हानादिधीरपि ||३१|| द्रव्यपर्यायसामान्यविषयोवग्रहोक्षजो युक्तः प्रतिसंख्यानेनाविरोध्यत्वाद्विशदत्वाच्च । तस्यानक्षजत्वे तदयोगात् । शक्यं हि कल्पनाः प्रतिसंख्यानेन निवारयितुं नेंद्रियबुद्धय इति स्वयमिष्टेः । मनोविकल्पस्य वैशद्यानिषेधोप्रमाणं चायं संवादकत्वात्साधकतमत्वादनिश्चितार्थनिश्चायकत्वात् प्रतिपत्रपेक्षणीयत्वाच्च । न पुनर्निर्विकल्पकं दर्शनं तद्विपरीतत्वात्सन्निकर्षादिवत् । फलं पुनरवग्रहस्य प्रमाणत्वे स्वार्थव्यवस्थितिः साक्षात्परं परया त्वीहा हानादिबुद्धिर्वा । ननु च प्रमाणात्फलस्याभेदे कथं प्रमाणफलव्यवस्था विरोधादितिचेत् न, एकस्यानेकात्मनो ज्ञानस्य साधकतमत्वेन प्रमाणत्वव्यवस्थितेः । क्रियात्वेन फलत्व Page #231 -------------------------------------------------------------------------- ________________ २२२ तत्त्वार्थश्लोकवार्तिके [सू०१५ व्यवस्थानाद्विरोधानवतारात् । कथमेकं ज्ञानं करणं क्रिया च युगपदिति चेत् तच्छक्तिद्वययोगात् पावकादिवत् । पावको दहत्यौष्ण्येनेत्यत्र हि दहनक्रिया तत्कारणं चौष्ण्यं युगपत्पावके दृष्टं तच्छक्तिद्वयसंबंधादिति निर्णीतप्रायं । नन्वथोपि वैशद्यस्य प्रतिसंख्यानानिरोध्यत्वस्य चासंभवान्न ततोवग्रहस्याक्षजत्वसिद्धिरिति पराकूतमुपदा निराकुरुते;निर्विकल्पकया दृष्ट्या गृहीतेथे स्वलक्षणे । तदान्यापोहसामान्यगोचरोवग्रहः स्फुटः ॥ ३२ ॥ सहभावो विकल्पोपि निर्विकल्पकया दृशा । परिकल्पनया वातो निषेध्य इति केचन ॥३३॥ तदसत्वार्थसंवित्तरविकल्पत्वदूषणात् । सदा स व्यवसायाक्षज्ञानस्यानुभवात्स्वयम् ॥ ३४ ॥ मनसोयुगपत्तिः सविकल्पाविकल्पयोः । मोहादैक्यं व्यवस्संतीत्यसत्पृथगपीक्षणात् ॥ ३५॥ लैंगिकादिविकल्पस्यास्पष्टात्मत्वोपलंभनात् । युक्ता नाक्षविकल्पानामस्पष्टात्मकतोदिता॥३६॥ अन्यथा तैमिरस्याक्षज्ञानस्य भ्रांततेक्षणात् । सर्वाक्षसंविदो भ्रांत्या किन्नोद्यते विकल्पकैः॥३७॥ सहभावोपि गोदृष्टितुरंगमविकल्पयोः । किन्नैकत्वं व्यवस्यंति स्वेष्टदृष्टिविकल्पवत् ॥ ३८ ॥ प्रत्यासत्तिविशेषस्याभावाचेत्सोत्र कोपरः । तादात्म्यादेकसामग्र्यधीनत्वस्याविशेषतः॥३९॥ तादृशी वासना काचिदेकत्वव्यवसायकृत् । सहभावाविशेषेपि कयोश्चिद् दृग्विकल्पयोः॥४०॥ साभीष्टा योग्यतामाकं क्षयोपशमलक्षणा । स्पष्टत्वेक्षविकल्पस्य हेतुर्नान्यस्य जातुचित् ॥४१॥ तन्निर्णयात्मकः सिद्धोवग्रहो वस्तुगोचरः । स्पष्टाभोक्षबलोद्भूतोऽस्पष्टो व्यंजनगोचरः ॥४२॥ स्पष्टाक्षावग्रहज्ञानावरणक्षयोपशमयोग्यता हि स्पष्टाक्षावग्रहस्य हेतुरस्पष्टाक्षावग्रहज्ञानावरणक्षयोपशमलक्षणा पुनरस्पष्टाक्षावग्रहस्येति तत एवोभयोरप्यवग्रहः सिद्धः परोपगमस्य वासनादेस्तद्धेतुत्वासंभवात् । संप्रतीहां विचारयितुमुपक्रम्यते । किमनिंद्रियजैवाहोखिदक्षजैवोभयजैव वेति । तत्र नेहानिंद्रियजैवाक्षव्यापारापेक्षणा स्फुटा । स्वाक्षव्यापृत्यभावेसाः प्रभवाभावनिर्णयात् ॥४३॥ न हि मानसं प्रत्यक्षमीहास्तु स्पष्टत्वादक्षज्ञानसमनंतरप्रत्ययत्वाच निश्चयात्मकमपि जात्यादिकल्पनारहितमभ्रांतं चेति कश्चित् । तदनिश्चयात्मकमेव निर्विकल्पस्याभ्रांतस्य च निश्चयात्मविरोधादित्यपरः । तन्मतमपाकुर्वन्नाह; नापीयं मानसं ज्ञानमक्षवित्समनंतरं । निश्चयात्मकमन्यद्वा स्पष्टाभं तत एव नः ॥ ४४ ॥ तस्य प्रत्यक्षरूपस्य प्रमाणेन प्रसिद्धितः । स्वसंवेदनतोन्यस्य कल्पनं किमु निष्फलम् ॥४५॥ मानसस्मरणस्साक्षज्ञानादुत्पत्त्यसंभवात् । विजातीयात्प्रकल्प्येत यदि तत्तस्य जन्म ते ॥४६॥ तदाक्षवेदनं न स्यात्समनंतरकारणम् । मनोध्यक्षस्य तस्यैव वैलक्षण्याविशेषतः ॥४७॥ प्रत्यक्षत्वेन वैशद्यवस्तुगोचरतात्मना । सजातीयं मनोध्यक्षमक्षज्ञानेन चेन्मतम् ॥४८॥ स्मरणं संविदात्मत्वसंतानैक्येन वस्तथा । किन्न सियेद्यतस्तस्य तत्रोपादानकारकम् ॥ ४९ ॥ अन्यथा न मनोध्यक्षं स्मरणेन सलक्षणं । अस्योपादानतापायादित्यनर्थककल्पनम् ।। ५० ॥ स्मरणाक्षविदोभिन्नौ संतानौ चेदनर्थकम् । मनोध्यक्षं विनाप्यस्मात्स्मरणोत्पत्तिसंभवात् ॥५१॥ अक्षज्ञानं हि पूर्वमादक्षज्ञानान्यथोदियात् । स्मृतिः स्मृतेस्तथानादिकार्यकारणतेदृशी ॥५२॥ संतानैक्ये तयोरक्षज्ञानात्स्मृतिसमुद्भवः । पूर्व तद्वासना युक्तादक्षज्ञानं च केवलात् ॥ ५३ ॥ सह स्मृत्यक्षविज्ञाने ततः स्यातां कदाचन । सौगतानामिति व्यर्थ मनोध्यक्षप्रकल्पनं ॥५४॥ स्थाद्वादिनां पुनर्ज्ञानावृत्तिच्छेदविशेषतः । समानेतरविज्ञानसंतानो न विरुध्यते ॥ ५५ ॥ Page #232 -------------------------------------------------------------------------- ________________ २२३ प्रथमोऽध्यायः । नन्वेवं परस्यापि समानेतरज्ञानसंतानैकत्वमदृष्टविशेषादेवाविरुद्धमतोक्षज्ञानसमनंतरप्रत्ययं निश्चयात्मकं मानसप्रत्यक्षं सिद्ध्यतीत्यभ्युपगमेपि दूषणमाह; प्रत्यक्ष मानसं स्वार्थनिश्चयात्मकमस्ति चेत् । स्पष्टाभमक्षविज्ञानं किमर्थक्यादुपेयते ॥ ५६ ॥ अक्षसंवेदनाभावे तस्योत्पत्तौ विरोधतः । सर्वेषामंधतादीनां कृतं तत्कल्पनं यदि ॥ ५७ ॥ . तदाक्षानिद्रियोत्याचं स्वार्थनिश्चयनात्मकं । रूपादिवेदनं युक्तमेकं ख्यापयितुं सताम् ॥५८॥ यथैव ह्यक्षव्यापाराभावे मानसप्रत्यक्षस्य निश्चयात्मकस्योत्पत्तौ जात्यंधादीनामपि तदुत्पत्तिप्रसंगादंधबधिरतादिविरोधस्तथा मनोव्यापारापायेप्यक्षज्ञानस्योत्पत्तिर्विगुणमनस्कस्यापि तदुत्पत्तिप्रसंगात् मनस्कारापेक्षत्वविरोध इत्यक्षमनोपेक्षमक्षज्ञानमक्षमनोपेक्षत्वादेव च निश्चयात्मकमस्तु किमन्येन मानसप्रत्यक्षेण ।। ननु यद्येकमेवेदमिंद्रियानिद्रियनिमित्तरूपादिज्ञानं तदा कथं क्रमतोवग्रहेहावभावौ परस्परं भिन्नौ स्यातां नोचेत्कथमेकं तद्विरोधादित्यत्रोच्यते क्रमादवग्रहेहात्मद्रव्यपर्यायगोचरं । जीवस्यावृत्तिविच्छेदविशेषक्रमहेतुकम् ॥ ५९ ॥ तत्समक्षेतरव्यक्तिशक्त्येकार्थवदेकदा । न विरुद्धं विचित्राभज्ञानवद्वा प्रतीतितः ॥ ६० ॥ प्रत्यक्षपरोक्षव्यक्तिरूपमेकमर्थं विचित्राभासं ज्ञानं वा स्वयम विरुद्धं युगपदभ्युपगच्छत् क्रमतो द्रव्य. पर्यायात्मकमर्थ परिच्छिददवग्रहेहावभावभिन्नमेकं मतिज्ञानं विरुद्धमुद्भावयतीति कथं विशुद्धात्मा ? तदशक्यविवेचनस्याविशेषात् । न ह्ये कस्यात्मनो वर्णसंस्थानादिविशेषणद्रव्यतद्विशेष्यग्राहिणावग्रहेहाप्रत्ययौ खहेतुक्रमाक्रमशो भवन्न वात्मांतरं नेतुं शक्यौ संतौ शक्यविवेचनौ न स्यातां चित्रज्ञानवत् तथा प्रतीतेरविशेषात् । कथं पुनरवायः स्यादित्याह; अवग्रहगृहीतार्थभेदमाकांक्षतोक्षजः । स्पष्टोवायस्तदावारक्षयोपशमतोत्र तु ॥ ६१ ॥ संशयो वा विपर्यासस्तदभावे कुतश्चन । तेनेहातो विभिन्नोसौ संशीतिभ्रांतिहेतुतः ॥ ६२॥ विपरीतस्वभावत्वात्संशयाधनिबंधनं । अवायं हि प्रभाषते केचिद् दृढतरत्वतः ॥ ६३ ॥ अक्षज्ञानतया त्वैक्यमीहयावग्रहेण च । यात्यवायः क्रमात्पुंसस्तथात्वेन विवर्तनात् ॥ ६४ ॥ विच्छेदाभावतः स्पष्टप्रतिभासस्य धारणा । पर्यंतस्योपयुक्ताक्षनरस्यानुभवात्स्वयम् ॥ ६५ ॥ ननु च यत्रैवावग्रहगृहीतार्थस्य विशेषप्रवर्तनमीहायास्तत्रैवावायस्य धारणायाश्च ततो नावायधारणायाः प्रमाणत्वं गृहीतग्रहणादिति पराकूतमनूद्य प्रतिक्षिपन्नाह;-- अवायस्य प्रमाणत्वं धारणायाश्च नेष्यते । समीहयेहिते स्वार्थे गृहीतग्रहणादिति ॥६६॥ तदानुमाप्रमाणत्वं व्याप्रियात्तत एव ते । इत्युक्तं स्मरणादीनां प्रामाण्यप्रतिपादने ॥ ६७ ॥ सत्यपि गृहीतग्राहित्वेवायधारणयोः खस्मिन्नर्थे च प्रमाणत्वं युक्तमुपयोगविशेषात् । न हि यथेहा गृह्णाति विशेष कदाचित्संशयादिहेतुत्वेन तथा चावायः तस्य दृढतरत्वेन सर्वदा संशयाद्यहेतुत्वेन व्यापारात् । नापि यथावायः कदाचिद्विस्मरणहेतुत्वेनापि तत्र व्याप्रियते तथा धारणा तस्याः कालांतराविस्मरणहेतुत्वेनोपयोगादीहावायाभ्यां दृढतमत्वात् । प्रपंचतो निश्चितं चैतत्स्मरणादिप्रमाणत्वप्ररूपणायामिति नेह प्रतन्यते ॥ बहुबहुविधक्षिणानिसृतानुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ किमर्थमिदं सूत्रं ब्रवीति । यद्यवग्रहादिविषयविशेषनिर्ज्ञानार्थ तदा न वक्तव्यमुत्तरत्र सर्वज्ञानानां विषयप्ररूपणात् प्रयोजनांतराभावादिति मन्यमानं प्रत्याह; Page #233 -------------------------------------------------------------------------- ________________ २२४ तत्त्वार्थश्लोकवार्तिके [सू० १६ केषां पुनरिमेवग्रहादयः कर्मणामिति । प्राह संप्रतिपत्त्यर्थं बढित्यादिप्रभेदतः ॥ १॥ __नावग्रहादीनां विषयविशेषनिर्ज्ञानार्थमिदमुच्यते प्राधान्येन । किं तर्हि । बह्वादिकर्मद्वारेण तेषां प्रभेदनिश्चयार्थ कर्मणि षष्ठीविधानात् ॥ कथं तर्हि बह्वादीनां कर्मणामवग्रहादीनां च क्रियाविशेषाणां परस्परमभिसंबंध इत्याह; बाद्यवग्रहादीनां परस्परमसंशयम् । प्रत्येकमभिसंबंधः कार्यो न समुदायतः ॥२॥ बहोः संख्याविशेषस्यावग्रहो विपुलस्य वा । क्षयोपशमतो नुः स्यादीहावायोथ धारणा ॥३॥ इतरस्याबहोरेकद्वित्वाख्यस्याल्पकस्य वा । सेतरग्रहणादेवं प्रत्येतव्यमशेषतः ॥ ४ ॥ बहुविधस्य ब्यादिप्रकारस्य विपुलप्रकारस्य वा तदितरस्यैकद्विप्रकारस्याल्पप्रकारस्य वा, क्षिप्रस्याचिरकालप्रवृत्तेरितरस्य चिरकालप्रवृत्तेः, अनिःसृतस्यासकलपुद्गलोद्गतिमत इतरस्य सकलपुद्गलोद्गतिमतः, अनुक्तस्याभिप्रायेण विज्ञेयस्येतरस्य सर्वात्मना प्रकाशितस्य, ध्रुवस्याविचलितस्येतरस्य विचलितस्यावग्रह इत्यशेपतोवग्रहः संबंधनीयः, तथेहा तथावायस्तथा धारणेति समुदायतोभिसंबंधोनिष्टप्रतिपत्तिहेतुः प्रतिक्षिप्तो भवति ॥ कथं बहुबहुविधयोस्तदितरयोश्च भेद इत्याह; व्यक्तिजात्याश्रितत्वेन तयोर्बहुविधस्य च । भेदः परस्परं तद्वद्धोध्यस्तदितरस्य च ॥५॥ व्यक्तिविशेषौ बहुत्वतदितरत्वधर्मी जातिविषयौ तु बहुविधत्वतदितरत्वधर्माविति बहुबहुविधयोस्तदितरयोश्च भेदः सिद्धः । एवं बढेकविधयोरभेद इत्यपास्तं बहूनामप्यनेकानामेकप्रकारत्वं ह्येकविधं न पुनर्बहुत्वमेवेत्युदाहृतं द्रष्टव्यम् ॥ क्षिप्रस्थाचिरकालस्याध्रुवस्य चलितात्मनः । स्वभावैक्यं न मंतव्यं तथा तदितरस्य च ॥६॥ ___ अचिरकालत्वं ह्याशुप्रतिपत्तिविषयत्वं चलितत्वं पुनरनियतप्रतिपत्तिगोचरत्वमिति स्वभावभेदात् क्षिप्राध्रुवं नैक्यमवसेयं । तथा तदितरयोरक्षिप्रध्रुवयोस्तत एव ।। निःशेषपुद्गलोद्गत्यभावाद्भवति निःसृतः । स्तोकपुद्गलनिष्क्रांतेरनुक्तस्त्वाभिसंहितः ॥७॥?) निष्क्रांतो निःसृतः कात्स्यादुक्तः संदर्शितो मतः। इति तद्भेदनिर्णीतेरयुक्तैकत्वचोदना ॥८॥ अनिःसृतानुक्तयोनिःसृतोक्तयोश्च नैकत्वचोदना युक्ता लक्षणभेदात् ।। कुतो बह्वादीनां प्राधान्येन तदितरेषां गुणभावेन प्रतिपादनं न पुनर्विपर्ययेणेत्यत्रोच्यते तत्र प्रधानभावेन बहादीनां निवेदनं । प्रकृष्टावृत्तिविश्लेषविशेषात नुः समुद्भवात् ॥९॥ तद्विशेषणभावेन कथं चात्राल्पयोग्यतां । समासृत्य समुद्भूतेरितरेषां विधीयते ॥ १० ॥ अथ बह्वादीनां क्रमनिर्देशकारणमाह;बहुज्ञानसमभ्यय॑ विशेषविषयत्वतः । स्फुटं बहुविधज्ञानाजातिभेदावभासिनः ॥ ११ ॥ तत्क्षिप्रज्ञानसामान्यात्तच्चानिःमृतवेदनात् । तदनुक्तगमात्सोपि ध्रुवज्ञानात्कुंतश्चन ॥ १२ ॥ तत्तद्विषयत्वादेर्बह्वादीन् समभ्यर्हितान् तथा बोध्यं तद्वाचकानां च क्रमनिर्देशकारणं । बह्वादीनां हि शब्दानामितरेतरयोगे द्वंद्वे बहुशब्दो बहुविधशब्दालाक् प्रयुक्तोभ्यर्हितत्वात् सोपि क्षिप्रशब्दात् सोप्यनिःसृतशब्दात्सोप्यनुक्तशब्दात् सोपि ध्रुवशब्दात् । एवं कथं शब्दानामभ्यर्हितत्वं? तद्वाच्यानामर्थानामभ्यर्हितत्वात् । तदपि कथं ? तद्राहिणां ज्ञानानामभ्यर्हितत्वोपपत्तेः । सोपि ज्ञानावरणवीर्यातरायक्षयोपशमविशेषप्रकर्षादुक्तविशुद्धिप्रकर्षस्य परमार्थतोभ्यर्हितस्य भावादिति । तदेव यथोक्तकमनिर्देशकस्य कारणमवसीयते कारणांतरस्याप्रतीतेः ॥ Page #234 -------------------------------------------------------------------------- ________________ " प्रथमोऽध्यायः । २२५ विजानाति न विज्ञानं बहून् बहुविधानपि । पदार्थानिति केषांचिन्मतं प्रत्यक्षवाधितम् ||१३|| प्रत्यक्षाणि बहून्येव तेष्वज्ञानानि चेत्कथम् । तद्वद्बोधक निर्भासैः शतैश्चेन्नाप्रवाधनात् ॥ १४ ॥ तद्बोधबहुतावित्तिर्बाधिकात्रेतिचेन्मतं । सा यद्येकेन बोधेन तदर्थेष्वनुमन्यताम् ॥ १५ ॥ बहुभिर्वेदनैरन्यज्ञानवेद्यैस्तु सा यदि । तदवस्था तदा प्रश्नोनवस्था च महीयसी ॥ १६ ॥ स्वतो बद्दर्थनिर्भासिज्ञानानां बहुता गतिः । नान्योन्यमनुसंधानाभावात्प्रत्यात्मवर्तिनाम् ॥ १७॥ तत्पृष्ठजो विकल्पचेदनुसंधानकृन्मतः । सोपि नानेकविज्ञानविषयस्ताव के मते ॥ १८ ॥ बर्थविषयो न स्याद्विकल्पः कथमन्यथा । स्पष्टः परंपरया स परिहारस्तथा सति यथैव बह्वर्थज्ञानानि बहून्येवानुसंधान विकल्पस्तत्पृष्ठः स्पष्टो व्यवस्यति तथा स्पष्टो व्यवसायः सकृद्बहून् बहुविधान् वा पदार्थानालंबतां विरोधाभावात् । परंपरया शश्वदेवं परिहृतं स्यात्ततो झटिति बह्वाद्यर्थस्यैव प्रतिपत्तेः ॥ एवं बहुत्वसंख्यायामेकस्यावेदनं ननु । संख्येयेषु बहुष्वित्ययुक्तं केचित्प्रपेदिरे ॥ १९ ॥ बहुत्वेन विशिष्टेषु संख्येयेषु प्रवर्तितः । बहुज्ञानस्य तद्भेदैकांताभावाच्च युक्तितः ॥ २० ॥ न हि बहुत्वमिदमिति ज्ञानं बहुष्वर्थेषु कस्यचिच्चकास्ति बहवोमी भावा इत्येकस्य वेदनस्यानुभवात् । संख्येयेभ्यो भिन्नामेव बहुत्वसंख्यां संचिन्वन् बहवोर्था इति चेत् तेषां सत्समवायित्वादित्ययुक्ता प्रतिपत्तिः । कुटाद्यवयविप्रतिपत्तौ साक्षात्तदारंभ कपरमाणु प्रतिपत्तिप्रसंगात् । अन्यत्र प्रतिपत्तौ नान्यत्र प्रतिपतिरितिचेत्, तर्हि बहुत्वसंवित्तौ बह्वर्थसंवित्तिरपि मा भूत् । येषां तु बहुत्वसंख्या विशिष्टेष्वर्थेषु ज्ञानं प्रवर्तमानं बहवोर्था इति प्रतीतिः तेषां न दोषोस्ति, बहुत्वसंख्यायाः संख्ये येभ्यः सर्वथा भेदानभ्युपगमात् । गुणगुणिनोः कथंचिदभेदस्य युक्त्या व्यवस्थापनात् । ततो न प्रत्यर्थवशवर्ति विज्ञानं बहुबहु - विधे संवेदनव्यवहाराभावप्रसंगात् ॥ कथं च मेचकज्ञानं प्रत्यर्थवशवर्तिनि । ज्ञाने सर्वत्र युज्येत परेषां नगरादिषु ॥ २१ ॥ न हि नगरं नाम किंचिदेकमस्ति ग्रामादि वा यतस्तद्वेदनं प्रत्यर्थवशवर्ति स्यात् । प्रासादादीनामल्पसंयुक्तसंयोगलक्षणात् प्रत्यासत्तिर्नगरादीति चेत् न, प्रासादादीनां स्वयं संयोगत्वेन संयोगांतरानाश्रयत्वात् । काष्ठेष्टकादीनां तल्लक्षणा प्रत्यासत्तिर्नगरादि भवत्वितिचेन्न, तस्याप्यनेकगत्वात् । न हि यथैकस्य काष्ठादेरेकेन केनचिदिष्टकादिना संयोगः स एवान्येनापि सर्वत्र संयोगत्वस्यैकत्वव्यापित्वादिप्रसंगात् समवायवत् । चित्रैकरूपवच्चित्रैकसंयोगो नगराद्येकमिति चेन्न, साध्यसमत्वादुदाहरणस्य । न ह्येकं चित्रं रूपं प्रसिद्धमुभयोरस्ति ॥ यथा नीलं तथा चित्रं रूपमेकं पटादिषु । चित्रज्ञानं प्रवर्तेत तत्रेत्यपि विरुध्यते ॥ २२ ॥ चित्रसंव्यवहारस्याभावादेकत्र जातुचित् । नानार्थेष्विंद्रनीलादिरूपेषु व्यवहारिणाम् ॥ २३ ॥ एकस्यानेकरूपस्य चित्रत्वेन व्यवस्थितेः । मण्यादेरिव नान्यस्य सर्वथातिप्रसंगतः ॥ २४ ॥ यथानेकवर्णमणेर्मयूरादेर्वानेकवर्णात्मकस्यैकस्य चित्रव्यपदेशस्तथा सर्वत्र रूपादावपि स व्यवतिष्ठते नान्यथा । न ह्येकत्र चित्रव्यवहारो युक्तः संतानांतरार्थनीलादिवत् नाप्यनेकत्रैव तद्वदेवेति निरूपित - प्रायम् ॥ नन्वेवं द्रव्यमेवैकमनेकस्वभावं चित्रं स्यान्न पुनरेकं रूपं । तथा च तत्र चित्रव्यवहारो न स्यात् । अत्रोच्यते— चित्रं रूपमिति ज्ञानमेव न प्रतिहन्यते । रूपेप्यनेकरूपत्वप्रतीतेस्तद्विशेषतः ॥ २५ ॥ २९ Page #235 -------------------------------------------------------------------------- ________________ २२६ तत्त्वार्थश्लोकवार्तिके (सू० १६ ननु रूपं गुणस्तस्य कथमनेकखभावत्वं विरोधात् । नैतत्साधु यतः-- गुणोनेकखभावः स्याद्रव्यवन्न गुणाश्रयः । इति रूपगुणेनेकस्वभावे चित्रशेमुषी ॥ २६ ॥ न हि गुणस्य निर्गुणत्ववन्निर्विशेषत्वं रूपे नीलनीलतरत्वादिविशेषप्रतीतेः । प्रतियोग्यपेक्षस्तत्र विशेषो न तात्त्विक इतिचेन्न, पृथक्त्वादेरतात्त्विकप्रसंगात् । पृथक्त्वादेरनेकद्रव्याश्रयस्यैवोत्पत्तेर्न प्रतियोग्यपेक्षत्वमितिचेन्न, तथापि तस्यैकपृथक्त्वादिप्रतियोग्यपेक्षया व्यवस्थानात् । सूक्ष्मत्वाद्यपेक्षकद्रव्याश्रया ' महत्वादिवत् तस्यास्खलत्प्रत्ययविषयत्वेन पारमार्थिकत्वेन नीलतरत्वादेरपि रूपविशेषस्य पारमार्थिकत्वं युक्तमन्यथा नैरात्म्यप्रसंगात् । नीलतरत्वादिवत्सर्वविशेषाणां प्रतिक्षेपे द्रव्यस्यासंभवात् । ततो द्रव्यवद्गुणादेरनेकखभावत्वं प्रत्ययविरुद्धमवबोद्धव्यम् ॥ नन्वनेकस्वभावत्वात्सर्वस्यार्थस्य तत्त्वतः । न चित्रव्यवहारः स्थाजैनानां कचिदित्यसत् ॥२७॥ सिद्धे जात्यंतरे चित्रे ततोपोद्धृत्य भाषते । जनो टेकमिदं नाना वेत्यर्थित्व विशेषतः॥२८॥ सिद्धेप्येकानेकखभावे जात्यंतरे सर्ववस्तुनि स्याद्वादिनां चित्रव्यवहाराहें ततो योद्धारकल्पनया कचिदेकत्रार्थित्वादेकमिदमिति कचिदनेकार्थित्वादनेकमिदमिति व्यवहारो जनैः प्रतन्यत इति सर्वत्र सर्वदा चित्रव्यवहारप्रसंगतः कचित्पुनरेकानेकखभावभावार्थित्वाच्चित्रव्यवहारोपीति नैकमेव किंचिच्चित्रं नाम यत्र नियतं वेदनं स्यात्प्रत्यर्थवशवर्तीति ।। योगिज्ञानवदिष्टं तद्बह्वाद्यर्थावभासनम् । ज्ञानमेकं सहस्रांशुप्रकाशज्ञानमेव चेत् ॥ २९ ॥ तदेवावग्रहाद्याख्यं प्राप्नुवत् किमु वार्यते । न च स्मृतिसहायेन कारणेनोपजन्यते ॥ ३०॥ बह्वाधवग्रहादीदं वेदनं शब्दबोधवत् । येनावभासनाद्भिन्नं ग्रहणं तत्र नेष्यते ॥ ३१ ॥ यो ह्यनेकत्रार्थेक्षावभासनमीश्वरज्ञानवदादित्यप्रकाशनवयाचक्षीत ननु तद्रहणं स्मृतिसहायेनेंद्रियेण जनितं तस्य प्रत्यर्थिवशवर्तित्वात् । स इदं प्रष्टव्यः किमिदं बह्वाद्यर्थे अवग्रहादिवेदनं स्मृतिनिरपेक्षिणाक्षेण जन्यते स्मृतिसहायेन वा ? प्रथमपक्षे सिद्धं स्याद्वादिमतं बह्वाद्यर्थावभासनस्यैवावग्रहादिज्ञानत्वेन व्यवस्थापनात् । द्वितीयकल्पनायां तु प्रतीतिविरोधतः खयमनुभूतपूर्वेपि बहाद्यर्थेवग्रहादिप्रतीतेः स्मृतिसहायेंद्रियजन्यत्वासंभवात् तत्र स्मृतेरनुदयात् तस्याः खयमनुभूतार्थ एव प्रवर्तनादन्यथातिप्रसंगात् । ततो नेदं बह्वाद्यवग्रहादिज्ञानमवभासनाद्भिन्नं शब्दज्ञानवत्स्मृतिसापेक्षं ग्रहणमिति मंतव्यं । ततो युगपदनेकांतार्थे न स्यात् । भवतु नाम धारणापर्यंतमवभासनं तत्र न पुनः स्मरणादिकं विरोधादिति मन्यमानं प्रत्याह-- बहौ बहुविधे चार्थे सेतरेऽवग्रहादिकम् । स्मरणं प्रत्यभिज्ञानं चिंता वाभिनिबोधनम् ॥३२॥ धारणाविषये तत्र न विरुद्धं प्रतीतितः । प्रवृत्तेरन्यथा जातु तन्मूलाया विरोधतः ।। ३३ ॥ न हि धारणाविषये बहाद्यर्थे स्मृतिविरुध्यते तन्मूलायास्तत्र प्रवृत्तेर्जातुचिदभावप्रसंगात् । नापि तत्र स्मृतिविषये प्रत्यभिज्ञायास्तत एव । नापि प्रत्यभिज्ञाविषये चिंतायाश्चिताविषये वाभिनिबोधस्य तत एव प्रतीयते च तत्र तन्मूला प्रवृत्तिरभ्रांता च प्रतीतिरिति निश्चितं प्राक् ।। क्षणस्थायितयार्थस्य निःशेषस्य प्रसिद्धितः । क्षिप्रावग्रह एवेति केचित्तदपरीक्षितम् ॥ ३४ ॥ स्थास्नूत्पित्सुविनाशित्वसमाक्रांतस्य वस्तुनः । समर्थयिष्यमाणस्य बहुतोबहुतोग्रतः ॥३५॥ कौटस्थात्पूर्वभावानां परस्याभ्युपगच्छतः । अक्षिप्रावग्रहैकांतोप्यतेनैव निराकृतः ॥ ३६ ॥ क्षिप्रावग्रहादिवदक्षिप्रावग्रहादयः संति त्रयात्मनो वस्तुनः सिद्धेः ॥ Page #236 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २२७ प्राप्यकारींद्रियैर्युक्तोनिसृतानुक्तवस्तुनः । नावग्रहादिरित्येके प्राप्यकारीणि तानि वा ||३७| प्राप्यकारिभिरिंद्रियैः स्पर्शनरसनघ्राणश्रोत्रैरनिसृतस्यानुक्तस्य चार्थस्यावग्रहादिरनुपपन्न एव विरोधात् । तदुपपन्नत्वे वा न तानि प्राप्यकारीणि चक्षुर्वत् । चक्षुषोपि प्राप्तार्थपरिच्छेदहेतुत्वमप्राप्यकारित्वं तच्चानिसृतानुक्तार्थावग्रहादिहेतोः स्पर्शनादिरस्तीति केचित् ॥ 1 तन्नानिसृतभावस्यानुक्तस्यापि च कैश्चन । सूक्ष्मैरंशैः परिप्राप्तस्याक्षैस्तैरवबोधनात् ॥ ३८ ॥ निस्सृतोक्तमथैवं स्यात्तस्येत्यपि न शक्यते । सर्वाप्राप्तिम वेक्ष्यैवानिसृतानुक्ततास्थितेः ॥ ३९ ॥ न हि वयं कात्र्येनाप्राप्तिमर्थस्यानिसृतत्वमनुक्तत्वं वा ब्रूमहे यतस्तदवग्रहादिहेतोरिंद्रियस्याप्राप्यकारित्वमायुज्यते । किं तर्हि । सूक्ष्मैरवयवैस्तद्विषयज्ञानावरणक्षयोपशमरहितजनावेद्यैः कैश्चित् प्राप्तानवभासस्य चानिसृतस्यानुक्तस्य च परिच्छेदे प्रवर्तमानमिंद्रियं नाप्राप्यकारि स्याच्चक्षुष्येवमप्राप्यकारित्वस्याप्रतीतेः । कथं तर्हि चक्षुरनिंद्रियाभ्याम निस्सृतानुक्तावग्रहादिस्तयोरपि प्राप्यकारित्वप्रसंगादिति चेन्न, योग्यदेशावस्थितेरेव प्राप्तेरभिधानात् । तथा च रसगंधस्पर्शानां स्वग्राहिभिरिंद्रियैः स्पृष्टिबंधस्वयोग्यदेशावस्थितिः : शब्दस्य श्रोत्रेण स्पृष्टिमात्रं रूपस्य चक्षुषाभिमुखतयानतिदूरा तयावस्थितिः । सा च यथा सकलस्य वस्त्रादेस्तथा तदवयवानां च केषांचिदिति तत्परिच्छेदिना चक्षुषा प्राप्यकारित्वमुपढौकते । स्वस्मिन्नस्पृष्टानामबद्धानां च तदवयवानां कियतां चित्तेन परिच्छेदनात् तावता चा निस्सृतानुक्तावग्रहादि - सिद्धेः किमधिकेनाभिहितेन ॥ · ध्रुवस्स सेतरस्यात्रावग्रहादेर्न वाध्यते । नित्यानित्यात्मके भावे सिद्धिः स्याद्वादिनोंजसा ॥४०॥ यदि कश्चिद्ध्रुव एवार्थः कश्चिदध्रुवः स्यात्तदा स्याद्वादिनस्तत्रावग्रहावबोधमाचक्षाणस्य खसिद्धांत - बाधः स्यान्न पुनरेकमर्थं कथंचिद्ध्रुवमध्रुवं चावधारयतस्तस्य सिद्धांते सुप्रसिद्धत्वात्स तथा विरोधो बाधक इति चेत् न, तस्यापि सुप्रतीते विषयेऽनवकाशात् । प्रतीतं च सर्वस्य वस्तुनो नित्यानित्यात्मकत्वात् । प्रत्यक्षतोनुमानाच्च तस्यावबोधादन्यथा जातुचिदप्रतीते परमार्थतो नोभयरूपतार्थस्य तत्रान्यतरखभावस्य कल्पनारोपितत्वादित्यपि न कल्पनीयं नित्यानित्यखभावयोरन्यतरकल्पितत्वे तदविनाभाविनोपरस्यापि कल्पितत्वप्रसंगात् । न चोभयोस्तयोः कल्पितत्वे किंचिदकल्पितं वस्तुनो रूपमुपपत्तिमनुसरति यतस्तत्र व्यवतिष्ठते वायमिति तदुभयमंजसाभ्युपगंतव्यम् ॥ अर्थस्य ॥ १७ ॥ किमर्थमिदं सूत्र्यते सामर्थ्यसिद्धत्वादितिचेदत्रोच्यते; ननु बह्वादयो धर्माः सेतराः कस्य धर्मिणः । तेऽवग्रहादयो येषामित्यर्थस्येति सूत्रितम् ॥ १ ॥ न कश्चिद्धर्मी विद्यते बह्वादिभ्योन्योऽनन्यो वानेकदोषानुषंगात्तदभावेन तेपि धर्मिणां धर्मपरतंत्रलक्षणत्वात्स्वतंत्राणामसंभवात् । ततः केषामवग्रहादयः क्रियाविशेषा इत्याक्षिपंतं प्रतीदमुच्यते । अर्थस्याबाधितप्रतीतिसिद्धस्य धर्मिणो बह्वादीनां सेतराणां तत्परतंत्रतया प्रतीयमानानां धर्माणामवग्रहादयः परिच्छित्तिविशेषास्तदेकं मतिज्ञानमिति सूत्रत्रयेणैकं वाक्यं चतुर्थसूत्रापेक्षेण वा प्रतिपत्तव्यं ॥ कः पुनरर्थो नामेत्याह;— यो व्यक्तो द्रव्यपर्यायात्मार्थः सोत्राभिसंहितः । अव्यक्तस्योत्तरे सूत्रे व्यंजनस्योपवर्णनात् ॥ २ ॥ केवलो नार्थपर्यायः सूरेरिष्टो विरोधतः । तस्य बह्वादिपर्यायविशिष्टत्वेन संविदः ॥ ३ ॥ Page #237 -------------------------------------------------------------------------- ________________ २२८ तत्त्वार्थश्लोकवार्तिके [सू० १८ तत एव न निःशेषपर्यायेभ्यः पराङ्मुखम् । द्रव्यमर्थो न चान्योन्यानपेक्ष्य तद्वयं भवेत् ॥४॥ एवमर्थस्य धर्माणां वादीतरभेदिनाम् । अवग्रहादयः सिद्धं तन्मतिज्ञानमीरितम् ॥ ५ ॥ न हि धर्मी धर्मेभ्योऽन्य एव यतः संबंधासिद्धिरनुपकारात् तदुपकारे वा कार्यकारणभावापत्तेस्तयोधर्मधर्मिभावाभावोग्निधूमवत् । धर्मिणि धर्माणां वृत्तौ च सर्वात्मना प्रत्येकं धर्मिबहुत्वापत्तिः एकदेशेन सावयवत्वं पुनस्तेभ्योवयवेभ्यो भेदे स एव पर्यनुयोगोनवस्था च प्रकारांतरेण वृत्तावदृष्टपरिकल्पन- ' मित्यादिदोषोपनिपातः स्यात् । नाप्यनन्य एव यतो धर्म्येव वा धर्म एव तदन्येतरायाः । ये चोभयासत्त्वं ततोपि सर्वो व्यवहार इत्युपालंभः संभवेत् । नापि तेनैव रूपेणान्यत्वमनन्यत्वं च धर्मधर्मिणोर्यतो विरोधोभय दोष संकरव्यतिकराः प्रतिपत्तव्याः स्युः । किं तर्हि । कथंचिदन्यत्वमनन्यत्वं च यथाप्रतीति जात्यंतरमविरुद्धं चित्रविज्ञानवत्सामान्यविशेषवद्वा सत्त्वाद्यात्मकैकप्रधानवद्वा चित्रपटवत्युक्तप्रायं । तत एव न सिद्धानामसिद्धानां वा बह्वादीनां धर्मिणि न पारतंत्र्यानुपपत्तिः कथंचित्तादात्म्यस्य ततः पारतंत्र्यस्य व्यवस्थितेः । न च तद्रव्यार्थतः सतां पर्यायार्थतोऽसतां धर्माणां धर्मी विरुज्यतेऽन्यथैव विरोधात् । ततो द्रव्यपर्यायात्मार्थौ धर्मी व्यक्तः प्रतीयतामव्यक्तस्य व्यंजनपर्यायस्योत्तरसूत्रे विधानात् । द्रव्यनिरपेक्षस्त्वर्थपर्यायः केवलो नार्थोत्र तस्याप्रमाणकत्वात् । नापि द्रव्यमात्रं परस्परं निरपेक्षं तदुभयं वा तत एव । न चैवंभूतस्यार्थस्य विवर्तानां बह्वादीतरभेदभृतामवग्रहादयो विरुध्यंते येन एवैकं मतिज्ञानं यथोक्तं न सिद्ध्येत् ॥ व्यंजनस्यावग्रहः ॥ १८ ॥ नारब्धव्यमिदं पूर्वसूत्रेणैव सिद्धत्वात् इत्यारे कायामाह ; नियमार्थमिदं सूत्रं व्यंजनेत्यादि दर्शितम् । सिद्धे हि विधिरारभ्यो नियमाय मनीषिभिः ॥ १ ॥ किं पुनर्व्यजनमित्याह ; अव्यक्तमत्र शब्दादिजातं व्यंजनमिष्यते । तस्यावग्रह एवेति नियमोध्यक्षवद्गतः ॥ २ ॥ ईहादयः पुनस्तस्य न स्युः स्पष्टार्थगोचराः । नियमेनेति सामर्थ्यादुक्तमत्र प्रतीयते ॥ ३ ॥ नन्वर्थावग्रहो यद्वदक्षतः स्पष्टगोचरः । तद्वत् किं नाभिमन्येत व्यंजनावग्रहोप्यसौ ॥ ४ ॥ क्षयोपशमभेदस्य तादृशोऽसंभवादिह । अस्पष्टात्मकसामान्य विषयत्वव्यवस्थितम् ॥ ५ ॥ अध्यक्षत्वं न हि व्याप्तं स्पष्टत्वेन विशेषतः । दविष्टपादपाध्यक्षज्ञानस्यास्पष्टतेक्षणात् ॥ ६ ॥ विशेषविषयत्वं च दिवा तामसपक्षिणां । तिग्मरोचिर्मयूखेषु भृंगपादावभासनात् ॥ ७ ॥ ननु च दूरतमदेशवर्तिनि पादपादौ ज्ञानमस्पष्टमस्मदादेरस्ति विशेषविषयं चादित्यकिरणेषु ध्यामलाकारमधुकरचरणवदवभासनमुलकादीनां प्रसिद्धं । ननु तदक्षजं श्रुतमस्पष्टत्वाच्छ्रुतमस्पष्टतर्कण मिति वचनात् । ततो न तेन व्यभिचारोक्षजत्वस्य हेतोः स्पष्टत्वे साध्ये व्यंजनावग्रहे धर्मिणीति कश्चित् । तन्न युक्त्यागमाविरुद्धं दविष्ठपादपादिज्ञानमक्षजमक्षान्वयव्यतिरेकानुविधायित्वात् सन्निकृष्टपादपादिविज्ञानवत् । श्रुतज्ञानं वा न भवति साक्षात्परं परया वा मतिपूर्वकत्वाभावात् तद्वदेवेति युक्तिविरुद्धमागमविरुद्धं च तस्य श्रुतज्ञानत्वं यतो धीमद्भिरनुभूयते । न चास्पष्टतर्कणं श्रुतस्य लक्षणं स्मृत्यादेरपि श्रुतत्वप्रसंगात् । मतिगृहीतेर्थेनिंद्रियबलादस्पष्टख संवेदनप्रत्यक्षादन्यत्वात्तर्कणं । नानाखरूपप्ररूपणं श्रुतमिति तस्य व्याख्याने 'श्रुतं मतिपूर्व' इत्येतदेव लक्षणं तथोक्तं स्यात् तच्च न प्रकृतज्ञानेस्ति । न हि साक्षाच्चक्षुर्मतिपूर्वकं तत्स्पष्टप्रतिभासानंतरं तदस्पष्टावभासनप्रसंगात् । नापि परंपरया लिंगादिश्रुतज्ञान Page #238 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २२९ पूर्वकत्वेन तस्याननुभवात् । न चात्र यादृशमक्षानपेक्षं पादपादि साक्षात्करणपूर्वकं प्ररूपणमस्पष्टं तादृशमनुभूयते येन श्रुतज्ञानं तदनुमन्येमहि । श्रुतस्य स्मृत्याद्यपेक्षया स्पष्टत्वात् । संस्थानादिसामान्यस्य प्रतिभासनात् । सन्निकृष्टपादपादिप्रतिभासनापेक्षया तु दविष्ठपादपादिप्रतिभासनमस्पष्टमक्षजमपीति युक्तोनेन व्यभिचारः प्रकृतहेतोः । अपरः प्राह । स्पष्टमेव सर्वविज्ञानं खविषयेन्यस्य तद्व्यवस्थापकत्वायोगादप्रति• भासनवत् । ततो नास्पष्टो व्यंजनावग्रह इति........." (?)मन्येत स्पष्टास्पष्टावभासयोरबाधितवपुषोः खयं सर्वस्यानुभवात् । ननु चास्पष्टत्वं यदि ज्ञानधर्मस्तदा कथमर्थस्यास्पष्टत्वमन्यस्यास्पष्टत्वादन्यस्यास्पष्टत्वेतिप्रसंगादितिचेत् तर्हि स्पष्टत्वमपि यदि ज्ञानस्य धर्मस्तदा कथमर्थस्य स्पष्टतातिप्रसंगस्य समानत्वात् । विषये विषयिधर्मस्योपचाराददोष इति चेत् तत एवान्यत्रापि न दोषः । यथैव हि दूरादस्पष्टखभावत्वमर्थस्य सन्निकृष्टस्पष्टताप्रतिभासनं बाध्यते तथा सन्निहितार्थस्य स्पष्टत्वमपि दूरादस्पष्टता प्रतिभासेन निराक्रियत इति नार्थः खयं कस्यचित्स्पष्टोऽस्पष्टो वा खविषयज्ञानस्पष्टत्वास्पष्टत्वाभ्यामेव तस्य तथा व्यवस्थापनात् । नन्वेवं ज्ञानस्य कुतः स्पष्टता ? खज्ञानत्वादिति चेन्न, अनवस्थानुषंगात् । खत एवेति चेत् सर्वज्ञानानां स्पष्टत्वापत्तिरित्यत्र कश्चिदाचष्टे । अक्षात्स्पष्टता ज्ञानस्येति तदयुक्तं, दविष्ठपादपादिज्ञानस्य दिवा तामसखगकुलविज्ञानस्य च स्पष्टत्वप्रसंगात् तदुत्पादकमक्षमेव न भवति दूरतमदिवसकरप्रतापाभ्यामुपहतत्वात् मरीचिकासु तोयाकारज्ञानोत्पादकाक्षवदिति चेत् तर्हि ताभ्यामक्षस्य खरूपमुपहन्यते शक्तिर्वा । न तावदाद्यः पक्षः तत्वरूपस्याविकलस्यानुभवात् । द्वितीयपक्षे तु योग्यतासिद्धिस्तव्यतिरेकेणाक्षशक्तेरव्यवस्थितेः । क्षयोपशमविशेषलक्षणायाः योग्यताया एव भावेंद्रियाख्यायाः खीकरणाहत्वात् ॥ ज्ञानस्य स्पष्टता लोकनिमित्तेत्यपि दृषितम् । एतेन स्थापिताकरी.............. (?) ॥ ८ ॥ सैवास्पष्टत्वहेतुः स्याद्यंजनावग्रहस्य नः । गंधादिद्रव्यपर्यायग्राहिणोप्यक्षजन्मनः ॥९॥ यथा स्पष्टज्ञानावरणवी-तरायक्षयोपशमविशेषादस्पष्टता व्यवतिष्ठत इति नान्यो हेतुरव्यभिचारी तत्र संभाव्यते ततोर्थस्यावग्रहादिः स्पष्टो व्यंजनस्यास्पष्टोऽवग्रह एवेति सूक्तम् ॥ न चक्षुरनिंद्रियाभ्याम् ॥ १९॥ किमवग्रहेहादीनां सर्वेषां प्रतिषेधार्थमिदमाहोखियंजनावग्रहस्यैवेति शंकायामिदमाचष्टे;नेत्याद्याह निषेधार्थमनिष्टस्य प्रसंगिनः । चक्षुर्मनोनिमित्तय व्यंजनावग्रहस्य तत् ॥ १॥ व्यंजनावग्रहो नैव चक्षुषानिद्रियेण च । अप्राप्यकारिणा तेन स्पष्टावग्रहहेतुना ॥ २ ॥ प्राप्यकारींद्रियश्चार्थे प्राप्तिभेदाद्धि कुत्रचित् । तद्योग्यतां विशेषां वा स्पष्टावग्रहकारणम् ॥३॥ यथा नवशरावादौ द्विवाद्यास्तोयविंदवः । अव्यक्तामार्द्रतां क्षिप्ताः कुर्वति प्राप्यकारिणः ॥४॥ पौनःपुन्येन विक्षिप्ता व्यक्तां तामेव कुर्वते । तत्प्राप्तिभेदतस्तद्वदिंद्रियाण्यप्यवग्रहम् ॥ ५॥ अप्राप्तिकारिणी चक्षुर्मनसी कुरुतः पुनः । व्यक्तामर्थपरिच्छित्तिमप्राप्तेरविशेषतः ॥६॥ यथायस्कांतपाषाणः शल्याकृष्टिं स्वशक्तितः । करोत्यप्राप्तिकारीति व्यक्तिमेव शरीरतः ॥७॥ न हि यथा स्वार्थयोः स्पृष्टिलक्षणाप्राप्तिरन्योपचयस्पृष्टितारतम्याद्भिद्यते तथा तयोः प्राप्तिर्देशव्यवधानलक्षणापि कास्येनास्पृष्टेरविशेषात् तद्व्यवधायकदेशास्पदादप्राप्तिरपि भिद्यते एवेतिचेत् किमयं पर्युदासप्रतिषेधः प्रसज्यप्रतिषेधो वा ? प्रथमपक्षेक्षार्थाप्राप्तिरन्या न वार्थः पुनरेवं “नजिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” इति वचनात सा च नावग्रहादेः कारणमिति तद्भेदेपि कुतस्तद्भेदः । द्वितीय Page #239 -------------------------------------------------------------------------- ________________ २३० तत्त्वार्थश्लोकवार्तिके [सू० १९ पक्षे तु प्राप्तेरभावोऽप्राप्तिः सा च न भिद्यते भावस्य स्वयं सर्वत्राभेदात् । कथमवग्रहाद्युत्पत्तौ सा कारणमिति चेत् तस्यां तत्प्रादुर्भावानुभवात् निमित्तमात्रत्वोपपत्तेः प्राप्तिवत् प्रधानं तु कारणं खावरणक्षयोपशम एवेति न किंचन विरुद्धमुत्पश्यामः ॥ अत्र परस्य चक्षुषि प्राप्यकारित्वसाधनमनूद्य दूषयन्नाह; चक्षुः प्राप्तपरिच्छेदकारणं रूपव्यक्तितः । स्पर्शनादिवदित्येके तन्न पक्षस्य बाधनात् ॥ ८॥ बाह्यं चक्षुर्यदा तावत् कृष्णतारादि दृश्यताम् । प्राप्तं प्रत्यक्षतो बाधात् तस्यार्थाप्राप्तिवेदिनः॥९॥ शक्तिरूपमदृश्यं चेदनुमानेन बाधनम् । आगमेन सुनिर्णीतासंभवद्वाधकेन च ॥१०॥ व्यक्तिरूपस्य चक्षुषः प्राप्यकारित्वे साध्ये प्रत्यक्षेण बाध्यते पक्षोनुष्णोमिरित्यादिवत् । प्रत्यक्षतः साध्यविपर्ययसिद्धेः शक्तिरूपस्य तस्य तथात्वसाधनेनुमानेन बाध्यते तत एव सुनिर्णीतासंभवबाधकेनागमेन च । किं तदनुमानं पक्षस्य बाधकमित्याह; तत्राप्राप्तिपरिच्छेदि चक्षुः स्पष्टानवग्रहात् । अन्यथा तदसंभूतेर्घाणादेरिव सर्वथा ॥ ११ ॥ केवलव्यतिरेकानुमानमन्यथानुपपत्त्येकलक्षणयोगादुपपन्नं पक्षस्य बाधकमिति भावः । अत्र हेतोरसिद्धतामाशंक्य परिहरन्नाह; चक्षुषा शक्तिरूपेण तारकागतमंजनं । न स्पृष्टमिति तद्धेतोरसिद्धत्वमिहोच्यते ॥ १२॥ शक्तिः शक्तिमतोन्यत्र तिष्ठतार्थेन युज्यते । तत्रस्थेन तु नैवेति कोन्यो ब्रूयाज्जडात्मनः ॥१३॥ व्यक्तिरूपाच्चक्षुषः शक्तिमतोन्यत्र दूरादिदेशे तिष्ठतार्थेन घटादिना शक्तींद्रियं युज्यते न पुनर्व्यक्तिनयनस्थेनांजनादिनेति कोन्यो जडात्मवादिनो ब्रूयात् । दूरादिदेशस्थेनार्थेन व्यक्तिचक्षुषः संबंधपूर्वकं चक्षुः संबध्यते तद्वेदनस्यान्यथानुपपत्तेरितिचेत् स्यादेतदेवं यद्यसंबंधेन तत्र वेदनमुपजनयितुं नेत्रेण न शक्येत मनोवत् । न हि प्राप्तिरेव तस्य विषयज्ञानजनननिमित्तमंजनादेः प्राप्तस्याप्रवेदनात् । योग्यतायास्तत्र भावात्तदप्रवेदनमिति चेत् सैवास्तु किं प्राप्तिनिर्बधेन । योग्यतायां हि सत्यां किंचिदक्षं प्राप्तमर्थ परिच्छिनत्ति किंचिदप्राप्तमिति यथाप्रतीतमभ्युपगंतव्यं । न हि प्राप्त्यभावेर्थपरिच्छेदनयोग्यताक्षस्य न संभवति मनोवद्विरोधाभावात् । येन प्रतीत्यतिक्रमः क्रियते ततो न खरूपासिद्धो हेतुः । पक्षाव्यापकोपि न भवतीत्याह;पक्षाव्यापकता हेतोर्मनस्यप्राप्यकारिणि । विरहादिति मंतव्यं नास्यापेक्षत्वयोग्यतः ॥१४॥ चक्षुरेव ह्यनुपक्षीकृतं न पुनर्मनस्तस्याप्राप्यकारित्वेन प्रसिद्धत्वात् स्वयमप्रसिद्धस्य साध्यत्वेन व्यवस्थापनात् । न वेदमप्रसिद्धमित्याह; मनसोप्राप्यकारित्वं नाप्रसिद्धं प्रवादिनाम् । कान्यथातीतदूरादिपदार्थग्रहणं ततः ॥ १५ ॥ न ह्यतीतादयो दूरस्थार्था मनसा प्राप्यकारिणा विषयीकर्तुं शक्या इति सर्वैः प्रवादिभिरप्राप्यकारि तदंगीकर्तव्यमन्यथातीतदूरादिवस्तुपरिच्छित्तेरनुपपत्तेः । ततो न पक्षाव्यापको हेतुः स्पृष्टानवग्रहादिति पक्षीकृते चक्षुषि भावात् । नाप्यनैकांतिको विरुद्धो वा प्राप्यकारिणि विपक्षे स्पर्शनादावसंभवादित्यतो हेतोर्भवत्येव साध्यसिद्धिः । इतश्च भवतीत्याह; काचाद्यंतरितार्थानां ग्रहाचाप्राप्तकारिता | चक्षुषः प्राप्यकारित्वे मनसः स्पर्शनादिवत् ॥१६॥ ननु च यद्यंतरितार्थग्रहणं स्वभावकालांतरितार्थग्रहणमिप्यते तदा न सिद्धं साधनं चक्षुषि तदभावात् । देशांतरितार्थग्रहणं चेत्तदेव साध्यं साधनं चेत्यायातं । देशांतरितार्थग्राहित्वमेव ह्यप्राप्यकारि Page #240 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २३१ त्वमिति कश्चित् , तदसत् । चक्षुषोप्राप्तमर्थ परिच्छेत्तुं शक्तेः साध्यत्वात्तत्राप्रसिद्धत्वादप्राप्तकारणशक्तित्वस्याप्राप्यकारित्वस्येष्टत्वात् । साधनस्य पुनरंतरितार्थग्रहणस्य खसंवेदनप्रत्यक्षसिद्धस्याभिधानात् । ननु च काचाद्यंतरितार्थस्य प्राप्तस्यैव चक्षुषा परिच्छेदादसिद्धो हेतुरित्याशंकां परिहरन्नाह;विभज्य स्फटिकादींश्चेत्कथंचिच्चक्षुरंशवः । प्राप्नुवंस्तूलराश्यादीनश्वरान्नेति चाद्भुतम् ॥ १७॥ निष्ठुरस्थिरस्वभावान् स्फटिकादीन् विभज्य नयनरश्मयः प्रकाशयंति न पुनर्मुदुनाशिखभावांस्तूलराश्यादीनिति किमत्यद्भुतमाश्रित्य हेतोरसिद्धतामुद्भावयतः कथं स्वस्थाः १ ॥ सामर्थ्य पारदीयस्य यथा यस्यानुभेदने । नालांबूभाजनोद्भेदे मनागपि समीक्ष्यते ॥ १८ ॥ काचादिभेदने शक्तिस्तथा नयनरोचिषां । संभाव्या तूलराश्यादिभिदायां नेति केचन ॥१९॥ तदनातीतिकं सोयं काचादिरिति निश्चयात् । विनाशव्यवहारस्य तत्राभावाच कस्यचित्।।२०॥ समानसन्निवेशस्य तस्योत्पत्तेरनाशितां । जनो मन्येत निल्नकेशादेर्वेति चेन्मतम् ॥ २१॥ न कचित्प्रत्यभिज्ञानमेकत्वस्य प्रसाधकं । सियेदिति क्षणध्वंसि जगदापातमंजसा ॥ २२ ॥ आत्माघेकत्वसिद्धिश्चेत्प्रत्यभिज्ञानतो दृढात् । दाात्तत्र कुतो बाधाभावाचेत्प्रकृते समं॥२३॥ न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामर्शिनः किंचिद्वाधकमस्ति पुरुषादिवत् । तद्भेदेनाभ्युपगमे तु बाधकमस्तीत्याह;-- काचाद्यंतरितानथोन् पश्यतश्च निरंतरं । तत्र भेदस्य निष्ठानान्नाभिन्नस्य करग्रहः ॥२४॥ सततं पश्यतो हि काचशिलादीन्नयनरश्मयो निरंतरं भिदंतीति प्रतिष्ठायां कथमभिन्नखभावानां तथा तस्य हस्तेन ग्रहणं तच्चेदस्ति तद्भेदाभ्युपगमं बाधिष्यत इति किं नश्चितया ॥ विनाशानंतरोत्पत्तौ पुनर्नाशे पुनर्भवेत् । कुतो निरंतरं तेन छादितार्थस्य दर्शनम् ॥ २५ ॥ स्पशेनेन च निर्भदशरीरस्य महोंगिनाम् । सांतरेणानुभूयंते तस्य स्पर्शनदर्शने ॥ २६॥ स्फटिकादेराशूत्पादविनाशाभ्यामभेदग्रहणं निरंतरं पश्यतः संततं न तद्भेदाभ्युपगमस्य बाधकमित्ययुक्तमाश्वेव स्पर्शनदर्शनयोस्तत्र प्रसंगात् । स्पर्शनास्पर्शनयोश्च । न च तत्र तदा कस्यचिदुपयुक्तस्यादर्शनास्पर्शनाभ्यां व्यवहितदर्शनस्पर्शने समनुभूयेते तद्विनाशस्य पूर्वोत्तरोत्पादाभ्यामाशु भाविभ्यां तिरोहितत्वान्न तत्रादर्शनमस्पर्शनं वा स्यादिति चेत् । नन्वेवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्यामाशु भाविभ्यामेव विरोधान्नादर्शनस्पर्शने मा भूतां तदुत्पादयोः खमध्यगतविनाशतिरोधाने सामर्थ्य भावखभावत्वेन बलीयस्त्वात् तद्विनाशयोः स्वमध्यगतोत्पादतिरोधानेऽभावखभावत्वेन दुर्बलत्वादिति चेन्न, भावाभावस्वभावयोः समानबलत्वात् । तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतीतिविरोधात् । न हि वस्तुनो भाव एव कदाचित्प्रतीयते स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिशक्तेः । न चानाद्यनंतसर्वात्मकं च वस्तु प्रतिभाति यतस्तथाभ्युपगमः श्रेयान् । नाप्यभाव एव वस्तुनोनुभूयते पररूपादिचतुष्टयेनेव खरूपादिचतुष्टयेनाप्यभावप्रतिपत्तिप्रसंगात् । न च सर्वथाप्यसत्प्रतिभाति यतस्तदभ्युपगमोपि कस्यचित्प्रतितिष्ठेत् । प्ररूपितप्रायं च भावाभावखभाववस्तु प्रतिभासनमिति कृतं प्रपंचेन । सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनस्पर्शनयोः सांतरयोः प्रसंजनस्य दुर्निवारत्वात् तदर्थोनुमीयेतेतिचेन्न, तेषां काचादेन भ्रांतत्वमर्थोपरक्तस्य विज्ञानस्यानुद्गतिर्नः (१) | प्राप्तस्यांतरितार्थेन विभिन्नस्य परीक्षणात् । नार्थस्य दर्शनं सिऽदनुमा च तथैव वा ॥२७॥ नन्वत्रंतपरोक्षत्वे सत्यार्थस्यानुमागतेः । विज्ञानयोपरक्तत्वे तेन विज्ञायते कथम् ॥ २८॥ Page #241 -------------------------------------------------------------------------- ________________ २३२ तत्त्वार्थश्लोकवार्तिके [सू० १९ तया शश्वददृश्येन वेधसा निर्मितं जगत् । कथं निश्चीयते कार्यविशेषाचेत्परैरपि ॥ २९ ॥ यथैवात्रास्मदादिविनिर्मितेतरच्छरीरादिविशिष्टं कार्यमुपलभ्य तस्येश्वरेणात्यंतपरोक्षण निर्मितत्वमनु. मीयते भवता तथा परैरपि विज्ञानं नीलाद्यर्थाकारविशिष्टं कार्यमभिसंवेद्य नीलाद्यर्थोनुमीयत इति समं पश्यामः । यथा च काचाद्यंतरितार्थे प्रत्यक्षता व्यवहारो विभ्रमवशादेवं बहिरर्थेपीति कुतो मतांतरं निराक्रियते ॥ प्रत्यक्षेणाप्रबाधेन बहिरर्थस्य दर्शनम् । ज्ञानस्यांतः प्रसिद्धं चेन्नान्यथा परिकल्प्यते ॥३०॥ काचाचंतरितार्थेपि समानमिदमुत्तरं । काचादेर्भिनदेशस्य तस्यावाधं विनिश्चयात् ॥ ३१ ॥ यथा मुखं निरीक्षते दर्पणे प्रतिबिंवितम् । स्वदेहे संस्पृशंतीति बाधा सिद्धात्र धीमताम् ॥३२॥ तथा न स्फटिकांभोनुपटलावृत्तवस्तुनि । स्वदेशादितया तस्य तदा पश्चाच दर्शनात् ॥३३॥ न च नयनरश्मयः प्रसिद्धाः प्रमाणसामर्थ्यादेः स्फटिकादीन् विभज्य घटादीन् प्रकाशयंतीत्याह;न चेक्षतेस्मदादीनां स्फुरंतश्चक्षुरंशवः । सांधकारनिशीथिन्यामन्यान्वभिभवादपि ॥ ३४ ॥ यद्यनुद्भूतरूपास्ते शक्यंते नेक्षितुं जनैः । तदा प्रमांतरं वाच्यं तत्सद्भावावबोधकम् ॥ ३५ ॥ रश्मिवल्लोचनं सर्व तैजसत्वात् प्रदीपवत् । इति सिद्धं न नेत्रस्य ज्योतिष्कत्वं प्रसाधयेत् ॥३६॥ तैजसं नयनं सत्सु सनिकृष्टरसादिषु । रूपस्य व्यंजकत्वाचेत्प्रदीपादिवदीर्यते ॥ ३७॥ हेतोर्दिननिशानाथमयूखैर्व्यभिचारिता । तैजसं निहिते चंद्रकांतरं तत्क्षितौ भवाः ॥ ३८ ॥ तेजोनुसूत्रिता ज्ञेया गा मूलोष्णवती प्रभा। नान्या मकरतादीनां पार्थिवत्वप्रसिद्धितः ॥३९॥ चक्षुषस्तैजसत्वे साध्ये रूपस्यैव व्यंजकत्वादित्यस्य हेतोश्चंद्राद्युद्योतेन मूलोष्णत्वरहितेन पार्थिवत्वेन व्यभिचारादगमकत्वात्तत्तैजसत्वस्यासिद्धेर्न ततो रश्भिवच्चक्षुषः सिद्ध्येत् ॥ रूपाभिव्यंजने चाक्ष्णां नाशे कापेक्षणं भवेत् । तैजसत्वात्प्रदीपादेवि सर्वस्य देहिनः ॥४०॥ यथैकस्य प्रदीपस्य सुस्पष्टार्थप्रकाशने । मंदत्वादसमर्थस्य द्वितीयादेरपेक्षणम् ॥४१॥ तथाक्ष्णोने विरुधेत सूयोलोकाद्यपेक्षणं । स्वकार्यो हि स्वजातीयं सहकारि प्रतीक्ष्यते॥४२॥ तदसल्लोचनस्सार्थप्रकाशित्वाविनिश्चयात् । कथंचिदपि दीपादिनिरपेक्षस्य प्रदीपवत् ।। ४३ ॥ अंधकारावभासोस्ति विनालोकेन चेन्न वै । प्रसिद्धस्तेंधकारोस्ति ज्ञानाभावात्परोर्थकृत् ॥४४॥ परेष्ट्यास्तीति चेत्तस्याः सिद्धं चक्षुरतैजसं । प्रमाणत्वेन्यथा नांधकारः सिद्येत्ततस्तव ॥४५॥ अतैजसांजनापेक्षि चक्षू रूपं व्यनक्ति यं । नातः समानजातीयसहकारि नियम्यते ॥ ४६॥ तैजसमेवांजनादि रूपप्रकाशने नेत्रस्य सहकारि न पुनः पार्थिवमेव तत्रानुद्भूतस्य तेजोद्रव्यभावादित्ययुक्तं प्रमाणाभावात् । तैजसमंजनादि रूपावभासने नयनसहकारित्वाद्दीपादिवत्यप्यसम्यक्, चंद्रोद्योतादिनानैकांतात् । तस्यापि पक्षीकरणान्न व्यभिचार इति चेन्न, हेतोः कालात्ययापदिष्टत्वप्रसंगात् । पक्षस्य प्रत्यक्षानुमानागमबाधितत्वात् तस्य प्रत्यक्षेणातैजसत्वेनानुभवात् । न तैजसश्चंद्रोद्योतो नयानानंदहेतुत्वात्सलिलादिवदित्यनुमानात् । मूलोष्णवती प्रभा तेज इत्यागमाच्चाब्धिजलकल्लोलैश्चंद्रकांतप्रतिहताः सूर्याशवः प्रद्योतंते शिशिराश्च भवंति । तत एव नयनानंदहेतव इत्यागमस्तु न प्रमाणं, युक्त्याननुगृहीतत्वात् तथाविधागमांतरवत् । तदननुगृहीतस्यापि प्रमाणत्वेतिप्रसंगात् । पुरुषाद्वैतप्रतिपादकागमस्य प्रमाणत्वप्रसंगात् सकलयौगमतविरोधात् । किंच किमुष्णस्पर्शविज्ञानं तैजसेक्ष्णि न जायते । तस्यानुभूततायां तु रूपानुद्भूतता कुतः ॥४७॥ Page #242 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः ! २३३ तेजोद्रव्यं ह्यनुद्भूतस्पर्शमुद्भूतरूपभृत् । दृष्टं यथा प्रदीपस्य प्रभाभारः समंततः ॥ ४८ ॥ तथानुद्भूतरूपं तदुद्भूतस्पर्शमीक्षितम् । यथोष्णोदकसंयुक्तं परमुद्भूततद्वयम् ॥ ४९ ॥ नानुभूतद्वयं तेजो दृष्टं चक्षुर्यतस्तथा । अदृष्टवशतस्तच्चेत्सर्वमक्षं तथा न किम् ॥ ५० ॥ सुवर्णघटवत्तत्स्यादित्यसिद्धं निदर्शनं । प्रमाणबलतस्तस्य तैजसत्वाप्रसिद्धितः ॥ ५१ ॥ नोष्णवीर्यत्वतस्तस्य तैजसत्वं प्रसिद्ध्यति । व्यभिचारान्मरीचादिद्रव्येण तैजसेन वः ॥ ५२ ॥ ततो नासिद्धता हेतोः सिद्धसाध्यस्य बुध्यते । चक्षुषत्वादितोध्वानेनित्यत्वस्य यथैव हि ॥५३॥ तदेवं तैजसत्वादित्यस्य हेतोरसिद्धत्वान्न चक्षुषि रश्मिवत्त्वसिद्धि निबंधनत्वं यतस्तस्य रश्मयोर्थप्रकाशनशक्तयः स्युः सतामपि तेषां बृहत्तरगिरिपरिच्छेदनमयुक्तं मनसोधिष्ठाने सर्वथेत्याह ; संतोपि रश्मयो नेत्रे मनसाधिष्ठिता यदि । विज्ञानहेतवोर्थेषु प्राप्तेष्वेवेति मन्यते ॥ ५४ ॥ मनसोणुत्वतश्चक्षुर्मयूखेष्वनधिष्ठितेः । भिन्नदेशेषु भूयस्त्वपरमाणुवदेकशः ॥ ५५ ॥ महीयसो महीभ्रस्य परिच्छित्तिर्न युज्यते । क्रमेणाधिष्ठितौ तस्य तदंशेष्वेव संविदः ॥ ५६ ॥ निरंशोarat शैलो महीयानपि रोचिषा । नयनेन परिच्छेद्यो मनसाधिष्ठितेन चेत् ॥ ५७ ॥ न स्यान्मेचकविज्ञानं नानावयवगोचरम् । तद्देशिविषयं चास्य मनोहीनैर्दृगंशुभिः ॥ ५८ ॥ शैलचंद्रमसोचापि प्रत्यासन्नदविष्ठयोः । सह ज्ञानेन युज्येत प्रसिद्धमपि सद्धियाम् ।। ५९ ।। कालेन यावता शैलं प्रयांति नयनांशवः । केचिचंद्रमसं चान्ये तावतैवेति युज्यते ॥ ६० ॥ तयोश्च क्रमतो ज्ञानं यदि स्यात्ते मनोद्वयं । नान्यथैकस्य मनसस्तदधिष्ठित्यसंभवात् ॥ ६१ ॥ विकीर्णानेक नेत्रांशुराशेरप्राप्यकारिणः । मनसोधिष्ठितौ कायस्यैकदेशेपि तिष्ठतः ॥ ६२ ॥ सहाक्षपंचकस्यैतत्किं नाधिष्ठायकं मतं । यतो न क्रमतोभीष्टं रूपादिज्ञानपंचकम् ॥ ६३ ॥ तथा च युगपज्ज्ञानानुत्पत्तेरप्रसिद्धितः । साध्ये मनसि लिंगत्वं न स्यादिति मनः कुतः || ६४ || मनोनधिष्ठिताश्चक्षूरश्मयो यदि कुर्वते । स्वार्थज्ञानं तदप्येतदूषणं दुरतिक्रमम् || ६५ ॥ ततोक्षिरश्मयो भित्त्वा काचादीनर्थभासिनः । तेषामभावतो भावेप्युक्तदोषानुषंगतः ।। ६६ ।। काचाद्यंतरितार्थानां ग्रहणं चक्षुषः स्थितम् । अप्राप्यकारितालिंगं परपक्षस्य बाधकम् ॥ ६७ ॥ एवं पक्षस्याध्यक्षबाधामनुमानबाधां च प्ररूप्यागमबाधां च दर्शयन्नाह ; स्पृष्टं शब्दं शृणोत्यक्षमस्पृष्टं रूपमीक्ष्यते । स्पृष्टं बद्धं च जानाति स्पर्श गंधं रसं तथा ॥६८॥ इत्यागमश्च तस्यास्ति बाधको बाधवर्जितः । चक्षुषोप्राप्यकारित्वसाधनः शुद्धधीमतः ॥ ६९ ॥ ननु नयनाप्राप्यकारित्वसाधनस्यागमस्य बाधारहितत्वमसिद्धमिति पराकूतमुपदर्श्य दूषयन्नाह ;मनोबुद्धिप्रकृष्टार्थग्राहकत्वानुषंजनं । नेत्रस्याप्राप्यकारित्वे बाधकं येन गीयते ॥ ७० ॥ तस्य प्राप्तानुगंधादिग्रहणस्य प्रसंजनम् । घ्राणादेः प्राप्यकारित्वे बाधकं केन बाध्यते ॥ ७१ ॥ सूक्ष्मे महति च प्राप्तेरविशेषेपि योग्यता । गृहीतुं चेन्महद्रव्यं दृश्यं तस्य न चापरम् ॥ ७२ ॥ तर्ह्यप्राप्तेरभेदेपि चक्षुषः शक्तिरीदृशी । यथा किंचिद्धि दूरार्थमविदिकं प्रपश्यति ॥ ७३ ॥ ननु च घ्राणादींद्रियं प्राप्यकारि प्राप्तमपि तत्राणुगंधादियोगिनः परिच्छिनत्ति नास्मदादेस्तादृशादृष्टविशेषस्याभावात् महत्त्वाद्युपेतद्रव्यं गंधादि तु परिच्छिनत्ति तादृगदृष्टविशेषस्य सद्भावादित्यदृष्टवैचित्र्यात्तद्विज्ञानभावाभाववैचित्र्यं मन्यमानान् प्रत्याह; समं चादृष्टवैचित्र्यं ज्ञानवैचित्र्यकारणं । स्याद्वादिनां परेषां चेत्यलं वादेन तत्र नः ॥ ७४ ॥ ३० Page #243 -------------------------------------------------------------------------- ________________ २३४ तत्त्वार्थश्लोकवार्तिके [सू० १९ स्याद्वादिनामपि हि चक्षुरप्राप्यकारि केषांचिदतिशयज्ञानभृतामृद्धिमतामस्मदाद्यगोचरं विप्रकृष्टखविषयपरिच्छेदकं तादृशं तदावरणक्षयोपशमविशेषसद्भावात् । अस्मदादीनां तु यथाप्रतीति स्वार्थप्रकाशकं खानुरूपतदावरणक्षयोपशमादिति सममदृष्टवैचित्र्यं ज्ञानवैचित्र्यनिबंधनमुभयेषां । ततो न नयनाप्राप्यकारित्वं बाध्यते केनचित् घ्राणादिप्राप्यकारित्ववदिति न तदागमस्य बाधोस्ति येन बाधको न स्यात् पक्षस्य । तदेवंप्रत्यक्षेणानुमानेन स्वागमेन च बाधितः । पक्षः प्राप्तिपरिच्छेदकारि चक्षुरिति स्थितः ॥७५॥ कालात्ययापदिष्टश्च हेतुर्बाडेंद्रियत्वतः । इत्यप्राप्तार्थकारित्वे घ्राणादेवि वांछिते ॥ ७६ ॥ न हि पक्षस्यैवं प्रमाणबाधायां हेतुः प्रवर्तमानः साध्यसाधनायालमतीतकालत्वादन्यथातिप्रसंगात् ॥ एतेन भौतिकत्वादि साधनं तत्र वारितं । प्रत्येतव्यं प्रमाणेन पक्षबाधस्य निर्णयात् ॥ ७७ ॥ प्राप्यकारि चक्षुभौतिकत्वात्करणत्वात् प्राणादिवदित्यत्र न केवलं पक्षः प्रत्यक्षादिबाधितः । कालात्ययापदिष्टश्चेद्धेतुः पूर्ववदुक्तः । किं तर्खनैकांतिकश्चेति कथयन्नाह; अयस्कांतादिना लोहमप्राप्याकर्षता स्वयं । अनैकांतिकता हेतोभौतिकार्थस्य बाध्यते ॥ ७८॥ कायांतर्गतलोहस्य बहिर्देशस्य वक्ष्यते । नायस्कांतादिना प्राप्तिस्तत्करर्वोक्तकर्मणि ॥ ७९ ॥ यथा कस्तूरिकाद्रव्ये वियुक्तेपि पटादितः । तत्र सौगंध्यतः प्राप्तिस्तद्धाणुभिरिष्यते ॥८॥ अयस्कांताणुभिः कैश्चित्तथा लोहेपि सेष्यतां । विभक्तेपि ततस्तत्राकृष्ट्यादेदृष्टितस्तदा ॥८१॥ इत्ययुक्तमयस्कांतमप्राप्तं प्रति दर्शनात् । लोहाकृष्टेः परिप्राप्तास्तदंशास्तु न जातुचित् ॥८२॥ यथा कस्तूरिकाद्यर्थ गंधादिपरमाणवः । स्वाधिष्ठानाभिमुख्येन ता नयंति पटादिगाः ॥८३॥ तथायस्कांतपाषाणं सूक्ष्मभागाश्च लोहगाः । इत्यायातमितोप्राप्तायस्कांतो लोहकर्मकृत् ॥८४॥ ननु यथा हरीतकी प्राप्य मलमंगाद्विरेचयति तथायस्कांतपरमाणवः शरीरांतर्गतं शल्यं प्राप्याकर्षति शरीरादिति मन्यमानं प्रत्याहः प्राप्ता हरीतकी शक्ता कर्तुं मलविरेचनं । मलं न पुनरानेतुं हरीतक्यंतरं प्रति ॥ ८५ ॥ तर्हि यथाननान्निर्गतो वायुः पद्मनीलादिगः प्राप्य पानीयमाननं प्रत्याकर्षति तथायस्कांतांतरगाः परमाणवो बहिरवस्थितायस्कांतावयविनो निर्गताः प्राप्य लोहं तं प्रत्येवाकर्षतीति शंकमानं प्रत्याह; आकर्षणप्रयत्नेन विनाननकृतानिलः । पद्मनालादिगोंभांसि नाकर्षति मुखं प्रति ॥ ८६ ॥ तर्हि पुरुषप्रयत्ननिरपेक्षा यथादित्यरश्मयः प्राप्य भूगतं तोयं तमेव प्रति नयंति तथायस्कांतपरमाणवोपीत्यभिमन्यमानं प्रत्याह; सूर्याशवो नयंत्यंभः प्राप्य तत्सूर्यमंडलं । चित्रभानुत्विषो नास्तमिति स्वेच्छोपकल्पितम् ॥८७।। निःप्रमाणकमुदाहरणमाश्रित्यायस्कांतस्य प्राप्यकारित्वं व्यवस्थापयत्कथं न खेच्छाकारि ? तदागमात्सिद्धमिति चेन्न, तस्य प्रत्यागमे सर्वत्र दृष्टेष्टाविरुद्धेन प्रमाणतामात्मसात्कुर्वता प्रतिहतत्वात् वयं युक्ताननुगृहीतस्य प्रमाणत्वानभ्युपगमाच न ततस्तत्सिद्धिः यतोयस्कांतस्य प्राप्यकारित्वसिद्धौ तेनानैकांतिकत्वं भौतिकत्वस्य न स्यात् ॥ तथैव कारणत्वस्य मनसा व्यभिचारिता । मंत्रेण च भुजंगाद्युच्चाटकादिकरेण वा ॥ ८८॥ शब्दात्मनो हि मंत्रस्य प्राप्तिने भुजगादिना । मनागावर्तमानस्य दूरस्थेन प्रतीयते ॥ ८९॥ Page #244 -------------------------------------------------------------------------- ________________ २३५ प्रथमोऽध्यायः । प्राप्यकारि चक्षुः करणत्वाद्दात्रादिवदित्यत्राप्यंशतः सर्वान् प्रत्युद्योतकरेणोक्तो हेतुरनैकांतिको मनसा मंत्रेण च सर्वाद्याकृष्टिकारिणा प्रत्येयः पक्षश्च प्रमाणाबाधितः पूर्ववत् ।। तदेवं चक्षुषः प्राप्यकारित्वे नास्ति साधनं । मनसश्च ततस्ताभ्यां व्यंजनावग्रहः कुतः॥९॥ यत्र करणत्वमपि चक्षुषि प्राप्यकारित्वसाधनाय नालं च तत्रान्यत्साधनं दूरोत्सारितमेवेति मनोवद• प्राप्यकारि चक्षुः सिद्धं । ततश्च न चक्षुर्मनोभ्यां व्यंजनस्यावग्रह इति व्यवतिष्ठते ॥ दूरे शब्दं शृणोमीति व्यवहारस्य दर्शनात् । श्रोत्रमप्राप्यकारीति केचिदाहुस्तदप्यसत् ॥११॥ दूरे जिघ्राम्यहं गंधमिति व्यवहृतीक्षणात् । घ्राणस्याप्राप्यकारित्वप्रसक्तिरिष्टहानितः॥९२॥ गंधाधिष्ठानभूतस्य द्रव्यप्राप्तस्य कस्यचित् । दूरत्वेन तथा वृत्तौ व्यवहारोत्र चेन्नृणाम् ॥९३॥ समं शब्दे समाधानमिति यत्किंचनेदृशं । चोथं मीमांसकादीनामप्रातीतिकवादिनाम् ॥१४॥ कुट्यादिव्यवधानेपि शब्दस्य श्रवणादि । श्रोत्रमप्राप्यकारीष्टं तथा घ्राणं तथेष्यतां ॥९५॥ द्रव्यांतरितगंधस्य घातसूक्ष्मस्य तस्य चेत् । घ्राणप्राप्तस्य संवित्तिः श्रोत्रप्राप्तस्य नो ध्वनेः॥९६ यथा गंधाणवः केचिच्छक्ताः कुट्यादिभेदने । सूक्ष्मास्तथैव नः सिद्धाः प्रमाणध्वनिपुद्गलाः९७ पुद्गलपरिणामः शब्दो बाडेंद्रियविषयत्वात् गंधादिवदित्यादि प्रमाणसिद्धाः शब्दपरिणतपुद्गलाः इत्यग्रे समर्थयिष्यामहे । ते च गंधपरिणतपुद्गलवत् कुट्यादिकं भित्वा खेंद्रियं प्राप्नवंतः परिच्छेद्या इति न तेषामप्राप्तानामिंद्रियेण ग्रहणं । कथं मूर्ताः स्कंधाः श्रावणखभावाः कुट्यादिना मूर्तिमता न प्रतिहन्यते इति चेत् , तवापि वायवीया ध्वनयः शब्दाभिव्यंजकाः कथं ते न प्रतिहन्यते इति समानं चोद्यं । तत्प्रतिघाते तत्र शब्दस्याभिव्यक्तेरयोगादनभिव्यक्तस्य च श्रवणासंभवादप्रतिघातः तस्य कुट्यादिना सिद्धस्तदंतरितस्य श्रवणान्यथानुपपत्तिरिति चेत् , तत एव शब्दात्मनां पुद्गलानामप्रतिघातोस्तु दृढपरिहारात् । दृष्टो हि गंधात्मपुद्गलानामप्रतिघातस्तद्वच्छब्दानां न विरुध्यते । यदि पुनरमूर्तस्य सर्वगतस्य च शब्दस्य परिकल्पनात्तद्व्यंजकानामेवाप्रतिघाताच्छ्वणमित्यभिनिवेशः तथा गंधस्यामूर्तस्य कस्तूरिकादिद्रव्यविशेषसंयोगजनितावयवा व्यंजकामूर्तद्रव्यांतरेणाप्रतिहतास्तथा घ्राणहेतवः इति कल्पनानुषज्यमाना कथं निवारणीया ? गंधस्यैवं पृथिवीगुणत्वविरोध इति चेत् शब्दस्यापि पुद्गलत्वविरोधस्तथा परैः शब्दस्य द्रव्यांतरत्वेनाभ्युपगमाददोष इति चेत्तथा गंधोपि द्रव्यांतरमभ्युपगम्यतां प्रमाणबलायातस्य परिहर्तुमशक्तेः । स्पर्शादीनामप्येवं द्रव्यांतरत्वप्रसंग इति चेत् , तान्यपि द्रव्यांतराणि संतु । निर्गुणत्वात्तेषामद्रव्यत्वमिति चेत् , तत एव गंधस्पर्शादीनां द्रव्यत्वमस्तु । तेषूपचरितमहत्त्वादय इति चेत् शब्देप्युपचरिताः संतु । कुतः शब्देन तदुपचार इतिचेत् गंधादिषु कुतः? खाश्रयमहत्त्वादिति चेत् तत एव शब्देपि मुख्यमहत्त्वादेरसंभवः । शब्दे किमवगतः ? त्वयापि गंधादौ स किमु निश्चितः । गंधादयो न मुख्यमहत्त्वाद्युपेताः शश्वदखतंत्रत्वादभाववदित्यतोनुमानात्तदसंभवो निश्चित इति चेत् , तत एव शब्देपि स निश्चीयतां । शब्दे तदसिद्धेर्न तन्निश्चेयः सर्वदा तस्याखतंत्रस्योपलब्धेरिति चेत् गंधादावपि तत एव तदसिद्धेः । कुतस्तु तन्निश्चयः तस्य क्षित्यादिद्रव्यतंत्रत्वेन प्रतीतेरस्वतंत्रत्वसिद्धिरिति चेत् शब्दस्यापि वक्तृभेर्यादिद्रव्यतंत्रस्योपलब्धेरखतंत्रत्वसिद्धरस्तु । तस्य तदभिव्यंजकध्वनिनिबंधनत्वातंत्रत्वोपलब्धेरिति चेत् तर्हि क्षित्यादिद्रव्यस्यापि गंधादिव्यंजकवायुविशेषनिबंधनत्वात्तु गंधादेस्तंत्रत्वोपपत्तिः । शब्दस्य वक्तुरन्यत्रोपलब्धेर्न तंत्रत्वं सर्वदेति चेत् गंधादेरपि कस्तूरिकादिद्रव्यादन्यत्रोपलंभात्तत्परतंत्रत्वं सर्वदा मा भूत् । ततोन्यत्रापि सूक्ष्मद्रव्याश्रिता गंधादयः प्रतीयते इति चेत् शब्दोपि ताल्वादिभ्योऽन्यत्र सूक्ष्मपुद्गलाश्रित एव श्रूयत इति कथमिव खतंत्रः । तदाश्रयद्रव्यस्य चक्षुषोपलब्धिः स्यादिति चेत् Page #245 -------------------------------------------------------------------------- ________________ २३६ तत्त्वार्थश्लोकवार्तिके [सू०२० गंधाद्याश्रयस्य किं न स्यात् ? सूक्ष्मत्वादिति चेत् तत एव शब्दाश्रयद्रव्यस्यापि न चक्षुषोपलब्धिरिति सर्व समं पश्यामः । ततो यदि गंधादीनां शश्वदखतंत्रत्वान्महत्त्वाद्युपेतत्वाभावादाख्यातो न द्रव्यत्वं तदा शब्दस्यापि न तत् । ननु शब्दस्याद्रव्यत्वेप्यसर्वगतद्रव्याश्रयत्वे कथं सकृत्सर्वत्रोपलंभः यथा गंधादेः समानपरिणामभृतां पुद्गलानां खकारणवशात् समंततो विसर्पणात् वृक्षाव्यवहितानां विसर्पणं कथं न तेषामितिचेत् , यथा गंधद्रव्यस्कंधानां तथा परिणामात् तदेव गंधादिकृतिप्रतिविधानया दूरादेकोत्करः शब्दे समस्तो नावतरतीति तद्वत्प्राप्तस्येंद्रियेण ग्रहणं निरारेकमवतिष्ठते तथाप्रतीतेरित्याह;तबारेकोत्करः सर्वो गंधद्रव्ये समस्थितः । समाधिश्चेति न व्यासेनासाभिरभिधीयते ॥९८॥ प्रपंचतो विचारितमेतदन्यत्रास्माभिरिति नेहोच्यते ॥ श्रुतं मतिपूर्वं घनेकद्वादशभेदम् ॥ २० ॥ किमर्थमिदमुपदिष्टं मतिज्ञानप्ररूपणानंतरमित्याह;किं निमित्तं श्रुतज्ञानं किं भेदं किं प्रभेदकम् । परोक्षमिति निर्णेतुं श्रुतमित्यादि सूत्रितम् ॥१॥ किं निमित्तं श्रुतज्ञानं नित्यशब्दनिमित्तमन्यनिमित्तं चेति शंकामपनुदति मतिपूर्वकमिति वचनात् । किं भेदं तत् ? षड्भेदं द्विभेदमित्यभेदं वेति संशयं सहस्रप्रभेदं द्वादशप्रभेदमनेकभेदं वेति चारेकामपाकरोति यनेकद्वादशभेदमिति वचनात् । तत्र किमिदं श्रुतमित्याह; श्रुतेनेकार्थतासिद्धे ज्ञानमित्यनुवर्तनात् । श्रवणं हि श्रुतज्ञानं न पुनः शब्दमात्रकम् ॥२॥ कथमेवं शब्दात्मकं श्रुतमिह प्रसिद्धं सिद्धांतविदामित्याह;तच्चोपचारतो ग्राह्यं श्रुतशब्दप्रयोगतः । शब्दभेदप्रभेदोक्तः स्वयं तत्कारणत्वतः ॥३॥ तच्च शब्दमानं श्रुतमिह ज्ञेयमुपचारात् धनेकद्वादशभेदमित्यनेन शब्दसंदर्भस्य भेदप्रभेदयोर्वचनात् स्वयं सूत्रकारेण श्रुतशब्दप्रयोगाच्च । स हि श्रूयतेस्मेति श्रुतं प्रवचनमित्यस्येष्टार्थस्य संग्रहार्थः श्रेयो नान्यथा स्पष्टज्ञानाभिधायिनः शब्दस्य प्रयोगार्हत्वात् । कुतः पुनरुपचारः तत्कारणत्वात् । श्रुतज्ञानकारणं हि प्रवचनं श्रुतमित्युपचर्यते मुख्यस्य श्रुतज्ञानस्य भेदप्रतिपादनं कथमुपपन्नं तज्ज्ञानस्य भेदप्रभेदरूपत्वोपपत्तेः द्विभेदप्रवचनजनितं हि ज्ञानं द्विभेदं अंगबाह्यप्रवचनजनितस्य ज्ञानस्यांगबाह्यत्वात् अंगप्रविष्टवचनजनितस्य चांगप्रविष्टत्वात् । तथानेकद्वादशप्रभेदवचनजनितं ज्ञानमनेकद्वादशप्रभेदकं कालिकोत्कालिकादिवचनजनितस्यानेकप्रभेदरूपत्वात् , आचारादिवचनजनितस्य च द्वादशप्रभेदत्वादिदमुपचरितं च श्रुतं यनेकद्वादशभेदमिहैव वक्ष्यते । द्विभेदमनेकद्वादशभेदमिति प्रत्येकं भेदशब्दस्याभिसंबंधात् तथा चतुर्भेदो वेदः षडंगः सहस्रशाखः इत्यादि श्रुताभासनिवृत्तिरप्रमाणत्वप्रत्यक्षत्वादिनिवृत्तिश्च कृता भवति । कथमित्याह; सम्यगित्यधिकारात्तु श्रुताभासनिवर्तनम् । तस्याप्रामाण्यविच्छेदः प्रमाणपदवृत्तितः ॥४॥ परोक्षाविष्कृतेस्तस्य प्रत्यक्षत्वनिराक्रिया । नावध्यादिनिमित्तत्वं मतिपूर्वमिति श्रुतेः ॥ ५ ॥ न नित्यत्वं द्रव्यश्रुतस्य भावश्रुतस्य वा न नित्यनिमित्तत्वमिति सामर्थ्यादवसीयते मतिपूर्वत्ववचनादवध्याद्यनिमित्तत्ववत् । श्रुतनिमित्तत्वं श्रुतस्यैव बाध्येतेति न शंकनीयं । कुतः ? पूर्व शब्दप्रयोगस्य व्यवधानेपि दर्शनात् । न साक्षान्मतिपूर्वस्य श्रुतस्येष्टस्य बाधनम् ॥ ६॥ Page #246 -------------------------------------------------------------------------- ________________ २३७ प्रथमोऽध्यायः। लिंगादिवचनश्रोत्रमतिपूर्वात्तदर्थगात् श्रुताच्छृतमिति सिद्धं लिंगादिविषयं विदाम् ।। नन्वेवं केवलज्ञानपूर्वकं भगवदह प्रभाषितं द्रव्यश्रुतं विरुध्यत इति मन्यमानं प्रत्याह;न च केवलपूर्वत्वात्सर्वज्ञवचनात्मनः । श्रुतस्य मतिपूर्वत्वनियमोत्र विरुध्यते ॥ ७॥ ज्ञानात्मनस्तथाभावप्रोक्ते गणभृतामपि । मतिप्रकर्षपूर्वत्वादहत्प्रोक्तार्थसंविदः ॥८॥ • श्रुतज्ञानं हि मतिपूर्व साक्षात्पारंपर्येण वेति नियम्यते न पुनः शब्दमात्रं यतस्तस्य केवलपूर्वत्वेन विरोधः स्यात् । न च गणधरदेवादीनां श्रुतज्ञानं केवलपूर्वकं तन्निमित्तशब्दविषयमतिज्ञानातिशयपूर्वकत्वात्तस्येति निरवद्यं ॥ मतिसामान्यनिर्देशान्न श्रोत्रमतिपूर्वकं । श्रुतं नियम्यतेऽशेषमतिपूर्वस्य वीक्षणात् ॥९॥ श्रुत्वा शब्दं यथा तस्मात्तदर्थ लक्षयेदयं । तथोपलभ्य रूपादीनर्थ तनांतरीयकम् ॥१०॥ यथा हि शब्दः स्ववाच्यमविनाभाविनां प्रत्यापयति तथा रूपादयोपि खाविनाभाविनमर्थ प्रत्यापयंतीति श्रोत्रमतिपूर्वकमेव श्रुतज्ञानमीक्ष्यते । ततो न श्रोत्रमतिपूर्वमेव तदिति नियमः श्रेयान् , मतिसामान्यवचनात् ॥ न स्मृत्यादि मतिज्ञानं श्रुतमेवं प्रसज्यते । मतिपूर्वत्वनियमात्तस्यास्य तु मतित्वतः ॥११॥ श्रुतज्ञानावृतिच्छेदविशेषापेक्षणस्य च । स्मृत्यादिष्वंतरंगस्याभावान श्रुततास्थितिः ॥१२॥ मतिर्हि बहिरंगं श्रुतस्य कारणं अंतरंगं तु श्रुतज्ञानावरणक्षयोपशमविशेषः । स च स्मृत्यादेर्मतिविशेषणस्य नास्तीति न श्रुतत्वम् ॥ मतिपूर्व ततो ज्ञेयं श्रुतमस्पष्टतर्कणम् । न तु सर्वमतिव्याप्तिप्रसंगादिष्टवाधनात् ॥ १३ ॥ श्रुतमस्पष्टतर्कणमित्यपि मतिपूर्व नानार्थप्ररूपणं श्रुतज्ञानावरणक्षयोपशमापेक्षमित्यवगंतव्यमन्यथा स्मृत्यादीनामस्पष्टाक्षज्ञानानां च श्रुतत्वप्रसंगात् सिद्धांतविरोधापत्तिरिति सूक्तं मतिपूर्व श्रुतं । तच्चद्विभेदमंगबाह्यत्वादंगरूपत्वतः श्रुतम् । अनेकभेदमत्रैकं कालिकोत्कालिकादिकम् ॥ १४॥ द्वादशावस्थमंगात्मतदाचारादिभेदतः । प्रत्येकं भेदशब्दस्य संबंधादिति वाक्यभित् ॥ १५॥ मुख्या ज्ञानात्मका भेदप्रभेदास्तस्य सूत्रिताः। शब्दात्मकाः पुनर्गौणाः श्रुतस्येति विभिद्यते१६ तत्र श्रुतज्ञानस्य मतिपूर्वकत्वेपि सर्वेषां विप्रतिपत्तिमुपदर्शयतिशब्दज्ञानस्य सर्वेपि मतिपूर्वत्वमादृताः । वादिनः श्रोत्रविज्ञानाभावे तस्य समुद्भवात् ॥१७॥ भवतु नाम श्रुतज्ञानं मतिपूर्वकं याज्ञिकानामपि तत्राविप्रतिपत्तेः "शब्दादुदेत्य विज्ञानमप्रत्यक्षेथ वस्तुनि । शाब्दं तदिति मन्यते प्रमाणांतरवादिनः" इति वचनात् । शब्दात्मकं तु श्रुतं वेदनाख्यं न मतिपूर्वकं तस्य नित्यत्वादिति मन्यमानं प्रत्याह शब्दात्मकं पुनर्येषां श्रुतमज्ञानपूर्वकं । नित्यं तेषां प्रमाणेन विरोधो बहुचोदितः ।। १८ ॥ प्रत्यक्षबाधनं तावदग्निमीळे पुरोहितं । इत्येवमादिशब्दस्य ज्ञानपूर्वत्ववेदनात् ॥ १९ ॥ तब्यक्तेः ज्ञानपूर्वत्वं स्वयं संवेद्यते न तु । शब्दस्येति न साधीयो व्यक्तेः शब्दात्मकत्वतः॥२०॥ शब्दाद्यर्थातरं व्यक्तिः शब्दस्य कथमुच्यते । संबंधाच्चेति संबंधः स्वभाव इति सैकता ॥२१॥ शब्दव्यक्तेरभिन्नैकसंबंधात्मत्वतो न किम् । संबंधस्यापि तद्भेदेनवस्था केन वार्यते ॥ २२॥ भिन्नाभिन्नात्मकत्वे तु संबंधस्य ततस्तव । शब्दस्य बुद्धिपूर्वत्वं व्यक्तेरिव कथंचन ॥ २३॥ व्यक्तिवर्णस्य संस्कारः श्रोत्रस्याथोभयस्य वा । तद्बुद्धितावृतिच्छेदः साप्येतेनैव दृषिता ॥२४॥ Page #247 -------------------------------------------------------------------------- ________________ २३८ तत्त्वार्थश्लोकवार्तिके [सू०२० विशेषाधानमप्यस्य नाभिव्यक्तिर्विभाव्यते । नित्यस्यातिशयोत्पत्तिविरोधात्वात्मनाशवत्॥२५ कलशादेरभिव्यक्तिींपादेः परिणामिनः । प्रसिद्धेति न सर्वत्र दोषोयमनुषज्यते ॥२६॥ नित्यस्य व्यापिनो व्यक्तिः साकल्येन यदीष्यते । किं न सर्वत्र सर्वस्य सर्वदा तद्विनिश्चयः२७ खादृष्टवशतः पुंसां शाब्दज्ञानविचित्रता । व्यक्तेपि काय॑तः शब्दे भावे सर्वात्मके न किम्२८ देशतस्तदभिव्यक्ती सांशता न विरुध्यते । व्यंजके यत्तु शब्दानामभिन्ने सकलश्रुतिः॥२९॥ तस्य कचिदभिव्यक्ती व्यापारे देशभाक स्वतः । नानारूपे तु नानात्वं कुतस्तस्यावगम्यताम्३० स्वाभिप्रेताभिलापस्य श्रुतेरन्योन्यसंश्रयः । सिद्धे व्यंजकनानात्वे विशिष्टवचसः श्रुतिः॥३१॥ प्रसिद्धायां पुनस्तस्यां तत्प्रसिद्धिर्हि ते मते । यदि प्रत्यक्षसिद्धेयं विशिष्टवचसः श्रुतिः॥३२॥ शेमुपीपूर्वतासिद्धिवोचा किं नानुमन्यते । ननु ज्ञाननिमित्तत्वं वाचामुच्चारणस्य नः॥३३॥ सिद्धं नापूर्वरूपेण प्रादुर्भावः कदाचन । कर्तुरमरण तासां तादृशीनां विशेषतः ॥ ३४ ॥ पुरुषार्थोपयोगत्वभाजामपि महात्मनां । नैवं सर्वनृणां कर्तुः स्मृतेरप्रतिसिद्धितः ॥ ३५॥ तत्कारणं हि काणादाः सरंति चतुराननं । जैनाः कालासुरं बौद्धाः स्वाष्टकात्सकलाः सदा३६ सर्वे स्वसंप्रदायस्याविच्छेदेनाविगानतः । नानाकर्टस्मृतेनोस्ति तासां कर्तेत्यसंगतं ॥ ३७॥ बहुकतेकतासिद्धेः खंडशस्तादृगन्यवत् । कतुरस्मरणं हेतुयोज्ञिकानां यदीष्यते ॥ ३८ ॥ तदा स्वगृहमान्या स्याद्वेदस्थापौरुषेयता । जगतोऽकर्तृताप्येवं परेषामिति चेन वै ॥ ३९ ॥ कतुः स्मरणहेतुस्तत्सिद्धौ तैश्च प्रयुज्यते । महत्त्वं तु न वेदस्य प्रतिवाद्यागमात् स्थितम् ॥४०॥ येनाशक्यक्रियत्वस्य साधनं तत्तव स्मृतेः । पुरुषार्थोपयोगित्वं विवादाध्यासितं कथं ॥४१॥ विशेषणतया हेतोः प्रयोक्तुं युज्यते सतां । वेदाध्ययनवाच्यत्वं वेदाध्ययनपूर्वताम् ॥ ४२ ॥ न वेदाध्ययने शक्तं प्रज्ञापयितुमन्यवत् । यथा हिरण्यगर्भः सोऽध्येता वेदस्य साध्यते॥४३॥ युगादौ प्रथमस्तद्वद्बुद्धादिः खागमस्य च । साक्षात्कृत्यागमस्यार्थवक्ता कर्तागमस्य चेत्॥४४॥ अमिरित्यनिरित्यादिर्वक्ता कर्ता तु तादृशः । पराभ्युपगमात्कर्ता स चेद्वेदे पितामहः ॥४५॥ तत एव न धातास्तु न वा कश्चित्समत्वतः । नानधीतस्य वेदस्याध्येतास्त्यध्यापकाद्विना ४६ न सोस्ति ब्रह्मणोत्रादाविति नाध्येत्ता गतिः । स्वर्गेधीतान् स्वयं वेदाननुस्मृत्येह संभवी॥४७॥ ब्रह्माध्येता परेषां वाध्यापकश्चेद्यथायथं । सर्वेपि कवयः संतु तथाध्येतार एव च ॥४८॥ इत्यकृत्रिमता सर्वशास्त्राणां समुपागता । स्वयं जन्मांतराधीतमधीयामहि संप्रति ॥ ४९ ॥ इति संवेदनाभावात्तेषामध्येत्ता न चेत् । पूर्वानुभूतपानादेस्तदहर्जातदारकाः ॥ ५० ॥ स्मारः कथमेवं स्युस्तथा संवेदनाद्विना । स्मृतिलिंगविशेषाचेत्तेषां तत्र प्रसाध्यते ॥५१॥ कवीनां किं न काव्येषु पूर्वाधीतेषु सान्वया । यदि व्युत्पत्तिवर्णेषु पदेष्वर्थेष्वनेकधा ॥५२॥ वाक्येषु चेह कुर्वतः कवयः काव्यमीक्षिताः । किं न प्रजापतिर्वेदान् कुर्वन्नेवं सतीक्षितः ५३ कश्चित्परीक्षकैलॊकैः सद्भिस्तदेशकालगैः । तथा च श्रूयते सापि गिरा सामानि रुग्निराट् ५४ ऋचः कृता इति केयं वेदस्यापौरुषेयता । प्रत्यभिज्ञायमानत्वं नित्यैकांतं न साधयेत् ॥५५॥ पौर्वापर्यविहीनेर्थे तदयोगाद्विरोधतः । पूर्वदृष्टस्य पश्चाद्या दृश्यमानस्य चैकताम् ॥ ५६ ॥ वेत्ति सा प्रत्यभिज्ञेति प्रायशो विनिवेदितम् । दृष्टत्वदृश्यमानत्वे रूपे पूर्वापरे न चेत् ॥५७॥ भावस्य प्रत्यभिज्ञानं स्यात्तदत्राश्वशंगवत् । तदा नित्यात्मकः शब्दः प्रत्यभिज्ञानतो यथा।।५८॥ देवदत्तादिरित्यस्तु विरुद्धो हेतुरीरितः । दर्शनस्य परार्थत्वादित्यपि परदर्शितः ॥ ५९॥ Page #248 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २३९ विरुद्ध हेतुरित्येवं शब्दैकत्वप्रसाधने । ततोऽकृतकता सिद्धेरभावान्नयशक्तितः ॥ ६० ॥ वेदस्य प्रथमोध्येता कर्तेति मतिपूर्वतः । पदवाक्यात्मकत्वाच्च भारतादिवदन्यथा ॥ ६१ ॥ तदयोगाद्विरुध्येत संगिरौ च महानसः । सर्वेषां हि विशेषाणां क्रिया शक्या वचोत्तरे ॥ ६२ ॥ वेदवाक्येषु दृश्यानामन्येषां चेति हेतुता । युक्तान्यथा न धूमादेरन्यादिषु भवेदसौ ॥ ६३ ॥ ततः सर्वानुमानानामुच्छेदस्ते दुरुत्तरः । प्रमाणं न पुनर्वेदवचसोकृत्रिमत्वतः ॥ ६४ ॥ साध्यते चेद्भवेदर्थवादस्यापि प्रमाणता । अदुष्टहेतुजन्यत्वं तद्वत्प्रामाण्यसाधने ॥ ६५ ॥ हेत्वाभासनमित्युक्तमपूर्वार्थत्वमप्यदः । बाधवर्जितता हेतुस्तत्र चेलैगिकादिवत् ॥ ६६ ॥ किमकृत्रिमता तस्य पोष्यते कारणं विना । पुंसो दोषाश्रयत्वेन पौरुषेयस्य दुष्टता ॥ ६७ ॥ शक्यते तज्जसंवित्तेरतो बाधनशंकनं । निःसंशयं पुनर्वाधवर्जितत्वं प्रसिद्ध्यति ।। ६८ ।। कर्तृहीनवचो वित्तेरित्यकृत्रिमतार्थकृत् । परेषामागमस्येष्टं गुणवक्तृत्वतः ॥ ६९ ॥ साधीयसीति यो वक्ति सोपि मीमांसकः कथं । समत्वादक्षलिंगादेः कस्यचिद्दुष्टता दृशः ७० शब्दज्ञानवदाशंकापतेस्तज्जन्मसंविदः । मिथ्याज्ञाननिमित्तस्य यद्यक्षादेस्तदा न ताः ॥ ७१ ॥ तादृशः किं न वाक्यस्य श्रुत्याभासत्वमिष्यते । गुणवद्वत्तृकत्वं तु परैरिष्टं यदागमे ॥ ७२ ॥ तत्साधनांतरं तस्य प्रामाण्ये कांचन प्रति । सुनिर्बाधत्वहेतोर्वा समर्थनपरं भवेत् ॥ ७३ ॥ तन्नो न पौरुषेयत्वं भवतस्तत्र तादृशं । मंत्रार्थवादनिष्ठस्य पौरुषेयस्य बाधनात् ॥ ७४ ॥ वेदस्यापि पयोदादिध्वनेर्नैष्फल्यदर्शनात् । सत्यं श्रुतं सुनिर्णीतासंभवद्वाधकत्वतः ॥ ७५ ॥ प्रत्यक्षादिवदित्येतत्सम्यक् प्रामाण्यसाधनं । कदाचित्स्यादप्रमाणं शुक्तौ रजतबोधवत् ॥ ७६ ॥ नापेक्षं संभवद्वाधं देशकालनरांतरं । स्वेष्टज्ञानवदित्यस्य नानैकांतिकता स्थितिः ॥ ७७ ॥ न च हेतुरसिद्धोयमव्यक्तार्थवचोविदः । प्रत्यक्षबाधनाभावादनेकांते कदाचन ॥ ७८ ॥ अनुमेयेनुमानेन बाधवैधुर्यनिर्णयात् । तृतीयस्थानसंक्रांते त्वागमावयवेन च ॥ ७९ ॥ परागमे प्रमाणत्वं नैवं संभाव्यते सदा । दृष्टेष्टबाधनात्सर्वशून्यत्वागमबोधवत् ॥ ८० ॥ भावाद्येकांतवाचानां स्थितं दृष्टेष्टबाधनं । सामंतभद्रतो न्यायादिति नात्र प्रपंचितम् ॥ ८१ ॥ करिष्यते च तद्वत्स यथावसरमग्रतः । युक्त्या सर्वत्र तत्त्वार्थे परमागमगोचरम् ॥ ८२ ॥ प्रोक्तभेदप्रभेदं तच्छ्रुतमेव हि तद्दृढं । प्रामाण्यमात्मसात्कुर्यादिति नश्चिंतयात्र किम् ॥ ८३ ॥ तदेवं श्रुतस्यापौरुषेयतैकांतमपाकृत्य कथंचिदपौरुषेयत्वेपि चोदनायाः प्रामाण्यसाधनासंभवं विभाव्य स्याद्वादस्य च सुनिश्चितासंभवद्वाधकत्वं प्रामाण्यसाधनं व्यवस्थाप्य सर्वथैकांतानां तदसंभवं भगवत्समंत - भद्राचार्यन्यायाद्भावाद्येकांतनिराकरणप्रवणादावेद्य वक्ष्यमाणाच्च न्यायात्संक्षेपतः प्रवचनप्रामाण्यदार्थमवधार्य तत्र निश्चितं नामात्मसात्कृत्य संप्रति श्रुतस्वरूपप्रतिपादकम कलंकग्रंथमनुवादपुरस्सरं विचारयति ; -- अत्र प्रचक्षते केचिच्छ्रतं शब्दानुयोजनात् । तत्पूर्वनियमाद्युक्तं नान्यथेष्टविरोधतः ॥ ८४ ॥ शब्दानुयोजनादेव श्रुतं हि यदि कथ्यते । तदा श्रोत्रमतिज्ञानं न स्यान्नान्यमतौ भवम् ॥ ८५ ॥ यद्यपेक्षवचस्तेषां श्रुतं सांव्यवहारिकं । स्वेष्टस्य बाधनं न स्यादिति संप्रतिपद्यते ॥ ८६ ॥ न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । इत्येकांतं निराकर्तुं तथोक्तं तैरिहेति वा ॥८७॥ ज्ञानमाद्यं स्मृतिः संज्ञा चिंता चाभिनिवोधिकं । प्रानामसंसृतं शेषं श्रुतं शब्दानुयोजनात् ८८ अत्राकलंक देवाः प्राहुः "ज्ञानमाद्यं स्मृतिः संज्ञा चिंता चाभिनिबोधिकं । प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ॥” इति तत्रेदं विचार्यते मतिज्ञानादाद्यादाभिनिबोधिकपर्यंताच्छेषं श्रुतं शब्दानुयोजना Page #249 -------------------------------------------------------------------------- ________________ २४० तत्त्वार्थश्लोकवार्तिके [सू०२० देवेत्यवधारणं श्रुतमेव शब्दानुयोजनादिति वा ? यदि श्रुतमेव शब्दानुयोजनादिति पूर्वनियमस्तदा न कश्चिद्विरोधः शब्दसंसृष्टज्ञानस्याश्रुतज्ञानत्वव्यवच्छेदात् । अथ शब्दानुयोजनादेव श्रुतमिति नियमस्तदा श्रोत्रमतिपूर्वकमेव श्रुतं न चक्षुरादिमतिपूर्वकमिति सिद्धांतविरोधः स्यात् । सांव्यवहारिकं शाब्दं ज्ञानं श्रुतमित्यपेक्षया तथा नियमे तु नेष्टबाधास्ति चक्षुरादिमतिपूर्वकस्यापि श्रुतस्य परमार्थतोभ्युपगमात् खसमयसंप्रतिपत्तेः । अथवा "न सोस्ति प्रत्ययो लोके यः शब्दानुगाते । अनुविद्धमिवाभाति सवै. शब्दे प्रतिष्ठितं ॥” इत्येकांतं निराकर्तुं प्राग्रामयोजनादाद्यमिष्टं न तु तन्नामसंसृष्टमिति व्याख्यानमाकलंकमनुसर्तव्यं । तथा सति यदाह परः “वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी" इति तदपास्तं भवति तया विनैवाभिनिबोधिकस्य प्रकाशनादित्यावेदयतिवाग्रूपता ततो न स्यायोक्ता प्रत्यवमर्शिनी । मतिज्ञानं प्रकाशेत सदा तद्धि तया विना॥८९॥ न हींद्रियज्ञानं वाचा संसृष्टमन्योन्याश्रयप्रसंगात् । तथाहि । न तावदज्ञात्वा वाचा संसृजेदतिप्रसंगात् । ज्ञात्वा संसृजतीति चेत् तेनैव संवेदनेनान्येव वा ? तेनैव चेदन्योन्याश्रयणमन्येन चेदनवस्थानं । अत्र शब्दाद्वैतवादिनामज्ञत्वमुपदय दूषयन्नाह;वैखरी मध्यमां वाचं विनाक्षज्ञानमात्मनः । स्वसंवेदनमिष्टं नोन्योन्याश्रयणमन्यथा ॥९॥ पश्यंत्या नु विना नैतद्यवसायात्मवेदनम् । युक्तं न चात्र संभाव्यः प्रोक्तोन्योन्यसमाश्रयः९१ व्यापिन्या सूक्ष्मया वाचा व्याप्तं सर्व च वेदनं । तया विना हि पश्यंती विकल्पात्मा कुतः पुनः९२ मध्यमा तदभावे क निर्बीजा वैखरी वात् । ततः सा शाश्वती सर्ववेदनेषु प्रकाशते ॥ ९३॥ इति येपि समादध्युस्तेप्यनालोचितोक्तयः । शब्दब्रह्मणि निर्भागे तथा वक्तुमशक्तितः ॥१४॥ न ह्यवस्था च श्रोत्रस्य सत्याद्वैतप्रसंगतः । न च तासामविद्यात्वं तत्त्वासिद्धौ प्रसिद्ध्यति ।।९५ चतुर्विधा हि वाग्वैखरी मध्यमा पश्यंती सूक्ष्मा चेति । तत्राज्ञानं विनैव वैखर्या मध्यमया चात्मनः प्रभवति खसंवेदनं च अन्यथान्योन्याश्रयणस्य दुर्निवारत्वात् । तत एवानवस्थापरिहारोपि । न चैवं वाग्रूपता सर्ववेदनेषु प्रत्यवमर्शिनीति विरुध्यते पश्यत्या वाचा विनाक्षज्ञानादेरप्यसंभवात् । तद्धि यदि व्यवसायात्मकं तदा व्यवसायरूपां पश्यंतीवाचं कस्तत्र निराकुर्यादव्यवसायात्मकत्वप्रसंगात् । न चैवमन्योन्याश्रयोनवस्था वा युगपत्स्वकारणवशाद्वाक्संवेदनयोस्तादात्म्यमापन्नयोर्भावात् । यत्पुनरव्यवसायात्मकं दर्शनं तत्पश्यंत्यापि विनोपजायमानं न वाचाननुगतं सूक्ष्मया वाचा सहोत्पद्यमानत्वात् तस्याः सकलसंवेदनानुयायिस्वभावत्वात् । तया विना पुनः पश्यंत्या मध्यमाया वैखर्याश्चोत्पत्तिविरोधादन्यथा निर्बीजत्वप्रसंगात् । ततस्तद्वीजमिच्छता तदुत्पादनशक्तिरूपा सूक्ष्मा वाक् व्यापिनी सततं प्रकाशमानाभ्युपगंतव्या । सैवानुपरिहरत्यभिधानाद्यपेक्षायां भवदन्योन्यसंश्रय इति दूषणं "अभिलापतद्वशानामभिलापविवेकतः । अप्रमाणप्रमेयत्वमवश्यमनुषज्यते” इत्यनवस्थानं च अभिलापस्य तद्भागानां वा पराभिलापेन वैखरीरूपेण मध्यमारूपेण च विनिबाधसंवेदनोत्पत्तेरप्रमाणप्रमेयत्वानुषंगाभावादिति ये समादधते तेप्यनालोचितोक्तय एव, निरंशशब्दब्रह्मणि तथा वक्तुमशक्तेः । तस्यावस्थानां चतसृणां सत्यत्वेऽद्वैतविरोधात् । तासामविद्यात्वाददोष इति चेन्न, शब्दब्रह्मणोनंशस्य विद्यात्वंसिद्धौ तदवस्थानाम विद्यात्वाप्रसिद्धेः । तद्धि शब्दब्रह्म निरंशमिंद्रियप्रत्यक्षादनुमानात्वसंवेदनप्रत्यक्षादागमाद्वा न प्रसिद्ध्यतीत्याह ब्रह्मणो न व्यवस्थानमक्षज्ञानात् कुतश्चन । स्वप्नादाविव मिथ्यात्वात्तस्य साकल्यतः स्वयम्९६ नानुमानात्ततोर्थानां प्रतीतेदुर्लभत्वतः । परप्रसिद्धिरप्यस्य प्रसिद्धा नाप्रमाणिका ॥ ९७ ॥ खतः संवेदनासिद्धिः क्षणिकानंशवित्तिवत् । न परब्रह्मणो नापि सा युक्ता साधनाद्विना९८ Page #250 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २४१ आगमादेव तत्सिद्धौ भेदसिद्धिस्तथा न किम् । निर्वाधादेव चेत्तव्यं न प्रमाणांतरादृते ॥९९॥ तदागमस्य निश्चेतुं शक्यं जातु परीक्षकैः । न चागमस्ततो भिन्नः समस्ति परमार्थतः॥१०॥ तद्विवर्तस्त्वविद्यात्मा तस्य प्रज्ञापकः कथं । न चाविनिश्चिते तत्त्वे फेनबुद्धदवद्भिदा ॥१०१॥ मायेयं बत दुःपारा विपश्चिदिति पश्यति । येनाविद्या विनिर्णीता विद्यां गमयति ध्रुवम्१०२ भ्रांते/जाविनाभावादनुमात्रैवमागता । ततो नैव परं ब्रह्मास्त्यनादिनिधनात्मकम् ॥ १०३॥ विवर्तेतार्थभावेन प्रक्रिया जगतो यतः । न हि भ्रांतिरियमखिलभेदप्रतीतिरित्यनिश्चये तदन्यथानुपपत्त्या तबीजभूतं शब्दतत्त्वमनादिनिधनं ब्रह्म सिद्ध्यति । नापि तदसिद्धौ भेदप्रतीतिभ्रांतिरिति परस्पराश्रयणात्कथमिदमवतिष्ठते "अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्तेतार्थभावेन प्रक्रिया जगतो यतः ॥” इति यतस्तस्य चतस्रोवस्था वैखर्यादयः संभाव्यते सत्योसत्यो वा । न च तदसंभवेनायं सर्वत्र प्रत्यये शब्दानुगमः सिद्ध्येत् सूक्ष्मायाः सर्वत्र भावात् । यतोभिधानापेक्षायामक्षादिज्ञानेन्योन्याश्रयोऽनवस्था च न स्यात्सर्वथैकांताभ्युपगमात् ॥ स्थाद्वादिनां पुनर्वाचो द्रव्यभावविकल्पतः । द्वैविध्यं द्रव्यवाग्वधा द्रव्यपर्यायभेदतः ॥१०४॥ श्रोत्रग्राह्यात्र पर्यायरूपा सा वैखरी मता । मध्यमा च परैस्तस्याः कृतं नामांतरं तथा॥१०५॥ द्रव्यरूपा पुनर्भाषावर्गणाः पुद्गलाः स्थिताः । प्रत्ययान्मनसा नापि सर्वप्रत्ययगामिनी।।१०६॥ भाववाग्व्यक्तिरूपात्र विकल्पात्मनिबंधनं । द्रव्यवाचोभिधा तस्याः पश्यंतीत्यनिराकृताः १०७ वाग्विज्ञानावृतिच्छेद विशेषोपहितात्मनः । वक्तुः शक्तिः पुनः सूक्ष्मा भाववागभिधीयताम् १०८ तया विना प्रवर्तते न वाचः कस्यचित्कचित् । सर्वज्ञस्याप्यनंताया ज्ञानशक्तेस्तदुद्भवः ॥१०९ इति चिद्रूपसामान्यात्सवात्मव्यापिनी ननु । विशेषात्मतयेत्युक्ता मतिःप्राङ्नामयोजनात्११० शब्दानुयोजनादेव श्रुतमेवं न बाध्यते । ज्ञानशब्दाद्विना तस्य शक्तिरूपादसंभवात् ॥१११॥ लब्ध्यक्षरस्य विज्ञानं नित्योद्घाटन विग्रहं । श्रुताज्ञानेपि हि प्रोक्तं तत्र सर्वजघन्यके ॥ ११२ ॥ स्पर्शनेंद्रियमात्रोत्थे मत्यज्ञाननिमित्तकं । ततोक्षरादिविज्ञानं श्रुते सर्वत्र संमतम् ॥ ११३ ॥ नाकलंकवचोबाधा संभवत्यत्र जातुचित् । तादृशः संप्रदायस्याविच्छेदाद्युक्त्यनुग्रहात्॥११४॥ ननु च श्रोत्रग्राह्या पर्यायरूपा वैखरी मध्यमा च वागुक्ता शब्दाद्वैतवादिभिर्यतो नामांतरमात्रं तस्याः स्यान्न पुनरर्थभेद इति । नापि पश्यंती वाग वाचकविकल्पलक्षणा सूक्ष्मा वा वाक् शब्दज्ञानशक्तिरूपा । किं तर्हि । स्थानेषूरःप्रभृतिषु विभज्यमाने विवृत्ते वायौ वर्णत्वमापद्यमाना वक्तृप्राणवृत्तिहेतुका वैखरी स्थानेषूरःप्रभृतिषु विभज्यमाने विवृत्ते वायौ कृतवर्णत्वपरिग्रहः । “वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना” इति वचनात् । तथा मध्यमा केवलमेव बुद्ध्युपादाना क्रमरूपानुपातिनी वक्तृप्राणवृत्तिमतिक्रम्य प्रवर्तमाना निश्चिता केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । “प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते” इति वचनात् । पश्यन्ती पुनरविभागा सर्वतः संहृतकमा प्रत्येया। सूक्ष्मात्र स्वरूपज्योतिरेवान्तरवभासिनी नित्यावगन्तव्या । "अविभागानुपश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागवभासिनी । १।" इति वचनात् । ततो न स्याद्वादिनां कल्पयितुं युक्ताश्चतस्रोऽवस्थाः श्रुतस्य वैखर्यादयस्तदनिष्टलक्षणत्वादिति केचित् । तेऽपि न प्रातीतिकोक्तयः । वैखर्या मध्यमायाश्च श्रोत्रग्राह्यत्वलक्षणानतिक्रमात् । स्थानेषु विवृतो हि वायुर्वक्तृणां प्राणवृत्तिश्च वर्णत्वं परिगृह्णत्या वैखर्याः कारणं । वर्णत्वपरिग्रहस्तु लक्षणं । स च श्रोत्रग्राह्यत्वपरिणाम एव । इति न किञ्चिदनिष्टं । तथा केवला ३१ Page #251 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० २० बुद्धिर्वत्कृप्राणवृत्त्यतिक्रमश्च मध्यमायाः कारणं तु लक्षणं क्रमरूपानुपातित्वमेव च तत्र श्रोत्रग्रहणयोग्यत्वाविरुद्धमिति न निराक्रियते । पश्यन्त्याः सर्वतः संहृतक्रमत्वमविभागत्वं च लक्षणं । तच्च यदि सर्वथा तदा प्रमाणविरोधो, वाच्यवाचकविकल्पक्रमाविभागयोस्तत्र प्रतिभासनात् । कथंचित्तु संहृतक्रमत्वं विभागत्वं च तत्रेष्टमेव, युगपदुपयुक्तश्रुतविकल्पानामसम्भवाद्वर्णादिविभागाभावाच्चानुपयुक्तश्रुत विकल्पस्येति । तस्याविकल्पात्मकत्वलक्षणानतिक्रम एव । सूक्ष्मायाः पुनरन्तःप्रकाशमानखरूपज्योतिर्लक्षणत्वं कथंचिन्नित्यत्वं च नित्योद्घाटितान्निरावरणलब्ध्यक्षरज्ञानाच्छक्तिरूपाच्च चित्सामान्यान्न विशिष्यते । सर्वथा नित्याद्वयरूपत्वं तु प्रमाणविरुद्धस्य वेदितप्रायम् । इत्यलं प्रपंचेन "श्रुतं शब्दानुयोजनादेव" इत्यवधारणस्याकलंकाभिप्रेतस्य कदाचिद्विरोधाभावात् तथा संप्रदायस्याविच्छेदाद्युक्त्यनुग्रहाच्च सर्वमतिपूर्वकस्यापि श्रुतस्याक्षरज्ञानत्वव्यवस्थितेः । अत्रोपमानस्यान्तर्भावं विभावयन्नाह ः— कृताभिदेशवाच्याभिः संस्कारस्य क्वचित्पुनः । संवित्प्रसिद्धसाधर्म्यात्तथा वाचकयोजिता ११५ प्रकाशितोपमा कैश्चित्सा श्रुतान्न विभिद्यते । शब्दानुयोजनात्तस्याः प्रसिद्धागम वित्तिवत् ॥ ११६ प्रमाणान्तरतायान्तु प्रमाणनियमः कुतः । संख्या संवेदनादीनां प्रमाणांतरतास्थितौ ॥११७॥ प्रत्यक्षं द्व्यादिविज्ञानमुत्तराधर्यवेदिनं । स्थविष्ठोरुदविष्ठाल्पलघ्वासन्नादिविच्च चेत् ।। ११८ ।। नोपदेशमपेक्षेत जातु रूपादिवित्तिवत् । परोपदेशनिर्मुक्तं प्रत्यक्षं हि सतां मतं ।। ११९ ।। तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरपेक्षते । परोपदेशमध्यक्षं संख्यादिविषयं यदि ।। १२० ।। तत्रोपमानतः सैतत् प्रमाणान्तरमस्तु वः । नोपमानार्थता तस्यास्तद्वाक्येन विनोद्भवात् १२१ आगमत्वं पुनः सिद्धमुपमानं श्रुतं यथा । सिंहासने स्थितो राजेत्यादिशब्दोत्थवेदनं ॥ १२२ ॥ प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानं, गौरिव गवय इति ज्ञानं । तथा वैधर्म्याद् योऽगवयो महिषादिः स न गौरिवेति ज्ञानं । साधर्म्यवैधर्म्याभ्यां संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुपमानार्थः । अयं स गवयशब्दवाच्यः पिंड, इति सोऽयं महिषादिरगवयशब्दवाच्य इति वा । साधर्म्यवैधम्र्योपमानवाक्यादिसंस्कारस्य प्रतिपाद्यस्योपजायते । इति द्वेधोपमानं शब्दात्प्रमाणान्तरं ये समाचक्षते तेषां व्यादिसंख्याज्ञानं प्रमाणान्तरं, गणितज्ञसंख्यावाक्या हितसंस्कारस्य प्रतिपाद्यस्य पुनर्द्यादिषु संख्या विशिष्टद्रव्यदर्शनादेतानि व्यादीनि तानीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर्व्यादिसंख्याज्ञानप्रमाणफलमिति प्रतिपत्तव्यं । तथोत्तराधर्यज्ञानं सोपमानादिषु स्थविष्ठज्ञानं पर्वादिषु महत्वज्ञानं स्ववंशादिषु दविष्ठज्ञानं चन्द्रार्कादिष्वल्पत्वज्ञानं सर्प - पादिषु, लघुत्वज्ञानं तूलादिषु, प्रत्यासन्नज्ञानं खगृहादिषु, संस्थानज्ञानं त्र्यस्यादिषु वक्रर्ध्वादिज्ञानं च क्वचित्प्रमाणांतरमायातं । परोपदिष्टोत्तराधर्यादिवाक्याहित संस्कारस्य विनेयजनस्य पुनरौत्तराधर्यदर्शनादिदं तदौत्तराधर्यादीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तेस्तत्फलस्य भावान्न हि संख्याज्ञानादि प्रत्यक्षमिति युक्तं वक्तुं, परोपदेशापेक्षाविरहप्रसंगात् रूपादिज्ञानवत्, परोपदेशविनिर्मुक्तं प्रत्यक्षमित्यत्र सतां संप्रतिपत्तेः । यदि पुनः संख्यादिविषयज्ञानं प्रत्यक्षमपरोपदेशमेव तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तेरेव परोपदेशापेक्षानुभवादिति मतं तदा सैव संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः प्रमाणान्तरमस्तु, विनोपमानवाक्येन भावादुपमानेऽन्तर्भावितुमशक्यत्वात् । ननु चाप्तोपदेशात्प्रतिपाद्यस्य तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरागमफलमेव ततोऽप्रमाणांतरमिति चेत्तर्ह्राप्तोपदिष्टोपमानवाक्यादपि तत्प्रतिपत्तिरागमज्ञानमेवेति नोपमानं श्रुतात्प्रमाणान्तरं, सिंहासनस्थो राजा मंचके महादेवी सुवर्णपीठे सचिवः एतस्मात्पूर्वत एतस्मादुतरत एतस्माद्दक्षित एतन्नामाणवयं ग्रामवानक (?) मित्यादिवाक्या हितसंस्कारस्य पुनस्तथैव दर्शनात्सो१ मानापमानादिषु इति पाठः सम्यक् । २४२ Page #252 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २४३ ऽयं राजेत्यादिसंज्ञासंज्ञिसंबन्धप्रतिपत्तिः । षडाननो गुहश्चतुर्मुखो ब्रह्मा तुंगनासो भागवतः क्षीराम्भोविवेचनतुण्डो हंसः सप्तच्छद इत्यादिवाक्या हितसंस्कारस्य तथा प्रतिपत्तिर्वा यद्यागमज्ञानं तदा तद्वदेवोपमानमवसेयं विशेषाभावात् । यदि पुनरुपमानोपमेयभावप्रतिपादनपरत्वेन विशिष्टादुपमानवाक्यादुत्पद्यमानं श्रुतात्प्रमाणान्तरमित्यभिनिवेशस्तदा रूप्यरूपकभावादिप्रतिपादनपरत्वेन ततोऽपि विशिष्टाद्रूपकादिवाक्यादुपजायमानं विज्ञानं प्रमाणान्तरमनुमन्यतां, तस्यापि स्वविषय प्रमितौ साधकतमत्वाद्विसंवादकत्वाभावादप्रमाणत्वायोगात् । अथ रूपकाद्यलंकारभाजोऽपि वाक्यविशेषादुपजातमर्थज्ञानं श्रुतमेव प्रवचनमूलत्वाविशेषादिति मतिस्तदोपमानवाक्योपजनितमपि वेदनं श्रुतज्ञानमप्युपगन्तव्यं तत एवेत्यलं प्रपंचेन । प्रतिभा किं प्रमाणमित्याह ; उत्तरप्रतिपत्त्याख्या प्रतिभा च श्रुतं मता । नाभ्यासजा सुसंवित्तिः कूटद्रुमाद्गिोचरा ॥ १२३ उत्तरप्रतिपत्तिः प्रतिभा कैश्चिदुक्ता सा श्रुतमेव, न प्रमाणान्तरं, शब्दयोजनासद्भावात् । अत्यन्ताभ्यासादाशु प्रतिपत्तिरशब्दजा कूटद्रुमादावकृताभ्यासस्याशु प्रवृत्तिः प्रतिभा परैः प्रोक्ता । सा न श्रुतं, सादृश्यप्रत्यभिज्ञानरूपत्वात्तस्यास्तयोः (?) पूर्वोत्तरयोर्हि दृष्टदृश्यमानयोः कूटदुमयोः सादृश्यप्रत्यभिज्ञा झटित्येतां परामृषन्ती तदेवेत्युपजायते । सा च मतिरेव निश्चितेत्याह; - “सोऽयं कूट इति प्राच्यौदीच्यदृष्टेक्षमाणयोः । सादृश्ये प्रत्यभिज्ञेयं मतिरेव हि निश्चिता १२४ शब्दानुयोजनात्वेषा श्रुतमस्त्वक्षवित्तिवत् । संभवाभावसंवित्तिरर्थापत्तिस्तथानुमा ।। १२५ ।। नामासंसृष्टरूपा हि मतिरेषा प्रकीर्तिता । नातः कश्चिद्विरोधोऽस्ति स्याद्वादामृतभोगिनां ।। १२६ नामासंसृष्टरूपा प्रतिभा संभववित्तिरभाववित्तिरर्थापत्तिः स्वार्थानुमा च पूर्वं मतिरित्युक्ता । नामसंसृष्टा तु सम्प्रति श्रुतमित्युच्यमाने पूर्वापरविरोधो न स्याद्वादामृतभाजां सम्भाव्यते, तथैव युक्त्यागमानुरोधात् । तदेवं पूर्वोक्तया मत्या सह श्रुतं परोक्षं प्रमाणं सकलमुनीश्वरविश्रुतमुन्मूलितनिःशेषदुर्मतनिकरमिह तत्वार्थशास्त्रे समुदीरितमिति परीक्षकाश्चेतसि धारयन्तु खप्रज्ञातिशयवशादित्युपसंहरन्नाह । इति श्रुतं सर्वमुनीश विश्रुतं । सहोत्तमत्यात्र परोक्षमीरितं । प्रमाणमुन्मूलित दुर्मतोत्करं । परीक्षकाचेतसि धारयन्तु तम् ।। १२७ ।। इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य तृतीयमाह्निकम् ॥ भवप्रत्ययोsवधिर्देवनारकाणाम् ॥ २१ ॥ किं पुनः कुर्वन्निदमावेदयतीत्याह ; भवप्रत्यय इत्यादिसूत्रमाहावधेर्बहिः । कारणं कथयनेकं स्वामिभेदव्यपेक्षया ॥ १ ॥ देवनारकाणां भवभेदात्कथं भवस्तदवधेरेकं कारणमिति न चोद्यं भवसामान्यस्यैकत्वाविरोधात् । कथं बहिरंगकारणं भवस्तस्यात्मपर्यायत्वादिति चेत् । नामायुरुदयापेक्षो नुः पर्यायो भवः स्मृतः । स बहिः प्रत्ययो यस्य स भवप्रत्ययोऽवधिः ॥२॥ बहिरंगस्य देवगतिनामकर्मणो देवायुषश्चोदयाद्देवभवः । तथा नरकगतिनामकर्मणो नारकायुषश्चोदयान्नरकभव इति । तस्य बहिरंगतात्मपर्यायत्वेऽपि न विरुद्धा । कथमत्रावधारणं, देवनारकाणामेव भबप्रत्ययोऽवधिरिति वा भवप्रत्यय एव देवनारकाणामिति : उभयथाप्यदोष इत्याह ; - Page #253 -------------------------------------------------------------------------- ________________ २४४ तत्त्वार्थश्लोकवार्तिके [सू० २२ येऽग्रतोत्र प्रवक्ष्यन्ते प्राणिनो देवनारकाः । तेषामेवायमित्यर्थान्नान्येषां भवकारणः ॥३॥ भवप्रत्यय एवेति नियमान गुणोद्भवः । संयमादिगुणाभावाद्देवनारकदेहिनाम् ॥ ४ ॥ नन्वेवमवधारणेऽवधौ ज्ञानावरणक्षयोपशमहेतुरपि न भवेदित्याशंकामपनुदति;-- नावधिज्ञानवृत्कर्मक्षयोपशमहेतुता । व्यवच्छेद्या प्रसज्येताप्रतियोगित्वनिर्णयात् ॥५॥ बाह्यौ हि प्रत्ययावत्राख्यातौ भवगुणौ तयोः । प्रतियोगित्वमित्येकनियमादन्यविच्छिदे ॥६॥ यथैव हि चैत्रो धनुर्द्धर एवेत्यत्रायोगव्यवच्छेदेऽप्यधानुर्द्धर्यस्य व्यवच्छेदो नापाण्डित्यादेस्तस्य तदप्रतियोगित्वात् । किं चैत्रो धनुर्द्धरः किं वायमधनुर्द्धर इति आशंकायां धानुद्धर्येतरयोरेव प्रतियोगित्वाद्धानुर्द्धर्यनियतेनाधानुर्द्धर्य व्यवच्छिद्यते । तथा किमवधिर्भवप्रत्यय इति बहिरंगकारणयोर्भवगुणयोः परस्परं प्रतियोगिनोः शंकायामेकतरस्य भवस्य कारणत्वेन नियमे गुणकारणत्वं व्यवच्छिद्यते । न पुनरवधिज्ञानावरणक्षयोपशमविशेषः क्षेत्रकालादिवत्तस्य तदप्रतियोगित्वात् । तद्व्यवच्छेदे भवस्य साधारणत्वात्सर्वेषां साधारणोऽवधिः प्रसज्येत । तच्चानिष्टमेव । परिहृतं च भवतीत्याह; प्रत्ययस्यान्तरस्यातस्तत्क्षयोपशमात्मनः । प्रत्यग्भेदोऽवधेर्युक्तो भवाभेदेऽपि चाङ्गिनाम् ॥७॥ कुतः पुनर्भवाभेदेऽपि देवनारकाणामवधिज्ञानावरणक्षयोपशमभेदः सिद्ध्येत् इति चेत्, स्वशुद्धिभेदात् । सोऽपि जन्मान्तरोपपत्तिविशुद्धिभावात् , नाभेदात् । सोऽपि स्वकारणभेदात् । इति न पर्यनु. योगो विधेयः कारणविशेषपरम्परायाः सर्वत्रापर्यनुयोगार्हत्वात् । . क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ किमर्थमिदमित्याह;गुणहेतुः स केषां स्यात् कियझेद इतीरितुम् । प्राह सूत्रं क्षयेत्यादि संक्षेपादिष्टसंविदे ॥१॥ कः पुनरत्र क्षयः कश्योपशमः कश्च क्षयोपशम इत्याह;क्षयहेतुरित्याख्यातः क्षयः क्षायिकसंयमः । संयतस्य गुणः पूर्व समभ्यर्हितविग्रहः ॥२॥ तथा चारित्रमोहस्योपशमादुद्भवन्नयम् । कथ्येतोपशमो हेतोरुपचारस्त्वयं फले ॥३॥ क्षयोपशमतो जातः क्षयोपशम उच्यते । संयमासंयमोऽपीति वाक्यभेदाद्विविच्यते ॥ ४॥ क्षयनिमित्तोऽवधिः शेषाणामुपशमनिमित्तः क्षयोपशमनिमित्त इति वाक्यभेदात्क्षायिकौपशमिकक्षायोपशमिकसंयमगुणनिमित्तस्यावधिरवगम्यते । कार्ये कारणोपचारात् क्षयादीनां क्षायिकसंयमादिषूपचारः तथाभिधानोपपत्तेः ॥ किमर्थं मुख्यशब्दानभिधानमित्याह; क्षायोपशम इत्यन्तरंगो हेतुर्निगद्यते । यदि वेति प्रतीत्यर्थं मुख्यशब्दाप्रकीर्तनम् ॥५॥ तेनेह प्राच्यविज्ञाने वक्ष्यमाणे च भेदिनि । क्षयोपशमहेतुत्वात्सूत्रितं संप्रतीयते ॥६॥ क्षयोपशम इत्यन्तरंगो हेतुः सामान्येनाभिधीयमानस्तदावरणापेक्षया व्यवतिष्ठते स च सकलक्षायोपशमिकज्ञानभेदानां साधारण इति । यथेह पड्डिधस्यावधेनिमित्तं तथा पूर्वत्र भवप्रत्ययेऽवधौ श्रुते मतौ चावसीयते । वक्ष्यमाणे च मनःपर्यये स एव तदावरणापेक्षयेति सूत्रितं भवति । मुख्यस्य शब्दस्याश्रयणात्सर्वत्र बहिरंगकारणप्रतिपादनाच्च मुख्यशब्दप्रयोगो युक्तोऽन्यथा गुणप्रत्ययस्यावधेरप्रतिपत्तेः । के पुनः शेषा इत्याह;शेषा मनुष्यतियञ्चो वक्ष्यमाणाः प्रपंचतः । ते यतः प्रतिपत्तव्या गतिनामाभिधाश्रयाः ॥७॥ Page #254 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २४५ स्यात्तेषामवधिर्बाह्यगुण हेतुरितीरणात् । भवहेतुर्न मेऽस्तीति सामर्थ्यादवधार्यते ॥ ८ ॥ तेषामेवेति निर्णीतेर्देवनारकविच्छिदा । क्षयोपशमहेतुः सन्नित्युक्ते नाविशेषतः ॥ ९ ॥ क्षयोपशमनिमित्त एव शेषाणामित्यवधारणाद्भवप्रत्ययत्वव्युदासः शेषाणामेव क्षयोपशमनिमित्त इति देवनारकाणां नियमात्ततो नोभयथाप्यवधारणे दोषोऽस्ति । क्षयोपशमनिमित्तोऽवधिः शेषाणामित्युभय• त्रानवधारणाच्च नाविशेषतोऽवधि स्तिर्यङ्मनुष्याणामन्तरङ्गस्य तस्य कारणस्य विशेषात् । तथा पूर्वत्रानवधारणाद्वहिरंगकारणाव्यवच्छेदः । परत्रानवधारणाद्देवनार काव्यवच्छेदः प्रसिद्धो भवति ॥ षड्विकल्पः समस्तानां भेदानामुपसंग्रहात् । परमागमसिद्धानां युक्त्या सम्भावितात्मनाम् ॥१०॥ अनुगाम्यननुगामी वर्द्धमानो हीयमानोऽवस्थितोऽनवस्थित इति षड्डिकल्पोऽवधिः संप्रतिपाताप्रतिपातयोरत्रैवान्तर्भावात् । देशावधिः परमावधिः सर्वावधिरिति च परमागमप्रसिद्धानां पूर्वोक्तयुक्त्या सम्भावितानामत्रोपसंग्रहात् कुतः पुनरवधिः कश्चिदनुगामी कश्चिदन्यथा सम्भवतीत्याह ; - विशुद्धयनुगमात्पुंसोऽनुगामी देशतोऽवधिः । परमावधिरप्युक्तः सर्वावधिरपीदृशः ॥ ११ ॥ विशुद्ध्यनन्वयादेशो ऽननुगामी च कस्यचित् । तद्भवापेक्षया प्राच्यः शेषोऽन्यभववीक्षया १२ वर्द्धमानोऽवधिः कश्चिद्विशुद्धे वृद्धितः स तु । देशावधिरिहानातः परमावधिरेव च ।। १३ ।। atrarasarः शुद्धे हीयमानत्वतो मतः । सदेशावधिरेवात्र हाने सद्भावसिद्धितः ॥ १४ ॥ अवस्थितोsarः शुद्धेरवस्थानान्नियम्यते । सर्वोङ्गिनां विरोधस्याथभावान्नानवस्थितेः ।। १५ ।। विशुद्धेरनवस्थानात्सम्भवेदनवस्थितः । स देशावधिरेवैकोऽन्यत्र तत् प्रतिघाततः ।। १६ ।। प्रोक्तः सप्रतिपातो वाऽप्रतिपातस्तथाऽवधेः । सोऽन्तर्भावममीष्वेव प्रयातीति न सूत्रितः १७ विशुद्धेः प्रतिपाताप्रतिपाताभ्यां सप्रतिपाताप्रतिपातौ ह्यवधी षट्स्वेवान्तर्भवतः । अनगाम्यादयो हि केचित् प्रतिपाताः केचिदप्रतिपाता इति । ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ नन्विह बहिरंगकारणस्य भेदस्य च ज्ञानानां प्रस्तुतत्वान्नेदं वक्तव्यं ज्ञानभेदकारणाप्रतिपादकत्वादित्यारेकायामाह; मनः नः पर्ययविज्ञानभेदकारण सिद्धये । प्राहज्वित्यादिकं सूत्रं स्वरूपस्य विनिश्वयात् ॥ १ ॥ न हि मनःपर्ययज्ञानरूपस्य निश्चयार्थमिदं सूत्रमुच्यते यतोऽप्रस्तुतार्थं स्यात् । तस्य मत्यादिसूत्रे निरुक्त्यैव निश्चयात् । किं तर्हि । प्रकृतस्य बहिरंगकारणस्य भेदस्य प्रसिद्धये समारभते । ऋज्वी मतिर्यस्य स ऋजुमतिः । विपुला मतिर्यस्य स विपुलमतिः । ऋजुमतिश्च विपुलमतिश्च ऋजुविपुलमती । एकस्य मतिशब्दस्य गम्यमानत्वाल्लोप इति व्याख्याने का सा ऋज्वी विपुला च मतिः किंप्रकारा च मतिशब्देन चान्यपदार्थानां वृत्तौ कोऽन्यपदार्थ इत्याह; - निर्वर्तितशरीरादिकृतस्यार्थस्य वेदनात् । ऋज्वी निर्वर्तिता त्रेधा प्रगुणा च प्रकीर्तिता ॥ २ ॥ अनिर्वर्तितकायादिकृतार्थस्य च वेदिका । विपुला कुटिला षोढा चक्रर्जुत्रयगोचरा ॥ ३ ॥ एतयोर्मतिशब्देन वृत्तिरन्यपदार्थका । कैश्चिदुक्ता स चान्योऽर्थो मनःपर्यय इत्यन् ॥ ४ ॥ द्वित्रप्रसंगतस्तत्र प्रवक्तुं धीधनो जनः । न मनः पर्ययो युक्तो मनःपर्यय इत्यलम् ॥ ५ ॥ यदात्वन्यौ पदार्थौ स्तस्तद्विशेषौ बलागतौ । सामान्यतस्तदेकोऽयमिति युक्तं तथा वचः ॥ ६ ॥ सामानाधिकरण्यं च न सामान्यविशेषयोः । प्रबाध्यते तदात्मत्वात्कथंचित्संप्रतीतितः ॥|७|| Page #255 -------------------------------------------------------------------------- ________________ २४६ तत्त्वार्थश्लोकवार्तिके [सू० २४ येऽप्याहुः । ऋजुश्च विपुला च ऋजुविपुले ते च ते मतीति च स्वपदार्थवृत्तिस्तेन ऋजुविपुल. मती विशिष्ट परिच्छिन्नं मनःपर्यय उक्तो भवतीति तद्भेदकथनं प्रतीयत इति तेषामप्यविरोधमुपदर्शयति ॥ स्वपदार्था च वृत्तिः स्यादविरुद्धा तथा सति । विशिष्टे हि मतिज्ञाने मनःपर्यय इष्यते ॥८॥ यथ विपुलमती मनःपर्ययविशेषौ मनःपर्ययसामान्येनेति सामानाधिकरण्यमविरुद्धं सामान्यविशेषयोः । कथंचित्तादात्म्यात्तथा संप्रतीतेश्च तद्वदृजुविपुलमती ज्ञानविशेषौ मनःपर्यययोर्ज्ञानमित्यपि न विरुध्यते मनःपर्ययज्ञानभेदाप्रतिपत्तेः प्रकृतयोः सद्भावात् विशेषात् । कथं बाह्यकारणप्रतिपत्तिरत्रेत्याह; परतोऽयमपेक्षस्यात्मनः स्वस्य परस्य वा । मनःपर्यय इत्यस्मिन्पक्षे बाह्यनिमित्तवत् ॥ ९॥ मनःपरीत्यानुसंधाय वायनं मनःपर्यय इति व्युत्पत्तौ बहिरंगनिमित्तकोऽयं मनःपर्यय इति बाह्यनिमित्तप्रतिपत्तिरस्य कृता भवति । न मतिज्ञानतापत्तिस्तस्यैवं मनसः स्वयं । निर्वर्तकत्ववैधुर्यादपेक्षामात्रतास्थितेः ॥१०॥ क्षयोपशममाबिभ्रदात्मा मुख्यं हि कारणं । तत्प्रत्यक्षस्य निवृत्तौ परहेतुपराङ्मुखः ॥ ११ ॥ मनोलिङ्गजतापत्तेन च तस्यानुमानतः । प्रत्यक्षलक्षणस्यैव निर्वाधस्य व्यवस्थितेः ॥ १२ ॥ नन्वेवं मनःपर्ययशब्दनिर्वचनसामर्थ्यात्तद्बाह्यप्रतिपत्तिः कथमतः स्यादित्याह;यदा परमनःप्राप्तः पदार्थो मन उच्यते । तात्स्थ्यात्ताच्छब्द्यसंसिद्धर्मचक्रोशनवत्तदा ॥१३॥ तस्य पर्ययणं यस्मात्तद्वा येन परीयते । स मनःपर्ययो ज्ञेय इत्युक्तेस्तत्स्वरूपवित् ॥ १४ ॥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ ननु ऋजुविपुलमत्योः खवचनसामर्थ्यादेव विशेषप्रतिपत्तेस्तदर्थमिदं किमारभ्यत इत्याशंकायामाह;मनःपर्यययोरुक्तभेदयोः स्ववचोबलात् । विशेषहेतुसंवित्तौ विशुद्धीत्यादिसूत्रितम् ॥ १॥ नर्जुमतित्वविपुलमतित्वाभ्यामेवर्जुविपुलमत्योर्विशेषोऽत्र प्रतिपाद्यते । यतो नानर्थकमिदं स्यात् । किं तर्हि विशुद्ध्यप्रतिपाताभ्यां तयोः परस्परं विशेषान्तरमिहोच्यते ततोऽस्य साफल्यमेव । का पुनर्विशुद्धिः कश्चाप्रतिपातः को वानयोर्विशेष इत्याह;आत्मप्रसत्तिरत्रोक्ता विशुद्धिर्निजरूपतः । प्रच्युत्य संभवश्चास्याप्रतिपातः प्रतीयते ॥२॥ ताभ्यां विशेषमाणत्वं विशेषः कर्मसाधनः । तच्छब्देन परामर्शो मनःपर्ययभेदयोः॥३॥ तयोरेव विपुलमत्योर्विशुद्ध्यप्रतिपाताभ्यां विशेषोऽवसेय इत्यर्थः ।। ननूत्तरत्र तद्भेदस्थिताभ्यां स विशिष्यते । विशुद्ध्यप्रतिपाताभ्यां पूर्वस्तु न कथंचन ॥ ४ ॥ इत्ययुक्तं विशेषस्य द्विष्ठत्वेन प्रसिद्धितः । विशिष्यते यतो यस्य विशेषः सोऽत्र हीक्षते ॥५॥ पाठापेक्षयोत्तरो मनःपर्ययस्य भेदो विपुलमतिस्तद्गताभ्यां विशुद्ध्यप्रतिपाताभ्यां स एव पूर्वस्मात्तद्वेदाजुमतेविशिष्यते न पुनः पूर्व उत्तरस्मात्कथमपीत्ययुक्तं विशेष्यस्योभयत्वेन प्रसिद्धेः । यतो विशिप्यते स विशेषो यश्च विशिष्यते स विशेष्य इति व्युत्पत्तेः । विशुद्ध्यप्रतिपाताभ्यां चोत्तरतद्भेदगताभ्यां पूर्वो यथोत्तरस्माद्विशिष्यते तथा पूर्ववतेंदगाभ्यामुत्तर इति सर्व निरवद्यं । ननु चर्जुमतेर्विपुलमतिर्विशुद्ध्या विशिष्यते तस्य ततो विशुद्धतरत्वान्मनःपर्ययज्ञानावरणक्षयोपशमप्रकर्षादुत्पन्नत्वात् । अप्रतिपातेन च तत्खामिनामप्रतिपतितसंयमत्वेन तत्संयमगुणैकार्थसमवायित्वेन विपुलमतेरप्रतिपाताद्वि Page #256 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २४७ पुलमतेस्तु कथमृजुमतिर्विशिष्यते ? ताभ्यामिति चेत्स्वविशुद्ध्याल्पया प्रतिपातेन चेति गम्यताम् । विपुलमत्यपेक्षयर्जुमतेरल्पविशुद्धित्वात्तत्वामिनामुपशान्तकषायाणामपि सम्भवत्प्रतिपतत्संयमगुणैकार्थसमवायिनः प्रतिपातसम्भवादिति प्रपंचितमस्माभिरन्यत्र ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥ २५ ॥ विशेष इत्यनुवर्तते । किमर्थमिदमुच्यते इत्याह;कुतोऽवधेर्विशेषः स्यान्मनःपर्ययसंविदः । इत्याख्यातुं विशुद्ध्यादिसूत्रमाह यथागमं ॥१॥ विशुद्धिरुक्ता क्षेत्रं परिच्छेद्याद्यधिकरणं स्वामीश्वरं विषयः परिच्छेद्यस्तैर्विशेषोऽवधिमनःपर्यययोर्विशेषः । कथमित्याह;भूयः सूक्ष्मार्थपर्यायविन्मनःपर्ययोऽवधेः । प्रभूतद्रव्य विषयादपि शुद्ध्या विशेष्यते ॥२॥ क्षेत्रतोऽवधिरेवातः परमक्षेत्रतामितः । स्वामिना त्ववधेः सः स्याद्विशिष्टः संयतप्रभुः ॥३॥ विषयेण च निःशेपरूपरूप्यर्थगोचरः । रूप्यर्थगोचरादेव तस्मादेतच वक्ष्यते ॥ ४ ॥ एवं मत्यादिबोधानां सभेदानां निरूपणम् । कृतं न केवलस्यात्र भेदस्याप्रस्तुतत्वतः ॥५॥ वक्ष्यमाणत्वतश्चास्य घातिक्षयजमात्मनः । स्वरूपस्य निरुक्त्यैव ज्ञानं सूत्रे प्ररूपणात् ॥ ६ ॥ ___मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥ मत्यादिज्ञानेषु सभेदानि चत्वारि ज्ञानानि भेदतो व्याख्याय बहिरंगकारणतश्च केवलमभेदं वक्ष्यमाणकारणस्वरूपमिहाप्रस्तुतत्वात् तथानुक्त्वा किमर्थमिदमुच्यत इत्याह; अथाद्यज्ञानयोरर्थविवादविनिवृत्तये । मतीत्यादि वचः सम्यक् सूत्रयन्सूत्रमाह सः॥१॥ संप्रति के मतिश्रुते कश्च निबन्धः कानि द्रव्याणि के वा पर्याया इत्याह;मतिश्रुते समाख्याते निवन्धो नियमः स्थितः। द्रव्याणि वक्ष्यमाणानि पर्यायाश्च प्रपंचतः॥२॥ ततो मतिश्रुतयोः प्रपंचेन व्याख्यातयोर्वक्ष्यमाणेषु द्रव्येष्वसर्वपर्यायेषु निबन्धो नियमो प्रत्येतव्य इति सूत्रार्थो व्यवतिष्ठते । विषयेष्वित्यनुक्तं कथमत्रागम्यत इत्याह; पूर्वसूत्रोदितथात्र वर्तते विषयध्वनिः । केवलोऽर्थाद्विशुद्ध्यादिसहयोगं श्रयन्नपि ॥३॥ विशुद्धिक्षेत्रस्वामिविषयोभ्योऽवधिमनःपर्ययथोरित्यस्मात्सूत्रात्तद्विषयशब्दोऽत्रानुवर्तते । कथं स विशुद्ध्यादिभिः सह योगमाश्रयन्नपि केवलः शक्योऽनुवर्तयितुं ? सामर्थ्यात् । तथाहि-न तावद्विशुद्धेरनुवर्तनसामर्थ्य प्रयोजनाभावात् , तत एव न क्षेत्रस्य खामिनो वा सूत्रसामर्थ्याभावात् । नन्वेवं द्रव्येष्वसर्वपर्यायेषु निबन्धन इति वचनसामर्थ्याद्विषयशब्दस्यानुवर्त्तनेष्विति कथं विषयेभ्य इति पूर्व निर्देशात्तथैवानुवृत्तिप्रसंगादित्याशंकायामाह; द्रव्येष्विति पदेनास्य सामानाधिकरण्यतः । तद्विभक्त्यन्ततापत्तेर्विषयेष्विति बुध्यते ॥ ४ ॥ किं पुनः फलं विषयेष्विति सम्बन्धस्येत्याह;विषयेषु निबन्धोऽस्तीत्युक्ते निर्विषयेन ते । मतिश्रुते इति ज्ञेयं न वा नियतगोचरे ॥५॥ तर्हि द्रव्येप्वसर्वपर्यायेष्विति विशेषणफलं किमित्याह;पर्यायमात्रगे नैते द्रव्येष्विति विशेषणात् । द्रव्यगे एव तेऽसर्वपर्याये द्रव्यगोचरे ॥६॥ Page #257 -------------------------------------------------------------------------- ________________ २४८ तत्त्वार्थश्लोकवार्तिके [सू० २६ . एतेष्वसर्वपर्यायेष्वित्युक्तेरिष्टनिर्णयात् । तथानिष्टौ तु सर्वस्य प्रतीतिव्याहतीरणात् ॥ ७ ॥ मतिश्रुतयोर्ये तावद्वाह्यार्थानालम्बनत्वमिच्छन्ति तेषां प्रतीतिव्याहतिं दर्शयन्नाह;मत्यादिप्रत्ययो नैव बाह्यार्थालम्बनं सदा । प्रत्ययत्वाद्यथा स्वप्नज्ञानमित्यपरे विदुः ॥८॥ तदसत्सर्वशून्यत्वापत्तेर्बाह्यार्थवित्तिवत् । स्वान्यसंतानसंवित्तेरभावात्तदभेदतः ॥९॥ मतिश्रुतप्रत्ययाः न बाह्याथालंबनाः सर्वदा प्रत्ययत्वात्स्वप्नप्रत्ययवदिति योगाचारस्तदयुक्तं, सर्वशून्य." त्वानुषंगात् । बाह्यार्थसंवेदनवत्खपरसंतानसंवेदनासम्भवाद्राहकज्ञानापेक्षया खसन्तानस्य परसन्तानस्य च बाह्यत्वाविशेषात् । संवेदनं हि यदि किंचित् खस्मादर्थान्तरं परसन्तानं खसन्तानं वा पूर्वापरक्षणप्रवाहरूपमालम्बते । तदा घटाद्यर्थेन तस्य कोऽपराधः कृतः यतस्तमपि नालम्बते । अथ घटादिवत्खपरसन्तानमपि नालम्बत एव तस्य खसमानसमयस्य भिन्नसमयस्य वालंबनासम्भवात् । न चैवं खरूपसन्तानाभावः खरूपस्य खतो गतेः । नीलादेस्तु यदि खतो गतिस्तदा संवेदनत्वमेवेति स्वरूपमात्रपर्यवसिताः सर्वे प्रत्यया निरालम्बनाः सिद्धास्तत्कुतः सर्वशून्यत्वापत्तिरिति मतं तदसत् , वर्तमानसंवेदनात्स्वमनुभूयमानादन्यानि वपरसन्तानसंवेदनानि खरूपमात्रे पर्यवसितानीति निश्चेतुमशक्यत्वाद् विवादाध्यासितानि खरूपसन्तानज्ञानानि खरूपमात्रपर्यवसितानि ज्ञानत्वात्स्वसंवेदनवदित्यनुमानात्तथा निश्चय इति चेत् , तस्यानुमानज्ञानस्य प्रकृतसालम्बनत्वेऽनेनैव हेतोर्व्यभिचारात्खरूपमात्रपर्यवसितत्वे प्रकृतसाध्यस्यास्मादसिद्धेः । संवेदनाद्वैतस्यैवं प्रसिद्धेस्तथापि न सर्वशून्यत्वापत्तिरिति मन्यमानं प्रत्याह; न चैवं सम्भवेदिष्टमद्वयं ज्ञानमुत्तमम् । ततोऽन्यस्य निराकर्तुमशक्तस्तेन सर्वथा ॥ १० ॥ यथैव हि सन्तानान्तराणि वसन्तानवेदनानि चानुभूयमानेन संवेदनेन सर्वथा विधातुं न शक्यन्ते । तथा प्रतिषिद्धमपि तद्धि तानि निराकुर्वदात्ममात्रविधानमुखेन वा तत्प्रतिषेधमुखेन वा निराकुर्यात् । प्रथमकल्पनायां दूषणमाह; स्वतो न तस्य संवित्तिरस्य न स्यान्निराकृतिः। किमन्यस्य स्वसंवित्तिरन्यस्य स्थानिराकृतिः ११ स्वयं संवेद्यमानस्य कथमन्यैर्निराकृतिः । परैः संवेद्यमानस्य भवतां सा कथं मता ॥ १२ ॥ परैः संवेद्यमानं वेदनमस्तीति ज्ञातुमशक्तेस्तस्य निराकृतिरस्माकं मतेति चेत् , तर्हि तन्नास्तीति ज्ञातुमशक्तेस्तव्यवस्थितिः किन्न मता । ननु तदस्तीति ज्ञातुमशक्यत्वमेव । तन्नास्तीति ज्ञातुं शक्तिरितिचेत् , तन्नास्तीति ज्ञातुमशक्यत्वमेव । तदस्तीतिज्ञातुं शक्तिरस्तु विशेषाभावात् । यदि पुनस्तदस्तिनास्तीति वा ज्ञातुमशक्तेः संदिग्धमिति मतिस्तदापि कथं संवेदनाद्वैते सिद्ध्येदसंशयमिति चिन्त्यतांसंवेदनान्तरं प्रतिषेधमुखेननिराकरोतीति । द्वितीयकल्पनायां पुनरद्वैतवेदनासिद्धिदूरोत्सारितैव तत्प्रति. षेधज्ञानस्य द्वितीयस्याभावात् वयं तत्प्रतिषेधकरणाददोष इति चेत् , तर्हि वरूपविधिप्रतिषेधविषयमेकसंवेदनमित्यायातं । तथा चैकमेव वस्तु साध्यं साधनं वापेक्षातः कार्य कारणं च बाध्यं बाधकं चेत्यादि किन्न सिद्ध्येत् । विरुद्धधर्माध्यासादिति चेत् , तत एव संवेदनमेकं च पररूपविधिप्रतिषेधविषयं माभूत्वापेक्षाविधायकं परापेक्षया प्रतिषेधकमित्य विरोधे खकार्यापेक्षया कारणं खकारणापेक्षया कार्यमित्यविरोधोऽस्तु । अथ स्वतोऽन्यस्य कार्यस्य कारणस्य वा साध्यस्य साधकस्य वा सद्भावासिद्धेः कथं तदपेक्षा यतस्तत्कार्य कारणं बाध्यं बाधकं च साध्यं साधनं च स्यादिति ब्रूते तर्हि परस्य सद्भावासिद्धेः कथं तदपेक्षा यतस्तत्परस्य प्रतिषेधकं सुविधायकं वा स्यादित्युपहासास्पदं तत्त्वं सुगतेन भावितमित्याह; न साध्यसाधनत्वादिर्न च सत्येतरस्थितिः । ते स्वसिद्धिरपीत्येतत्तत्त्वं सुगतभावितम् ॥ १३॥ Page #258 -------------------------------------------------------------------------- ________________ • प्रथमोऽध्यायः । २४९ ततः खरूपसिद्धिमिच्छता सत्येतरस्थितिरङ्गीकर्त्तव्या साध्यसाधनत्वादिरपि स्वीकरणीय इति बाह्यार्थालम्बनाः प्रत्ययाः केचित्सन्त्येव, सर्वथा तेषां निरालम्बनत्वस्य व्यवस्थानायोगात् ॥ अक्षज्ञानं बहिर्वस्तु वेति न स्मरणादिकं । इत्युक्तं तु प्रमाणेन वाह्यार्थस्यास्य साधनात् ||१४|| श्रुतं तु बाह्यार्थालम्बनं । कथमित्युच्यते ; --- श्रुतेनार्थ परिच्छिद्य वर्त्तमानो न बाध्यते । अक्षजेनैव तत्तस्य बाह्यार्थालंबना स्थितिः ||१५|| सामान्यमेव श्रुतं प्रकाशयति विशेषमेव परस्परनिरपेक्षमुभयमेवेति वाशंकामपाकरोतिः - अनेकान्तात्मकं वस्तु संप्रकाशयति श्रुतं । सद्बोधत्वाद्यथाक्षोत्थबोध इत्युपपत्तिमत् ॥ १६ ॥ नयेन व्यभिचारश्चेन्न तस्य गुणभावतः । स्वगोचरार्थधर्माण्यधर्मार्थप्रकाशनात् ॥ १७ ॥ श्रुतस्यावस्तुवेदित्वे परप्रत्यायनं कुतः । संवृतेश्वथैवैषा परमार्थस्य निश्चितेः ।। १८ ॥ ननु स्वत एव परमार्थव्यवस्थितेः कुतश्चिदविद्याप्रक्षयान पुनः श्रुतविकल्पात् तदुक्तशास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । अनागमविकल्पा हि स्वयं विद्योपवर्त्तत इति तदयुक्तं, परेष्टतत्त्वस्याप्रत्यक्षविषयत्वात्तद्विपरीतस्यानेकान्तात्मनो वस्तुनः सर्वदा परस्याप्यवभासनात् । लिङ्गगस्य त्वस्याङ्गीकरणीयस्वात् । न च तत्र लिंगं वास्तवमस्ति तस्य साध्याविनाभावित्वेन प्रत्यक्षत एव प्रतिपत्तुमशक्तेरनुमानान्तर - स्वात् प्रतिपत्तावनवस्थाप्रसंगात्, प्रवचनादपि नेष्टतत्त्वव्यवस्थितिः तस्य तद्विषयत्वायोगादिति कथमपि तद्गतेरभावात् खतस्तत्त्वावभासनासम्भवात् । तथा चोक्तं । " प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गगम्यं न तदर्थलिङ्गं । वाचो न वा तद्विषये न योगः का तद्गतिः कष्टमसृज्यतान्ते ||" इति तत एव वेद्यवेदक - भावः प्रतिपाद्यप्रतिपादकभावो वा न परमार्थतः किन्तु संवृत्यैवेति चेत्, तदिह महाधार्थं येनायं त्रिष्टिकमपि जपेत् । तथोक्तं । “संवृत्या साधयंस्तत्त्वं जये धार्थेन डिंडिकं । मत्या मतविलासिन्या राजविप्रोपदेशिनं ॥” इति । कथं वा संवृत्यसंवृत्योः विभागं बुद्ध्येत् ? संवृत्येति चेत्, सा चानिश्चिता तयैव किञ्चिन्निश्चिनोतीति कथमनुन्मत्तः, सुदूरमपि गत्वा स्वयं किञ्चिनिश्चिन्वन् परं च निश्चाययन्वेद्यवेदकभावं प्रतिपाद्यप्रतिपादकभावं च परमार्थतः स्वीकर्तुमर्हत्येव, अन्यथोपेक्षणीयत्वाप्रसंगात् । तथा च वस्तुविषयमध्यक्षमिव श्रुतं सिद्धं सद्बोधवत्त्वान्यथानुपपत्तेः । तर्हि द्रव्येष्वेव मतिश्रुतयोर्निबंधस्तु तेषामेव वस्तुत्वात् पर्यायाणां परिकल्पितत्वात् पर्यायेष्वेव वा द्रव्यस्यावस्तुत्वादि च मन्यमानं प्रत्याह; - सर्वपर्यायमुक्तानि न स्युर्द्रव्याणि जातुचित् । सद्वियुक्ताश्व पर्यायाः शशशृंगोच्चतादिवत् १९ न सन्ति सर्व पर्यायमुक्तानि द्रव्याणि सर्वपर्यायानिर्मुक्तत्वाच्छशशृङ्गवत् । न सन्त्येकान्तपर्यायाः सर्वथा द्रव्यमुक्तत्वाच्छशशृङ्गोच्चत्वादिवत् । ततो न तद्विषयत्वं मतिश्रुतयोः शङ्कनीयं प्रतीतिविरोधात् ॥ नाशेषपर्ययाक्रान्ततनूनि च चकासति । द्रव्याणि प्रकृतज्ञाने तथा योग्यत्वहानितः ॥ २० ॥ 1 ननु च यदि द्रव्याण्यनंतपर्यायाणि वस्तुत्वं बिभ्रति तदा मतिश्रुताभ्यां तद्विशेषाभ्यां भवितव्यमन्यथा तयोरवस्तुविषयत्वापत्तेरिति न चोद्यं, तथा योग्यतापायात् । न हि वस्तु सत्तामात्रेण ज्ञानविषयत्वमुपयाति । सर्वस्य सर्वदा सर्वपुरुषज्ञानविषयत्वप्रसङ्गात् । किं तर्हि वस्तुनः परिच्छित्तौ कारणमित्याह ; ज्ञानस्यार्थपरिच्छित्तौ कारणं नान्यदीक्ष्यते । योग्यतायास्तदुत्पत्तिः सारूप्यादिषु सत्स्वपि २१ तस्मादुत्पद्यते ज्ञानं येन च सरूपं तस्य ग्राहकमित्ययुक्तं, समानार्थसमनन्तरप्रत्ययस्य समनंतरप्रत्ययस्य तेनाग्रहणात् । तग्रहणयोग्यतापायात्तस्याग्रहणे योग्यतैव विषयग्रहणनिमित्तं वेदनस्येत्यायातम् । योग्यता पुनर्वेदनस्य वावरणविच्छेदविशेष एवेत्युक्तप्रायम् ॥ ३२ Page #259 -------------------------------------------------------------------------- ________________ २५० तत्त्वार्थश्लोकवार्तिके रूपिष्ववधेः ॥ २७ ॥ किमर्थमिदं सूत्रमित्याह ; प्रत्यक्षस्यावधेः केषु विषयेषु निबन्धनम् । इति निर्णीतये प्राह रूपिष्वित्यादिकं वचः ॥ १ ॥ रूपं पुद्गलसामान्यगुणस्तेनोपलक्ष्यते । स्पर्शादिरिति तद्योगात् रूपिणीति विनिश्चयः ॥ २ ॥ तेष्वेव नियमो ऽसर्व पर्यायेष्ववधेः स्फुटम् । द्रव्येषु विषयेष्वेवमनुवृत्तिर्विधीयते ॥ ३ ॥ रूपं मूर्तिरित्येके, तेषामसर्वगतद्रव्यपरिमाणं मूर्तिः स्पर्शादिर्वा मूर्तिरिति मतं स्यात् । प्रथमपक्षे जीवखरूपत्वप्रसक्तिरसर्वगतद्रव्यपरिमाणलक्षणाया मूर्तेस्तत्र भावात् । सर्वगतत्वादात्मनस्तद्भाव इति चेन्न शरीरपरिमाणानुविधायिनस्तस्य प्रसाधनात् । स्पर्शादिमूर्तिरित्यस्मिंस्तु पक्षे रूपं पुद्गलसामान्यगुणस्तेन स्पर्शादिरूपं लक्ष्यते इति तद्योगाद्द्रव्याणि रूपीणि मूर्तिमन्ति कथितानि भवन्त्येव तथेह द्रव्येष्वसर्व पर्यायेषु इति निबन्ध इति चानुवर्त्तते । तेनेदमुक्तं भवति मूर्तिमत्सु द्रव्येष्वसर्वपर्यायेषु विषयेषु अवधेर्निबन्ध इति । कुत एवं नान्यथेत्याह ; +-- [सू० २८ स्वशक्तिवशतोऽसर्वपर्यायेष्वेव वर्त्तनम् । तस्य नानागतातीतानन्तपर्याययोगिषु ॥ ४ ॥ पुलेषु तथाकाशादिष्वमूर्तेषु जातुचित् । इति युक्तं सुनिर्णीतासम्भवद्भाधकत्वतः ॥ ५ ॥ अत्रासर्वपर्यायरूपद्रव्यज्ञानावरणक्षयोपशम विशेषावधेः स्वशक्तिस्तद्वशात्तस्यासर्व पर्यायेष्वेव पुद्गलेषु वृत्तिर्नातीताद्यनन्तपर्यायेषु नाप्यमूर्तेष्वाकाशादिषु इति युक्तमुत्पश्यामः । सुनिर्णीतासम्भवद्बाधकत्वान्मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेष्वित्यादिवत् ॥ तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ किमर्थमिदमित्याह;—– क मनःपर्ययस्यार्थे निबन्ध इति दर्शयत् । तदित्याद्याह सत्सूत्रमिष्टसंग्रह सिद्धये ॥ १ ॥ कस्य पुनस्तच्छब्देन परामर्शो यदनन्तभागेऽसर्व पर्यायेषु निबंधो मनःपर्ययस्येत्याह;परमावधिनिर्णीते विषयेऽनन्तभागताम् । नीते सर्वावधेज्ञेयो भागः सूक्ष्मोऽपि सर्वतः ॥ ५ ॥ एतस्यानन्तभागे स्याद्विषये सर्वपर्यये । व्यवस्थर्जुमतेरन्यमनःस्थे प्रगुणे ध्रुवम् ॥ ३ ॥ अमुष्यानन्तभागेषु परमं सौक्ष्म्यमागते । स्यान्मनः पर्ययस्यैवं निबन्धो विषयेखिले ॥ ४ ॥ तच्छब्दोऽत्रावधिविषयं परामृशति न पुनरवधिं विषयप्रकरणात् । स च मुख्यस्य परामर्श्यते गौणस्य परामर्शे प्रयोजनाभावात् । मुख्यस्य परमावधिविषयस्य सर्वतो देशावधिविषयात्सूक्ष्मस्यानंतभागी - कृतस्यानन्तो भागः सर्वावधिविषयस्तस्य सम्पूर्णेन मुख्येन सर्वावधिपरिच्छेद्यत्वात् । तत्रर्जुमतेर्निबन्धो बोद्धव्यस्तस्य मनःपर्ययप्रथमव्यक्तित्वात्सामर्थ्यादृजुमतिविषयस्यानन्तभागे विषये विपुलमतेर्निबन्धोऽवसीयते तस्य परमनः पर्ययत्वादसर्व पर्यायग्रहणानुवृत्तेर्नास्तीति नानाद्यनन्तपर्यायाक्रान्ते द्रव्ये मनःपर्ययस्य प्रवृत्तिस्तद्ज्ञानावरणक्षयोपशमासम्भवात् । अतीतानागतवर्त्तमानानन्तपर्यायात्मकवस्तुनः सकलज्ञानावरणक्षयविजृंभितकेवलज्ञानपरिच्छेद्यत्वात् । कथं पुनस्तदेवंविधविषयं मन:पर्ययज्ञानं परीक्ष्यते इत्याह ; क्षायोपशमिकं ज्ञानं प्रकर्षं परमं व्रजेत् । सूक्ष्मे प्रकर्षमाणत्वादर्थे तदिदमीरितम् ॥ ५ ॥ न हि क्षायोपशमिकस्य ज्ञानस्य सूक्ष्मेऽर्थे प्रकृष्यमाणत्वमसिद्धं तज्ज्ञानावरणहानेः प्रकृष्यमाणत्व Page #260 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २५१ सिद्धेः । प्रकृष्यमाणात्तज्ज्ञानावरणहानित्वान्माणिक्याद्यावरणहानिवत् । कथमावरणहानेः प्रकृष्यमाणत्वे सिद्धेऽपि क्वचिद्विज्ञानस्य प्रकृष्यमाणत्वं सिद्ध्यतीति चेत् प्रकाशात्मकत्वात् । यद्धि प्रकाशात्मकं तत्खावरणहानिप्रकर्षे प्रकृष्यमाणं दृष्टं यथा चक्षुः । प्रकाशात्मकं च विवादाध्यासितं ज्ञानमिति खविषये प्रकृष्यमाणं सिद्ध्यत् , तस्य परमप्रकर्षगमनं साधयति । यत्तत्परमप्रकर्षप्राप्तं क्षायोपशमिक ज्ञानं स्पष्टं तन्मनःपर्यय इत्युक्तं । यथा चापि मतिश्रुतानि परमप्रकर्षभाञ्जि क्षायोपशमिकानीति दर्शयन्नाह; क्षेत्रद्रव्येषु भूयेषु यथा च विविधस्थितिः । स्पष्टा या परमा तद्वदस्य स्वार्थे यथोदिते ॥६॥ यथा चेन्द्रियजज्ञानं विषयेष्वतिशायनात् । स्वेषु प्रकर्षमापन्नं तद्विद्भिर्विनिवेदितम् ॥ ७॥ मतिपूर्व श्रुतं यद्वदस्पष्टं सर्ववस्तुषु । स्थितं प्रकृष्यमाणत्वात्पर्यंत प्राप्य तत्त्वतः ॥ ८॥ मनःपर्ययविज्ञान तथा प्रस्पष्टभासनं । विकलाध्यक्षपर्यन्तं तथा सम्यक्परीक्षितं ॥९॥ प्रकृष्यमाणता त्वक्षज्ञानादेः संप्रतीयते । इति नासिद्धता हेतोने चास्य व्यभिचारिता ॥१०॥ साध्ये सत्येव सद्भावादन्यथानुपपत्तितः । स्वेष्टहेतुवदित्यस्तु ततः साध्यविनिश्चयः ॥ ११ ॥ दृष्टेष्टबाधनं तस्यापह्नवे सर्ववादिनां । सर्वथैकान्तवादेषु तद्वादेऽपीति निर्णयः ॥ १२ ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ ननु असिद्धत्वात्केवलस्य विषयनिबन्धकथनं न युक्तमित्याशंकायामिदमाह;केवलं सकलज्ञेयव्यापि स्पष्टं प्रसाधितम् । प्रत्यक्षमक्रमं तस्य निबन्धो विषयेष्विह ॥ १॥ बोध्यो द्रव्येषु सर्वेषु पयोयेषु च तत्त्वतः । प्रक्षीणावरणस्यैव तदाविभोवनिश्चयात् ॥२॥ आत्मद्रव्यं ज्ञ एवेष्टः सर्वज्ञः परमः पुमान् । कैश्चित्तद्यतिरिक्तार्थाभावादित्यपसारितं ॥३॥ द्रव्येष्विति बहुत्वस्य निर्देशात्तत्प्रसिद्धितः । वर्तमानेऽस्तु पर्याये ज्ञानी सर्वज्ञ इत्यपि ॥४॥ पर्यायेष्विति निर्देशादवयवस्य प्रतीतितः । सर्वथाभेदतत्त्वस्य यथेति प्रतिपादनात् ॥ ५॥ तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यतां । कीटसंज्ञापरिज्ञानं तस्य नात्रोपयुज्यते ॥६॥ इत्येतच्च व्यवच्छिन्नं सर्वशब्दप्रयोगतः । तदेकस्याप्यविज्ञाने कार्णां शिष्यसाधनं ॥ ७॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकं । सर्वज्ञतामितं निष्टं तज्ज्ञानं सर्वगोचरम् ॥ ८॥ उपेक्षणीयतत्त्वस्य हेयादिभिरसंग्रहात् । न ज्ञानं न पुनस्तेषां न ज्ञानेऽपीति केचन ॥ ९॥ तदसद्वीतरागाणामुपेक्षत्वेन निश्चयात् । सर्वार्थानां कृतार्थत्वात्तेषां कचिदवृत्तितः ॥१०॥ विनेयापेक्षया हेयमुपादेयं च किंचन । सोपायं यदि तेऽप्याहुस्तदोपेक्ष्यं न विद्यते ॥ ११ ॥ निःशेष संपरं तावदुपेयं सम्मतं सताम् । हेयं जन्मजरामृत्युकीर्ण संसरणं सदा ॥ १२ ॥ अनयोः कारणं तत्स्याद्यदन्यत्तन्न विद्यते । पारंपर्येण साक्षाच वस्तूपेक्षं ततः किमु ॥ १३ ॥ द्वेषो हानमुपादानं रागस्तद्वयवर्जनं । ख्यातोपेक्षेति हेयाद्या भावास्तद्विषयादिमे ॥१४॥ इति मोहाभिभूतानां व्यवस्था परिकल्प्यते । हेयत्वादिव्यवस्थानासम्भवात्कुत्रचित्तव ॥१५॥ हातुं योग्यं मुमुक्षूणां हेयतत्त्वं व्यवस्थितं । उपादातुं पुनर्योग्यमुपादेयमितीयते ॥ १६॥ उपेक्षन्तु पुनः सर्वमुपादेयस्य कारणम् । सर्वोपेक्षास्वभावत्वाचारित्रस्य महात्मनः ॥ १७ ॥ तत्त्वश्रद्धानसंज्ञानगोचरत्वं यथा दधत् । तद्भाव्यमानमाम्नातममोघमघघातिभिः ॥ १८ ॥ मिथ्यादृग्बोधचारित्रगोचरत्वेन भावितम् । सर्व हेयस्य तत्त्वस्य संसारस्यैव कारणं ॥ १९ ॥ तदवश्यं परिज्ञेयं तत्वार्थमनुशासता । विनेयानिति बोद्धव्यं धर्मवत्सकलं जगत् ॥ २० ॥ Page #261 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० २९ धर्मादन्यत्परिज्ञानं विप्रकृष्टमशेषतः । येन तस्य कथं नाम धर्मज्ञत्वनिषेधनम् ॥ २१ ॥ सर्वानतींद्रियान् वेत्ति साक्षाद्धर्ममतीन्द्रियम् । प्रमातेति वदन्यायमतिक्रामति केवलं ||२२|| यथैव हि हेयोपादेयतत्त्वं साभ्युपायं स वेत्ति न पुनः सर्वकीटसंख्यादिकमिति वदन्यायमतिक्रामति केवलं तत्संवेदने सर्वसंवेदनस्य न्यायप्राप्तत्वात् । तथा धर्मादन्यानतीन्द्रियान्सर्वानर्थान्विजानन्नपि धर्मं साक्षान्न स वेत्तीति वदन्नपि तत्साक्षात्करणे धर्म्मस्य साक्षात्करणसिद्धेरतीन्द्रियत्वेन जात्यन्तरत्वाभावात् । - यस्य यज्जातीयाः पदार्थाः प्रत्यक्षास्तस्यासत्यावरणेऽपि प्रत्यक्षा यथा घटसमानजातीय भूतलप्रत्यक्षत्वे घटः । प्रत्यक्षाश्च कस्यचिद्विवादापन्नस्य धर्मसजातीयाः परमाण्वादयो देशकालखभावविप्रकृष्टा इति न्यायस्य सुव्यवस्थितत्वात् । ततो नेदं सूक्तं मीमांसकस्य । “धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोपयुज्यते । सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यते" इति । नत्ववधीरणानादरः । तत्सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यत इति । तत्र नो नातितरामादरः । परमार्थतस्तु न कथमपि पुरुषस्यातीन्द्रियार्थदर्शनातिशयः सम्भाव्यते सातिशयानामपि प्रज्ञामेधादिभिः स्तोकस्तोकान्तरत्वेनैव दर्शनात् । तदुक्तं "येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेनातीन्द्रियज्ञानदर्शनात् ॥” इति कश्चित्तं प्रति विज्ञानस्य परमप्रकर्षगमनसाधनमाह; — ज्ञानं प्रकर्षमायाति परमं कचिदात्मनि । तारतम्याधिरूढत्वादाकाशे परिमाणवत् ॥ २३ ॥ तारतम्याधिरूढत्वमसंशयप्राप्तत्वं तद्विज्ञानस्य सिद्ध्यत् क्वचिदात्मनि परमप्रकर्षप्राप्तिं साधयति, तया तस्य व्याप्तत्वात्परिमाणवदाकाशे ॥ २५२ अत्र यद्यक्षविज्ञानं तस्य साध्यं प्रभाष्यते । सिद्धसाधनमेतत्स्यात्परस्याप्येवमिष्टितः ॥ २४ ॥ लिङ्गागमादिविज्ञानं ज्ञानसामान्यमेव वा । तथा साध्यं वदंस्तेन दोषं परिहरेत्कथम् ।। २५ ।। अक्रमं करणातीतं यदि ज्ञानं परिस्फुटम् । धर्मीष्येत तदा पक्षस्याप्रसिद्ध विशेष्यता ।। २६ ।। स्वरूपासिद्धता हेतोराश्रयासिद्धतापि च । तन्नैतत्साधनं सम्यगिति केचित्प्रवादिनः ।। २७ ।। अत्र प्रचक्ष्महे ज्ञानसामान्यं धर्मि नापरम् । सर्वार्थगोचरत्वेन प्रकर्षं परमं व्रजेत् ॥ २८ ॥ इति साध्यमनिच्छन्तं भूतादिविषयं परं । चोदनाज्ञानमन्यद्वा वादिनं प्रति नास्तिकम् ।।२९।। न सिद्धसाध्यतैवं स्यान्नाप्रसिद्ध विशेष्यता | पक्षस्य नापि दोषो ·(१) ॥ ३० ॥ स हेतोः क्वचित्प्रदर्शितः । नह्यत्राक्षविज्ञानं परमं प्रकर्ष यातीति साध्यते नापि लिङ्गागमादिविज्ञानं येन सिद्धसाध्यतानाम पक्षस्य दोषो दुःपरिहारः स्यात् । परस्यापीन्द्रियज्ञाने लिङ्गादिज्ञाने च परमप्रकर्षगमनस्येष्टत्वात् । नाप्यक्रमं करणातीतं परिस्फुटं ज्ञानं तथा साध्यते यतस्तस्यैव धर्मिणोरप्रसिद्ध विशेष्यता रूपादेः सिद्धिश्च हेतुर्धर्मिणोसिद्धौ तद्धर्मस्य साधनस्यासम्भवादाश्रयासिद्धश्च भवेत् । किं तर्हि ज्ञानसामान्यं धर्मि ? न च तस्य सर्वार्थगोचरत्वेन परमप्रकर्षमात्रे साध्ये सिद्धसाध्यता भूतादिविषयं चोदनाज्ञानमनुमानादिज्ञानं वा प्रकृष्टमनिच्छन्तं वादिनं नास्तिकं प्रति प्रयोगात् । मीमांसकं प्रति तत्प्रयोगे सिद्धसाधनमेव भूताद्यशेषार्थगोचरस्य चोदनाज्ञानस्य परमप्रकर्षप्राप्तस्य तेनाभ्युपगतत्वादिति चेन्न, तं प्रति प्रत्यक्षसामान्यस्य धर्मित्वात्तस्य तेन सर्वार्थविषयत्वेनात्यन्तप्रकृष्टस्यानभ्युपगमात् । न चैवमप्रसिद्ध विशेष्यादिदोषः पक्षादेः सम्भवति केवलं मीमांसकान्प्रति यदैतत्साधनं तदा प्रत्यक्षं विशदं सूक्ष्माद्यर्थविषयं साधयत्येवानवद्यत्वात् । यदा तु नास्तिकं प्रति सर्वार्थगोचरं ज्ञानसामान्यं साध्यते तदा तस्य करणक्रमव्यवधानातिवर्तित्वं स्पष्टत्वं च कथं सिद्ध्यति इत्याह ; तच्च सर्वार्थविज्ञानं पुनः सावरणं मतं । अदृष्टत्वाद्यथा चक्षुस्तिमिरादिभिरावृतं ॥ ३१ ॥ 1010 Page #262 -------------------------------------------------------------------------- ________________ · प्रथमोऽध्यायः । २५३ ज्ञानस्यावरणं याति प्रक्षयं परमं कचित् । प्रकृष्यमाणहानित्वाद्धेमादौ श्यामिकादिवत् ||३२|| ततोऽनावरणं स्पष्टं विप्रकृष्टार्थगोचरं । सिद्धमक्रमविज्ञानं सकलंकमहीयसाम् ॥ ३३ ॥ यत एवमतीन्द्रियार्थपरिच्छेदन समर्थ प्रत्यक्षमसर्वज्ञवादिनं प्रति सिद्धम् ॥ ततः सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । भूताद्यशेषविज्ञानभाजश्वेच्चोदनाबलात् ||३४॥ किन्न क्षीणावृतिः सूक्ष्मानर्थान्द्रष्टुं क्षमः स्फुटं । मंदज्ञानानतिक्रामन्नातिशेते परान्नरान् ||३५|| यदि परैरभ्यधायि । " दशहस्तान्तरं व्योम्नि यो न नामात्र गच्छति । न योजनमसौ गंतुं शक्तोंभ्यासशतैरपि" इत्यादि । तदपि न युक्तमित्याह ; लङ्घनादिकदृष्टान्तः स्वभावान्न विलंघने । नाविर्भावे स्वभावस्य प्रतिषेधः कुतश्चन ॥ ३६ ॥ स्वाभाविकी गतिर्न स्यात्प्रक्षीणाशेषकर्मणः । क्षणादूर्द्धं जगच्चूड़ामणौ व्योम्नि महीयसि ||३७|| वीर्यान्तरायविच्छेदविशेषवशतोपरा । बहुधा केन वार्येत नियतं व्योमलङ्घनात् ॥ ३८ ॥ ततो यदुपहसनमकारि भट्टेन । " यैरुक्तं केवलज्ञानमिन्द्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं सूक्तं जीवस्य तैरदः" इति, तदपि परिहृतमित्याह ; - ततः समन्ततश्चक्षुरिन्द्रियाद्यनपेक्षिणः । निःशेषद्रव्यपर्यायविषयं केवलं स्थितं ॥ ३९ ॥ तदेवं प्रमाणतः सिद्धे केवलज्ञाने सकलकुवाद्यविषये युक्तं तस्य विषयप्ररूपणं मतिज्ञानादिवत् ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥ ३० ॥ कान्प्रतीदं सूत्रमित्यावेदयति ; एकत्रात्मनि विज्ञानमेकमेवैकदेति ये । मन्यन्ते तान्प्रति प्राह युगपज्ज्ञानसम्भवम् ॥ १ ॥ अत्रैकशब्दस्य प्राथम्यवचनत्वात्प्राधान्यवचनत्वाद्वा क्वचिदात्मनि ज्ञानं एकं प्रथमं प्रधानं वा संख्यावचनत्वादेकसंख्यं वा वक्तव्यं । तच किं द्वे च ज्ञाने किं युगपदेकत्र त्रीणि चत्वारि वा ज्ञानानि कानीत्याह; प्राच्यमेकं मतिज्ञानं श्रुतिभेदानपेक्षया । प्रधानं केवलं वा स्यादेकत्र युगपन्नरि ॥ २ ॥ द्वेधा मतिश्रुते स्यातां ते चावधियुते क्वचित् । मन:पर्ययज्ञाने वा त्रीणि येन युते तथा || ३ || प्रथमं मतिज्ञानं क्वचिदात्मनि श्रुतभेदस्य तत्र सतोऽप्यपरिपूर्णत्वेनानपेक्षणात् प्रधानं केवलमेतेनैकसंख्यावाच्यप्येकशब्दो व्याख्यातः स्वयमिष्टस्यैकस्य परिग्रहात् । पंचानामन्यतमस्यानिष्टस्यासम्भवात् । क्वचित्पुनद्वै मतिश्रुते कचित्ते वावधियुते मनःपर्यययुते चेति त्रीणि ज्ञानानि संभवन्ति क्वचित्ते एवावधिमनः पर्ययद्वयेन युते चत्वारि ज्ञानानि भवन्ति । पंचैकस्मिन्न भवन्तीत्याह; — चतुर्भ्य इति व्याप्तवादो वचनतः पुनः । पंचैकत्र न विद्यन्ते ज्ञानान्येतानि जातुचित् ||४|| क्षायोपशमिकज्ञानैः सहभावविरोधात्क्षायिकस्येत्युक्तं पंचानामेकत्रासहभवनमन्यत्र ॥ भाज्यानि प्रविभागेन स्थाप्यानीति निबुद्ध्यतां । एकादीन्येकदैकत्रानुपयोगानि नान्यथा ॥ ५ ॥ सोपयोगस्यानेकस्य ज्ञानस्यैकत्र यौगपद्यवचने हि सिद्धान्तविरोधः सूत्रकारस्य न पुनरनुपयोगस्य सह द्वावुपयोगौ न स्त इति वचनात् ॥ सोपयोगयोर्ज्ञानयोः सह प्रतिषेधादिति निवेदयन्ति ;क्षायोपशमिकं ज्ञानं सोपयोगं क्रमादिति । नार्थस्य व्याहतिः काचित्क्रमज्ञानाभिधायिनः ६ Page #263 -------------------------------------------------------------------------- ________________ २५४ तत्त्वार्थश्लोकवार्तिके [सू० ३० ... निरुपयोगस्यानेकस्य ज्ञानस्य सहभाववचनसामर्थ्यात् सोपयोगस्य क्रमभावः क्षायोपशमिकस्येत्युक्तं भवति । तथाच नार्थस्य हानिः क्रमभाविज्ञानावबोधकस्य सम्भाव्यते । अत्रापराकूतमनूद्य निराकुर्वन्नाह;मोपयोगौ सह स्यातामित्यार्याः ख्यापयन्ति ये । दर्शनज्ञानरूपौ तौ न तु ज्ञानात्मकाविति ७ ज्ञानानां सहभावाय तेषामेतद्विरुद्ध्यते । क्रमभावि च यज्ज्ञानमिति युक्तं ततो न तत् ॥८॥ यदापि क्रमभावि च यज्ज्ञानमिति समन्तभद्रखामिवचनमन्यथा व्याचक्षते विरोधपरिहारार्थ तदापि दोषमुद्भावयति; शब्दसंसृष्टविज्ञानापेक्षया वचनं तथा । यस्मादुक्तं तदेवायः स्याद्वादनयसंस्थितम् ॥९॥ इति व्याचक्षते ये तु तेषां मत्यादिवेदनं । प्रमाणं तत्र नेष्टं स्यात्ततः सूत्रस्य बाधनम् ॥१०॥ तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनमित्यनेन केवलस्य क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतमित्यनेन च श्रुतस्यागमस्य प्रमाणान्तरवचनमिति व्याख्याने मतिज्ञानस्यावधिमनःपर्यययोश्च नात्र प्रमाणत्वमुक्तं स्यात् । तथा च ‘मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानं' 'तत्प्रमाणे' इति ज्ञानपंचकस्य प्रमाणद्वयरूपत्वप्रतिपादकसूत्रेण बाधनं प्रसज्येत । यदा तु मत्यादिज्ञानचतुष्टयं क्रमभावि केवलं च युगपत्सर्वभावि प्रमाणं स्याद्वादेन प्रमाणेन सकलादेशिना तयोश्च विकलादेशिभिः संस्कृतं सकलविप्रतिपत्तिनिराकरणद्वारेणागतमिति व्याख्यायते तदा सूत्रबाधा परिहृता भवत्येव । ननु परव्याख्यानेऽपि न सूत्रबाधा क्रमभावि चेति चशब्दान्मतिज्ञानस्यावधिमनःपर्यययोश्च संग्रहादित्यत्र दोषमाह; चशब्दासंग्रहात्तस्य तद्विरोधो न चेत्कथम् । तस्य क्रमेण जन्मेति लभ्यते वचनाद्विना॥११॥ क्रमभावि स्याद्वादनयसंस्कृतं चशब्दान्मत्यादिज्ञानं क्रमभावीति न व्याख्यायते यतस्तस्य क्रमभावित्वं वचनाद्विना न लभ्येत । किं तर्हि स्याद्वादनयसंस्कृतं । यत्तु श्रुतज्ञानं क्रमभावि चशब्दादक्रमभावि च मत्यादिज्ञानमिति व्याख्यानं क्रियते सूत्रबाधापरिहारस्यैवं प्रसिद्धेरिति चेत् , नैवमितिवचनात् सूत्रान्मत्यादिज्ञानमक्रमभाविप्रकाशनाद्विना लब्धुमशक्तेः । ननु बह्वादिसूत्रं मतिज्ञानयोगपद्यप्रतिपादकं तावदस्तीति शंकामुपदर्य प्रत्याचष्टे;बह्वाधवग्रहादीनामुपदेशात्सहोद्भवः । ज्ञानानामिति चेनैवं सूत्रार्थानवबोधतः ॥ १२ ॥ बहुष्वर्थेषु तत्रैकोवग्रहादिरितीष्यते । तथाच न बहूनि स्युः सहज्ञानानि जातुचित् ॥ १३ ॥ कथमेवमिदं सूत्रमेकस्य ज्ञानस्यैकत्र सहभावं प्रकाशयन्न विरुध्यते इति चेदुच्यतेशक्त्यर्पणात्तु तद्भावः सहेति न विरुध्यते । कथंचिदक्रमोद्भूतिः स्याद्वादन्यायवेदिनाम् ॥१४॥ क्षायोपशमिकज्ञानानां हि खावरणक्षयोपशमयोगपद्यशक्तेः सहभावोऽस्त्येकत्रात्मनि योग इति कथञ्चिदक्रमोत्पत्तिर्न विरुध्यते सूत्रोक्ता स्याद्वादन्यायविदां । सर्वथा सहभावयोरनभ्युपगमाच्च न प्रतीतिविरोधः शत्यात्मनैव हि सहभावो नोपयुक्तात्मनानुपयुक्तात्मना वा सहभावो न शक्त्यात्मनापीति प्रतीतिसिद्धं । सहोपयुक्तात्मनापि रूपादिज्ञानपंचकप्रादुर्भावमुपयन्तं प्रत्याह; शष्कुलीभक्षणादौ तु रसादिज्ञानपंचकम् । सकृदेव तथा तत्र प्रतीतेरिति यो वदेत् ॥१५॥ तस्य तत्स्मृतयः किन्न सह स्युरविशेषतः । तत्र तादृक्षसंवित्तेः कदाचित्कस्यचित्कचित् ॥१६ सर्वस्य सर्वदात्वे तद्रसादिज्ञानपंचकम् । सहोपजायते नैव स्मृतिवत्तत्क्रमेक्षणात् ॥ १७ ॥ क्रमजन्म कचिद् दृष्ट्वा स्मृतीनामनुमीयते । सर्वत्र क्रमभावित्वं यद्यन्यत्रापि तत्समं ॥१८॥ पंचभिर्व्यवधानं तु शष्कुलीभक्षणादिषु । रसादिवेदनेषु साद्यथा तद्वत्स्मृतिष्वपि ॥ १९ ॥ Page #264 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। - २५५ लघुवृत्तेन विच्छेदः स्मृतीनामुपलक्ष्यते । यथा तथैव रूपादिज्ञानानामिति मन्यताम् ॥२०॥ असंख्यातैः क्षणैः पद्मपत्रद्वितयभेदनम् । विच्छिन्नं सकृदाभाति येषां भ्रान्तैः कुतश्चन॥२१॥ पंचषैः समयैस्तेषां किन्न रूपादिवेदनम् । विच्छिन्नमपि भातीहाविच्छिन्नमिव विभ्रमात् ॥२२ व्यवसायात्मकं चक्षुर्ज्ञानं गवि यदा तदा । मतङ्गजविकल्पोऽपीत्यनयोः सकृदुद्भवः ॥ २३ ॥ ज्ञानोदयसकृज्जन्मनिषेधे हन्ति चेन वै । तयोरपि सहैवोपयुक्तयोरस्ति वेदनम् ॥ २४ ॥ यदोपयुज्यते ह्यात्मा मतङ्गजविकल्पने । तदा लोचनविज्ञानं गवि मन्दोपयोगहृत् ॥ २५ ॥ तथा तत्रोपयुक्तस्य मतङ्गजविकल्पने । प्रतीयन्ति स्वयं सन्नो भावयन्तो विशेषतः ॥ २६ ॥ समोपयुक्तता तत्र कस्यचित्प्रतिभाति या । साशु संचरणाद्धान्तेर्गोकुञ्जरविकल्पवत् ॥ २७ ॥ नन्वश्वकल्पनाकाले गोदृष्टेः सविकल्पताम् । कथमेवं प्रसाध्येत कचित्स्याद्वादवेदिभिः॥२८॥ संस्कारस्मृतिहेतुर्या गोदृष्टिः सविकल्पिका । सान्यथा क्षणभंगादि दृष्टिवन्न तथा भवेत् ॥२९ इत्याश्रयोपयोगायाः सविकल्पत्वसाधनं । नेत्रालोचनमात्रस्य नाप्रमाणात्मनः सदा ॥३०॥ गोदर्शनोपयोगेन सहभावः कथं न तु । तद्विज्ञानेऽस्य योगस्य नार्थव्याघातकृत्तदा ॥ ३१ ॥ इत्यचोद्यं दृशस्तत्रानुपयुक्तत्वसिद्धितः । पुंसो विकल्प विज्ञानं प्रत्येवं प्रणिधानतः ॥ ३२ ॥ सोपयोगं पुनश्चक्षुर्दर्शनं प्रथमं ततः । चक्षुर्ज्ञानं श्रुतं तस्मात्तत्रार्थेऽन्यत्र च क्रमात् ॥ ३३ ॥ प्रादुर्भवत्करोत्याशु वृत्या सह जनौ धियं । यथा दृग्ज्ञानयोर्नृणामिति सिद्धान्तनिश्चयः ॥३४॥ जननं जनिरिति नायमिगन्तोऽयं यतो जिरिति प्रसज्यते किं तर्हि, औणादिकइकारोऽत्र क्रियते बहुलवचनात् । उणादयो बहुलं च सन्तीति वचनात् इकारादयोऽप्यनुक्ताः कर्तव्या एवेति सिद्ध जनिरिति । तत्र जनौ सहधियं करोत्याशुवृत्त्या चक्षुर्ज्ञानं तच्छुतज्ञानं च क्रमादभवदपि कथंचिदिति हि सिद्धान्तविनिश्चयो न पुनः सह क्षायोपशमिकदर्शनज्ञाने सोपयोगे मतिश्रुतज्ञाने वा येन सूत्राविरोधो न भवेत् । न चैतावता परमतसिद्धिस्तत्र सर्वथा क्रमभाविज्ञानव्यवस्थितेरिह कथंचित्तथाभिधानात् ॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ कस्याः पुनराशंकाया निवृत्त्यर्थ कस्यचिद्वा सिद्ध्यर्थमिदं सूत्रमित्याह;अथ ज्ञानापि पंचानि व्याख्यातानि प्रपंचतः । किं सम्यगेव मिथ्या वा सर्वाण्यपि कदाचन ॥१॥ कानिचिद्वा तथा पुंसा मिथ्याशंकानिवृत्तये । स्वेष्टपक्षपक्षसिद्ध्यर्थ मतीत्याद्याह संप्रति ॥२॥ पूर्वपदावधारणेन सूत्रं व्याचष्टे;मत्यादयः समाख्यातास्त एवेत्यवधारणात् । संगृह्येते कदाचिन्न मनःपर्यायकेवले ॥३॥ नियमेन तयोः सम्यग्भावनिर्णयतः सदा । मिथ्यात्वकारणाभावाद्विशुद्धात्मनि सम्भवात्॥४॥ दृष्टिचारित्रमोहस्य क्षये वोपशमेऽपि वा । मनःपर्ययविज्ञानं भवन्मिथ्या न युज्यते ॥ ५॥ सर्वघातिक्षयेऽत्यन्तं केवलं प्रभवत्कथम् । मिथ्या संम्भाव्यते जातु विशुद्धिं परमं दधत् ॥६॥ मतिश्रुतावधिज्ञानत्रयं तु स्यात्कदाचन । मिथ्येति ते च निर्दिष्टा विपर्यय इहाङ्गिनाम् ॥७॥ स च सामान्यतो मिथ्याज्ञानमत्रोपवर्ण्यते । संशयादिविकल्पानां त्रयाणां संगृहीयते ॥८॥ समुच्चिनोति चस्तेषां सम्यकत्वं व्यावहारिकम् । मुख्यं च तदनुक्तौ तु तेषां मिथ्यात्वमेव हि९ ते विपर्यय एवेति सूत्रे चेन्नावधार्यते । चशब्दमन्तरेणापि सदा सम्यक्त्वमत्त्वतः ॥१०॥ • मिथ्याज्ञानविशेषः स्यादासिन्पक्षे विपर्ययम् । संशयाज्ञानभेदस्य चशब्देन समुच्चयः ॥११॥ Page #265 -------------------------------------------------------------------------- ________________ २५६ तत्त्वार्थश्लोकवार्तिके [सू० ३१ अत्र मतिश्रुतावधीनामविशेषेण संशयविपर्यासानध्यवसायरूपत्वसक्तौ यथाप्रतीति तद्दर्शनार्थमाह;तत्र त्रिधापि मिथ्यात्वं मतिज्ञाने प्रतीयते । श्रुते च द्विविधं बोध्यमवधौ संशयाद्विना॥१२॥ तस्येन्द्रियमनोहेतुसमुद्भूतिनियामतः । इन्द्रियानिन्द्रियाजन्यस्वभावश्चावधिः स्मृतः॥ १३ ॥ मतौ श्रुते च त्रिविधं मिथ्यात्वं बोद्धव्यं मतेरिन्द्रियानिन्द्रियनिमित्तकत्वनियमात् । श्रुतस्यानिन्द्रियनिमित्तकत्वनियमात् द्विविधमवधौ संशयाद्विना विपर्ययानध्यवसायावित्यर्थः । कुतः संशयादिन्द्रियानिन्द्रियाजन्यखभावः प्रोक्तः। संशयो हि चलिताप्रतिपत्तिः, किमयं स्थाणुः किं वा पुरुष इति । स च सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षादुभयविशेषस्मरणात् प्रजायते । दूरस्थे च वस्तुनि इन्द्रियेण सामान्यतश्च सन्निकृष्टे सामान्यप्रत्यक्षत्वं विशेषाप्रत्यक्षत्वं च दृष्टं मनसा च पूर्वानुमूततदुभयविशेषस्मरणेन, न चावध्युत्पत्तौ क्वचिदिन्द्रियव्यापारोऽस्ति मनोव्यापारो वा खावरणक्षयोपशमविशेषात्मना सामान्यविशेषात्मनो वस्तुनः खविषयस्य तेन ग्रहणात् । ततो न संशयात्मावधिः । विपर्ययात्मा तु मिथ्यात्वोदयाद्विपरीतवस्तुस्वभावश्रद्धानसहभावात्सम्बोध्यते । तथानध्यवसायात्माप्याशु उपयोगसंहरणाद्विज्ञानान्तरोपयोगाद्गच्छत्तृणस्पर्शवदुत्पाद्यते । दृढोपयोगावस्थायां तु नावधिरनध्यवसायात्मापि कथमेवावस्थितोऽवधिरिति चेत्, कदाचिदनुगमनात्कदाचिदननुगमनात्कदाचिद्वर्धमानत्वात्कदाचिद्धीयमानत्वात्तथा विशुद्धिविपरिवर्त्तमानादवस्थितावधिरेकेन रूपेणावस्थानान्न पुनरदृष्टोपयोगत्वात्स्वभावपरावर्चनेऽपि, तस्य तथा तथा दृढ़ोपयोगत्वाविरोधात् । कुतः पुनस्त्रिष्वेव बोधेषु मिथ्यात्वमित्याह;मिथ्यात्वं त्रिषु बोधेषु दृष्टिमोहोदयाद्भवेद् । तेषां सामान्यतस्तेन सहभावाविरोधतः ॥१४॥ यदा मत्यादयः पुंसस्तदा न स्याद्विपर्ययः । स यदा ते तदा न स्युरित्येतेन निराकृतम्॥१५।। विशेषापेक्षया ह्येषां न विपर्ययरूपता । मत्यज्ञानादिसंज्ञेषु तेषु तस्याः प्रसिद्धितः ॥ १६ ॥ सम्यक्त्वावस्थायामेव मतिश्रुतावधयो व्यपदिश्यन्ते मिथ्यात्मावस्थायां तेषां मत्यज्ञानव्यपदेशात् । ततो न विशेषरूपतया ते विपर्यय इति व्याख्यायते येन सहानवस्थालक्षणो विरोधः स्यात् । किं तर्हि सम्यग् मिथ्यामत्यादिव्यक्तिगतमत्यादिसामान्यापेक्षया ते विपर्यय इति निश्चीयते मिथ्यात्वेन सहभावाविरोधात्तथा मत्यादीनां ।। ननु च तेषां तेन सहभावेऽपि कथं मिथ्यात्वमित्याशंक्योत्तरमाह;मिथ्यात्वोदयसद्भावे तद्विपर्ययरूपता । न युक्ताम्यादिसंपाते जात्यहेम्नो यथेति चेत् ॥१७॥ नाश्रयस्थान्यथाभावसम्यकपरिदृढे सति । परिणामे तदाधेयस्यान्यथा भावदर्शनात् ॥ १८ ॥ यथा सरजसालाम्बूफलस्य कटु किन्न तत् । क्षिप्तस्य पयसो दृष्टः कटुभावस्तथाविधः ॥१९॥ तथात्मनोऽपि मिथ्यात्वपरिणामे सतीष्यते । मत्यादिसंविदांतादृमिथ्यात्वं कस्यचित्सदा २० जात्यहेनो माणिक्यस्य चाम्यादिर्वा गृहादिर्वा नाहेमत्वममाणिक्यत्वं वा कर्तुं समर्थस्तस्यापरिणामकत्वात् । मिथ्यात्वपरिणतस्तु आत्मा साश्रयीणि मत्यादिज्ञानानि विपर्ययरूपतामापादयति । तस्य तथा परिणामकत्वात्सरजसकटुकालाम्बूवत्खाश्रयि पय इति न मिथ्यात्वसहभावेऽपि मत्यादीनां सम्यक्स्वपरित्यागः शङ्कनीयः । परिणामित्वमात्मनोसिद्धमिति चेदत्रोच्यते न चेदं परिणामित्वमात्मनो न प्रसाधितम् । सर्वस्यापरिणामित्वे सत्त्वस्यैव विरोधतः ॥२१॥ - यतो विपर्ययो न स्यात्परिणामः कदाचन । मत्यादिवेदनाकारपरिणामनिवृत्तितः ॥ २२ ॥ Page #266 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २५७ सदसतोरविशेषाद्यदृच्छोपलब्धेसन्मत्तवत् ॥ ३२ ॥ किंकुर्वन्निदं सूत्रं ब्रवीतीति शंकायामाह;समानोर्थपरिच्छेदः सदृष्ट्यर्थपरिच्छिदा । कुतो विज्ञायते त्रेधा मिथ्यादृष्टेविपर्ययः ॥ १॥ इत्यत्र ज्ञापकं हेतुं सदृष्टान्तं प्रदर्शयत् । सदित्याद्याह संक्षेपाद्विशेषप्रतिपत्तये ॥ २॥ मिथ्यादृष्टेरप्यर्थपरिच्छेदः सदृष्ट्यर्थपरिच्छेदेन समानो भूयते तत्कुतोऽसौ त्रेधा विपर्यय इत्यारेकायां सत्यां दर्शनं ज्ञापकं हेतुमनेनोपदर्शयति ॥ के पुनरत्र सदसती कश्च तयोरविशेषः का च यदृच्छोपलब्धिरित्याह;नात्रोत्पादव्ययध्रौव्ययुक्तं सदिति वक्ष्यति । ततोऽन्यदसदित्येतत्सामर्थ्यादवसीयते ॥३॥ अविशेषस्तयोः सद्भिरविवेको विधीयते । सांकर्यतो हि तद्वित्तिस्तथा वैयतिकर्य्यतः ॥ ४ ॥ प्रतिपत्तिरभिप्रायमानं यदनिबन्धनं । सा यक्षा तया वित्तिरुपलब्धिः कथंचन ॥५॥ किमत्र साध्यमित्याह;मत्यादयोऽत्र वर्तन्ते ते विपर्यय इत्यपि । हेतोर्यथोदितादत्र साध्यते सदसत्त्वयोः ॥६॥ तेनैतदुक्तं भवति मिथ्यादृष्टेमतिश्रुतावधयो विपर्ययः सदसतोरविशेषेण यदृच्छोपलब्धेरुन्मत्तस्यैवेति । समानेऽप्यर्थपरिच्छेदे कस्यचिद्विपर्ययसिद्धिं दृष्टान्ते साध्यसाधनयोर्व्याप्ति प्रदर्शयन्नाह; खणे स्वर्णमिति ज्ञानमस्वर्णे स्वर्णमित्यपि । स्वर्णे वास्वर्णमित्येवमुन्मत्तस्य कदाचन ॥७॥ विपर्ययो यथा लोके तद्यदृच्छोपलब्धितः । विशेषाभावतस्तद्वन्मिथ्यादृष्टेर्घटादिषु ॥ ८॥ सर्वत्राहार्य एव विपर्ययः सहज एवेत्येकान्तव्यवच्छेदेन तदुभयं स्वीकुर्वन्नाह;सहचार्यो विनिर्दिष्टः सहजश्च विपर्ययः । प्राच्यस्तत्र श्रुताज्ञानं मिथ्यासमयसाधितम् ॥९॥ मत्यज्ञानं विभङ्गश्च सहजः संप्रतीयते । परोपदेशनिर्मुक्तेः श्रुताज्ञानं च किंचन ॥ १० ॥ चक्षुरादिमतिपूर्वकं श्रुताज्ञानमपरोपदेशत्वात्सहजं मत्यज्ञानविभङ्गज्ञानवत् । श्रोत्रमतिपूर्वकं तु परोपदेशापेक्षत्वादाहार्य प्रत्येयं । तत्र सति विषये श्रुताज्ञानमाहार्यविपर्ययमादर्शयति; सति स्वरूपतोऽशेषे शून्यवादो विपर्ययः । ग्राह्यग्राहकभावादौ संविदद्वैतवर्णनम् ॥ ११ ॥ चित्राद्वैतप्रवादश्च पुंशब्दाद्वैतवर्णनम् । बाह्यर्थेषु च भिन्नेषु विज्ञानांडप्रकल्पनं ॥ १२ ॥ बहिरन्तश्च वस्तूनां सादृश्ये वैसदृश्यवाक । वैसदृश्ये च सादृश्यकान्तवादावलम्बनम् ॥१३॥ द्रव्ये पर्यायमात्रस्य पर्याये द्रव्यकल्पना । तद्वयात्मनि तद्भेदवादो वाच्यत्ववागपि ॥ १४ ॥ उत्पादव्ययवादश्च ध्रौव्ये तदवलम्बनम् । जन्मप्रध्वंसयोरेवं प्रतिवस्तु प्रबुद्ध्यताम् ॥ १५॥ सति तावत्कात्स्येनैकदेशेन च विपर्ययोऽस्ति तत्र कात्स्येन शून्यवादः खरूपद्रव्यक्षेत्रकालतः । सर्वस्य सत्त्वेन प्रमाणसिद्धत्वात् । विशेषतस्तु सति ग्राह्यग्राहकभावे कार्यकारणभावे च वाच्यवाचकभावादौ च तदसत्त्ववचनम् । तत्र संविदद्वैतस्य वावलम्बनेन सौगतस्य, पुरुषाद्वैतस्यालम्बनेन ब्रह्मवादिनः, शब्दाद्वैतस्याश्रयेण वैयाकरणस्येति प्रत्येयं । विपर्ययत्वं तु तस्य ग्राह्यग्राहकभावादीनां प्रतीतिसिद्धं । तद्वचनात्तथा बहिरर्थे भिन्ने सति तद्वदसत्त्ववचनं विज्ञानांशप्रकल्पनाद्विपर्ययः । परमार्थतो बहिरन्तश्च वस्तूनां सादृश्ये सति तदसत्त्ववचनं सर्ववैसदृश्यावलम्बनेन तथागतस्यैव विपर्ययः । सादृश्यप्रत्यभिज्ञानस्याबाधितस्य प्रमाणत्वसाधनेन सादृश्यस्य साधनात् सत्यपि च कथंचिद्विशिष्टसादृश्ये तदसत्त्ववचनं । सर्वथा Page #267 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ३२ सादृश्यावलम्बनात् सादृश्यैकान्तवादिनो विपर्ययः । एकत्वप्रत्यभिज्ञानस्याबाधितस्य प्रमाणत्वसाधनात्तत्सत्त्वसिद्धेः पर्याये च सति तदसत्त्ववचनं द्रव्यमात्रास्थानादपरस्य विपर्ययः । भेदज्ञानाद्यबाधितात्तत्सत्त्वसाधनात् । द्रव्यपर्यात्मनि वस्तुनि सति तदसत्त्वाभिधानं परस्परभिन्नद्रव्यपर्यायवादाश्रयणादन्येषां तस्य प्रमाणतो व्यवस्थापनात् । तत्त्वान्यत्वाभ्यामवाच्यत्ववादालम्बनाद्वा तत्र विपर्ययः । सति धौव्ये तदसत्त्वकथनमुत्पादव्ययमात्रांगीकरणात्केषांचिद्विपर्ययः कथंचित्सर्वस्य नित्यत्वसाधनात् । - उत्पादव्यययोश्च सतोस्तदसत्त्वाभिनिवेशः शाश्वतैकान्ताश्रयणादन्येषां विपर्ययः । सर्वस्य कथंचिदुत्पादव्ययात्मनः साधनादेवं प्रतिवस्तुसत्त्वेऽसत्त्ववचनं विपर्ययः प्रपंचतो बुध्यतां । जीवे सति तदसत्त्ववचनं चार्वाकस्य विपर्ययस्तत्सत्त्वस्य प्रमाणतः साधनात् । अजीवे तदसत्त्ववचनं ब्रह्मवादिनो विपर्ययः । आसवे तदसत्त्ववचनं च बौद्धचार्वाकस्यैव । संवरे निर्जरायां मोक्षे च तदसत्त्ववचनं याज्ञिकस्य विपर्ययः । पूर्वमेव जीववदजीवादीनां प्रमाणतः प्ररूपणात् । विशेषतः संसारिणि मुक्ते च जीवे सति तदसत्त्ववचनं विपर्ययः । जीवे पुद्गले धर्मेऽधर्मे नभसि काले च सति तदसत्त्ववचनं । तत्कपुण्यास्रवे पापास्रवे च पुण्यवत्त्वे पापवत्त्वे च देशसंवरे सर्वसंवरे च यथाकालं निर्जरायामौपक्रमिकनिर्जरायां च आर्हत्यमोक्षे सिद्धत्वमोक्षे च सति तदसत्त्ववचनं कस्यचिद्विपर्ययस्तत्सत्त्वस्य पुरस्तात् प्रमाणतः साधनात् । एवं तदा भेदेषु प्रमाणसिद्धेषु तदसत्सु तदसत्त्ववचनं विपर्ययो बहुधावबोद्धव्यः परीक्षाक्षमधिषणैरित्यलं विचारेण ॥ २५८ पररूपादितोशेषे वस्तुन्यसति सर्वथा । सच्त्ववादः समाम्नातः पराहार्यो विपर्ययः ।। १६ ।। पररूपद्रव्यक्षेत्रकालतः सर्ववस्त्वसत्तत्र कार्यतः सत्त्ववचनमाहार्यो विपर्ययः । सत्त्वैकान्तावलम्बनात्कस्यचित्प्रत्येतव्यः । प्रमाणतस्तथा सर्वस्यासत्त्वसिद्धेः देशतोऽसतोऽसति सत्त्वविपर्ययमुपदर्शयति ;सत्यसत्त्वविपर्यासाद् वैपरीत्येन कीर्तितात् । प्रतीयमानकः सर्वोऽसति सत्त्वविपर्ययः ॥ १७॥ सति ग्राह्यग्राहकभावादौ संविदद्वैताद्यालम्बनेन तदसत्त्ववचनलक्षणाद्विपर्ययात्पूर्वोक्ताद्विपरीतत्वेनासति प्रतीत्यारूढे ग्राह्यग्राहकभावादौ सौत्रान्तिकाद्युपवर्णिते सत्त्ववचनं विपर्ययः प्रपंचतोऽवबोद्धव्यः । एवमाहार्यं श्रुतविपर्ययमुपदर्श्य श्रुतानध्यवसायं चाहार्य दर्शयति ; सति त्रिविप्रकृष्टार्थे संशयः श्रुतिगोचरे । केषांचिदृश्यमानेऽपि तत्त्वोपप्लववादिनाम् ॥ १८ ॥ तथानध्यवसायोऽपि केषांचित्सर्ववेदिनि तत्त्वे । सर्वत्र वाग्गोचराहार्योऽवगम्यताम् ॥ १९ ॥ श्रुतविषये देशकालस्वभावविप्रकृष्टेऽर्थे संशयः । सौगतानामदृश्यसंशयैकान्तवादावलम्बनादाहार्यो - saसेयः । पृथिव्यादौ दृश्यमानेऽपि संशयः केषांचित्तत्त्वोपप्लववादावष्टंभात् । सर्ववेदिनि पुनः संशयो - ऽध्यवसायश्च केषांचिद्विपर्ययवदाहार्योऽवगम्यताम् । सर्वज्ञाभाववादावलेपात्सर्वत्र वा तत्त्वे केषांचिदन्योSनध्यवसायः । संशयविपर्ययवत् "तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नासौ मुनिर्यस्य वचः प्रमाणं । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः " इति प्रलापमात्राश्रयणात् । तथा प्रलापिनां खोक्ताप्रतिष्ठानात् तत्प्रतिष्ठाने वा तथा वचनविरोधादित्युक्तप्रायं ॥ सम्प्रति मतिज्ञानविपर्ययसहजमावेदयति ;बाद्यवग्रहाद्येषु चत्वारिंशत्सु वित्तिषु । कुतश्चिन्मतिभेदेषु सहजः स्याद्विपर्ययः ॥ २० ॥ स्मृतावननुभूतार्थे स्मृतिसाधर्म्यसाधनः । संज्ञायामेकताज्ञानं सादृश्यः श्रोत्रदर्शितः ॥ २१ ॥ तथैकत्वेऽपि सादृश्य विज्ञानं कस्यचिद्भवेत् । स विसंवादतः सिद्धश्चिंतायां लिङ्गलिङ्गिनोः २२ हेत्वाभासबलाज्ञानं लिङ्गिनि ज्ञानमुच्यते । स्वार्थानुमाविपर्यासो बहुधा तद्धियां मतः ॥ २३ ॥ कः पुनरसौ हेत्वाभासो यतो जायमानं लिङ्गिनि ज्ञानं स्वार्थानुमानविपर्ययः । सहजो मतिः Page #268 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २५९ स्मृतिसंज्ञाचिन्तानामिव खविषये तिमिरादिकारणवशादुपगम्यते इति पर्यनुयोगे समासव्यासतो हेत्वाभासमुपदर्शयति; हेत्वाभासस्तु सामान्यादेकः साध्याप्रसाधनः । यथा हेतुःस्वसाध्येनाविनाभावी निवेदितः२४ त्रिविधोऽसावसिद्धादिभेदात्कश्चिद्विनिश्चितः । स्वरूपाश्रयसंदिग्धज्ञातासिद्धश्चतुर्विधः ॥२५॥ तत्र स्वरूपतोसिद्धो वादिनः शून्यसाधने । सर्वो हेतुयेथा ब्रह्मतत्त्वोपप्लवसाधने ॥ २६ ॥ सत्त्वादिः सर्वथा साध्ये शब्दभंगुरतादिके । स्याद्वादिनः कथंचिन सर्वथैकान्तवादिनः॥२७॥ शब्दाद्विनश्वराद्धेतुसाध्ये चाऽकृतकादयः । हेतवोऽसिद्धतां यान्ति बौद्धादेः प्रतिवादिनः २८ जैनस्य सर्वथैकान्तधूमवत्त्वादयोऽग्निषु । साध्येषु हेतवोऽसिद्धा पर्वतादौ तथाग्नितः ॥ २९ ॥ शब्दादौ चाक्षुषत्वादिरुभयासिद्ध इष्यते । निःशेषोऽपि यथा शून्यब्रह्माद्वैतप्रवादिनोः ॥३०॥ बाद्यसिद्धौ तत्र साध्यप्रसाधनौ ॥ समर्थनविहीनः स्यादसिद्धः प्रतिवादिनः । हेतोर्यस्याश्रयो न स्यात् आश्रयासिद्ध एव सः ३१ स्वसाध्येनाविनाभावाभावादगमको मतः । प्रत्यक्षादेः प्रमाणादेः संवादित्वादयो यथा ॥३२॥ शून्योपप्लवशब्दाद्यद्वैतवादावलम्बिना । संदेहविषयः सर्वः संदिग्धासिद्ध उच्यते ॥ ३३ ॥ तथागमप्रमाणत्वे रुद्रोक्तत्वादिरास्थितः । सन्नप्यज्ञायमानोऽत्राज्ञातासिद्धो विभाव्यते ॥३४॥ सौगतादेर्यथा सर्वः सत्त्वादिस्वेष्टसाधने । न निर्विकल्पकाध्यक्षादस्तिहेतोर्विनिश्चयः ॥ ३५॥ तत्पृष्ठजाद्विकल्पाच वस्तुगोचरतः क सः । अनुमानान्तराद्धेतुनिश्चयो चानवस्थितिः ॥३६॥ परापरानुमानानां पूर्वपूर्वत्रवृत्तितः । ज्ञानं ज्ञानान्तराध्यक्षं वदतोनेन दर्शितः ॥ ३७॥ सर्वो हेतुरविज्ञातोऽनवस्थानाविशेषतः । अर्थापत्तिपरिच्छेद्यं परोक्षं ज्ञानमादृताः ॥ ३८ ॥ सर्व ये तेऽप्यनेनोक्ता स्वाज्ञातासिद्धहेतवः । प्रत्यक्षं तु फलज्ञानमात्मानं वा स्वसंविदम् ३९ प्राङ्मयोकरणाज्ञानं व्यर्थ तेषां निवेदितं । प्रधानपरिणामत्वादचेतनमितीरितम् ॥ ४० ॥ ज्ञानं यैस्ते कथं न स्युरज्ञातासिद्धहेतवः । प्रतिज्ञार्थंकदेशस्तु स्वरूपासिद्ध एव नः ॥४१॥ शब्दो नासौ विनाशित्वादित्यादि साध्यसन्निभः। यस्साध्यविपरीतार्थो व्यभिचारी सुनिश्चितः॥ स विरुद्धोऽवबोद्धव्यस्तथैवेष्टविघातकृत् । सत्त्वादिः क्षणिकत्वादौ यथा स्याद्वादविद्विषां ॥४३॥ अनेकान्तात्मकत्वस्य नियमात्तेन साधनात् । परार्थ्य चक्षुरादीनां संहन्तव्यं प्रसाधयेत् ॥४४॥ परस्य परिणामित्वं तथेतीष्टविघातकृत् । अनुस्यूतमनीषादिसामान्यादीनि साधयेत् ॥ ४५ ॥ तेषां द्रव्यविवर्त्तत्वमेवमिष्टविघातकृत् । विरुद्धान च भिन्नोऽसौ स्वयमिष्टाद्विपर्यये ॥ ४६॥ सामर्थ्यस्याविशेषेण भेदवादिप्रसंगतः । विवादाध्यासितं धीमद्धेतुकं कृतकत्वतः ॥४७॥ यथा शकटमित्यादि विरुद्धो तेन दर्शितः । यथा हि बुद्धिमत्पूर्व जगदेतत्प्रसाधयेत् ॥४८॥ तथा बुद्धिमतो हेतोरनेकत्वशरीरिताम् । स्वशरीरस्य कर्त्तात्मा नाशरीरोऽस्ति सर्वथा ॥४९॥ कार्मणेन शरीरेणानादिसम्बन्धसिद्धितः । यतः साध्ये शरीरे स्वे धीमतो व्यभिचारता॥५०॥ जगत्कर्तुः प्रपद्येत तेन हेतोः कुतार्किकः । बोध्योऽनैकान्तिको हेतुःसम्भवान्नान्यथा तथा ५१ संशीतिं विधिवत्सर्वः साधारणतया स्थितः । शब्दत्वश्रावणत्वादि शब्दादौ परिणामिनि ५२ साध्यहेतुस्ततो वृत्तेः पक्ष एव सुनिश्चितः । संशीत्यालिङ्गिताङ्गस्तु यः सपक्षविपक्षयोः॥५३॥ पक्षे स वर्तमानः स्यादनैकान्तिकलक्षणः । तेन साधारणो नान्यो हेत्वाभासस्ततोऽस्ति नः ॥५४ तस्यानैकान्तिके सम्यग्घेतौ वान्तर्गतिः स्थितिः । प्रमेयत्वादिरेतेन सर्वसिन्परिणामिनि॥५५॥ Page #269 -------------------------------------------------------------------------- ________________ २६० तत्त्वार्थश्लोकवार्तिके [सू० ३२ साध्ये वस्तुनि निर्णीतो व्याख्यातः प्रतिपद्यतां । पक्षत्रितयहानिस्तु यस्यानैकान्तिको मतः ५६ केवलव्यतिरेकादिस्तस्यानैकान्तिकः कथं । व्यक्तात्मनां हि भेदानां परिणामादिसाधनम् ५७ एकं कारणपूर्वत्वे केवलव्यतिरेकिनः । कारणत्रयपूर्वत्वात्कार्येणानन्वयागतेः ॥ ५८ ॥ पुरुषैर्व्यभिचारीष्टं प्रधानपुरुषैरपि । विना सपक्षसत्त्वेन गमकं यस्य साधनम् ॥ ५९ ॥ अन्यथानुपपन्नत्वात्तस्य साधारणो मतः । साध्ये च तदभावे च वर्तमानो विनिश्चितः॥६॥. संशीत्याक्रान्तदेहो वा हेतुः कात्यैकदेशतः । तत्र कार्येन निर्णीतस्तावत्साध्यविपक्षयोः६१ यथा द्रव्यं नमः सत्त्वादित्यादिः कश्चिदीरितः । विश्ववेदीश्वरः सर्वजगत्कर्तृत्वसिद्धितः॥६२ इति संश्रयतस्तत्राविनाभावस्य संशयात् । सति ह्यशेषवेदित्वे संदिग्धा विश्वकर्तृता ॥६३ ॥ तदभावे च तन्नायं गमको न्यायवेदिनाम् । नित्योर्थो निमर्त्तत्वादिति स्यादेकदेशतः ॥६४॥ स्थितस्तयोर्विनिर्दिष्टपरोऽपीढक्तदा तु कः । यत्रार्थे साधयेदेकं धर्म हेतुर्विवक्षितम् ॥ ६५ ॥ तत्रान्यस्तद्विरुद्धं चेद्विरुद्ध्या व्यभिचार्यसौ । इति केचित्तदप्राप्तमनेकान्तस्य युक्तितः ॥६६॥ सम्यग्घेतुत्वनिर्णीतेर्नित्यानित्यत्वहेतुवत् । सर्वथैकान्तवादे तु हेत्वाभासोऽयमिष्यते ॥ ६७॥ सर्वगत्वे परसिंश्च जातेः ख्यापितहेतुवत् । स च सप्रतिपक्षोत्र कश्चिदुक्तः परैः पुनः ॥६८॥ अनैकान्तिक एवेति ततो नास्य विभिन्नता । स्वेष्टधर्मविहीनत्वे हेतुनान्येन साध्यते ॥ ६९।। साध्याभावे प्रयुक्तस्य हेतो भावनिश्चयः । धर्मिणीति स्वयं साध्यासाध्ययोवृत्तिसंश्रयात् ७० नानैकान्तिकता बाध्या तस्य तल्लक्षणान्वयात् । यः स्वपक्षसपक्षान्यतरवादः स्वनादिषु ॥७॥ नित्यत्वे भंगुरत्वे वा प्रोक्तः प्रकरणे समः । सोऽप्यनैकान्तिकान्नान्य इत्यनेनैव कीर्तितम् ७२ स्वसाध्ये सति सम्भूतिः संशया सविशेषतः। कालात्ययापदिष्टोऽपि साध्यमानेन बाधिते ७३ यः प्रयुज्येत हेतुः स्यात्स नो नैकान्तिकोऽपरः । साध्याभावे प्रवृत्तो हि प्रमाणैः कुत्रचित्स्वयम्७४ साध्ये हेतुर्न निर्णीतो विपक्षविनिवर्त्तनः । विपक्षे बाधके वृत्ते समीचीनो यथोच्यते ॥७५॥ साध्यके सति किन्न स्यात्तदा हासस्तथैव सः । साध्याभावे प्रवृत्तेन किं प्रमाणेन बाध्यते ७६ हेतुः किं वा तदेतेनेत्यत्र संशीतिसम्भवः । साध्यस्याभाव एवायं प्रवृत्त इति निश्चये ॥७७॥ विरुद्धो हेतुरुद्भाव्योऽतीतकालो न चापरः । प्रमाणबाधनं नाम दोषः पक्षस्य वस्तुतः॥७८॥ क तस्य हेतुभिस्त्राणोऽनुत्पन्नेन तपोहतः । सिद्धे साध्ये प्रवृत्तोत्राकिंचित्कर इतीरितः॥७९॥ कैश्चिद्धेतुर्न संचिंत्यः स्याद्वादनयशालिभिः । गृहीतग्रहणात्तस्याप्रमाणत्वं यदीष्यते ॥ ८०॥ स्मृत्यादेरप्रमाणत्वं स्मृत्यादेश्चेत्कथं तु तैः । सिद्धेर्थे वर्तमानस हेतोः संवादिता न ते॥८१॥ प्रयोजनविशेषस्य सद्भावान्मानता यदि । तदाल्पज्ञानविज्ञानं हेतोः किं न प्रयोजनम् ॥८२॥ प्रमाणसंप्लवस्त्वेवं स्वयमिष्टो विरुध्यते । सिद्धे कुतश्चनार्थेन्यप्रमाणस्याफलत्वतः ॥ ८३॥ मानेनैकेन सिद्धेर्थे प्रमाणांतरवर्तने । यानवस्थोच्यते सापि नाकांक्षाक्षयतः स्थितेः ॥ ८४ ॥ सरागप्रतिपत्तॄणां स्वादृष्टत्वमतः कचित् । स्यादाकांक्षाक्षयः कालदेशादेः स्वनिमित्ततः ॥८५।। वीतरागाः पुनः स्वार्थान् वेदनरपरापरैः। परिक्षेत्रं प्रवर्तते सदोपेक्षापरायणा ॥ ८६॥ प्रमाणसंप्लवे चैवमदोषे प्रत्युपस्थिते । गृहीतग्रहणात् क स्यात् केवलस्याप्रमाणता ॥ ८७ ॥ ततः सर्वप्रमाणानामपूर्वार्थत्वसन्नये । स्यादकिंचित्करो हेत्वाभासो नैवान्यथार्पणात् ॥८८॥ तत्रापि केवलज्ञानं नाप्रमाणं असह्यते । साद्यपर्यवसानस्य तस्यापूर्वार्थता स्थितेः ॥ ८९॥ । प्रादुर्भूतिक्षणादू परिणामित्वविच्युतिः । केवलस्सैकरूपित्वादिति चोचं न युक्तिमत् ॥९०॥ Page #270 -------------------------------------------------------------------------- ________________ २६१ प्रथमोऽध्यायः। परापरेण कालेन संबंधात्परिणामि च । . .(१)ज्ञातृत्वेनैकमेव हि ॥ ९१ ॥ एवं व्याख्याननिःशेषहेत्वाभाससमुद्भवं । ज्ञानं स्वार्थानुमाभासं मिथ्यादृष्टेविपर्ययः ॥९२॥ यथा श्रुतज्ञाने विपर्यासस्तद्वत्संशयोऽनध्यवसायश्च प्रतिपत्तव्यः । सामान्यतो विपर्ययशब्देन मिथ्याज्ञानसामान्यस्याभिधानात् । संप्रति वाक्यार्थज्ञानविपर्ययमाहार्य दर्शयन्नाह;नियोगो भावनैकांताद्धात्वर्थो विधिरेव च । यत्रारूढादिव्यर्थोन्यापोहो वा वचसो यदा ॥१३॥ कैश्चिन्मन्येत तज्ज्ञानं श्रुताभं वेदनं तदा । तथा वाक्यार्थनिर्णीतेर्विधातुं दुःशकत्वतः॥९४॥ कः पुनरयं नियोगो नाम नियुक्तोहमनेन वाक्येनेति निरवशेषो योगो नियोगस्तत्र मनागप्ययोगाशंकायाः संभवाभावात् । स चानेकधा, केषांचिल्लिङादिप्रत्ययार्थः शुद्धोऽन्यनिरपेक्षः कार्यरूपो नियोग इति मतम् ॥ प्रत्ययार्थो नियोगश्च यतः शुद्धं प्रतीयते । कार्यरूपश्च तेनात्र शुद्धं कार्यमसौ यतः ॥ ९५ ॥ विशेषणं तु यत्तस्य किंचिदन्यत्प्रतीयते । प्रत्ययार्थो न तद्युक्तः धात्वर्थः स्वर्गकामवत्॥१६॥ प्रेरकत्वं तु यत्तस्य विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वात् शुद्धे कार्ये नियोगता ॥ ९७ ॥ परेषां शुद्धा प्रेरणा नियोग इत्याशयः ।। प्रेरणैव नियोगोत्र शुद्धा सर्वत्र गम्यते । नाप्रेरितो यतः कश्चिनियुक्तं स्वं प्रबुध्यते ॥ ९८ ॥ प्रेरणासहितं कार्य नियोग इति केचिन्मन्यते । ममेदं कार्यमित्येवं ज्ञानं पूर्व यदा भवेत् । स्वसिद्ध्यै प्रेरकं तत्स्यादन्यथा तन्न सिद्ध्यति॥१९॥ कार्यसहिता प्रेरणा नियोग इत्यपरे ॥ प्रेर्यते पुरुषो नैव कार्येणेह विना कचित् । ततश्चेत्प्रेरणा प्रोक्ता नियोगः कार्यसंगता ॥१०॥ कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोग इत्यन्ये । प्रेरणाविषयः कार्य न तु तत्प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ॥ १०१॥ कार्यप्रेरणयोः संबंधो नियोग इत्यपरे । प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यप्रेरणयोर्योगो नियोगस्तेन सम्मतः॥१०२ तत्समुदायो नियोग इति चापरे । परस्पराविनाभूतं द्वयमेतत्प्रतीयते । नियोगः समुदायोसात्कार्यप्रेरणयोर्मतः ॥ १०३ ॥ तदुभयस्वभावनिर्मुक्तो नियोग इति चान्ये । सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन च तत्कार्य प्रेरकं कुत एव तत् ॥१०४॥ यंत्रारूढो नियोग इति कश्चित् । कामी यत्रैव यः कश्चिन्नियोगे सति तत्र सः । विषयारूढमात्मानं मन्यमानः प्रवर्तते॥१०५॥ भोग्यरूपो नियोग इत्यपरः ॥ ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितम् ॥१०६॥ स्वामित्वेनाभिमानो हि भोक्तुर्यत्र भवेदयं । भोग्यं तदेव विज्ञेयं तदेवं खं निरुच्यते ॥१०७॥ साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं खं व्यपदिश्यते ॥१०८॥ सिद्धरूपं हि योग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वानियोगता१०९ Page #271 -------------------------------------------------------------------------- ________________ २६२ तत्त्वार्थश्लोकवार्तिके [सू० ३२ पुरुष एव नियोग इत्यन्यः । ममेदं कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगः सादबाधितः॥११०॥ कार्यस्य सिद्धौ जातायां तद्युक्तः पुरुषः सदा । भवेत्साधित इत्येवं पुमान् वाक्यार्थ उच्यते१११ सोऽयमेकादशविकल्पो नियोग एव वाक्यार्थ इत्येकांतो विपर्ययः प्रभाकरस्य तस्य सर्वस्याप्येकादशभेदस्य प्रत्येकं प्रमाणाद्यष्टविकल्पानतिक्रमात् । यदुक्तंप्रमाणं किं नियोगः स्यात्प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः॥११२॥ शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ११३ तत्रैकादशभेदोपि नियोगो यदि प्रमाणं तदा विधिरेव वाक्यार्थ इति वेदांतवादप्रवेशः प्रभाकरस्य स्यात् प्रमाणस्य चिदात्मकत्वात् , चिदात्मनः प्रतिभासमात्रत्वात्तस्य च परब्रह्मत्वात् । प्रतिभासमात्राद्धि पृथग्विधिः कार्यतया न प्रतीयते घटादिवत् प्रेरकतया वचनादिवत् । कर्मकारणसाधनतया च हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा । किं तर्हि, द्रष्टव्योऽरेऽयमात्मा श्रोतव्योऽनुमंतव्यो निदिध्यासितव्य इत्यादि श्रवणादवस्थांतरविलक्षणेन प्रेरितोहमिति जाताकूतेनाकारणैव खयमात्मैव प्रतिभाति स एव विधिरिति वेदांतवादिभिरभिधानात् । प्रमेयत्वं तर्हि नियोगस्यास्तु प्रमाणत्वे दोषाभिधानात् इति कश्चित् । तदसत् , प्रमाणवचनाभावात् । प्रमेयत्वे हि तस्य प्रमाणमन्यद्वाच्यं, तदभावे क्वचित्प्रमेयत्वायोगात् । श्रुतिवाक्यं प्रमाणमिति चेन्न तस्याचिदात्मकत्वे प्रमाणत्वाघटनादन्यत्रोपचारात् । संविदात्मकत्वे श्रुतिवाक्यस्य पुरुष एव तदिति स एव प्रमाणं तत्संवेदनविवर्तश्च । नियुक्तोहमित्यभिधानरूपो नियोगः प्रमेय इति नायं पुरुषादन्यः प्रतीयते यतो वेदांतवादिमतानुप्रवेशोऽस्मिन्नपि पक्षे न संभवेत् । प्रमाणप्रमेयस्वभावो नियोग इतिचेत् सिद्धस्तर्हि चिद्विवर्तोसौ प्रमाणरूपतान्यथानुपपत्तेः । तथा च स एव चिदात्मोभयखभावतयात्मानमादर्शयन् नियोग इति स एव ब्रह्मवादः । अनुभवस्वभावो नियोग इति चेत् तर्हि संवेदनमात्रमेव पारमार्थिकं तस्य कदाचिदहेयत्वात् तथाविधत्वसंभवात् सन्मात्रदेहतया निरूपितत्वादिति वेदांतवाद एव । शब्दव्यापारो नियोग इति चेत् भट्टमतप्रवेशः, शब्दव्यापारस्य शब्दभावनारूपत्वात् । पुरुषव्यापारो नियोग इति चेत्, स एव दोषः तस्यापि भावनारूपत्वात् ; शब्दात्मव्यापाररूपेण भावनाया द्वैविध्याभिधानात् । तदुभयरूपो नियोग इत्यनेनैव व्याख्यातं । तदनुभयव्यापाररूपत्वे तन्नियोगस्य विषयखभावता फलखभावता निःखभावता वा स्यात् ? प्रथमपक्षे यागादिविषयस्याग्निष्टोमादिवाक्यकाले विरहात् तद्रूपस्य नियोगस्यासंभव एव । संभवे वा न वाक्यार्थी नियोगस्तस्य निष्पादनार्थत्वात् निष्पन्नस्य निष्पादनायोगात् पुरुषादिवत् । द्वितीये पक्षेपि नासौ नियोगः फलस्य भावत्वेन नियोगत्वाघटनात् तदा तस्यासंनिधानाच्च । तस्य वाक्यार्थत्वे निरा. लंबनशब्दवादाश्रयणात्कुतः प्रभाकरमतसिद्धिः ? निःस्वभावत्वे नियोगस्यायमेव दोषः । किं च, सन् वा नियोगः स्यादसन् वा ? प्रथमपक्षे विधिवाद एवं द्वितीये निरालंबनवाद इति न नियोगो वाक्यार्थः संभवति; परस्य विचारासंभवात् । तथा वाक्यार्थ इत्येकांतोपि विपर्ययस्तथा व्यवस्थापयितुमशक्तेः । भावना हि द्विविधा शब्दभावना अर्थभावना चेति “शब्दात्मभावनामाहुरन्यामेव लिङादयः । इयं त्वन्यैव सर्वार्था सर्वाख्यातेषु विद्यते” इति वचनात् । अत्र शब्दभावना शब्दव्यापारस्तत्र शब्दव्यापारो भाव्यते पुरुषव्यापारेण धात्वर्थो धात्वर्थेन च फलमिति शब्दभावनावादिनो मतं, तच्च न युज्यते शब्दव्यापारस्य शब्दार्थत्वायोगात् । न ह्यग्निष्टोमेन यजेत खर्गकाम इति शब्दात्तद्व्यापार एव प्रतिभाति खयमेकस्य प्रतिपाद्यप्रतिपादकत्वविरोधात् । प्रतिपादकस्य सिद्धरूपत्वात्प्रतिपाद्यस्य चासिद्धस्य तथात्व Page #272 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २६३ सिद्धेरेकस्य च सकृत्प्रतिसिद्धेतररूपत्वासंभवात्तद्विरोधः । शब्दः खरूपमपि श्रोत्रज्ञानेर्पयतीति तस्य प्रतिपादकत्वाविरोधे रूपादयोपि स्वस्य प्रतिपादकाः संचक्षुरादिज्ञाने खरूपादयोप्यऽर्पणाद्विशेषाभावात् । स्वाभिधेयप्रतिपादकत्वसमर्पणात् । प्रतिपादकः शब्दो न रूपादय इति चायुक्तिकं, शब्दस्य स्वाभिधेयप्रतिपादकत्वसमर्पणे स्वयं प्रसिद्धे परोपदेशानर्थक्यप्रसंगात् । खत एव शब्देन ममेदमभिधेयमिति प्रतिपादनात् । पुरुषसंकेतबलात्खाभिधेयप्रतिपादनव्यापारमात्मनः शब्दो निवेदयतीति चेत्, तर्हि यत्रार्थे संकेतितः शब्दस्तस्यार्थस्य पुरुषाभिप्रेतस्य प्रतिपादकत्वं तस्य व्यापार इति न शब्दव्यापारो भावना वक्रभिप्रायरूढार्थः । कथं ? तस्य तथाभिधानात् । तथा च कथमग्निष्टोमादिवाक्येन भावन पुरुषस्य यागविषयप्रवृत्तिलक्षणो व्यापारो भाव्यते पुरुषव्यापारेण वा धात्वर्थो यजनक्रियालक्षणो धात्वर्थेन फलं स्वर्गाख्यं यतो भाव्यभावककरणरूपतया त्र्यंशपरिपूर्णा भावना विभाव्यत इति पुरुषव्यापारो भावनेत्यत्रापि पुरुषो यागादिना स्वर्गं भावयतीति कथ्यते । न चैवं धात्वर्थभावना शब्दार्थः स्वर्गस्यासंनिहितत्वात् । प्रतिपादयितृविवक्षाबुद्धौ प्रतिभासमानस्य शब्दार्थत्वे बौद्ध विशब्दार्थ इत्यभिमतं स्यात् । तदुक्तं । “वक्तृव्यापारविषयो योर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबंधनम् ॥” इति न भावनावादावतारो मीमांसकस्य, सौगतप्रवेशानुषंगादिति । तथा धात्वर्थो वाक्यार्थ इत्येकांतो विपर्ययः शुद्धस्य भावस्वभावतया विधिरूपत्वप्रसंगात् । तदुक्तं । " सन्मात्रं भावलिंगं स्यादसंपृक्तं तु कारकैः । धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते ॥” इति विधिवाद एव, न च प्रत्ययार्थस्तयोर्धात्वर्थः कुतश्चिद्विधिवाक्यात् प्रतीयते तदुपाधेरेव तस्य ततः प्रतीतेः । प्रत्ययार्थस्तत्र प्रतिभासमानोपि न प्रधानं कर्मादिवदन्यत्रापि भावनादितिचेत्, तर्हि धात्वर्थोपि प्रधानं मा भूत् प्रत्ययांतरेपि भावात् । प्रकृतप्रत्ययापायेपीति समानं पश्यामः । नन्वेवं धात्वर्थस्य सर्वत्र प्रत्यये - ष्वनुस्यूतत्वात् प्रधानत्वमिष्यत इति चेत्, प्रत्ययार्थस्य सर्वधात्वर्थेष्वनुगतत्वात् प्रधानत्वमस्तु । प्रत्ययार्थविशेषः सर्वधात्वर्थाननुयायीति चेत्, धात्वर्थविशेषोपि सर्वप्रत्ययार्थाननुगाम्येव धात्वर्थसामान्यस्य सर्वप्रत्ययार्थाननुपायित्वमिति न विशेषसिद्धिः । तथा विधिर्वाक्यार्थ इत्येकांतोपि विपर्ययस्तस्य विचार्यमाणस्यायोगात् । तद्धि विधिविषयं वाक्यं गुणभावेन प्रधानभावेन विधौ प्रमाणं स्यात् ? यदि गुणभावेन तदाग्निहोत्रं जुहुयात् खर्गकाम इत्यादेरपि तदस्तु, गुणभावेन विधिविषयत्वस्य भावात् । तत्र भट्टमतानुसारिभिर्भावनाप्राधान्योपगमात् प्राभाकरैश्च नियोगागोचरत्वप्रधानांगीकरणात् । तौ च भावनानियोगौ नासद्विषय प्रवर्तेते प्रतीयेते वा सर्वथाप्यसतोः प्रवृत्तौ प्रतीतौ वा शशविषाणादेरपि तदनुषक्तेः सद्रूपतां च तयोर्विधिनांतरीयकत्वसिद्धेः सिद्धं गुणभावेन विधिविषयत्वं वाक्यस्येति न प्रमाणतापत्तेर्विप्रतिपत्तिः येन कर्मकांडस्य पारमार्थिकता न भवेत् । प्रधानभावेन विधिविषयं वेदवाक्यं प्रमाणमिति चायुक्तं, विधेः सत्यत्वे द्वैतावतारात् । तदसत्यत्वे प्राधान्यायोगात् । तथाहि – यो योऽसत्यः स स न प्रधानभावमनुभवति यथा तदविद्याविलासः तथा चासत्यो विधिरिति न प्रधानभावेन तद्विषयतोपपत्तिः । स्यान्मतं, न सम्यगवधारितं विधेः स्वरूपं भवता तस्यैवमव्यवस्थितत्वात् । प्रतिभासमात्राद्धि पृथग्विधिः कार्यतया न प्रतीयते घटादिवत् प्रेरकतया वा वचनादिवत् । कर्मकरणसाधनतया हि तत्प्रतीत कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा । किं तर्हि द्रष्टव्योऽरेऽयमात्मा श्रोतव्यो अनुमन्तव्यो निदिध्यासितव्य इत्यादि शब्दश्रवणादवस्थांतर विलक्षणेन प्रेरितोहमिति जाताकूतेनाकारेण खयमात्मैवप्रतिभाति, स एव विधिरित्युच्यते । तस्य ज्ञानविषयतया संबंधमधितिष्ठतीति प्रधानभावविभावनाविधिर्न विहन्यते, तथाविधवेदवाक्यादात्मन एव विधायकतया बुद्धौ प्रतिभासनात् । तद्दर्शनश्रवणा · Page #273 -------------------------------------------------------------------------- ________________ २६४ तत्त्वार्थश्लोकवार्तिके [सू० ३२ मनननिदिध्यासनरूपस्य विधीयमानतयानुभवात् । तथा च खयमात्मानं द्रष्टुं श्रोतुमनुमंतुं निध्यातुं वा प्रवर्तते, अन्यथा प्रवृत्त्यसंभवेप्यात्मनः प्रेरितोहमित्यत्र गतिरप्रमाणिका स्यात् । ततो नासत्यो विधिर्येन प्रधानता न विरुध्यते । नापि सत्यत्वे द्वैतसिद्धिः आत्मस्वरूपव्यतिरेकेण तदभावात् , तस्यैकस्यैव तथा प्रतिभासनात् इति । तदप्यसत्यं । नियोगादिवाक्यार्थस्य निश्चयात्मतया प्रतीयमानत्वात् । तथाहि-नियोगस्तावदग्निहोत्रादिवाक्यादिवत् द्रष्टव्यो रेऽयमात्मा इत्यादिवचनादपि प्रतीयते एव . नियुक्तोहमनेन वाक्येनेति निरवशेषो योगो नियोगः प्रतिभाति मनागप्ययोगाशंकानवतारादवश्यकर्तव्यतासंप्रत्ययात् । कथमन्यथा तद्वाक्यश्रवणादस्य प्रवृत्तिरुपपद्यते, मेघध्वन्यादेरपि प्रवृत्तिप्रसंगात् । स्यादेतत् । मिथ्येयं प्रतीतिनियोगस्य विचार्यमाणस्य प्रवृत्तिहेतुत्वायोगात् । स हि प्रवर्तकखभावो वा स्यादतत्वभावो वा ? प्रथमकल्पनायां प्राभाकराणामिव ताथागतादीनामपि प्रवर्तकः स्यात् । सर्वथा प्रवर्तकत्वात् तेषां विपर्यासादप्रवर्तक इत्यपि न निश्चेतुं शक्यं परेषामपि विपर्यासात्प्रवर्तकत्वादनुषंगात् । प्राभाकरा हि विपर्यस्तमनसः शब्दनियोगात् प्रवर्तते नेतरे सविपर्यस्तत्वादिति वदतो निवारयितुमशक्तेः सौगतादिमतस्य प्रमाणबाधितत्वात् त एव विपर्यस्ता न प्राभाकरा इत्यपि पक्षपातमात्रं तन्मतस्यापि प्रमाणबाधनाविशेषात् । यथैव हि प्रतिक्षण विनश्वरसकलार्थवचनं प्रत्यक्षादिविरुद्धं तथा नियोगाद्विषयादिभेदकल्पनमपि सर्वप्रमाणानां विधिविषयतयावधारणात् सदेकत्वस्यैव परमार्थतोपपत्तेः । यदि पुनरप्रवर्तकखभावः शब्दनियोगस्तदा सिद्ध एव तस्य प्रकृतिहेतुत्वायोगः फलरहिताद्वा नियोगमात्रान्न प्रेक्षावतां प्रवृत्तिरप्रेक्षावत्त्वप्रसंगात् , प्रयोजनमनुद्दिश्य न मंदोपि प्रवर्तत इति प्रसिद्धेश्च । प्रचंडपरिहढवचननियोगादफलादपि प्रवर्तनदर्शनाददोष इति चेन्न, तन्निमित्तापायपरिरक्षणस्य फलत्वात् । तन्नियोगादप्रवर्तने हि ममानपायोवश्यं भावीति तन्निवारणाय प्रवर्तमानानां प्रेक्षावतामपि तत्त्वाविरोधात् । तर्हि वेदवचनादपि नियुक्तप्रत्यवायपरिहाराय प्रवर्ततां "नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया" इति वचनात् । कथमिदानी खर्गकाम इति वचनमवतिष्ठते, जुहुयात् जुहोतु होतव्यमिति लिंङ्लोट्तव्यप्रत्ययांतनिर्देशादेव नियोगमात्रप्रतिपत्तेः, तत एव च प्रवृत्तिसंभवात् । फलसहितान्नियोगात् प्रवृत्तिफलसिद्धौ च फलार्थितैव प्रवर्तिका न नियोगस्तमंतरेणापि फलार्थिनां प्रवृत्तिदर्शनात् । पुरुषवचनान्नियोगे अयमुपालंभो नापौरुषेयाग्निहोत्रादिवाक्यनियोगे तस्यानुपालभ्यत्वात् । इति न युक्तं, “सर्व खल्विदं ब्रह्म" इत्यादि वचनस्याप्यनुपालभ्यत्वसिद्धेर्वेदांतवादपरिनिष्ठानात् । तस्मान्न नियोगो वाक्यार्थः कस्यचित्प्रवृत्तिहेतुरिति । तदेतद्विधिवादिनोपि समानं विधेरपि प्रवृत्तिहेतुत्वायोगस्या विशेषात् । प्रकृविकल्पानतिवृत्तेः । तस्यापि हि प्रवर्तकखभावत्वे वेदांतवादिनामिव प्रामाकरतथागतादीनामपि प्रवर्तकत्वप्रसक्तेरप्रवर्तकखभावात्तेषामपि न प्रवर्तको विधिः स्यात् । खयमविपर्यस्तास्ततः प्रवर्तते न विपयस्ता इति चेत्, कुतः संविभागो विभाव्यतां । प्रमाणाबाधितेतरमताश्रयणादितिचेत् , तर्हि वेदांतवादिनः कथं न विपर्यस्ताः सर्वथा सवैकत्वमतस्याध्यक्षविरुद्धत्वात् परस्परनिरपेक्षद्रव्यगुणादिभेदाभेदमननवत् । तद्विपरीतस्यानेकांतस्य जात्यंतरस्य प्रतीतेः फलरहितश्च विधिन प्रवर्तको नियोगवत् । सफलः प्रवर्तक इतिचेत् , किंचिज्ज्ञानां फलार्थिनां फलाय दर्शनादेव प्रवृत्त्युपपत्तेः । पुरुषाद्वैते न कश्चित् कुतश्चित् प्रवर्तत इतिचेत् , सिद्धस्तर्हि विधिरप्रवर्तको नियोगवदिति न वाक्यार्थः । पुरुषाद्वैतवादिनामुपनिषद्वाक्यादात्मनि दर्शनश्रवणानुमनननिध्यानविधानेप्यप्रवर्तने कुतस्तेषां तदभ्यासः साफल्यमनुभवति मत्तोन्मत्तादिप्रलापवत् , कथं वा सर्वथाप्यप्रवर्तको विधिरेव वाक्यार्थो न पुनर्नियोगः पटादिवत् पदार्थातरत्वेनाप्रतिभासनात् । नियुज्यमानविषयनियोक्तृधर्मत्वेन चानवस्थानान्न नियोगो वाक्यार्थ इति Page #274 -------------------------------------------------------------------------- ________________ २६५ प्रथमोऽध्यायः। चेत् तदितरत्र समानं, विधेरपि घटादिवत्पदार्थांतरत्वेनाप्रतिभासनाद्विधाप्यमानविषयविधायकधर्मत्वे व्यवस्थितेश्च । यथैव हि नियोज्यस्य पुंसो धर्मे नियोगे अननुष्ठेयता नियोगस्य सिद्धत्वादन्यथानुष्ठानोपरमाभावानुषंगात् कस्यचित्तद्रूपस्यासिद्धस्याभावाद्, ससिद्धरूपतायां वा नियोज्यत्वं विरोधाद्वंध्यास्तनंधयादिवत् । सिद्धरूपेण नियोज्यत्वे असिद्धरूपेण वा नियोज्यतामेकस्य पुरुषस्यासिद्धसिद्धरूपसंकरान्नि• योज्येतरत्व विभागासिद्धिस्तद्रूपासंकरे वा भेदप्रसंगादात्मनः सिद्धासिद्धरूपयोः संबंधाभावोनुपकारात् । उपकारकल्पनायामात्मनस्तदुपकार्यत्वे नित्यत्वहानिस्तयोरात्मोपकार्यत्वे सिद्धरूपस्य सर्वथोपकार्यत्वव्याघातोऽसिद्धरूपस्याप्युपकार्यत्वेन गगनकुसुमादेरुपकार्यत्वानुषंगः । सिद्धासिद्धरूपयोरपि कथंचिदसिद्धरूपोपगमे प्रकृतपर्यनुयोगानिवृत्तेरनवस्थानुषंग इत्युपालंभः । तथा विधीयमानस्य पुरुषस्य धर्मे विधावपि सिद्धस्य पुंसो दर्शनश्रवणानुमनननिध्यानविधानविरोधात् । तद्विधाने वा सर्वदा तदनुपरतिप्रसक्तिः । दर्शनादिरूपेण तस्यासिद्धौ विधानव्याघातः कूर्मरोमादिवत् । सिद्धरूपेण विधाप्यमानस्य विधाने सिद्धरूपेण विधाने सिद्धासिद्धरूपेण वा विधाने सिद्धासिद्धरूपसंकरात् विधाप्येतरविभागासिद्धेस्तद्रूपासंकरे वा भेदप्रसंगादात्मनः सिद्धासिद्धरूपयोस्तत्संबंधाभावादिदोषासंजननस्याविशेषः । तथा विषयस्य यागलक्षणस्य धर्मे नियोगे तस्यापरिनिष्पन्नत्वात् स्वरूपाभावाद्वाक्येन प्रत्येतुमशक्यत्वस्य विधावपि विषयधर्मे समानत्वात् कुतो विषयधर्मे विधिः ? पुरुषस्यैव विषयतयावभासमानस्य विषयत्वात्तस्य वा परिनिष्पन्नत्वान्न तद्धर्मस्य विधेरसंभव इति चेत् , तर्हि यजनाश्रयस्य द्रव्यादेः सिद्धत्वात्तस्य विषयत्वात्कथं तद्धर्मो नियोगोपि न सिध्येत् ? येन रूपेण विषयो विद्यते तेन धर्मेण नियोगोपीति, तदनुष्ठानाभावे विधिविषयो येन रूपेण नास्ति तेन तद्धर्मस्य विधेः कथमनुष्ठानं ? येनात्मनास्ति तेनानुष्ठानमितिचेत् तन्नियोगेन समानं । कथमसन्नियोगोऽनुष्ठीयते अप्रतीयमानत्वात् खरविषाणवत् इति चेत् , तत एव विधिरपि नानुष्ठेयः । प्रतीयमानतया सिद्धत्वादनुष्ठेयो विधिरिति चेत् , नियोगोपि तथास्तु । नन्वनुष्ठेयतयैव नियोगोवतिष्ठते न प्रतीयमानतया तस्याः सकलवस्तुसाधारणत्वात् । अनुष्ठेयता चेप्रतिभाता कोन्यो नियोगो यस्यानुष्ठितेरितिचेत् , तर्हि विधिरपि न प्रतीयमानतया प्रतिष्ठामनुभवति किं तु विधीयमानतया । सा चेदनुभूता कोन्यो विधिर्नाम ? यस्य विधानमुपनिषद्वाक्यादुपवर्ण्यते । द्रष्टव्यादिवाक्येनात्मदर्शनादिविहितं ममेति प्रतीतेरप्रतिक्षेपार्हो विधिः कथमपाक्रियते ? किमिदानीमग्निहोत्रादिवाक्येन यागादिविषये नियुक्तोहमिति प्रतीतिर्न विद्यते, येन नियोगः प्रतिक्षिप्यते । सा प्रतीतिरप्रमाणमितिचेत् , विधिप्रतीतिः कथमप्रमाणं न स्यात् ? पुरुषदोषरहितवेदवचनोपजनितत्वादितिचेत् , तत एव नियोगप्रतीतिरप्यप्रमाणं मा भूत् सर्वथाप्यविशेषात् । तथापि नियोगस्य विषयधर्मस्यासंभवे विधेरपि धर्मस्य न संभवः । शब्दस्य विधायकस्य च धर्मो विधिरित्यपि न निश्चेतुं शक्यं, नियोगस्यापि नियोक्तृशब्दधर्मार्थप्रतिघाताभावानुषक्तेः । शब्दस्य सिद्धरूपत्वान्न तद्धर्मों नियोगः कथमसिद्धो येनासौ संपाद्यते कस्यचिदित्यपि न मंतव्यं, विधिसंपादनविरोधात् तस्यापि सिद्धोपनिषद्वाक्यधर्मत्वाविशेषात् । प्रसिद्धस्यापि संपादने पुनः पुनस्तत्संपादने प्रवृत्त्यनुपरमात्कथमुपनिषद्वचनस्य प्रमाणता अपूर्वार्थताविरहात् स्मृतिवत् । तस्य वा प्रमाणत्वे नियोगवाक्यं प्रमाणमस्तु विशेषाभावात् । स्यान्मतं, नियोगस्य सर्वपक्षेषु विचार्यमाणस्यायोगात्तद्वचनमप्रमाणं । तेषां हि न तावत्कार्य शुद्धं नियोगः प्रेरणा नियोज्यवर्जितस्य नियोगस्यासंभवात् । तस्मिन् नियोगसंज्ञाकरणे वकंबलस्य कुर्दालिकेति नामांतरकरणमात्रं स्यात् । न च तावता खेष्टसिद्धिः । शुद्धा प्रेरणा नियोग इत्यप्यनेनापास्तं, नियोज्यफलरहितायाः प्रेरणायाः प्रलापमानत्वात् । प्रेरणासहितं ३४ Page #275 -------------------------------------------------------------------------- ________________ २६६ तत्त्वार्थश्लोकवार्तिके [सू० ३२ कार्य नियोग इत्यप्यसंभवि, नियोगाद्यसंभवे तद्विरोधात् । कार्यसहिता प्रेरणा नियोग इत्यप्यनेन निरस्तं । कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोग इत्यप्यसारं; नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्तकत्वोपचारायोगात्, कदाचित्कचित्परमार्थतस्तस्य तथानुपलंभात् । कार्यप्रेरणयोः संबंधो नियोग इति वचनमसंगतं, ततो भिन्नस्य संबंधस्य संबंधिनिरपेक्षस्य नियोगत्वेनाघटनात् । संबंधात्मनः संबंधस्य नियोगत्वमित्यपि दुरन्वयं, प्रेर्यमाणपुरुषनिरपेक्षयोः संबंधात्मनोरपि कार्यप्रेरणयोः नियोगत्वानुपपत्तेः । . समुदायनियोगवादोप्यनेन प्रत्याख्यातः । कार्यप्रेरणास्वभावनिर्मुक्तस्तु नियोगो न विधिवादमतिशेते । यत्पुनः खर्गकामः पुरुषोमिहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयमारूढमात्मानं मन्यमानः प्रवर्तत इति यंत्रारूढनियोगवचनं तदपि न परमात्मवादे प्रतिकूलं, पुरुषाभिमानमात्रस्य नियोगत्ववचनात् तस्य चाविद्योदयनिबंधनत्वात् । भोग्यरूपो नियोग इति चायुक्तं, नियोक्तृप्रेरणाशून्यस्य भोग्यस्य तदभावानुपपत्तेः । पुरुषखभावोपि न नियोगो घटते, तस्य शाश्वतिकत्वेन नियोगस्य शाश्वतिकत्वप्रसंगात् । पुरुषमात्रविधेरेव तथा विधाने वेदांतवादिपरिसमाप्तेः । कुतो नियोगवादो नामेति ? तदेतदसारं, सर्वथा विधेरपि वाक्यार्थानुपपत्तेः । सोपि हि शब्दादेर्द्रष्टव्यतादिव्यवच्छेदेन रहितो यदीष्यते तदा न कदाचित्प्रवृत्तिहेतुः, प्रतिनियतविषयविधिनांतरीयकत्वात् प्रेक्षावत्प्रवृत्तेः तस्य वा तद्विषयपरिहाराविनाभावित्वात् कटः कर्तव्य इति यथा । न हि कटकर्तव्यताविधिरतव्यवच्छेदमंतरेण व्यवहारमार्यमवतारयितुं शक्यः । परपरिहारसहितो विधिः शब्दार्थ इति चेत् , तर्हि विधिप्रतिषेधात्मकः शब्दार्थ इति कुतो विध्येकांतवादप्रतिष्ठा प्रतिषेधैकांतवादवत् । स्यान्मतं, परपरिहारस्य गुणीभूताद्विधेरेव प्रवृत्त्यंगत्वे प्राधान्याद्विधिः शब्दार्थ इति । कथमिदानी शुद्धकार्यादिरूपनियोगव्यवस्थितिर्न स्यात् ? कार्यस्यैव शुद्धस्य प्रवृत्त्यंगतया प्रधानत्वोपपत्तेः, नियोज्यादेः सतोपि गुणीभावात् । तद्वप्रेरणादिखभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् । तदितरस्य सतोपि गुणीभावाध्यवसायादुक्तो नियोगः शब्दार्थः । शुद्धकार्यप्रेरणादिषु खाभिप्रायात् कस्यचित्प्रधानभावेपि पराभिप्रायात्प्रधानत्वाभावादन्यतरस्यापि खभावस्याव्यवस्थितेनैकस्यापि शब्दार्थत्वमिति चेत् , तर्हि पुरुषाद्वैतवाद्याशयवशाद्विधेः प्रधानत्वेपि तथागतमताश्रयणादप्रधानताघटनात् सोपि न प्रतिष्ठामटाट्येत विप्रतिपत्तिसद्भावाविशेषात् । प्रमाणरूपश्च यदि विधिः तदा प्रमेयमन्यद्वाच्यं । तत्खरूपमेव प्रमेयमितिचेत् , कथमस्यार्थद्वयरूपता न विरुध्यते ? कल्पनयेतिचेत् , तमुन्यापोहः शब्दार्थः कथं प्रतिषिध्यते ? प्रमाणत्वव्यावृत्त्या विधेः प्रमाणत्ववचनादप्रमेयव्यावृत्त्या च प्रमेयत्वपरिकल्पनात् । पदार्थखरूपविधायकत्वमंतरेणान्यापोहमात्रविधायकस्य शब्दस्य कचित्प्रवर्तकत्वायोगादन्यापोहो न शब्दार्थ इतिचेत्, तर्हि पदार्थस्वरूपविधायकस्यापि शब्दस्यान्यापोहानभिधायिनः कथमन्यपरिहारेण कचित्प्रवृत्तिनिमित्तत्वसिद्धिः येन विधिमात्रं शब्दार्थः स्यात् । परमपुरुष एव विधिः स एव च प्रमाणं प्रमेयं चाविद्यावशादाभासते प्रतिभासमात्रव्यतिरेकेण व्यावृत्त्यादेरप्यसंभवादित्यपि दत्तोत्तरं, प्रतिभासव्यतिरिक्तस्य प्रतिभास्यस्यार्थस्य व्यवस्थापितात्वात् । प्रमेयरूपो विधिरिति वचनमयुक्तं, प्रमाणाभावे प्रमेयरूपत्वायोगात्तस्यैव च द्वयरूपत्वविरोधात् । कल्पनावशाद्विधेयरूपत्वे अन्यापोहवादानुषंगस्याविशेषात् । प्रमाणप्रमेयोभयरूपो विधिरित्यप्यनेन निरस्तं भवतु । अनुभयरूपोऽसावितिचेत् , खरशृंगादिवदवस्तुतापत्तिः कथमिव तस्य निवार्यतां? तथा यंत्रारूढो वाक्यार्थ इत्येकांतोपि विपर्यय एवान्यापोहमंतरेण तस्य प्रवर्तकत्वायोगाद्विधिवचनवत् । एतेन भोग्यमेव पुरुष एव वाक्यार्थ इत्यप्येकान्तो निरस्तः, योगविशेषतया च यंत्रारूढादेः प्रतिविहितत्वात् । न पुनस्तत्प्रतिविधानेतितरामादरोस्माकमित्युपरम्यते । तथान्यापोह एव | Page #276 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २६७ शब्दार्थ इत्येकांतो विपर्ययः स्वरूपविधिमंतरेणान्यापोहस्यासंभवात् । वऋभिप्रायारूढस्यार्थस्य विधिरेवान्यापोह इत्थं इति चेत् , तथैव बहिरर्थस्य विधिरस्तु विशेषाभावात् । तेन शब्दस्य संबंधाभावान्न शब्दात्तद्विधिरिति चेत्, तत एव वक्रभिप्रेतस्याप्यर्थस्य विधिर्मा भूत् । तेन सह कार्यकारणभावस्य संबंधस्य सहायाच्छब्दस्य तद्विधायित्वमिति चेन्न, विवक्षामंतरेणापि सुप्ताद्यवस्थायां शब्दस्य प्रवृत्ति• दर्शनात्कार्यत्वाद्यवस्थानात् । प्रतिक्षिप्तश्चान्यापोहैकांतः पुरस्तादिति तर्कितं । नियोगो भावना धात्वर्थी विधियंत्रारूढादिरन्यापोहो वा यदा कैश्चिदेकांतेन विषयो वाक्यस्यानुमन्यते तदा तज्जनितं वेदनं श्रुताभासं प्रतिपत्तव्यं, तथा वाक्यार्थनिर्णीतेर्विधातुं दुःशकत्वादिति ।। कः पुनरवधिविपर्यय इत्याह;• भवं प्रतीत्य यो जातो गुणं वा प्राणिनामिह । देशावधिः स विज्ञेयो दृष्टिमोहाद्विपर्ययः११३ सत्संयमविशेषोत्थो न जातु परमावधिः । सर्वावधिरपि व्यस्तो मनःपर्ययबोधवत् ॥११४ ॥ परमावधिः सर्वावधिश्च न कदाचिद्विपर्ययः सत्संयमविशेषोत्थत्वात् मनःपर्ययवदिति । देशावधिरेव कस्यचिन्मिथ्यादर्शनाविर्भावे विपर्ययः प्रतिपाद्यते । किं पुनः कर्तुं प्रमाणात्मकसम्यग्ज्ञानविधौ प्रकृते विपर्ययं ज्ञानमनेकधा मत्यादि प्ररूपितं सूत्रकारैरित्याह; इति प्रमाणात्मविबोधसंविधौ विपर्ययज्ञानमनेकधोदितम् । विपक्षविक्षेपमुखेन निर्णयः सुबोधरूपेण विधातुमुद्यतः ॥ ११५ ॥ पूर्व सम्यगवबोधस्वरूपावधिरूपमुखेन निर्णयं विधाय विपक्षविक्षेपमुखेनापि तं विधातुमुद्यतैरनेकधा विपर्ययज्ञानमुदितं वादिनोभयं कर्तव्यं स्वपरपक्षसाधनदूषणमिति न्यायानुसरणात् , खविधिसामर्थ्यात् प्रतिषेधस्य सिद्धेस्तत्सामर्थ्याद्वा स्वपक्षविधिसिद्धेनौभयवचनमर्थवदिति प्रवादस्यावस्थापितुमशक्तेः, सर्वत्र सामर्थ्य सिद्धस्यावचनप्रसंगात् । खेष्टव्याघातस्यानुषंगात् । क्वचित्सामर्थ्यसिद्धस्यापि वचने स्याद्वादन्यायस्यैव सिद्धेः सर्व शुद्धम् ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य चतुर्थमाह्निकम् ॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥ ३३ ॥ किं कृत्वाधुना किं च कर्तुमिदं सूत्रं ब्रवीतीत्याह;निर्देश्याधिगमोपायं प्रमाणमधुना नयान् । नयैरधिगमेत्यादि प्राह संक्षेपतोखिलान् ॥१॥ प्रमाणनयैरधिगम इत्यनेन प्रमाणं नयाश्चाधिगमोपाया इत्युद्दिष्टं । तत्र प्रमाणं तत्त्वार्थाधिगमोपायं प्रपंचतो निर्देश्याधुना नयांस्तदधिगमोपायानखिलान् संक्षेपतोन्यथा च व्याख्यातुमिदं प्राह भगवान् । कथं ? नयसामान्यस्य तल्लक्षणस्यैव संक्षेपतो विभागस्य विशेषलक्षणस्य च विस्तरतो नयविभागस्य अतिविस्तरतो नयप्रपंचस्य चात्र प्रतिपादनात् सर्वथा नयप्ररूपणस्य सूत्रितत्वादिति ब्रूमहे ।। तत्र सामान्यतो नयसंख्यां लक्षणं च निरूपयन्नाह;सामान्यादेशतस्तावदेक एव नयः स्थितः । स्याद्वादप्रविभक्तार्थविशेषव्यंजनात्मकः ॥२॥ सामान्यादेशात्तावदेक एव नयः स्थितः सामान्यस्यानेकत्वविरोधात् । स च स्याद्वादप्रविभक्तार्थविशेषव्यंजको नय इति वचनात् । ननु चेदं हेतुर्लक्षणवचनमिति केचित् । तदयुक्तं । हेतोः स्याद्वादेन प्रविभक्तस्यार्थस्य सकलस्य विशेषं व्यंजयितुमसमर्थत्वादन्यत्रोपचारात् । हेतुजनितस्य बोधस्य व्यंजकः Page #277 -------------------------------------------------------------------------- ________________ २६८ तत्त्वार्थश्लोकवार्तिके [सू० ३३ प्रधानभावत एव युक्तः । स च नय एव स्वार्थैकदेशव्यवसायात्मकत्वादित्युक्तं । नन्वेवं दृष्टेष्टविरुद्धेनापि रूपेण तस्य व्यंजको नयः स्यादिति न शंकनीयं, “सधर्मणैव शाब्दस्य साधादविरोधतः” इति वचनात् । समानो हि धर्मो यस्य दृष्टांतस्य तेन साधर्म्य साध्यस्य धर्मिणो मनागपि वैधाभावात् । ततोस्याविरोधेनैव व्यंजक इति निश्चीयते दृष्टांतसाधाददृष्टांतोत्सरणादित्यनेन दृष्टविरोधस्य निवर्तनात् । ननु कथंचिदपि दृष्टांतवैधाद् दृष्टवैपरीत्यादित्यनेनेष्टविरोधस्य परिहरणात् दृष्टविपरीतस्य । सर्वथानिष्टत्वात् खयमुदाहृतश्चैवं लक्षणो नयः खामिसमंतभद्राचार्यैः । “सदेव सर्व को नेच्छेत्खरूपादिचतुष्टयात्" इति सर्वस्य वस्तुनः स्याद्वादप्रविभक्तस्य विशेषः सत्त्वं तस्य व्यंजको बोधः खरू. पादिचतुष्टयाद् दृष्टसाधर्म्यस्य स्वरूपादिचतुष्टयात् सन्निश्चितं न पररूपादिचतुष्टयेन तद्वत्सर्व विवादापन्नं सत् को नेच्छेत् ? कस्यात्र विप्रतिपत्तिरिति व्याख्यानात् ॥ संक्षेपतो नयविभागमामर्शयति;संक्षेपावौ विशेषेण द्रव्यपर्यायगोचरौ । द्रव्यार्थो व्यवहारांतः पर्यायार्थस्ततोपरः ॥३॥ विशेषतः संक्षेपाद् द्वौ नयौ द्रव्यार्थः पर्यायार्थश्च । द्रव्यविषयो द्रव्यार्थः पर्यायविषयः पर्यायार्थः प्रथमो नैगमसंग्रहव्यवहारविकल्पः । ततोपरश्चतुर्धा ऋजुसूत्रशब्दसमभिरूद्वैवंभूत विकल्पात् ॥ विस्तरेणेति सप्तैते विज्ञेया नैगमादयः । तथातिविस्तरेणैतद्भेदाः संख्यातविग्रहाः ॥ ४ ॥ कुत एवमतः सूत्राल्लक्ष्यत इत्याह;नयो नयौ नयाश्चेति वाक्यभेदेन योजिताः । नैगमादय इत्येवं सर्वसंख्याभिसूचनात् ॥ ५॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवंभूता नयाः इत्यत्र नय इत्येकं वाक्यं, ते नयौ द्रव्यार्थिकपर्यायार्थिको इति द्वितीयमेते नयाः सप्तेति तृतीयं, पुनरपि ते नयाः संख्याता शब्दत इति चतुर्थ । संक्षेपपरायां वाक्प्रवृत्तौ यौगपद्याश्रयणात् । नयश्च नयौ च नयाश्च नया इत्येकशेषस्य खाभाविकस्याभिधाने दर्शनात् । केषांचित्तथा वचनोपलंभाच्च न विरुध्यते । अत्र वाक्यभेदौ नैगमादिरेकस्य द्वयोश्च सामानाधिकरण्याविरोधाच्च गृहा ग्रामः देवमनुष्या उभौ राशी इति यथा । नन्वेवमेकत्वद्वित्वादिसंख्यागतावपि कथं नयस्य सामान्यलक्षणं द्विधा विभक्तस्य तद्विशेषणं विज्ञायत इत्याशंकायामाह;नयानां लक्षणं लक्ष्यं तत्सामान्यविशेषतः । नीयते गम्यते येन श्रुतार्थाशो नयो हि सः॥६॥ तदंशौ द्रव्यपर्यायलक्षणौ साध्यपक्षिणौ । नीयेते तु यकाभ्यां तौ नयाविति विनिश्चितौ।।७।। नीयतेऽनेनेति नय इत्युक्ते तस्य विषयः सामर्थ्यादाक्षिप्यते । स च श्रुताख्यप्रमाणविषयीकृतस्यांश इति तदपेक्षा निरुक्तिर्नयसामान्यलक्षणे लक्षयति, तथा नीयेते यकाभ्यां तौ नयावित्युक्ते तु द्रव्यार्थिकपर्यायार्थिको नयौ द्वौ तौ च द्रव्यपर्यायाविति तदपेक्षं निर्वचनं नयविशेषद्वयलक्षणं प्रकाशयति । ननु च गुणविषयो गुणार्थिकोपि तृतीयो वक्तव्य इत्यत्राह;गुणः पर्याय एवात्र सहभावी विभावितः । इति तद्गोचरो नान्यस्तृतीयोस्ति गुणार्थिकः॥८॥ पर्यायो हि द्विविधः, क्रमभावी सहभावी च । द्रव्यमपि द्विविधं शुद्धमशुद्धं च । तत्र संक्षेपशुद्धवचने द्वित्वमेव युज्यते, पर्यायशब्देन पर्यायसामान्यस्य खव्यक्तिव्यापिनोभिधानात् । द्रव्यशब्देन च द्रव्यसामान्यस्य स्वशक्तिव्यापिनः कथनात् । ततो न गुणः सहभावी पर्यायस्तृतीयः शुद्धद्रव्यवत् । संक्षेपाविवक्षायां तु विशेषवचनस्य चत्वारो नयाः स्युः, पर्याय विशेषगुणं च द्रव्यविशेषशुद्धद्रव्यस्य पृथगुपादानप्रसंगात् । ननु च द्रव्यपर्याययोस्तद्वांस्तृतीयोस्ति तद्विषयतृतीयो मूलनयोस्तीति चेत् न, Page #278 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २६९ तत्परिकल्पनेऽनवस्थाप्रसंगात् द्रव्यपर्यायस्तद्वतामपि तद्वदंतरपरिकल्पनानुषक्तेर्दुर्निवारत्वात् । यदि तु यथा तंतवोवयवास्तद्वानवयवी पटस्तयोरपि तंतुपटयो न्योस्ति तद्वांस्तस्याप्रतीयमानत्वात् । तथा पर्यायाः खभावास्तद्वद् द्रव्यं तयोरपि नान्यस्तद्वानस्ति प्रतीतिविरोधादिति मतिस्तदा प्रधानभावेन वपर्यायात्मकवस्तुप्रमाणविषयस्तवोपोद्धृतं । द्रव्यमानं द्रव्यार्थिकविषयः पर्यायमानं पर्यायार्थिकविषय इति न तृतीयो • नयविशेषोस्ति यतो मूलनयस्तृतीयः स्यात् । तदेवम् प्रमाणगोचरार्थीशा नीयंते यैरनेकधा । ते नया इति व्याख्याता जाता मूलनयद्वयात् ॥९॥ द्रव्यपर्यायसामान्यविशेषपरिबोधिकाः । न मूलं नैगमादीनां नयाश्चत्वार एव तत् ॥ १०॥ सामान्यस्य पृथक्त्वेन द्रव्यादनुपपत्तितः । सादृश्यपरिणामस्य तथा व्यंजनपर्ययात् ॥ ११ ॥ वैसदृश्यविवर्तस्य विशेषस्य च पर्यये । अंतर्भावाद्विभाव्येत द्वौ तन्मूलं नयाविति ॥ १२॥ नामादयोपि चत्वारस्तन्मूलं नेत्यतो गतं । द्रव्यक्षेत्रादयश्चैषां द्रव्यपर्यायगत्वतः ॥१३॥ भावान्विता न पंचैते स्कंधा वा परिकीर्तिताः । रूपादयो त एवेह तेपि हि द्रव्यपर्ययौ।।१४ तथा द्रव्यगुणादीनां पोढात्वं न व्यवस्थितं । षट् स्युर्मूलनया येन द्रव्यपर्यायग्राहिते ॥१५॥ ये प्रमाणादयो भावा प्रधानादय एव वा । ते नैगमादिभेदानामथो नापरनीतयः ॥१६॥ प्रमाणप्रमेयसंशयप्रयोजनदृष्टांतसिद्धांतावयवतर्कनिर्णयवादजल्पवितंडाहेत्वाभासच्छलजातिनिग्रह स्थानाख्याः षोडश पदार्थाः कैश्चिदुपदिष्टाः, तेपि द्रव्यगुणकर्मसामान्यविशेषसमवायेभ्यो न जात्यंतरत्वं प्रतिपद्यते, गुणादयश्च पर्यायान्नार्थीतरमित्युक्तप्रायं । ततो द्रव्यपर्यायावेव तैरिष्टौ स्यातां, तयोरेव तेषामंतर्भावान्नामादिवत् । येप्याहुः । “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” इति पंचविंशतिस्तत्त्वानीति । तैरपि द्रव्यपर्यायावेवांगीकरणीयौ मूलप्रकृतेः पुरुषस्य च द्रव्यत्वात् , महदादीनां परिणामत्वेन पर्यायत्वात् रूपादिस्कंधसंतानक्षणवत् । ततो नैगमादिभेदानामेवार्थास्ते न पुनरपरानीतयः । अपरानीतिर्येषु त एव छपरानीतयः इति गम्यते, न चैतेषु द्रव्यार्थिकपर्यायार्थिकाभ्यां नैगमादिभेदाभ्यां अपरानीतिः प्रवर्तत इति तावेव मूलनयौ, नैगमादीनां तत एव जातत्वात् ॥ तत्र नैगमं व्याचष्टे:तत्र संकल्पमात्रस्य ग्राहको नैगमो नयः । सोपाधिरित्यशुद्धस्य द्रव्यार्थस्याभिधानतः॥१७॥ संकल्पो निगमस्तत्र भवोयं तत्प्रयोजनः । तथा प्रस्थादिसंकल्पः तदभिप्राय इष्यते ॥१८॥ नन्वयं भाविनी संज्ञां समाश्रित्योपचर्यते । अप्रस्थादिषु तद्भावस्तंडुलेष्वोदनादिवत् ॥ १९॥ इत्यसद्वहिरर्थेषु तथानध्यवसानतः । स्ववेद्यमानसंकल्पे सत्येवास्य प्रवृत्तितः ॥ २० ॥ यद्वा नैकं गमो योत्र स सतां नैगमो मतः । धर्मयोर्धर्मिणो वापि विवक्षा धर्मधर्मिणोः॥२१॥ प्रमाणात्मक एवायमुभयग्राहकत्वतः । इत्ययुक्तं इह ज्ञप्तेः प्रधानगुणभावतः ॥ २२ ॥ प्राधान्येनोभयात्मानमर्थ गृह्णविवेदनम् । प्रमाणं नान्यदित्येतत्प्रपंचेन निवेदितम् ॥ २३ ॥ संग्रहे व्यवहारे वा नांतर्भावः समीक्ष्यते । नैगमस्य तयोरेकवस्त्वंशप्रवणत्वतः ॥२४॥ न सूत्रादिषु प्रोक्तहेतवो वेति षण्नयाः । संग्रहादय एवेह न वाच्याः प्रपरीक्षकैः ॥ २५ ॥ सप्तैते नियतं युक्ता नैगमस्य नयत्वतः । तस्य त्रिभेदव्याख्यानात् कैश्चिदुक्ता नया नव २६ तत्र पयोयगस्त्रेधा नैगमो द्रव्यगो द्विधा । द्रव्यपर्यायगः प्रोक्तश्चतुर्भेदो ध्रुवं ध्रुवैः ॥ २७॥ Page #279 -------------------------------------------------------------------------- ________________ . . २७० तत्त्वार्थश्लोकवार्तिके [सू० ३३ अर्थपर्याययोस्तावद्गणमुख्यस्वभावतः । कचिद्वस्तुन्यभिप्रायः प्रतिपत्तुः प्रजायते ॥ २८॥ यथा प्रतिक्षणं ध्वंसि सुखसंविच्छरीरिणः । इति सत्तार्थपर्यायो विशेषणतया गुणः ॥२९॥ संवेदनार्थपर्यायो विशेष्यत्वेन मुख्यताम् । प्रतिगच्छन्नभिप्रेतो नान्यथैवं वचोगतिः ॥३०॥ सर्वथा सुखसंवित्योनानात्वेभिमतिः पुनः । स्वाश्रया चार्थपर्यायनैगमाभो प्रतीतितः ॥३१॥ कश्चिद्व्यंजनपर्यायो विषयीकुरुतेजसा । गुणप्रधानभावेन धर्मिण्येकत्र नैगमः ॥ ३२ ॥ सचैतन्यं नरीत्येवं सत्त्वस्य गुणभावतः । प्रधानभावतश्चापि चैतन्यस्याभिसिद्धितः ॥ ३३ ॥ तयोरत्यंतभेदोक्तिरन्योन्यं स्वाश्रयादपि । ज्ञेयो व्यंजनपर्यायनैगमाभो विरोधतः ॥ ३४ ॥ अर्थव्यंजनपर्यायौ गोचरीकुरुते परः । धार्मिके सुखजीवित्वमित्येवमनुरोधतः ॥ ३५ ॥ भिन्ने तु सुखजीवत्वे योभिमन्येत सर्वथा । सोर्थव्यंजनपर्यायनैगमाभास एव नः ॥ ३६॥ शुद्धद्रव्यमशुद्धं च तथाभिप्रैति यो नयः । स तु नैगम एवेह संग्रहव्यवहारजः ॥ ३७॥ सद्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्येवमवगंतव्यस्त दोक्तिस्तु दुर्नयः ॥ ३८॥ यस्तु पर्यायवद्र्व्यं गुणवद्वेति निर्णयः । व्यवहारनयाज्जातः सोऽशुद्धद्रव्यनगमः ॥ ३९ ॥ तद्भेदैकांतवादस्तु तदाभासोनुमन्यते । तथोक्तेर्बहिरंतश्च प्रत्यक्षादिविरोधतः ॥४०॥ शुद्धद्रव्यार्थपर्यायनैगमोस्ति परो यथा । सत्सुखं क्षणिकं शुद्धं संसारेसिन्नितीरणम् ॥४१॥ सत्त्वं सुखार्थपर्यायाद्भिन्नमेवेति संमतिः । दुर्नीतिः स्यात्सबाधत्वादिति नीतिविदो विदुः४२ क्षणमेकं सुखी जीवो विषयीति विनिश्चयः । विनिर्दिष्टोर्थपर्यायाशुद्धद्रव्यगनैगमः ॥ ४३ ॥ सुखजीवभिदोक्तिस्तु सर्वथा मानवाधिता । दुर्नीतिरेव बोद्धव्या शुद्धबोधैरसंशयात् ॥४४॥ गोचरीकुरुते शुद्धद्रव्यव्यंजनपर्ययौ । नैगमोन्यो यथा सच्चित्सामान्यमिति निर्णयः ॥ ४५ ॥ विद्यते चापरोशुद्धद्रव्यव्यंजनपर्ययौ । अर्थीकरोति यः सोत्र नागुणीति निगद्यते ॥ ४६॥ भिदाभिदाभिरत्यंत प्रतीतेरपलापतः । पूर्ववन्नैगमाभासौ प्रत्येतव्यौ तयोरपि ॥४७॥ नवधा नैगमस्यैवं ख्यातेः पंचदशोदिताः । नयाः प्रतीतिमारूढाः संग्रहादिनयैः सह ॥४८॥ त्रिविधस्तावन्नैगमः । पर्यायनैगमः, द्रव्यनैगमः, द्रव्यपर्यायनैगमश्चेति । तत्र प्रथमस्त्रेधा । अर्थपर्यायनैगमो व्यंजनपर्यायनैगमोऽर्थव्यंजनपर्यायनैगमश्च इति । द्वितीयो द्विधा । शुद्धद्रव्यनैगमः, अशुद्धद्रव्यनैगमश्चेति । तृतीयश्चतुर्धा । शुद्धद्रव्यार्थपर्यायनैगमः, शुद्धद्रव्यव्यंजनपर्यायनैगमः, अशुद्धद्रव्यार्थपर्यायनैगमः अशुद्धद्रव्यव्यंजनपर्यायनैगमश्चेति नवधा नैगमः साभास उदाहृतः परीक्षणीयः । संग्रहादयस्तु वक्ष्यमाणा षडिति सर्वे पंचदश नयाः समासतः प्रतिपत्तव्याः ॥ सत्र संग्रहनयं व्याचष्टेएकत्वेन विशेषाणां ग्रहणं संग्रहो नयः । सजातेरविरोधेन दृष्टेष्टाभ्यां कथंचन ॥४९॥ समेकीभावसम्यक्त्वे वर्तमानो हि गृह्यते । निरुक्त्या लक्षणं तस्य तथा सति विभाव्यते॥५० शुद्धद्रव्यमभिप्रैति सन्मानं संग्रहः परः । स चाशेषविशेषेषु सदौदासीन्यभागिह ॥ ५१ ॥ निराकृतविशेषस्तु सत्ताद्वैतपरायणः । तदाभासः समाख्यातः सद्भिदृष्टेष्टबाधनात् ॥५२॥ अभिन्न व्यक्तिभेदेभ्यः सर्वथा बहुधानकं । महासामान्यमित्युक्तिः केषांचिदुनेयस्तथा।।५३।। शब्दब्रह्मेति चान्येषां पुरुषाद्वैतमित्यपि । संवेदनाद्वयं चेति प्रायशोन्यत्र दर्शितम् ॥ ५४ ॥ द्रव्यत्वं सकलद्रव्यव्याप्यभिप्रेति चापरः । पर्यायत्वं च निःशेषपर्यायव्यापिसंग्रहः ॥ ५५ ॥ Page #280 -------------------------------------------------------------------------- ________________ २७१ प्रथमोऽध्यायः। तथैवावांतरान् भेदान् संगृयैकत्वतो बहुः । वर्ततेयं नयः सम्यक् प्रतिपक्षानिराकृतेः॥५६॥ खव्यक्त्यात्ममनैकांतस्तदाभासोप्यनेकधा । प्रतीतिबाधितो बोध्यो निःशेषोप्यनया दिशा ५७ द्रव्यत्वं द्रव्यात्मकमेव ततो तरभूतानां द्रव्याणामभावादित्यपरसंग्रहाभासः, प्रतीतिविरोधात् । तथा पर्यायत्वं पर्यायात्मकमेव ततो तरभूतपर्यायासत्त्वादिति तत्त्वं तत एव । तथा जीवत्वं जीवात्मकमेव, पुद्गलत्वं पुद्गलात्मकमेव, धर्मत्वं धर्मात्मकमेव, अधर्मत्वं अधर्मात्मकमेव, आकाशत्वं आकाशात्मकमेव, कालत्वं कालात्मकमेवेति चापरसंग्रहाभासाः । जीवत्वादिसामान्यानां खव्यक्तिभ्यो भेदेन कथंचित्प्रतीतेरन्यथा तदन्यतरलोपे सर्वलोपानुषंगात् । तथा क्रमभाविपर्यायत्वं क्रमभाविपर्यायविशेषास्मकमेव, सहभाविगुणत्वं तद्विशेषात्मकमेवेति वापरसंग्रहाभासौ प्रतीतिप्रतिघातादेव । एवमपरापरद्रव्यपर्यायभेदसामान्यानि खव्यक्त्यात्मकान्येवेत्यभिप्रायाः सर्वेप्यपरसंग्रहाभासाः प्रमाणबाधितत्वादेव बोद्धव्याः, प्रतीत्यविरुद्धस्यैवापरसंग्रहप्रपंचस्यावस्थितत्वात् ॥ व्यवहारनयं प्ररूपयति;संग्रहेण गृहीतानामर्थानां विधिपूर्वकः । योवहारो विभागः स्याम्यवहारो नयः स्मृतः॥५८॥ स चानेकप्रकारः स्यादुत्तरः परसंग्रहात् । यत्सत्तद्रव्यपर्यायाविति प्रागृजुसूत्रतः ॥ ५९॥ कल्पनारोपितद्रव्यपर्यायप्रविभागभाक् । प्रमाणबाधितोन्यस्तु तदाभासोऽवसीयताम् ॥६०॥ परसंग्रहस्तावत्सर्वं सदिति संगृह्णाति, व्यवहारस्तु तद्विभागमभिप्रैति यत्सत्तद्रव्यं पर्याय इति । यथैवापरसंग्रहः सर्वद्रव्याणि द्रव्यमिति संगृह्णाति सर्वपर्यायाः पर्याय इति । व्यवहारस्तद्विभजते यद्रव्यं तज्जीवादिषडिधं, यः पर्यायः स द्विविधः क्रमभावी सहभावी चेति । पुनरपि संग्रहः सर्वान् जीवादीन् संगृह्णाति जीवः पुद्गलो धर्मोऽधर्मः आकाशं काल इति, क्रमभुवश्च पर्यायान् क्रमभाविपर्याय इति, सहभाविपर्यायांस्तु सहभाविपर्याय इति । व्यवहारस्तु तद्विभागमभिप्रेति यो जीवः स मुक्तः संसारी च, यः पुद्गलः सोणुः स्कंधश्च, यो धर्मास्तिकायः स जीवगतिहेतुः पुद्गलगतिहेतुश्च, यस्त्वधर्मास्तिकायः स जीवस्थितिहेतुरजीवस्थितिहेतुश्च पर्यायतो द्रव्यतस्तस्यैकत्वात् । तथा यदाकाशं तल्लोकाकाशमलोकाकाशं च, यः कालः स मुख्यो व्यावहारिकश्चेति, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्च, विशेषः यः सहभावी पर्यायः स गुणः, सदृशपरिणामश्च सामान्यमिति अपरापरसंग्रहव्यवहारप्रपंचः प्रागृजुसूत्रात्परसंग्रहादुत्तरः प्रतिपत्तव्यः, सर्वस्य वस्तुनः कथंचित्सामान्यविशेषात्मकत्वात् । न चैवं व्यवहारस्य नैगमत्वप्रसक्तिः संग्रह विषयप्रविभागपरत्वात् सर्वत्र नैगमस्य तु गुणप्रधानोभयविषयत्वात् । यः पुनः कल्पनारोपितद्रव्यपर्याय विभागमभिप्रेति स व्यवहाराभासः, प्रमाणबाधितत्वात् । तथाहि-न कल्पनारोपित एव द्रव्यपर्यायप्रविभागः खार्थक्रियाहेतुत्वादन्यथा तदनुपपत्तेः । वंध्यापुत्रादिवत् व्यवहारस्य मिथ्यात्वे तदानुकूल्येन प्रमाणानां प्रमाणता च न स्यात् , खप्नादिविभ्रमानुकूल्येनापि तेषां प्रमाणत्वप्रसंगात् । तदुक्तं । “व्यवहारानुकूल्येन प्रमाणानां प्रमाणता । नान्यथा बाध्यमानानां तेषां च तत्प्रसंगतः ॥” इति ॥ सांप्रतमजुसूत्रनयं सूत्रयति;ऋजुसूत्रं क्षणध्वंसि वस्तु सत्सूत्रयेदृजु । प्राधान्येन गुणीभावाव्यस्यानर्पणात्सतः ॥ ६१ ॥ निराकरोति यद्रव्यं बहिरंतश्च सर्वथा । स तदाभोऽभिमंतव्यः प्रतीतेरपलापतः ॥ ६२ ॥ कार्यकारणता चेति ग्राह्यग्राहकतापि वा । वाच्यवाचकता चेति कार्थसाधनदृषणं ॥ ६३ ॥ Page #281 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ३३ I लोकसंवृत्तिसत्यं च सत्यं च परमार्थतः । कैवं सियेद्यदाश्रित्य बुद्धानां धर्मदेशना ॥ ६४ ॥ सामानाधिकरण्यं क विशेषणविशेष्यता । साध्यसाधनभावो वा काधाराधेयतापि च ॥ ६५ ॥ संयोगो विप्रयोगो वा क्रियाकारणसंस्थितिः । सादृश्यं वैसदृश्यं वा स्वसंतानेतरस्थितिः ||६६ समुदायः क्व च प्रेत्यभावादि द्रव्यनिह्नवे | बंधमोक्षव्यवस्था वा सर्वथेष्टाऽप्रसिद्धितः ॥ ६७॥ क्षणध्वंसिन एव बहिरंतश्च भावाः, क्षणद्वयस्थाष्णुत्वेपि तेषां सर्वदा नाशानुपपत्तेः कौटस्थ्यप्रसंगात् क्रमाक्रमाभ्यामर्थक्रियाविरोधादवस्तुतापत्तेः इति यो द्रव्यं निराकरोति सर्वथा सोत्रर्जुसूत्राभासो हि मंतव्यः प्रतीत्यतिक्रमात् । प्रत्यभिज्ञानप्रतीतिर्हि बहिरंतश्चैकं द्रव्यं पूर्वोत्तरपरिणामवर्ति साधयंती बाधविधुरा प्रसाधितैव पुरस्तात् । तस्मिन् सति प्रतिक्षणविनाशेस्येष्टत्वान्न विनाशानुपपत्तिर्न भावानां कौट - स्थ्यापत्तिः यतः सर्वथार्थक्रियाविरोधात् अवस्तुता स्यात् । योपि च मन्यते परमार्थतः कार्यकारणभावस्याभावान्न ग्राह्यग्राहकभावो वाच्यवाचकभावो वा यतो बहिरर्थः सिद्ध्येत् । विज्ञानमात्रं तु सर्वमिदं त्रैधातुकमिति, सोपि चर्जुसूत्राभासः खपरपक्षसाधनदूषणाभावप्रसंगात् । लोकसंवृत्त्या स्वपक्षस्य साधनात् परपक्षस्य बाधनात् दूषणाददोष इति चेन्न, लोकसंवृत्तिसत्यस्य परमार्थसत्यस्य च प्रमाणतोसिद्धेः तदाश्रयणेनापि बुद्धानपवर्णदेशनाद्दूषणद्वारेण धर्मदेशनानुपपत्तेः । एतेन चित्राद्वैतं संवेदनाद्वैतं क्षणिकमित्यपि मननमृजुसूत्राभासतामायातीत्युक्तं वेदितव्यं । किं च, सामानाधिकरण्याभावो द्रव्यस्योभयाधारभूतस्य निह्नवात् । तथा च कुतः शब्दादेर्विशेष्यता क्षणिकत्वकृतकत्वादेः साध्यसाधनधर्मकलापस्य च तद्विशेषणता सिद्ध्येत् ? तदसिद्धौ च न साध्यसाधनभावः साधनस्य पक्षधर्मत्वसपक्षत्वानुपपत्तेः । कल्पनारोपितस्य साध्यसाधनभावस्येष्टेरदोष इति चेन्न; बहिरर्थत्वकल्पनायाः साध्यसाधनधर्माधारानुपपत्तेः, कचिदप्याधाराधेयतायाः संभवाभावात् । किं च, संयोगविभागाभावो द्रव्याभावात् क्रियाविरहश्च ततो न कारकव्यवस्था यतः किंचित्परमार्थतोऽर्थक्रियाकारि वस्तु स्यात् । सदृशेतरपरिणामाभावश्च परिणामिनो द्रव्यस्यापवात् । ततः स्वपरसंतान व्यवस्थितिविरोधः सदृशेतरकार्यकारणानामत्यंतमसंभवात् । समुदायायोगश्च समुदायिनो द्रव्यस्यानेकस्या समुदायावस्थापरित्यागपूर्वक समुदायावस्थामुपाददानस्यापह्नवात् । तत एव न प्रेत्यभावः शुभाशुभानुष्ठानं तत्फलं च पुण्यं पापं बंधो वा व्यवतिष्ठते यतो संसारमोक्षव्यवस्था तत्र स्यात्, सर्वथापीष्टस्याप्रसिद्धेः । संवृत्या हि चेष्टस्य सिद्धिः संवृतेर्मृषात्वात् । नापि परमार्थतः पारमार्थिकैकद्रव्यसिद्धिप्रसंगात् तदभावे तदनुपपत्तेरिति परीक्षितमसकृद्विद्यानंदिमहोदयैः ॥ २७२ शब्दनयमुपवर्णयति; कालादिभेदतोर्थस्य भेदं यः प्रतिपादयेत् । सोत्र शब्दनयः शब्दप्रधानत्वादुदाहृतः ॥ ६८ ॥ कालकारकलिंगसंख्यासाधनोपग्रह भेदाद्भिन्नमर्थं शपतीति शब्दो नयः शब्दप्रधानत्वादुदाहृतः । यस्तु व्यवहारनयः कालादिभेदेप्यभिन्नमर्थमभिप्रैति तमनूद्य दूषयन्नाह - विश्वदृश्वास्य जनिता सूनुरित्येकमादृताः । पदार्थ कालभेदेपि व्यवहारानुरोधतः ॥ ६९ ॥ करोति क्रियते पुष्यस्तारका योंभ इत्यपि । कारकव्यक्तिसंख्यानां भेदेपि च परे जनाः ॥७० हि मन्ये रथेनेत्यादिकसाधनभिद्यपि । संतिष्ठेतावतिष्ठेतेत्याद्युपग्रहभेदने ॥ ७१ ॥ तन्न श्रेयः परीक्षायामिति शब्दः प्रकाशयेत् । कालादिभेदनेप्यर्थाभेदनेतिप्रसंगतः ॥ ७२ ॥ ये हि वैयाकरणव्यवहारनयानुरोधेन 'धातुसंबंधे प्रत्यया' इति सूत्रमारभ्य विश्वदृश्वास्य पुत्रो जनिता Page #282 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २७३ • भावि कृत्यमासीदित्य कालभेदेप्येकपदार्थमाहता यो विश्वं दृक्ष्यति सोपि पुत्रो जनितेति भविष्यत्कालेनातीतकालस्याभेदोभिमतः तथा व्यवहारदर्शनादिति । तत्र यः परीक्षाया मूलक्षतेः कालभेदेप्यर्थस्याभेदेतिप्रसंगात् रावणशंखचक्रवर्तिनोरप्यतीतानागतकालयोरेकत्वापत्तेः । आसीद्रावणो राजा शंखचक्रवर्ती भविष्यतीति शब्दयोर्भिन्नविषयत्वान्नैकार्थतेति चेत्, विश्वदृश्वा जनितेत्यनयोरपि मा भूत् तत एव । न हि विश्वं दृष्टवानिति विश्वदृशि त्वेतिशब्दस्य योर्थोतीतकालस्य जनितेति शब्दस्यानागतकालः पुत्रस्य भाविनोतीतत्वविरोधात् । अतीतकालस्याप्यनागतत्वाव्यपरोपादेकार्थताभिप्रेतेति चेत्, तर्हि न परमार्थतः कालभेदेप्यभिन्नार्थव्यवस्था । तथा करोति क्रियते इति कारकयोः कर्तृकर्मणोर्भेदेप्यभिन्नमर्थत एवाद्रियते स एव करोति किंचित् स एव क्रियते केनचिदिति प्रतीतेरिति । तदपि न श्रेयः परीक्षायां । देवदत्तः कटं करोतीत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसंगात् । तथा पुष्यं तारकेत्यव्यक्तिभेदेपि न कृतार्थमेकमाद्रियंते, लिंगमशिष्यं लोकाश्रयत्वादिति । तदपि न श्रेयः पटः कुटीत्यत्रापि पटकुट्योरेकत्वप्रसंगात् तल्लिंगभेदाविशेषात् । तथापोंभ इत्यत्र संख्याभेदेप्येकमर्थं जलाख्यमादृताः संख्याभेदस्योद्भेदकत्वात् गुर्वादिवदिति । तदपि न श्रेयः परीक्षायां । घटसंस्तव इत्यत्रापि तथाभावानुषंगात् संख्याभेदाविशेषात् । एहि मन्ये रथेन यास्यसि न हि यास्यसि स यातस्ते पिता इति साधनभेदेपि पदार्थमभिन्नमादृताः “प्रहासे मन्य वावि युष्मन्मन्यतेरस्मदेकवच्च" इति वचनात् । तदपि न श्रेयः परीक्षायां, अहं पचामि त्वं पचसीत्यत्रापि अस्मद्युष्मत्साघनाभेदेप्येकार्थत्वप्रसंगात् । तथा संतिष्ठते अवतिष्ठत इत्यत्रोपसर्गभेदेप्यभिन्नमर्थमादृता उपसर्गस्य धात्वर्थमात्रद्योतकत्वादिति । तदपि न श्रेयः । तिष्ठति प्रतिष्ठत इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसंगात् । ततः कालादिभेदाद्भिन्न एवार्थोऽन्यथातिप्रसंगादिति शब्दनयः प्रकाशयति तद्भेदेप्यर्थाभेदे दूषणांतरं च दर्शयति तथा कालादिनानात्वकल्पनं निःप्रयोजनम् । सिद्धं कालादिनैकेन कार्यस्येष्टस्य तत्त्वतः ॥ ७३ कालादिभेदादर्थस्य भेदोस्त्विति हि तत्परिकल्पनं प्रयोजनवन्नान्यथा साधनास्तीति निःप्रयोजनमेव तत् । किं च— कालाद्यन्यतमस्यैव कल्पनं तैर्विधीयतां । येषां कालादिभेदेपि पदार्थैकत्वनिश्चयः ॥ ७४ ॥ कालभेदेप्यभिन्नार्थः । कालकारकलिंग संख्यासाधनभेदेभ्यो भिन्नोऽर्थो न भवतीति स्वरुचिप्रकाशन - मात्रं ॥ कालादिभेदाद्भिन्नोर्थः इत्यत्रोपपत्तिमावेदयति ; - शब्दः कालादिभिर्भिन्नाभिन्नार्थप्रतिपादकः । कालादिभिन्नशब्दत्वात्तादृक्सिद्धान्यशब्दवत् ७५ सर्वस्य कालादिभिन्नशब्दस्यार्थप्रतिपादकत्वेनाभिमतस्य विवादाध्यासितत्वेन पक्षीकरणान्न केनचिद्धेतोर्व्यभिचारः । प्रमाणबाधितः पक्षः इति चेन्न, कालादिभिन्नशब्दस्याभिन्नार्थत्वग्राहिणः प्रमाणस्य भिन्नार्थग्राहिणा प्रमाणेन बाधितत्वात् ॥ समभिरूढमिदानीं व्याचष्टे ; पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूढः स्यात् पूर्ववच्चास्य निश्चयः ॥ ७६ ॥ विश्वदृश्वा सर्वश्वेति पर्यायभेदेपि शब्दो भिन्नार्थमभिप्रैति भविता भविष्यतीति च कालभेदाभिमननात् । क्रियते विधीयते करोति विदधाति पुष्यस्तिषाः तारको दुः आपो वाः अंभः सलिलमित्यादिपर्यायभेदेपि चाभिन्नमर्थं शब्दो मन्यते कारकादिभेदादेवार्थभेदाभिमननात् । समभिरूढः पुनः पर्यायभेदेपि भिन्नार्थानभिप्रैति ॥ कथं ? ३५ Page #283 -------------------------------------------------------------------------- ________________ २७४ तत्त्वार्थश्लोकवार्तिके [सू० ३३ इंद्रः पुरंदरः शक्र इत्याद्या भिन्नगोचराः । शब्दा विभिन्नशब्दत्वाद्वाजिवारणशब्दवत् ॥७७॥ ननु चात्र भिन्नार्थत्वे साध्ये विभिन्नशब्दत्वहेतोरन्यथानुपपत्तिरसिद्धेति न मंतव्यं, साध्यनिवृत्तौ साधननिवृत्तेरत्र भावात् । भिन्नार्थत्वं हि व्यापकं वाजिवारणशब्दयोर्विभिन्नयोरस्ति गोशब्दे वाभिन्ने पि तदस्ति विभिन्नशब्दत्वं तद्व्याप्यं साधनं विभिन्नार्थ एव साध्येस्ति नो भिन्नार्थत्वे, ततोन्यथानुपपत्तिरस्त्येव हेतोः ॥ संप्रत्येवंभूतं नयं व्याचष्टे ; तत्क्रियापरिणामोर्थस्तथैवेति विनिश्चयात् । एवंभूतेन नीयेत क्रियांतरपराङ्मुखः ॥ ७८ ॥ समभिरूढो हि शकनक्रियायां सत्यामसत्यां च देवराज्यार्थस्य शक्रव्यपदेशमभिप्रैति, पशोर्गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्तथारूढेः सद्भावात् । एवंभूतस्तु शकनक्रियापरिणतमेवार्थं तत्क्रियाकाले शक्रमभिप्रैति नान्यदा || कुत इत्याह यो यं क्रियार्थमाचष्टे नासावन्यत्क्रियं ध्वनिः । पठतीत्यादिशब्दानां पाठाद्यर्थत्वसंजनात् ७९ न हि कश्चिदक्रियाशब्दस्यास्ति गौरव इति जातिशब्दाभिमतानामपि क्रियाशब्दत्वात् आशु गाम्यश्व इति, शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव । शुचिभवनाच्छुक्लः नीलनान्नील इति देवदत्त इति यदृच्छाभिः शब्दाभिमताः अपि क्रियाशब्दा एव देव एव देयादिति देवदत्तः यज्ञदत्त इति संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाभिमताः क्रियाशब्दा एव । दंडोस्यास्तीति दंडी, विषाणमस्यास्तीति विषाणीत्यादि पंचती तु शब्दानां प्रवृत्तिः व्यवहारमात्रान्न निश्चयादित्ययं मन्यते ॥ एवमेते शब्दसमभिरूढैवंभूतनयाः सापेक्षाः सम्यक्, परस्परमनपेक्षास्तु मिथ्येति प्रतिपादयति ;इतोन्योन्यमपेक्षायां संतः शब्दादयो नयाः । निरपेक्षाः पुनस्ते स्युस्तदाभासाविरोधतः ॥ ८० ॥ के पुनरत्र सप्तसु नयेष्वर्थप्रधाना के च शब्दप्रधाना नया: : इत्याह; - तत्रर्जुसूत्रपर्यंताश्चत्वारोर्थनया मताः । त्रयः शब्दनयाः शेषाः शब्दवाच्यार्थगोचराः ||८१ ॥ कः पुनरत्र बहुविषयः कश्चाल्पविषयो नय इत्याह ; - पूर्वपूर्वी नयो भूमविषयः कारणात्मकः । परः परः पुनः सूक्ष्मगोचरो हेतुमानिह ॥ ८२ ॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः । किं तर्हि, नैगम एव संग्रहात्पूर्व इत्याहसन्मात्रविषयत्वेन संग्रहस्य न युज्यते । महाविषयताभावाभावार्थान्नैगमान्नुयात् ॥ ८३ ॥ यथा हि सति संकल्पस्तथैवासति वेद्यते । तत्र प्रवर्तमानस्य नैगमस्य महार्थता ॥ ८४ ॥ संग्रहाद्व्यवहारो बहुविषय इति विपर्ययमपाकरोति; संग्रहाद्व्यवहारोपि सद्विशेषावबोधकः । न भूमविषयोशेपसत्समृहोपदर्शितः ॥ ८५ ॥ व्यवहारादृजुसूत्रो बहुविषय इति विपर्यासं निरस्यति ; - नर्जुसूत्रप्रभूतार्थो वर्तमानार्थगोचरः । कालत्रितयवृत्त्यर्थगोचराव्यवहारतः ॥ ८६ ॥ ऋजुसूत्राच्छब्दो बहुविषय इत्याशंकामपसारयति ;कालादिभेदतोप्यर्थमभिन्नमुपगच्छतः । नर्जुसूत्रान्महार्थोत्र शब्दस्तद्विपरीतवत् ॥ ८७ ॥ शब्दात्समभिरूढो महाविषय इत्यारेकां हंति ;शब्दात्पर्यायभेदेनाभिन्नमर्थमभीप्सिनः । न स्यात्समभिरूढोपि महार्थस्तद्विपर्ययः ॥ ८८ ॥ समभिरूढादेवंभूतो भूमविषय इति चाकूतमपास्यति ;क्रियाभेदेपि चाभिन्नमर्थमभ्युपगच्छतः । नैवंभूतः प्रभूतार्थो नयः समभिरूढः ॥ ८९ ॥ Page #284 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २७५ कथं पुनर्नयवाक्यप्रवृत्तिरित्याह;नैगमाप्रातिकूल्येन न संग्रहः प्रवर्तते । ताभ्यां वाच्यमिहाभीष्टा सप्तभंगीविभागतः ॥ ९० ॥ नैगमव्यवहाराभ्यां विरुद्धाभ्यां तथैव सा । सा नैगमर्जुसूत्राभ्यां तादृग्भ्यामविगानतः॥९१॥ सा शब्दानिगमादन्याधुक्तात् समभिरूढतः । सैवंभूताच सा ज्ञेया विधानप्रतिषेधगा ॥९२॥ संग्रहादेश्च शेषेण प्रतिपक्षेण गम्यताम् । तथैव व्यापिनी सप्तभंगी नयविदां मता ॥९३॥ विशेषरुत्तरैः सर्वैर्नयानामुदितात्मनाम् । परस्परविरुद्धाथैद्ववृत्तेर्यथायथम् ॥ ९४ ॥ प्रत्येया प्रतिपर्यायमविरुद्धा तथैव सा । प्रमाणसप्तभंगी च तां विना नाभिवाग्गतिः॥९५॥ इह तावन्नैगमस्य संग्रहादिभिः सह षभिः प्रत्येकं षट् सप्तमंग्यः, संग्रहस्य व्यवहारादिभिः सह वचनात् पंच, व्यवहारस्यर्जुसूत्रादिभिश्चतस्रः, ऋजुसूत्रस्य शब्दादिभिस्तिस्रः, शब्दस्य समभिरूढादिभ्यां द्वे, समभिरूढस्यैवंभूतेनेका, इत्येकविंशतिमूलनयसप्तभंग्यः पक्षप्रतिपक्षतया विधिप्रतिषेधकल्पनयावगंतव्याः । तथा नवानां नैगमभेदानां द्वाभ्यां परापरसंग्रहाभ्यां सह वचनादष्टादश सप्तभंग्यः, परापरव्यवहाराभ्यां चाष्टादश, ऋजुसूत्रेण नव, शब्दभेदैः षडिः सह चतु:पंचाशत् , समरूढेन सह नव, एवंभूतेन च नव, इति सप्तदशोत्तरं शतं । तथा संग्रहादिनयभेदानां शेषनयभेदैः सप्तभंग्यो योज्याः । एवमुत्तरनयसप्तभंग्यः पंचसप्तत्युत्तरशतं । तथोत्तरोत्तरनयसप्तभंग्योपि शब्दतः संख्याताः प्रतिपत्तव्याः । इति पर्यायं सप्तभंगी बहुधा वस्तुन्येकत्राविरोधेन विधिप्रतिषेधकल्पना प्रागवदुक्ताचार्यैः नान्या व्यापिन्यतिव्यापिनी वा नाप्यसंभविनी तथा प्रतीतिसंभवात् । तद्यथा-संकल्पनामात्रग्राहिणो नैगमस्य तावदाश्रयणाद्विधिकल्पना, प्रस्थादिसंकल्पमात्र प्रस्थाद्यानेतुं गच्छामीति व्यवहारोपलब्धेः । भाविनि भूतवदुपचारात्तथा व्यवहारः तंदुलेवोदनव्यवहारवदिति चेन्न, प्रस्थादिसंकल्प्यस्य तदानुभूयमानत्वेन भावित्वाभावात् प्रस्थादिपरिणामाभिमुखस्य काष्ठस्य प्रस्थादित्वेन भावित्वात् तत्र तदुपचारस्य प्रसिद्धिः । प्रस्थादिभावाभावयोस्तु तत्संकल्प्यस्य व्यापिनोनुपचरितत्वात् । न च तद्व्यवहारो मुख्य एवेति तत्प्रतिसंग्रहाश्रयणात्प्रतिषेधकल्पना न प्रस्थादिसंकल्पमात्र प्रस्थादिसन्मात्रस्य तथा प्रतीतेः असतः प्रतीतिविरोधादिति व्यवहाराश्रयणात् द्रव्यस्य तथोपलब्धेरद्रव्यस्यासतः सतो वा प्रत्येतुमशक्तेः पर्यायस्य तदात्मकत्वादन्यथा द्रव्यांतरत्वप्रसंगादिति ऋजुसूत्राश्रयणात्पर्यायमात्रस्य प्रस्थादित्वेनोपलब्धेः, अन्यथा प्रतीत्यनुपपत्तेरिति शब्दाश्रयणात् कालादिभेदाद्भिन्नस्यार्थस्य प्रस्थादित्वादन्यथातिप्रसंगात् । इति समभिरूढाश्रयणात् पर्यायभेदेन भिन्नस्यार्थस्य प्रस्थादित्वात् अन्यथातिप्रसंगादिति, एवंभूताश्रयणात् प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वादन्यथातिप्रसंगादिति । तथा स्यादुभयं क्रमार्पितोभयनयार्पणात् , स्थादवक्तव्यं सहार्पितोभयनयाश्रयणात् , अवक्तव्योत्तराः शेषास्त्रयो भंगा यथायोगमुदाहार्या, इत्येताः षट्सप्तभंग्यः । तथा संग्रहाश्रयतो विधिकल्पना स्यात् सदेव सर्वमसतोऽप्रतीतेः खरशृंगवदिति तत् प्रतिषेधकल्पना व्यवहाराश्रयणान्न स्यात् , सर्व सदेव द्रव्यत्वादिनोपलब्धेद्रादिरहितस्य सन्मात्रस्यानुपलब्धेश्चेति ऋजुसूत्राश्रयणात् प्रतिषेधकल्पना न सर्व स्यात् सदेव वर्तमानाद्रूपादन्येन रूपेणानुपलब्धेरन्यथा अनाद्यनंतसत्तोपलंभप्रसंगादिति शब्दाश्रयणात्प्रतिषेधकल्पना न सर्व स्यात्सदेव कालादिभेदेन भिन्नस्यार्थस्योपलब्धेरन्यथा कालादिभेदानर्थक्यप्रसंगादिति समभिरूढाश्रया प्रतिषेधकल्पना न सर्व सदेव स्यात् , पर्यायभेदेन भिन्नस्यार्थस्योपलब्धेरन्यथैकपर्यायत्वप्रसंगात् इति । एवंभूताश्रयात् प्रतिषेधकल्पना न सर्व सदेव तक्रियापरिणतस्यैवार्थस्य तथोपपत्तेरन्यथा क्रियासंकरप्रसंगात् इति । तथोभयनयक्रमाक्रमार्पणादुभयावक्तव्यकल्पना विधिनयाश्रयणात् सहोभयनयाश्रयणाच प्रतिषेधावक्तव्यकल्पना Page #285 -------------------------------------------------------------------------- ________________ २७६ तत्त्वार्थश्लोकवार्तिके [सू० ३३ क्रमाक्रमोभयनयाश्रयणात्तदुभयावक्तव्यकल्पनेति पंचसप्तभंग्यः । तथा व्यवहारनयाद्विधिकल्पना सर्व द्रव्याद्यात्मकं प्रमाणप्रमेयव्यवहारान्यथानुपपत्तेः कल्पनामात्रेण तद्व्यवहारे खपरपक्षव्यवस्थापननिराकरणयोः परमार्थतोनुपपत्तेरिति तं प्रति तावदृजुसूत्राश्रयाप्रतिषेधकल्पना, न सर्व द्रव्याद्यात्मकं पर्यायमात्रस्योपलब्धेरिति । शब्दसमभिरूद्वैवंभूताश्रयात् प्रतिषेधकल्पना न सर्व द्रव्याद्यात्मकं, कालादिभेदेन पर्यायभेदेन क्रियाभेदेन च भिन्नस्यार्थस्योपलब्धेः इति । प्रथमद्वितीयभंगौ पूर्ववदुत्तरे भंगा इति चतस्रः सप्तभंग्यः । प्रतिपत्तव्याः । तथर्जुसूत्राश्रयाद्विधिकल्पना सर्व पर्यायमात्रं द्रव्यस्य क्वचिदवस्थितेरिति तं प्रति शब्दाश्रयात्प्रतिषेधकल्पना । समभिरूढैवंभूताश्रयाच न सर्व पर्यायमानं कालादिभेदेन पर्यायभेदेन क्रियाभेदेन च भिन्नस्य पर्यायस्योत्पत्तिमत्त्वादिति । द्वौ भंगौ क्रमाक्रमार्पितोभयनयास्तृतीयचतुर्थभंगाः त्रयोन्ये प्रथमद्वितीयतृतीया एवावक्तव्योत्तरा यथोक्तनययोगादवसेया इति तिस्रः सप्तभंग्यः । तथा शब्दनयाश्रयात् विधिकल्पना सर्व कालादिभेदाद्भिन्नं विवक्षितकालादिकस्यार्थस्याविवक्षितकालादित्वानुपपत्तेरिति । तं प्रति समभिरूद्वैवंभूताश्रया प्रतिषेधकल्पना न सर्व कालादिभेदादेव भिन्नं पर्यायभेदात् क्रियाभेदाच भिन्नस्यार्थस्य प्रतीतेः इति मूलभंगद्वयं पूर्ववत् परे पंच भंगाः प्रत्येया इति द्वे सप्तमंन्यौ । तथा समभिरूढ्याश्रया विधिकल्पना सर्व पर्यायभेदाद्भिन्नं विवक्षितपर्यायस्याविवक्षितपर्यायत्वेनानुपलब्धेरिति तं प्रत्येवंभूताश्रया प्रतिषेधकल्पना न सर्व पर्यायभेदादेव भिन्नं क्रियाभेदेन पर्यायस्य भेदोपलब्धेरिति । एतत्संयोगजाः पूर्ववत्परे पंचभंगाः प्रत्येतव्या इत्येका सप्तभंगी ! एवमेता एकविंशतिसप्तभंग्यः वैपरीत्येनापि तावत्यः प्रपंचतोभ्यूह्या । तथोत्तरनयसप्तभंग्यः सर्वाः परस्परविरुद्धार्थयोर्द्वयोर्नवभेदयोरेकतरस्य खविषयविधौ तत्प्रतिपक्षस्य नयस्यावलंबनेन तत्प्रतिषेधे मूलभंगद्वयकल्पनया यथोदितन्यायेन तदुत्तरभंगकल्पनया च प्रतिपर्यायमवगंतव्याः । पूर्वोक्तप्रमाणसप्तभंगीवत्तद्विचारश्च कर्तव्यः । प्रतिपादितनयसप्तभंगीष्वपि प्रतिभंगं स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादे..."सप्तभंगीतः सकलादेशात्मिकाया व्यवस्थापनात् । येन च कारणेन सर्वनयाश्रयाः सप्त वा वचनमार्गाः प्रवर्तते ॥ सर्वे शब्दनयास्तेन परार्थप्रतिपादने । स्वार्थप्रकाशने मातुरिमे ज्ञाननयाः स्थिताः ॥९६॥ वै नीयमानवस्त्वंशाः कथ्यंतेर्थनयाश्च ते । त्रैविध्यं व्यवतिष्ठते प्रधानगुणभावतः ॥९७ ॥ किं पुनरमीषां नयानामेकस्मिन्नर्थे प्रवृत्तिराहोखिप्रतिविशेषोस्तीत्याह;यत्र प्रवर्तते स्वार्थे नियमादुत्तरो नयः । पूर्वपूर्वो नयस्तत्र वर्तमानो न वार्यते ॥ ९८ ॥ सहस्रं च शती यद्वत्तस्यां पंचशती मता । पूर्वसंख्योत्तरत्वाभ्यां संख्यायामविरोधतः ॥९९॥ परः परः पूर्वत्र पूर्वत्र कस्मान्नयो न प्रवर्तत इत्याह;पूर्वत्र नोत्तरा संख्या यथायातानुवर्त्यते । तथोत्तरनयः पूर्वनयार्थसकले सदा ॥ १००॥ प्रमाणनयानामपि परस्परविषयगमनविशेषेण विशेषितश्चेति शंकायामिदमाह;नयार्थेषु प्रमाणस्य वृत्तिः सकलदेशिनः । भवेन्न तु प्रमाणार्थे नयानामखिलेषु सा॥१०१॥ किमेवं प्रकारा एव नयाः सर्वेप्याहुस्तद्विशेषाः संति ? अपरेपीत्याह;संक्षेपेण नयास्तावब्याख्यातास्तत्र सूचिताः । तद्विशेषाः प्रपंचेन संचिंत्या नयचक्रतः॥१०२॥ एवमधिगमोपायभूताः प्रमाणनयाः व्याख्याताः (य) । इति नयसूत्रस्य व्याख्यानं समाप्तं ॥ Page #286 -------------------------------------------------------------------------- ________________ • प्रथमोऽध्यायः । तत्त्वार्थाधिगमभेदः । तत्त्वार्थाधिगमभेदमाह; तत्त्वार्थाधिगमस्तावत्प्रमाणनयतो मतः । सर्वः स्वार्थः परार्थो वा ''''' अधिगच्छत्यनेन तत्त्वार्थानधिगमयत्यनेनेति वाधिगमः खार्थे ज्ञानात्मकः इति प्रत्येयम् ॥ २७७ and ... 'सितः ॥ १ ॥ परार्थो वचनात्मक परार्थाधिगमस्तत्रानुद्भवद्रागगोचरः । जिगीषुगोचरखेति द्विधा शुद्धधियो विदुः ॥ २ ॥ सत्यवाग्भिर्विधातव्यः प्रथमस्तत्त्ववेदिभिः । यथा कथंचिदित्येष चतुरंगो न संमतः ॥ ३ ॥ प्रवक्राज्ञाप्यमानस्य प्रसभज्ञानपेक्षया । तत्त्वार्थाधिगमं कर्तुं समर्थो ..... 11 8 11 विश्रुतः'''' ...स्वयं प्रभुः । तादृशान्यभसामीता भावेपि प्रतिबोधकः ॥ ५ ॥ साभिमानजनारभ्यश्चतुरंगो निवेदितः । तज्ज्ञैरन्यतमापायेप्यर्थापरिसमाप्तितः ॥ ६ ॥ जिगीषयां विना तावन्न विवादः प्रवर्तते । ताभ्यामेव जयोन्योन्यं विधातुं न च शक्यते ७ वादिनो स्पर्द्धया वृद्धिरभिमानः प्रवृद्धितः । सिद्धे वात्राकलंकस्य महतो न्यायवेदिनः ॥ ८ ॥ स्वप्रजापरिपाकादिप्रयोजनेति केचन । तेषामपि विना मानाद्वयोर्यदि स संमतः ॥ ९ ॥ तदा तत्र भवेद्व्यर्थः सत्प्राश्निकपरिग्रहः । ११ ॥ तयोरन्यतमस्य स्यादभिमानः कदाचन । तन्निवृत्त्यर्थमेवेष्टं सभ्यापेक्षणमत्र चेत् ॥ राजापेक्षणमप्यस्तु तथैव चतुरंगता | वादस्य भाविनीमिष्टामपेक्षां विजिगीषताम् ॥ सभ्यैरनुमतं तत्त्वज्ञानं दृढतरं भवेत् । इति ते वीतरागाभ्यामपेक्षा तत एव चेत् ॥ १२ ॥ तच्चेन्महेश्वरस्यापि स्वशिष्यप्रतिपादने । सभ्यापेक्षणमप्यस्तु व्याख्याने च भवादृशां ॥ १३ ॥ स्वयं महेश्वरः सभ्यो मध्यस्थस्तत्त्ववित्त्वतः । प्रवक्ता च विनेयानां तत्त्वख्यापनतो यदि ॥ १४ तदान्यपि प्रवक्तैवं भवेदिति वृथा तव । प्राश्निकापेक्षणं वा ॥ १५ ॥ यथा चैकः प्रवक्ता च मध्यस्थोभ्युपगम्यते । तथा सभापतिः किं न प्रतिपाद्यः स एव ते १६ मर्यादातिक्रमाभाव हेतुत्वाद्बोध्यशक्तितः । प्रसिद्धप्रभवा तादृग्विनेयजनवद्ध्रुवम् ॥ १७ ॥ स्वयं बुद्धः प्रवक्ता स्यात् बोध्यसंदिग्धधीरिह । तयोः कथं सहैकत्र सद्भाव इति चाकुलं ॥ १८ प्राश्निकत्वप्रवक्तृत्वसद्भावस्यापि हानितः । स्वपक्षरागौदासीनविरोधस्यानिवारणात् ।। १९ ।। पूर्व वक्ता बुधः पश्चात्सभ्यो न व्याहतो यदि । तदा प्रबोधको बोध्यस्तथैव न विरुध्यते २० वक्तृवाक्यानुवक्तादि स्वस्य स्यात्प्रतिपादकः । तदर्थे बुध्यमानस्तु प्रतिपाद्यो न मन्यताम् ॥ २१ तथैकांगोपि वादः स्याच्चतुरंगो विशेषतः । पृथक् सभ्यादिभेदानामनपेक्षाच्च सर्वदा || २२ || यथा वाद्यादयो लोके दृश्यंते तेन्यभेदिनः । तथा न्यायविदामिष्टा व्यवहारेषु ते यदि || २३ तदभावात्स्वयं वक्तुः सभ्या भिन्ना भवंतु ते । सभापतिश्च तद्बोध्यजनवंतश्च नेष्यते ॥ २४ ॥ जिगीषाविरहात्तस्य तत्त्वं बोधयतो जनान् । न सभ्यादिप्रतीक्षास्ति यदि वादे के सा भवेत् २५ ततो वादो जिगीषायां वादिनोः संप्रवर्तते । सभ्यापेक्षणतो जल्पवितंडावदिति स्फुटं ॥ २६ ॥ तदपेक्षा च तत्रास्ति जयेतर विधानतः । तद्वदेवान्यथा तत्र सा न स्याद विशेषतः ॥ २७ ॥ सिद्धो जिगीषतो वादश्चतुरंगस्तथा सति । स्वाभिप्रेतव्यवस्थानाल्लोकप्रख्यातवादवत् ॥ २८ ॥ १० ॥ Page #287 -------------------------------------------------------------------------- ________________ २७८ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० ननु च प्राश्निकापेक्षणाविशेषेपि वादजल्पवितंडानां न वादो जिगीषतोस्तत्त्वाव्यवसायसंरक्षणार्थत्वरहितत्वात् । यस्तु जिगीषतोर्न स तथा सिद्धो यथा जल्पो वितंडा च तथा वादः तस्मान्न जिगीषतोरिति । न हि वादस्तत्त्वाव्यवसायसंरक्षणार्थो भवति जल्पवितंडयोरेव तथात्वात् । तदुक्तं । "तत्त्वाव्यवसायसंरक्षणार्थे जल्पवितंडे बीजप्ररोहसंरक्षणार्थ कंटकशाखावरणवदिति । तदेतत्प्रलापमानं, वादस्यैव तत्त्वाव्यवसायसंरक्षणार्थत्वोपपत्तेः । तथाहि-वाद एव तत्त्वाव्यवसायरक्षणार्थः प्रमाणतर्कसाधनो- . पालंभत्वे सिद्धांताविरुद्धत्वे पंचावयवोपपन्नत्वे च सति पक्षप्रतिपक्षपरिग्रहत्वात् यस्तु न तथा स न यथा आक्रोशादिः तथा च वादस्तस्मात्तत्त्वाव्यवसायरक्षणार्थ इति युक्तिसद्भावात् । न तावदयमसिद्धो हेतुः प्रमाणतर्कसाधनोपालंभः सिद्धांताविरुद्धः पंचावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति वचनात् । पक्षप्रतिपक्षपरिग्रहादित्युच्यमाने जल्पेपि तथा स्यादित्यवधारणविरोधस्तत्परिहारार्थ प्रमाणतर्कसाधनोपालंभत्वादिविशेषणं । न हि जल्पे तदस्ति यथोक्तोपपन्नछलजातिनिग्रहस्थानसाधनोपालंभो जल्प इति वचनात् । तत एव न वितंडा तथा प्रसज्यते पक्षप्रतिपक्षपरिग्रहरहितत्वाच्च । पक्षप्रतिपक्षौ हि वस्तुधर्मावेकाधिकरणौ विरुद्धौ एककालाध्यनवसितौ वस्तुविशेषौ वस्तुनः सामान्येनाधिगतत्वाच्च विशेषावगमनिमित्तो विवादः । एकाधिकरणाविति नानाधिकरणौ विचारं न प्रयोजत उभयोः प्रमाणेनोपपत्तेः । तद्यथा-अनित्या बुद्धिनित्य आत्मेति अविरुद्धावप्येवं विचारं न प्रयोजयतः । तद्यथा क्रियावद्र्व्यं निःक्रियं च कालभेदे सतीत्येककालावित्युक्तं । तथावसितौ विचारं न प्रयोजयेते निश्चयोत्तरकालं विवादाभावादित्यनवसितौ निर्दिष्टौ । एवं विशेषणविशिष्टयोधर्मयोः पक्षप्रतिपक्षयोः परिग्रह इत्थंभावनियमः । एवं धर्मायं धर्मी नैवं धर्मेति वा सोऽयं पक्षप्रतिपक्षपरिग्रहो न वितंडायामस्ति सप्रतिपक्षस्थापनाही नो वितंडा इति वचनात् । तथा यथोक्तो जल्पः प्रतिपक्षस्थापनाहीनतया विशेषतो वितंडात्वं प्रतिपद्यते । वैतंडिकस्य च खपक्ष एव साधनवादिपक्षापेक्षया प्रतिपक्षो हस्तिप्रतिहस्तिन्यायेन"वैतंडिको न साधनं वक्ति केवलं परपक्षनिराकरणायैव प्रवर्तत इति व्याख्यानात् । ननु वैतंडिकस्य प्रतिपक्षाभिधानः खपक्षोस्त्येवान्यथा प्रतिपक्षहीन इति सूत्रकारो ब्रूयात् न तु प्रतिपक्षस्थापनाहीन इति । न हि राजहीनो देश इति च कश्चिद्राजपुरुषहीन इति वक्ति तथाभिप्रेतार्थाप्रतिपत्तेरिति केचित् । तेपि न समीचीनवाचः, प्रतिपक्ष इत्यनेन विधिरूपेण प्रतिपक्षहीनस्यार्थस्य विवक्षितत्वात् । यस्य हि स्थापना क्रियते स विधिरूपः प्रतिपक्षो न पुनर्यस्य परपक्षनिराकरणसामोन्नतिः सोत्र मुख्यविधिरूपतया व्यवतिष्ठते तस्य गुणभावेन व्यवस्थितेः । जल्पोपि कश्चिदेवं प्रतिपक्षस्थापनाहीनः स्यान्नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वप्रसंगादिति परपक्षप्रतिषेधवचनसामर्थ्यात् सात्मकं जीवच्छरीरमिति वपक्षस्य सिद्धेविरूपेण स्थापनाविरहादिति चेन्न, नियमेन प्रतिपक्षस्थापनाहीनत्वाभावाजल्पस्य । तत्र हि कदाचित्वपक्षविधानद्वारेण परपक्षप्रतिषेधः कदाचित्परपक्षप्रतिषेधद्वारेण स्वपक्षविधानमिष्यते नैवं वितंडायां परपक्षप्रतिषेधस्यैव सर्वदा तत्र नियमात् । नन्वेवं प्रतिपक्षोपि विधिरूपो वितंडायां नास्तीति प्रतिपक्षहीन इत्येव वक्तव्यं स्थापनाहीन इत्यस्यापि तथा सिद्धेः, स्थाप्यमानस्याभावे स्थापनायाः संभवायोगादिति चेन्न; अनिष्टप्रसंगात् सर्वथा प्रतिपक्षहीनस्यार्थस्यानिष्टस्य प्रसक्तौ च यथा वितंडायां साध्यनिर्देशाभावस्तस्य चेतसि परिस्फुरणाभावश्च तथार्थापत्त्यापि गम्यमानस्य प्रतिपक्षस्याभाव इति व्याहतिः स्याद्वचनस्य गम्यमानखपक्षाभावे परपक्षप्रतिषेधस्य भाविविरोधात् प्रतिपक्षस्थापनाहीन इति वचने तु न विरोधः सर्वशून्यवादिनां परपक्षप्रतिषेधे सर्वः शून्यमिति स्वपक्षगम्यमानस्य भावेपि स्थापनाया गम्यमानायास्तद्भावाभावे वा शून्यताव्याघातात् । तर्हि प्रतिपक्षहीनमपि Page #288 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २७९ वा प्रयोजनार्थमर्थित्वेन तमभ्युपेयादित्यत्रापि प्रतिपक्षहीनमपि चेति वक्तव्यं, सर्वथा प्रतिपक्षहीनवादस्यासंभवादिति चेत् । क एवं व्याचष्टे सर्वप्रतिपक्षहीनमिति ? परतः प्रतिज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन वपक्षं वचनतोनवस्थापयत्वदर्शनं साधयेदिति व्याख्यानात् तत्र गम्यमानस्य खपक्षस्य भावात् , स्वपक्षमनवस्थापयन्निति भाष्यकारवचनस्यान्यथा विरोधात् । कुतोन्यथा भाष्यकारस्यैव • व्याख्यानमितिचेत्, सर्वथा खपक्षहीनस्य वादस्य जल्पवितंडावदसंभवादेव कथमेवं वादजल्पयोर्वितं डातो भेदः ? प्रतिपक्षस्थापनाहीनत्वाविशेषादिति चेत् , उक्तमत्र नियमतः प्रतिपक्षस्थापनाया हीना वितंडा, कदाचित्तया हीनौ वादजल्पाविति । केवलं वादः प्रमाणतर्कसाधनोपलंभत्वादिविशेषणः पक्षप्रतिपक्षपरिग्रहः । जल्पस्तु छलजातिनिग्रहस्थानसाधनोपालंभश्च यथोक्तोपपन्नश्चेति वितंडातो विशिप्यते । तदेवं पक्षप्रतिपक्षपरिग्रहस्य जल्पे सतोपि प्रमाणतर्कसाधनोपलंभत्वादिविशेषणाभावाद्वितंडायामसत्त्वाच न जल्पवितंडयोस्तत्त्वाव्यवसायसंरक्षणार्थत्वसिद्धिः प्रकृतसाधनाद्येनेष्टविघातकारीदं स्यादनिष्टस्य साधनादिति वाद एव तत्त्वाव्यवसायसंरक्षणार्थत्वाजिगीषतोर्युक्तो न जल्पवितंडे ताभ्यां तत्त्वाव्यवसायसंरक्षणासंभवात् । परमार्थतः ख्यातिलाभपूजावत् तत्त्वस्याव्यवसायो हि तत्वनिश्चयस्तस्य संरक्षणं न्यायबलात्सकलबाधकनिराकरणेन पुनस्तत्र बाधकमुद्भावयते यथाकथंचिन्निर्मुखीकरणं चपेटादिभिस्तत्पक्षनिराकरणस्यापि तत्त्वाव्यवसायसंरक्षणत्वप्रसंगात् । न च जल्पवितंडाभ्यां तत्र सकलबाधकपरिहरणं छलजात्याधुपक्रमपराभ्यां संशयस्य विपर्यासस्य वा जननात् । तत्त्वाव्यवसाये सत्यपि हि वादिनः परनिर्मुखीकरणे प्रवृत्तौ प्राश्निकास्तत्र संशेरते विपर्यस्यन्निव किमस्य तत्त्वाव्यवसायोस्ति किं वा नास्तीति । नास्त्येवेति व्यापारनिर्मुखीकरणमात्रे तथा व्यवसायरहितस्यापि प्रवृत्तिदर्शनात्तत्त्वोपप्लववादिवत् तथा व्याख्यातिरेव प्रेक्षावत्सु न स्यादिति कुतः पूजालाभो वा ? ततश्चैवं वक्तव्यं वादो जिगीषतोरेव तत्त्वाव्यवसायसंरक्षणार्थत्वादन्यथा तदनुपपत्तेः । पराभ्युपगममात्राज्जल्पवितंडावत्त्वात् निग्रहस्थानवत्त्वाच्च । न हि वादे निग्रहस्थानानि न संति । सिद्धांताविरुद्धः इत्यनेनापसिद्धांतस्य पंचावयवोपपन्न इत्यत्र पंचग्रहणान्न्यूनाधिकयोरवयवोपपन्नग्रहणाद्धेत्वाभासपंचकस्य प्रतिपादनाद्दुष्टानां निग्रहस्थानानां तत्र नियमव्याख्यानात् । ननु वादे सतामपि निग्रहस्थानानां निग्रहबुद्ध्योद्भावनाभावान्न जिगीषास्ति । तदुक्तं तर्कशब्देन भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनादुद्भावनियमो लभ्यते तेन सिद्धांताविरुद्धः । पंचावयवोपपन्न इति चोत्तरपदयोः समस्तनिग्रहस्थानाद्युपलक्षणार्थत्वादेव प्रमाणबुद्ध्या परेण छलजातिनिग्रहस्थानानि प्रयुक्तानि न निग्रहबुद्ध्योद्भाव्यते किं तु निवारणबुद्ध्या तत्त्वज्ञानायावयवः प्रवृत्तिर्न च साधनाभासो दूषणाभावे वा तत्त्वाज्ञानहेतुरतो न तत्प्रयोगो युक्तः इति । तदेतदसंगतं । जल्पवितंडयोरपि तथोद्भवननियमप्रसंगात्तयोस्तत्त्वाव्यवसायसंरक्षणाय खयमभ्युपगमात् । तस्य छलजातिनिग्रहस्थानः कर्तुमशक्यत्वात् । परस्य तूष्णीभावार्थ जल्पवितंडयोश्छलायुद्भावनमितिचेन्न, तथा परस्य तूष्णीभावासंभवादसदुत्तराणामानंत्यान्च्यायबलादेव परनिराकरणसंभवात् । सोयं परनिराकरणायान्ययोगव्यवच्छेदेन व्यवसिताद्यनुजातं तत्त्वविषयप्रज्ञापारिपाकादि च फलमभिप्रेत्य वादं कुर्वन् परं निग्रहस्थाननिराकरोतीति कथमविरुद्धवाक् न्यायेन प्रतिवादिनः स्वाभिप्रायान्निवर्तनस्यैव निग्रहत्वादलाभे वा ततो निग्रहत्वायोगात् । तदुक्तं । "आस्तां तावदलाभादिरयमेव हि निग्रहः । न्यायेन विजिगीषूणां खाभिप्रायनिवर्तनम् ॥” इति सिद्धमेतत् जिगीषतो वादो निग्रहस्थानवत्त्वान्यथानुपपत्तेरिति । स च चतुरंगः खाभिप्रेतखव्यवस्थानफलत्वाल्लोकप्रख्यातवादवत् । तथाहिमर्यादातिक्रमं लोके यथा हंति महीपतिः । तथा शास्त्रेप्यहंकारग्रस्तयोर्वादिनोः कचित्॥२९॥ Page #289 -------------------------------------------------------------------------- ________________ २८० तत्त्वार्थश्लोकवार्तिके तत्त्वार्था० वादिनोदिनं वादः समर्थे हि सभापतौ । समर्थयोः समर्थेषु प्रानिकेषु प्रवर्तते ॥ ३०॥ सामर्थ्य पुनरीशस्य शक्तित्रयमुदाहृतम् । येन स्वमंडलस्याज्ञा विधेयत्वं प्रसिद्ध्यति ॥३१॥ मंत्रशक्त्या प्रभुस्तावत्स्वलोकान् समयानपि । धर्मन्यायेन संरक्षेविप्लवात्साधुसात् सुधीः ॥३२ प्रभुसामर्थ्यतो वापि दुर्लध्यात्मबलैरपि । स्त्रोत्साहशक्तितो वापि दंडं नीतिविदांवरः ॥३३॥ रागद्वेषविहीनत्वं वादिनि प्रतिवादिनि । न्यायेऽन्याये च तद्वत्त्वं सामर्थ्य प्राश्निकेष्वदः॥३४ ' सिद्धांतद्वयवेदित्वं प्रोक्तार्थग्रहणत्वता । प्रतिभादिगुणत्वं च तत्त्वनिर्णयकारिता ॥ ३५ ॥ जयेतरव्यवस्थायामन्यथानधिकारता । सभ्यानामात्मनः पत्युर्यशो धर्म च वांछतः ॥ ३६ ॥ कुमारनंदिनचाहुदिन्यायविचक्षणाः । राजप्राश्निकसामर्थ्यमेवंभूतमसंशयम् ॥ ३७॥ एकतः कारयेत्सभ्यान् वादिनामेकतः प्रभुः । पश्चादभ्यर्णकान् वीक्ष्य प्रमाणगुणदोषयोः ३८ लौकिकार्थविचारेषु न तथा प्राश्निका यथा। शास्त्रीयार्थविचारेषु वा तज्ज्ञाःप्राश्निका यथा३९ सत्यसाधनसामर्थ्यसंप्रकाशनपाटवः । वाद्यजेयो विजेता नो सदोन्मादेन केवलम् ॥४०॥ इति समर्थसाधनाख्यानं सामर्थ्य वादिनो मतं । सा त्ववश्यं च सामर्थ्यादन्यथानुपपन्नता॥४१॥ सदोषोद्भावनं वापि सामर्थ्य प्रतिवादिनः । दूषणस्य च सामर्थ्य प्रतिपक्षविघातिता ॥४२॥ ननु यथा सभापतेः प्रानिकानां च सामर्थ्यमविरुद्धमुक्तं वादिनोः साधनदूषणयोश्च परस्परव्याघातात् । तथाहि-यदि वादिनः सम्यक्साधनवचनं सामर्थ्य साधनस्य चान्यथानुपपन्नत्वं तदा कथं तत्र प्रतिवादिनः सदोषोद्भावनं सामर्थ्य संसाध्यं दूषणस्य च पक्षविघातितावत्कथमितरदिति परस्परव्याहतं पश्यामः । तदन्यतमासमर्थत्वे वा यथा समर्थे सभापतौ प्रानिकेषु वचनं वादस्तथा समर्थयोर्वादिप्रतिवादिनोः साधनदूषणयोश्चेति व्याख्यानमनुपपन्नमायातमिति कश्चित् । तदसत् । वादिप्रतिवादिनोः साधनदूषणवचने क्रमतः प्रवृत्तौ विरोधाभावात् । पूर्व तावद्वादी खदर्शनानुसारितया समर्थः साधनं समर्थमुपन्यस्यति पश्चात्प्रतिवादी खदर्शनालंबन दोषोद्भावनसमर्थसद्दूषणं तत्सामर्थ्य प्रतिपक्षविघातिता न विरुध्यते ॥ का पुनरियं प्रतिपक्षविघातितेत्याह;सा पक्षांतरसिद्धिर्वा साधनाशक्तितापि वा । हेतोविरुद्धता यद्वदभासांतरतापि च ॥ ४३ ॥ साधनस्य स्वपक्षघातिता पक्षांतरसाधनत्वं यथा विरुद्धं खपक्षसाधनाशक्तत्वमात्रं वा यथानकांतिकत्वादि साधनाभासत्वं, तदुद्भवने खपक्षसिद्धेरपेक्षणीयत्वात् । तदुक्तं । "विरुद्धं हेतुमद्भाव्यवादिनं जयतीतरः । आभासांतरमुद्भाव्य पक्षसिद्धमपेक्षते ॥” इति । न चैवमष्टांगो विवादः स्यात्तत्साधनतद्वचनयोर्वादिसामर्थरूपत्वात् सदूषणतद्वचनयोश्च प्रतिवादिसामर्थ्यरूपत्वादिगंतरत्वायोगात् नैवं प्रभुः सभ्यो वा वादिप्रतिवादिनोः सामर्थ्य तयोः खतंत्रत्वात् । ततो नाभिमानिकोपि वादो व्यंग एव वीतरागवादवदिति शक्यं वक्तुं, चतुर्णामंगानामन्यतमस्याप्यपाये अर्थापरिसमाप्तेरित्युक्तप्रायं । एवमयमाभिमानिको वादो जिगीषतोढिविध इत्याह; इत्याभिमानिकः प्रोक्तस्तात्त्विका प्रातिभोपि वा । समर्थावचनं वादश्चतुरंगो जिगीषतोः ४४ पूर्वाचार्योपि भगवानमुमेव द्विविधं जल्पमावेदितवानित्याह;द्विप्रकारं जगौ जल्पं तत्त्वप्रातिभगोचरम् । त्रिपष्टे दिनां जेता श्रीदत्तो जल्पनिर्णये॥४५॥ Page #290 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २८१ कः पुनर्जयोत्रेत्याह;तत्रेह तात्त्विके वादेऽकलंकैः कथितो जयः । स्वपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिनः॥४६॥ कथं;स्वपक्षसिद्धिपर्यंता शास्त्रीयार्थविचारणा । वस्त्वाश्रयत्वतो यद्वल्लौकिकार्थे विचारणा ॥४७॥ कः पुनः खस्य पक्षो यत्सिद्धिर्जयः स्यादिति विचारयितुमुपक्रमते;जिज्ञासितविशेषोत्र धर्मी पक्षो न युज्यते । तस्यासंभवदोषेण बाधितत्वात्खपुष्पवत् ॥ ४८॥ कचित्साध्यविशेष हि न वादी प्रतिपित्सते । स्वयं विनिश्चितार्थस्य परबोधाय वृत्तितः॥४९॥ प्रवृत्तिवादी तस्यैव प्रतिक्षेपाय वर्तनात् । जिज्ञासितेन सभ्याश्च सिद्धांतद्वयवेदिनः ॥ ५० ॥ स्वार्थानुमाने वाद्ये च जिज्ञासितेति चेन्मतं । वादे तस्याधिकारः स्यात् परप्रत्ययनादृते ॥५१॥ जिज्ञापयितात्मेह धर्मी पक्षो यदीष्यते । लक्षणद्वयमायातं पक्षस्य ग्रंथघातिने ॥ ५२ ॥ तथानुष्णोग्निरित्यादिः प्रत्यक्षादिनिराकृतः । स्वपक्षं स्यादतिव्यापि नेदं पक्षस्य लक्षणं॥५३॥ लिंगात्साधयितुं शक्यो विशेषो यस्य धर्मिणः । स एव पक्ष इति चेत् वृथा धर्मविशेषवाक्५४ लिंगं येनाविनाभावि सोर्थः साध्योवधार्यते । न च धर्मी तथाभूतः सर्वत्रानन्वयात्मकः ५५ न धर्मी केवलः साध्यो न धर्मः सिद्ध्यसंभवात् । समुदायस्तु साध्येत यदि संव्यवहारिभिः५६ तदा तत्समुदायस्य स्वाश्रयेण विना सदा । संभवाभावतः सोपि तद्विशिष्टः प्रसाध्यताम् ५७ तद्विशेषोपि सोन्येन स्वाश्रयेणेति न कचित् । साध्यव्यवस्थितिमूढचेतसामात्मविद्विषाम् ।।५८ विनापि तेन लिंगस्य भावात्तस्य न साध्यता । ततोनपेक्षतेत्येतदनुकूलं समाचरेत् ॥ ५९॥ धर्मिणापि विना भावात्कचिल्लिंगस्य पक्षता । तस्य मा भूत्ततः सिद्धः पक्षः साधनगोचरः६० याहगेव हि खार्थानुमाने पक्षः शक्यत्वादिविशेषणः साधनविषयस्तादृगेव परार्थानुमाने युक्तः खनिश्चयवदन्येषां निश्चयोत्पादनाय प्रेक्षावतां परार्थानुमानप्रयोगात् , अन्यथा तल्लक्षणस्यासंभवादिदोषानुषंगात् ॥ का पुनः पक्षस्य सिद्धिरित्याह; सभ्यप्रत्यायनं तस्य सिद्धिः स्याद्वादिनोथवा । प्रतिवादिन इत्येष निग्रहोन्यतरस्य तु ॥६१॥ वादिनः स्वपक्षप्रत्यायनं सभायां स्वपक्षसिद्धिः, प्रतिवादिनः स एव निग्रहः, प्रतिवादिनोथवा तत्वपक्षसिद्धिदिनो निग्रह इत्येतत्प्रत्येयम् ॥ तथोक्तं । "खपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिनः । नासाधनांगवचनं नादोषोद्भावनं द्वयोः ॥” इति ॥ अत्र परमतमनूद्य विचारयति;असाधनांगवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यत्तन्न युक्तमिति केचन ॥ ६२॥ स्वपक्षं साधयन् तत्र तयोरेको जयेद्यदि । तूष्णीभूतं ब्रुवाणं वा यत्किचित्तत्समंजसम् ॥६३॥ सत्यमेतत् , खपक्षं साधयन्नेवासाधनांगवचनाददोषोद्भावनाद्वा वादी प्रतिवादी वा तूष्णीभूतं यत्किंचिढुवाणं वा परं जयति नान्यथा केवलं पक्षो वादिप्रतिवादिनोः सम्यक् साधनदूषणवचनमेवेति पराकूतमनूद्य प्रतिक्षिपति; तत्साधनवचः पक्षो मतः साधनवादिनः । सदृषणाभिधानं तु स्वपक्षः प्रतिवादिनः॥६४ ॥ इत्ययुक्तं द्वयोरेकविषयत्वानवस्थितेः । स्वपक्षप्रतिपक्षत्वासंभवाद्भिन्नपक्षवत् ॥ ६५ ॥ वस्तुन्येकत्र वर्तेते तयोः साधनदूषणे । तेन तद्वचसोर्युक्ता स्वपक्षेतरता यदि ॥ ६६ ॥ Page #291 -------------------------------------------------------------------------- ________________ [तत्त्वार्था० २८२ तत्त्वार्थश्लोकवार्तिके तदा वास्तवपक्षः स्यात्साध्यमानं कथंचन । दृष्यमाणं च निःशंकं तद्वादिप्रतिवादिनोः॥६७॥ यद्वस्तु शब्दानित्यत्वावादिनां साध्यमानं वादिना, दूष्यमाणं च प्रतिवादिना तदेव वादिनः पक्षः शक्यत्वादिविशेषणस्य साधनविषयस्य पक्षत्वव्यवस्थापनात् । तथा यहूषणवादिना शब्दादि वस्तु अनित्यत्वादिना साध्यमानं वादिना दूष्यमाणं तदेव प्रतिवादिनः पक्ष इति व्यवतिष्ठते न पुनः साधन वचनं वादिनः दूषणवचनं च प्रतिवादिनः पक्ष इति विवादाभावात्तयोस्तत्र विवादे वा यथोक्तलक्षण एव । पक्ष इति तस्यासिद्धेरेकस्य जयोऽपरस्य पराजयो व्यवतिष्ठते, न पुनरसाधनांगवचनमात्रमदोषोद्भावनमात्रं वा । पक्षसिध्यविनाभाविनस्तु साधनांगस्यावचनं वादिनो निग्रहस्थानं प्रतिपक्षसिद्धौ सत्यां प्रतिवादिन इति न निवार्यत एव । तथाहि पक्षसिद्ध्यविनाभावि साधनावचनं ततः । निग्रहो वादिनः सिद्धः स्वपक्षे प्रतिवादिनि॥६८॥ सामर्थ्यात् प्रतिवादिनः सहृषणवत्त्वनिग्रहादिकरणं वादिनः पक्षसिद्धौ सत्यामित्यवगंतव्यं । तथा वादिनं साधनमात्रं ब्रुवाणमपि प्रतिवादी कथं जयतीत्याह; विरुद्धसाधनोद्भावी प्रतिवादीतरं जयेत् । तथा स्वपक्षसंसिद्धेर्विधानं तेन तत्त्वतः ॥ ६९॥ दूषणांतरमुद्भाव्य खपक्षं साधयन् जयत्येव अन्यथा तस्य न जयो न पराजयः । यत्र धर्मकीर्तिनाभ्यधायि साधनं सिद्धिस्तदंगं त्रिरूपं लिंगं तस्यावचनं वादिनो निग्रहस्थानं । तथा साधनस्य त्रिरूपं लिंगं समर्थनं व्यतिरेकनिश्चयनिरूपणत्वात् , तस्य विपक्षे बाधकप्रमाणवचनस्य हेतोः समर्थत्वात् तस्यावचनं वादिनो निग्रहस्थानमिति च तन्नैयायिकस्यापि समानमित्याह; खेष्टार्थसिद्धिरंगस्य व्यंशहेतोरभाषणं । तस्यासमर्थनं चापि वादिनो निग्रहो यथा ॥ ७० ॥ पंचावयवलिंगस्याभाषणं न तथैव किम् । तस्यासमर्थनं चापि सर्वथाप्यविशेषतः ॥ ७१॥ ननु च न सौगतस्य पंचावयवसाधनस्य तत्समर्थनस्य वा वचनं निग्रहस्थानं तत्र निगमनांतसामर्थ्याद्गम्यमानत्वात् तद्वचनस्य पुनरुक्तत्वेनाफलत्वादित्यपि न संगतमित्याह; सामर्थ्याद्गम्यमानस्य निगमस्य वचो यथा । पक्षधर्मोपसंहारवचनं च तथा फलम् ॥ ७२॥ ननु च सपक्षधर्मोपसंहारस्य सामर्थ्याद्गम्यमानस्यापि हेतोरपक्षधर्मत्वेनासिद्धत्वस्य व्यवच्छेदः फलमस्तीति युक्तं तद्वचनमनुमन्यते यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च शब्द इति । तर्हि निगमनस्यापि प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थत्वोपदर्शनं फलमस्ति तत्तद्वचनमपि युक्तिमदेवेत्याह; तस्यासिद्धत्वविच्छित्तिः फलं हेतोर्यथा तथा । निगमस्य प्रतिज्ञानाद्येकार्थत्वोपदर्शनम् ॥७३॥ न हि प्रतिज्ञादीनामेकार्थत्वोपदर्शनमंतरेण संगतत्वमुपपद्यते भिन्नविषयप्रतिज्ञादिवत् । तथा प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकं स्यादन्यथा तस्या न साधनांगतेति यदुक्तं तदपि खमतघातिधर्मकीरित्याह; प्रतिज्ञातोर्थसिद्धौ स्याद्धेत्वादिवचनं वृथा । नान्यथा साधनांगत्वं तस्या इति यथैव तत्॥७४॥ तत्त्वार्थनिश्चये हेतोदृष्टांतोऽनर्थको न किम् । ततोतिविपरीतव्यतिरेकत्वं प्रदर्शितव्यतिरेकत्वमिति । न च वैधर्म्यदृष्टांतदोषाः क्वचिन्न्यायविनिश्चयादौ प्रतिपाद्यानुरोधतः सदृष्टांतेषु सप्रयोगेषु सविभागमुदाहृताः न पुनः साधनांगत्वानियमात् । तदनुद्भावनं प्रतिवादिनो निग्रहाधिकरणं वादिना स्वपक्षस्यासाधनेपीति ब्रुवाणः सौगतो जडत्वेन जडानपि छलादिना व्यवहारतो नैयायिकान् जयेत् । किं च Page #292 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २८३ सत्ये च साधने प्रोक्ते वादिना प्रतिवादिनः । दोषानुत्साधने न स्यानकारो वितथेपि वा७५ प्राच्ये पक्षे कलंकोक्तिद्धितीये लोकबाधिता । द्वयोर्हि पक्षसंसिद्ध्यभावे कस्य विनिग्रहः।।७६॥ अत्रान्ये प्राहुरिष्टं नस्तथा निग्रहणं द्वयोः । तत्त्वज्ञानोक्तिसामर्थ्यशून्यत्वस्याविशेषतः ॥७७॥ यथोपात्तापरिज्ञानं साधनाभासवादिनः । तथा सदृषणाज्ञानं दोषानुद्भाविनः समं ॥७८ ॥ जानतोपि सभातीते हन्यतो वा कुतश्चन । दोषानुद्भावनं यद्वत्साधनाभासवाक तथा ॥७९॥ दोषानुद्भावने तु स्याद्वादिना प्रतिवादिते । परस्य निग्रहस्तेन निराकरणतः स्फुटम् ॥ ८० ॥ अन्योन्यशक्तिनिर्घातापेक्षया हि जयेतरः । व्यवस्था वादिनोः सिद्धाः नान्यथातिप्रसंगतः८१ इत्येतदुर्विदग्धत्वे चेष्टितं प्रकटं न तु । वादिनः कीर्तिकारि स्यादेवं माध्यस्थहानितः॥८२॥ दोषानुद्भावनाख्यानाद्यथा परनिराकृतिः। तथैव वादिनः स्वस्य दृष्टवान् का तिरस्कृतिः ॥८३ दोषानुद्भावनादेकं न कुर्वति सभासदः । साधनानुक्तितो नान्यमित्यहो तेतिसज्जनाः॥८४॥ अत्र परेषामाकूतमुपदय विचारयति;पक्षसिद्धिविहीनत्वादेकस्यात्र पराजये । परस्यापि न किं न स्याज्जयोप्यन्यतरस्य तु ॥ ८५ ॥ तथा चैकस्य युगपत्स्यातां जयपराजयो । पक्षसिद्धीतरात्मत्वात्तयोः सर्वत्र लोकवत् ॥ ८६ ॥ तदेकस्य परेणेह निराकरणमेव नः । पराजयो विचारेषु पक्षासिद्धिस्तु सा क नुः ॥ ८७ ॥ पराजयप्रतिष्ठानमपेक्ष्य प्रतियोगिनां । लोके हि दृश्यते यादृक् सिद्धं शास्त्रेपि तादृशम् ॥८८ सिद्ध्यभावः पुनदृष्टः सत्यपि प्रतियोगिनि । साधनाभावतः शून्ये सत्यपि च स जातुचित्८९ तनिराकृतिसामर्थ्यशून्ये वादमकुर्वति । पराजयस्ततस्तस्य प्राप्त इत्यपरे विदुः ॥९॥ तत्रेदं चिंत्यते तावत्तनिराकरणं किमु । निर्मुखीकरणं किं वा वाग्भिस्तत्तत्त्वदूषणम् ॥ ९१ ॥ नाबादिकल्पना युक्ता परानुग्राहिणां सतां । निर्मुखीकरणावृत्तेर्बोधिसत्त्वादिवत्कचित् ॥१२॥ द्वितीयकल्पनायां तु पक्षसिद्धिः पराजयः । सर्वस्य वचनैस्तत्त्वदूषणे प्रतियोगिनाम् ॥९३ ॥ सिद्ध्यभावस्तु योगिनामसति प्रतियोगिनि । साधनाभावस्तत्र कथं वादे पराजयः ॥ ९४ ॥ यदैव वादिनोः पक्षः प्रतिपक्षपरिग्रहः । राजन्वति सदेकस्य पक्षासिद्धस्तथैव हि ॥ ९५ ॥ सा तत्र वादिनो सम्यक् साधनोक्तेर्विभाव्यते । तूष्णीभावाच नान्यत्र नान्यदेत्यकलंकवाक् ९६ तूष्णीभावोथवा दोषानाशक्तिः सत्यसाधने । वादिनोक्ते परस्येष्टा पक्षसिद्धिर्न चान्यथा ९७ कस्यचित्तत्त्वसंसिद्ध्यप्रतिक्षेपो निराकृतः । कीर्तिः पराजयोवश्यमकीर्तिदिति स्थितम्॥९८॥ असाधनांगवचनमदोषोद्भावनं द्वयोः । न युक्तं निग्रहस्थानं संधाहान्यादिवत्ततः ॥ ९९ ॥ के पुनस्ते प्रतिज्ञाहान्यादय इमे कथ्यते ? प्रतिज्ञाहानिः प्रतिज्ञांतरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वंतरं अर्थातरं निरर्थकं अविज्ञातार्थ अपार्थकं प्राप्तकालं पुनरुक्तं अननुभाषणं अज्ञानं अप्रतिभा पर्यनुयोग्यानुपेक्षणं निरनुयोज्यानुयोगः विक्षेपः मतानुज्ञा न्यूनं अधिकं अपसिद्धांतः हेत्वाभासाः छलं जातिरिति । तत्र प्रतिज्ञाहानिनिग्रहस्थानं कथमयुक्तमित्याह; प्रतिदृष्टांतधर्मस्य यानुज्ञा न्यायदशेने । स्वदृष्टांते मता सैव प्रतिज्ञाहानिरीश्वरैः ॥१०॥ प्रतिदृष्टांतधर्मानुज्ञा खदृष्टांते प्रतिज्ञाहानिरित्यक्षपादवचनात् । एवं सूत्रमनूद्य परीक्षणार्थ भाष्यमनुवदति; साध्यधर्मविरुद्धेन धर्मेण प्रत्यवस्थिते । अन्यदृष्टांतधर्मा..... मेवानुजानतः १०१॥ Page #293 -------------------------------------------------------------------------- ________________ (तत्त्वार्था० . २८४ तत्त्वार्थश्लोकवार्तिके प्रतिज्ञाहानिरित्येव भाष्याकाराग्रहो न वा । प्रकारांतरोप्यस्य स्यात संभवाच्चित्रविभ्रमात १०२ विनश्वरस्वभावोयं शब्द ऐंद्रियकत्वतः । यथा घट इति प्रोक्ते परः प्रत्यवतिष्ठते ॥ १०३ ॥ दृष्टमैंद्रियकं नित्यं सामान्यं तद्वदस्तु नः । शब्दोपीति स्वलिंगस्य ज्ञानात्ते नाप्यसंमतं ॥१०४ कामं घटोपि नित्योस्तु सामान्यं यदि शाश्वतं । इत्येवं भाष्यमाणेन प्रतिज्ञोत्पद्यते कथम् १०५ दृष्टांतस्य परित्यागात्स्वहेतोः प्रकृतक्षतेः । निगमांतस्य पक्षस्य त्यागादिति मतं यदि ॥१०६॥ . तदा दृष्टांतहानिः स्यात्साक्षादियमनाकुला । साध्यधर्मपरित्यागाद् दृष्टांते स्वेष्टसाधने ॥१०७ पारंपर्येण तु त्यागो हेतूपनययोरपि । उदाहरणहानी हि नानयोरस्ति साधुता ॥ १०८॥ निगमस्य परित्यागः पक्षवादोपि वा स्वयं । तथा च न प्रतिज्ञातहानिरेवेति संगतम् ॥१०९॥ पक्षत्यागात्प्रतिज्ञायास्त्यागस्तस्य तदासृतेः । पक्षत्यागेपि दृष्टांतत्यागादिति यदीष्यते॥११०।। हेत्वादित्यागतोपि स्यात् प्रतिज्ञात्यजनं तदा । ततः पक्षपरित्यागाविशेषानियमः कुतः १११ साधर्मप्रत्यनीकधर्मेण प्रत्यवस्थितः प्रतिदृष्टांतधर्म स्वदृष्टांतेनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । यथा अनित्यः शब्द ऐंद्रियकत्वात् घटवदिति ब्रुवन् परेण दृष्टमैंद्रियकं सामान्यं नित्यं कस्मान्न तथा शब्द इत्येवं प्रत्यवस्थितः । प्रयुक्तस्य हेतोराभासतामवश्यमपि कथावसानमकुर्वन्निश्चयमतिलंब्य प्रतिज्ञात्यागं करोति, यथेंद्रियकं सामान्यं नित्यं कामं घटोपि नित्योस्ति इति । स खल्वयं ससाधनस्य दृष्टांतस्य नित्यत्वं प्रसजन्निगमांतमेव पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति भाष्यकारमतमालूनविस्तीर्णमादर्शितम् ॥ प्रतिज्ञाहानिसूत्रस्य व्याख्यां वार्तिककृत्पुनः । करोत्येवं विरोधेन न्यायभाष्यकृतः स्फुटम् ११२ दृष्टश्चांते स्थितश्चायमिति दृष्टांत उच्यते । स्वदृष्टांतः स्वपक्षः स्यात् प्रतिपक्षः पुनर्मतः॥११३॥ प्रतिदृष्टांत एवेति तद्धर्ममनुजानतः । स्वपक्षे स्यात्प्रतिज्ञानमिति न्यायाविरोधतः ॥ ११४ ॥ सामान्यमैंद्रियं नित्यं यदि शब्दोपि तादृशः । नित्योस्त्विति बुवाणस्यानित्यत्वत्यागनिश्चयात् इत्येतच न युक्तं स्यादुद्योतकरजाद्यकृत् । प्रतिज्ञाहानिरित्थं तु यतस्तेनावधार्यते ॥ ११६ ॥ सा हेत्वादिपरित्यागात् प्रतिपक्षप्रसाधना । प्रायः प्रतीयते वादे मंदबोधस्य वादिनः॥११७॥ कुतश्चिदाकुलाभावादन्यतो वा निमित्ततः । तथा तद्वाचि सूत्रार्थो नियमान्न व्यवस्थितः११८ यथाह उद्योतकरः दृष्टश्चासावंते च व्यवस्थित इति दृष्टांतः स्वपक्षः, प्रतिदृष्टांतः प्रतिपक्षः प्रतिपक्षस्य धर्म पक्षेन्यत्र जानन् प्रतिज्ञां जहाति । यदि सामान्यमैंद्रियकं नित्यं शब्दोप्येवमस्त्विति तदेतदपि तस्य जाड्यकारि संलक्ष्यते । इत्थमेव प्रतिज्ञाहानेरेव वारयितुमशक्तेः । प्रतिपक्षप्रसाधनाद्धि प्रतिज्ञायाः किल हानिः संपद्यते तत्त्वहेत्वादिपरित्यागादपि कस्यचिन्मंदबुद्धे,दिनो वादिप्रायेण प्रतीयते न पुनः प्रतिपक्षस्य धर्म खपक्षेभ्यनुजानत एव येनायमेकप्रकारः प्रतिज्ञाहानौ स्यात् । तथा विक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्तात् किंचित्साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रति जनिरुपलभ्यत एव पुरुषभ्रांतेरनेककारणत्वोपपत्तेः । ततो नाप्तोपज्ञमेवेदं सूत्रं भाष्यकारस्य वार्तिककारस्य च व्यवस्थापयितुमशक्यत्वात् युक्त्यागमविरोधात् ॥ अत्र धर्मकीर्तेर्दूषणमुपदर्य परिहरन्नाह; यस्त्वाह द्रियकत्वस्य व्यभिचाराद्विनश्वरे । शब्दसाध्येन हेतुत्वं सामान्येनेति सोप्यधीः ११९ सिद्धसाधनतस्तेषां संधाहानेश्च भेदतः । साधनं व्यभिचारित्वात्तदनंतरतः कुतः ॥ १२० ॥ सास्त्येव हि प्रतिज्ञानहानिर्दोषः कुतश्चन । कस्यचिन्निग्रहस्थानं तन्मात्रात्तु न युज्यते॥१२१॥ Page #294 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २८५ येषां प्रयोगयोग्यास्ति प्रतिज्ञानमितीरणे । तेषां तद्धानिरप्यस्तु निग्रहो वा प्रसाधने ॥१२२॥ परेण साधिते खार्थे नान्यथेति हि निश्चितं । स्वपक्षसिद्धिरेवात्र जय इत्यभिधानतः ॥१२३॥ गम्यमाना प्रतिज्ञा न येषां तेषां च तत्क्षतिः । गम्यमानैव दोषः स्यादिति सर्व समंजसम्१२४ न हि वयं प्रतिज्ञाहानिर्दोष एव न भवतीति संगिरामहे अनैकांतिकत्वात् साधनदोषात् पश्चात् तद्भावात् ततो भेदेन प्रसिद्धेः । प्रतिज्ञां प्रयोज्यां सामर्थ्यगम्यां वा वदतस्तद्धानेस्तथैवाभ्युपगमनीयत्वात् सर्वथा तामनिच्छतो वादिन एवासंभवात् केवलमेतस्मादेव निमित्तात् प्रतिज्ञाहानिर्भवति प्रतिपक्षसिद्धमंतरेण च कस्यचिन्निग्रहाधिकरणमित्येतन्न क्षम्यते तत्त्वाव्यवस्थापयितुमशक्तेः ॥ प्रतिज्ञांतरमिदानीमनुवदति;प्रतिषेधे प्रतिज्ञातार्थस्य धर्मविकल्पतः । योसौ तदर्थनिर्देशस्तत्प्रतिज्ञांतरं किल ॥ १२५ ॥ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञांतरं तल्लक्षणसूत्रमनेनोक्तमिदं व्याचष्टे;घटोऽसर्वगतो यद्वत्तथा शब्दोप्यसर्वगः । तद्वदेवास्तु नित्योयमिति धर्मविकल्पनात् ॥१२६।। सामान्येनैंद्रियत्वस्य सर्वगत्वोपदर्शितं । व्यभिचारेपि पूर्वस्याः प्रतिज्ञायाः प्रसिद्धये ॥१२७॥ शब्दोऽसर्वगतस्तावदिति सत्त्वांतरं कृतम् । तच्च तत्साधनाशक्तमिति भाष्येन निग्रहः ॥१२८॥ अनित्यः शब्दः ऐंद्रियकत्वाद्धटवदित्येकः सामान्यमैंद्रियकं नित्यं कस्मान्न तथा शब्द इति द्वितीयः । साधनस्यानैकांतिकत्वं सामान्येनोद्भावयति तेन प्रतिज्ञातार्थस्य प्रतिषेधे सति तं दोषमनुद्धरन् धर्मविकल्पं करोति, सोयं शब्दोऽसर्वगतो घटवदाहोतित्सर्वगतः सामान्यवदिति ? यद्यसर्वगतो घटवत्तदा तद्वदेवानित्योस्त्विति ब्रूते । सोयं सर्वगतत्वासर्वगतत्वधर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञांतरं अनित्यः शब्द इति प्रतिज्ञातोऽसर्वगतो अनित्यः शब्द इति प्रतिज्ञाया अन्यत्वात् । तदिदं निग्रहस्थानं साधनसामर्थ्यापरिज्ञानाद्वादिनः । न चोत्तरप्रतिज्ञा पूर्वप्रतिज्ञां साधयत्यतिप्रसंगात् इति परस्याकूतं ।। अत्र धर्मकीर्तेः दूषणमुपदर्शयति;नात्रेदं युज्यते पूर्वप्रतिज्ञायाः प्रसाधने । प्रयुक्तायां परस्यास्तद्भावहानेन हेतुवत् ॥ १२९ ॥ तदसर्वगतत्वेन प्रयुक्तार्दैद्रियत्वतः । शब्दानित्यत्वमाहायमिति हेत्वंतरं भवेत् ॥ १३० ।। न प्रतिज्ञांतरं तस्य कचिदप्यप्रयोगतः । प्रज्ञावतां जडानां तु नाधिकारो विचारणे ॥१३१॥ विरुद्धादिप्रयोगस्तु प्राज्ञानामपि संभवात् । कुतश्चिद्विश्रमात्तत्रेत्याहुरन्ये तदप्यसत् ।।१३२॥ प्रतिज्ञातार्थसिद्ध्यर्थ प्रतिज्ञायाः समीक्षणात् । भ्रांतैः प्रयुज्यमानायाः विचारे सिद्धहेतुवत् १३३ प्राज्ञेति विभ्रमायाद्वादेऽसिद्धादिसाधनम् । स्वपक्षसिद्धिर्येन स्यात्सत्त्वमित्यतिदुर्घटम्॥१३४॥ ततो प्रतिपत्तिवत्प्रतिज्ञांतरं कस्यचित्साधनसामाप्रतिज्ञानात् प्रतिज्ञाहानिवत् ॥ तर्हि कथमिदमयुक्तमित्याह;ततोनेनैव मार्गेण प्रतिज्ञांतरसंभवः । इत्येतदेव निर्मुक्तिस्तद्धि नानानिमित्तकं ॥ १३५ ॥ प्रतिज्ञाहानितश्चास्य भेदः कथमुपेयते । पक्षत्यागाविशेषेपि योगैरिति च विस्मयः ॥१३६ ॥ प्रतिदृष्टांतधर्मस्य स्वदृष्टांतेभ्यनुज्ञया । यथा पक्षपरित्यागस्तथा संधांतरादपि ॥ १३७ ॥ खपक्षसिद्धये यद्वत्संधांतरमुदाहृतं । भ्रांत्या तद्वच्च शब्दोपि नित्योस्त्विति न किं पुनः॥१३८ शब्दानित्यत्वसिद्ध्यर्थं नित्यः शब्द इतीरणं । स्वस्थस्य वाहतं यद्वत्तथा सर्वगशब्दवाक्॥१३९ . Page #295 -------------------------------------------------------------------------- ________________ २८६ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० ततः प्रतिज्ञाहानिरेव प्रतिज्ञांतरं निमित्तभेदात्त दैर्निग्रहस्थानांतराणां प्रसंगात् । तेषां तत्रांतर्भावे प्रतिज्ञांतरस्येति प्रतिज्ञानावर्तभावस्य निवारयितुमशक्तेः ॥ प्रतिज्ञाविरोधमनूद्य विचारयन्नाह;. प्रतिज्ञाया विरोधो यो हेतुना संप्रतीयते । स प्रतिज्ञाविरोधः स्यादित्येतच न युक्तिमत् १४० प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध इति सूत्रं । यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुश्च प्रतिज्ञायाः स प्रतिज्ञाविरोधो नाम निग्रहस्थानं, यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणादिति न्यायवार्तिकं । तच्च न युक्तिमत् ॥ प्रतिज्ञायाः प्रतिज्ञात्वे हेतुना हि निराकृते । प्रतिज्ञाहानिरेवेयं प्रकारांतरतो भवेत् ॥१४१॥ द्रव्यं भिन्नं गुणात्स्वस्मादिति पक्षेभिभाषिते । रूपाद्यर्थीतरत्वेनानुपलब्धेरितीर्यते ॥ १४२ ॥ येन हेतुर्हतस्तेनासंदेहं भेदसंगरः । तदभेदस्य निर्णीतेस्तत्र तेनेति बुध्यताम् ॥ १४३ ॥ हेतोविरुद्धता वा स्यादोषोयं सर्वसंमतः । प्रतिज्ञादोषता त्वस्य नान्यथा व्यवतिष्ठते ॥१४४॥ यदपि उद्योतकरेणाभ्यधायि; 'एतेनैव प्रतिज्ञाविरोधोप्युक्तः, यत्र प्रतिज्ञा स्ववचनेन विरुध्यते यथा श्रवणा गर्भिणी नास्त्यात्मेति वाक्यांतरोपप्लवादिति' तदपि न युक्तमित्याह; प्रतिज्ञा च स्वयं यत्र विरोधमधिगच्छति । नास्त्यात्मेत्यादिवत्तत्र प्रतिज्ञाविधिरेव नः॥१४५ तद्विरोधोद्भावनेन त्यागस्यावश्यं भावित्वात् । स्वयमत्यागान्नेयं प्रतिज्ञाहानिरिति चेत् न, तद्विरुद्धत्वप्रतिपत्तेरेव न्यायबलात्त्यागरूपत्वात् । यत्किचिदवदतोपि प्रतिज्ञाकृतिसिद्धेवदतोपि दोषत्वेनैव तत्त्यागस्य व्यवस्थितेः । यदपि तेनोक्तं हेतुविरोधोपि प्रतिज्ञाविरोध एव एतेनोक्तो यत्र हेतुः प्रतिज्ञया बाध्यते यथा सर्व पृथक् समूहे भावशब्दप्रयोगादिति, तदपि न साधीय इत्याह; हेतुः प्रतिज्ञया यत्र बाध्यते हेतुदुष्टता । तत्र सिद्धान्यथा संधाविरोधोतिप्रसज्यते ॥ १४६ ॥ सर्व पृथक समुदायः भावशब्दप्रयोगतः । इत्यत्र सिद्धया भेदसंधया यदि बाध्यते॥१४७॥ हेतुस्तत्र प्रसिद्धन हेतुना सापि बाध्यतां । प्रतिज्ञावत्परस्यापि हेतुसिद्धेरभेदतः ॥ १४८ ॥ भावशब्दः समूहं हि यस्यैकं वक्ति वास्तवं । तस्य सर्व पृथक्तत्त्वमिति संधाधिहन्यते ॥१४९॥ विरुद्धसाधनाद्वायं विरुद्धो हेतुरागतः । समूहावास्तवे हेतुदोषो नैकोपि पूर्वकः ॥ १५० ॥ सर्वथा भेदिनो नानार्थेषु शब्दप्रयोगतः । प्रकल्पितसमूहेष्वित्येवं हेत्वर्थनिश्चयात् ॥१५१॥ तथा सति विरोधोयं तद्धेतोः संधया स्थितः । संधाहानिस्तु सिद्धेयं हेतुना तत्प्रवाधनात्१५२ यदप्यभिहितं तेन, एतेन प्रतिज्ञाया दृष्टांतविरोधो वक्तव्यो हेतोश्च दृष्टांतादिभिर्विरोधः प्रमाणविरोधश्च प्रतिज्ञाहेतोर्यथा वक्तव्यः इति, तदपि न परीक्षाक्षममित्याह; दृष्टांतस्य च यो नाम विरोधः संधयोदितः । साधनस्य च दृष्टांतप्रमुखैर्मानबोधनम् ॥१५३॥ प्रतिज्ञादिषु तस्यापि न प्रतिज्ञाविरोधता । सूत्रारूढतयोक्तस्य भांडालेख्यनयोक्तिवत् ॥१५४॥ प्रतिज्ञानेन दृष्टांतबाधने सति गम्यते । तत्प्रतिज्ञाविरोधः स्याद्विस्तत्त्वादिति चेन्मतम् ॥१५५।। हंत हेतुविरोधोपि किं नैषोभीष्ट एव ते । दृष्टांतादिविरोधोपि हेतुरेतेन वर्णितः ॥ १५६ ॥ निग्रहस्थानसंख्यानविघातकृदयं ततः । यथोक्तनिग्रहस्थानेष्वंतर्भावाविरोधतः ॥ १५७ ॥ प्रत्यक्षादिप्रमाणेन प्रतिज्ञाबाधनं पुनः । प्रतिज्ञाहानिरायाता प्रकारांतरतः स्फुटम् ॥ १५८ ॥ निदर्शनादिबाधा च निग्रहांतरमेव ते । प्रतिज्ञानश्रुतेस्तत्राभावात्तद्वाधनात्ययात् ॥ १५९ ॥ यदप्यवादि तेन परपक्षसिद्धेन गोत्वादिनानकांतिकचोदनाविरुद्धेति यः परपक्षसिद्धेन गोत्वादिना Page #296 -------------------------------------------------------------------------- ________________ २८७ प्रथमोऽध्यायः । व्यभिचारयति तद्विरुद्धमुत्तरं वेदितव्यम् । अनित्यः शब्दः ऐंद्रियकत्वात् घटवदिति केनचिबौद्धं प्रत्युक्तं, नैयायिकप्रसिद्धेन गोत्वादिना सामान्येन हेतोरनैकांतिकत्वचोदना हि विरुद्धमुत्तरं सौगतस्यानिष्टसिद्धेरिति । तदपि न विचाराहमित्याह; मोक्षादिना स्वसिद्धेन यानैकांतिकचोदना । परपक्षविरुद्धं स्यादुत्तरं तदिहेत्यपि ॥ १६० ॥ न प्रतिज्ञाविरोधेतर्भावमेति कथंचन । स्वयं तु साविते सम्यग्गोत्वादौ दोष एव सः॥१६॥ निराकृतौ परेणास्थानकांतिकसमानता । हेतोरेव भवेत्तावत् संधादोषस्तु नेष्यते ॥ १६२ ॥ यदप्यमाणि तेन, स्वपक्षानपेक्षं च तथा यः खखपक्षानपेक्षं हेतुं प्रयुक्त अनित्यः शब्द ऐंद्रियकत्वादिति स खसिद्धस्य गोत्वादेरनित्यत्वविरोधाद्विरुद्ध इति । तदप्यपेशलमित्याह; हेतावैद्रियकत्वे तु निजपक्षानपेक्षिणि । स प्रसिद्धस्य गोत्वादेरिति तत्त्वविरोधतः ॥ १६३॥ स्थाद्विरोध इतीदं च तद्वदेव न भिद्यते । अनैकांतिकतादोषात्तदभावाविशेषतः ॥ १६४ ॥ वादीतरप्रतानेन गोत्वेन व्यभिचारता । हेतोर्यथा चैकतरसिद्धनासाधनेन किम् ॥१६५॥ प्रमाणेनाप्रसिद्धौ तु तस्य सैव तदा भवत् । सर्वेषामपि तेनायं विभागो जडकल्पितः॥१६६॥ सोयमुद्योतकरः खयमुभयपक्षसंप्रतिपन्नस्त्वनैकांतिक इति प्रतिपद्यमानो वादिनः प्रतिवादिन एव प्रमाणतः सिद्धेन गोत्वादिनानैकांतिकचोदनेन हेतोविरुद्धमुत्तरं ब्रुवाणमतिक्रमेण कथं न्यायवादी ? अप्रमाणसिद्धेन तु सर्वेषां तच्चोदनं दोषाभास एवेति तद्विभागं कुर्वन् जडत्वमात्मनो निवेदयति । अत्र प्रतिज्ञावचनादेवासाधनांगवचनेन वादिनिगृहीते प्रतिज्ञाविरुद्धस्यानिग्रहत्वमेवेति धर्मकीर्तिनोक्तं दूषणमसंगतं गम्यमानः प्राह; प्रतिज्ञावचनेनैव निगृहीतस्य वादिनः । न प्रतिज्ञाविरोधस्य निग्रहत्वमितीतरे ॥ १६७ ॥ तेषामनेकदोषस्य साधनस्याभिभाषणे । परेणैकस्य दोषस्य कथनं निग्रहो यथा ॥ १६८॥ तथान्यस्यात्र तेनैव कथनं तस्य निग्रहः । किं नेष्टो वादिनोरेवं युगपन्निग्रहस्तव ॥ १६९ ॥ साधनावयवस्यापि कस्यचिद्वचने सकृत् । जयोस्तु वादिनोन्यस्यावचने च पराजयः ॥१७०॥ प्रतिपक्षाविनाभाविदोषस्योद्भावने यदि । वादिनि न्यत्कृतेन्यस्य कथं नास्य विनिग्रहः॥१७१ तदा साध्याविनाभावि साधनावयवेरणे । तस्यैव शक्त्युभयाकारेन्यस्यवाक् च पराजयः १७२ विरुद्धोद्भावनं हेतोः प्रतिपक्षप्रसाधनं । यथा तथा विनाभाविहेतूक्तिः स्वार्थसाधना॥१७३॥ साधनावयवोनेकः प्रयोक्तव्यो यथापरः । तथा दोषोपि किं न स्यादुद्भाव्यस्तत्र तत्त्वतः१७४ तस्मात्प्रयुज्यमानस्य गम्यमानस्य वा स्वयं । संगरस्य व्यवस्थानकथाविच्छेदमात्रकृत् ॥१७५॥ संगरः प्रतिज्ञातस्य वादिना युज्यमानस्य पक्षधर्मोपसंहारवचनसामर्थ्याद्गम्यमानस्य वा यदव्यवस्थानं खदृष्टांते प्रतिदृष्टांतधर्मानुज्ञानात् प्रतिज्ञातार्थप्रतिषेधेन धर्मविकल्पात् तदर्थनिर्देशाद्वा प्रतिज्ञाहेत्वोविरोधात् प्रतिज्ञाविरोधाद्वा प्रतिवादिनापद्येत तत्कथाविच्छेदमानं करोति न पुनः पराजयं वादिनः खपक्षस्य प्रतिवादिनावश्यं साधनीयत्वादिति न्यायं बुद्ध्यामहे । प्रतिज्ञावचनं तु कथाविच्छेदमात्रमपि न प्रयोजयति तस्यासाधनांगत्वाव्यवस्थितेः पक्षधर्मोपसंहारवचनादित्युक्तं प्राक् । केवलं खदर्शनानुरागमात्रेण प्रतिज्ञावचनस्य निग्रहत्वेनोद्भावनेपि सौगतैः प्रतिज्ञाविरोधादिदोषोद्भावनं नावसरमनुमंतव्यं, अमेकसाधनवचनवदनेकदूषणवचनस्यापि विरोधाभावात् सर्वथा विशेषाभावादिति विचारितमस्माभिः ॥ संप्रति प्रतिज्ञासंन्यासं विचारयितुमुपक्रममाह;प्रतिज्ञार्थापनयनं पक्षस्य प्रतिषेधने । न प्रतिज्ञानसंन्यासः प्रतिज्ञाहानितः पृथक् ॥ १७६ ॥ Page #297 -------------------------------------------------------------------------- ________________ २८८ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० ___ ननु पक्षप्रतिषेधे 'प्रतिज्ञानार्थापनयनं प्रतिज्ञासंन्यासः' इति सूत्रकारवचनात् यः प्रतिज्ञातमर्थ पक्षप्रतिषेधे कृते परित्यज्यति स प्रतिज्ञासंन्यासो वेदितव्यः उदाहरणं पूर्ववत् । सामान्येनैकांतिकत्वाद्धेतोः कृते ब्रूयादेक एव महान्नित्य शब्द इति । एतत्साधनस्य सामर्थ्यापरिच्छेदाद्विप्रतिपत्तितो निग्रहस्थानमित्युद्योतकरवचनाच्च प्रतिज्ञासंन्यासस्तस्य प्रतिज्ञाहानेर्भेद एवेति मन्यमानं प्रत्याह; एक एव महान्नित्योयं शब्दः इत्यनीयत । प्रतिज्ञार्थः किलानेन पूर्ववत्पक्षदूषणे ॥ १७७॥ । हेतोरैंद्रियकत्वस्य व्यभिचारप्रदर्शनात् । तथा चापनयो हानिः संधाया इति नार्थभित्।।१७८ प्रतिज्ञाहानिरेवैतैः प्रकारैर्यदि कथ्यते । प्रकारांतरतोपीयं तदा किं न प्रकथ्यते ॥ १७९ ॥ तन्निमित्तप्रकाराणां नियमाभावतः क नु । यथोक्ता नियतिस्तेषां नसोपचं वचस्ततः॥१८०॥ पक्षस्य प्रतिषेधे हि तूष्णींभावो धरेक्षणं । व्योमेक्षणं दिगालोकः खात्कृतं चपलायितम् १८१ हस्तास्फालनमाकंपः प्रस्वेदाद्यप्यनेकधा । निग्रहांतरमस्यास्तु तत्प्रतिज्ञांतरादिवत् ॥ १८२ ॥ हेत्वंतरं विचारयन्नाह;अविशेषोदिते हेतौ प्रतिषिद्धे प्रवादिना । विशेषमिच्छतः प्रोक्तं हेत्वंतरमपीह यत् ॥१८३॥ तदेवमेव संभाव्यं नान्यथेति न निश्चयः । परस्मिन्नपि हेतौ स्यादुक्ते हेत्वंतरं यथा ॥१८४॥ यथा च प्रकृते हेतौ दोषवत्यपि दर्शिते । परस्य वचनं हेतोर्हेत्वंतरमुदाहृतम् ॥ १८५ ॥ तथा निदर्शनादौ च दृष्टांताद्यंतरं न किम् । निग्रहस्थानमास्थेयं व्यवस्थाप्यातिनिश्चितम् १८६ यदि हेत्वंतरेणैव निगृहीतस्य वादिनः । दृष्टांताद्यंतरं तत्स्यात्कथायां विनिवर्तनात् ॥१८७॥ तदानैकांतिकत्वादिहेतुदोषेण निर्जिते । मा भूद्धत्वंतरं तस्य तत एवाविशेषतः ॥ १८८ ॥ यथा चोद्भाविते दोषे हेतोर्यद्वा विशेषणं । ब्रूयात्कश्चित्तथा दृष्टांतादेरपि जिगीषया ॥१८९।। अविशेषोक्तौ हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वंतरमिति सूत्रकारवचनात् द्वित्वत्वं निग्रहस्थानं साधनांतरोपादाने पूर्वस्यासामर्थ्यख्यापनात् । सामर्थ्य वा पूर्वस्य हेत्वंतरं व्यर्थमित्युद्योतकरो व्याचक्षाणो गतानुगतिकतामात्मसात्कुरुते प्रकारांतरेणापि हेत्वंतरवचनदर्शनात् । तथा अविशेषोक्ते दृष्टांतोपनयननिगमने प्रतिसिद्धे विशेषमिच्छतो दृष्टांताद्यंतरोपादाने पूर्वस्यासामर्थ्यख्यापनात् । सामर्थ्य वा पूर्वस्य प्रतिदृष्टांतायंतरं व्यर्थमिति वक्तुमशक्यत्वात् । अत्राक्षेपसमाधानानां समानत्वात् यदप्यप्रादेशिप्रकृतादादप्रतिसंबंधत्वार्थमर्थातरमभ्युपगमार्थासंगतत्वान्निग्रहस्थानमिति तदपि विचारयति;प्रतिसंबंधशून्यानामर्थानामभिभाषणम् । यत्पुनः प्रकृतादर्थादर्थांतरसमाश्रितम् ॥ १९० ॥ कचित्किंचिदपि न्यस्य हेतुं तच्छब्दसाधने । पदादिव्याकृतिं कुर्याद्यथानेकप्रकारतः॥१९१॥ तत्रापि साधनेनुक्ते प्रोक्तांतरवाक् कथम् । निग्रहो दूषणे वापि लोकनाद्विनियम्यते॥१९२॥ असमर्थे तु तन्न स्यात्कस्यचित्पक्षसाधने । निग्रहार्थातरं वादे नान्यथेति विनिश्चयः॥१९३॥ निरर्थकं विचारयितुमारभते;वर्णक्रमस्य निर्देशो यथा तद्वनिरर्थकं । (कथं)यथा जबझभेत्यादेः प्रत्याहारस्य कुत्रचित् १९४ यदुक्तं वर्णक्रमो निर्देशवन्निरर्थकं । तद्यथा-नित्यः शब्दो जबगडदस्त्वाज्झभघढधवदिति ॥ तत्सर्वथार्थशून्यत्वात् किं साध्य उपयोगतः । किं वानादिविकल्पोत्रासंभवादेव तादृशः १९५ वर्णक्रमादिशब्दस्याप्यर्थवत्त्वात्कथंचन । तद्विचारे कचिच्चमत्कार्येणार्थेन योगतः ॥ १९६॥ द्वितीयकल्पनायां तु सर्वमेव निरर्थकम् । निग्रहस्थानमुक्तं स्यात्सिद्धवन्नोपयोगिवत् ॥१९७॥ Page #298 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ૮૨ तस्मान्नेदं पृथग्युक्तं कक्षादिहितकादिवत् । कथाविच्छेदमात्रं तु भवेत्पक्षांतरोक्तिवत् ॥ १९८ ॥ तथाहि — ब्रुवन्न साध्यं न साधनं जानीते असाध्यसाधनं चोपादत्ते इति निगृह्यते खपक्षं साधयतान्येन नान्यथा, न्यायविरोधात् । यदप्युक्तं, “परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थं भाष्ये चोदनाहृतमसामर्थ्यं च व्यापनान्निग्रहस्थानं ससामर्थ्य चाज्ञानमिति, तदिह विचार्यते;परिषत्प्रतिवादिभ्यां त्रिरुक्तमपि वादिना । अविज्ञातमविज्ञातार्थ तदुक्तं जडात्मभिः ॥ १९९ ॥ यदा मंदमती तावत्परिषत्प्रतिवादिनौ । तदा सत्यगिरोपेते निग्रहस्थानमापयेत् ॥ २०० ॥ यदा तु तौ महाप्राज्ञौ तदा गूढाभिधानतः । द्रुतोच्चारादितो वा स्यात्तयोरनवबोधनम् ॥ २०१ प्राग्विकल्पे कथं युक्तं तस्य निग्रहणं सताम् । यत्र वाक्यप्रयोगेपि वक्तुस्तदनुषंगतः ॥ २०२ ॥ यत्र वाक्यं स्वयं वादी व्याचष्टेन्यैरनिश्चितम् । यथा तथैव व्याचष्टं गूढोपन्यासमात्मनः २०३ अध्याख्याने तु तस्यास्तु जयाभावो न निग्रहः । परस्य पक्षसंसिद्ध्यभावादेतावता ध्रुवम् २०४ द्रुतोच्चारादितस्त्वेताः कथंचिवगच्छतः । सिद्धांतद्वयतत्त्वज्ञैस्ततो नाज्ञानसंभवः ।। २०५ ।। वक्तुः प्रलापमात्रे तु तयोरनवबोधनम् । नाविज्ञातार्थमेतत्स्याद्वर्णानुक्तमवादवत् ॥ २०६ ॥ ततो नेदमविज्ञातार्थ निरर्थकाद्भिद्यते नाप्यपार्थकमित्याह ; - प्रतिसंबंधहीनानां शब्दानामभिभाषणं । पौर्वापर्येण योगस्य तत्राभावादपार्थकम् ॥ २०७ ॥ दाडिमानि दशेत्यादिशब्दवत्परिकीर्तनम् । ते निरर्थकतो भिन्नं न युक्त्या व्यवतिष्ठते ॥ २०८ नैरर्थक्यं हि वर्णानां यथा तद्वत्पदातिषु । नाभिद्येतान्यथा वाक्यं नैरर्थक्यं ततोपरम् ॥ २०९ न हि परस्परसंगतानि पदान्येव न पुनर्वाक्यानीति शक्यं वक्तुं तेषामपि पौर्वापर्येणापि युज्यमानानां बहुलमुपलंभात् । “शंखः कदल्यां कदली च भेर्यौ तस्यां च भेर्यां सुमहद्विमानं । तच्छंखभेरी कदली विमानमुन्मत्तगंगप्रतिमं बभूव ||" इत्यादिवत् । यदि पुनः पदनैरर्थक्यमेव वाक्यनैरर्थक्यं पदसमुदायत्वाद्वाक्यस्येति मतिस्तदा वर्णनैरर्थक्यमेव पदनैरर्थक्यमस्तु वर्णसमुदायत्वात्पदस्येति मन्यतां, वर्णानां सर्वत्र निरर्थकत्वात्पदस्य निरर्थकत्वप्रसंग इति चेत्, पदस्यापि निरर्थकत्वात्तत्समुदायात्मनो वाक्यस्यापि निरर्थकस्वानुषंगः । पदार्थापेक्षया सार्थकं पदमिति चेत्, वर्णार्थापेक्षया वर्णः सार्थकोस्तु । प्रकृतिप्रत्ययादिवर्णवत् न प्रकृतिः केवला पदं प्रत्ययो वा नापि तयोरर्थकत्वमभिव्यक्तार्थाभावादनर्थकत्वे पदस्याप्यनर्थकत्वं । यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिभिद्यते प्रत्ययार्थः स्वप्रकृत्या तयोः केवलयोरप्रयोगार्हत्वात् । तथा देवदत्तस्तिष्ठतीत्यादिप्रयोगेषु सुवंतपदार्थस्य तिङतपदेनाभिव्यक्तेः तिङतपदार्थस्य च सुबंतपदेनाभिव्यक्तेः केवलस्याप्रयोगार्हत्वादभिव्यक्तार्थाभावो विभाव्यत एव । पदांतरापेक्षत्वे सार्थकत्वमेवेति तत्प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवत्स्वस्य सार्थकत्वं साधयत्येव सर्वथा विशेषाभावात् । ततो वर्णानां पदानां च संगतार्थानां निरर्थकत्वमिच्छता वाक्यानामप्यसंगतार्थानां निरर्थकत्वमेषितव्यं । तस्य ततः पृथक्त्वेन निगृह्णन् स्थानत्वानिष्टौ वर्णपदनिरर्थकत्वयोरपि तथा निग्रहाधिकरणत्वं मा भूत् । यदप्युक्तं, अवयवविपर्यासं बंधनमप्राप्तकालं अवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं निग्रहस्थानमिति । तदपि न सुघढमित्याह संधाद्यवयवान्यायाद्विपर्यासेन भाषणम् । अप्राप्तकालमाख्यातं तच्चायुक्तं मनीषिणाम् ।। २१० पदानां क्रमनियमं विनार्थाव्यवसायतः । देवदत्तादिवाक्येषु शास्त्रेप्येवं विनिर्णयात् ॥ २११ ॥ यथापशब्दतः शब्दप्रत्ययादर्थनिश्चयः । शब्दादेव तथा स्वादिव्युत्क्रमान्न क्रमस्य वित् २१२ ३७ Page #299 -------------------------------------------------------------------------- ________________ २९० तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० ततो वाक्यार्थनिर्णीतिः पारंपर्येण जायते । विपर्यासात्तु नैवेति केचिदाहुस्तदप्यसत् ॥२१३॥ व्युत्क्रमादर्थनिर्णीतिरपशब्दादिवेत्यपि । वक्तुं शक्तस्तथा दृष्टेः सर्वथाप्यविशेषतः ॥ २१४॥ शब्दाव्याख्यानवैयर्थ्यमेवं चेत्तत्त्ववादिनाम् । नापशब्देष्वपि प्रायो व्याख्यानस्योपलक्षणात्२१५ तथा च संस्कृताच्छब्दात्सत्याद्धर्मस्तथान्यतः। स्यादसत्यं यदा धर्मः क नियमः पुण्यपापयोः२१६ वृद्धिप्रसिद्धितस्त्वेष व्यवहारः प्रवर्तते । संस्कृतैरिति सर्वापि शब्दैभाषाखनैरिव ॥ २१७ ॥ । ततोर्थानिश्चयो येन पदेन क्रमशः स्थितः । तद्यतिक्रमणाद्दोषो नैरर्थक्यं न चापरम् ॥२१८॥ एतेनैतदपि प्रत्याख्यातं । यदाहोद्योतकरः, यथा गौरित्यस्य पदस्यार्थे गौणीति प्रयुज्यमानं पदं न वक्रादिमंतमर्थ प्रतिपादयतीति न शब्दायाख्यानं व्यर्थ अनेनापशब्देनासौ गोशब्दमेव प्रतिपद्यते गोशब्दाच्चक्रादिमंतमर्थ तथा प्रतिज्ञाद्यवयवाविपर्ययेणानुपूर्व प्रतिपद्यते तथानुपूर्व्यार्थमिति । पूर्व हि तावत्कर्मोपादीयते लोके ततोधिकरणादि मृत्पिडचक्रादिवत् । तथा नैवायं समयोपि त्वर्थस्यानुपूर्वी । सोयमानुपूर्वीमन्वाचक्षाणो नाम व्याख्येयात् कस्यायं समय इति । तथा शास्त्रे वाक्यार्थसंग्रहार्थमुपादीयते संगृहीतं त्वर्थ वाक्येन प्रतिपादयिता प्रयोगकाले प्रतिज्ञादिकयानुपूर्व्या प्रतिपादयतीति सर्वथानुपूर्वीप्रतिपादनभावादेवाप्राप्तकालस्य निग्रहस्थानत्वसमर्थनादन्यथा परचोद्यस्यैवमपि सिद्धेः । समवायानभ्युपगमाद्बहुप्रयोगाच्च नैवावयवविपर्यासवचनं निग्रहस्थानमित्येतस्य परिहर्तुमशक्तेः । सर्वार्थानुपूर्वी प्रतिपादनाभावोऽवयवविपर्यासवचनस्य निरर्थकत्वान्न्याय्यः । ततो नेदं निग्रहस्थानांतरं यथोक्तं हीनमन्यतमेनाप्यवयवेन न्यूनं । यस्मिन् वाक्ये प्रतिज्ञादीनामन्यतमावयवो न भवति तद्वाक्यं हीनं वेदितव्यं । तच्च निग्रहस्थानसाधनाभावे साध्यसिद्धेरभावात् प्रतिज्ञादीनां पंचानामपि साधनत्वात् प्रतिज्ञान्यून नास्तीत्येके । तेत्र पर्यनुयोज्याः, प्रतिज्ञान्यूनं वाक्यं यो ब्रूते स किं निगृह्यते ? अथ नेति यदि निगृह्यते कथमनिग्रहस्थानं ? न हि तत्र हेत्वादयो न संति न च हेत्वादिदोषाः संतीति निग्रहं चाभ्युपैति । तस्मात्प्रतिज्ञान्यूनमेवेति । अथ न निग्रहः न्यूनं वाक्यमर्थ साधयतीति साधनाभावे सिद्धिरभ्युपगता भवति । यच्च ब्रवीषि सिद्धांतपरिग्रह एव प्रतिज्ञेति, तदपि न बुद्ध्यामहे । कर्मण उपादानं हि प्रतिज्ञासामान्यं विशेषतोवधारितस्य वस्तुनः परिग्रहः सिद्धांत इति कथमनयोरैक्यं, यतः प्रतिज्ञा. साधनविषयतया साधनांगं तत्स्यादित्युद्योतकरस्याकूतं, तदेतदपि न समीचीनमिति दर्शयति हीनमन्यतमेनापि वाक्यं स्वावयवेन यत् । तन्यूनमित्यसत्स्वार्थे प्रतीतेस्तादृशादपि ॥२१९ ॥ यावदवयवं वाक्यं साध्यं साधयति तावदवयवमेव साधनं न च पंचावयवमेव साध्यं साधयति क्वचित्प्रतिज्ञामंतरेणापि साधनवाक्यस्योत्पत्तेर्गम्यमानस्य कर्मणः साधनात् । तथोदाहरणहीनमपि साधनवाक्यमुपपन्नं साधर्म्यवैधर्योदाहरणविरहेपि हेतोर्गमकत्वसमर्थनात् । तत एवोपनयनिगमनहीनमपि वाक्यं च साधनं प्रतिज्ञाहीनवत् विदुषः प्रति हेतोरेव केवलस्य प्रयोगाभ्युपगमात् । धूमोत्र दृश्यते इत्युक्तेपि कस्यचिदग्निप्रतिपत्तेः प्रवृत्तिदर्शनात् सामर्थ्याद्गम्यमानास्तत्र प्रतिज्ञादयोपि संतीति चेत् , तर्हि प्रयुज्यमाना न संतीति तैविनापि साध्यसिद्धेः न तेषां वचनं साधनं साध्याविनाभाविसाधनमंतरेण साध्यसिद्धेरसंभवात् । तद्वचनमेव साधनमतस्तन्न्यूनं न निग्रहस्थानं परस्य खपक्षसिद्धौ सत्यामित्येतदेव श्रेयः प्रतिपद्यामहे । प्रतिज्ञादिवचनं तु प्रतिपाद्याशयानुरोधेन प्रयुज्यमानं न निवार्यते ततं एवासिद्धो हेतुरित्यादिप्रतिज्ञावचनं हेतुदूषणोद्भावनकाले कस्यचिन्न विरुध्यते तदवचननियमानभ्युपगमात् । तर्हि यथाविधान्यूनादर्थस्यापि सिद्धिस्तथाविधं तन्निग्रहस्थानमित्यपि न घटत इत्याह;__यथाचार्याप्रतीतिः स्यात्तनिरर्थकमेव ते । निग्रहांतरतोक्तिस्तु तत्र श्रद्धानुसारिणाम् ॥२२०॥ Page #300 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । २९१ यथोक्तं, हेतूदाहरणादिकमधिकं यस्मिन् वाक्ये द्वौ हेतू द्वौ वा दृष्टांतौ तद्वाक्यमधिकं निग्रहस्थानं आधिक्यादिति तदपि न्यूनेन व्याख्यातमित्याह ; तूदाहरणाभ्यां यद्वाक्यं स्यादधिकं परैः । प्रोक्तं तदधिकं नाम तच्च न्यूनेन वर्णितम् ॥ २२१ तच्च पर्यवसानायां कथायां तत्त्वनिर्णयः । यदा स्यादधिकादेव तदा का नाम दुष्टता ॥ २२२ स्वार्थ केधिके सर्व नास्ति वाक्याभिभाषणे । तत्प्रसंगात्ततोर्थस्यानिश्चयात्तन्निरर्थकम् २२३ सोयमुद्योतकरः, साध्यस्यैकेन ज्ञापितत्वाद्यर्थमभिधानं द्वितीयस्य, प्रकाशिते प्रदीपांतरोपादानवदनवस्थानं वा, प्रकाशितेपि साधनांतरोपादाने परापरसाधनांतरोपादानप्रसंगादिति ब्रुवाणः प्रमाणसंप्लवं समर्थयत इति कथं स्वस्थः ? कस्यचिदर्थस्यैकेन प्रमाणेन निश्चयेपि प्रमाणांतरविषयत्वेपि न दोषो दादितिचेत्, किमिदं दा नाम : सुतरां प्रतिपत्तिरितिचेत् किमुक्तं भवति, सुतरामिति सिद्धेः । प्रतिपत्तिर्द्धाभ्यां प्रमाणाभ्यामितिचेत्, तद्येन प्रमाणेन निश्चितेर्थे द्वितीयं प्रमाणं प्रकाशितप्रकाशनवद्व्यर्थमनवस्थानं वा निश्चितेपि परापरप्रमाणान्वेषणात् । इति कथं प्रमाणसंप्लवः ? यदि पुनर्बहूपाय - प्रत्तिपत्तिः कथं दार्व्यमेकत्र भूयसां प्रमाणानां प्रवृत्तौ संवादसिद्धिश्चेति मतिस्तदा हेतुना दृष्टांतेन वा केनचिदज्ञापितेर्थे द्वितीयस्य हेतोर्दृष्टांतस्य वा वचनं कथमनर्थकं तस्य तथाविधदाढत्वात् । न चैवमनवस्था, कस्यचित्क्वचिन्निराकांक्षतोपपत्तेः प्रमाणांतरवत् । कथं कृतकत्वादिति हेतुः कचिद्वदतः स्वार्थिकस्य कप्रत्ययस्य वचनं यत्कृतकं तदनित्यं दृष्टमिति व्याप्तिं प्रदर्शयते यत्तद्वचनमधिकं नाम निग्रहस्थानं न स्यात् तेन विनापि तदर्थप्रतिपत्तेः । सर्वत्र वृत्तिपदप्रयोगादेव चार्थप्रतिपत्तौ संभाव्यमानायां वाक्यस्य वचनमर्थं पुष्णाति येनाधिकं न स्यात् । तथाविधवचनस्यापि प्रतिपत्त्युपायत्वात्तन्नि ग्रहस्थानमिति चेत्, कथमनेकस्य हेतोर्दृष्टांतस्य वा प्रतिपत्त्युपायभूतस्य वचनं निग्रहाधिकरणं : निरर्थकस्य तु वचनं निरर्थकमेव निग्रहस्थानं न्यूनवन्न पुनस्ततोन्यत् ॥ पुनरुक्तं निग्रहस्थानं विचारयितुकाम आह; - पुनर्वचनमर्थस्य शब्दस्य च निवेदितम् । पुनरुक्तं विचारेन्यत्रानुवादात्परीक्षकैः ॥ २२४ ॥ तत्रायमेव मन्यंते पुनरुक्तं वचोर्थतः । शब्दसाम्येपि भेदस्यासंभवादित्युदाहृतम् ॥ २२५ ।। हसत हसत स्वामित्युचैरुदत्यति रोदिति कृतपरिकरं स्वेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिदति निंदति धनवति परिक्रीतं यंत्रं प्रनृत्यति नृत्यति ॥ २२६ ॥ सत्यप्रत्यायनं यावत्तावद्वाच्यमतो बुधैः । स्वेष्टार्थवाचिभिः शब्दैस्तैश्चान्यैर्वा निराकुलम् २२७ तदप्रत्याय शब्दस्य वचनं तु निरर्थकम् । सकृदुक्तं पुनर्वेति तात्त्विकः संप्रचक्षते ॥ २२८ ॥ सकृद्वा पुनर्वादोनुवादोर्थविशेषतः । पुनरुक्तं यथा नेष्टं कचित्तद्वदिहापि तत् ।। २२९ ।। अर्थादापद्यमानस्य यच्छब्देन पुनर्वचः । पुनरुक्तं मतं यस्य तस्य स्वेष्टोक्तिबाधनम् ॥ २३० ॥ योप्याह, शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् अर्थादापन्नस्य खशब्देन पुनर्वचनं पुनरुक्तमिति च तस्य प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यान्निग्रहस्थानमिति मतं न पुनरन्यथा । तथा च निरर्थकान्न विशिष्यते, खवचनविरोधश्च । खयमुद्देशलक्षण परीक्षावचनानां पुनरुक्तानां प्रायेणाभ्युपगमादर्थागम्यमानस्य प्रतिज्ञादेर्वचनाच्च । यदप्युक्तं, विज्ञातस्य परिषदा त्रिभिरभिहितस्याप्रत्युच्चारणमननुभाषणं निग्रहस्थानमिति तदनूद्य विचारयन्नाह ; - निर्वादिनोदितस्यापि विज्ञातस्यापि संसदा । अप्रत्युच्चारणं प्राह परस्याननुभाषणम् ॥२३१॥ Page #301 -------------------------------------------------------------------------- ________________ २९२ [ तत्त्वार्था० तदेतदुत्तरविषयापरिज्ञाननिग्रहस्थानमप्रत्युच्चारयतो दूषणवचनविरोधात् । तत्रेदं विचार्यते, किं सर्वस्य वादिनोक्तस्याननुच्चारणं किं वा यन्नांतरीयका साध्यसिद्धिरभिमता तस्य साधनवाक्यस्याननुचारणमिति ? ॥ तत्त्वार्थश्लोकवार्तिके यन्नांतरीयका सिद्धिः साध्यस्य तदभाषणं । परस्य कथ्यते कैश्चित् सर्वथाननुभाषणं ॥ २३२ ॥ प्रागुपन्यस्य निःशेषं परोपन्यस्तमंजसा । प्रत्येकं दूषणावाच्ये पुनरुच्चार्यते यदि ।। २३३ ॥ तदेव स्यात्तदा तस्य पुनरुक्तमसंशयम् । नोच्चार्यते यदा त्वेतत्तदा दोषः क गद्यते ॥ २३४ ॥ तस्माद्यद्दूष्यते यत्तत्कर्मत्वादि परोदितम् । तदुच्चारणमेवेष्टमन्योच्चारो निरर्थकः ॥ २३५ ॥ उक्तं दूषयतावश्यं दर्शनीयोत्र गोचरः । अन्यथा दुषणावृत्तेः सर्वोच्चारस्तु नेत्यपि ॥ २३६ ॥ कस्यचिद्वचनं नेष्टनिग्रहस्थानसाधनं । तस्याप्रतिभयैवोक्तैरुत्तराप्रतिपत्तितः ॥ २३७ ॥ तदेतद्धर्मकीर्तेर्मतमयुक्तमित्याह ; - प्रत्युच्चारासमर्थत्वं कथ्यतेऽननुभाषणं । तस्मिन्नुच्चारितेप्यन्यपक्षविक्षिप्त्यवेदनम् || २३८ ॥ ख्याप्यते प्रतिभान्यस्येत्येतयोर्नैकतास्थितिः । साक्षात्संलक्ष्यते लोकैः कीर्तेरन्यत्र दुर्गतेः २३९ ततोऽननुभाषणं सर्वस्य दूषण विषयमात्रस्य वान्यदेवाप्रतिभायाः केवलं तन्निग्रहस्थानमयुक्तं, परोक्षमप्रत्युच्चारयतोपि दूषणवचनन्याय्यात् । तद्यथा – सर्व प्रतिक्षणविनश्वरं सत्त्वादिति केचिदुक्ते तदुक्ते प्रत्युच्चारयन्नेव परो विरुद्धत्वं हेतोरुद्भावयति, सर्वमनेकांतात्मकं सत्त्वात् । क्षणक्षयाद्यकांते सर्वथार्थक्रियाविरोधात् तत्त्वानुपपत्तेरिति समर्थयते च तावता परोपन्यस्तहेतोर्दूषणात् किं प्रत्युच्चारणेन । यथैवं दूषयितुमसमर्थः शास्त्रार्थज्ञानपरिणतिविशेषरहितत्वात् तदायमुत्तराप्रतिपत्तेरेव तिरस्क्रियते न पुनरप्रत्युच्चारणात् । सर्वस्य पक्षधर्मत्वादेर्वानुवादे पुनरुक्तत्वानिष्टेः प्रत्युच्चारणोपि तत्रोत्तरमप्रकाशयन् न हिन निगृह्यते स्वपक्षं साधयता, यतोऽप्रतिभैव निग्रहस्थानं न स्यात् । यदप्युक्तं, अविज्ञातं चाज्ञानमिति निग्रहस्थानं, तदपि न प्रतिविशिष्टमित्याह ; - अज्ञातं च किलाज्ञानं विज्ञातस्यापि संसदा । परस्य निग्रहस्थानं तत्समानं प्रतीयते ॥ २४० ॥ सर्वेषु हि प्रतिज्ञानहान्यादिषु न वादिनोः । अज्ञानादपरं किंचिनिग्रहस्थानमांजसम् ॥२४१ ॥ तेषामेतत्प्रभेदत्वे बहुनिग्रहणं न किम् । अर्थाज्ञानादिभेदानां बहु वात्रावधारणात् ॥ २४२ ॥ उत्तराप्रतिपत्तिरप्रतिभेत्यपि निग्रहस्थानमस्य नाज्ञानान्यदित्याह ;उत्तराप्रतिपत्तिर्या परैरप्रतिभासता । साप्येतेन प्रतिव्यूढा भेदेनाज्ञानतः स्फुटम् ॥ २४३ ॥ यदप्युक्तं, निग्रहप्राप्तस्यानिग्रहपर्यनुयोज्योपेक्षणं निग्रहस्थानमिति, तदपि न साधीय इत्याह ;यः पुनर्निग्रहप्राप्तेप्यनिग्रह उपेयते । कस्यचित्पर्यनुयोज्योपेक्षणं तदपि कृतम् ॥ २४४ ॥ स्वयं प्रतिभया हि चेत्तदंतर्भावनिर्णयः । सभ्यैरुद्भावनीयत्वात्तस्य भेदो महानहो ॥ २४५ ॥ वादेप्युद्भावयन्नैतन्न हि केनापि धार्यते । स्वं कौपीनं न कोपीह विवृणोतीति चाकुलम् २४६ उत्तराप्रतिपत्तिर्हि परस्योद्भावयन्स्वयं । साधनस्य सदोषत्वमाविर्भावयति ध्रुवम् ॥ २४७ ॥ संभवत्युत्तरं यत्र तत्र तस्यानुदीरणम् । युक्तं निग्रहणं नान्यथेति न्यायविदां मतम् ॥ २४८ ॥ निर्दोषसाधनोक्तौ तु तूष्णींभावाद्विनिग्रहः । प्रलापमात्र तो वेति पक्षसिद्धेः स आगतः २४९ यदप्यभ्यधायि, स्वपक्षदोषाभ्युपगमात्पक्षे दोषप्रसंगो मतानुज्ञा । यः परेण चोदितं दोषमनुद्धृत्य भवतोप्ययं दोष इति ब्रवीति सा मतानुज्ञास्य निग्रहस्थानमिति, तदप्यपरीक्षितमेवेति परीक्ष्यते- Page #302 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २९३ खपक्षे दोषमुपयन् परपक्षे प्रसंजयन् । मतानुज्ञामवाप्नोति निगृहीतिं न युक्तितः ॥ २५० ॥ द्वयोरेवं सदोषत्वं तात्त्विकैः स्थाप्यते यतः । पक्षसिद्धिनिरोधस्य समानत्वेन निर्णयात्।।२५१ अनैकांतिकतैवैवं समुद्भाव्येति केचन । हेतोरवचने तच्च नोपपत्तिमदीक्ष्यते ॥ २५२ ॥ तथोत्तराप्रतीतिः स्यादित्यप्याग्रहमात्रकं । सर्वस्याज्ञानमात्रत्वापत्तेर्दोषस्य वादिनोः ॥२५३॥ संक्षेपतोन्यथा कायं नियमः सर्ववादिनाम् । हेत्वाभासोत्तरावित्ती कीर्तेः स्यातां यतः स्थितेः॥ ननु चाज्ञानमात्रेपि निग्रहेति प्रसज्यते । सर्वज्ञानस्य सर्वेषां सादृश्यानामसंभवात् ॥ २५५ ॥ सत्यमेतदभिप्रेतवस्तुसिद्धप्रयोगिनोः । ज्ञानस्य यदि नाभावो दोषोन्यस्यार्थसाधने ॥ २५६ ॥ सत्स्वपक्षप्रसिद्धैव निग्राह्योन्य इति स्थितम् । समासतोनवद्यत्वादन्यथा तदयोगतः ॥२५७॥ तस्करत्वं नरत्वादेरिति हेतुर्यदोच्यते । तदानैकांतिकत्वोक्तित्वमपीति न वार्यते ॥ २५८ ॥ वाचोयुक्तिप्रकाराणां लोके वैचित्र्यदर्शनात् । नोपालंभस्तथोक्तौ स्याद्विपक्षे हेतुदर्शनम् ॥२५९ दोपहेतुमभिगम्य स्वपक्षे परपक्षताम् । दोषमुद्भाव्य पश्चात्त्वे स्वपक्षं साधयेजयी ॥२६० ॥ यदप्यभिहितमनिग्रहस्थाने निग्रहस्थानानुयोगोनिरनुयोज्यानुयोगो निग्रहस्थानमिति तदप्यसदित्याह;यदा त्वनिग्रहस्थाने निग्रहस्थानमुच्यते । तदा निरनुयोज्यानुयोगाख्यो निग्रहो मतः॥२६॥ सोप्यप्रतिभयोक्तः स्यादेवमुत्तरविकृतेः । तत्प्रकारपृथग्भावे किमेतैः स्वल्पभाषितैः॥२६२॥ यथोक्तं कार्यव्यासंगात्कथाविच्छेदो विक्षेपः यत्र कर्तव्यं व्यासज्यकथां विच्छिनत्ति प्रतिस्थाय कला. मेकां क्षणोति पश्चात्कथयिष्यामीति स विक्षेपो नाम निग्रहस्थानं तथा तेनाज्ञानस्याविष्करणादिति तदपि न सदित्याह; सभां प्राप्तस्य तस्य स्यात्कार्यव्यासंगतः कथा । विच्छेदस्तस्य निर्दिष्टो विक्षेपो नाम निग्रहः२६३ सोपि नाप्रतिभातोस्ति भिन्नः कश्चन पूर्ववत् । तदेवं भेदतः सूत्रं नाक्षपादस्य कीर्तिकृत्२६४ यदप्युक्तं, सिद्धांतमभ्युपेत्य नियमात्कथाप्रसंगोपसिद्धतः प्रतिज्ञातार्थव्यतिरेकेणाभ्युपेतार्थपरित्यागान्नि ग्रहस्थानमिति, तदपि विचारयतिस्वयं नियतसिद्धांतो नियमेन विना यदा । कथां प्रसंजयेत्तस्यापसिद्धांतस्तथोदितः॥२६५॥ सोप्ययुक्तः स्वपक्षस्यासाधनेनेन तत्त्वतः । असाधनांगवचनादोषोद्भावनमात्रवत् ॥ २६६ ॥ तत्राभ्युपेत्य शब्दादीन्नित्यानेव पुनः स्वयम् । ताननित्यान् बुवाणस्य पूर्वसिद्धांतवाधनम्२६७ तथैव शून्यमास्थाय तस्य संविदमात्रतः । पूर्वस्योत्तरतो बाधा सिद्धांतस्यान्यथा क तत्॥२६८ प्रधानं चैवमासृत्य तद्विकारप्ररूपणम् । तादृगेवान्यथा हेतुस्तत्र न स्यात्समन्वयः ॥२६९॥ ब्रह्मायाद्वैतमप्येवमुपेत्यागमवर्णनं । कुर्वन्नाम्नायनिर्दिष्टं बाध्योन्योप्यनया दिशा ॥ २७० ॥ स्वयं प्रवर्तमानाच्च सर्वथैकांतवादिनः । अनेकांताविनाभूतव्यवहारेषु तादृशाः ॥ २७१ ॥ यद्यप्यवादि, हेत्वाभासाश्च यथोक्ता इति तत्राप्याह;हेत्वाभासाश्च योगोक्ताः पंच पूर्वमुदाहृताः । सप्तधान्यैः समाख्याता निग्रहाधिकतां गतैः२७२ हेत्वाभासत्रयं तेपि समर्थ नातिवर्तितुं । अन्यथानुपपन्नत्ववैकल्यं तच्च नैककम् ॥ २७३ ॥ यथैकलक्षणो हेतुः समर्थः साध्यसाधने । तथा तद्विकलाशक्तो हेत्वाभासोनुमन्यताम् ॥२७४ यो ह्यसिद्धतया साध्यं व्यभिचारितयापि वा । विरुद्धत्वेन वा हेतुः साधयेन स तन्निभः२७५ असिद्धादयोपि हेतवो यदि साध्याविनाभावनियमलक्षणयुक्तास्तदा न हेत्वाभासा भवितुमर्हति । न Page #303 -------------------------------------------------------------------------- ________________ २९४ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० चैवं, तेषां तदयोगात् । न ह्यसिद्धः साध्याविनाभावनियतस्तस्य स्वयमसत्त्वात् । नाप्यनैकांतिको विपक्षेपि भावात् । न च विरुद्धो विपक्ष एव भावादित्यसिद्धादिप्रकारेणाप्यन्यथानुपपन्नत्ववैकल्यमेव हेतोः समर्थ्यते । ततस्तस्य हेत्वाभासत्वमिति संक्षेपादेक एव हेत्वाभासः प्रतीयते अन्यथानुपपन्नत्वनियमलक्षणैकहेतुवत् । अतस्तद्वचनं वादिनो निग्रहस्थानं परस्य पक्षसिद्धाविति प्रतिपत्तव्यं । तथा च संक्षेपतः 'वपक्षसिद्धिरेकस्य निग्रहोन्यस्य वादिन' इति व्यवतिष्ठते । न पुनर्विप्रतिपत्त्यप्रतिपत्ती तद्भावेपि . कस्यचित्वपक्षसिद्ध्यभावे परस्य पराजयानुपपत्तेरसाधनांगवचनादोषोद्भावनमात्रवत् छलवद्वा ॥ किं पुनश्छलमित्याह;योर्थारोपोपपत्त्या स्थाद्विधातो वचनस्य तत् । छलं सामान्यतः शक्यं नोदाहर्तु कथंचन २७६ विभागेनोदितस्यास्योदाहृतिः स त्रिधा मतः । वाक्सामान्योपचारेषु छलानामुपवर्णनात्२७७ अर्थस्यारोपो विकल्पः कल्पनेत्यर्थः तस्योपपत्तिः घटना तया यो वचनस्य विशेषेणाभिहितस्य विघातः प्रतिपादकादभिप्रेतादर्थात् प्रच्यावनं तच्छलमिति लक्षणीयं, 'वचनविघातोर्थविकल्पोपपत्त्या छलं' इति वचनात् । तच्च सामान्यतो लक्षणे कथमपि न शक्यमुदाहर्तुं विभागेनोक्तस्य तच्छलस्योदाहरणानि शक्यंते दर्शयितुं । स च विभागस्त्रिधा मतोक्षपादस्य तु त्रिविधमिति वचनात् । वाक्सामान्योपचारेषु छलानां त्रयाणामेवोपवर्णनात् । वाक्छलं, सामान्यछलं, उपचारछलं चेति ॥ तत्र किं वाक्छलमित्याहातत्राविशेषदिष्टेर्थे वक्तुराकूततोन्यथा । कल्पनार्थांतरस्येष्टं वाकछलं छलवादिभिः ॥ २७८ ॥ तेषामविशेषेण दिष्टे अभिहितेथे वक्तुराकूतादभिप्रायादन्यथा खाभिप्रायेणार्थीतरस्य कल्पनमारोपणं वाक्छलमिष्टं, तेषामविशेषाभिहितेथे वक्तुरभिप्रायादर्थातरकल्पना वाक्छलं इति वचनात् ॥ अस्योदाहरणमुपदर्शयति;आद्यो वै देवदत्तोयं वर्तते नवकंबलः । इत्युक्ते प्रत्यवस्थानं कुतोस्य नव कंबलाः ॥ २७९ ॥ यस्मादायत्वसंसिद्धिर्भवेदिति यदा परः । प्रतिब्रूयात्तदा वाचि छलं तेनोपपादितम् ॥२८०॥ नवकंबलशब्दे हि वृत्त्या प्रोक्ते विशेषतः । नवोऽस्य कंवलो जीर्णो नैवेत्याकूतमांजसम् २८१ वक्तुः संभाव्यते तसादन्यस्यार्थस्य कल्पना । नवास्य कंबला नाष्टावित्यस्यासंभवात्मनः २८२ प्रत्यवस्थातुरन्यायवादितामानयेद्धवं । संतस्तत्त्वपरीक्षायां कथं स्युश्छलवादिनः ॥२८३ ॥ कथं पुनरनियमविशेषाभिहितोर्थः वक्तुरभिप्रायादर्थातरकल्पना वाक्छलाख्या प्रत्यवस्थातुरन्यायवादितामानयेदिति चेत्, छलस्यान्यायरूपत्वात् । तथाहि-तस्य प्रत्यवस्थानं सामान्यशब्दस्यानेकार्थत्वे अन्यतराभिधानकल्पनाया विशेषवचनादर्शनीयमेतत् स्यात् विशेषाज्जानीमोऽयमर्थस्त्वया विवक्षितो नवास्य कंबला इति, न पुनर्नवोस्य कंबल इति । स च विशेषो नास्ति तस्मान्मिथ्याभियोगमात्रमेतदिति । प्रसिद्धश्च लोके शब्दार्थसंबंधोभिधानाभिधेयनियमनियोगोस्याभिधानस्यायमर्थोभिधेय इति समानार्थः सामान्यशब्दस्य, विशिष्टोर्थो विशेषशब्दस्य । प्रयुक्तपूर्वाश्चामी शब्दाः प्रयुज्यंतेऽर्थेषु सामर्थ्यान्नाप्रयुक्तपूर्वाः प्रयोगस्यार्थसंप्रत्ययाव्यवहार इति । तत्रैवमर्थगत्यार्थशब्दप्रयोगे सामर्थ्यात्सामान्यशब्दस्य प्रयोगनियमः । अजामानय ग्रामं, सर्पिराहर, ब्राह्मणं भोजयेति सामान्यशब्दाः संतोवयवेषु प्रयुज्यंते सामर्थ्यात् । यत्रार्थे क्रियाचोदना संभवति तत्र वर्तते, न चार्थसामान्ये अजादौ क्रियाचोदना संभवति । ततोजादिविशेषाणामेवानयनादयः क्रियाः प्रतीयंते न पुनस्तत्सामान्यस्यासंभवात् । एवमयं Page #304 -------------------------------------------------------------------------- ________________ २९५ प्रथमोऽध्यायः । सामान्यशब्दो नवकंबल इति योर्थः संभवति नवः कंबलोस्येति तत्र वर्तते, यस्तु न संभवति नवास्य कंबला इति तत्र न वर्तते प्रत्यक्षादिविरोधात् । सोयमनुपपद्यमानार्थकल्पनया परवाक्योपालंभो न कल्पते, तत्र परीक्षायां सतां छलेन प्रत्यवस्थानायोगात् । तदिदं छलवचनं परस्य पराजय एवेति मन्यमानं न्यायभाष्यकारं प्रत्याह; एतेनापि निगृह्येत जिगीपुर्यदि धीधनैः । यत्र वाक्यं तदन्यार्थं व्याचक्षाणो निगृह्यताम्२८४ तत्र स्वयमभिप्रेतमर्थ स्थापयितुं न यैः । योऽसामोऽपरैः शक्तैः स्वाभिप्रेतार्थसाधने ॥२८५ योर्थसंभवन्नर्थः प्रमाणैरुपपद्यते । वाक्ये स एव युक्तोस्तु नापरोतिप्रसंगतः ॥ २८६ ॥ यत्र पक्षे विवादेन प्रवृत्तिर्वादिनोरभूत् । तत्सिद्ध्यैवास्य धिक्कारोन्यस्य पत्रे स्थितेन चेत् २८७ कैवं पराजयः सिद्धे छलमात्रेण ते मते । संधाहान्यादिदोषैश्च दाबादात्रोः सपत्रकम् ॥२८८॥ पत्रपक्षे वादिप्रतिवादिनोविप्रतिपत्त्या प्रवृत्तिस्तत्सिद्धिरेवैकस्य पराजयोन्यस्य, न पुनः यत्र वाक्यार्थानवस्थापनमिति ब्रुवाणस्य कथं छलमात्रेण प्रतिज्ञाहान्यादिदोषैश्च स पराजयः स्यात् पत्रं दातुरदातुश्चेति चिंत्यतां । न हि यत्र वाक्यविदर्थे तस्य वृत्तिस्तत्सिद्धिश्च पत्रं दातुरदातुः पराजयस्तन्निराकरणं वा तदा दातुर्जयोऽदातुः पराजय इति च द्वितीयार्थेपि तस्य वृत्तिसंभवात् , प्रमाणतस्तथापि प्रतीतेः समानप्रकरणादिकत्वाद्विशेषाभावात् । तथाद्यो वै देवदत्तो नवकंबलत्वात्सोमदत्तवत् इति प्रयोगेपि यदि वक्तुनवः कंबलोस्येति नवास्य कंबला इति वार्थद्वयं नवकंबलशब्दस्याभिप्रेतं भवति तदा कुतोस्य नवकंबला इति प्रत्यवतिष्ठमानो हेतोरसिद्धतामेवोद्भावयति न पुनश्छलेन प्रत्यवतिष्ठते । तत्परिहाराय च चेष्टमानस्तदुभयार्थसमर्थनेन तदेकतरार्थसमर्थनेन वा हेतुसिद्धिमुपदर्शयति नवस्तावदेकः कंबलोस्य प्रतीतो भवताऽन्येस्याष्टौ कंबला गृहे तिष्ठंतीत्युभयथा नवकंबलत्वस्य सिद्धेः नासिद्धतोद्भावनीया । न कंबलयोगित्वस्य वा हेतुत्वेनोपादानासिद्ध एव हेतुरिति खपक्षसिद्धौ सत्यामेव वादिनो जयः परस्य च पराजयो नान्यथा । तदेवं वाक्छलमपास्य सामान्यछलमनूध निरस्यति; यत्र संभवतोर्थस्य न सामान्यस्य योगतः । असद्भूतपदार्थस्य कल्पना क्रियते बलात् ॥२८९॥ तत्सामान्यछलं पाहुः सामान्यविनिबंधनं । विद्याचरणसंपत्तिाह्मणे संभवेदिति ॥ २९०॥ केनाप्युक्ते यथैवं सा व्रात्येपि ब्राह्मणेन किम् । ब्राह्मणत्वस्य सद्भावाद्भवेदित्यपि भाषणम्२९१ तदेतन्न छलं युक्तं सपक्षेतरदर्शनात् । तल्लिंगसान्यथा तस्य व्यभिचारोखिलोस्तु तत्॥२९२॥ कचिदेति तथात्येति विद्याचरणसंपदं । ब्राह्मणत्वमिति ख्यातमिति सामान्यमत्र चेत्॥२९३॥ तथैवास्पर्शवत्वादि शब्दं नित्यत्वसाधने । किं न स्यादिति सामान्यं सर्वथाप्यविशेषतः२९४ तन्न तस्येति नित्यत्वमत्येति च सुखादिवत् । तेनानैकांतिकं युक्तं सपक्षेतरवृत्तितः ॥२९५॥ विद्याचरणसंपत्तिर्विषयस्य प्रशंसनं । ब्राह्मणस्य यथा शालिगोचरक्षेत्रवर्णनम् ॥ २९६ ॥ यस्येष्टं प्रकृते वाक्ये तस्य ब्राह्मणधर्मिणि । प्रशस्तत्वे स्वयं साध्ये ब्राह्मणत्वेन हेतुना ॥२९७॥ केनानैकांतिको हेतुरुद्भाव्यो न प्रसह्यते । क्षेत्रे क्षेत्रत्ववच्छालियोग्यत्वस्य प्रसाधने ॥ २९८ ॥ यत्र भवतीर्थस्यातिसामान्यस्य योगादसद्भूतार्थकल्पना हठात् क्रियते तत्सामान्यनिबंधनत्वात् सामान्यछलं प्राहुः । संभवतोर्थस्यातिसामान्यस्य योगादसद्भूतार्थकल्पना सामान्यछलमिति वचनात् । तद्यथा-अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इत्युक्ते केनचित्कचिदाह संभवति ब्राह्मणे विद्याचरणसंपदिति, तं प्रत्यस्य वाक्यस्य विघातोर्थविकल्पोपपत्त्याऽसद्भूतार्थकल्पनया क्रियते। यदि ब्राह्मणो विद्या Page #305 -------------------------------------------------------------------------- ________________ २९६ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था चरणसंपत्संभवति त्रात्येपि संभवात् । त्रात्योपि ब्राह्मणो विद्याचरणसंपन्नोस्तु । तदिदं ब्राह्मणत्वं विवक्षितमर्थ विद्याचरणसंपलक्षणं कचिद्ब्राह्मणे तादृश्येति क्वचिद्वात्येपि तद्भावेपि भावादित्यपि सामान्य तेन योगाद्वक्तुरभिप्रेतादर्थात् सद्भूतादन्यस्यासद्भूतस्यार्थस्य कल्पना सामान्यछलं । तच्च न युक्तं । यस्मादविवक्षिते हेतुकस्य विषयार्थवादः प्रशंसार्थत्वाद्वाक्यस्य तत्रासद्भूतार्थकल्पनानुपपत्तिः । यथा संभवत्यस्मिन् क्षेत्रे शालय इत्यत्राविवक्षितं शालिबीजमनिराकृतं च तन्निवृत्तिविषयक्षेत्रं प्रशस्यते । सोयं क्षेत्रार्थवादो नास्मिन् शाल्यो विद्यंत इति । बीजातु शालिनिर्वृत्तिः सती न विवक्षिता । तथा संभव ब्राह्मणे विद्याचरणसंपदिति सम्यग्विषयो ब्राह्मणत्वं न संपद्धेतुर्न चात्र तद्धेतुर्विवक्षितस्तद्विषयार्थवादस्त्वयं प्रशंसार्थत्वाद्वाक्यस्य सति ब्राह्मणत्वे संपद्धेतुः समर्थ इति विषयत्वाप्रशंसता वाक्येन यथा हेतुफलन्निवृत्तिर्न प्रत्याख्यायते तदेवं सति वचनविघातोसद्भूतार्थकल्पनया नोपपद्यते इति परस्य पराजयस्तथा वचनादित्येवं न्यायभाष्यकारो ब्रुवन्नायं वेत्ति, तथा छलव्यवहारानुपपत्तेः । हेतुदोषस्या - नैतिकत्वस्य परेणोद्भावना वा न वानैकांतिकत्वोद्भावनमेव सामान्यछलमिति सत्यं वक्तुं सर्वत्र, तस्य सामान्यछलत्वप्रसंगात् । शब्दो नित्योऽस्पर्शवत्त्यादाकाशवदित्यत्र हि यथा शब्दनित्यत्वे साध्ये अस्पर्शवत्त्वमाकाशे नित्यत्वमेति । सुखादिष्वत्येतीति व्यभिचारित्वादनैकांतिकमुच्यते न पुनः सामान्यछलं, तथा प्रकृतमपीति न विशेषः कश्चिदस्ति । सोयं ब्राह्मणे धर्मिणि विद्याचरणसंपद्विषये प्रशंसनं ब्राह्मणस्वेन हेतुना साध्यते, यथा शालिविषयक्षेत्रे प्रशंसा क्षेत्रत्वेन साक्षान्न पुनर्विद्याचरणसंपत्सत्ता साध्यते येनातिप्रशक्यत इति खयमनैकांतिकत्वं हेतोः परिहरन्नपि तन्नानुमन्यत इति कथं न्यायवित् ? तथोपचारछलमनूद्य विचारयन्नाह ; 'धर्माध्यारोप निर्देशे सत्यार्थप्रतिषेधनम् । उपचारछलं मंचाः क्रोशतीत्यादिगोचरम् ॥ २९९ ॥ मंचाः क्रोशति गायंतीत्यादिशब्दप्रयोजनम् । आरोप्य स्थानिनां धर्म स्थानेषु क्रियते जनैः ३०० गौणं शब्दार्थमासृत्य सामान्यादिषु सत्त्ववत् । तत्र मुख्याभिधानार्थे प्रतिषेधश्छलं स्थितम् ३०१ न चेदं वाक्छलं युक्तं किंचित्साधर्म्यमात्रतः । स्वरूप भेदसंसिद्धेरन्यथातिप्रसंगतः ॥ ३०२ ॥ कल्पनार्थीतरस्योक्ता वाक्छलस्य हि लक्षणं । सद्भूतार्थनिषेधस्तूपचारछललक्षणम् ॥ ३०३ ॥ अत्राभिधानस्य धर्मो यथार्थे प्रयोगस्तस्याध्यारोप्यो विकल्पः अन्यत्र दृष्टस्यान्यत्र प्रयोगः, मंचाः कति गायंतीत्यादौ शब्दप्रयोगवत् । स्थानेषु हि मंचेषु स्थानिनां पुरुषाणां धर्ममाक्रोष्टित्वादिकं समारोप्य जनैस्तथा प्रयोगः क्रियते गौणशब्दार्थश्रयणात् सामान्यादिष्वस्तीति शब्दप्रयोगवत् तस्य धर्माध्यारोपनिर्देशे सत्यर्थस्य प्रतिषेधनं न मंचाः क्रोशंति मंचस्थाः पुरुषाः क्रोशतीति । तदिदमुपचारछलं प्रत्येयं । धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलं इति वचनात् । का पुनरत्रार्थविकल्पोपपत्तिर्यया वचनविघातश्छल मिति, अन्यथा प्रयुक्तस्याभिधानस्य न तथा परिकल्पनं । भक्तया हि प्रयोगौऽयं मंचाः क्रोशतीति तात्स्थात्तच्छन्दोपचारात् प्राधान्ये तस्य परिकल्पनं कृत्वा परेण प्रत्यवस्थानं विधी - यते । कः पुनरुपचारो नाम ? साहचर्यादिना निमित्तेन तदभावेपि तद्वदभिधानमुपचारः । यद्येवं बाक्छलादुपचारछलं न भिद्यते अर्थीतरकल्पनाया अविशेषात् । इहापि हि स्थानार्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यते नान्यथेति । नैतत्सारं । अर्थातरकल्पनातोर्थसद्भावप्रतिषेधस्यान्यथात्वात्, किंचित्साधर्म्यात्तयोरेकत्वे वा त्रयाणामपि छलानामेकत्वप्रसंग: । अथ वाक्छलसामान्यछलयोः किंचित्साधर्म्य सदपि द्वित्वं न निवर्तयति, तर्हि तयोरुपचारछलस्य च किंचित्साधर्म्य विद्यमानमपि त्रित्वं तेषां न निवर्तयिष्यति, वचनविघातस्यार्थविकल्पोपपत्त्या त्रिष्वपि भावात् । ततोन्य 4 Page #306 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २९७ देव वाक्छलादुपचारछलं । तदपि परस्य पराजयायावकल्पते यथावक्रभिप्रायमप्रतिषेधात् । शब्दस्य हि प्रयोगो लोके प्रधानभावेन गुणभावेन च प्रसिद्धः । तत्र यदि वक्तुर्गुणभूतोर्थोऽभिप्रेतस्तदा तस्यानुज्ञानं प्रतिषेधो वा विधीयते, प्रधानभूतश्चेत्तस्यानुज्ञानप्रतिषेधौ कर्तव्यौ प्रतिपाद्यत इति न्यायः । यदात्र गौणमात्रं वक्ताभिप्रैति प्रधानभूतं तु तं परिकल्प्य परः प्रतिषेधति तदा तेन स्वमनीषा प्रतिषिद्धा स्यान्न • परस्याभिप्राय इति न तस्यायमुपालंभः स्यात् । तदनुपालंभाच्चासौ पराजीयते तदुपालंभापरिज्ञानादिति नैयायिका मन्यते ॥ तदेतस्मिन् प्रयुक्ते सान्निग्रहो यदि कस्यचित् । तदा योगो निगृह्येत प्रतिषेधात् प्रमादिकम्३०४ मुख्यरूपतया शून्यवादिनं प्रति सर्वथा । तेन संव्यवहारेण प्रमादेरुपवर्णनात् ॥ ३०५ ॥ सर्वथा शून्यता वादे प्रमाणादेविरुध्यते । ततो नायं सतां युक्त इत्यशून्यत्वसाधनात्॥३०६॥ योगेन निग्रहः प्राप्यः स्वोपचारच्छलेपि चेत् । सिद्धः स्वपक्षसिद्ध्यैव परस्यायमसंशयम्।।३०७ अथ जाति विचारयितुमारभते;स्वसाध्यादविनाभावलक्षणे साधने स्थिते । जननं यत्प्रसंगस सा जातिः कैश्विदीरिता ॥३०८ “प्रयुक्त हेतौ यः प्रसंगो जायते सा जातिः" इति वचनात् ॥ कः पुनः प्रसंगः? इत्याह;प्रसंगः प्रत्यवस्थानं साधम्र्येणेतरेण वा । वैधोक्तेऽन्यथोक्ते च साधने स्वाद्यथाक्रमम् ३०९ उदाहरणवैधय॒णोक्ते साधने साधर्म्यण प्रत्यवस्थानमुदाहरणसाधय॑णोक्ते वैध\ण प्रत्यवस्थानमुपालंभः प्रतिषेधः प्रसंग इति विज्ञेयं, “साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः” इति वचनात् ॥ एतदेवाह;उदाहरणसाधर्म्यात्साध्यस्यार्थस्य साधनं । हेतुस्तस्मिन् प्रयुक्तेन्यो यदा प्रत्यवतिष्ठते ॥३१०॥ उदाहरणवैधात्तत्र व्याप्तिमखंडयत । तदासौ जातिवादी स्यादृषणाभासवाक्ततः ॥३११ ॥ यथोदाहतिवैधात्साध्यस्वार्थस्य साधनं । हेतुस्तस्मिन् प्रयुक्तेपि परस्य प्रत्यवस्थितिः॥३१२॥ साधर्म्यणेह दृष्टांते दूषणाभासवादिनः । जायमाना भवेज्जातिरित्यन्वर्थे प्रवक्ष्यते ॥ ३१३॥ उद्योतकरस्त्वाह-जाते मस्थापनाहेतौ प्रयुक्ते यः प्रतिषेधासमों हेतुरिति सोपि प्रसंगस्य परपक्षप्रतिषेधार्थस्य हेतोर्जननं जातिरित्यन्वर्थसंज्ञामेव जातिं व्याचष्टेऽन्यथा न्यायभाष्यविरोधात् ॥ कथमेव जातिबहुत्वं कल्पनीयमित्याह;सर्वसत्त्वविधर्मत्वप्रत्यवस्थाविकल्पतः । कल्प्यं जातिबहुत्वं स्थायासतोऽनंतशः सताम् ॥३१४ यथा विपर्ययज्ञानाज्ञाननिग्रहभेदतः । बहुत्वं निग्रहस्थानस्योक्तं पूर्व सुविस्तरम् ॥ ३१५॥ तत्र ह्यप्रतिभाज्ञानाननुभाषणपर्यनु-। योज्योपेक्षणविक्षेपा लभंते प्रतिपत्तिताम् ॥ ३१६ ॥ शेषा विप्रतिपत्तित्वं प्राप्नुवंति समासतः । तद्विभिन्नस्वभावस्य निग्रहस्थानमीक्षणात् ॥३१७॥ तत्रातिविस्तरेणानंतजातयो न शक्या वक्तुमिति विस्तरेण चतुर्विंशतिजातयः प्रोक्ता इत्युपदर्शयतिप्रयुक्ते स्थापनाहेतौ जातयः प्रतिषेधिकाः । चतुर्विंशतिरत्रोक्तास्ताः साधर्म्यसमादयः ॥३१८ तथा चाह न्यायभाष्यकारः । साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाजातिबहुत्वमिति संक्षे ३८ | Page #307 -------------------------------------------------------------------------- ________________ २९८ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० पेणोक्तं, तद्विस्तरेण विभिद्यते । ताश्च खल्विमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतव" साधर्म्यवैधर्योत्कर्षापकर्षवर्णावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसंगप्रतिदृष्टांतानुपपत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः" इति सूत्रकारवचनात् ॥ यत्राविशिष्यमाणेन हेतुना प्रत्यवस्थितिः। साधर्येण समा जातिः सा साधर्म्यसमा मता३१९ निर्वक्तव्यास्तथा शेषास्ता वैधर्म्यसमादयः । लक्षणं पुनरेतासां यथोक्तमभिभाष्यते ॥३२०॥ अत्र जातिषु या साधर्येण प्रत्यवस्थितिरविशिष्यमाणस्थापनाहेतुतः सा साधर्म्यसमा जातिः । एवमविशिष्यमाणस्थापनाहेतुतो वैध\ण प्रत्यवस्थितिः वैधर्म्यसमा । तथोत्कर्षादिभिः प्रत्यवस्थितयः उत्कर्षादिसमा इति निर्वक्तव्याः । लक्षणं तु यथोक्तमभिभाष्यते तत्र ॥ साधर्म्यणोपसंहारे तद्धर्मस्य विपर्ययात् । यस्तत्र दृषणाभासः स साधर्म्यसमो मतः॥३२१ ।। यथा क्रियाभृदात्मायं क्रियाहेतुगुणाश्रयात् । य ईदृक्षः स ईदृक्षो यथा लोष्ठस्तथा च स:३२२ तस्माक्रियाभृदित्येवमुपसंहारभाषणे । कश्चिदाहाक्रियो जीवो विभुद्रव्यत्वतो यथा ॥३२३॥ व्योम तथा न विज्ञातो विशेषस्य प्रसाधकः । हेतुः पक्षद्वयोप्यस्ति ततोयं दोषसन्निभः ३२४ साध्यसाधनयोप्तेविच्छेदस्यासमर्थनात् । तत्समर्थनतंत्रस्य द्वेषत्वेनोपवर्णनात् ॥ ३२५ ॥ नास्त्यात्मनः क्रियावत्त्वे साध्ये क्रियाहेतुगुणाश्रयत्वस्य साधनस्य खसाध्येन व्याप्तिर्विभुत्वान्निष्क्रियत्वसिद्धौ विच्छिद्यते, न च तदविच्छेदे तद्रूषणत्वं साध्यसाधनयोर्व्याप्तिविच्छेदसमर्थनतंत्रस्यैव दोषत्वेनोपवर्णनात् । तथा चोक्तं न्यायभाष्यकारेण । “साधर्म्यणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधयेण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेध" इति । निदर्शनं, क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्ठः स च क्रियाहेतुगुणयुक्तः क्रियावांस्तथा चात्मा तस्माक्रियावानित्येवमुपसंहृत्य परः साधयेणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । विभ्वाकाशं निष्क्रियं तथा चात्मा तस्मानिष्क्रिय इति । न चास्ति विशेषः क्रियावत्साधात् क्रियावता भवितव्यं, न पुनर्निष्क्रियसाधात् क्रियेणेति विशेषः । हेत्वभावात्साधर्म्यसमाप्तदूषणाभासो भवतीत्यत्र वार्तिककार एवमाह-साधर्म्यणोपसंहारे तद्विपरीतसाधयेणोपसंहारे तत्साधर्म्यण प्रत्यवस्थानं साधर्म्यसमः । यथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् । उत्पत्तिधर्मकं कुंभाद्यनित्ये दृष्टमिति वादिनोपसंहृते परः प्रत्यवतिष्ठते । यद्यनित्यघटसाधादयमनित्यो नित्येनाप्यस्याकाशेन साधर्म्यममूर्तत्वमस्तीति नित्यप्राप्तः, तथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् यत्पुनरनित्यं न भवति तन्नोत्पत्तिमदर्थकं यथाकाशमिति प्रतिपादिते परः प्रत्यवतिष्ठते । यदि नित्याकाशवैधादनित्यः शब्दस्तदा साधर्म्यमप्यस्याकाशेनास्त्यमूर्तत्वमतो नित्यः प्राप्तः । अथ सत्यप्येतस्मिन् साधये न नित्यो भवति, न तर्हि वक्तव्यमनित्यघटसाधानित्याकाशवैधाद्वा अनित्यः शब्द इति । सेयं जातिः विशेषहेत्वभावं दर्शयति विशेषहेत्वभावाचानैकांतिकचोदनाभासो गोत्वाद्गोसिद्धिवदुत्पत्तिधर्मकत्वादनित्यत्वसिद्धिः । साधर्म्य हि यदन्वयव्यतिरेकि गोत्वं तस्मादेव गौः सिद्ध्यति न सत्त्वादेस्तस्य गोरित्यत्राश्वादावपि भावादव्यतिरेकित्वात् । एवमगोवैधर्म्यमपि गोः साधनं नैकशफत्वादित्यस्याव्यतिरेकित्वादेव पुरुषादावपि भावात् । गोत्वं पुनर्गवि दृश्यमानमन्वयव्यतिरेकि गोः साधनमुपपद्यते तद्वदुत्पत्तिधर्मकत्वं घटादावनित्यत्वे सति भावादाकाशादौ वा नित्यत्वाभावे अभावादन्वयव्यतिरेकि शब्दे समुपलभ्यमानमनित्यत्वस्य साधनं, न पुनरमित्यघटसाधर्म्यमात्रसत्त्वादिनाप्याकाशवैधर्म्यमात्रममूर्तत्वादि तस्यान्वयव्यतिरेकित्वाभावात् । ततस्तेन Page #308 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। २९९ प्रत्यवस्थानमयुक्तं दूषणाभासत्वादिति । एतेनात्मनः क्रियावत्साधर्म्यमात्रं निष्क्रियवैधर्म्यमानं वा क्रियावत्त्वसाधनं प्रत्याख्यातमन्वयव्यतिरेकित्वात् , अन्वयव्यतिरेकिण एव साधनस्य साध्यसाधनसामर्थ्यात् ।। तत्रैव प्रत्यवस्थानं वैधयेणोपदय॑ते । यः क्रियावान्स दृष्टोत्र क्रियाहेतुगुणाश्रयः ॥ ३२६ ॥ यथा लोष्ठो न वात्मैवं तस्मानिष्क्रिय एव सः । पूर्ववढूषणाभासो वैधर्म्यसम ईक्ष्यताम् ३२७ • क्रियावानात्मा क्रियाहेतुगुणाश्रयत्वालोष्ठवदित्यत्र वैधम्र्येण प्रत्यवस्थानं, यः क्रियाहेतुगुणाश्रयो लोष्ठः स क्रियावान् परिच्छिन्नो दृष्टो न च तथात्मा तस्मान्न लोष्ठवत्क्रियावानिति निष्क्रिय एवेत्यर्थः । सोऽयं साधर्म्यणोपसंहारे वैध\ण प्रत्यवस्थानात् वैधर्म्यसमः प्रतिषेधः पूर्ववदूषणाभासो वेदितव्यः ॥ का पुनर्वैधर्म्यसमा जातिरित्याह;वैधयेणोपसंहारे साध्यधर्मविपर्ययात । वैधयेणेतरेणापि प्रत्यवस्थानमिष्यते ॥ ३२८॥ या वैधर्म्यसमा जातिरिदं तस्या निदर्शनम् । नरो निष्क्रिय एवायं विभुत्वात्सक्रियः पुनः॥ विभुत्वरहितं दृष्टं लोष्ठादि न तथा नरः । तस्मानिष्क्रिय इत्युक्ते प्रत्यवस्था विधीयते॥३३०॥ वैधये॒णैव सा तावत्कैश्चिन्निग्रहभीरुभिः । कर्मबंधक्रियाहेतुर्गुणादीनां समीक्षितं ॥ ३३१ ॥ नैवमात्मा ततो नायं निष्क्रियः संप्रतीयते । साधर्मेणापि तत्रैवं प्रत्यवस्थानमुच्यते ॥३३२॥ क्रियावानेव लोष्ठादिः क्रियाहेतुगुणाश्रयः । तृष्णातादृक्त्वजीवोपि तस्मात्सक्रिय एव सः ३३३ इति साधयेवैध→समयो दूषणोद्भवात् । सधर्मत्वविधर्मत्वमात्रात्साध्याप्रसिद्धितः ॥३३४॥ अथोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमा साध्याया विधीयतेसाध्यदृष्टांतयोर्धर्मविकल्पाद्वयसाध्यता । सद्भावाच मता जातिरुत्कर्षेणापकर्षतः ॥ ३३५ ।। वर्ष्यावर्ण्यविकल्पैश्च साध्येन च समाः पृथक् । तस्याः प्रतीयतामेतल्लक्षणं सन्निदर्शनम्॥३३६ यदाह, साध्यदृष्टांतयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यसमा इति ॥ तत्रोत्कर्षसमा तावल्लक्षणतो निदर्शनतश्चापि विधीयते;दृष्टांतधर्म साध्यार्थे समासंजयतः स्मृता । तत्रोत्कर्षसमा यद्वत्क्रियावजीवसाधने ॥३३७॥ क्रियाहेतुगुणासंगी यद्यात्मा लोष्ठवत्तदा । तद्वदेव भवेदेष स्पर्शवानन्यथा न सः॥३३८ ॥ दृष्टांतधर्म साध्ये समासंजयतः स्मृतोत्कर्षसमा जातिः खयं, यथा क्रियावानात्मा क्रियाहेतुगुणयोगालोष्ठवत् इत्यत्र क्रियावज्जीवसाधने प्रोक्ते सति परः प्रत्यवतिष्ठते । यदि क्रियाहेतुगुणासंगी पुमांल्लोष्ठवत्तदा लोष्ठवदेव स्पर्शवान् भवेत् । अथ न स्पर्शवांल्लोष्ठवदात्मा क्रियावानपि न स स्यादिति विपर्यये वा विशेषो वाच्य इति ॥ का पुनरपकर्षसमेत्याह;साध्यधर्मिणि धर्मस्याभावं दृष्टांततो वदन् । अपकर्षसमां वक्ति जातिं तत्रैव साधने ॥३३९॥ लोष्ठः क्रियाश्रयो दृष्टो विभुः कामं तथास्तु ना । तद्विपर्ययपक्षे वा वाच्यो हेतुर्विशेषकत्३४० तत्रैव क्रियावज्जीवसाधने प्रयुक्ते सति साध्यधर्मिणि धर्मस्याभावं दृष्टांतात् समासंजयन् यो वक्ति सोपकर्षसमाजाति वदति । यथा लोष्ठः क्रियाश्रयोऽसर्वगतो दृष्टस्तद्वदात्मा सदाप्यसर्वगतोस्तु विपर्ययैर्वा विशेषकृद्धतुर्वाच्य इति ॥ Page #309 -------------------------------------------------------------------------- ________________ ३०० तत्त्वार्थश्लोकवार्तिके (तत्त्वार्था० वावर्ण्यसमौ प्रतिषेधकावित्याह;ख्यापनीयो मतो वर्ण्यः स्यादव? विपर्ययात् । तत्समा साध्यदृष्टांतधर्मयोरत्र साधने ३४१ विपर्यासनतो जातिर्विज्ञेया तद्विलक्षणा । भिन्नलक्षणतायोगात्कथंचित्पूर्वजातिवत्॥३४२॥ ख्यापनीयो वर्ण्यस्तद्विपर्ययादख्यापनीयः पुनरवर्ण्यस्तेन वण्येनावयेन च समा जातिवर्ण्यसमावर्ण्यसमा च विज्ञेया । अत्रैव साधने साध्यदृष्टांतधर्मयोर्विपर्यासनात् । उत्कर्षापकर्षसमाभ्यां कुतोनयोर्भेद इति चेत् , लक्षणभेदात् । तथाहि-अविद्यमानधर्मव्यापक उत्कर्षः विद्यमानधर्मापनयोऽपकर्षः। वर्ण्यस्तु साध्योऽवर्योऽसाध्य इति, तत्प्रयोगाज्जातयो विभिन्नलक्षणाः साधर्म्यवैधर्म्यसमवत् ॥ साध्यधर्मविकल्पं तु धर्मातरविकल्पतः । प्रसंजयत इष्येत विकल्पेन समा बुधैः ॥ ३४३॥ क्रियाहेतुगुणोपेतं किंचिद्गुरु समीक्ष्यते । परं लघु यथा लोष्ठो वायुश्चेति क्रियाश्रयं ॥३४४॥ किंचित्तदेव युज्येत यथा लोष्ठादि निष्क्रियं । किंचिन्न स्थाद्यथात्मेति विशेषो वा निवेदताम्३४५ विशेषो विकल्पाविशेषः साध्यधर्मस्य विकल्पः साध्यधर्मविकल्पस्तं धर्मातरविकल्पात्प्रसंजयतस्तु विकल्पसमा जातिः तत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते । क्रियाहेतुगुणोपेतं किंचिद्गुरु दृश्यते यथा लोष्ठादि, किंचित्तु लघु समीक्ष्यते यथा वायुरिति । तथा क्रियाहेतुगुणोपेतमपि किंचित्क्रियाश्रयं युज्यते यथा लोष्ठादि, किंचित्तु लघु समीक्ष्यते यथा वायुरिति, किंचित्तु निष्क्रियं यथात्मेति वावर्ण्यसमाभ्यामियं भिन्ना तत्रैवं प्रत्यवस्थानाभावात् वर्ष्यावर्ण्यसमयोद्देवं प्रत्यवस्थानं, यद्यात्मा क्रियावान् वर्ण्यः साध्यस्तदा लोष्ठादिरपि साध्योस्तु । अथ लोष्ठादिरवर्ण्यस्तात्माप्यवर्योस्तु, विशेषो वा वक्तव्य इति । विकल्पसमायां तु क्रियाहेतुगुणाश्रयस्य गुरुलघुविकल्पवत्सक्रियनिष्क्रियत्वविकल्पोस्त्विति प्रत्यवस्थानं । अतोसौ भिन्ना ॥ का पुनः साध्यसमेत्याह;हेत्वादिकांगसामर्थ्ययोगी धर्मोवधार्यते । साध्यस्तमेव दृष्टांते प्रसंजयति यो नरः ॥ ३४६ ॥ तस्य साध्यसमा जातिरुद्भाव्या तत्त्ववित्तकैः । यथा लोष्ठस्तथा चात्मा यथात्मायं तथा न किम् ॥ लोष्ठः स्यात्सक्रियश्चात्मा साध्यो लोष्ठोपि तादृशः। साध्योस्तु नेति चेल्लोष्ठो यथात्मापि तथा कथं हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्योऽवधार्यते तमेव दृष्टांते प्रसंजयति यो वादी तस्य साध्यसमा जातिस्तत्त्वपरीक्षकैरुद्भावनीया । तद्यथा-तत्रैव साधने प्रयुक्ते परः प्रत्यवस्थानं करोति यदि यथा लोष्ठस्तथात्मा, तदा यथात्मा तथायं लोष्ठः स्यात् सक्रिय इति, साध्यश्चात्मा लोष्ठोपि साध्योस्तु सक्रियः इति । अथ लोष्ठः क्रियावान् साध्यस्तात्मापि क्रियावान् साध्यो मा भूत् , विशेषो वा वक्तव्य इति ॥ कथमासां दूषणाभासत्वमित्याह;दृषणाभासता त्वत्र दृष्टांतादिसमर्थना । युक्ते साधनधर्मेपि प्रतिषेधमलब्धितः ॥ ३४९ ॥ साध्यदृष्टांतयोर्धर्मविकल्पादुपवर्णितात् । वैधयं गवि सादृश्ये गवयेन यथा स्थिते ॥३५०॥ साध्यातिदेशमात्रेण दृष्टांतस्योपपत्तितः । साध्यत्वासंभवाचोक्तं दृष्टांतस्य न दूषणं ॥ ३५१ ॥ क्रियावानात्मा क्रियाहेतुगुणाश्रयत्वाल्लोष्ठवदित्यादौ दृष्टांतादिसमर्थनयुक्ते साधनधर्मे प्रयुक्ते सत्यपि साध्यदृष्टांतयोर्धर्मविकल्पादुपवर्णिताद्वैधयेण प्रतिषेधस्य कर्तुमलब्धेः किंचित्साधादुपसंहारसिद्धः । Page #310 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। ३०१ तदाह न्यायभाष्यकारः । “अलभ्यः सिद्धस्य निवः सिद्धं च किंचित्साधर्म्यादुपमानं यथा गौस्तथा गवय" इति । तत्र न लभ्यो गोगवययोर्धर्मविकल्पश्चोदयितुं । एवं साधनधर्मे दृष्टांतादिसामर्थ्ययुक्ते सति न लभ्यः साध्यदृष्टांतयोधर्मविकल्पाद्वैधात् प्रतिषेधो वक्तुमिति । साध्यातिदेशमात्राच दृष्टांतस्योपपत्तेः साध्यत्वासंभवात् । यत्र हि लौकिकपरीक्षकाणां बुद्धेरभेदस्तेनाविपरीतोर्थः साध्येऽतिदिश्यते प्रज्ञापनार्थ । • एवं च साध्यातिदेशाद् दृष्टांते कचिदुपपद्यमाने साध्यत्वमनुपपन्नमिति । तथोद्योतकरोप्याह । दृष्टांतः साध्य इति.......""वत्ता भवता न दृष्टांतलक्षणं व्यज्ञायि । दृष्टांतो हि नाम दर्शनयोर्विहितयोविषयः । तथा च साध्यमनुपपन्नं । अथ दर्शनं विहन्यते तर्हि नासौ दृष्टांतो लक्षणाभावादिति ॥ प्राप्त्या यत्प्रत्यवस्थानं जातिः प्राप्तिसमैव सा । अप्राप्त्या पुनरप्राप्तिसमा सत्साधनेरणे ॥३५२ यथायं साधयेद्धेतुः साध्यप्राप्त्यान्यथापि वा । प्राप्त्या चेयुगपद्भावात्साध्यसाधनधर्मयोः३५३ प्राप्तयोः कथमेकस्य हेतुतान्यस्य साध्यता । युक्तेति प्रत्यवस्थान प्राप्त्या तावदुदाहृतम् ॥३५४ अप्राप्य साधयेत्साध्यं हेतुश्चेत्सर्वसाधनः । सोस्तु दीपो हि नाप्राप्तपदार्थस्य प्रकाशकः॥३५५ इत्यप्राप्त्यावबोद्धव्यं प्रत्यवस्थानिदर्शनम् । तावेतौ दूषणाभासौ निषेधस्सैवमन्वयात् ॥ ३५६ ॥ प्राप्तस्यापि दंडादेः कुंभसाधकतेक्ष्यते । तथाभिचारमंत्रस्य प्राप्तस्यासातकारिता ॥ ३५७॥ __ नन्वत्र कारकस्य हेतोः प्राप्तस्याप्राप्तस्य च दंडादेरभिचारमंत्रादेश्च स्वकार्यकारितोपदर्शिता ज्ञापकस्य तु हेतोः प्राप्तस्याप्राप्तस्य वा खसाध्या प्रकाशिता चोदितेति न संगतिरस्तीति कश्चित् । तदसत् । कारकस्य ज्ञापकस्य वा विशेषेण प्रतिक्षेपोयमित्येवं ज्ञापनार्थत्वात्कारकहेतुव्यवस्थापनस्य । तेन ज्ञापकोपि हेतुः कश्चित्याप्तः खसाध्यस्य ज्ञापको दृष्टो यथा संयोगी धूमादिः पावकादेः । कश्चिदप्राप्तो विश्लेषे, यथा कृत्तिकोदयः शकटोदयस्येत्यपि विज्ञायते । यथायं सर्वोपि पक्षीकृतस्तर्हि येन हेतुना प्रतिषिध्यते सोपि प्रतिषेधको न स्यादुभयथोक्तदूषणप्रसंगादित्यप्रतिषेधस्ततो दूषणाभासाविमौ प्रतिपत्तव्यौ । वक्तव्यं साधनस्यापि साधनं वादिनेति तु । प्रसंगवचनं जातिः प्रसंगसमतां गता ॥ ३५८॥ क्रियाहेतुगुणोपेतः क्रियावांल्लोष्ठ इष्यते । कुतो हेतोविना तेन कस्यचिन्न व्यवस्थितिः ॥३५९ एवं हि प्रत्यवस्थानं न युक्तं न्यायवादिनां । वादिनोर्यत्र वा साम्यं तस्य दृष्टांततास्थितिः ३६० यथा रूपं दिदृक्षूणां दीपादीनां प्रतीयते । स्वयं प्रकाशमानं तु दीपं दीपांतराग्रहात् ॥३६॥ तथा साध्यप्रसिद्ध्यर्थ दृष्टांतग्रहणं मतं । प्रज्ञातात्मनि दृष्टांते त्वफलं साधनांतरम् ।। ३६२॥ प्रतिदृष्टांतरूपेण प्रत्यवस्थानमिष्यते । प्रतिदृष्टांततुल्येति जातिस्तत्रैव साधना ॥ ३६३ ॥ क्रियाहेतुगुणोपेतं दृष्टमाकाशमक्रियं । क्रियाहेतुर्गुणो व्योम्नि संयोगो वायुना स च ॥३६४॥ संस्कारापेक्षणो यद्वत्संयोगस्तेन पादपे । स चायं दूषणाभाससाधनाप्रतिबंधकः ॥ ३६५॥ साधकः प्रतिदृष्टांतो दृष्टांतोपि हि हेतुना । तेन तद्वचनाभावात् सदृष्टांतोस्तु हेतुकः॥३६६॥ एवं ह्याह, दृष्टांतस्य कारणमपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टांतेन प्रसंगप्रतिदृष्टांतसमौ । तत्र साधनस्यापि दृष्टांतस्य साधनं कारणं प्रतिपत्तौ वाच्यप्रसंगेन प्रत्यवस्थानं प्रसंगसमः प्रतिषेधः तत्रैव साधने क्रियाहेतुगुणयोगात् क्रियावांल्लोष्ठ इति हेतुनापदिश्यते, न च हेतुमंतरेण कस्यचित्सिद्धिरस्तीति । सोयमेवं वदद्दूषणाभासवादी न्यायवादिनामेवं प्रत्यवस्थानस्यायुक्तत्वात् । अत्र वादिप्रतिवादिनोः बुद्धि Page #311 -------------------------------------------------------------------------- ________________ ३०२ तत्त्वार्थ श्लोकवार्तिके [ तत्त्वार्था० सामान्यस्य दृष्टांतत्वव्यवस्थितेः । यथा हि रूपं दिदृक्षूणां प्रदीपोपादानं प्रतीयते न पुनः स्वयं प्रकाशमानं प्रदीपं दिदृक्षूणां तेषां तदग्रहणात् । तथा साध्यस्यात्मनः क्रियावत्त्वस्य प्रसिद्ध्यर्थं दृष्टांतस्य लोष्ठस्य ग्रहणमभिप्रेतं न पुनर्दृष्टांतस्यैव प्रसिद्ध्यर्थं साधनांतरस्योपादानं प्रज्ञातस्वभावदृष्टांतत्वोपपत्तेः तत्र साधनांतरस्याफलत्वात् । तथा प्रतिदृष्टांतरूपेण प्रत्यवस्थानं प्रतिदृष्टांतसमा जातिस्तत्रैव साधने प्रयुक्ते कश्चित् प्रतिदृष्टांतेन प्रत्यवतिष्ठते क्रियाहेतुगुणाश्रयमाकाशं निष्क्रियं दृष्टमिति । कः पुनराकाशस्य क्रियाहेतुर्गुणसंयोगो वायुना सह, स च संस्कारापेक्षो दृष्टो यथा पादपे वायुना संयोगः कालत्रयेप्यसंभवादाकाशे क्रियायाः । कथं क्रियाहेतुर्वायुना संयोग इति न शंकनीयं वायुना संयोगो न वनस्पतौ क्रियाकारणेन प्रसिद्धेन समानधर्मत्वादाकाशे वायुसंयोगस्य, यत्त्वसौ तथाभूतः क्रियां न करोति तत्राकारणत्वादपि तु प्रतिबंधान्महापरिमाणेन । यथा मंदवायुनानंतानां लोष्ठादीनामिति । यदि च क्रिया दृष्टा क्रियाकारणं वायुसंयोग इति मन्यसे तदा सर्वकारणं क्रियानुशेषं भवतः प्राप्तं । ततश्च कस्यचित्कारणस्योपादानं प्राप्नोति क्रियार्थिनां किमिदं करिष्यति किं वा न करिष्यतीति संदेहात् । यस्य पुनः क्रियासमर्थत्वादुपादानं कारणस्य युक्तं तस्य सर्वमाभाति । अथ क्रियाकारणवायुवनस्पतिसंयोगसदृशो वा प्रकाशसंयोगोन्यश्चान्यत् क्रियाकारणमिति मन्यसे, तर्हि न कश्चिद्धेतुरनैकांतिकः स्यात् । तथाहि । अनित्यः शब्दो मूर्तत्वात्सुखादिवदित्यत्रामूर्तत्वहेतुः शब्दोन्योन्यश्चाकाशे तत्सदृश इति कथमस्याकाशेनानै कांतिकत्वं सर्वानुमानाभावप्रसंगश्च भवेत्, अनुमानस्यान्येन दृष्टस्यान्यत्र दृश्यादेव प्रवर्तनात् । न हि ये धूमधर्माः कचिद्भूमे दृष्टांत एव, धूमांतरेष्वपि दृश्यंते तत्सदृशानां दर्शनात् । ततोऽनेन कस्यचिद्धेतोरनैकांतिकत्वमिच्छता क्वचिदनुमानाप्रवृत्तिश्चाकुर्वता तद्धर्मसदृशस्तद्धर्मोनुमंतव्य इति क्रियाकारणवायुवनस्पतिसंयोगसदृशो वाय्वाकाशसंयोगोपि क्रियाकारणमेव । तथा च प्रतिदृष्टांतेनाकाशेन प्रत्यवस्थानमिति प्रतिदृष्टांतसमप्रतिषेधवादिनोभिप्रायः । स चायुक्तः । प्रतिदृष्टांतसमस्य दूषणाभासत्वात् प्रकृतसाधनाप्रतिबंधित्वात्तस्य, प्रतिदृष्टांतो हि स्वयं हेतुः साधकः साध्यस्य न पुनरन्येन हेतुना तस्यापि दृष्टांतांतरापेक्षायां दृष्टांतांतरस्य वा परेण हेतुना साधकत्वे परापरदृष्टांतहेतुपरिकल्पनायामनवस्थाप्रसंगात् । तथा दृष्टांतोपि न परेण हेतुना साधकः प्रोक्तानवस्थानुषंगसमानत्वात्ततो दृष्टांतेपि प्रतिदृष्टांत इव हेतुवचनाभावाद्भवतो दृष्टांतोस्तु हेतुक एव । तदाहोद्योतकरः । प्रतिदृष्टांतस्य हेतुभावं प्रतिपद्यमानेन दृष्टांतस्यापि हेतुभावोम्युपगंतव्यः । हेतुभावश्च साधकत्वं स च कथमहेतुर्न स्यात् । यद्यप्रतिषिद्धः स्यात् अप्रतिसिद्धश्चायं साधकः । किं च, यदि तावदेवं ब्रूते यथायं त्वदीयो दृष्टांतो लोष्ठादिस्तथा मदीयोप्याकाशादिरिति तदा दृष्टांतस्य लोष्ठादेरभ्युपगमान्न दृष्टांतत्वं व्याघातत्वात् । अथैवं ब्रूते यथायं मदीयो दृष्टांतस्तथा त्वदीय इति तथापि न दृष्टांतः कश्चित् व्याघातादेव दृष्टांतप्रतिदृष्टांतत्वैः परस्परं व्याघातः समानबलत्वात् । तयोरदृष्टांतत्वे तु प्रतिदृष्टांतत्वे दृष्टांतस्यादृष्टांतत्वव्याघातः प्रतिदृष्टांताभावे तस्य दृष्टांतत्वोपपत्तेः दृष्टांतस्य चादृष्टांतत्वे प्रतिदृष्टांतस्यादृष्टांतत्वव्याघातः दृष्टांताभावे तस्य प्रतिदृष्टांततोपपत्तेः । न चोभयोर्दृष्टांतत्वं व्याघातादिति न प्रतिदृष्टांतेन प्रत्यवस्थानं युक्तम् ॥ कारणाभावतः पूर्वमुत्पत्तेः प्रत्यवस्थितिः । यानुत्पत्त्या परस्योक्ता सानुत्पत्तिसमा भवेत् ३६७ शब्दो विनश्वरात्सैवमुपपन्नो भवत्वतः । कदंबादिवदित्युक्ते साधने प्राह कश्चन ॥ ३६८ ॥ प्रागुत्पत्तेरनुत्पन्ने शब्दे नित्यत्वकारणं । प्रयत्नानंतरोत्थत्वं नास्तीत्येषोऽविनश्वरः ॥ ३६९ ॥ शाश्वतस्य च शब्दस्य नोत्पत्तिः स्यात्प्रयत्नतः । प्रत्यवस्येत्यनुत्पत्त्या जातिर्न्यायातिलंघनात् ३७० Page #312 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ३०३ उत्पन्नस्यैव शब्दस्य तथाभावप्रसिद्धितः । प्रागुत्पत्तेर्न शब्दोस्तीत्युपालंभः किमाश्रयः।।३७१॥ सत एव तु शब्दस्य प्रयत्नानंतरोत्थता । कारणं नश्वरत्वेस्ति तनिषेधस्ततः कथम् ॥ ३७२ ॥ उत्पत्तेः पूर्व कारणाभावतो या प्रत्यवस्थितिः परस्यानुत्पत्तिसमा जातिरुक्ता भवेत् । “प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसम इति वचनात् । तद्यथा-विनश्वरः शब्दः पुरुषप्रयत्नोद्भवात् कदंबादिवदित्युक्ते साधने सति पर एवं ब्रवीति प्रागुत्पत्तेरनुत्पन्ने शब्दविनश्वरत्वस्य कारणं यत्प्रयत्नानंतरीयकत्वं तन्नास्ति ततोयमविनश्वरः, शाश्वतस्य च शब्दस्य न प्रयत्नानंतरं जन्मेति सेयमनुत्पत्त्या प्रत्यवस्था दूषणाभासो न्यायातिलंघनात् । उत्पन्नस्यैव हि शब्दधर्मिणः प्रयत्नानंतरीयकत्वमुत्पत्तिधर्मकत्वं वा भवति, नानुत्पन्नस्य प्रागुत्पत्तेः शब्दस्य चासत्त्वे किमाश्रयोयमुपालंभः । न ह्ययमनुत्पत्तौ सन्नेव शब्द इति वा प्रयत्नानंतरीयक इति वा अनित्य इति वा व्यपदेशं शक्यः । शब्दे तु सिद्धमेव प्रयत्नानंतरीयकत्वं कारणं नश्वरत्वे साध्ये । ततः कथमस्य प्रतिषेधः किं वार्य हेतुआपको न पुनः कारको, ज्ञापके च कारकवत्प्रत्यवस्थानमसंबद्धमेव । ज्ञापकस्यापि किंचित्कुर्वतः कारकत्वमेवेति चेत् न, क्रियाहेतोरेव कारकत्वोपपत्तेरस्यानुत्पन्नेस्ति हेतोपिकत्वात् । कारकता हि वस्तूत्पादयति ज्ञापकस्तूत्पन्नं वस्तु ज्ञापयतीत्यस्ति विशेषः । कारकविशेषे वा ज्ञापके कारकसामान्यवत्प्रत्यवस्थानमयुक्तं । किं च–प्रागुत्पत्तेरप्रयत्नानंतरीयको अनुत्पत्तिधर्मको वा शब्द इति ब्रुवाणः शब्दमभ्युपैति नासतो प्रयत्नानंतरीयकत्वादिधर्म इति तत्त्वस्य विशेषणमनर्थकं प्रागुत्पत्तौ इति । अपरे तु प्राहुः, प्रागुत्पत्तेः कारणाभावादित्युक्ते अर्थापत्तिसमैवेयमिति प्रागुत्पत्तेः प्रयत्नानंतरीयकत्वस्याभावादप्रयत्नानंतरीयकत्वाच इति कृते सत्प्रत्युत्तरं ब्रूते । नायं नियमो अप्रयत्नानंतरीयकत्वं नित्यमिति तु, न हि तस्य गतिः किंचिन्नित्यमाकाशाधेव, केषांचिदनित्यं विद्युदादि, किंचिदसदेवाकाशपुष्पादीति । एतत्तु न पश्यन्युक्तमिति पश्यामः । कथमिति: यत्तावदसत्तदप्रयत्नानंतरीयकत्वं व्यजन्मविशेषणत्वात् । यस्याप्रयत्नानंतरं जन्म तदप्रयत्नानंतरीयक न चाभावो विद्यते अतो न तस्य जन्म यच्चासत् किं तस्य विशेष्यमस्ति । एतेन नित्यं प्रयुक्तं, न हि नित्यमप्रयत्नानंतरीयकमिति युक्तं वक्तुं, तस्य जन्माभावादिति जातिलक्षणाभावान्नेयमनुत्पत्तिसमा जातिरितिचेत् नानुत्पत्तेरहेतुभिः साधर्म्यात् योनुत्पन्न........"भिस्तद्यथानुत्पन्नास्तंतवो न पटस्य कारणमिति ॥ सामान्ये घटयोस्तुल्य ऐंद्रियत्वे व्यवस्थिते । नित्यानित्यत्वसाधात् संशयेन समा मता३७३ तत्रैव साधने प्रोक्ते संशयेन स्वयं परः । प्रत्यवस्थानमाधत्ते पश्यन् सद्भूतदूषणम् ॥३७४ ॥ प्रयत्नानंतरोत्थेपि शब्दे साधर्म्यमैंद्रिये । सामान्येनास्ति नित्येन घटेन च विनाशिना॥३७५॥ तादृशेनेति संदेहो नित्यानित्यत्वधर्मयोः । स चायुक्तो विशेषेण शब्दानित्यत्वसिद्धितः३७६ यथा पुंसि विनिर्णीते शिरःसंयमनादिना । पुरुषस्थाणुसाधाद्धर्मत्वान्नास्ति संशयः॥३७७॥ तथा प्रयत्नजत्वेनानित्ये शब्दे विनिश्चिते । घटसामान्यसाधादेंद्रियत्वान्न संशयः ॥३७८॥ संदेहेत्यंतसंदेहः साधर्म्यस्याविनाशतः । पुंसित्वादिगतस्येति निर्णयः कास्पदं व्रजेत्॥३७९॥ ननु चैषा संशयसमा साधर्म्यसमातो न भिद्यते एवोदाहरणसाधर्म्यात् तस्याप्रवर्तनादिति न चोद्य, संशयसमानोभयसाधात्प्रवृत्तेः । साधर्म्यसमाया एकसाधादुपदेशात् । ततो जात्यंतरमेव संशयसमा । तथाहि-नित्यः शब्दः प्रयत्नानंतरीयकत्वात् घटवदिति, अत्र च साधने प्रयुक्ते सति परः खयं संशयेन प्रत्यवस्थानं करोति सद्भूतं दूषणमप्यसत्, प्रयत्नानांतरीयकेपि शब्दे सामान्येन साधर्म्यसेंद्रियकत्वं Page #313 -------------------------------------------------------------------------- ________________ ३०४ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० नित्येनास्ति घटेन वानित्येनेति संशयः । शब्दे नित्यानित्यत्वधर्माधर्मयोरित्येषा संशयसमा जातिः । सामान्यघटयोरैंद्रियकत्वे सामान्ये स्थिते नित्यानित्यसाधान्न पुनरेकसाध या॑त् । सामान्यदृष्टांतयोरैंद्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसम इति वचनात् । अत्र संशयो न युक्तो विशेषेण शब्दानित्यत्वसिद्धेः । तथाहि-पुरुषे शिरःसंयमनादिना विशेषेण नित्यत्वे सति न पुरुषस्थाणुसाधादूर्द्धत्वात्संशयस्तथा प्रयत्नानंतरीयकत्वेन विशेषेणानित्ये शब्दे निश्चिते सति न. घटसामान्यसाधादेंद्रियकत्वात्संशयः अत्यंतसंशयः । साधर्म्यस्याविनाशित्वात् पुरुषस्थाण्वादिगतस्येति निर्णयः कास्पदं प्राप्नुयात् । साधर्म्यमात्राद्धि संशये कचिद्वैधर्म्यदर्शनान्निर्णयो युक्तो न पुनर्वैधात्साधर्म्यवैधाभ्यां वा संशये तथात्यंतसंशयात् । न चात्यंतसंशयो ज्यायान् सामान्यात् संशयाद्विशेषदर्शनात् संशयनिवृत्तिसिद्धेः ॥ अथानित्येन नित्येन साधादुभयेन या । प्रक्रियायाः प्रसिद्धिः स्यात्ततः प्रकरणे समा३८० उभाभ्यां नित्यानित्याभ्यां साधाद्या प्रक्रियासिद्धिस्ततः प्रकरणसमा जातिरवसेया, "उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमा” इति वचनात् ॥ किमुदाहरणमेतस्या इत्याह;तत्रानित्येन साधानिःप्रयत्नोद्भवत्वतः । शब्दस्यानित्यतां कश्चित्साधयेदपरः पुनः॥३८१॥ तस्य नित्येन गोत्वादिसामान्येन हि नित्यता । ततः पक्षे विपक्षे च समाना प्रक्रिया स्थिता ३८२ तत्र हि प्रकरणसमायां जातौ कश्चिदनित्यः शब्दः प्रयत्नानांतरीयकत्वाद्धटवदित्यनित्यसाधर्म्यात् पुरुषप्रयत्नोद्भवत्वाच्छब्दस्यानित्यत्वं साधयति । परः पुनर्गोत्वादिना सामान्येन साधर्म्यात्तस्य नित्यतां साधयेत् । ततः पक्षे विपक्षे च प्रक्रिया समानेत्युभयपक्षपरिग्रहेण वादिप्रतिवादिनोनित्यत्वानित्यत्वे साधयतः । साधर्म्यसमायां संशयसमायां च नैवमिति ताभ्यां भिन्नेयं प्रकरणसमा जातिः ॥ कथमीदृशं प्रत्यवस्थानमयुक्तमित्याह;प्रक्रियांतनिवृत्त्या च प्रत्यवस्थानमीदृशं । विपक्षे प्रक्रियासिद्धौ न युक्तं तद्विरोधतः ॥३८३।। प्रतिपक्षोपपत्तौ हि प्रतिषेधो न युज्यते । प्रतिषेधोपपत्तौ च प्रतिपक्षकृतिभ्रुवम् ॥ ३८४ ॥ तत्त्वावधारणे चैतत्सिद्धं प्रकरणं भवेत् । तदभावेन तत्सिद्धिर्येनेयं प्रत्यवस्थितिः ॥३८५॥ प्रक्रियांतनिवृत्त्या प्रत्यवस्थानमीदृशमयुक्तं, विपक्षे प्रक्रियासिद्धौ तयोर्विरोधात् । प्रतिपक्षप्रक्रियासिद्धौ हि प्रतिषेधो विरुध्यते, प्रतिषेधोपपत्तौ च प्रतिपक्षप्रक्रियासिद्धिाहन्यते इति विरुद्धस्तयोरेव सांभवी । किं च, तत्त्वावधारणे सत्येवैतत्प्रकरणं सिद्धं भवेन्नान्यथा । न चात्र तत्त्वावधारणं ततोऽसिद्धं प्रकरणं, तदसिद्धौ च नैवेयं प्रत्यवस्थितिः संभवति ॥ का पुनरहेतुसमा जातिरित्याह;त्रैकाल्यानुपपत्तेस्तु हेतोः साध्यार्थसाधने । स्थादहेतुसमा जातिः प्रयुक्ते साधने कचित्३८६ पूर्व वा साधनं साध्यादुत्तरं वा सहापि वा । पूर्व तावदसत्यर्थे कस्य साधनमिष्यते ॥३८७॥ पश्चाचेत् किं न तत्साध्यं साधनेऽसति कथ्यतां । युगपद्वाचि चित्साध्यसाधनत्वं न युज्यते३८८ स्वतंत्रयोस्तथाभावासिद्धेविन्ध्यहिमाद्रिवत् । तथा चाहेतुना हेतुर्न कथंचिद्विशिष्यते ॥३८९॥ Page #314 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । ३०५ इत्यहेतुसमत्वेन प्रत्यवस्थाप्य युक्तिता । हेतोः प्रत्यक्षतः सिद्धेः कारकस्य घटादिषु ॥ ३९० ॥ कार्येषु कुंभकारस्य तन्निवृत्तेस्ततो ग्रहात् । ज्ञापकस्य च धूमादेरन्यादौ ज्ञप्तिकारिणः ॥ ३९१ ॥ स्वज्ञेये परसंताने वागादेरपि निश्चयात् । त्रैकाल्यानुपपत्तेश्च प्रतिषेधे कचित्तथा ॥ ३९२ ॥ समान कार्यासौ प्रतिषेध विद्भिः, कथं पुनस्त्रैकाल्या सिद्धिर्हेतोरहेतुसमा जातिरभिधीयते ? अहेतुसामान्याप्रत्यवस्थानात् । यथा ह्यहेतुः साध्यस्यासाधकस्तथा हेतुरपि त्रिकालत्वेनाप्रसिद्ध इति स्पष्टत्वादहेतुसमा जातेर्लक्षणोदाहरणप्रतिविधानानामलं व्याख्यानेन ॥ प्रयत्नानंतरोत्थत्वाद्धेतोः पक्षे प्रसाधिते । प्रतिपक्षप्रसिद्ध्यर्थमर्थापत्या विधीयते ॥ ३९३ ॥ या प्रत्यवस्थितिः सात्र मता जातिविदांवरैः । अर्थापत्तिः समैवोक्ता साधनाप्रतिवेदिनी ३९४ यदि प्रयत्नजत्वेन शब्दस्यानित्यताभवत् । तदार्थापत्तितो नित्यसाधर्म्यादस्तु नित्यता ॥ ३९५ यथैवास्पर्शनत्वादेर्नित्ये दृष्टा तथा ध्वनौ । इत्यत्र विद्यमानत्वात्समाधानस्य तत्त्वतः ॥ ३९६ शब्दो नास्तीति “पक्षे हेतोरसंशयम् । एष नास्तीति पक्षस्य हानिरर्थात्प्रतीयते ॥ ३९७॥ यया च प्रत्यवस्थानमर्थापत्त्या विधीयते । नानैकांतिकता दृष्टा समत्वादुभयोरपि ॥ ३९८ ॥ ग्रा''''द्यनस्य पातः स्यादित्युक्तेर्थान्न सिद्ध्यति । द्रव्यात्मनामसंपाताभावोर्थापत्तितो यथा ॥ तस्याः साध्याविनाभावशून्यत्वं तद्वदेव हि । शब्दानित्यत्वसंसिद्धौ नार्थानित्यत्वसाधनं ४०० नर्थापत्त्यानैकांतिक्या प्रतिपक्षः सिद्ध्यति येन प्रयत्नानंतरीयकत्वात् शब्दस्यानित्यत्वे साधितेपि अस्पर्शवत्त्वान्यथानुपपत्त्या तस्य नित्यत्वं । सिद्धे तु सुखादिनानैकांतिकी चेयमर्थापत्तिरतो न प्रतिपक्षस्य सिद्धिस्तदसिद्धौ च ना............ ...........उपपद्यते, सर्वापत्त्यर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसम इति वचनात् ॥ 1 का पुनरविशेषसमा जातिरित्याह ; ' क्वचिदेकस्य धर्मस्य घटनादुररीकृते । अविशेषोत्र सद्भावाघटनात्सर्ववस्तुनः ॥ ४०१ ॥ अविशेषः प्रसंगः स्यादविशेषसमा स्फुटं । जातिरेवंविधं न्यायप्राप्तदोषासमीक्षणात् ॥ ४०२ ॥ एको धर्मः प्रयत्नानंतरीयकत्वं तस्य क्वचिच्छन्दघटयोर्घटनादविशेषे समानत्वे सत्यनित्यत्वे वादिनोरुररीकृते पुनः सद्भावः सर्वस्य सत्त्वधर्मस्य वस्तुषु घटनादविशेषस्यानित्यत्वप्रसंजनमविशेषसमा जातिः स्फुटं, एवं विधस्य न्यायप्राप्तस्य दोषस्यासमीक्षणात् । एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसंगात् सद्भावोपपत्तेरविशेषः सम इत्येवंविधो हि प्रतिषेधेन न्यायप्राप्तः ॥ कुत इत्याह ; प्रयत्नानंतरीयत्वंधर्मस्यैकस्य संभवात् । अविशेषे ह्यनित्यत्वे सिद्धेपि घटशब्दयोः ॥ ४०३ ॥ न सर्वस्याविशेषः स्यात्सत्त्वधर्मोपपत्तितः । धर्मातरस्य सद्भावनिमित्तस्य निरीक्षणात् ||४०४ || प्रयत्नानंतरीयत्वे निमित्तस्य च दर्शनात् । न समोयमुपन्यासः प्रतिभातीति मुच्यताम् ॥४०५ सर्वार्थेष्वविशेषस्य प्रसंगात् प्रत्यवस्थितिः । न हि यथा प्रयत्नानंतरीयकत्वं साधनधर्मः साध्यमनित्यत्वं साधयति शब्दे तथा सर्ववस्तुनि सत्त्वं ३९ Page #315 -------------------------------------------------------------------------- ________________ ३०६ तत्त्वार्थश्लोकवार्तिके [तत्त्वाथा० यतः सर्वस्याविशेषः स्यात् सत्त्वधोपपत्तितयैव धर्मातरस्यापि नित्यत्वस्याकाशादौ सद्भावनिमित्तस्य दर्शनात् प्रयत्नानंतरीयकत्वनिमित्तस्य वा नित्यत्वस्य घटादौ दर्शनात् । ततो विषमोयमुपन्यासः इति त्यज्यतां सर्वार्थेष्वविशेषप्रसंगात् प्रत्यवस्थानं । यदि तु सर्वेषामर्थानामनित्यता सत्वस्यानिमित्तमिष्यते तदापि प्रत्यवस्थानादनित्याः सर्वे भावाः सत्त्वादिति पक्षः प्रामोति तत्र च प्रतिज्ञार्थव्यतिरिक्त कोदाहरणो हेतुरस्तु । उदाहरणसाधात् साध्यसाधनत्वं हेतुरिति समर्थनात् । पक्षैकदेशस्य प्रदीपज्वालादेरुदाहरणत्वे साध्यत्वविरोधः साध्यत्वे तूदाहरणं विरुध्यते । न च सर्वेषां सत्त्वमनित्यत्वं साधयति नित्यत्वेपि केषांचित्सत्त्वप्रतीतेः । संप्रति सिद्धार्था वा सर्वेषामनित्यताया कथं शब्दानित्यत्वं प्रतिषिध्यते सत्त्वैरिति परीक्ष्यतां । सोयं सर्वस्यानित्यत्वं साधयेन्नैव शब्दानित्यत्वं प्रतिषेधतीति कथं खस्थः ? ॥ कारणस्योपपत्तेः स्यादुभयोः पक्षयोरपि । उपपत्तिसमा जातिः प्रयुक्ते सत्यसाधने ॥ ४०६॥ उभयोरपि पक्षयोः कारणस्योभयोरुपपत्तिः प्रत्येया उभयकारणोपपत्तिसम इति वचनात् ॥ एतदुदाहरणमाह;कारणं यद्यनित्यत्वे प्रयत्नोत्थत्वमित्ययं । शब्दोऽनित्यस्तदा तस्य नित्यत्वेऽस्पर्शनास्ति तत्४०७ ततो नित्योप्यसावस्तु न नित्यः कथमन्यथा । यद्यनित्यत्वं कारणं प्रयत्नांतरीकत्वं शब्दस्यास्तीत्यनित्यः शब्दस्तदा नित्यत्वेपि तस्य कारणमस्पर्शत्वमुपपद्यते । ततो नित्योप्यस्तु कथमनित्योन्यथा स्यादित्युभयस्य नित्यत्वस्यानित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमो दूषणाभासः ॥ इत्येष हि नपुंस्कोत्र प्रतिषेधः कथंचन । कारणस्याभ्यनुज्ञादि यादृशं ब्रुवता स्वयं ॥४०८॥ शब्दानित्यत्वसिद्धिश्चोपपत्तेरविगानतः । व्याघातस्तु द्वयोस्तुल्यः सपक्षप्रतिपक्षयोः ॥४०९॥ साधनादिति नैवासौ तयोरेकस्य साधकः । एवं ह्येष न युक्तोत्र प्रतिषेधः कथं मयि॥४१०॥ कारणस्याभ्यनुज्ञानात् उभयकारणोपपत्तेरिति ब्रुवता खयमेव खत्वे नित्यकारणं प्रयत्नानंतरीयकत्वं तावदभ्यनुज्ञातमनेनाभ्यनुज्ञानान्नानुपपन्नस्तत्प्रतिषेधः । शब्दानित्यत्वसिद्धाया उपपत्तेरविवादात् । यदि पुनर्नित्यत्वकारणोपपत्तौ सत्यामनित्यत्वकारणोपपत्तेर्व्याघातादनित्यत्वादसिद्धेर्युक्तः प्रतिषेध इति मतिस्तदास्त्यनित्यत्वकारणोपपत्तौ सत्यां नित्यत्वकारणोपपत्तिरपि व्याघातान्न नित्यत्वसिद्धिरपीति नित्यत्वानित्यत्वयोरेकतरस्यापि न साधकस्तुल्यत्वादुभयोाघातस्य ॥ का पुनरुपलब्धिसमा जातिरित्याह;साध्यधर्मनिमित्तस्याभावेप्युक्तस्य यत्पुनः । साध्यधर्मोपलब्ध्या स्यात् प्रत्यवस्थानमात्रकम्४११ सोपलब्धिसमा जातियथा श्वासादिभंगजे । शब्देस्त्यनित्यता यत्नजत्वाभावेप्यसाविति।।४१२ साध्यधर्मस्तावदनित्यत्वं तस्य निमित्तकारणं प्रयत्नानंतरीयकत्वं ज्ञापकं तस्योक्तस्य वादिना कचिदभावेपि पुनः साध्यधर्मस्योपलब्ध्या यत्प्रत्यवस्थानमात्रकं सोपलब्धिसमा जातिर्विज्ञेया, "निर्दिष्ट कारणाभावेप्युपलंभादुपलब्धिसम” इति वचनात् । तद्यथा-श्वासादिभंगजे शब्दे प्रयत्नानंतरीयकत्वाभावेप्यनित्यत्वमस्ति साध्यधर्मोसाविति ॥ Page #316 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । स चायं प्रतिषेधो न युक्त इत्याह; कारणांतर तोप्यत्र साध्यधर्मस्य सिद्धितः । न युक्तः प्रतिषेधोऽयं कारणानियमोक्तितः ॥ ४१३॥ प्रयत्नानंतरीयकत्वात् कारणादन्यदुत्पत्तिधर्मकत्वादिकारणांतर मनित्यत्वस्य साधर्म्यस्य, ततोपि सिद्धिर्न युक्तः प्रतिषेधोयं तत्र कारणानियमवचनात् । नाभिज्ञापकमंतरेण ज्ञाप्यं न भवतीति नियमोस्ति, साध्याभावे साधनस्यानियमव्यवस्थितेः इति ॥ निषेध्यानुपलब्धेचानुपलब्धेः प्रसाधने । अभावस्य विपर्यासादुपपत्तिः प्रकीर्तिता ॥ ४१४ ॥ प्रस्तुतार्थविघातायानुपलब्धिसमानधैः । ३०७ कश्चिदाह, न प्रागुच्चारणाद्विद्यमानस्य शब्दस्यानुपलब्धिः सदावरणश्चानुपलब्धेरुत्पत्तेः प्राग्घटादेरिव । यस्य तु दर्शनात् प्राग्विद्यमानस्यानुपलब्धिस्तस्य नावरणाद्यनुपलब्धिः यथा भूम्यावृत्तस्योदकादेर्नावरणाद्यनुपलब्धिश्च श्रवणात् प्राक् शब्दस्य । तस्मान्न विद्यमानस्यानुपलब्धिरित्यविद्यमानः शब्दश्रवणात्पूर्वमनुपलब्धिरिति निषेधस्य शब्दस्यानुपलब्धिर्या तस्याश्चानुपलब्धेरभावस्य साधने कृते सति विपर्यासादभावेऽस्योपपत्तिरनुपलब्धिसमा जातिः प्रकीर्तितानधैः, प्रस्तुतार्थाविघाताय तस्याः प्रयोगात् । तदुक्तं । “तदनुपलब्धेरनुपलंभादभावसिद्धौ विपरीतोपपत्तेरनुपलब्धिसम" इति ॥ कथमिति श्लोकैरुपदर्शयति ; यथा न विद्यमानस्य शब्दस्य प्रागुदीरणात् । अश्रुतिः स्यात्तदावृत्त्या वा दृष्टेरिति भाषिते ४१५ कश्चिदावरणादीनामदृष्टेरप्यदृष्टितः । शिवं मा भूत्ततः शब्दे सत्ये वा श्रवणात्तदा ॥ ४१६ ॥ वृत्या स्वभावसंसिद्धेरभावादिति जल्पति । तदीदृशं प्रत्यवस्थानमसंगतमित्या वेदयति; तदसंबंधमेवास्यानुपलब्धेः स्वयं सदा । नुपलब्धिस्वभावो नोपलब्धिविषयत्वतः ॥ ४१७ ॥ नैवोपलब्ध्यभावेनाभावो यस्मात्प्रसिद्ध्यति । विपरीतोपपत्तिश्च नास्पदं प्रतिपद्यते ॥ ४९८ ॥ शब्दस्यावरणादीनि प्रागुच्चारणतो न वै । सर्वत्रोपलभे हंत इत्याबालमनाकुलम् ॥ ४१९ ॥ ततश्चावरणादीनामदृष्टेरप्यदृष्टितः । सिद्ध्यत्यभाव इत्येष नोपालंभः प्रमान्वितः ॥ ४२० ॥ नाविद्यमानस्य शब्दस्य प्रागुच्चारणाद्यनुपलब्धेरित्युपमस्ते यत्कस्यचित्प्रत्यवस्थानं तदावरणादीनामनुपलब्धेरप्यनुपलंभात् । सैवावरणाद्यनुपलब्धिर्मा भूत् ततः शब्दस्य प्रागुच्चारणात् सत एवाश्रवणं तदावरणाद्यभावसिद्धेरभावादावरणादिसद्भावादिति संबंध मेवानुपलब्धेः सर्वदा स्वयमेवानुपलंभखभावत्वादुपलब्धिविषयत्वात् । यथैव ह्युपलब्धिर्विषयस्तथानुपलब्धिरपि । कथमन्यथास्ति मे घटोपलब्धिर्नास्ति मे घटोपलब्धिरिति संवेदनमुपपद्यते यतश्चैवमावरणाद्यनुपलब्धिरनुपलंभान्नैवाभावः सिद्ध्यति तदसिद्धौ च विपरीतस्यावरणादिसद्भाव स्योपपत्तिश्च नास्पदं प्रतिपद्यते । यतश्च प्रागुच्चारणाच्छब्दस्यावरणादीनि सोहं नैवोपलभे, तदनुपलब्धिमुपलभे सर्वत्रेत्याबालमनाकुलं संवेदनमस्ति । तस्मादावरणादीनामहष्टिरदृष्टेर्नः सिद्ध्यत्यभावः इत्ययमुपालंभो न प्रमाणान्वितः सर्वत्रोपलंभानुपलंभव्यवस्थित्यभावप्रसंगात् । ततोनुपलब्धेरपि समयानुपलब्ध्या प्रत्यवस्थानमनुपलब्धिमतो दूषणाभास एवेति प्रतिपत्तव्यं ॥ Jair Education International " का पुनरनित्यसमा जातिरित्याह; - कृतकत्वादिना साम्यं घटेन यदि साधयेत् । शब्दस्यानित्यतां सर्वं वस्तु नित्यं तदा न किम् ४२१ Page #317 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० अनित्येन घटेनास्य साधर्म्यं गमयेत्स्वयं । सत्त्वेन साम्यमात्रस्य विशेषाप्रतिवेदनात् ॥ ४२२॥ इत्यनित्येन या नाम प्रत्यवस्था विधीयते । सातानित्यसमा जातिर्विज्ञेया न्यायबाधनात् ४२३ अनित्यः शब्दः कृतकत्वाद्धटवदिति प्रयुक्ते साधने यदा कश्चित्प्रत्यवतिष्ठते यदि शब्दस्य घटेन साधर्म्यात् कृतकत्वादिना कृत्वा साधयेदनित्यत्वं तदा सर्व वस्तु नित्यं किं न गमयेत् ? सत्त्वेन कृत्वा साधर्म्य, अनित्येन घटेन साधर्म्यमात्रस्य विशेषाप्रवेदादिति । तदेवमनित्यसमा जातिर्विज्ञेया न्यायेन बाध्यमानत्वात् । तदुक्तं । "साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसंगादनित्यसमा” इति ॥ एतच्च सर्वमसमंजसमित्याह;निषेधस्य तथोक्तस्यासिद्धिप्राप्तेः समत्वतः । पक्षणासिद्धिमाप्तेनेत्यशेषमसमंजसं ॥ ४२४ ॥ पक्षस्य हि निषेधस्य प्रतिपक्षोभिलप्यते । निषेधो धीधनैरत्र तस्यैव विनिवर्तकः ॥ ४२५ ॥ प्रतिज्ञानादियोगस्तु तयोः साधयेमिष्यते । सर्वत्रासंभवात्तेन विना पक्षविपक्षयोः ॥४२६॥ ततोसिद्धिर्यथा पक्षे विपक्षेपि तथास्तु सा । नो चेदनित्यता शब्दे घटवन्नाखिलार्थगा ॥४२७ दृष्टांतेपि च यो धर्मः साध्यसाधनभावतः । प्रज्ञायते स एवात्र हेतुरुक्तोर्थसाधनः ॥४२८॥ तस्य केनचिदर्थेन समानत्वात्सधर्मता । केनचित्तु विशेषात्स्याद्वैधर्म्यमिति निश्चयः॥४२९॥ हेतुर्विशिष्टसाधर्म्य न तु साधर्म्यमात्रकं । साध्यसाधनसामर्थ्यभागयं न च सर्वगः ॥४३०॥ सत्त्वेन च सधर्मत्वात् सर्वस्यानित्यतेरणे । दोषः पूर्वोदितो वाच्यः साविशेषः समाश्रयः४३१ तेन प्रकारेणोक्तो यो निषेधस्तस्याप्यसिद्धिप्रसक्तेरसमंजसमशेषं स्यादित्यनित्यसमवादिनः । कुत इति चेत् , पक्षणासिद्धिं प्राप्तेन समानत्वात्प्रतिषेधस्येति । निषेधो ह्यत्र पक्षः प्रतिषेधस्तस्य प्रतिपक्षः कथ्यते धीमद्भिः प्रतिपक्ष इति प्रसिद्धिः, तयोश्च पक्षप्रतिपक्षयोः साधर्म्य प्रतिज्ञादिभिर्योग इष्यते तेन विना तयोः सर्वत्रासंभवात् । ततः प्रतिज्ञादियोगाद्यथा पक्षस्यासिद्धिस्तथा प्रतिपक्षस्याप्यस्तु ! अथ सत्यपि साधम्र्ये पक्षप्रतिपक्षयोः पक्षस्यैवासिद्धिर्न प्रतिपक्षस्येति मन्यते तर्हि घटेन साधर्म्यात्कृतकत्वादेः शब्दस्यानित्यतास्तु । सकलार्थगत्वं नित्यता तेन साधर्म्यमात्रात् मा भूदिति समंजसं । अपि च, दृष्टांते घटादौ यो धर्मः साध्यसाधनभावेन प्रज्ञायते कृतकत्वादिः स एवात्र सिद्धिहेतुः साध्यसाधनोभिहितस्तस्य च केनचिदर्थेन सपक्षेण समानत्वात्साधर्म्य केनचिद्विपक्षणासमानत्वाद्वैधर्म्यमिति निश्चयो न्यायविदां । ततो विशिष्टसाधर्म्यमेव हेतुः साध्यसाधनसामर्थ्यभाक् । स च न सर्वार्थेष्वनित्यत्वे साध्ये संभवतीति न सर्वगतः । सर्वे भावाः क्षणिकाः सत्त्वादिति संभवत्येवेति चेत् न, अन्वयासंभवाव्यतिरेकानिश्चयात् । किं च, न सत्त्वेन साधर्म्यात्सर्वस्य पदार्थस्यानित्यत्वसाधने सर्वो अविशेषसमाश्रयो दोषः पूर्वोदितो वाच्यः । सर्वस्यानित्यत्वं साधयन्नेव शब्दस्यानित्यत्वं प्रतिषेधतीति कथं वस्थ इत्यादिः । तन्नेयमनित्यसमा जातिरविशेषसमातो भिद्यमानापि कथंचिदुपपत्तिमतीति ।। अनित्यः शब्द इत्युक्ते नित्यत्वप्रत्यवस्थितिः । जातिनित्यसमा वक्तुरज्ञानात्संप्रवर्तते ॥४३२।। शब्दाश्रयमनित्यत्वं नित्यं वानित्यमेव वा । नित्ये शब्दोपि नित्यं स्यात्तदाधारोऽन्यथा क तत्४३३ तत्रानित्येप्ययं दोषः स्यादनित्यत्वविच्युतौ । नित्यं शब्दस्य सद्भावादित्येतद्धि न संगतम्४३४ अनित्यत्वप्रतिज्ञाने तनिषेधविरोधतः । स्वयं तदप्रतिज्ञानेप्येष तस्य निराश्रयः ॥ ४३५ ॥ Page #318 -------------------------------------------------------------------------- ________________ ३०९ प्रथमोऽध्यायः । सर्वदा किमनित्यत्वमिति प्रश्नोप्यसंभवी । प्रादुर्भूतस्य भावस्य निरोधिश्च तदिष्यते ॥४३६॥ नाश्रयाश्रयिभावोपि व्याघातादनयोः सदा । नित्यानित्यत्वयोरेकवस्तुनीष्टौ विरोधतः॥४३७ ततो नानित्यता शब्दे नित्यत्वप्रत्यवस्थितिः । परैः शक्या निराकर्तुं वाचालैर्जयलोलुपैः ४३८ अथ कार्यसमा जातिरभिधीयते;प्रयत्नानेककार्यत्वाजातिः कार्यसमोदिता । त्रिप्रयत्नोद्भवत्वेन शब्दानित्यत्वसाधने ॥४३९॥ प्रयत्नानंतरं तावदात्मलाभः समीक्षितः । कुंभादीनां तथाव्यक्तिर्व्यवधानेप्यपोहनात् ॥४४०॥ तद्बुद्धिलक्षणात् पूर्व सतामेवेत्यनित्यता । प्रयत्नानंतरं भावान शब्दसाविशेषतः ॥ ४४१॥ तत्रोत्तरमिदं शब्दः प्रयत्नानंतरोद्भवः । प्रागदृष्टिनिमित्तस्याभावेप्यनुपलब्धितः ।। ४४२ ॥ सत्याभावादभूत्वास्य भावो जन्मैव गम्यते । नाभिव्यक्तिः सतः पूर्व व्यवधानाव्यपोहनात्४४३ अनैकांतिकता हेतोरेवं चेदुपपद्यते । प्रतिषेधेपि सा तुल्या ततोऽसाधक एव सः ॥ ४४४ ॥ विधाविव निषेधेपि समा हि व्यभिचारिता । विशेषस्योक्तितश्चायं हेतो>पो निवारितः४४५ एवं भेदेन निर्दिष्टा ज्ञातयो""दिष्ट । ये चतुर्विंशतिरन्यानंता बोध्यास्तथा बुधैः ॥ ४४६ ॥ नैताभिर्निग्रहो वादे सत्यसाधनवादिनः । साधनाभं बुवाणस्तु तत एव निगृह्यते ॥ ४४७॥ निग्रहाय प्रकल्प्यंते त्वेता जल्पवितंडयोः । जिगीषया प्रवृत्तानामिति यौगाः प्रचक्षते ॥४४८ तत्रेदं दुर्घटं तावज्जातेः सामान्यलक्षणं । साधयेणेतरेणापि प्रत्यवस्थानमीरितम् ॥ ४४९ ॥ साधनाभप्रयोगेपि तजातित्वप्रसंगतः । दूषणाभासरूपस्य जातित्वेन प्रकीर्तने ॥ ४५० ॥ अस्तु मिथ्योत्तरं जातिरकलंकोक्तलक्षणा । युक्तं तावदिह यदनंता जातय इति वचनं तथेष्टत्वादसदुत्तराणामानंत्यप्रसिद्धेः । संक्षेपतस्तु विशेषेण चतुर्विंशतिरित्ययुक्तं, जात्यंतराणामपि भावात् । तेषामाखेवांतर्भावाददोष इति चेत् न, जातिसामान्यलक्षणस्य तत्र दुर्घटत्वात् । साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिरित्येतद्धि सामान्यलक्षणं जातेरुदीरितं योगैस्तच्च न सुधटं, साधनाभासप्रयोगेपि साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य जातित्वप्रसंगात् । तथेष्टस्वान्न दोष इत्येके । तथाहि-असाधौ साधने प्रयुक्ते यो जातीनां प्रयोगः सोनभिज्ञतया वा साधनदोषः स्यात्, तद्दोषप्रदर्शनार्थत्वाप्रसंगव्याजेनेति । तदप्ययुक्तं । खयमुद्योतकरेण साधनाभासे प्रयुक्ते जातिप्रयोगस्य निराकरणात् । जातिवादी हि साधनाभासमेतदिति प्रतिपद्यते वा न वा ? यदि प्रतिपद्यते एवास्य साधनाभासत्वहेतुदोषोनेन प्रतिपन्नः स एव वक्तव्यो न जातिः, प्रयोजनाभावात् । प्रसंगव्याजेन दोषप्रदर्शनत्वमिति चायुक्तं, अनर्थसंशयात् । यदि हि परेण प्रयुक्तायां जातौ साधनाभासबाधा स्वप्रयुक्तसाधनदोषं पश्यन् सभायामेवं ब्रूयात् मया प्रयुक्ते साधने अयं दोषः स च परेण नोद्भावितः किं तु जातिरुद्भावितेति, तदापि न जातिवादिनो जयः प्रयोजनं स्यात् , उभयोरज्ञानसिद्धेः । नापि साम्यं प्रयोजनं सर्वथा जयस्यासंभवे तस्याभिप्रेतत्वादेकांतपराजयाद्वरं संदेह इति वचनात् । यदा तु साधनाभासवादी स्वसाधनदोषं प्रच्छाद्य युक्तां जातिमेवोद्भावयति तदापि न तस्य जयः प्रयोजनं साम्यं वा पराजयस्यैव तथा संभवात् । अथ साधनदोषमनवबुध्यमानो जातिं प्रयुक्त तदा निःप्रयोजनो जातिप्रयोगः स्यात् । यत्किचन वदतोपि तूष्णीभावतोपि वा साम्यप्रातिभैर्व्यवस्थापनाद्वयोरज्ञानस्य निश्चयात् । एवं तर्हि साधुसाधने प्रयुक्ते यत्परस्य साधाभ्यां प्रत्यवस्थानं दूषणाभास Page #319 -------------------------------------------------------------------------- ________________ ३१० तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था० रूपं तज्जातेः सामान्यलक्षणमस्तु निरवद्यत्वादिति चेत् , मिथ्योत्तरं जातिरित्येतावदेव जातिलक्षणमकलंकप्रणीतमस्तु किमपरेण । “तत्र मिथ्योत्तरं जातियथानेकांतविद्विषाम्" इति वचनात् ॥ तथासति अव्याप्तिदोषस्यासंभवान्निरवद्यमेतदेवेत्याह;सांकर्यात् प्रत्यवस्थानं यथानेकांतसाधने । यथा वैयधिकर्येण विरोधेनानवस्थया ॥ ४५१॥ . भिन्नाचारतया ताभ्यां दोषाभ्यां संशयेन च। अप्रतीत्या तया भावेनान्यथा वा यथेच्छया४५२ वस्तुतस्तादृशैर्दोषैः साधनाप्रतिघाततः । सिद्धं मिथ्योत्तरत्वं नो निरवद्यं हि लक्षणम्।।४५३।। न चैवं परलक्षणस्याव्याप्तिदोषाभाव इत्याह;परोक्तं पुनरव्याप्तिप्रोक्तेष्वेतेष्वसंभवात् । ततो न निग्रहस्थानं युक्तमेतदिति स्थितम् ॥४५४॥ परोक्तं पुनर्जातिसामान्यलक्षणमयुक्तमेव, संकरव्यतिकरविरोधानवस्थावैयधिकरण्योभयदोषसंशयाप्रतीत्यभावादिभिः प्रत्यवस्थानेषु तस्यासंभवात् । ततो न निग्रहस्थानमेतद्युक्तं तात्त्विके वादे, प्रतिज्ञाहान्यादिवच्छलवदसाधनांगदोषोद्भावनवच्चेति ॥ तथा च तात्त्विको वादः स्वेष्टसिद्ध्यवसानभाक । पक्षे पतत्वयुक्त्यैव नियमानुपपत्तितः ४५५ एवं तावत्तात्त्विको वादः खाभिप्रेतपक्षसिद्धिपर्यंतभावावस्थितः पक्षेयत्तायाः कर्तुमशक्तेनियमानुपपत्तितश्च न सकलपक्षसिद्धिपर्यंतः कस्यचिजयो व्यवस्थितः ।। सांप्रतं प्रातिभे वादे निग्रहव्यवस्थां दर्शयति; यस्तूक्तः प्रातिभो वादः संप्रातिभपरीक्षणः । निग्रहस्तत्र विज्ञेयः स्वप्रतिज्ञाव्यतिक्रमः ॥ ४५६ ॥ यथा पद्यं मया वाच्यमाप्रस्तुतविनिश्चयात् । सालंकारं तथा गद्यमस्खलद्रूपमित्यपि ॥ ४५७ ।। पंचावयववाक्यं वा त्रिरूपं वान्यथापि वा।। निर्दोषमिति वा संधास्थलभेदं तमूह्यते ॥ ४५८ ॥ तथा संगरहान्यादिनिग्रहस्थानतोप्यसौ । छलोक्क्या जातिवाच्यत्वात्तथा संधाव्यतिक्रमात् ॥ ४५९ ॥ यथा द्यूतविशेषादौ स्वप्रतिज्ञाक्षतेर्जयः । लोके तथैव शास्त्रेषु वादे प्रातिभगोचरे ॥ ४६० ॥ द्विप्रकारं ततो जल्पात्तत्त्वप्रातिभगोचरात् । नान्यभेदप्रतिष्ठानं प्रक्रियामात्रघोषणात् ॥ ४६१ ॥ सोऽयं जिगीषुबोधाय वादन्यायः सतां मतं । प्रकर्तव्यो बुवाणेन नयवाक्यैर्यथोदितैः ॥ ४६२ ॥ Page #320 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। एवं प्रपंचेन प्रथमाध्यायं व्याख्याय संगृह्णन्नाह; समुद्दिष्टो मार्गस्त्रिवपुरभवत्वस्य नियमाद्विनिर्दिष्टा दृष्टिनिखिलविधिना ज्ञानममलम् । प्रमाणं संक्षेपाद्विविधनयसंपच्च मुनिना सुगृह्याद्येऽध्यायेऽधिगमनपथः स्वान्यविषयः ॥ ४६३ ॥ इति प्रथमाध्यायस्य पंचममाह्निकं समाप्तम् ॥ ५॥ • इति श्रीविद्यानंदि-आचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालङ्कारे प्रथमोऽध्यायः समाप्तः ॥ १॥ प्रथमोऽध्यायः समाप्तः : FOR D Page #321 -------------------------------------------------------------------------- ________________ Page #322 -------------------------------------------------------------------------- ________________ तथाहि ; && सम्यग्दृक्तत्त्वार्थश्रद्धानं तस्याः गोचरो विषयो जीवो निरूपितस्तावदजीवादिवत् तस्य खमसाधारणं तत्त्वमौपशमिकादयः पंच भावाः स्युर्न पुनः पारिणामिक एव भावश्चैतन्यमात्रं यतश्चैतन्यं पुरुषस्य स्वं रूपमिति दर्शनं केषांचिद्यवतिष्ठते । बुद्ध्यादयो न चैवात्मनो विशेषगुणा इति वा, आनंदमात्रं ब्रह्मरूपमिति वा प्रभाकरमेवेदं चित्तमिति वा प्रमाणाभावात् । प्रमाणोपपन्नास्तु जीवस्यासाधारणाः खभावाः पंचौपशमिकादयस्ते सप्तसूत्र्या निरूपिताः सूत्रकारेण लक्षणतः संख्यातः प्रभेदतश्च ॥ -- अथ द्वितीयोऽध्यायः । तत्र तेषां लक्षणतो निरूपणार्थमिदमाद्यं सूत्रमुपलक्ष्यते; औपशमिकक्षायिक भावौ मिश्रश्र जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १ ॥ अत्रौपशमिकादिशब्दनिरुक्तित एवोपशमिकादिभावानां लक्षणमुपदर्शितं तस्यास्तदव्यभिचारात् ॥ सम्यग्ग्गोचरो जीवस्तस्योपशमिकादयः । स्वं तत्त्वं पंच भावाः स्युः सप्तसूत्र्या निरूपिताः ॥ १ ॥ अनुद्भूतस्वसामर्थ्यं वृत्तितोपशमो मतः । कर्मणां पुंसि तोयादावधः प्रापितपङ्कवत् ॥ २ ॥ तेषामात्यंतिकी हानिः क्षयस्तदुभयात्मकः । क्षयोपशम उद्गीतः क्षीणाक्षीणबलत्वतः ॥ ३ ॥ उदयः फलकारित्वं द्रव्यादिप्रत्ययद्वयात् । द्रव्यात्मलाभ हेतुः स्यात् परिणामोनपेक्षिणः ॥ ४ ॥ एतत्प्रयोजना भावाः सर्वोपशमिकादयः । इत्यौपशमिकादीनां शब्दानामुपवर्णिता ।। ५ ।। निरुक्तिरर्थसामर्थ्याद् ज्ञातुमव्यभिचारिणी । ततोन्यत्राप्रवृत्तत्वात् ज्ञानचारित्रशब्दवत् ॥ ६ ॥ प्रागौपशमिकस्योक्तिर्भव्यस्यानादिसंसृतौ । वर्तमानस्य सम्यक्त्वग्रहणे तस्य संभवात् ॥ ७ ॥ स्तोकत्वात्सर्वभावेभ्यः स्तोककालत्वतोपि वा । शेषेभ्यः क्षायिकादिभ्यः कथंचित्तद्विरुध्यते८ ततस्तु क्षायिकस्योक्तिरसंख्येयगुणत्वतः । भव्यजीव स्वभावत्वख्यापनार्थत्वतोपि च ॥ ९ ॥ क्षायोपशमिकस्यातो या संख्येयगुणत्वतः । युक्तास्ति तद्वयात्मत्वाद्भव्येतरसमत्वतः ॥ १० ॥ उक्तिरौदयिकस्यातस्तेन जीवावबोधतः । पारिणामिकभावस्य ततोंते सर्वनृस्थितेः ॥ ११ ॥ न चैषां द्वन्द्वनिर्देशः सर्वेषां सूरिणा कृतः । क्षायोपशमिकस्यैव मिश्रस्य प्रतिपत्तये ॥ १२ ॥ नार्थक शब्दौ तौ मध्ये सूत्रस्य लक्ष्यते । नाप्यंते व्यादिसंयोगजन्मभावोपसंग्रहात् ॥ १३ ॥ क्षायोपशमिकं चांते नोक्तं मध्येत्र युज्यते । ग्रंथस्य गौरवाभावादन्यथा तत्प्रसंगतः ॥ १४ ॥ निरवद्यमतः सूत्रं भावपंचकलक्षणम् । प्रख्यापयति निःशेषदुरारेकाविवेकतः ॥ १५ ॥ ४० Page #323 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके अथौपशमिकादिभेदसंख्याख्यापनार्थं द्वितीयं सूत्रम् ; ३.१४ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ यादीनां भेदशब्देन वृत्तिरन्यपदार्थका । द्वंद्वभाजां भवेदत्र स्वाभिप्रेतार्थसिद्धितः ॥ १ ॥ प्रत्येकं भेदशब्दस्य समाप्तिर्भुजिवन्मता । यथाक्रममिति ख्यातेप्यक्रमस्य निराक्रिया ॥ २ ॥ तथा च सत्येतदुक्तं भवति औपशमिको भावो द्विभेदः क्षायिको नवभेदः मिश्रोष्टादशभेद: औदयिक एकविंशतिभेदः पारिणामिकस्त्रिभेद इति ॥ तत्रौपशमिकभेदद्वयप्रचिख्यापयिषया तृतीयसूत्रमाह; - ―――― सम्यक्त्वचारित्रे ॥ ३ ॥ औपशमिकस्य द्वौ भेदावित्यभिसंबंध ः सामर्थ्यात् । तत्र दर्शनमोहस्योपशमादौपशमिकसम्यक्त्वं, चारित्रमोहोपशमादौ पशमिकचारित्रं ॥ दर्शनमोहस्य चारित्रमोहस्य चोपशमः कथं कचिदात्मनि सिद्ध इति चेदुच्यते ; पुंसि सम्यक्त्वचारित्रमोहस्योपशमः कचित् । शांतप्रसत्तिसिद्धेर्यथा पंकस्य वारिणि ॥ १ ॥ यथैव हि जले सपंके कुतश्चित्प्रसन्नता सा च साध्यमाना पंकस्योपशमे सति भवति नानुपशमे, कालुष्यप्रतीतेः; नापि क्षये, शांतत्वविरोधात् । तथात्मनि सम्यक्त्वचारित्रलक्षणा प्रसन्नता सत्येव दर्शनचारित्र मोहस्योपशमे भवति नानुपशमे, मिथ्यात्वा संयम लक्षणकालुष्योपलब्धेः । न क्षये, तस्याः शांतत्वविरोधादिति युक्तं पश्यामः ॥ [सू० ४ कुतः पुनः प्रसन्नता तादृशी प्रसिद्धात्मन इति चेदिमे ब्रूमहे ; यो यत्कालुष्यहेतुः स्यात्स कुतश्रित् प्रशाम्यति । तत्र तोये यथा पंकः कतकादिनिमित्ततः २ न चाभव्यादिकालुष्य हेतुना व्यभिचारिता । कुतश्चित्कारणात्तस्य प्रशमः साध्यते यतः ॥ ३ ॥ न च तत्प्रशमे किंचिदभव्यस्यास्ति कारणं । तद्भावे तस्य भव्यत्वप्रसंगाद विपक्षता ॥ ४ ॥ स्वयं संविद्यमाना वा सम्यक्त्वादिप्रसन्नता । सिद्धात्र साधयत्येव तन्मोहस्योपशांतताम् ॥५॥ ततो युक्ति मानोपशमिको भावो द्विभेदतः । तथा क्षायिको नवभेदः ॥ कथमिति प्रतिपादनार्थं चतुर्थं सूत्रमाह; - ज्ञानदर्शनदान लाभभोगोपभोगवीर्याणि च ॥ ४॥ चशब्देन सम्यक्त्वचारित्रे समुच्चीयेते । ज्ञानावरणक्षयात् क्षायिकज्ञानं केवलं, दर्शनावरणक्षयात्केवलदर्शनं, दानांतरायक्षयादभयदानं लाभांतरायक्षयाल्लाभः परमशुभपुद्गलादानलक्षणः परमौदारिकशरीर स्थितिहेतुः भोगांतरायक्षयाद्भोगः, उपभोगांतरायक्षयादुपभोग, वीर्यात रायक्षयादनंतवीर्ये, दर्शनमोहक्षयात्सम्यक्त्वं, चारित्रमोहक्षयाच्चारित्रमिति नवैते क्षायिकभावस्य भेदाः || " कुतः पुनर्ज्ञानावरणादीनां क्षयः सिद्ध इत्याह ; आत्यंतिकः क्षयो ज्ञानदर्शनावरणस्य च । सांतरायप्रपंचस्यानंतशुद्धिप्रसिद्धितः ॥ १ ॥ ज्ञानावरणस्य दर्शनावरणस्य चशब्दादर्शनमोहस्य चारित्रमोहस्य चांतराय पंचकसहितस्यात्यंतः क्षयः क्वचिदस्ति अनंतशुद्धिप्रसिद्धेः ॥ Page #324 -------------------------------------------------------------------------- ________________ · द्वितीयोऽध्यायः । तथाहि ; शुद्धिः प्रकर्षमायाति परमं कचिदात्मनि । प्रकृष्यमाणवृद्धित्वात्कनकादि विशुद्धिवत् ॥ २ ॥ शुद्धिर्ज्ञानादिकस्यात्र जीवस्यास्त्यतिशायिनी । भव्यस्य बाधकाभावादित्यसिद्धात्र साधना ३ 'नानैकांतिकमप्येतत्तदस्तु या विभाव्यते । तस्या अपि कचित्सिद्धेः प्रकर्षस्य परस्य च ||४|| प्राक्साधितात्र सर्वज्ञज्ञानवृद्धिः प्रमाणतः । दर्शनस्य विशुद्धिर्वा तत एवाविनाभुवः ॥ ५ ॥ ततो युक्तः क्षायिको भावो नवभेदः ॥ क्षायोपशमिकोष्टादशभेद: । कथमिति तत्प्रतिपादनार्थं पंचमं सूत्रमाह ; - ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाच ॥ ५ ॥ चत्वारश्च त्रयश्च पंच चतुस्त्रिपंचभेदा यासां ताश्चतुस्त्रित्रिपंचभेदाः । कास्ता: ? ज्ञानदर्शनलब्धयः । यथाक्रममित्यनुवर्तते तेनैवमभिसंबंध: कर्तव्यः । ज्ञानं चतुर्भेदं, अज्ञानं त्रिभेदं, दर्शनं त्रिभेदं, लब्धिः पंचभेदा, सम्यक्त्व चारित्रसंयमासंयमाश्च त्रयः क्षायोपशमिकभावस्याष्टादश भेदा इति । मत्यादिज्ञानावरणचतुष्टयमत्यज्ञानाद्यावरणत्रयस्य चक्षुर्दर्शनाद्यावरणत्रयस्य च दानांतराया दिपंचकस्य दर्शनमोहस्य चारित्रमोहस्य संयममोहस्य च क्षयोपशमादुपजायमानत्वात् । कुतः पुनरयं मिश्रो भावः स्यादिति चेत्, मतिज्ञानावरण।दिसर्वघातिस्पर्धकानामुदयक्षयात्तेषामेव सदुपशमात्तद्देशघातिस्पर्धकानामुदयात् क्षायोपशमिको भावः । किं पुनः स्पर्धका नाम ? अविभागपरिच्छिन्न कर्मप्रदेशर सभागप्रचयपंक्तेः क्रमवृद्धिः *महानिः स्पर्धकं कर्मस्कंधशक्तिविशेषः । संज्ञित्वसम्यग्मिथ्यात्वयोगानां ज्ञानसम्यक्त्वलब्धिप्वंतर्भावान्न पृथगुपादानं ॥ कुतः पुनः क्षयोपशमः कर्मणां सिद्ध इत्याह ; क्षीणाक्षीणात्मनां घातिकर्मणामवसीयते । शुद्धाशुद्धात्मतासिद्धिरन्यथानुपपत्तितः ॥ १ ॥ स्वसंवेदनादेवात्मनः शुद्धाशुद्धात्मतायाः सिद्धिरप्रतिबंधा सती घातिकर्मणां क्षीणोपशांतखभावतां साधयति तदभावे तदनुपपत्तेः, पयसि पंकस्य क्षीणोपशांततामंतरेण शुद्धात्मतानुपपत्तिवत् ॥ ३१५ ततो मत्यादिविज्ञानचतुष्टयमिह स्मृतं । शुद्धाशुद्धात्मकं लिंगं तदावरणकर्मणाम् ॥ २ ॥ क्षयोपशमसद्भावे मत्यज्ञानादि च त्रयं । दर्शनत्रितयं चापि निजावरणकर्मणां ॥ ३ ॥ लब्धयः पंच तादृश्यः स्वांतरायस्य कर्मणः । सम्यक्त्वं दृष्टिमोहस्य वृत्तं वृत्तमुहस्तथा ॥ ४ ॥ संयमासंयमपीति घातिक्षीणोपशांतता । सिद्धा तद्भवभावानां तथा भावं प्रसाधयेत् ॥ ५ ॥ एवं च सिद्धोष्टादशभेदो मिश्रो भावः ॥ यः पुनरौदयिको भाव एकविंशति भेदोत्रोद्दिष्टस्तस्य निर्देशार्थ षष्ठमिदं सूत्रम् ; गतिकषायलिंग मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुचतुरूयेकैकैकैकपड्डेदाः ॥ ६॥ चतुरादीनां कृतद्वंद्वानां भेदशब्देनान्यपदार्था वृत्तिः पूर्ववत् । यथाक्रममिति चानुवर्तते तेनैवमभिसंबंधः क्रियते- गतिश्चतुर्भेदा कषायश्चतुर्भेदो लिंगं त्रिभेदं मिथ्यादर्शनमेकभेदमदर्शनस्य तत्रैवांतर्भा Page #325 -------------------------------------------------------------------------- ________________ ३१६ तत्त्वार्थश्लोकवार्तिके [सू०७ यात् , अज्ञानमेकभेदं असंयतत्वमेकभेदं लिंगे हास्यरत्याद्यतर्भावः सहचारित्वात् । गतिग्रहणमघात्युपलक्षणमिति न कस्यचिदौदयिकभेदस्यासंग्रहः ॥ कुतः पुनर्गतिनामादिकर्मणामुदयः सिद्धो यतोऽमीषामेकविंशतिभावानामौदयिकत्वं सिद्ध्यतीत्याह;-- अन्यथाभावहेतूनां केषांचिदुदयः स्थितः । कालुष्यवित्तितस्तद्वद्गतिनामादयस्तु ते ॥१॥ खयमगतिखभावस्य पुंसो नरकादिगतिपरिणामविशेषः कालुप्यमन्यथाभावाद्वेद्यते तद्वदकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याखभावस्य सतस्तस्य कषायादिपरिणामकालुष्याभाव एव तद्वित्तिरेव वात्मनोन्यथाभावहेतूनां केषांचिदुदयं साधयति, तदभावे सर्वथानुपपद्यमानत्वात् परिदृष्टहेतूनां तत्र व्यभिचारात् । तथा सति येषामुदयाद्गत्यादयः परिणाम विशेषाः कादाचित्कास्ते गतिनामादयः कर्मप्रकृतिभेदा इति परिशेषादवसीयते ॥ गतिनामोदयादेव गतिरौदयिकी मता । तद्विशेषोदयात्सैव चतुर्धा तु विशिष्यते ॥ २ ॥ तयोपलक्षिताघातिकर्मोदयनिबंधनं । सुखाद्यौदायिकं सर्वमेतेनैवोपवर्णितम् ॥ ३॥ तथा क्रोधादिभेदस्य कषायस्योदयान्नृणाम् । चतुर्भेदः कषायः स्यादन्यथाभावसाधनः ॥४॥ लिंगं वेदोदयात्रेधा हास्यायुदयतोपि च । हास्यादिस्तेन जीवस्य मुनिना प्रतिवर्णितः ॥५॥ दृष्टिमोहोदयात्पुंसो मिथ्यादर्शनमिष्यते । दृगावरणसामान्योदयाचादर्शनं तथा ॥६॥ सासादनं च सम्यक्त्वं यदानंतानुबंधिनः । कषायस्योदयाज्जातं तदप्येतेन वर्णितम् ॥७॥ सम्यग्मिथ्यात्वमेकेषां तत्कर्मोदयजन्मकं । मतमौदयिक कैश्चित्क्षायोपशमिकं स्मृतम् ॥ ८॥ ज्ञानावरणसामान्यस्योदयादुपवर्णितं । जीवस्याज्ञानसामान्यमन्यथानुपपत्तितः ॥ ९॥ वृत्तिमोहोदयात्पुंसोऽसंयतत्वं प्रचक्ष्यते । कर्ममात्रोदयादेवासिद्धत्वं प्रणिगम्यते ॥ १० ॥ कषायोदयतो योगप्रवृत्तिरुपदर्शिता । लेश्या जीवस्य कृष्णादिः षड्भेदा भावतोनधैः॥ ११ अथ पारिणामिकभावभेदप्रतिपादनार्थ सप्तममिदं सूत्रमाह;--- जीवभव्याभव्यत्वानि च ॥ ७॥ पारिणामिकस्य भावस्य त्रयोऽसाधारणा भेदा इत्यभिसंबंधः । चशब्दसमुच्चितास्तु साधारणाः असाधारणाश्चास्तित्वान्यत्वकर्तृत्वहरत्वपर्यायवत्त्वासर्वगतत्वानादिसंततिबंधत्वप्रदेशवत्त्वारूपत्वनित्यत्वादयः । तादिग्रहणमत्र न्याय्यमितिचेन्न, त्रिविधपारिणामिकभावप्रतिज्ञाहानिप्रसंगात् । समुच्चयार्थेपि चशब्दे सति तुल्यो दोष इति चेन्न, प्रधानापेक्षत्वात्रित्वप्रतिज्ञायाः । समुच्चीयमानास्तु चशब्देनाप्रधानभूता एवास्तित्वादय इति न दोषः । कुतः पुनः पारिणामिका जीवत्वादयो भावा इति चेत् , कर्मोपशमक्षयक्षयोपशमोदयानपेक्षत्वात् । न ह्यायुरुदयापेक्षं जीवत्वं सिद्धस्याजीवत्वप्रसंगात् । तस्य जीवितपूर्वकत्वाज्जीवत्वमिति चेन्न, उपचारतो जीवत्वप्रसंगात् । मुख्यं तु जीवत्वं तस्येप्यते, ततो न ह्यौदयिकं । ननु च ज्ञानादेर्भावप्राणस्य धारणात् सिद्धस्य मुख्यं जीवत्वमित्यभ्युपगमे क्षायिकमेतत्स्यादनंतज्ञानादेः क्षायिकत्वादिति चेत् न, जीवनक्रियायाः शब्दनिष्पत्त्यर्थत्वात् तदेकार्थसमवेतस्य जीवत्वसामान्यस्य जीवशब्दप्रवृत्तिनिमित्तत्वोपपत्तेः । अथवा न त्रिकालविषयजीवनामभवनं जीवत्वं । किं तर्हि ? चित्तत्वं न च तदायुरुदयापेक्षं, न चापि कर्मक्षयापेक्षं सर्वदाभावात् । एतेन सम्यग्दर्शनज्ञानचारित्रपरिणामेन सिद्धभवनयोग्यत्वं भव्यत्वं तद्विपरीतमभव्यत्वं च पारिणामिकमुन्नेयं तस्यापि कर्मोदयाद्यनपेक्षत्वसिद्धेः सर्वदा भावात् । अनादिपरिणाममात्रनिमित्तत्वात् ॥ Page #326 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३१७ कुतः पुनरनादिः परिणामः कर्मोदयाद्युपाधिनिरपेक्षो जीवस्य सिद्ध इत्यारेकायामाह;अनादिपरिणामोस्ति तत्रोपाधिपरामुखः । सोपाधिपरिणामानामन्यथातत्त्वहानितः॥१॥ न हि स्फटिकादेरसति स्वाभाविकपरिणामे खच्छत्वे जपाकुसुमाग्रंपाधिसान्निध्यभावानुजन्मा रक्तत्वादिपरिणामः प्रतीयते तद्वदात्मनोप्यौपाधिकाः परिणामा औपशमिकादयो नानादिपरिणाममंतरेणो• पपद्यते शशविषाणादेरपि स्वाभाविकपरिणामरहितस्यौपाधिकपरिणामप्रसंगात् । ततोस्ति जीवस्यानादिनिरुपाधिकः परिणामः कर्मोपशमादिपरिणामवत् । तथासति-- एतत्समुद्भवा भावा यादिभेदा यथाक्रमम् । जीवस्यैवोपपद्यते चित्स्वभावसमन्वयात् ॥२॥ कर्मणामुपशमक्षयक्षयोपशमोदयप्रयोजना औपशमिकक्षायिकक्षायोपशमिकौदयिका भावाः कर्मण एवेति न मंतव्यं, कर्मोपशमादिभिः प्रयुज्यमानादौपशमिकादीनां जीवपरिणामत्वोपपत्तेः । चेतनासंबंधत्वाच्च प्रधानस्यैवैते परिणामा, इत्यप्यनालोचिताभिधानं तत एव । न हि ब्यादिभेदेषु यथाक्रममौपशमिकादिषु भावेषु चित्समन्वयोऽसिद्धस्तेषामहंकारास्पदत्वेन प्रतीतेरात्मोपभोगवत् । न चाहंकारोपि प्रधानपरिणामः पुरुषतादात्म्येन खयं संवेदनात् । प्रांतं ततथा संवेदनमितिचेत् न, बाधकाभावात् । अहंकारादयोऽचेतना एवानित्यत्वात् कलशादिवत्येतदनुमानं बाधकमितिचेन्न, पुरुषानुभवेनानैकांतिकत्वात् तस्यापि परापेक्षितया कादाचित्कत्वेनानित्यत्वसिद्धेरित्युक्तत्वादुपयोगसिद्धौ ॥ किं च क्षायिका नव भावाः स्युः पुरुषस्यैव तत्त्वतः। क्षायिकत्वाद्यथा तस्य सिद्धत्वमिति निश्चयः३ कृत्स्नकर्मक्षयात्तावत् सिद्धत्वं क्षायिकं मतं । सर्वेषामात्मरूपं चेत्यप्रसिद्धं न साधनम् ॥४॥ द्वावौपशमिको भावो जीवस्य भवतो ध्रुवं । मोक्षहेतुत्वतः कर्मक्षयजन्मगादिवत् ॥५॥ क्षायोपशमिका दृष्टिज्ञानचारित्रलक्षणाः । भावाः पुंसोऽत एव स्युरन्यथानुपपत्तितः ॥६॥ प्रधानाद्यात्मका ह्येषा सम्यग्दृष्टयादिभावना । न पुंसो मोक्षहेतुः स्यात्सर्वथातिप्रसंगतः ॥७ क्षायोपशमिकाः शेषा भावाः पुंवन्मता भृतः। क्षायोपशमिकत्वात्स्युः सम्यग्दृग्बोधवृत्तवत् ८ जीवस्यौदयिकाः सर्वे भावा गत्यादयः स्मृताः । जीवे सत्येव सद्भावादसत्यनुपपत्तितः ॥९॥ कर्मोदये च तस्यैव तथा परिणमत्वतः । तेषां तत्परिणामत्वं कथंचिन्न विरुध्यते ॥ १० ॥ भव्याभव्यत्वयोर्जीवस्वभावत्वं विभाव्यते । पारिणामिकतायोगाचेतनत्वविवर्तवत् ॥ ११ ॥ चेतनत्वस्वभावत्वमात्मनोऽसिद्धमित्यसत् । स्वोपयोगस्वभावत्वसिद्धेः प्रागभिधानतः ॥१२॥ नन्वौपशमिकादीनां त्यागश्चेन्निवृतात्मनः । निःस्वभावत्वमासक्तं नैरात्म्यं सर्वथा ततः॥१३ तदत्यागे तु मोक्षस्याभावः स्यादात्मनः सदा । ततो न तत्स्वभावत्वं जीवस्येत्यपरे विदुः १४ तदसंगतमादेशवचनादेव देहिनः । तेषां तद्रूपताभीष्टेरत्यागाच कथंचन ॥ १५॥ चित्स्वभावतया तावन्नैषां त्यागः कथंचन । क्षायोपशमिकत्वोपशमिकत्वेन तत्क्षये ॥ १६ ॥ तेषामौदयिकत्वेन नैव स्यानिःस्वभावता । मोक्षाभावोपि चापुंसः क्षायिकाद्यविनाशतः॥१७ न चौपशमिकादीनां नाशाजीवास्वभावता । प्रतिक्षणविवर्तानां तत्स्वभावत्वहानितः ॥१८॥ कूटस्थात्मकतापत्तेः सर्वथार्थक्रियाक्षतेः । वस्तुत्वहानितो जीवतत्त्वाभावप्रसंगतः ॥ १९ ॥ तथा च नाशिनो भावाः स्वभावा नात्मनस्तथा। अनात्मनोपि ते न स्युरिति तद्वस्तुता कुतः एवं निःशेषतत्त्वानामभावः केन वार्यते । नास्तिभावस्वभावत्वाभावः साधनवादिनाम् ॥२१॥ ततः स्याद्वादिनां सिद्धः शाश्वतोऽशाश्वतोपि च । स्वभावः सर्ववस्तूनामिति नुस्तत्स्वभावता॥ Page #327 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ८ एवं जीवस्य खतत्त्वं व्याख्याय लक्षणं व्याचिख्यासुरिदं सूत्रमाह; उपयोगो लक्षणम् ॥ ८॥ जीवस्येत्यनुवर्तते । कः पुनः खतत्त्वलक्षणयोर्विशेषः ? खतत्त्वं लक्ष्यं स्यालक्षणं च लक्षणं । लक्षणं तु न लक्ष्यं इति तयोर्विशेषः ॥ यद्येवं किमत्र जीवस्य खतत्त्वं लक्षणमित्याह;तत्र क्षयोद्भवो भावः क्षयोपशमजश्च यः। तद्यक्तिव्यापि सामान्यमुपयोगोस्य लक्षणं ॥१॥ क्षयोद्भवो भावः क्षायिको भावस्तस्य व्यक्ती केवलज्ञानदर्शने गृह्येते, क्षयोपशमजो मिश्रस्तस्य च व्यक्तयो मत्यादिज्ञानानि चत्वारि मत्यज्ञानादीनि त्रीणि चक्षुर्दर्शनादीनि च गृह्यते तत्रैवोपयोगसामान्यस्य वृत्तेरन्यत्रावर्तनात् । तद्व्यापि सामान्यमुपयोगोस्य जीवस्य लक्षणमिति विवक्षितत्वात् , तद्व्यक्तेलक्षणत्वे लक्षणस्याव्यातिप्रसंगात् । बाह्याभ्यंतरहेतुद्वयसन्निधाने यथासंभवमुपलब्धश्चैतन्यानुविधायी परिणाम उपयोग इति वचनात् । अत्र हि न चैतन्यमात्रमुपयोगो यतस्तदेव जीवस्य लक्षणं स्यात् । किं तर्हि ? चैतन्यानुविधायी परिणामः स चोपलव्धुरात्मनो न पुनः प्रधानादेः चैतन्यानुविधायित्वाभावप्रसंगात् । न चासावहेतुको बाह्यस्याभ्यंतरस्य च हेतोयस्योपात्तानुपात्तविकल्पस्य सन्निधाने सति भावात् । न चैवं परिणामविशेष उपयोगो मतिज्ञानादिव्यक्तिरूपः प्रतिपादितो भवति यथासंभवमिति वचनात् । ततो दर्शनज्ञानसामान्यमुपयोग इति सूक्तं । किं पुनर्लक्षणं? परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणं । हेमश्यामिकयोर्वर्णादिविशेषवत् । तद्विविधं आत्मभूतानात्मभूतविकल्पात् । तत्रात्मभूतं लक्षणमनेरुष्णगुणवत् , अनात्मभूतं देवदत्तस्य दंडवत् । तत्रेहात्मभूतं लक्षणमुपयोगो जीवस्येति प्रतिपत्तव्यं । नात्मभूतो जीवस्योपयोगी गुणत्वादग्नेरुष्णवदिति चेन्न, एकांतभेदनिराकरणस्योक्तत्वाद्गुणगुणिनोः, गुणिनः कथंचिदभिन्नस्यैव गुणत्वोपपत्तेरन्यथा गुणगुणिभाव विरोधात् । घटपटादिवत् सर्वथा भिन्नमेव लक्ष्याल्लक्षणं दंडादिवत् इतिचेन्न, अनवस्थाप्रसंगात् । लक्षणाद्विभिन्नं लक्ष्यं कुतः सिद्ध्येत् ? लक्षणांतराचेत्ततोऽपि यदि तद्भिन्नं तदा लक्षणांतरादेव सिद्ध्येदित्यनवस्था । सुदूरमपि गत्वा यद्यभिन्नालक्षणात्कुतश्चित्तत्सिद्ध्येत् तदा न सर्व लक्षणं लक्ष्याद्भिन्नमेव । तथा यदि प्रसिद्धं तल्लक्षणं लक्ष्यस्य प्रज्ञापकं तदा कुतस्तत्प्रसिद्धं ? स्खलक्षणांतरादितिचेत्तदपि स्खलक्षणांतरादित्यनवस्था । सुदूरमप्यनुसृत्य यदि लक्षणं स्वरूपत एव प्रसिद्ध्येतदा न सकलं भिन्नमेव लक्षणं लक्षणस्य खात्मभूतलक्षणत्वात् । न वा प्रसिद्धं किंचित्कस्यचिल्लक्षणमिति प्रयोगात् । तद्यभिन्नमेव लक्ष्याल्लक्षणमनेरुष्णादिवदिति चेन्न, विपर्ययप्रसंगात् । तादात्म्याविशेषेप्यात्मोपयोगयोरम्यौष्णयोर्वोपयोगादिरेव लक्षणमात्मादेः न पुनरात्मादिरुपयोगादेरिति नियमहेत्वभावात् । प्रसिद्धत्वादुपयोगादिलक्षणमिति चेत् , किं पुनरात्मादिरप्रसिद्धः तथोपयोगमेकं कथमात्मोपयोगयोरम्युष्णयोर्वा तादात्म्यं प्रसिद्धाप्रसिद्धयोः सर्वथा तादात्म्यविरोधात् । न चैकांतेनाप्रसिद्धस्य लक्ष्यत्वं खरविषाणवत् । नापि प्रसिद्धस्यैव । लक्षणवत् कथंचित्प्रसिद्धस्यैव लक्ष्यत्वोपपत्तेः द्रव्यत्वेन प्रसिद्धस्य हि वन्हेरग्नित्वेनाप्रसिद्धस्य लक्ष्यत्वमुपलब्धं द्रव्यस्य च सत्त्वेन प्रसिद्धस्य द्रव्यत्वेनाप्रसिद्ध स्य लक्ष्यत्वमुपपद्यते सतोपि वस्तुत्वेन प्रसिद्धस्यासत्त्वव्यतिरेकेणाप्रसिद्धस्य लक्षणत्वमुपलक्ष्यते नान्यथा । न चैवमनवस्था कस्यचित्कचिनिर्णयोपलब्धेः । सर्वत्रानिर्णयस्य व्याहतत्वात् तस्यैव वरूपेण निर्णयात् । तदनिर्णये वा कथं सर्वत्रानिर्णयसिद्धिः । सर्वथा प्रसिद्धं लक्षणमित्यप्ययुक्तं, वृत्तद्राधिमादिना प्रसिद्धस्य दंडस्य कैश्चिदुरुपलक्ष्यैर्विशेषैरप्रसिद्धस्यापि Page #328 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । देवदत्तलक्षणत्वप्रतीतेः । न हि प्रतिक्षणपरिणामः खर्गप्रापणशक्त्यादि सर्वथा सर्वस्य केनचिदुपलक्षयितुं शक्यते । यदि पुनर्येन रूपेण प्रसिद्धो दंडादिस्तेन लक्षणं, देवदत्तश्च येन रूपेणाप्रसिद्धस्तेन लक्ष्य इति प्रतीतेः प्रसिद्धस्य लक्षणत्वमप्रसिद्धस्य तु लक्ष्यत्वमिति मतं; तदा कथं लक्ष्यसंलक्षणयोस्तदानैकांतः स्याविरुद्धधर्माध्यासात् । ततः कथंचिद्भिन्नयोरभिन्नयोश्च लक्ष्यलक्षणभावः, प्रतीतिस.द्भावात् सर्वथा विरोधाभावात्, अन्यथा लक्ष्यलक्षणशून्यतापत्तेः । संवृत्त्या लक्ष्यलक्षणभाव इति चेन्न, संवृत्तेरुपचारत्वे मुख्याभावेऽनुपपत्तेः । मृषात्वेन संवृत्तिर्नाम यया तद्भावः सिद्ध्येत् । विचारतोनुपपद्यमाना विकल्पबुद्धिः संवृत्तिरितिचेत् , कथं तया लक्ष्यलक्षणभावस्तस्य तत्रावभासनादिति चेत् सिद्धस्तर्हि बौद्धो लक्ष्यलक्षणभावः तद्वदबौद्धोपि किं न सिद्ध्येत् ? विकल्पाद्वहिर्भूतस्यासंभवात् इति चेन्न, तस्यासंभवे विकल्पविषयत्वायोगात् । न च सर्वो विकल्पविषयः संभवन्नेव संभवतोऽपि विकल्पविषयत्वोपपत्तेः प्रत्यक्षविषयवत् सर्वो विकल्पः संभवद्विषयो विकल्पत्वान्मनोराज्यादिविकल्पवदितिचेत् , सर्व प्रत्यक्षमसंभवद्विषयं प्रत्यक्षत्वात् केशोंडुकप्रत्यक्षवदिति किं न स्यात् । प्रत्यक्षाभासोऽसंभवद्विषयो दृष्टो न प्रत्यक्षमितिचेत् तर्हि विकल्पाभासोसंभवद्विषयो न विकल्प इति समानः परिहारः । कः पुनः सत्यो विकल्पः प्रत्यक्षं किं सत्यमिति समः पर्यनुयोगः । यतः प्रवर्तमानोर्थक्रियायां न विसंवाद्यते तत्सम्यक् प्रत्यक्षमितिचेत् , यतो विकल्पादथै परिच्छिद्य प्रवर्तमानोर्थक्रियायां न विसंवाद्यते स सत्यमिति किं नानुमन्यसे ? किं पुनर्विकल्पस्यार्थपरिच्छेदकत्वं प्रत्यक्षस्य किं अविचलितस्पष्टाविभासित्वमितिचेत् , कस्यचिद्विकल्पस्यापि तदेव, कस्यचित्तु बाधकविधुरास्पष्टार्थावभासित्वमपीति मन्यामहे । अस्पष्टोर्थ एव न भवतीतिचेत् कुतस्तस्यानर्थत्वं पुनरस्पष्टतयानवभासनादितिचेत् , स्पष्टोप्येवमनर्थः स्यात् पुनः स्पष्टतयानवभासनात् । यथैव हि दूरात्पादपादिसामान्यस्पष्टतया प्रतिभातं पुनर्निकटदेशवर्तितायां तदेवास्पष्टं न प्रतिभाति तद्विशेषस्य तदा प्रतिभासनात् । तथैव हि सन्निहितस्य पादपादिविशिष्टं रूपं स्पष्टतया प्रतिभातं पुनर्दूरतरदेशवर्तितायां न तदेव स्पष्टं प्रतिभासते । यदि पुनः सन्निहितज्ञानग्राह्यमेव तद्रूपं विशिष्टमिति मतिः तदा दविष्ठादिज्ञानग्राह्यमेव तद्रूपं सामान्यमिति किं न मतं । यथा विशिष्टं पादपादिरूपं स्वामर्थक्रियां निवर्तयति तथा पादपादिसामान्यरूपमपि प्रतिपत्तुः परितोषकरणं हि यद्यर्थक्रिया तदा तत्सामान्यस्यापि सास्त्येव कस्यचित्तावता परितोवात् । अथ खविषयज्ञानजनकत्वं तदपि सामान्यस्यास्ति सजातीयार्थकरणमर्थक्रियेतिचेत् , सोपि सदृशपरिणामस्यास्ति विसदृशपरिणामस्येव सदृशेतरपरिणामात्मकाद्धि बालपादपात् सदृशेतरपरिणामात्मक एव तरुणपादपादयः प्रादुर्भावमुपलभ्यते । तत्र यथा विसदृशपरिणामाद्विशेषाद्वा विसदृशपरिणामस्तथा सदृशपरिणामात्सामान्यात् सदृशपरिणाम इति सजातीयार्थकरणमर्थक्रिया सिद्धा सामान्यस्य । एतेन विजातीयस्था यद्यर्थकरणमर्थक्रिया सामान्यस्य प्रतिपादिता पादपविशेषस्येव पादपसामान्यस्यापि तद् व्यापारात् । एकत्र पादपव्यक्तौ सदृशपरिणामः कथं तस्य द्विष्ठत्वादितिचेत् , किं पुनर्विसदृशपरिणामो न द्विष्ठः । द्वितीयाद्यपेक्षामात्रादेकत्रैव विसदृशपरिणाम इतिचेत् , किं पुनर्न सदृशपरिणामोपि तस्यैवमापेक्षिकत्वादवस्तुत्वमितिचेत् न, विसदृशपरिणामस्याप्यवस्तुत्वप्रसंगात् । प्रत्यक्षबुद्धौ प्रतिभासमानो विसदृशपरिणामो नापेक्षिक इतिचेत् , सदृशपरिणामोपि तत्र प्रतिभासमानः परापेक्षिको मा भूत् । सदृशपरिणामः प्रत्यक्ष प्रतिभातीति कुतो व्यवस्थाप्यते इतिचेत् , विसदृशपरिणामस्तत्र प्रतिभातीति कुतः ? प्रत्यक्षपृष्टभाविनो विसदृशविकल्पादितिचेत् तथाविधात्सदृशविकल्पात्सादृश्यप्रतिभासव्यवस्थास्तु । कथमन्यथा यत्रैव जनयेदेनां तत्रैवास्य Page #329 -------------------------------------------------------------------------- ________________ ३२० तत्त्वार्थश्लोकवार्तिके [सू०८ प्रमाणतेति घटते । नन्वेवमध्यक्षसंविदि प्रतिभासमानः सदृशपरिणामो विशेष एव स्थात् स्पष्टप्रतिभासविषयस्य विशेषत्वादितिचेत् , तर्हि प्रत्यक्षे प्रतिभासमानो विशेषः सदृशपरिणाम एव स्यात् स्पष्टावभासगोचरस्य सदृशपरिणामत्वादित्यपि ब्रुवाणः कुतो निषिध्यते ? प्रतीतिविरोधादितिचेत् , तत एव सामान्यस्य विशेषतामापादयन्निषिध्यतां प्रत्यक्षे सदृशपरिणामस्याप्रतीतेः सकलजनमनोधिष्ठानत्वात् भ्रांताध्यक्षे सादृश्यप्रतीतिर्बाधकसद्भावादितिचेत् , किं तद्बाधकं । वृत्तिविकल्पादि दूपणमिति चेन्न, तस्यानेकव्यक्तिव्यापि सामान्यविषयत्वात् । न हि वयं सदृशपरिणाममनेकव्यक्तिव्यापिनं युगपदुपगच्छामोन्यत्रोपचारात् । यतस्तस्य खव्यक्तिप्वेकदेशेन वृत्तौ सावयवत्वं, सावयवेषु चैकदेशांतरेण वृत्तेरनवस्थानं यतश्च प्रत्येकपरिसमाप्त्या वृत्तौ व्यक्त्यंतराणां निःसामान्यत्वमेकत्र व्यक्तौ कालयेन परिसमाप्तत्वात् सर्वगतत्वाच्च तस्य व्यक्त्यंतराले खप्रत्ययकर्तृत्वापत्तिरन्यथा कर्तृत्वाकर्तृत्वयोर्धर्मयोः परस्परविरुद्धयोरध्यासादेकत्वावस्थानं खव्यक्तिदेशेभिव्यक्तौ तदंतराले चानभिव्यक्तौ तस्याभिव्यक्तेतराकारप्रसक्तिः सर्वथा नित्यस्यार्थक्रियाविरोधादयश्च दोषाः प्रसज्येरन् । ननु च सदृशपरिणामपि प्रतिव्यक्तिनियते स्याद्वादिनाभ्युपगम्यमाने तद्वत्त्वापत्तिरावश्यकी तस्यां च सत्यां ससमानपरिणामेष्वप्येकैकव्यक्तिनिष्ठेषु समानप्रत्ययोत्पत्तेः सदृशपरिणामांतरानुषंगादनवस्थानेषु समानपरिणामांतरमंतरेण समानप्रत्ययोत्पत्तौ खंडादिव्यक्तिप्वपि समानप्रत्ययोत्पत्तिस्तमंतरेण स्यात्ततः सदृशपरिणामकल्पनमयुक्तमेवेति कश्चित् । तस्यापि विसदृशपरिणामकल्पनानुपपत्तिरेतदोषानुषंगात् । वैसादृश्येप्वपि हि प्रतिव्यक्तिनियतेषु बहुविसदृशप्रत्ययोपजननाद्वैसदृशांतरकल्पनायामनवस्थानमवश्यं भावितेषु वैसादृश्यांतरमंतरेण विसदृशप्रत्ययोत्पत्तौ सर्वत्र वैसदृशकल्पनमनर्थकं तेन विनापि विसदृशप्रत्ययसिद्धेरिति कथं विसदृशपरिणामे कल्पनोपपद्येत ? यत एव सदृशेतरपरिणामविकल्पमखिलं खलक्षणमनिर्देश्यं सर्वथेतिचेत् कथमेवमसादृश्यं न स्यात् । न हि किंचित्तथा पश्यामो यथा क्रियते परैः सदृशेतरपरिणामात्मनोन्तर्वहिर्वा वस्तुनोनुभवात् । यदि पुनर्वैसादृश्यं वस्तुखरूपं तत्र विसदृशप्रत्ययो वस्तुन्येव न वस्तुव्यतिरिक्ते वैसदृश्ये तस्याभावात् कल्पनयानु ततोपोद्धृतेर्वान्तरतया वैसादृश्ये विसदृशप्रत्यय औपचारिक एव न मुख्यो यतो वैसादृश्यांतरकल्पनप्रसंग इति मतं, तदा सादृश्यमपि वस्तुस्वरूपं तत्र सदृशप्रत्ययो वस्तुन्येव न वस्तुव्यत्तिरिक्ते सादृश्ये तस्या भावांतरतयापोद्धृते सदृशपरिणामे सदृशप्रत्ययो भोक्तर्येव स मुख्यो मतः । साहश्यांतरकल्पनादनवस्थाप्रसक्तिरिति समाधानं वादिप्रतिवादिनोः समानमाक्षेपवदुपलक्ष्यते । ततो वस्तु सत्सामान्यविशेषवत्तत्र च प्रवर्तमानो विकल्पो वस्तुनिर्भासं संवादकत्वादनुपप्लव एव प्रत्यक्षवत् तादृशाच्च विकल्पालक्ष्यलक्षणभावो व्यवस्थाप्यमानोन्यबुद्ध्यारूढ एव यतः सांवृतः स्यात् । पारमार्थिकश्च लक्ष्यलक्षणभावः सिद्धः सन्नयं जीवोपयोगयोः कथंचित्तादात्म्यादुपपद्यते अम्युणवत् । कश्चिदाहनोपयोगलक्षणो जीवस्तदात्मकत्वात् विपर्ययप्रसंगादिति, तं प्रत्याह । नातस्तत्सिद्धेः । उभयथापि त्वद्वचनासिद्धेः खसमयविरोधात् केनचिद्विज्ञातात्मकत्वात् तदात्मकस्य तेनैव परिणामदर्शनात् क्षीरनीरवत् । निःपरिणामे त्वतिप्रसंगार्थस्वभावसंकराविति । स चायमाक्षेपः समाधानं न विधेर्जीवोपयोगयोस्तादात्म्यैकांताश्रयो नयाश्रयश्च प्रतिपत्तव्यः । अत्रापरः प्राह-उपयोगस्य लक्षणत्वानुपपत्तिर्लक्ष्यस्यात्मनोसंबंधात् । तथाहि । नास्त्यात्मानुपलंभादकारणत्वादकार्यत्वात् खरविषाणादिवदिति । तदयुक्तं । साधनदोषदर्शनात् । अनुपलंभादयो हि हेतवस्तावदसिद्धाः प्रत्यक्षानुमानागमैरात्मनोऽनाद्यनंतस्योपलंभात् । योगिप्रत्यक्षस्य तदुपलंभकस्यानुमानस्यागमस्य च प्रमाणभूतस्य निर्णयात्तदनुपलंभोसिद्ध एव वा अनैकांतिकश्च चार्वाकस्य परचेतोवृत्तिविशेषैः । तथा पर्यायार्थादेशात् पूर्वपूर्वपर्यायहेतुकत्वादुत्तरोत्तरात्म Page #330 -------------------------------------------------------------------------- ________________ · द्वितीयोऽध्यायः । ३२१ I पर्यायस्याकारणत्वादित्ययमप्यसिद्धो हेतुः द्रव्यार्थादेशाद्विरुद्धश्च । तथाहि । अस्त्यात्मा अनाद्यनतोऽकारणत्वात् पृथिवीत्वादिवत् । प्रागभावेन व्यभिचार इतिचेन्न, तस्य द्रव्यार्थादेशेऽनुपपद्यमानत्वादनुत्पादव्ययात्मकत्वात् सर्वद्रव्यस्य । पृथिवीद्रव्यादिभ्योऽर्थांतरभूतस्तु प्रागभावः परस्याप्यसिद्ध एवान्यथा तस्य तत्त्वांतरत्वप्रसंगात् । पश्चात्कार्यत्वादिति हेतुः सोप्यसिद्धः सुखादेरात्मकार्यस्य पर्यायार्थार्पणात् प्रसिद्धेः कादाचित्कार्यविशेषस्याभावादकार्यत्वमनैकांतिकं, मुर्मुराद्यवस्थेनाग्निना कार्यत्वाभावोऽकार्यत्वं विरुद्धं । तथाहि—सर्वदास्त्यात्माऽकार्यत्वात् पृथिवीत्वादिवत् । न प्रागभावेतरेतराभावोत्पन्नाभावैरनैकांतस्तेषां द्रव्यार्थाश्रयणेनुपपत्तेः । पर्यायार्थाश्रयणे कार्यत्वात् । कुटस्य हि प्रागभावः कुशूलः स च कोशकार्य कोशस्य च शिवकः स च स्थासांतरकार्यमिति कुटपट्योरितरेतराभावः कुटपटात्मकत्वात्कार्यः चेतनाचेतनयोरत्यंताभावोपि चेतनात्मकत्वात् कार्य इति । परस्य तु पृथिव्यादिभ्योर्थांतरभूताः प्रागभावादयो न संत्येवान्यथा तेषां तत्त्वांतरत्वप्रसंगात् । तथेतरेतराभावात्यंताभावयोः सर्वदास्तीति प्रत्ययविषयत्वात् न ताभ्यामनेकांतः खरविषाणादिदृष्टांतश्च साध्यसाधनविकल्पः, खरविषाणादेरप्येकांतेन नास्तित्वानुपलभ्यमानत्वाद्यसिद्धेः । गोमस्तकसमवायित्वेन हि यदस्तीति प्रसिद्धं विषाणं तत्खरादिमस्तकसमवायित्वेन नास्तीति निश्चीयते, मेषादिसमवायित्वेन च प्रसिद्धानि रोमाणि कूर्मसमवायित्वेन च न संति, नोपलभ्यंते च वनस्पतिसमवायित्वेन प्रसिद्धास्तित्वोपलभं कुसुमं गगनसमवायित्वेन नास्तित्वानुपलभ्यमानत्वधर्माधिकरणं दृष्टं न पुनः सर्वत्र सर्वदा सर्वथा किंचिन्नास्तित्वानुपलंभाधिकरणं प्रसिद्धं विरोधात् । ततो नात्मनः सर्वथा सर्वत्र सर्वदा नास्तित्वे साध्ये तथानुपलंभादिहेतूनां निदर्शनमस्ति साध्यसाधनविकल्पस्यानिदर्शनत्वात् । तथात्मा नास्तीति पक्षश्च प्रत्यक्षानुमानागमबाधितोवगम्यत इति साधने दोषदर्शनात् नातः साधनादात्मनिन्हवसिद्धिर्यतोस्य नोपयोगो लक्षणं स्यात् । किं च, स एवाहं द्रष्टा स्पष्टा स्वादयिता घ्राता श्रोतानुस्मर्ता नेत्यनुसंधानप्रत्ययो गृहीतृकृतः करणे अविज्ञानेषु वा संभाव्यमावात् तेषां खविषयनियतत्वात् परस्परविषयसंक्रमाभावात् गर्भादिमरणपर्यंतो महांश्चैतन्यविवर्तो दर्शनस्पर्शनाखादनाघ्राणश्रवणानुस्मरणलक्षणचैतन्यविशेषाश्रयो गृहीतस्तद्धेतुरिति चेन्न, तस्यैवात्मत्वेन साधितत्वादनाद्यनंतत्वोपपत्तेः । न चायं निर्हेतुकः कादाचित्कत्वादिति परिशेषादात्मसिद्धेश्च नात्मनोभावो युक्तः । किंच, अस्मदादेरात्मास्तीति प्रत्ययः संशयो विपर्ययो यथार्थनिश्चयो वा स्यात् ? संशयश्चेत् सिद्धः प्रागात्मा अन्यथा तत्संशयायोगात् । कदाचिदप्रसिद्धस्थाणुपुरुषस्य प्रतिपत्तुस्तत्संशयायोगवत् । विपर्ययश्चेत्तथाप्यात्मसिद्धिः कदाचिदात्मनि विपर्ययस्य तन्निर्णयपूर्वकत्वात् । ततो यथार्थ - निर्णय एवायमात्मसिद्धिः । नन्वेवं सर्वस्य वेष्टसिद्धिः स्यात् प्रधानादिप्रत्ययस्यापि सर्वविकल्पेषु प्रधानाद्यस्तित्वसाधनात्, तस्यैतदसाधनत्वे कथमात्मास्तीति प्रत्ययस्यात्मास्तित्वसाधनत्वमिति कश्चित् । तदसत् । प्रधानस्य सत्त्वरजस्तमोरूपस्याविरुद्धत्वात् तद्धर्मस्यैव नित्यैकत्वादेर्निराकरणात् । एवमीश्वरस्यात्मविशेषस्य ब्रह्मादेर्वाभिमतत्वात् तद्धर्मस्य जगत्कर्तृत्वादेरपाकरणात् सर्वथैकांतस्यापि सर्वथैकांत - रूपतया कदाचित्प्रसिद्धेस्तस्य सम्यक्त्वेन श्रद्धानस्य निराचिकीर्षितत्वात् । सर्वथा सर्वस्य सर्वत्र संशयविपर्ययानुपपत्तेः । नन्वेवमात्मनि सत्यपि नोपयोगस्य लक्षणत्वमनवस्थानादितिचेन्न, उपयोगसामान्यस्यावस्थापितत्वात् । परापरोपयोगविशेषणत्वानुपरमात्तस्य लक्षणत्वोपपत्तेः । सर्वथोपरमे पुनरनुस्मरणाभावप्रसक्तेः । संतानिकत्वादनुस्मरणादिरितिचेन्न, तस्यात्मनिहवे संवृत्ते सतोनुस्मरणादिहेतुत्वाद्योगात् । परमार्थसत्त्वे वा नाममात्रभेदात् उपयोगसंबंधी लक्षणं जीवस्य नोपयोग इति चेत्, स तर्हि जीवस्यार्थांतरभूतेनोपयोगेन स संबंधो यदि जीवादन्यस्तदा न लक्षणमर्थांतरवत् अन्यथोपयोगस्यापि लक्षण ૪૧ Page #331 -------------------------------------------------------------------------- ________________ ३२२ तत्त्वार्थश्लोकवार्तिके [ सू०१० त्वसिद्धरविशेषात् । अर्थातरभूतेन संबंधेनाप्यपरः संबंधो लक्षणमिति मतं, कथमनवस्थापरिहारः ? सुदूरमपि गत्वा यदि संबंधः संबंधिनः कथंचिदनन्यत्वाल्लक्षणमिष्यते तदोपयोग एवात्मनो लक्षणमिष्यतां तस्य कथंचित्तादात्म्योपपत्तेः ॥ तस्योपयोगस्य भेदप्रतिपादनार्थमाह; स दिविधोष्टचतुर्भेदः ॥९॥ स उपयोगो द्विविधस्तावत् , साकारो ज्ञानोपयोगः सविशेषार्थविषयत्वात् , निराकारो दर्शनोपयोगः सामान्यविषयत्वात् । तत्राद्योऽष्टभेदश्चतुर्भेदोन्य इति संख्याविशेषोपादानात्पूर्व ज्ञानमुक्तं अभ्यर्हितत्वानिश्चीयते । एतत्सूत्रवचनादेव यथोक्तोपयोगव्यक्तिव्यापि सामान्यमुपयोगो खलक्षणमिति दर्शयति स द्विविधोष्टचतुर्भेद इत्युक्तेः सूरिणा स्वयम् । शेषभावत्रयात्मत्वस्यैतल्लक्ष्यत्वसिद्धितः ॥१॥ जीवस्योपयोगसामान्यमिह लक्षणं निश्चीयते इति शेषः, स द्विविध इत्यादिसूत्रेण तद्विशेषकथनात् । अष्टाभ्यो ज्ञानव्यक्तिभ्यश्चतसृभ्यो दर्शनव्यक्तिभ्यश्चान्ये शेषा अष्टौ क्षायोपशमिकभेदाः सप्त च क्षायिकभेदाः परिगृह्यते । भावत्रयं पुनरौपशमिकौदयिकपारिणामिकविकल्पं प्रत्येयं । शेषाश्च भावत्रयं च शेषभावत्रयं तदात्मा खभावो यस्य जीवस्य स शेषभावत्रयात्मा तस्य भावः शेषभावत्रयात्मत्वं तस्यैतलक्षत्वसिद्धेः प्रतिपादितोपयोगव्यक्तिगतसामान्येन लक्ष्यत्वोपपत्तेरित्यर्थः ॥ एवं सूत्रद्वयेनोक्तं लक्षणं लक्षयेनरं । कायाद्भेदेन संश्लेषमापनादपि तत्त्वतः ॥२॥ यथा जलानलयोः संश्लेषमापन्नयोरप्युष्णोदकावस्थायां द्रवोष्णखभावलक्षणं भिन्नं भेदं साधयति तथा कायात्मनोः संश्लेषमापन्नयोरपि सूत्रद्वयोक्तं लक्षणं भेदं लक्षयेत्सर्वत्र भेदस्यैव भेदव्यवस्थाहेतुत्वात् । तदभावे प्रतिभासभेदादेरभेदकत्वात् ॥ के पुनर्जीवस्य भेदा इत्याह; संसारिणो मुक्ताश्च ॥ १०॥ जीवस्येत्यनुवर्तनाद्भेदा भवतीत्यध्याहारः । आत्मोपचितकर्मवशादात्मनो भवांतरावाप्तिः संसारः तत्संबंधात् संसारिणो जीवविशेषाः । निरस्तद्रव्यभावबंधा मुक्तास्ते जीवस्य सामान्यतोभिहितस्य भेदा भवंतीति सूत्रार्थः । ततो नोपयोगेन लक्षणेनैक एव जीवो लक्ष्य इत्यावेदयति;लक्ष्याः संसारिणो जीवा मुक्ताश्च बहवोन्यथा । तदेकत्वप्रवादः स्यात्स च दृष्टेष्टबाधितः॥१॥ संसारिण इति बहुत्वनिर्देशाद्बहवो जीवा लक्षणीयास्तथा मुक्ताश्चेति वचनात्ततो न द्वंद्वनिर्देशो युक्तः संसारमुक्ताविति । तन्निर्देशे हि संसार्येक एवं मुक्तश्चैकः परमात्मेति प्रवादः प्रसज्येत । न चासौ श्रेयान् दृष्टेष्टबाधितत्वात् । संसारिणस्तावदेकत्वें जननमरणकरणादिनियमो नोपपद्यते । प्रांतोसावितिचेन्न, भवत इव सर्वस्य तद्भांतत्वनिश्चयप्रसंगात् । ममैव तन्निश्चयस्तदविद्याप्रक्षयादितिचेन्न, सर्वस्य तदविद्याप्रक्षयप्रसंगात् अन्यथा त्वन्नोभेदप्रसक्तिविरुद्धधर्माध्यासात् । ममाविद्याप्रक्षयो नान्येपामित्यप्यविद्याविलसितमेवेति चेत्, सर्वोप्येवं संप्रतिपद्यते तवैव इत्थं प्रतिपत्तौ परेषामप्रतिपत्तौ तु न कदाचिद्विरुद्धधर्माध्यासान्मुच्यते । ततोयं प्रत्यात्मदृष्टेनात्मभेदेन बाधितः संसार्यात्मैकत्ववादः । तथेष्टेनापि प्रतिपाद्यप्रतिपादकभावादिनेति प्रदर्शितप्रायं । तथा मुक्तात्मनोप्येकत्वे मोक्षसाधनाभ्यासवैफल्यं, ततोन्यस्य मुक्तस्यासंभवात् । संभवे वा मुक्तानेकत्वसिद्धिः । यो यः संसारी निर्वाति स स पर Page #332 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। ३२३ मात्मन्येकत्र लीयत इत्यप्ययुक्तं, तस्यानित्यत्वप्रसंगात् । तथा च कृत्स्नस्तदेकत्वप्रवादः इत्यसावपि दृष्टे. ष्टबाधितः । यदि पुनः संसारिमुक्ता इति द्वंद्वो निर्दिश्यते तदाप्यर्थीतरप्रतिपत्तिः प्रसज्येत संसारिण एव मुक्ताः संसारिमुक्ता इति, तथा संसारिमुक्तैकत्वप्रवादः स्यात् स च दृष्टेष्टबाधितः, संसारिणां मुक्तखभावतयाश्रयसंवेदनात् संसारित्वेनैवानुभवात् मुक्तिसाधनाभ्युपगमविरोधाच्च मुक्तस्यापि संसार्यात्मकत्वाप्र• च्युतेः । संसारिमुक्तमिति द्वंद्वनिर्देशेपि संसार्येव मुक्तं जीवतत्त्वमित्यनिष्टार्थप्रतीतिप्रसंगात् तदेकत्वप्रवाद एव स्यात् , स च दृष्टेष्टबाधित इत्युक्तं । च शब्दोनर्थक इतिचेन्न, इष्टविशेषसमुच्चयार्थत्वात् । नो संसारिणः सयोगकेवलिनः संसारिणः नोसंसार्यसंसारित्वव्यपेतास्त्वयोगकेवलिनोभीष्टास्ते येन समुच्चीयते । नोसंसारिणः संसारिण एवेति चेन्न, तेषां संसारिवैधाद्भवांतरावाप्तेरभावात् । मिथ्यादर्शनाविरतिप्रमादकषायाणां संसारकारणानामभावात् । न चैवमसंसारिण एव ते, योगमात्रस्य संसारकारणस्य कर्मागमनहेतोः सद्भावात् । क्षीणकषायाः संयोगकेवलिवन्नो संसारिण एवेति चेन्न किंचिदनिष्टं । अयोगकेवलिनो मुक्ता एवेति चेन्न, तेषां पंचाशीतिकर्मप्रकृतिसद्भावात् , कृत्वकर्मविप्रमोक्षाभावादसंसारित्वायोगात् । न चैवं ते नोसंसारिणः केवलिनः संसारिणो संसार्यसंसारित्वव्यपेताश्चायोगकेवलिनो हीष्टास्ते संसारकारणस्य योगमात्रस्याप्यभावात् तत एव न संसारिणस्तत्रितयव्यपेतास्तु निश्चीयते । तथान्ये वर्णयंति-मुक्तानां परिणामांतरसंक्रमाभावादुपयोगस्य गुणभावप्रदर्शनार्थ चशब्दोपादानमिति, तत्र बुद्ध्यामहे तेषां नित्योपयोगसिद्धेः पुनरुपसंहारप्रादुर्भावात् । तत्रोपयोगव्यवहाराभावात् गुणीभूतोत्र भूय योग इति चेति । संसारिग्रहणमादौ कुत इति चेत् , संसारिणां बहुविकल्पत्वात्तत्पूर्वकत्वान्मुक्तेः। खयं वेद्यत्वाच्चेत्येके, उत्तरत्रयप्रथमं संसारिप्रपंचप्रतिपादनार्थ चेत्यन्ये ॥ यद्येवं किं विशिष्टाः संसारिण इत्याह सूत्रं; समनस्कामनस्काः ॥ ११ ॥ मनसो द्रव्यभावभेदस्य सन्निधानात्समनस्काः तदसंनिधादमनस्काः । समनस्काश्चामनस्काश्च समनस्कामनस्का इति समनस्कग्रहणमादौ युक्तमभ्यर्हितत्वात् । संसारिमुक्तप्रकरणात् यथासंख्यप्रसंग इति चेत् तथेष्टसंसारिणामेव मनस्कत्वान्मुक्तानाममनस्कत्वादित्येके । तदयुक्तं । सर्वसंसारिणां मनस्कत्वप्रसंगात् । कुतस्तर्हि यथासंख्यप्रसंगः, पृथग्योगकरणात् । यथासंख्यं तदभिसंबंधेष्टौ संसारिणो मुक्ताश्च समनस्कामनस्का इत्येकयोगः क्रियेत उपरि संसारिवचनप्रत्यासत्तेश्च । संसारिणस्त्रसस्थावरा इत्यत्र हि संसारिण इति वचनं समनस्कामनस्का इत्यत्र संबध्यते त्रसस्थावरा इत्यत्र च मध्यस्थत्वात् ततो न यथासंख्यसंप्रत्ययः । अथवा संसारिणो मुक्ताश्चेत्यत्र संसारिण इति वचनमनेन संबध्यते न मुक्ता इति तेषां प्रधानशिष्टत्वान्मुक्तानामप्रधानशिष्टत्वात् । तथा सति समनस्कामनस्काः त्रसस्थावरा इति यथासंख्याप्रयोगः, सर्वत्रसानां समनस्कत्वासिद्धेः मध्यस्थसंसारिग्रहणाभिसंबंधेपि वा पृथग्योगकरणान्न त्रसस्थावरयथासंख्यामिसंबंधः स्यात् अन्यथैकमेव योगं कुर्वीत, तथा च द्विः संसारग्रहणं न स्यात् ततः संसारिण एव केचित्समनस्काः केचिदमनस्का इति सूत्रार्थो व्यवतिष्ठते ॥ कुतस्ते तथा मता इत्याह; समनस्कामनस्कास्ते मताः संसारिणो द्विधा । तद्वेदनस कार्यस्य सिद्धेरिष्टविशेषतः ॥ १॥ समनस्काः केचित्संसारिणः शिक्षाक्रियालापग्रहणसंवेदनस्य कार्यस्य सिद्धेरन्यथानुपपत्तेः, केचित्पुनरमनस्काः शिक्षाद्यपाहिवेदनकार्यस्य सिद्धेरन्यथानुपपत्तेः । इत्येतावता द्विविधाः संसारिणः सिद्धाः इष्ट Page #333 -------------------------------------------------------------------------- ________________ ३२४ तत्त्वार्थश्लोकयार्तिके [ सू० १२ विशेषतश्च । इहेष्टं हि प्रवचनं तस्य विशेषः समनस्केतरजीवप्रवचनं तस्य विशेषः समनस्केतरजीवप्रकाशि वाक्यं, संति संज्ञिनो जीवाः संत्यसंज्ञिन इति । ततश्च ते व्यवतिष्ठते सर्वथा बाधकाभावात् ॥ .. अत्र वसा एव संसारिणः समनस्कामनस्का इति केषांचिदाकूतं, तदपसारणायाह; संसारिणस्त्रसस्थावराः ॥ १२॥ त्रसनामकर्मोदयापादितवृत्तयस्त्रसाः प्रत्येतव्याः न पुनस्त्रस्यंतीति त्रसाः पवनादीनां त्रसत्वप्रसंगात् गर्भादिष्वत्रसत्वानुषंगाच्च, स्थावरनामकर्मोदयोपजनितविशेषाः स्थावराः । स्थानशीलाः स्थावरा इतिचेन्न, वाय्वादीनामस्थावरत्वप्रसंगात् । इष्टमेवेतिचेन्न, समयार्थानवबोधात् । न हि वाय्वादयस्त्रसा इति समयार्थः । त्रसाश्च स्थावराश्च त्रसस्थावराः । सग्रहणमादावल्पाक्षरत्वादभ्यर्हितत्वाच । संसारिण एव त्रसस्थावरा इत्यवधारणान्मुक्तानां तद्भावव्युदासः, बसस्थावरा एव संसारिण इत्यवधारणाद्विकल्पांतरनिवृत्तिः ॥ कुत पुनरेवं प्रकाराः संसारिणो व्यवतिष्ठत इत्याह; त्रसास्ते स्थावराश्चापि तदन्यतरनिहवे । जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धितः॥१॥ . स्थावराः एव सर्वे जीवाः परममहत्वेन निष्क्रियाणां चलनासंभवात्रसत्वानुपपत्तेरिति त्रसनिह्नवस्तावन्न युक्तः, खयमिष्टानां जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसंगात् सर्वगतात्मन्येवात्रैव नानात्मकार्यपरिसमाप्तिः । सकृन्नानात्मनः संयोगो हि नानात्मकार्य तत्रैकत्रापि प्रयुज्यते नभसि नानाघटादिसंयोगवत् । एतेन युगपन्नाना शरीरेंद्रियसंयोगः प्रतिपादितः । युगपन्नाना शरीरेष्वात्मसमवायिनां सुखदुःखादीनामनुपपत्तिविरोधात् इतिचेत् , युगपन्नानाभेर्यादिष्वाकाशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसंगात् तद्विरोधस्याविशेषात् । तथाविधशब्दकारणभेदान्न तदनुपपत्तिरितिचेत् सुखादिकारणभेदातदनुपपत्तिरप्येकत्रात्मनि मा भूत् विशेषाभावात् । विरुद्धधर्माध्यासादात्मनो नानात्वमितिचेत् , तत एवाकाशनानात्वमस्तु । प्रदेशभेदोपचाराददोष इतिचेत् , तत एवात्मन्यदोषः । जननमरणादिनियमोपि सर्वगतात्मवादिनां नात्मबहुत्वं साधयेत् , एकत्रापि तदुपपत्तेर्घटाकाशादिजननविनाशवत् । न हि घटाकाशस्योत्पत्तौ पटाद्याकाशस्योत्पत्तिरेव तदा विनाशस्यापि दर्शनात् । विनाशे वा न विनाश एव जननस्यापि तदोपलंभात् स्थितौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बंधे न मोक्षः सति वा मोक्षे न बंध स्यादेकत्रात्मनि विरोधादितिचेन्न, आकाशेपि सति घटवत्त्वे घटांतरमोक्षाभावप्रसंगात् । सति वा घटविश्लेषे घटांतरविश्लेषप्रसंगात् । प्रदेशभेदोपचारान्न तत्प्रसंग इतिचेत् , तत एवात्मनि तत्प्रसंगः । कथमेक एवात्मा बद्धो मुक्तश्च विरोधादितिचेत्, कथमेकमाकाशं घटादिना बद्धं मुक्तं च युगपदिति समानमेतच्चोद्यम् । नभसः प्रदेशभेदोपगमे जीवस्याप्येकस्य प्रदेशभेदोस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था । ततस्तामिच्छता क्रियावंतो जीवाश्च नभतो असर्वगता एवाभ्युपगंतव्या इति त्रससिद्धिः । वसा एव न स्थावरा इति स्थावरनिह्नवोपि न श्रेयान् , जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसंगात् । जीवतत्त्वसंतानांतराणि हि व्यवस्थापयन्न प्रत्यक्षाब्यवस्थापयितुमर्हति तस्य तत्राप्रवृत्तेः । व्यापारव्याहारलिंगात्साधयतीतिचेत् न, सुषुप्तमूर्छितांडकाद्यवस्थानां संतानांतराणामवस्थानुषंगात्तत्र तदभावात् । आकारविशेषात्तत्सिद्धिरितिचेत् , तत एव वनस्पतिकायिकादीनां स्थावराणां प्रसिद्धिंरस्तु । कः पुनराकारविशेषो वनस्पतीनां आहारलाभालाभयोः पुष्टिज्ञानलक्षणः । ततो यदि वनस्पत नामसिद्धिरात्मनां तदा संतानांतराणामपि मूर्छितादीनां कुतः सिद्धिरिति जीवतत्त्वप्रभेदं व्यवस्थापयता त्रसस्थावरयोरन्यतरनिह्नवोऽनभिधेयः ॥ Page #334 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३२५ कोत्र विशेषः? स्थावरा इत्याह; पृथिव्यतेजोवायुवनस्पतयः स्थावराः ॥ १३ ॥ पृथिवीकायिकादिनामकर्मोदयवशात्पृथिव्यादयो जीवाः पृथिवीकायिकादयः स्थावराः प्रत्येतव्या न पुनरजीवास्तेषामप्रस्तुतत्वात् ॥ कुतस्तव बोद्धव्या इत्याह; जीवाः पृथ्वीमुखास्तत्र स्थावराः परमागमात् । सुनिर्वाधात्प्रबोद्धव्या युक्त्या एकेंद्रिया हि ते १ संति पृथिवीकायिकादयो जीवा इत्यागमात् पृथिवीकायिकादिसिद्धिः । कुतस्तदागमस्य प्रामाण्यनिश्चय इतिचेत् , सर्वथा बाधकरहितत्वात् । न ह्यस्य प्रत्यक्षं बाधकं तदविषयत्वात् । पृथिव्यादयो अचेतना एव व्यापारव्याहाररहितत्वाद्भस्मादिवत् इत्यनुमानं बाधकमिति चेन्न, अस्य सुषुप्तादिनानेकांतात् । तस्यापि पक्षीकरणमयुक्तं समाधिस्थेनानेकांतात् , पक्षस्य प्रमाणवाधानुषंगात् । सांख्यस्य मुक्तात्मना व्यभिचारात् प्रत्यागमो बाधक इतिचेन्न, तस्याप्रमाणत्वापादनात् स्याद्वादस्य प्रमाणभूतस्य व्यवस्थापनात् । तदेवमागमात्सुनिर्बाधात् पृथिवीप्रमुखाः स्थावराः प्राणिनो बोद्धव्याः । युक्तेश्च, ज्ञानं क्वचिदात्मनि परमप्रकर्षमायाति अपकृष्यमाणविशेषत्वात् परिमाणवदित्यतो यत्र तदपकर्षपर्यंतस्तेऽस्माकमेकेंद्रियाः स्थावरा एव युक्त्या संभाविताः । ननु च भस्मादावनात्मन्येव विज्ञानस्यात्यंतिकापकर्षस्य सिद्धेर्न स्थावरसिद्धिरितिचेन्न, स्वाश्रय एव ज्ञानापकर्षदर्शनात् अनात्मनि तस्यासंभवादेव हान्यनुपपत्तेः । प्रध्वंसो हि हानिः सत एवोपपद्यते नासतोनुत्पन्नस्य बंध्यापुत्रवत् कचिदात्मन्यप्यत्यंतनाशो ज्ञानस्यास्तीतिचेन्न, सतो वस्तुन उत्पन्नविनाशानुपपत्तेः । कर्मणां कथमत्यंतविनाश इतिचेत्, क एवमाह ? तेषामत्यंतविनाश इति । कर्मरूपाणां हि पुद्गलानामकर्मरूपतापत्तिर्विनाशः सुवर्णस्य कटकाकारस्याकटकरूपतापत्तिवत् । ततो गगनपरिमाणादारभ्यापकृष्यमाणविशेष परिमाणं यथा परमाणौ परमापकर्षपर्यंतप्राप्तं सिद्धं तथा ज्ञानमपि केवलादारभ्यापकृष्यमाणविशेषमेकेंद्रियेषु परमापकर्षपर्यंतप्राप्तमवसीयते । इति युक्तिमत्पृथिवीकायिकादिस्थावरजीवप्रतिपादनं ॥ के पुनर्विशेषतस्त्रसा इत्याह; दींद्रियादयस्त्रसाः ॥ १४ ॥ द्वे स्पर्शनरसने इंद्रिये येषां ते द्वींद्रियाः कृम्यादयस्ते आदयो येषां ते इमे द्वींद्रियादय इति व्यवस्थावाचिनादिशब्देन तद्गुणसंविज्ञानलक्षणान्यपदार्था वृत्तिरवयवेन विग्रहो समुदायस्य वृत्त्यर्थत्वात् ॥ ते च प्रमाणतः सिद्धा एवेत्याह;त्रसाः पुनः समाख्याताः प्रसिद्धा द्वींद्रियादयः । इत्येवं पंचमिः सूत्रैः सर्वसंसारिसंग्रहः॥१॥ विग्रहगत्यापन्नस्य संसारिणोऽसंग्रह इतिचेन्न, तस्यापि त्रसस्थावरनामकर्मोदयरहितस्यासंभवात् तद्वचनेन संगृहीतत्वात् । सोपि नैकेंद्रियत्वं द्वींद्रियादित्वं वातिक्रामति सूक्तत्वप्रसंगात् । ततो भवत्येव पंचभिः सूत्रैः सर्वसंसारिसंग्रहः ॥ न कानिचिदिंद्रियाणि नियतानि संति यत्संबंधादेकेंद्रियादयो व्यवतिष्ठत इत्याशंकां निराकर्तुकामः सूरिरिदमाह; पंचेंद्रियाणि ॥ १५॥ संसारिणो जीवस्य संतीति वाक्यार्थः । किं पुनरिंद्रियं ? इंद्रेण कर्मणा स्पृष्टमिंद्रियं स्पर्शनादींद्रियनामकर्मोदयनिमित्तत्वात् । इंद्रस्यात्मनो लिंगमिंद्रियं इति वा कर्ममलीमसस्यात्मनः खयमानुपल Page #335 -------------------------------------------------------------------------- ________________ ३२६ तत्त्वार्थश्लोकवार्तिके - व्ध्यसमर्थस्य हि यदर्थोपलब्धौ लिंगं निमित्तं तदिंद्रियमिति भाष्यते । नन्वेवमात्मनोर्थज्ञानमिंद्रियलिंगादुपजायमानमनुमानं स्यात् । तच्चायुक्तं । लिंगस्य परिज्ञानेनुमानानुदयात् । तस्यानुमानांतरापरिज्ञानेऽनवस्थानुषंगादिति कश्चित् । तदसत् । भावेंद्वियस्योपयोगलक्षणस्य खसंविदितत्वात्तदवलंबिनोर्थज्ञानस्य सिद्धेः । न चैतदनुमानं परोक्षविशेषरूपं, विशदत्वेन देशतः प्रत्यक्षत्वाविरोधात् । परोक्षसामान्यमन्यत्तु मुख्यतस्तदिष्टमेव परप्रत्ययापेक्षस्य परोक्षत्ववचनात् ॥ कथं पुनः पंचैवेंद्रियाणि जीवस्येत्याह ;पंचेंद्रियाणि जीवस्य मनसोनिंद्रियत्वतः । बुद्ध्यहंकारयोरात्मरूपयोस्तत्फलत्वतः ॥ १ ॥ वागादीनामतो भेदासिद्धेधसाधनत्वतः । स्पर्शादिज्ञानकार्याणामेवंविधविनिर्णयात् ॥ २ ॥ न हि मनः षष्ठमिंद्रियं तस्येंद्रियवैधर्म्यादनिंद्रियत्वसिद्धेः । नियतविषयाणींद्रियाणि, मनः पुनरनियतविषयमिति तद्वैधर्म्यं प्रसिद्धमेव । करणत्वाद्विंद्रलिंगत्वादिंद्रियं मन इतिचेत्, तदत्र धूमादिनानेकांतात् । तदपि हि करणमात्मनोर्थोपलब्धौ लिंगं च भवति न चेंद्रियमिति । बुद्ध्यहंकारयोरिंद्रियत्वान्न पंचैवेंद्रियाणीतिचेत् न, तयोरात्मपरिणामयोरिंद्रिय / निंद्रियफलत्वात् । वाक्पाणिपादपायूपस्थानां कर्मेंद्रियत्वान्न पंचैवेत्यप्ययुक्तं, तेषां स्पर्शनांतर्भावात् । तत्रानंतर्भावेतिप्रसंगात् । पंचानामेव बुद्धिसाधनत्वाच्चेंद्रियाणां पांचविध्यनिर्णयः कर्तव्यः स्पर्शादिज्ञानकार्याणि हि तानि । तथाहि - स्पर्शनादिज्ञानेंद्रियाः करणसाधनाः क्रियात्वादिंद्रियक्रियावत् । स्वसंवित्तिक्रिययानेकांत इतिचेन्न, तस्या अपि समनस्कानामंतःकरणकारणत्वात् परेषां खशक्तिविशेषकरणत्वात् । न चैकत्रात्मनि कर्तृकरणरूपविरोधः प्रतीतिसिद्धत्वादिति निरूपितं प्राक् । ततः स्पर्शादिज्ञानेभ्यः कार्यविशेषेभ्यः पंचभ्यः पंचेंद्रियाणीति सामर्थ्यात् मनोनिंद्रियं षष्ठमिति सूत्रकारेण निवेदितं भवति । तेनैतैर्व्यवस्थितैर्योगो द्वित्रिचतुः पंचेंद्रियाः संज्ञिनश्च सा इति निश्चीयते ॥ तानि पुनरिंद्रियाणि पौगलिकान्येकविधान्येवेति कस्यचिदाकूतमपाकुर्वन्नाह ; द्विविधानि ॥ १६ ॥ द्विः प्रकाराणीत्यर्थः प्रकारवाचित्वाद्विधशब्दस्य । शक्तींद्रियाणि व्यक्तींद्रियाणि चेति द्विविधानि केचिन्मन्यते, मूर्तान्यमूर्तनि वेत्यपरे । सूत्रकारास्तु द्रव्येंद्रियाणि भावेंद्रियाणि चेति चेतसि निधायैवमाहुः ॥ यद्येवं कानि द्रव्येंद्रियाणीत्याह; - निर्वृत्त्युपकरणे द्रव्येंद्रियम् ॥ १७ ॥ [सू० १७ निर्वर्त्यत इति निर्वृत्तिः सा द्वेषा बाह्याभ्यंतरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिरभ्यंतरा तस्यामेव कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या । उपक्रियतेनेनेत्युपकरणं । तदपि द्विविधं बाह्याभ्यंतरभेदात् । तत्र बाह्यं पक्षपुटादि, कृष्णसारमंडलाद्यभ्यंतरं । निर्वृत्तिश्चोपकरणं च निर्वृत्त्युपकरणे द्रव्ये - यमिति जात्यपेक्षयैकवचनं ॥ कुतः पुनस्तानि प्रतिपर्यंत इत्याह; - द्विविधान्येव निर्वृत्तिस्वभावान्यनुमिन्वते । सिद्धोपकरणात्मानि तच्युतौ तद्विदच्युतेः ॥ १ ॥ बाह्याभ्यंतरोपकरणेंद्रियाणि तावत्प्रसिद्धान्येव तद्व्यापारान्वयव्यतिरेकानुविधायिनां स्पर्शादिज्ञानानामुपलंभात् । बाह्याभ्यंतरनिर्वृत्तिस्वभावानि चेंद्रियाणि तत एवानुमीयंते व्यापारवत्खप्युपकरणेंद्रियेषु विषयालोकमनस्सु च संनिहितेषु सत्यपि च भावेंद्रिये कदाचित्स्पर्शादिज्ञानानुत्पत्तेरन्यथानुपपत्तेस्तच्युतावेव तद्विदयुतिसिद्धेः ॥ Page #336 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। ३२७ कानि पुनर्भावेंद्रियाणीत्याह; लब्ध्युपयोगौ भावेंद्रियम् ॥ १८ ॥ इंद्रियनिवृत्तिहेतुः क्षयोपशमविशेषो लब्धिः तन्निमित्तः परिणामविशेष उपयोगः लब्धिश्चोपयोगश्च लब्ध्युपयोगौ भावेंद्रियमिति जात्यपेक्षयैकवचनं । कुतः पुनस्तानि परीक्षका जानत इत्याह; भावेंद्रियाणि लब्ध्यात्मोपयोगात्मानि जानते । स्वार्थसंविदि योग्यत्वाध्यापृतत्वाच्च संविदः १ लब्धिस्वभावानि तावद्भावेंद्रियाणि खार्थसंवित्तौ योग्यत्वादात्मनः प्रतिपद्यते । न हि तत्रायोग्यस्यात्मनस्तदुत्पत्तिराकाशवत् स्वार्थसंविद्योग्यतैव च लब्धिरिति लब्धींद्रियसिद्धिः । उपयोगस्वभावानि पुनः खार्थसंविदो व्यापृतत्वानिश्चिन्वंति । न ह्यव्यापृतानि स्पर्शादिसंवेदनानि पुंसः स्पर्शादिप्रकाशकानि भवितुमर्हति सुषुप्त्यादीनामपि तत्प्रकाशकप्रसंगात् । खार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वादिद्रियत्वानुपपत्तिरितिचेन्न, कारणधर्मस्य कार्यानुवृत्तेः । न हि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येंद्रियत्वं तेनैव फलत्वमिष्यते यतो विरोधः स्यात् साधकतमत्वस्वभावेन हि तस्येंद्रियव्यपदेशः क्रियारूपतया तु फलत्वं प्रदीपवत् । प्रदीपः प्रकाशात्मना प्रकाशयतीत्यत्र हि साधकतमः प्रकाशात्मा करणं क्रियात्मा फलं खतंत्रात्मा कर्तेति प्ररूपितप्रायं ॥ किं व्यपदेशलक्षणानि तानींदियाणीत्याह; स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥ __ स्पर्शनादीनां करणसाधनत्वं पारतंत्र्यात् कर्तृसाधनत्वं च खातंत्र्याबहुत्ववचनात् । तेनान्वर्थसंज्ञाकरणादेवं व्यपदेशान्येवं लक्षणानि च पंचेंद्रियाणीत्यभिसंबंधः कर्तव्यः । स्पर्शनस्य ग्रहणमादौ शरीरव्यापित्वात् , वनस्पत्यंतानामेकमित्यत्राभीष्टत्वात् सर्वसंसारिषूपलब्धेश्च । ततो रसनघ्राणचक्षुषां क्रमवचनमुत्तरोत्तराल्पत्वात् , श्रोत्रस्यांते वचनं बहूपकारित्वात् । रसनमपि वक्तृत्वेन बहूपकारीतिचेत् न, तेन श्रोत्रप्रणालिकापादितस्योपदेशस्योच्चारणात् तत्पारतंत्र्यवीकरणात् । सर्वज्ञे तदभाव इतिचेन्न, इंद्रियादिकरणात् । न हि सर्वज्ञस्य शब्दोच्चारणे रसनव्यापारोस्ति तीर्थकरत्वनामकर्मोदयोपजनितत्वात् भगवत्तीर्थकरावगमस्य करणव्यापारापेक्षत्वे क्रमप्रवृत्तिप्रसंगात् । सकलवीर्यातरायक्षयान्न क्रमप्रवृत्तिस्तस्येतिचेत् , तत एव करणापेक्षापि मा भूत् । ततः सूक्तं श्रोत्रस्यांते वचनं बहूपकारित्वादिति । एकैकवृद्धिज्ञापनार्थ वा स्पर्शनादिक्रमवचनं ॥ कुतः पुनः स्पर्शनादीनि जीवस्य करणान्यर्थोपलब्धावित्याह;-- स्पर्शनादीनि तान्याहुः कर्तुः सांनिध्यवृत्तितः। क्रियायां करणानीह कर्मवैचित्र्यतस्तथा॥१॥ स्पर्शनादीनि द्रव्येंद्रियाणि तावन्नामकर्मणो वैचित्र्याधुपलब्धेरात्मनः स्पर्शादिपरिच्छेदनक्रियायां व्याप्रियमाणस्य सांनिध्येन वृत्तेः करणानि लोके प्रतीयते । भावेंद्रियाणि पुनस्तदावरणवीर्यातरायक्षयोपशमस्य वैचित्र्यादिति मंतव्यं, तेषां परस्परं तद्वतश्च भेदाभेदं प्रत्यनेकांतोपपत्तेः । न हि परस्परं तावदिद्रियाणामभेदैकांतः स्पर्शनेन स्पर्शस्येव रसादीनामपि ग्रहणप्रसक्तेरिंद्रियांतरप्रकल्पनानर्थक्यात् । कस्यचिद्वैकल्ये साकल्ये वा सर्वेषां वैकल्यस्य साकल्यस्य वा प्रसंगात् । नापि भेदैकांतस्तेषामेकत्वसंकलनज्ञानजनकत्वाभावप्रसंगात् । संतानांतरेंद्रियवत् मनस्तस्य जनकमितिचेन्न, इंद्रियनिरपेक्षस्य तज्जनकत्वासंभवात् । इंद्रियापेक्षं मनोनुसंधानस्य जनकमितिचेत् , संतानांतरेंद्रियापेक्षं कुतो न जनकं ? प्रत्यासतेरभावादितिचेत् , अत्र का प्रत्यासत्तिः ? अन्यत्रैकात्मतादात्म्याद्देशकालभावस्य प्रत्यासत्तीनां व्यभिचा Page #337 -------------------------------------------------------------------------- ________________ ३२८ तत्त्वार्थश्लोकवार्तिके [सू० २१ रात् । ततः स्पर्शनादीनां परस्परं स्यादभेदो द्रव्यार्थादेशात् , स्याद्भेदः पर्यायार्थादेशात् । एतेन तेषां तद्वतो भेदाभेदै कांती प्रत्युक्तौ । आत्मनः करणानामभेदैकांते कर्तृत्वप्रसंगाचात्मवत् । आत्मनो वा करणत्वप्रसंगः, उभयोरुभयात्मकत्वप्रसंगो वा विशेषाभावात् । ततस्तेषां भेदैकांते चात्मनः करणत्वाभावः संतानांतरकरणवत् विपर्ययो वेत्यनेकांत एवाश्रयणीयः, प्रतीतिसद्भावाबाधकाभावाच्च । तथा द्रव्येद्रियाणामपि परस्परं खारंभकपुद्गलद्रव्याच्च भेदाभेदं प्रत्यनेकांतोवबोद्धव्यः पुद्गलद्रव्यार्थादेशादभेदोपपत्तेः । प्रतिनियतपर्यायार्थादेशात्तेषां भेदोपपत्तेश्च ॥ .. इतींद्रियाणि भेदेन व्याख्यातानि मतांतरं । व्यवचिच्छित्सुभिः पंचसूत्र्या युक्त्यागमान्वितैः २ इदानीमिंद्रियानिद्रियविषयप्रदर्शने कर्तव्ये, के तावदिंद्रियविषया इत्याह; स्पर्शरसगंधवर्णशब्दास्तदर्थाः ॥ २० ॥ स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्यायविवक्षोपपत्तेः । तच्छब्दादिंद्रियपरामर्शः तेषामस्तिदर्थाः स्पर्शादीनां कर्मविषयाः स्पर्शादय इत्यर्थः । तदर्था इति वृत्त्यनुपपत्तिरसामर्थ्यादितिचेत् , न चात्र गमकत्वात् नित्यसापेक्षेषु संबंधिशब्दवत् । य एव हि वाक्येर्थः संप्रतीयते स एव वृत्ताविति गमकत्वं नित्यसापेक्षेषु संबंधिशब्देषु कथितं, यथा देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासमार्येति । तथेहापि तच्छब्दस्य स्पर्शनादिसापेक्षत्वेपि गमकत्वात् वृत्तिर्वेदितव्या । स्पर्शादीनामानुपूर्येण निर्देशः इंद्रियक्रमाभिसंबंधार्थः ॥ किं पुनः स्पर्शादयो द्रव्यात्मका एव पर्यायात्मका एव चेति दुराशंका निराकरोति;स्पर्शादयस्तदर्थाः स्युर्द्रव्यपर्यायतार्हतः। द्रव्यैकांते क्रियायाः स्यात्सर्वथा कूर्मरोमवत् ॥१॥ तथैव पर्ययैकांते भेदैकांतेऽनयोरपि । अनेकांतात्मना तेषां निर्वाधमुपलब्धितः ॥२॥ ततो अनेकात्मन एव स्पर्शादयः स्पर्शादीनां विषयभावमनुभवंति नान्यथा प्रतीत्यभावात् ॥ अथानिंद्रियस्य को विषय इत्याह; श्रुतमनिंद्रियस्य ॥ २१ ॥ अर्थ इत्यभिसंबंधः सामर्थ्यात् । ननु चाश्रूयमाणमनिंद्रियमत्र तत्कथं तस्य विषयो निरूप्यते इत्याह; सामर्थ्याद्गम्यमानस्यानिद्रियस्येह सूत्रितः । श्रुतमर्थः श्रुतज्ञानगम्यं वस्तु तदुच्यते ॥१॥ पंचैवेंद्रियाणीति वदता मनोनिद्रियमंतःकरणं सामर्थ्यादित्युक्तं भवति तस्य च विषयः श्रुतमितीह सूत्रयतो न सूत्रकारस्य विरोधः । श्रुतं पुनः श्रुतज्ञानसमधिगम्यं वस्तूच्यते विषये विषयिण उपचारात् । मतिज्ञानपरिच्छेद्यं वस्तु कथमनिन्द्रियस्य विषय इतिचेन्न, तस्यापि श्रुतज्ञानपरिच्छेद्यत्वानतिक्रमात् । अवधिमनःपर्ययकेवलज्ञानपरिच्छेद्यमपि श्रुतज्ञानपरिच्छेद्यत्वादनिंद्रियस्य विषयः स्यादिति चेत्, न किंचिदनिष्टं । तथाहि- मनोमात्रनिमित्तत्वात् श्रुतज्ञानस्य काय॑तः । स्पर्शनादींद्रियज्ञेयस्तदर्थो हि नियम्यते ॥२॥ - अत्र स्पर्शनादींद्रियपरिच्छेद्यः तस्यानियतत्वात् । साकल्येन श्रुतज्ञानमात्रनिमित्तात् परिच्छिद्यमानस्य वस्तुनः श्रुतशब्देनाभिधानात् । नन्वेवं सर्वमनिंद्रियस्येति वक्तव्यं स्पष्टत्वादितिचेन्न, परोक्षत्वज्ञा Page #338 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३२९ पनार्थत्वाच्छृतवचनस्य । न हि यथा केवलं सर्व साक्षात् परिच्छिनत्ति तथानिंद्रियं तस्याविशदरूपतयार्थपरिच्छेदकत्वात् । ततः सूक्तं श्रुतमनिंद्रियस्येति ॥ किमर्थमिंद्रियमनसां विषयप्ररूपणमत्र कृतमित्याह;इति सूत्रद्वयेनाक्षमनोर्थानां प्ररूपणं । कृतं तजन्मविज्ञाननिरालंबनताछिदे ॥३॥ केषां पुनः प्राणिनां किमिंद्रियमित्याह; वनस्पत्यंतानामेकम् ॥ २२ ॥ वनस्पतिरंतोवसानं येषां ते वनस्पत्यंताः सामर्थ्यात्पृथिव्यादय इति गम्यते तेषामेकं प्रथममिंद्रियं स्पर्शनमिति प्रतिपत्तव्यम् ॥ कुत इत्याह; वनस्पत्यंतजीवानामेकं स्पर्शनमिंद्रियं । तज्जज्ञाननिमित्तायाः प्रवृत्तेपलंभनात् ॥१॥ यथास्मदादीनां स्पर्शनजज्ञाननिमित्ताहितस्य संग्रहणपरित्यागलक्षणा प्रवृत्तिरुपलभ्यते तथा वनस्पतीनामपि सोपलभ्यमाना स्पर्शनजज्ञानपूर्वकत्वं च साधयति तजं च ज्ञानं स्पर्शनमिन्द्रियमिति निर्बाधं । तद्वत्पृथिव्यादिजीवानामेकमिंद्रियं संभाव्यते बाधकाभावात् ॥ केषां यादींद्रियमित्याह; कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ एकैकमिति वीप्सानिर्देशागृद्धानीति बहुत्वनिर्देशाच वाक्यांतरोपप्लवं कथमित्याह;तथा कृमिप्रकाराणां रसनेनाधिक मतं । वृद्धे पिपीलिकादीनां ते घ्राणेन निरूप्यते ॥१॥ चक्षुषा तानि वृद्धानि भ्रमरादिशरीरिणां । श्रोत्रेणानु मनुष्यादिजीवानां तानि निश्चयात् २ तत्तद्धेतुकविज्ञानमूलानामुपलब्धितः । विषयेषु प्रवृत्तीनां स्वस्मिन्निव विपश्चिताम् ॥३॥ के पुनः संसारिणः समनस्काः के वाऽमनस्का इत्याह; संज्ञिनः समनस्काः ॥२४॥ सामर्थ्यादसंज्ञिनो अमनस्का इति सूत्रितं, तेनामनस्का एव सर्वे संसारिणः सर्वे समनस्का एवेति निरस्तं भवति ॥ कुतः पुनः संज्ञिनां समनस्कत्वं सिद्धमित्युपदर्शयति; संज्ञिनां समनस्कत्वं संज्ञायाः प्रतिपत्तितः । सा हि शिक्षाक्रियालापग्रहणं मुनिभिर्मता ॥१॥ नानादिभवसंभूत विषयानुभवोद्भवा । सामान्यधारणाहारसंज्ञादीनामधीरपि ॥२॥ न ह्यमनस्कानां शिक्षाक्रियालापग्रह्णलक्षणा संज्ञा संभवति यतस्तदुपलब्धेः केषांचित्समनस्कत्वं न सिद्ध्येत् । न चामनस्कानां सरणसामान्याभावोऽनादिभवसंभूतविषयानुभवोद्भवायाः सामान्यधारणायास्तद्धेतोः सद्भावात् आहारसंज्ञादिसिद्धेः प्रवृत्तिविशेषोपलब्धेः । न च सैव संज्ञा मुनिभिरिष्टा स्मृतिविशेषनिमित्तायास्तस्याः प्रकाशनात् । एतेन यदुक्तं कैश्चिदमनस्कानां स्मरणाभावेप्यभिलाषसिद्धेस्तदहर्जातदारकस्य स्तन्याभिमुखं मुखमर्जयतोभिलाषः स्मरणपूर्वकोऽभिलाषत्वात् अस्सदाद्यभिलाषवदित्यत्र हेतोरनैकांतिकत्वात् परलोकासिद्धिः । तथा च न स्मृतेरभिलाषोस्ति विनाशोपि दर्शनात् । तद्धि जन्मांतरान्नायं जातमात्रेपि लक्ष्यते इत्यकलंकवचनमविचारचतुरमायातं इति । तदपि प्रत्याख्यातं, स्मरणसामान्यमंतरेण कचिदप्यभिलाषासंभवात् तद्धेतोरनैकांतिकत्वानुपपत्तेः । न चामनस्केषु सरणसामान्यसद्भावात्स्मरणविशेषस्य सिद्धिः तस्य तेनाविनाभावाभावात् । न हि यस्यानुभूतस्मरणसामान्यमस्ति ४२ Page #339 -------------------------------------------------------------------------- ________________ ३३० तत्त्वार्थश्लोकवार्तिके [ सू० २४ तस्य स्मरणविशेषो नियमादुपलभ्यते विशेषसमयाभावप्रसंगात् । विशेषमात्राविनाभावेपि वा न शिक्षाक्रियालापग्रहणनिमित्तस्मरणविशेषाविनाभावः सिद्ध्येत् प्राणिमात्रस्य तत्प्रसंगात् । ततो नाममतिवदाहारादिसंज्ञा तद्धेतुश्च स्मृतिसामान्यं धारणासामान्यं च तन्निमित्तमवायसामान्यमीहासामान्यमवग्रहसामान्य च सर्वप्राणिसाधारणमनादिभवाभ्याससंभूतमभ्युपगंतव्यं, न पुनः क्षयोपशमनिमित्तं भावमनः तस्य प्रतिनियतप्राणिविषयतयानुभूयमानत्वात् । अन्यथा सर्वत्र भावमनसो व्यवस्थापयितुमशक्तेः ॥ भावमनोऽन्यथानुपपत्त्या द्रव्यमनोपि सिध्यतीत्याह;क्षयोपशमभेदेन युक्तो जीवोनुमन्यते । सद्भिर्भावमनस्तावत् कैश्चित्संज्ञा विशेषतः ॥ ३॥ तत्सद्रव्यमनोयुक्तमात्मनः करणत्वतः । स्वार्थोपलंभने भावस्पशेनादिवदत्र नः ॥४॥ न हि संज्ञा विशेषाहते क्षयोपशमविशेषेण युक्तो जीव एव भावमनः कैश्चिदनुमातुं शक्यते । प्रज्ञामेधादेः कार्यविशेषानुमिताच्छक्यत एवेति चेन्न, तस्यापि संज्ञाविशेषरूपत्वात् । ऊहापोहात्मिका हि प्रज्ञा शिक्षादिक्रियाग्रहणलक्षणैव, मेधा पुनः पाठग्रहणलक्षणालापग्रहरूपैवेति । ततो भावमनः सिद्धं द्रव्यमनस्त्वात् कर्षति । तथाहि-~-भावमनः स्वार्थोपलब्धौ द्रव्यकरणापेक्षं भावकरणत्वात् स्पर्शनादिभावकरणवत् । मनसोऽनिंद्रियत्वात्करणत्वमसिद्धमिति चेन्न, अंतःकरणत्वेन प्रसिद्धेः । अनिद्रियत्वं तु पुनस्तस्यानियतविषयत्वादिद्रियवैधात् नाकरणत्वात् , स्वार्थोपलब्धौ साधकतमत्वेन करणत्वोपपत्तेः । न चैवं सूत्रविरोधः, पंचेंद्रियाणि द्विविधानि द्रव्यभावविकल्पादित्यत्रानिंद्रियस्यापि द्विविधस्य सामर्थ्यसिद्धत्वात् । शरीरवाङ्मनःप्राणापानाः पुद्गलानामित्यत्र सूत्रे पौद्गलिकस्य द्रव्यमनसः सूत्रकारेण स्वयमभिधानात् । तस्मादिद्रियमनसी विज्ञानस्य कारणं नार्थोपीत्यकलंकैरपि द्विविधंद्रियसामान्यवाक्यत्वेन द्विविधस्य मनसोभीष्टत्वात् । द्रव्यमनःप्रतिषेधितवचनभावाच्च तत्प्रतिषेधे प्रमाणाभावाद्युत्तयागमविरोधाच । तत्राहोपुरुषिकामात्रं केषांचिदविभावितसिद्धांतत्वमाविर्भावयति । कश्चिदाह-द्रव्यमन एव भावमनोस्ति तच्चात्मपुद्गलव्यतिरिक्तं द्रव्यांतरमिति तदप्यपसारयति;आत्मपुद्गलपर्यायव्यतिरिक्तं मनो न तु । द्रव्यमस्ति परैरुक्तं प्रमाणाभावतस्तथा ॥५॥ भावमनो ह्यात्मपर्यायः तस्य लब्ध्युपयोगत्वात् । सत्यपि द्रव्यमनसि तदभावे खार्थपरिच्छेदप्रादुर्भावायोगात्तत्प्रसिद्धेः । द्रव्यमनः पुद्गलपर्यायस्तदुपकरणात् द्रव्येद्रियवत् । तद्व्यतिरिक्तं तु द्रव्यांतरं मनो न शक्यं परैः साधयितुं तथा प्रमाणाभावात् । युगपज्ज्ञानानुत्पत्तिर्मनसो लिंगमिति चेन्न, ततो मनोमात्रस्य प्रतिपत्तिस्तद्र्व्यांतरत्वासिद्धेः । पृथिव्यादिद्रव्यत्वनिषेधात्परिशेषात् तस्य द्रव्यांतरत्वसिद्धिरिति चेन्नैतत् , निषेधासिद्धेः । तथाहि-स्पर्शवद्र्व्यमनोऽसर्वगतद्रव्यत्वात् पवनवदिति पुद्गलद्रव्यत्वसिद्धेः । कुतः ? परिशेषात्तस्य द्रव्यांतरत्वं समर्थयिष्यते च तस्याग्रतः पौद्गलिकत्वमित्यलं प्रसंगात् । अत्रान्ये द्रव्यमनो भावमनःसहितं द्रव्यं करणत्वात् स्पर्शनादिद्रव्यकरणवदित्यावेदयंति । तदयुक्तं । योगिद्रव्यमनसानेकांतात् । योगिनो हि द्रव्यमनः सदपि न भावमनःसहितं द्रव्येद्रियं च न भावेंद्रिययुक्तं क्षायिकज्ञानेन सह क्षायोपशमिकस्य भावमनोक्षस्य विरोधात् । न च केवलिनो द्रव्यमनोक्षाणि न संति बहिरंतरप्युभयथा च करणमविघातीति वचनात् । ततो विज्ञानविशेषादेव भावमनः साधनीयं, सिद्धाच्च भावमनसो द्रव्यमनसः सिद्धिरित्यनवयं । येषां तु प्राणिनां शिक्षाक्रियालापग्रहण विज्ञानविशेषाभावः शश्वत्तद्भवे निश्चितस्तेषां संज्ञित्वाभावान्न भावमनोस्ति तदभावान्न द्रव्यमनोऽनुमीयत इत्यम. नस्कास्ते ततो युक्तं संज्ञित्वासंज्ञित्वाभ्यां समनस्कामनस्कत्वं व्यवस्थापयितुम् ।। Page #340 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३३१ इति सूत्रत्रयेणाक्षमनसां स्वामिनिश्चयः । संश्यसंज्ञिविभागश्च सामर्थ्याद्विहितोजसा ॥६॥ यथा स्पर्शनस्य वनस्पत्यंताः खामिनः कृम्यादयः तस्य रसनवृद्धस्य, पिपीलिकादयस्तयोर्घाणवृद्धयोः भ्रमरादयस्तेषां चक्षुर्वृद्धानां, मनुष्यादयस्तेषामपि श्रोत्रवृद्धानां तथा संज्ञिनो मनस इति प्रतिपत्तव्यं । ये तु मनसोऽखामिनः संसारिणस्ते न संज्ञिनः इति संश्यसंज्ञिविभागश्च परमार्थतो विहितः ॥ • तदेवमाह्निकार्थमुपसंहरन्नाह; इति स्वतत्त्वादि विशेषरूपतो निवेदितं तु व्यवहारतो नयात् । तदेव सामान्यमवांतरोदितात्स्वसंग्रहात्तद्वितयप्रमाणतः ॥७॥ प्रमाणनयैरधिगम इत्युक्तं तत्र जीवस्य खतत्त्वमिह सामान्यं संग्रहादवांतरोक्तादधिगतं निवेदितं तद्भेदाः परौपशमिकादयो व्यवहारनयात् यजीवस्य खतत्त्वं तदौपशमिकादिभेदरूपमिति । पुनरप्यौपशमिकादिसामान्यं तत्संग्रहात् तद्भेदो व्यवहारात् । यदौपशमिकसामान्यं तविभेदं, यत्क्षायिकसामान्यं तन्नवभेदं, यन्मिश्रसामान्यं तदष्टादशभेदं, यदौदयिकसामान्यं तदेकविंशतिभेदं, यत्पारिणामिकं सामान्यं तत्रिभेदं इति । पुनरपि सम्यक्त्वादिसामान्यं तत्संग्रहात् तद्भेदो व्यवहारादिति संग्रहव्यवहारनिरूपणपरंपरा प्रागृजुसूत्रादवगंतव्या । सामान्यविशेषात्मकं तु खतत्त्वं सकलं प्रधानभावात् प्रमाणतोधिगतं निवेदितं सूत्रकारेण । एवं जीवस्य लक्षणं भेद इंद्रियं मनस्तद्विषयः तत्वामी च सामान्यतः संग्रहाद्विशेषतो व्यवहारात् प्रधानभावाप्तिसामान्यविशेषतः प्रमाणादधिगम्यते ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे द्वितीयाध्यायस्य प्रथममाह्निकम् ॥ विग्रहगतौ कर्मयोगः ॥२५॥ विग्रहो देहः गतिर्गमनक्रिया विग्रहाय गतिः विग्रहगतिः अश्वघासादिवदन वृत्तिः कर्म कार्मणं शरीरं कर्मैव योगः कर्मयोगः । कार्मणशरीरालंबनात्मप्रदेशपरिस्पंदरूपा क्रियेत्यर्थः । विग्रहगतौ कर्मयोगोस्तीति प्रतिपत्तव्यं, तेन पूर्व शरीरं परित्यज्योत्तरशरीराभिमुखं गच्छतो जीवस्यांतराले कर्मादानसिद्धिः ।। कुतः पुनर्विग्रहगतौ जीवस्य कर्मयोगोस्तीति निश्चीयत इत्याह;गतौ तु विग्रहार्थायां कर्मयोगो मतोन्यथा । तेन संबंधवैधुर्याद्व्योमवनिर्वृतात्मवत् ॥१॥ येषां विग्रहनिमित्तायां गतौ जीवस्य कर्मयोगो नाभिमतस्तेषां तदा पश्चाद्वा नात्मा पूर्वकर्मसंबंधवकर्मयोगरहितत्वादाकाशवन्मुक्तात्मबंधो विपर्ययप्रसंगो वा आत्मनः परममहत्त्वात् गतिमत्त्वाभावाद्विग्रहगतिरसिद्धा । तथोत्तरशरीरयोग एव पूर्वशरीरवियोग इत्येककालत्वात्तयोर्नान्तरालमदृष्टयोगरहितं यतो पूर्वकर्मसंबंधभागात्मा न स्यादिति कश्चित् । तं प्रत्याह गतिमत्त्वं पुनस्तस्य क्रियाहेतुगुणत्वतः । लोष्टवद्धेतुधर्मोस्ति तत्र कार्यक्रियेक्षणात् ॥ २॥ सर्वगत्वाद्गतिः पुंसः खवन्नास्तीति ये विदुः । तेषां हेतुरसिद्धोस्य कायमात्रत्ववेदनात् ॥३॥ विभुः पुमानमूर्तत्वे सति नित्यत्वतः खवत् । इत्यादि हेतवोप्येवं प्रत्यक्षहतगोचराः ॥४॥ हेतुरीश्वरबोधेन व्यभिचारी च कीर्तितः । तस्यामूर्तत्वनित्यत्वसिद्धेरविभुता मता ॥५॥ अनित्यो भवबोधश्चेन्न स्यात्तस्य प्रमाणता । गृहीतग्रहणान्नोचेत् स्मृत्यादेः शास्त्रबाधिता ॥६॥ गतिमानात्मा क्रियाहेतुगुणसंबंधाल्लोष्ठवत् । क्रियाहेतुगुणसंबंधोस्त्यात्मनि काये तत्कृतक्रियोपलंभात् । . Page #341 -------------------------------------------------------------------------- ________________ ३३२ तत्त्वार्थ श्लोकवार्तिके [सू० २५ यत्र यत्कृतक्रियोपलंभः तत्र क्रियाहेतुगुणसंबंधोस्ति यथा वनस्पतौ वायुकृतक्रियोपलभाद्वायौ तथा चात्मकृतक्रियोपलंभः काये तस्मादात्मनि क्रियाहेतुगुणसंबंधोस्ति इति निश्चीयते । कः पुनरसावात्मनि क्रिया हेतुगुणः प्रयत्नादिः । प्रयत्नवहा ह्यात्मना बुद्धिपूर्विका क्रियाकाये क्रियते, अबुद्धिपूर्विका तु धर्माधर्मवतान्यथा तदयोगात् । ननु च क्रियाहेतुगुणयुक्तः कश्चिदन्यत्र क्रियामारभमाणः क्रियावान् दृष्टो यथा वेगेन युक्तो वायुर्वनस्पतौ, कश्चित्पुनरक्रियो यथाकाशं पतत्रीणि तथात्मा क्रियाहेतुगुणयुक्तश्च स्यादक्रियश्चेति नायं हेतुः क्रियावत्त्वं साधयेदाकाशेन व्यभिचारात् इति कश्चित्, सोत्रैवं पर्यनुयोक्तव्यः । केन क्रिया हेतुना गुणेन युक्तमाकाशमिति ? वायुसंयोगेनेति चेन्न, तस्य क्रियाहेतुत्वासिद्धेः । वनस्पतौ वायुसंयोगात् क्रियाहेतुरसाविति चेन्न तस्मिन् सत्यप्यभावात् । विशिष्टो वायुसंयोगः क्रियाहेतुरिति चेत्, कः पुनरसौ ? नोदनमभिघातश्चेति । किं पुनर्नोदनं कश्चाभिघातः ? वेगवद्द्रव्यसंयोग इति चेत्, तर्हि वेग एव क्रियाहेतुस्तद्भावे भावात् तदभावे वाभावात् नत्वाकाशस्य वेगोस्तीति न क्रियाहेतुगुणयुक्तमाकाशं ततो न तेन साधनस्य व्यभिचारः । अथ मतं न गतिमानात्मा सर्वगतत्वादाका - शवदित्यनुमानाद्गतिमत्त्वस्य प्रतिषेधादनुमानविरुद्धः पक्ष इति । तदयुक्तं पुंसः सर्वगतत्वासिद्धेः काये एव तस्य संवेदनात् ततो बहिः संवित्त्यभावात् । सर्वगतः पुमान् नित्यत्वे सत्यमूर्तत्वादाकाशवदिति चेन्न, अस्य कालात्ययापदिष्टत्वात् साधनस्य धर्मिग्राहकप्रमाणबाधितत्वात् प्रत्यक्षविरुद्धपक्षनिर्देशानंतरप्रयुक्तत्वात् शीतोग्निर्द्रव्यत्वात् जलवदित्यादिवत् । एतेनामूर्तद्रव्यत्वात्सर्वत्रोपलभ्यमानगुणत्वादित्येवमादयो हेतवः प्रत्याख्याताः प्रत्यक्षबाधितविषयत्वाविशेषात् । किंच, नित्यत्वे सत्यमूर्तत्वादित्ययं हेतुरीश्वरज्ञानेन अनैकांतिकः तस्यासर्वगतस्यापि नित्यत्वामूर्तत्वसिद्धेः नित्यं हीश्वरज्ञानमनाद्यनंतत्वात् सुरवर्त्मवत् । तस्य सादिपर्यंतत्वे सति महेश्वरस्य सर्वार्थपरिच्छेदविरोधात् । योप्याह, अनित्यमीश्वरज्ञानमुत्पत्तिमत्त्वात् कलशादिवत् उत्पत्तिमत्तदात्मांतःकरणसंयोगापेक्षत्वादस्मदादिज्ञानवत् । योगजधर्मानुग्रहीतेन हि मनसेश्वरस्य संयोगे सति सर्वार्थे ज्ञानमुत्पाद्यते । न चैवं, तदादिपर्यंतवत् संतानरूपतयानादिपर्यंतत्वोपपत्तेः । योगसंतानो हि महेशस्यानादिपर्यंतः सदा रागादिमलैरस्पृष्टत्वात् अनादिशुद्धाधिष्ठानत्वाद्भुजश्च धर्मविशेषः तदनुग्रहश्च मनसः तेन संयोगश्चेति तन्निमित्तं सर्वार्थज्ञानमनादिपर्यंतमुपपद्यते प्रमाणफलत्वाच्चेश्वरज्ञानमनित्यं नित्यत्वे तस्य प्रमाणफलत्वविरोधात् विशेषणगुणत्वाच्च तदनित्यं सुखादिवदिति, तस्यापि गृहीतग्राहीश्वरज्ञानमायातं । ततश्च न प्रमाणं स्मरणादिवत् गृहीतग्राहिणोपि तस्य प्रमाणत्वे प्रमाणसंप्लववादिनामनुभूतार्थे स्मरणादेः प्रमाणत्वानुषंगः केन निवार्येत । स्यान्मतं, प्रमाणांतरेणाग्रहीतस्य सकलसूक्ष्माद्यर्थस्य महेश्वरज्ञानसंतानेन ग्रहणान्न तस्य ग्रहीतग्राहित्वमिति । तदसत् । धारावाहिज्ञानस्या - प्येवं गृहीतग्राहित्वाभावात् प्रमाणतापत्तेः । तत्प्रमाणत्वोपगमे तथैव प्रमाणांतरागृहीतत्वानुभवस्मरणप्रत्यभिज्ञानादिसंतानस्य प्रवर्तमानस्यागृहीतग्राहित्वात् प्रमाणत्वमस्तु । यदि पुनरनुभवादीनामेकसंतानत्वेप्यनुभवगृहीतेर्थे स्मरणादेः प्रवृत्तेरप्रमाणत्वं तदा प्रथमज्ञानेन परिच्छिन्नेर्थे तदुत्तरोत्तरधारावाहिविज्ञानानां कुतः प्रमाणत्वं ? तदुपयोग विशेषादितिचेत्, तत एव स्मृत्यादीनां प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । तथा सति प्रमाणसंख्यानियमो न व्यवतिष्ठेतेत्युक्तं पुरस्तात् । तस्मादनेन गृहीतग्राहित्वात्कस्यचिद्विज्ञानस्य प्रमाणत्वमुररीकुर्वता महेश्वरज्ञानस्याप्युत्तरोत्तरस्य पूर्वज्ञानं परिच्छिन्नार्थग्राहित्वादप्रमाणत्वं दुःशकं परिहर्तुं । यदप्युक्तं, महेश्वरज्ञानस्य नित्यत्वे प्रमाणफलत्वाभाव इति । तदप्ययुक्तं । तस्योपचारतः प्रमाणफलत्वोपपत्तेः । यथैव ईश्वरस्यांतःकरणसंयोगादिसामग्री नित्यज्ञानस्याभिव्यक्तत्वादुपचारतः प्रमाणं तथा तद्व्यंग्यत्वान्नित्यस्यापीश्वरज्ञानस्योपचारतः प्रमाणफलत्वमुपपद्यत एव । न चाभिव्य Page #342 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। ३३३ क्तिरुत्पत्तिरेव सामान्यादेः खव्यक्तिभिरभिव्यंग्यस्योत्पतिमत्त्वप्रसंगात् । ततो नित्यमेवेश्वरज्ञानमिति । तेन हेतोर्व्यभिचार एव । भवतु वा महेश्वरज्ञानमनित्यं तथापि सलिलपरमाणुरूपादिभिरपदेशस्यानैकांतिकता दुष्परिहरेत्यलं प्रसंगेन, सर्वथात्मनो गतिमत्त्वस्य प्रतिषेद्भुमशक्तेः ॥ ___ कथं पुनरशरीरस्यात्मनो गतिरित्याह; अनुश्रेणि गतिः ॥ २६ ॥ __ आकाशप्रदेशपंक्तिः श्रेणिः अनोरानुपूर्ये वृत्तिः श्रेणेरानुपूर्येणानुश्रेणि जीवस्य पुद्गलस्य च गतिरिति प्रतिपत्तव्यं । जीवाधिकारात्पुद्गलस्यासंप्रत्यय इति चेन्न, पुनर्गतिग्रहणात्तत्संप्रत्ययात् क्रियांतरनिवृत्त्यर्थमिह गतिग्रहणमिति चेन्न, अवस्थानाद्यसंभवात् क्रियांतरनिवृत्तिसिद्धेः । उत्तरसूत्रे जीवग्रहणाचेह शरीरपुद्गलस्य जीवस्यानुश्रेणिगतिः संप्रतीयते । ननु च कुतो जीवस्य चानुश्रेणिगतिनिश्चिता ज्योतिरादीनां निःश्रेणिगतिदर्शनात् तन्नियमानुपपत्तेरिति कश्चित् । तं प्रत्याह;सिद्धा गतिरनुश्रेणि देहिनः परमागमात् । लोकांतरं प्रतिज्ञेयं पुद्गलस्य च नान्यथा ॥७॥ कः पुनरसौ परमागमस्तदावेदकः कुतो वास्य प्रमाणत्वमित्याह; पोढा प्रक्रमयुक्तोयमात्मेति वचनं पुमान् । संप्रदायात्सुनितासंभवद्वाधकत्वतः ॥८॥ ___ षट्प्रक्रमयुक्तो जीव इति परमागमः खतः संप्रदायाविच्छेदात्प्रमाणं सुनिर्णीतासंभवद्बाधकत्वाद्वा मोक्षमार्गवदिति निरूपितप्रायं । ततो जीवस्य पुद्गलस्य च देशकालनियमादनुश्रेणि गतिः सिद्धा बोद्धव्या ॥ मुक्तस्यात्मनः कीदृशी गतिरित्याह; अविग्रहा जीवस्य ॥ २७॥ उत्तरसूत्रे संसारिग्रहणादिह मुक्तस्य गतिः । विग्रहो व्याघातः कौटिल्यमिति यावत् , न विद्यते विग्रहोस्या इत्यविग्रहा मुक्तस्य जीवस्य गतिरित्यभिसंबंधः ॥ कुत इत्याह; गतिर्मुक्तस्य जीवस्याविग्रहा वक्रतां प्रति । निमित्ताभावतस्तस्य स्वभावेनोर्ध्वगत्वतः ॥१॥ ऊर्ध्वव्रज्याखभावो जीव इति युक्त्यागमाभ्यामुत्तरत्र निर्णेप्यते, ततो मुक्तस्यान्यत्र गमने तद्वक्रीभावे च कारणाभावाद्वक्रीभावाभावादविग्रहा गतिः ॥ संसारिणः कीदृशी गतिरित्याह; विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २८ ॥ च शब्दादविग्रहा चेति समुच्चयः तेन संसारिणो जीवस्य नाविग्रहगतेरपवादो, विग्रहवत्या विधानादिति संप्रत्ययः कालपरिच्छेदार्थः प्राक् चतुर्थ्य इति वचनात् । आङो ग्रहणं लध्वर्थ कर्तव्यमिति चेन्न, अभिविधिप्रसंगात् । उभयसंभवे व्याख्यानतो मर्यादासंप्रत्यय इति चेन्न, प्रतिपत्तेर्गौरवात् । प्रतिपत्तिगौरवाद्वरं ग्रंथगौरवं इति वचनाच्च प्राग्ग्रहणमस्तु ॥ कुतश्चतुर्व्यः समयेभ्यः प्रागेव विग्रहवती गतिः संसारिणो न पुनश्चतुर्थे समये परत्रेत्याशंकायामिदमाह; संसारिणः पुनर्वक्रीभावयुक्ता च सा मता । चतुर्थ्यः समयेभ्यः प्राक परतस्तदसंभवात्॥१॥ त्रिवक्रगतिसंभवः कुत इत्याह;निष्कुटक्षेत्रसंसिद्धेस्त्रिवक्रगतिसंभवः । एकद्विवक्रया गत्या कचिदुत्पत्त्ययोगतः ॥ २ ॥ Page #343 -------------------------------------------------------------------------- ________________ ३३४ तत्त्वार्थश्लोकवार्तिके [सू० ३० यदि ह्येकवक्रा गतिः स्याद् द्विवचैव वा तदा वेत्रासनाद्याकारे लोके निष्कुटक्षेत्रे क्वचित्प्रदेशे जीवस्य कुतश्चिद्देशांतरादागतस्योत्पत्तिर्न स्यात् ॥ सूक्ष्मबादरकै जीवैः सर्वो लोको निरंतरं निचितः । बादरकैश्च यथा संभवमिति परमागमवचनं । तथैकेन जीवेन सर्वलोकः प्रतिदेशं क्षेत्रीकृत इति वक्रावक्रमलभत । ननु द्विवक्रया गत्या यतो यत्र व्याप्तिः संभवति ततस्तत्र जीवस्योत्पत्तेः सर्वमसमंजसमेतद्वचनमिति चेत्, सर्वस्माल्लोकप्रदेशात्सर्वस्मिन् लोकप्रदेशांतरे जीवस्य गतिरिति सिद्धांतव्याहतिप्रसंगात् ॥ येषां च चतुरस्रः स्याल्लोको वृत्तोपि वा मतः । निष्कुटत्वविनिर्मुक्तस्तेषां सा न त्रिवक्रता ३ मा भूदित्ययुक्तं, तथा पाणिमुक्ता लांगलिका गोमूत्रिका चैकद्वित्रिवत्रा संसारिणो गतिरिति सिद्धांतविरोधात् । तदविरुद्धमनुरुध्यमानैः त्रिवक्रा तु गतिरभ्युपगंतव्या, न चासौ निष्कुटत्वविनिर्मुक्ते चतुरस्रे वृत्ते वा लोके संभवतीति न तदुपदेशसंभवः ॥ कियत्समया पुनरवका गतिरित्याह; - एकसमयाविग्रहा ॥ २९ ॥ गतिरित्यनुवर्तनेन सामानाधिकरण्यात्स्त्रीलिंगनिर्देशः कृतः । एकः समयोऽस्या इत्येकसमया, न विद्यते विग्रहो व्याघातोस्या इत्यविग्रहा ऋज्वी गतिरित्यर्थः ॥ कुतश्चैवमित्याह; — अविग्रहा गतिस्तत्र प्रोक्तैकसमयाखिला । प्राप्तिः समयमात्रेण लोकाग्रस्य तनोरपि ॥ १ ॥ लोकाग्रप्रापणी गतिर्मुक्तस्य तावदेकसमया समाविर्भूतानंतवीर्यस्य तस्यैकसमयमात्रेण लोकाग्रप्रायुपपत्तेः । पूर्वतनुपरित्यागेन तन्वंतरप्रापणीर्वक्रगतिरेकसमयैव संसारिणोपि, संप्राप्ततादृग्वीर्यातरायक्षयोपशमस्य लोकांतरवर्तिन्याः तनोरपि समयमात्रेण प्राप्तिघटनात् । ततः सकलाप्यविग्रहा गतिरेकसमयेत्युपपन्नं । सामर्थ्यादेकवक्रा द्विसमया, द्विवका त्रिसमया, त्रिवक्रा चतुःसमयेति सिद्धं ॥ यद्येवं सर्वत्राहारको जीवः प्रसक्त इत्याकृतं प्रतिषेधयन्नाह ; - एकं aौ त्रीन् वानाहारकः ॥ ३० ॥ एकं वा समयं द्वौ वा समयौ त्रीन् वा समयाननाहारक इति संप्रत्येयं प्रत्यासत्तेः समयस्याभिसंबंधात्, वाशब्दस्य प्रत्येकं परिसमाप्तेश्च । सप्तमीप्रसंग इति चेन्न, अत्यंत संयोगस्य विवक्षितत्वात् । कः पुनराहारो नाम येनाहारको जीवः स्यादित्यभिधीयते - त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः तदभावाद्विग्रहगतावनाहारकः, न हि तस्यामाहारकशरीरस्य संभवः, नाप्यौदारिकवैक्रियिकशरीरयोः षण्णां पर्याप्तीनां व्याघातात् । पुनरात्मैकसमये द्वौ त्रीन् वानाहारको न पुनश्चतुर्थमपीत्याह ; - एकं समयमात्मा द्वौ त्रीन् वा नाहारयत्ययं । शरीरत्रयपर्याप्तिप्रायोग्यान् पुद्गलानिदम् ॥ १ ॥ चतुर्थे समवश्यमाहारस्य प्रसिद्धितः । ऋज्वामिव गतौ प्राच्ये पुंसः संसारचारिणः ॥ २ ॥ द्वितीये पाणिमुक्तायां लांगलिका तृतीयके । यथा तद्वत्रिवक्रायां चतुर्थे विग्रहः ग्रहः ॥ ३ ॥ संप्रति क्षणिकाद्येकांतव्यवच्छेदेन स्याद्वादपक्ष एव विग्रहगतिर्जीवस्य संभवतीत्याह ;क्षणिकं निष्क्रियं चित्तं खशरीरप्रदेशतः । भिन्नं चित्तांतरं नैव प्रारभेत सविग्रहं ॥ ४ ॥ सर्वकारणशून्ये हि देशे कार्यस्य जन्मनि । काले वा न कचिज्ज्ञातुमस्य जन्म न सिद्ध्यति ५ कूटस्थोपि पुमान्नैव जहाति प्राच्यविग्रहं । न गृह्णात्युत्तरं कायमनित्यत्वप्रसंगतः || ६ ॥ Page #344 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३३५ परिणामी यथा कालो गतिमानाहरत्यतः । खोपात्तकर्मसृष्टेष्टदेशादीन् पुंङ्गलान्तरं ॥ ७ ॥ इति विग्रहसंप्राप्त्यै गतिर्जीवस्य युज्यते । पङ्गिः सूत्रैः सुनिर्णीता निर्बाधं जैनदर्शने ॥ ८ ॥ अथैवं निरूपितगतेर्जीवस्य नियतकालात्मलाभस्य षष्टिकाद्यात्मलाभवत्संभाव्यमानस्य जन्मभेदप्रतिपादनार्थमाह; - संमूर्च्छनगर्भोपपादा जन्म ॥ ३१ ॥ समंततो मूर्छनं शरीराकारतया सर्वतः पुद्गलानां सम्मूर्छनं, शुक्रशोणितगरणाद्गर्भः मातृप्रयुक्ताहारात्मसात्करणाद्वा, उपेत्य पद्यतेस्मिन्नित्युपपादः । एतेषामितरेतरयोगे द्वंद्वे । संमूर्च्छनस्य ग्रहणमादावतिस्थूलत्वात् अल्पकालजीवित्वात् तत्कार्यकारणप्रत्यक्षत्वाच्च तदनंतरं गर्भस्य ग्रहणं कालप्रकर्षानिष्पत्तेः, उपपादस्य ग्रहणमंते दीर्घजीवित्वात् । त एते जीवस्य जन्मेति प्रत्येयं । संमूर्छनादिभेदात् जन्मभेदवचनभेदप्रसंग इति चेन्न, जन्मसामान्योपादानानां तदेकत्वोपपत्तेः ॥ कुतः पुनः संमूर्छनादय एव जन्मभेदा इत्याह ; संमूर्छनादयो जन्म पुंसो भेदेन संग्रहात् । सतोपि जन्मभेदस्य परस्यांतर्गतेरिह || १ | संखेदोद्भेदादयः परे जन्मभेदाः संमूर्छनात् तेषां तत्रैवांतर्गमनात् । भेदेन तु संगृह्यमाणं जन्म त्रिविधं व्यवतिष्ठते संमूर्छनादिभेदः पुनर्जीवस्य तत्कारणकर्मभेदात्, सोपि खनिमित्ताध्यवसाय भेदादिति प्रतिपत्तव्यं ॥ तद्योनिप्रतिपादनार्थमाह; -- सचित्तशीतसंवृताः सेतरा मिश्राचैकशस्तद्योनयः ॥ ३२ ॥ आत्मनः परिणाम विशेषश्चित्तं, शीतः स्पर्शविशेषः, संवृतो दुरुपलक्ष्यः । सह चित्तेन वर्तत इति सचित्तः, शीतोस्यास्तीति शीतः, संत्रीयते संवृतः । सचित्तश्च शीतश्च संवृतश्च सचित्तशीत संवृताः सहे - तरैरचित्तोष्णविवृतैर्वर्तते इति सेतराः सप्रतिपक्षाः, मिश्रग्रहणमुभयात्मसंग्रहार्थं । चशब्दः प्रत्येकं समुच्चयार्थ इत्येके, तदयुक्तं तमंतरेणापि तत्प्रतीतेः पृथिव्यप्तेजोवायुरिति यथा । इतरयोनिभेदसमुच्चयार्थस्तु युक्तश्चशब्दः, एकशो ग्रहणं क्रममिश्रप्रतिपत्त्यर्थं तेन सचित्तोचित्तो मिश्रश्च शीत उष्णो मिश्रश्च संवृतो विवृतो मिश्रश्चेति नवयोनिभेदास्तस्य जन्मनः प्रतीयते तच्छब्दस्य प्रकृतापेक्षत्वात् । सचित्तादीनां द्वंद्वे पुंवद्भावाभावो भिन्नाश्रयत्वादित्येके, तदयुक्तं । पुल्लिंगस्य योनिशब्दस्येहाश्रयणात्तस्योभयलिंगत्वात् । स्त्रीलिंगस्य वा प्रयोगस्योत्तरे यदिकस्य ह्रस्वत्वस्य विधानात् द्रुतायां तपरकरणकरणान्मध्यमवलंबितयोरुपसंख्यानमित्यत्र द्वंद्वेपि तस्य दर्शनात् । योनिजन्मनोरविशेष इति चेन्न, आधाराधेयभेदाद्विशेषोपपत्तेः । सचित्तग्रहणमादौ तस्य चेतनात्मकत्वात्तदनंतरं शीताभिधानं तदप्याद्ये हेतुत्वात् । अंते संवृतग्रहणं गुप्तरूपत्वात् । तत्राचित्तयोनयो देवनारकाः, गर्भजा मिश्रयोनयः, शेषास्त्रिविकल्पाः ; शीतोष्णयोनयो देवनारकाः, उष्णयोनिस्तेजस्कायिकः, इतरे त्रिप्रकाराः ; देवनारकै केंद्रियाः संवृतयोनयः, विकलेंद्रिया विवृतयोनयः, मिश्रयोनयो गर्भजाः तद्भेदाश्चशब्दसमुच्चिताः प्रत्यक्षज्ञानदृष्टाः, इतरेषामागमगम्याश्चतुरशीतिशतसहस्रसंख्याः । तदुक्तं । “ णिच्चिदरधातुसत्तयतरुदसवियलिंदिए दोदो । असुरणिरयतिरियचदुरो चोद्दस मणुए सदसहस्सा " ॥ अथैतेषां योनिभेदानां सद्भावे युक्तिमुपदर्शयति ;तस्यापि योनयः संति सचित्ताद्या यथोदिताः । खावारेण विना जन्म क्रियाया जात्वनीक्षणात् १ Page #345 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ३५ तद्वैचित्र्यं पुनः कर्मवैचित्र्यात्तद्विहन्यते । कार्यवैचित्र्यसिद्धेस्तु कर्मवैचित्र्यनिर्णयः ॥२॥ . न हि खभावत एव प्राणिनां सुखदुःखानुभवादिकार्यवैचित्र्यं नियमाभावप्रसंगात् । कालादेवेति वा युक्तं, एकस्मिन्नपि काले तद्वैचित्र्यानुभवात् । भूतवैचित्र्यात्सुखादिवैचित्र्यमिति चेत् न, सुखादेः भूतकार्यत्वनिषेधात् । ततः कर्मवैचित्र्यमेव सुखादिकार्यवैचित्र्यं गमयति, तव्यतिरेकेण दृष्टकारणसाकल्येपि कदाचिदनुत्पत्तेः । तच्च कर्मवैचित्र्यमस्य जन्मनिमित्तमिति पर्याप्तं प्रपंचकेन ॥ केषां पुनर्गजन्मेत्याह; जरायुजांडजपोतानां गर्भः ॥ ३३॥ जालवत्प्राणिपरिवरणं जरायुः जरायौ जाता जरायुजाः, शुक्रशोणितपरिवरणमुपात्तकाठिन्यं नखत्वक्सदृशं परिमंडलमंडं अंडे जाता अंडजाः पूर्णावयवः परिस्पंदादिसामोपलक्षितः पोतः । पोतज इत्ययुक्तमर्थभेदाभावात् । आत्मा पोतज इति चेन्न, तस्यापि पोतपरिमाणात्मात्मनः पोतत्वात् । जरायुजाश्च अंडजाश्च पोताश्च जरायुजांडजपोता इति सिद्धं द्वंद्वे । जरायुग्रहणमादावभ्यर्हितत्वात् क्रियारंभशक्तियोगात् केषांचिन्महाप्रभावत्वान्मार्गफलाभिसंबंधाच्च । तदनंतरमंडजग्रहणं पोतेभ्योऽभ्यर्हितत्वात् । एतेषां गर्भ एव जन्मेति सूत्रार्थः । उद्देशे च निर्देशो युक्त इति चेन्न, गौरवप्रसंगात् । शेषाणां संमूईनमिति लघुनोपायेन गर्भोपपादानंतरं वचनोपपत्तेः ॥ कुतः पुनर्जरायुजादीनां गर्भ एव युक्त इत्याह; युक्तो जरायुजादीनामेव गर्भोवधारणात् । देवनारकशेषाणां गर्भाभावविभावनात् ॥१॥ यदि हि जरायुजादीनां गर्भ एवेत्यवधारणं स्यात्तदा जरायुजादयो गर्भनियताः स्युः गर्भस्तु तेप्वनियत इति देवनारकेषु शेषेषु स प्रसज्येत । यदा तु जरायुजादीनामेवेत्यवधारणं तदा तेषु गर्भाभावो विभाव्यत इति युक्तो जरायुजादीनामेव गर्भः ॥ केवलमुपपादेपि जरायुजादीनां प्रसक्तौ तन्निवारणार्थमिदमाह; देवनारकाणामुपपादः ॥ ३४ ॥ स्थाद्देवनारकाणामुपपादो नियतस्तथा । तस्याभावात्ततोन्येषां तेषां जन्मांतरच्युतेः॥१॥ देवनारकाणामेवोपपाद इति हि नियमे देवनारकेषु नियत उपपादः देवनारकास्तूपपादेन नियता इति गर्भसंमूर्छनयोरपि प्रसक्ताः पूर्वोत्तरसूत्रावधारणात् । तत्र निरुवाच, कोसौ ? उपपाद एव नारका अवतिष्ठते न गर्ने संमूर्छने वा प्रसज्यंते ततस्तेषां जन्मांतरच्युतिसिद्धेरुपपाद एव ॥ नन्वेवं जरायुजादीनां देवनारकाणां च संमूर्छनेपि प्रसक्तिरित्याख्यातं प्रतिघ्नन्नाह; शेषाणां संमूर्छनम् ॥ ३५॥ शेषाणामेव संमूर्छनमित्यवधारणीयं । के पुनः शेषाः कुतो वा तेषामेव संमूर्छनमित्याह;निर्दिष्टेभ्यस्तु शेषाणां युक्तं संमूर्छनं सदा । गर्भोपपादयोस्तत्र प्रतीत्यनुपपत्तितः ॥ १॥ उक्तेभ्यो जरायुजादिभ्यो देवनारकेभ्यश्च अन्ये शेषास्तेषामेव संमूर्छनं युक्तं सदा गर्भोपपादयोस्तत्र प्रतीत्यनुपपत्तेः । तर्हि संखेदजादीनां जन्मकारोन्यः सूत्रयितव्य इत्याशंकामपसारयन्नाह;तथा संवेदजादीनामपि संमूर्छनं मतं । जन्मेति नापरो जन्मप्रकारो सूत्रितोस्ति नः ॥२॥ इत्येवं पंचभिः सूत्रैः सूत्रितं जन्म जन्मिनां । भेदप्रभेदतश्चिंत्यं युक्त्यागमसमाश्रयं ॥३॥ Page #346 -------------------------------------------------------------------------- ________________ ३३७ द्वितीयोऽध्यायः। अथ जीवस्य कति शरीराणीत्याह; औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ शरीरनामकर्मोदये सति शीर्यंत इति शरीराणि । शरणक्रियात्र व्युत्पत्तिनिमित्तं तु शरीरनामकर्मोदय एवोदितः शरीरत्वपरिणामः न पुनरर्थातरभूतशरीरत्वसामान्यं तस्य विचार्यमाणस्यायोगात् ॥ केन पुनः कारणेन जन्मांतरं शरीराण्याहुरित्युच्यते स्वयोनौ जन्म जीवस्य शरीरोत्पत्तिरिष्यते । तेनात्रौदारिकादीनि शरीराणि प्रचक्षते १ औदारिकादिशरीरनामकर्मविशेषोदयापादितानि पंचैवौदारिकादीनि शरीराणि जीवस्य यदुत्पत्तिः खयोनौ जन्मोक्तं, न हि गतिनामोदयमानं जन्म, अनुत्पन्नशरीरस्यापि तत्प्रसंगात् । तत्रोदारं स्थूलं प्रयोजनमस्येत्यौदारिकं उदारे भवमिति वा, विक्रिया प्रयोजनमस्येति वैक्रियिकमाह्रियते तदित्याहारकं, तेजोनिमित्तत्वात्तैजसं, कर्मणामिदं कार्मणं तत्समूहो वा । एतेषां द्वंद्वे, पूर्वमौदारिकस्य ग्रहणमतिस्थूलत्वात् उत्तरेषां क्रमवचनं । सूक्ष्मक्रमसूक्ष्मप्रतिपत्त्यर्थ कार्मणग्रहणमादौ युक्तमौदारिकादिशरीराणां तत्कार्यत्वादिति चेन्न, तस्यात्यंतपरोक्षत्वात् । औदारिकमपि परोक्षमिति चेन्न, तस्य केषांचित्परोक्षत्वात् । तथाहि सिद्धमौदारिकं तिर्यमानुषाणामनेकधा । शरीरं तत्र तन्नामकर्मवैचित्र्यतो बृहत् ॥२॥ बृहद्धि शरीरमौदारिकं मनुष्याणां तिरश्चां च प्रत्यक्षतः सिद्धं तेषु शरीरेषु मध्ये । तच्चानेकधा तन्ना. मकर्मणोनेकविधत्वात् ॥ शेषाणि कुतः सिद्धानीत्याह--- संभाव्यानि ततोन्यानि बाधकामावनिर्णयात् । परमागमसिद्धानि युक्तितोपि च कार्मणं ॥३ न कर्मणामिदं कार्मणमित्यस्मिन्पक्षे सर्वमौदारिकादि कार्मणं प्रसक्तमिति चेन्न, प्रतिनियतकर्मनिमित्तत्वात् तेषां भेदोपपत्तेः । कर्मसामान्यकृतत्वादभेद इति चेन्न, एकमृदादिकारणपूर्वकस्यापि घटोदंचनादेर्भेददर्शनात् कार्मणप्रणालिकया च तन्निप्पत्तिः खोपादानभेदाढ़ेदः प्रसिद्धः । पृथगुपलंभप्रसंग इति चेन्न, विश्रसोपचयेन स्थानात् क्लिन्नगुडरेणुश्लेषवदौदारिकादीनां कार्मणनिमित्तत्वे कार्मणं किं निमित्तमिति वाच्यं ? न तावन्निनिमित्तं तदनिर्मोक्षप्रसंगाद्वाभिभावप्रसंगाद्वा शरीरांतरनिमित्तत्वे तु तस्याप्यन्यशरीरनिमित्तत्वेनवस्थापत्तिरिति चेन्न, तस्यैव निमित्तभावात् । पूर्व हि कार्मणं कार्मणस्य निमित्तं तदपि तदुत्तरस्येति निमित्तनैमित्तिकभावोऽविरुध्यते । नचैवमनवस्थापत्तिः कार्यकारणभावेन तत्संतानस्यानादेरविरोधात् । मिथ्यादर्शनादिनिमित्तत्वाच नानिमित्तं कार्मणं, ततो नानिर्मोक्षप्रसंगः । तच्चैवंविधं परमागमात्सिद्धं वैक्रियिकादिवत् युक्तितश्च यथाप्रदेशं साधयिष्यते ॥ ननु यद्यौदारिकं स्थूलं तदा परं परं कीदृशमित्याह; परं परं सूक्ष्मम् ॥ ३७॥ परशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्थार्थगतिः पृथग्भूतानां सूक्ष्मगुणेन वीप्सानिर्देशः तेनौदारिकात्परं वैक्रियिकं सूक्ष्मं न स्थूलतरं, ततोप्याहारकं, ततोपि तैजसं सूक्ष्म, ततोपि कार्मणमिति संप्रतीयते ॥ प्रदेशतः परं परं कीदृगित्याह; प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ॥ ३८॥ प्रदेशाः परमाणवस्ततोऽसंख्येयगुणं परंपरमित्यभिसंबंधः प्राक्तैजसादिति वचनात् । न तैजसकार्म ४३ Page #347 -------------------------------------------------------------------------- ________________ ३३८ तत्त्वार्थश्लोकवार्तिके [ सू० ४० णयोरसंख्येयगुणत्वं । किं तर्हि ? औदारिकाद्वैक्रियिकं प्रदेशतोऽसंख्येयगुणं ततोप्याहारकमिति निश्चयः ।। तैजसकार्मणे किंगुणे इत्याह; अनंतगुणे परे ॥ ३९ ॥ प्रदेशत इत्यनुवर्तते परं परमिति च, तेनाहारकात्परं तैजसं प्रदेशतोऽनंतगुणं ततोपि कार्मणमनंत- । गुणमिति विज्ञायते । तत एव नोभयोस्तुल्यत्वमाहारकादनंतगुणत्वाभावात् । अन्यदेव हि आहारकादनंतगुणत्वं तैजसस्य, तैजसाच्चान्यत् कार्मणस्य तस्यानंतविकल्पत्वात् परस्मिन् सत्यारातीयस्यावरत्वावरे इति निर्देशो न प्रसज्यते बुद्धिविषयव्यापारादुभयोराहारत्वोपपत्तेः । व्यवहितेपि वा परशब्दप्रयोगात् । ननु च यदि प्रदेशापेक्षया परं परमसंख्येयगुणमनंतगुणं चोच्यते सूक्ष्मं कथमित्याह;क्षेत्रावगाहनापेक्षां कृत्वा मूक्ष्म परं परं । तैजसात्प्रागसंख्येयगुणं ज्ञेयं प्रदेशतः ॥१॥ तथानंतगुणे ज्ञेये परे तैजसकार्मणे । तर्हि सप्रतिघाते ते प्राप्ते इत्याह; अप्रतीपाते ॥ ४०॥ प्रतीघातो मूर्त्यतरव्याघातः स न विद्यते ययोस्तेऽप्रतीपाते तैजसकामणे । कुत इत्याह; सर्वतोप्यप्रतीपाते परिणामविशेषतः। वैक्रियिकाहारयोरप्यप्रतीघातत्वमिति न मंतव्यं, सर्वतोऽप्रतीघातस्य तयोरभावात् । न हि वैक्रियिक सर्वतो प्रतीघातमाहारकं वा प्रतिनियतविषयत्वात्तदप्रतीघातस्य । तैजसकार्मणे पुनः सर्वस्य संसारिणः सर्वतोप्रतीघाते ताभ्यां सह सर्वत्रोत्पादान्यथानुपपत्तेः । ततस्तर्हि सूत्रे सर्वतो ग्रहणं कर्तव्यमिति चेत् न, मुख्यस्य प्रतीघातस्यात्र विवक्षितत्वात् । कुतः पुनस्तादृशोऽप्रतीघात इति चेत् , सूक्ष्मपरिणामविशेषादयस्पिंडे तेजोनुप्रवेशवत् । ये त्वाहुः, पूर्व पूर्व सूक्ष्मं युक्तं प्रदेशतोल्पत्वादिति तान् प्रत्याह; प्रदेशतोल्पतातारतम्यं कायेषु ये विदुः । सूक्ष्मतातारतम्यस्य साधनं ते कुतार्किकाः ॥ १ ॥ तस्य कार्यासपिंडेनानेकांतात्रिष्विलात्मनां । प्रदेशबहुतातारतम्यवत्स्थौल्यबंधने ॥२॥ यथैव प्रदेशबहुत्वतारतम्यमुत्तरोत्तरशरीरेषु स्थूलत्वप्रकर्षे साध्ये निबिडावयवसंयोगपरिणामेनायस्पिडेनानैकांतिकमिति न तत्र स्थूलतातारतम्यं साधयति तथा प्रदेशाल्पत्वतारतम्यमपि पूर्वशरीरेषु न सूक्ष्मतातारतम्यमिति स्वहेतुविशेषसांनिध्यात् तैजसकार्मणयोरनंतगुणत्वेपि पूर्वकायः सूक्ष्मपरिणामः सिद्धः सर्वतोप्रतीघातत्वं साधयत्येवायस्पिडे तेजोनुप्रवेशवदिति सूक्तं । न हि तेजसोयस्पिडेन प्रतीपाते तत्रानुप्रवेशो युज्येत । स्यान्मतं, तेजसः संयोगविशेषादयस्पिंडावयवेषु कर्माण्युत्प्रतिपद्यते ततो विभागस्ततः संयोगविनाशस्ततोपि तस्यायपिंडावयविनो विनाशस्ततोप्यौप्ण्यापेक्षादग्निसंयोगात्तदवयवेप्वनुष्णाशीतस्पर्श विनाशः परस्मादग्निसंयोगादुष्णस्पर्शोत्पत्तिः ततस्तदुपभोक्तुरदृष्टविशेषवशाढ्यणुकादिप्रक्रमेण तादृशस्यैवायपिंडस्योत्पत्तिः । एवं च नायस्पिडे तदवस्थे तेजसोनुप्रवेशोस्ति यतोऽप्रतीघातस्य विधाते निदर्शनीक्रियेतेति । तदयुक्तं, प्रतीतिविरोधात् । स एवायमयस्पिंडस्तेजोव्याप्तः प्रतिभाति यः पूर्वमनुष्णः समुपलब्ध इति प्रतीतेः । परत्र प्रक्रियामात्रस्य जातुचिदप्रतीतेन भ्रांतत्वं सदृशापरोत्पत्तेस्तथा प्रतीतिरिति चेन्न, एकत्वादिवत् । न हि किंचिन्मूर्तमति प्रविशदमूर्त दृष्टं । व्योम दृष्टमिति चेन्न, तत्र मूर्तमति मूर्तेष्वपि तथा प्रसंगात् । तथा च तत्कथंचित्त Page #348 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३३९ त्यभिज्ञानादेकत्वसिद्धिः । बाधकरहितात्ततस्तत्सिद्धौ कथमयस्पिडेपि प्रत्यभिज्ञानादेकत्वं सिद्ध्येत् ? न हि तत्र किंचिद्बाधकमस्ति । स्यान्मतं, तेजोऽयस्पिडे तदवस्थेनानुप्रविशति मूर्तत्वाल्लोष्ठवदित्येतद्बाधकमिति तदसद्धेतोः संदिग्धविपक्षव्यावृत्तिकत्वात् सर्वज्ञत्वाभावे वक्तृत्वादिवत् । न हि किंचिन्मूर्तमति प्रविशदमूर्त दृष्टं । व्योम दृष्टमिति चेत् , तत्र मूर्तिमतोनुप्रवेशात्तथा प्रतीतेरबाधत्वादित्यलं प्रसंगेन ॥ ननु कर्मैव कार्मणमित्यस्मिन् पक्षे न तच्छरीरं पुरुषविशेषगुणत्वाहुयादिवदिति कश्चित्तं प्रत्याह; कमैव कार्मणं तत्र शरीरं नृगुणत्वतः । इत्यसद्रव्यरूपेण तस्य पौगलिकत्वतः ॥३॥ ___ न हि कर्म धर्माधर्मरूपमदृष्टसंज्ञकं पुरुषविशेषगुणस्तस्य द्रव्यात्मना पौद्गलिकत्वात्ततो नाशरीरत्वसिद्धिः । भावकमैवात्मगुणरूपं न द्रव्यकर्म पुद्गलपर्यायत्वमात्मसात्कुर्वत्प्रसिद्धमिति मन्यमानं प्रत्याह; कर्म पुद्गलपर्यायो जीवस्य प्रतिपद्यते । पारतंत्र्यनिमित्तत्वात्कारागारादिबंधवत् ॥४॥ क्रोधादिभिर्व्यभिचार इति चेन्न, तेषामपि जीवस्य पारतंत्र्यनिमित्तत्वे पौद्गलिकत्वोपपत्तेः । चिद्रूपतया संवेद्यमानाः क्रोधादयः कथं पौद्गलिकाः प्रतीतिविरोधादिति चेन्न, निहतोर्व्यभिचारायोगात् तेषां पारतंत्र्यनिमित्तत्वाभावात् । द्रव्यक्रोधादय एव हि जीवस्य पारतंत्र्यनिमित्तं न भावक्रोधादयस्तेषां खयं पारतंत्र्यरूपत्वाद्र्व्यक्रोधादिकर्मोदये हि सति भावक्रोधाद्युत्पत्तिरेव जीवस्य पारतंत्र्यं न पुनस्तत्कृतमन्यत्किंचिदित्यव्यभिचारी हेतु गमकः सदा ॥ अत्रापरः स्वप्नांतिकं शरीरं परिकल्पयति तमपसारयन्नाह;स्वप्नोपभोगसिद्ध्यर्थं कायं स्वप्नांतिकं तु ये। प्राहुस्तेषां निवार्यते भोग्याः स्वप्नांतिकाः कथम् ॥५॥ भोग्यवासनया भोग्याभासं चेत्स्वप्नवेदिनां । शरीरवासनामात्राच्छरीराभासनं न किम् ॥६॥ यथैव हि खप्नदशायां भोगोपलब्धिः खम्नांतिकं शरीरमंतरेण न घटत इति मन्यते तथा भोग्यानानंतरेणापि सा न सुघटेति भवद्भिर्मननीयं, जाग्रद्दशायां शरीर इव भोगेप्वपि सत्सु भोगोपलब्धेः सिद्धत्वात् । यदि पुनर्भाग्यवासनामात्रात्स्वमदर्शिनां भोग्याभास इति भवतां मतिस्तदा शरीरवासनामात्राच्छरीराभासनमिति किं न मतं ? तथासति खमप्रतिभासस्य मिथ्यात्वं सियेत् , अन्यथा शरीरप्रतीतेरपि भोग्यप्रतीतेः सुखादिभोगोपलब्धेः खमत्वप्रसंगात् । ततो न सौगतानां खप्नांतिकं शरीरं कल्पयितुं युक्तं नापि स्वाभाविकमित्याह स्वाभाविकं पुनर्गात्रं शुद्धं ज्ञानं वदंति ये । कुतस्तेषां विभागः स्यात्तच्छरीरशरीरिणोः ॥७॥ तदेव ज्ञानशरीरव्यावृत्त्या शरीरी स्यादशरीरव्यावृत्त्या शरीरमिति सुगतस्य शुद्धज्ञानात्मनः शरीरित्वमशरीरित्वं च विभागेन व्यवतिष्ठते कल्पनासामर्थ्यादिति न मंतव्यं, तव्यावृत्तेरेव तत्रासंभवात् । सिद्धे हि तस्य शरीरित्वे वा शरीरिण शरीराच्च व्यावृत्तिः सिद्ध्येत् तत्सिद्धौ च शरीरित्वमशरीरित्वं चेति परस्पराश्रयान्नैकस्यापि सिद्धिः । ततो न खाभाविकं शरीरं नाम यत्पुनरातिवाहिकं नैर्माणिकं च तदस्मदभिमतमेवेत्याहकार्मणांतर्गतं युक्तं शरीरं चातिवाहिकम् । नैर्माणिकं तु यत्तेषां तन्नो वैक्रियिकं मतं ॥ ८ ॥ सांभोगिकं पुनरौदारिकादिशरीरत्रयमप्रतिषिद्धमेवेति न शरीरांतरमस्ति । नन्वौदारिकादीनि भिन्नानि पार्थिवादिशरीराणि संति ततोन्यत्रोपसंख्यातव्यानीति केचित् तान् प्रत्याह; पार्थिवादिशरीराणि येतो भिन्नानि मेनिरे । प्रतीतेरपलापेन मन्यतां ते खवारिजम् ॥९॥ न हि पृथिव्यादीनि द्रव्याणि भिन्नजातीयानि संति तेषां पुद्गलपर्यायत्वेन प्रतीतेः परस्परपरिणा Page #349 -------------------------------------------------------------------------- ________________ ३४० तत्त्वार्थश्लोकवार्तिके [ सू० ४४ मदर्शनाद्भिन्नजातीयत्वे तदयोगात् । न ह्याकाशं पृथिवीरूपतया परिणमते कालादिर्वा, परिणमते च जलं मुक्ताफलादि पृथिवीरूपतया । ततो न तज्जात्यंतरं युक्तं येन पार्थिवादिशरीराणि संभाव्यते सत्यपि तानि नैतेभ्यः शरीरेभ्यो भिन्नानि प्रतीतेविषयभावमनुभवंति व्योमारविंदवत् । पार्थिवं हि शरीरं यदिंद्रलोके यच्च तैजसमादित्यलोके यदाप्यं वरुणलोके यच्च वायव्यं वायुलोके वेदितव्यं, तद्वैक्रियिकमेव देवनारकाणामौपपादिकस्य शरीरस्य वैक्रियिकत्वात् । यच्च चातुर्भूतिकं पांचभौतिकं वा कैश्चिदिष्टं । शरीरं मनुष्यतिरश्चां तदौदारिकमेव च, न ततोन्यदिति पंचैव यथोक्तानि शरीराणि व्यवतिष्ठते सर्वविशेषाणां तत्रांतर्भावात् ॥ ननु चामूर्तस्यात्मनः कथं मूर्तिमद्भिः शरीरैस्संबंधो मुक्तात्मवदित्याशंकामपनुदन्नाह; अनादिसंबंधे च ॥ ४१ ॥ अनादिसंबंधो ययोरात्मना ते यथा तैजसकार्मणशरीरे, चशब्दात्सादिसंबंधे ते प्रतिपत्तव्ये । ततो नैकांतेनामूर्तत्वमात्मनः परशरीरसंबंधात्पूर्व येन तदनुपपत्तिः तत्संबंधात् प्रागपि तस्य तैजसकार्मणाभ्यां संबंधसद्भावात् । ततः पूर्वमप्यपराभ्यां ताभ्यामित्यनादितत्संबंधसंतानः प्रतिविशिष्टतैजसकार्मणसंबंधात् सैव सादिता ॥ ननु कस्यचिन्नानादिसंबंधे तेऽतः परशरीरसंबंधानुपपत्तिरित्याशंकायामिदमाह; सर्वस्य ॥ ४२ ॥ सर्वस्य संसारिणस्तैजसकार्मणशरीरे तथानादिसंबंधे न पुनः कस्यचित्सादिसंबंधे येनात्मनः शरीरसंबंधानुपपत्तिः । कुत इत्याह; सर्वस्यानादिसंबंधे चोक्ते तैजसकामणे । शरीरांतरसंबंधस्यान्यथानुपपत्तितः ॥१॥ तैजसकार्मणाभ्यामन्यच्छरीरमौदारिकादि तत्संबंधोमदादीनां तावत्सुप्रसिद्ध एव स च तैजसकार्मणाभ्यां संबंधोनादिसंबंधमंतरेण नोपपद्यते मुक्तस्यापि तत्संबंधप्रयोगात् ॥ अथैतानि शरीराणि युगपदेकस्मिन्नात्मनि कियंति संभाव्यंत इत्याह; तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ ४३ ॥ तद्रहणं प्रकृतशरीरद्वयप्रतिनिर्देशार्थमादिशब्देन व्यवस्थावाचिनान्यपदार्था वृत्तिः, तेन तैजसकार्मणे आदिर्येषां शरीराणां तानि तदादीनीति संप्रतीयते । भाज्यानि पृथकर्तव्यानि । पृथक्त्वादेव तेषां भाज्यग्रहणमनर्थकमिति चेत् , तद्धि कस्यचिद्द्वित्रिचतुःशरीरसंबंधविभागोपपत्तिः । युगदिति कालैकत्वं वर्तते, आङभिविध्यर्थः । तेनैतदुक्तं भवति कचिदात्मनि विग्रहगत्यापन्ने द्वे एव तैजसकामणे शरीरे युगपत्संभवतः, क्वचित् त्रीणि तैजसकार्मणवैक्रियिकाणि तैजसकामणौदारिकाणि वा, कचिच्चत्वारि तान्येवाहारकसहितानि वैक्रियिकसहितानि ॥ पंच त्वेकत्र युगपन्न संभवंतीत्याह;तदादीनि शरीराणि भाज्यान्येकत्र देहिनि । सकृत्संत्याचतुर्यो न पंचानां तत्र संभवः ॥१॥ न हि वैक्रियिकाहारकयोर्युगपत्संभवो यतः क्वचित्पंचापि स्युः ।। किं पुनरत्र शरीरं निरुपभोगं किं वा सोपभोगमित्याह; निरुपभोगमंत्यम् ॥ ४४ ॥ प्रागपेक्षया अंत्यं कार्मणं तन्निरुपभोगमिति । सामर्थ्यादन्यत्सोपभोगं गम्यते । कर्मादानसुखानुभव Page #350 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । नहेतुत्वात्सोपभोगं कार्मणमिति चेन्न, विवक्षितापरिज्ञानात् । इंद्रियनिमित्ता हि शब्दाद्युपलब्धिरुपभोगस्तस्मान्निष्क्रांतं निरुपभोगमिति विवक्षितं । तैजसमप्येवं निरुपभोगमस्त्विति चेन्न, तस्य योगनिमित्तत्वाभावादनधिकारात् । यदेव हि योगनिमित्तमौदारिकादि तदेव सोपभोगं प्रोच्यते निरुपभोगत्वा - देव च कार्मणमौदारिकादिभ्यो भिन्नं निश्चीयत इत्याह अंत्यं निरुपभोगत्वाच्छेषेभ्यो भिद्यते वपुः । शब्दाद्यनुभवो ह्यस्मादुपभोगो न जायते ॥ १ ॥ औदारिकं किंविशिष्टमित्याह ; गर्भसंमूर्छन जमाद्यम् ॥ ४५ ॥ गर्भसंमूर्छनजं पाठापेक्षयाद्यमौदारिकं तद्गर्भजं संमूर्छनजं च प्रतिपत्तव्यं । तत एव सोपभोगाभ्यामपि पराभ्यां शरीराभ्यां तद्भिद्यते इत्याह आद्यं तु सोषभोगाभ्यां पराभ्यां भिन्नमुच्यते । गर्भसंमूर्छनाद्धेतोर्जायमानत्वतो भिदा ॥१॥ यथैव कार्मणं निरुपभोगत्वात्सोपभोगेभ्यो भिन्नं तथौदारिकं सोपभोगमपि कारणभेदात् पराभ्यां भिन्नमभिधीयते ॥ वैक्रियिकं कीदृशमित्याह ; ३४१ औपपादिकं वैक्रियिकम् ॥ ४६ ॥ उपपादो व्याख्यातः तत्र भवमौपपादिकं तद्वै क्रियिकं बोद्धव्यं । कुतः पुनरौदारिकादिदं भिन्नमित्याह ; - औपपादिकतासिद्धेर्भिन्नमौदारिकादिदं । तावद्वैक्रियिकं देवनारकाणामुदीरितम् ॥ १ ॥ न द्यौदारिकमेव वैक्रियिकं ततोन्यस्योपपादिकस्य देवनारकाणां शरीरस्य वैक्रियिकत्वात् । तच्च कारणभेदादौदारिकाद्भिन्नमुच्यते ॥ किमेतदेव वैक्रियिकमुतान्यदपीत्याह ; लब्धिप्रत्ययं च ॥ ४७ ॥ तपोतिशयद्भिब्धिः सा प्रत्ययः कारणमस्येति लब्धिप्रत्ययं वैक्रियिकमिति संप्रत्ययः । नन्विदमौदारिकादि कथं भिन्नमित्याह ;-- किंचिदौदारिकत्वेपि लब्धिप्रत्ययता गतेः । ततः पृथक् कथंचित्स्यादेतत्कर्मसमुद्भवं ॥ १ ॥ यथैौदारिकनामकर्मसमुद्भवमौदारिकं तथा वैक्रियिकनामकर्मसमुद्भवं वैक्रिथिकं युक्तं तथा तदलब्धिप्रत्ययं वैक्रियिकं । न हि लब्धिरेवास्य कारणं वैक्रियिकनामकर्मोदयस्यापि कारणत्वादन्यथा सर्वस्य वैक्रियिकस्य तदकारणत्वप्रसंगात् । तेनेदमौदारिकत्वेपि कथंचिदौदारिकाद्भिन्नं लब्धिप्रत्ययत्वनिश्चयात् । किंचिदेव हि लब्धिप्रत्ययं वैक्रियिकमिष्टं न सर्वम् ॥ तैजसमपि किंचित्तादृशमित्याह ; - तैजसमपि ॥ ४८ ॥ लब्धिप्रत्ययमित्यनुवर्तते, तेन तैजसमपि लब्धिप्रत्ययमपि निश्चेयं । तदपि लब्धिप्रत्ययतागतेरेव भिन्नमौदारिकादेरित्याह; - तथा तैजसमप्यत्र लब्धिप्रत्ययमीयतां । साधारणं तु सर्वेषां देहिनां कार्यभेदतः ॥ १ ॥ Page #351 -------------------------------------------------------------------------- ________________ ३४२ तत्त्वार्थश्लोकवार्तिके [सू० ५१ लब्धिप्रत्ययं तैजसं द्विविधं, निस्सरणात्मकमनिःसरणात्मकं च । द्विविधं निःसरणात्मकं च प्रशस्ताप्रशस्तभेदात् लब्धिप्रत्ययत्वादेव भिन्नं शरीरांतरं गम्यतां, यत्तु सर्वेषां संसारिणां साधारणं तैजसं तत्स्वकार्यभेदाद्भिन्नमीयतां । तैजसवैक्रियिकयोः लब्धिप्रत्ययत्वाविशेषादभेदप्रसंगा इति चेन्न, कर्मभेदकारणकत्वाद्भेदोपपत्तेः । सत्यपि तयोर्लब्धिप्रत्ययत्वे तैजसवैक्रियिकनामकर्मविशेषोदयापेक्षत्वाद्भेदो युज्यत एव ॥ संप्रत्याहारकं शरीरमुपदर्शयति; शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ शुभं मनःप्रीतिकरं विशुद्धं संक्लेशरहितं अव्याघाति सर्वतो व्याघातरहितं चशब्दादुक्तविशेषणस. मुच्चयं । एवं विशिष्टमाहारकं शरीरमतिमात्रं प्रमत्तसंयतस्यैव मुने न्यस्येति प्रतिपत्तव्यं । तच्छरीरांतरात्कुतो भिन्नमित्याह;आहारकं शरीरं तु शुभं कार्यकृतत्वतः । विशुद्धिकारणत्वाच विशुद्धं भिन्नमन्यतः ॥१॥ अव्याघातिस्वरूपत्वात्प्रमत्ताधिपतित्वतः । फलहेतुस्वरूपाधिपतिभेदेन निश्चितम् ॥ २॥ आहारकं वैक्रियिकादिभ्यो भिन्नं शुभफलत्वादित्यत्रानैकांतिकत्वं हेतोः वैक्रियिकादेरपि शुभफलस्योपलंभादिति न मंतव्यं, नियमेन शुभफलत्वस्य हेतुत्वात् । विशुद्धिकारणत्वात् ततो भिन्नमित्यत्रापि लब्धिप्रत्ययेन वैक्रियिकादिना. हेतोरनेकांत इति नाशंकनीयं, नियमेन विशुद्धिकारणत्वस्य हेतुत्वात् । समुद्भूतलब्धेरपि क्रोधादिसंक्लेशपरिणामवशाद्विक्रियादेनिवर्तनाद्विशुद्धिकारणत्वनियमाभावात् । अव्याघातिस्वरूपत्वादाहारकं शरीरांतराद्भिन्नमित्यस्मिन्नपि तैजसादिना हेतोर्व्यभिचार इत्यचोद्य, प्राणिवाधापरिहारलक्षणस्याव्याघातित्वस्य हेतुत्वात् । प्रमत्ताधिपतित्वमपि नाहारकस्य शरीरांतराद्भेदे साध्येनैकांतिकं, विशिष्टप्रमत्ताधिपतित्वस्य हेतुत्वात् । ततः सूक्तं फलहेतुखरूपाधिपतिभेदेन भिन्नमाहारकमन्येभ्यः शरीरेभ्यो निश्चितमिति ॥ चतुर्दशभिरित्येवं सूत्रैरुक्तं प्रपंचतः । शरीरं तीथिकोपेतशरीरविनिवृत्तये ॥३॥ अथ के संसारिणो नपुंसकानीत्याह;-- नारकसंमूर्छिनो नपुंसकानि ॥ ५० ॥ नारकाः संमूर्छिनश्च नपुंसकान्येव भवंति ॥ देवेषु तत्प्रतिषेधमाह; न देवाः॥५१॥ देवा नपुंसकानि नैव संभवंतीति सामर्थ्यात् पुमांसः स्त्रियश्च देव्यो भवंतीति गम्यते । कुत इत्याहनारका देहिनस्तत्र प्रोक्ताः संमूर्छिनश्च ये । नपुंसकानि ते नित्यं न देवा जातुचित्तथा ॥१॥ स्त्रीपुंससुखसंप्राप्तिहेतुहीनत्वतः पुरा । नपुंसकत्वदुःखाप्तिहेत्वभावाद्यथाक्रमं ॥२॥ नारकाः संमूर्छिनश्च प्राणिनो नपुंसकान्येव, स्त्रीपुंससुखसंप्राप्तिकारणरहितत्वात् पूर्वस्मिन् भवे नपुंसकत्वसाधनानुष्ठानात् । देवास्तु न कदाचिन्नपुंसकादि जायंते नपुंसकत्वदुःखाप्तिकारणाभावादिति यथाक्रमं साध्यद्वये हेतुद्वयं प्रत्येयं ।। Page #352 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । शेषाः कियद्वेदा इत्याह ; शेपास्त्रिवेदाः ॥ ५२ ॥ उक्तेभ्यो ये शेषाः गर्भजास्त्रिवेदाः प्रतिपत्तव्याः । कुत इत्याह त्रिवेदाः प्राणिनः शेषास्तेभ्यस्तादृक् सुहेतुतः । इति सूत्रत्रयेणोक्तं लिंगभेदेन देहिनाम् ॥ १ ॥ स्त्रीवेदोदयादिः स्त्रीवेदस्य हेतुः पुंवेदोदयादिः पुंवेदस्य, नपुंसक वेदोदयादिः नपुंसकवेदस्येति । तत एव प्राणिनां स्त्रीलिंगादित्रयसिद्धिरिति भेदेन लिंगं सकलदेहिनां सूत्रत्रयेणोक्तं वेदितव्यं ॥ के पुनरत्र शरीरिणोनपवर्त्यायुषः के वापवर्त्यायुष इत्याह ; औपपादिकचरमोत्तमदेहा संख्येयवर्षायुषोऽनपवर्त्यायुषः ॥ ५३ ॥ औपपादिका देवनारकाः चरमोत्यस्तज्जन्मनिर्वाणार्हस्य देहः उत्तम उत्कृष्टः चरमश्चासौ उत्तमश्च चरमोत्तमश्चरमविशेषणमुत्तमस्याचरमस्य निवृत्त्यर्थं उत्तमग्रहणं चरमस्यानुत्तमत्वव्युदासार्थं । चरमोत्तमो देहो येषां ते चरमोत्तमदेहाः । उपमाप्रमाणगम्य संख्येयवर्षायुर्येषां ते द्वंद्ववृत्त्या निर्दिष्टाः संसारिणोऽनपवर्त्या येषां भवंति इति वचनसामर्थ्यात्ततोन्ये अपवर्त्यायुषो गम्यते ॥ ३४३ कुतः पुनरनपवर्त्यमायुरौपपादिकादीनामित्याह;अत्रौपपादिकादीनां नापवर्त्यं कदाचन । सोमात्तमायुरीदृक्षादृष्टसामर्थ्यसंगतेः ॥ १ ॥ सामर्थ्यतस्ततोन्येषामपवर्त्य विषादिभिः । सिद्धं चिकित्सितादीनामन्यथा निष्फलत्वतः ॥ २ ॥ बाह्यप्रत्ययानपवर्तनीयमायुः कर्म प्राणिदयादिकारण विशेषोपार्जितं तादृशादृष्टं तस्य सामर्थ्य मुदयस्तस्य संगतिः संप्रातिस्ततो भवधारणमौपपादिकादीनामनपवर्त्यमिति सामर्थ्यादन्येषां संसारिणां तद्विपरीतादृष्टविशेषादपवर्त्य जीवनं विषादिभिः सिद्धं, चिकित्सितादीनामन्यथा निष्फलत्वप्रसंगात् । न ह्यप्राप्तकालस्य मरणाभावः खड्गप्रहारादिभिर्मरणस्य दर्शनात् । प्राप्तकालस्यैव तस्य तथा दर्शनमिति चेत्, कः पुनरसौ कालं प्राप्तोपमृत्युकालं वा ? प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे खङ्गप्रहारादिनिरपेक्षत्वप्रसंगः सकलबहिःकारणविशेषनिरेपक्षस्य मृत्युकारणस्य मृत्युकालव्यवस्थितेः । शस्त्रसंपातादिबहिरंगकारणान्वयव्यतिरेकानुविधायिनस्तस्यापमृत्युकालत्वोपपत्तेः । तदभावे पुनरायुर्वेदप्रामाण्यचिकित्सितादीनां क सामर्थ्योपयोगः । दुःखप्रतीकारादाविति चेत्, तथैवापमृत्युप्रतीकारादौ तदुपयोगोस्तु तस्योभयथा दर्शनात् । नन्वायुःक्षयनिमित्तोपमृत्युः कथं केनचित्प्रतिक्रियते, तर्ह्यसद्वेद्योदयनिमित्तं दुःखं कथं केनचित्प्रतिक्रियतां? सत्यप्यसद्वेद्योदयेन्तरंगे हेतौ दुःखं बहिरंगे वातादिविकारे तत्प्रतिपक्षौषधोपयोगोपनीते दुःखस्यानुत्पत्तेः प्रतीकारः स्यादिति चेत्, तर्हि सत्यपि कस्यचिदायुरुदयेंत रंगे हेतौ बहिरंगे पथ्याहारादौ विच्छिन्ने जीवनस्याभावे प्रसक्ते तत्संपादनाय जीवनाधानमेवापमृत्योरस्तु प्रतीकारः । सत्यप्यायुषि जीवनस्याभावप्रसक्तौ कृतप्रणाशः स्यात् इति चेत्, तर्हि सत्यप्यसद्वेद्योदये दुःखस्योपशमने कथं कृतप्रणाशो न भवेत् ? कटुकादिभेषजोपयोगजपीडामात्रं स्वफलं दत्वैवासद्वेद्यस्य निवृत्तेर्न कृतप्रणाश इति चेत्, तर्ह्यायुषोपि जीवनमात्रं स्वफलं दत्त्वैव निवृत्तेः कृतप्रणाशो मा भूत् विशिष्टफलदानाभावस्तूभयत्र समानः । ततोस्ति कस्यचिदपमृत्युश्चिकित्सितादीनां सफलान्यथानुपपत्तेः कर्मणामयथाकालविपाकोपपत्तेश्चाम्रफलादिवत् । यश्वाह, विवादापन्नाः प्राणिनः सापवर्त्यायुषः शरीरित्यादिंद्रियवत्वाद्वा प्रसिद्धसापवर्त्यायुष्कप्राणिवत् ते वानपवर्त्यायुषस्तत एवोपपादिकवदिति, सोपि न युक्तवादी - युपदर्शयति - Page #353 -------------------------------------------------------------------------- ________________ ३४४ तत्त्वार्थश्लोकवार्तिके [ सू० ५३ तदन्यतरदृष्टत्वाच्छरीरित्वादिहेतुभिः । सर्वेषामपवर्त्य तन्नापवर्त्यमितीरयन् ॥३॥ प्रबाध्यते प्रमाणेन खेष्टभेदाप्रसिद्धितः । सर्वज्ञादिविरोधाच मानमेयाव्यवस्थितेः ॥४॥ न ह्यपवर्त्यानपवर्त्ययोरायुषोरन्यतरस्यापि प्रतिक्षेपं कुर्वन् प्रमाणेन न बाध्यते, अनुमानेनागमेन च तस्य बाधनात् स्खेष्टभेदप्रसिद्ध्या चायं प्रबाध्यते । खयमिष्टं हि केषांचित्प्राणिनामल्पमायुः केषांचिद्दीर्घ तत्र शक्यं वक्तुं । विवादापन्नाः प्राणिनोल्पायुषः शरीरित्वात् प्रसिद्धाल्पायुष्कवत् ते वा दीर्घायुषस्तत एव । प्रसिद्धदीर्घायुष्कवदिति खेष्टविभागसिद्धिः प्रबाधका सर्वज्ञादिविरोधाच्चासौ बाध्यते । तथा विवादापन्नः पुरुषः सर्वज्ञो वीतरागो वा न भवति शरीरित्वादन्यपुरुषवत् वेदार्थज्ञो वा न भवति जैमिन्यादिस्तत एव तद्वत् विपर्ययप्रसंगो वेति प्रत्यवस्थानस्य कर्तुं शक्यत्वात् प्रमाणप्रमेयाव्यवस्थानाच्चायं बाध्यते । शक्यं हि वक्तुं विवादाध्यासितः प्रमाता प्रमाणरहितः शरीरित्वात् सन्निपाताद्याकुलवत् प्रमेयस्य वा न परिच्छेत्ता तत एव तद्वदिति । ततः प्रमाणप्रमेयव्यवस्थितिं कुतश्चित्वीकुर्वत् सर्वज्ञादिव्यवस्थिति खेष्टविभागसिद्धिं वा नानपवर्त्यस्येतरस्य वायुषः प्रतिक्षेपं कर्तुमर्हति तस्य प्रतीतिसिद्धत्वादिति दर्शयति;इह सति बहिरंगे कारणे केपि मृत्योर्न मृतिमनुभवंति स्वायुषो हान्यभावे । ज्वलितहुतभुगंतःपातिनां पंचतापि प्रतिनियततनुनों जीवितस्यापि दृष्टेः ॥५॥ तदेवं युक्त्यागमाभ्यामविरुद्धोनपवत्र्येतरायुर्विभागः सूक्त एव ॥ खं तत्त्वं लक्षणं भेदः कारणं विषयो गतिः । जन्मयोनिर्वपुर्लिंगमहीनायुरिहोदितम् ॥ १॥ इति श्रीविद्यानंदि आचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालङ्कारे द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ PROVia JA Page #354 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः ॥३॥ रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनांबुवाताका शप्रतिष्ठाः सप्ताधोऽधः॥१॥ रत्नादीनामितरेतरयोगे द्वंद्वः, प्रभाशब्दस्य प्रत्येकं परिसमाप्ति(जिवत् । साहचर्यात्ताच्छब्दयसिद्धिर्यष्टिवत् । तमःप्रभेति विरुद्धमिति चेन्न, तत्स्वात्मप्रभोपपत्तेः । अनादिपारिणामिकसंज्ञानिर्देशाद्वेष्टगोपवत् रत्नप्रभादिसंज्ञाः प्रत्येतव्याः । रूढिशब्दानामगमकत्वमवयवार्थाभावादिति चेन्न, सूत्रस्य प्रतिपादनोपायत्वात्तेषामपि गमकत्वोपपत्तेः । भूमिग्रहणमधिकरणविशेषप्रतिपत्त्यथै, घनादिग्रहणं तदालंबननिर्जानार्थ, सप्तग्रहणमियत्तावधारणार्थ । सामीप्याभावादधोध इति द्वित्वानुपपत्तिरिति चेन्न, अंतरस्यापि विवक्षितत्वात् ॥ कुतः पुनरेताः संभाव्यंत इत्याह; घनांबुपवनाकाशप्रतिष्ठाः सप्तभूमयः । रत्नप्रभादयोऽधोधः संभाव्या बाधकच्युतेः ॥१॥ नहि यथोदितरत्नप्रभादिभूमिप्रतिपादकवचनस्य किंचिद्बाधकं कदाचित्संभाव्यते इति निरूपितप्रायं ॥ नन्वेता भूमयो घनानिलप्रतिष्ठाः घनानिलस्त्वंबुवातप्रतिष्ठः सोपि तनुवातप्रतिष्ठस्तनुवातः पुनराकाशप्रतिष्ठः खात्मप्रतिष्ठमाकाशमित्येतदनुपपन्नं, व्योमवद्भूमीनामपि खात्मप्रतिष्ठत्वप्रसंगात् भूम्यादिवद्वाकाशस्याधारांतरकल्पनायामनवस्थाप्रसंगात् । ततो नात्र बाधकच्युतिरिति कश्चित्तं प्रत्याह;स्वात्मप्रतिष्ठमाकाशं विभुद्रव्यत्वतोन्यथा । घटादेरिव नैवोपपद्येत विभुतास्य सा ॥२॥ परममहदन्यत्प्रतिष्ठं वेति व्याहतमेतत् । ततो व्योम चात्मप्रतिष्ठं विभुद्रव्यत्वायत्तु न खात्मप्र. तिष्ठं तन्न विभु द्रव्यं यथा घटादि विभु द्रव्यं च व्योमेति न तस्याप्याधारांतरकल्पनयानवस्था स्यात् । नापि भूम्यादीनामपि स्वप्रतिष्ठत्वप्रसंगस्तेषामविभुद्रव्यत्वादिति न प्रकृतबाधकत्वं ॥ ननु कथमिदानी व्योम तनुवातस्याधिकरणममूर्तत्वात्तत्प्रतिबंधकत्वाभावादित्यपरस्तं प्रत्याह;तनुवातः पुनर्योमप्रतिष्ठः प्रतिपद्यते । तनुवातविशेषत्वान्मेषधारणवायुवत् ॥३॥ मेघधारणो वातावयवी वायुरंबुप्रतिष्ठ इति चेन्न, अनंतशः पवनपरमाणूनां पवनावयत्वात् तेषां वाकाशप्रतिष्ठत्वादभिन्नस्य कथंचित्पवनावयविनोपि तदाधारत्वोपपत्तेर्न साध्यविकलमुदाहरणं, नापि संदिग्धविपक्षव्यावृत्तिको हेतुः, कस्यचिदप्यनाकाशाधारस्य तनुवातस्यासंभवात् । ततः तस्यामूर्तस्यापि पवनाधारत्वमुपपन्नं आत्मनः शरीराद्याधारत्ववत् तथा प्रतीतेरबाधितत्वात् ।। तनुवातः कथमंबुवातस्याधिकरणं समीरणखभावत्वादिति चेदुच्यतेतद्धृतश्चांबुवातः स्याद्धनात्मार्थस्य धारकः । अंबुवातत्वतो वार्द्धर्वीचीवायुविशेषवत् ॥ ४ ॥ स च तनुवातप्रतिष्ठोंबुवातो धनवातस्य स्थितिहेतुः सोपि भूमेन पुनः कूर्मादिरित्यावेदयति;घनानिलं प्रतिष्ठानहेतुः कूर्मः स एष नः । न कूर्मादिरनाधारो दृष्टकूर्मादिवत्सदा ॥५॥ तनिवासजनादृष्टविशेषे वसतो यदि । कूर्मादिराश्रयः किं न वायुदृष्टांतसारतः ॥६॥ Page #355 -------------------------------------------------------------------------- ________________ ३४६ तत्त्वार्थश्लोकवार्तिके सोयं कूर्म वराहं वा स्वयमनाधारं भूमेराश्रयं कल्पयन् दृष्टहान्या निर्धार्यते ॥ कश्विदाह-न स्थिरा भूमिर्दर्पणाकारा । किं तर्हि ? गोलकाकारा सर्वदोर्ध्वाधो भ्राम्यति, स्थिरं तु नक्षत्रचक्रं मेरोः प्रादक्षिण्येनावस्थानात् । तत एव पूर्वादिदिग्देशभेदेन नक्षत्रादीनां संप्रत्ययो न विरुध्यते । तथोदयास्तमनयोश्चंद्रादीनां भूमिसंलग्नतया प्रतीतिश्च घटते नान्यथेति, तं प्रति बाधकमुपदर्शयतिनोभ्रमणं भूमेर्घटते गोलकात्मनः । सदा तथैव तद्भांतिहेतोरनुपपत्तितः ॥ ७ ॥ I वायुरेवोर्ध्वाधो भ्रमन्सर्वदा भूमेस्तथा भ्रमणहेतुरिति न संगतं प्रमाणाभावात् । आगमः प्रमाणमिति चेन्न, तस्यानुग्राहकप्रमाणांतराभावात् । तस्यानुमानमनुग्राहक मस्तीति चेन्न, अविनाभाविलिंगाभावात् । ननु च यत्पुरुषप्रयत्नाद्यभावेपि भ्राम्यति तमद्वायुहेतुकं भ्रमणं यथाकाशे पर्णादि तथा च भूगोल इत्यविनाभावि लिंगमनुमानं पुरुषप्रयत्नकृतचक्रादिभ्रमणेन पाषाणादिसंघट्टकृतनदीजलादिभ्रमणेन च व्यभिचाराभावात् । न च पुरुषप्रयत्नाद्यभावोऽसिद्धः पृथिवीगोलक भ्रमणे महेश्वरादेः कारणस्य निराकरणात् । पाषाणसंघट्टादिसंभवाभावात् भूगोल भ्रमणमसिद्धं इति न मंतव्यं तदभावे तत्स्थजनानां चंद्रार्कादिबिंबस्यो - दयास्तमनयोर्भिन्नदेशादितया प्रतीतेरघटनात् । सास्ति च प्रतीतिस्ततो भूगोलभ्रमः प्रमाणसिद्ध इि कश्चित् । सोत्रैव पर्यनुयोक्तव्यः । भ्रमः कस्मान्न भवतीति तदावेदिनः प्रवचनस्य सद्भावात् । प्रतिनियतानेकदेशादितयार्कादीनां प्रतीतेरपि घटनात् भूभ्रमणहेतोर्विरुद्धत्वोपपत्तेः । भूगोल भ्रमणे साधनस्यानुमानादिबाधितपक्षतानुषंगात् । कारणाभावात् भूभ्रमोवतिष्ठत इति चेत्, तथाविधादृष्टवैचित्र्यात्तद्भमणोपपत्तेः ॥ भूगोल भ्रमणे तु वायुभ्रमणं न कारणं भवितुमर्हति सर्वदा तस्य तथा भ्रमणनियमानुपपत्तेरनियतगतित्वात् । ततो नाभिप्रेतदिगभिमुखं भ्रमणं भूगोलस्य स्यात् । प्राण्यदृष्टवशाद्वायोर्नियतं तथा भ्रमणमिति चेन्न, तत्कार्यासिद्धौ तदसिद्धेः । प्रसिद्धे हि सुखादिकार्ये निर्विवादे दृष्टकारणव्यभिचारे चादृष्टतत्कारणमनुमीयते न चाभिप्रेतवायुभ्रमणं निर्विवाद सिद्धं यतो न दृष्टकारणव्यभिचारे तत्कारणमदृष्टमनुमीयेत । भूभ्रमात् प्रवहद्वायुसिद्धिरिति चेन्न, तस्यापि तद्वदसिद्धेः । नानादिग्देशादितयार्कादिप्रतीतिस्तु भूभ्रमेपि घटमाना न भूभ्रमं साधयतीति । कथं ? अनुमितानुमानादप्यदृष्टविशेषसिद्धिरिति सूक्तं न भूमेरूर्ध्वाधोभ्रमणं वदेकानुभवं संपरिवृत्तिर्वा घटते तद्रमणहेतोः पराभ्युपगतस्य सर्वथानुपपद्यमानत्वात् परेष्टभूभ्रमादिवदिति । तथा दृष्टव्याघाताच्च न सोस्तीत्याह ; .... दृश्यमानसमुद्रादिजलस्थितिविरोधतः । गोले भ्रम्यति पाषाणगोलवत्क विशेषवा ॥ ८ ॥ न हि जलादेः पतनधर्मणो भूयसो भ्राम्यति पाषाणगोले स्थितिर्दृष्टा यतो भूगोलेपि सा संभाव्येत । धारकवायुवशात्तत्र तस्य स्थितिर्न विरुध्यत इति चेत्, स धारको वायुः कथं प्रेरकवायुना न प्रतिहन्यते ? प्रवहतो हि सर्वदा भूगोलं च भ्रमयत्समंततोपि तत्स्थसमुद्रादिधारकवायुं विघटयत्येवमेव धारकवायुमिव तव्प्रतिपक्षवात इति विरुद्वैव तदवस्थितिः, सर्वथा विशेषपवनस्यासंभवात् । अत्र पराकूतमाशंक्य प्रतिषेधयति ; [सू० १ गुर्वर्थस्याभिमुख्येन भूमेः सर्वस्य पाततः । तत्स्थितिश्चेत् प्रतीयेत नाधस्तात्पातदृष्टितः ॥ ९ ॥ भूगोले भ्राम्यति तदपि समुद्रजलादि स्थितमिव भाति तस्य तदाभिमुख्येन पतनात् । सर्वस्य गुरोरर्थस्य भूमेरनभिमुखतया पतनादर्शनादिति चेन्नैवं, अधस्तात् गुर्वर्थस्य पातदर्शनात्, तथाभितोभिघाताद्यभावे स्वस्थानात् प्रच्युतोधस्तात्पतति गुरुत्वाल्लोष्ठादिवत् । न हि तत्राभिघातो नोदनं वा पुरुषयलादिकृतमस्ति येनान्यथागतिः स्यात् । न चात्र हेतोः कंदुकादिना व्यभिचारः, अभिघाताद्यभावे सतीति Page #356 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ३४७ विशेषणात् । नापि साध्यसाधनविकलो दृष्टांतः साधनस्य गुरुत्वस्य यथोक्तविशेषणस्य साध्यस्य वाधस्तात्पतनस्य लोष्ठादौ प्रसिद्धत्वात् । तन्न भूभ्रमवादी सत्यवागू/धोभूभ्रमवादिवत् । किं च भूभ्रमागमसत्यत्वेऽभूभ्रमागमसत्यता । किं न स्यात्सर्वथा ज्योतिर्ज्ञानसिद्धेरभेदतः ॥१०॥ द्वयोः सत्यत्वमिष्टं चेत्काविरुद्धार्थता तयोः । प्रवक्रोराप्तता नैवं सुगतेश्वरयोरिव ॥११॥ मतांतरमुपदर्य निवारयन्नाह;सर्वदाधः पतन्त्येताः भूमयो मरुतोऽस्थितेः । ईरणात्मत्वतो दृष्टप्रभंजनवदित्यसत् ॥ १२ ॥ मरुतो धारकस्यापि दर्शनात्तोयदादिषु । सर्वदा धारकत्वस्थानादित्वात्तत्र न क्षतिः ॥१३॥ न हि भूम्याधारो वायुरनवस्थितस्तस्येरणात्मत्वाभावात् । तच्चासंभवन्नायमीरणात्मकत्वरहितो मरुत्तोयदादिधारणात्मकस्यापि दर्शनात् । सर्वदा धारकत्वं न दृष्टं इति चेत् , सादेरनादेर्वा ? सादेश्वेत् सिद्धसाध्यता । यदि पुनरनादेरपि सर्वदाधारकत्वं पवनस्य न स्यात्तदात्माकाशादेरप्यमूर्तत्वविभुत्वादिधर्मधारणविरोधः । अत्राधाराधेययोरनादित्वात्सर्वदा तद्भाव इति चेत् , भूमिमवभृतोरपि तत एव तथा सोस्तु । तन्न सर्वदाधः पतंति भूमयः प्रमाणाभावात् । एतेन सर्वदोत्पतंत्येव तिर्यगेव गच्छंतीति वा निरस्तं, धारकस्य वायोरबाधितस्य सिद्धेस्तदवस्थानाविरोधात् । कश्चिदाह-विवादापन्ना भूमिभूम्यंतराधारा भूमित्वात्तथा प्रसिद्धभूमिवत् । साप्यपरा भूमिभूम्यंतराधारा भूमित्वात्तथा प्रसिद्धभूमिवत् साप्यपरा भूमिभूम्यंतराधारा तत एव तद्वदिति शश्वदपर्यंता तिर्यगधोपीति तं प्रत्याह; नापर्यता धराधोपि सिद्धा संस्थानभेदतः । धरवत्स्वमपर्यंतं सिद्धं संस्थानवन्न हि ॥ १४ ॥ धरः पर्वतः संस्थानवान् दृष्टो यः पुनरपर्यंतः स न संस्थानवान् यथाकाशादिरिति विपक्षाब्यावृत्तो हेतुः पर्यंतवत्तां धरायाः साधयत्येव । यत्पुनरभ्यधायि-विवादापन्ना धरा धराधारा धरात्वात्प्रसिद्धधरावदिति । तदयुक्तं, हेतोरादित्यधरादिनानेकांतात् न हि तस्या धरांतराधारत्वं सिद्धमंतरात्माभावप्रसंगात् । ततः पर्यंतवत्यो भूमय इति निरारेकं प्रतिपत्तव्यं । ननु चाधोधः सप्तसु भूमिषु जीवस्य गतिवैचित्र्यं विरुद्धं ततो अमीभ्यः शून्याभिस्ताभिर्भवितव्यं । तथा च तत्कल्पनावैयर्थ्य जीवाधिकरणविशेषप्ररूपणार्था हि तत्परिकल्पना श्रेयसी नान्यथेति वदंतं प्रत्याहनाधोधो गतिवैचित्र्यं विरुद्ध प्राणिनामिह । तादृक् पापस्य वैचित्र्यात्तन्निमित्तस्य तत्त्वतः॥ १५ प्रसिद्धं हि तावदशुभफलं कर्म पापं तस्य प्रकर्षतारतम्यं तत्फलस्य प्रकर्षतारतम्यादिति प्राणिनां रत्नप्रभादिनरकभूमिसमुद्भतिनिमित्तभूतस्य पापविशेषस्य वैचित्र्यात्तद्गतिवैचित्र्यं न विरुध्यते तिर्यगादिगतिवैचित्र्यवत् ॥ यत एवंततः सप्तेति संख्यानं भूमीनां न विरुद्ध्यते । संख्यांतरं च संक्षेपविस्तरादिवशान्मतं ॥१६।। न हि संक्षेपादेकाधोभूमिरिति विरुध्यते विस्तरतो वा सैकविंशतिभेदा सप्तानां प्रत्येकं जघन्यमध्यमोत्कृष्टविकल्पात् ॥ तद्गतनरकसंख्याविशेषप्रदर्शनार्थमाह;तासु त्रिंशत्पंचविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच __ चैव यथाक्रमम् ॥२॥ त्रिंशच्च पंचविंशतिश्च पंचदश च दश च त्रयश्च पचोनैकं चेति द्वंद्वः, नरकाणां शतसहस्राणि नर Page #357 -------------------------------------------------------------------------- ________________ ३४८ तत्त्वार्थश्लोकवार्तिके [सू०४ कशतसहस्राणि च तानीति खपदार्था वृत्तिः, ताखिति रत्नप्रभादिभूमिपरामर्शः, यथाक्रमवचनं यथासंख्याभिसंबंधार्थ । तेन रत्नप्रभायां त्रिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पंचविंशतिः, बालुकाप्रभायां पंचदश, पंकप्रभायां दश, धूमप्रभायां त्रीणि, तमःप्रभायां पंचोनैकं नरकशतसहस्रं, महातमःप्रभायां पंचनरकाणि भवंतीति विज्ञायते । कुतः पुनस्त्रिंशल्लक्षादिसंख्या रत्नप्रभादिषु सिद्धेत्याह; त्रिंशल्लक्षादिसंख्या च नरकाणां सुसूत्रिता । रत्नप्रभादिषूक्तासु प्राण्यदृष्टविशेषतः॥१॥ । तादृशाः प्राणिनां तन्निवासिनामदृष्टविशेषाः पूर्वोपात्ताः संभाव्यते यतस्तासु त्रिंशल्लक्षादिसंख्या नरकाणां रत्नप्रभादिसंख्या च सिध्यतीति शोभनं सूत्रिता सा ॥ इति सूत्रद्वयेनाधोलोकावासविनिश्चयः । श्रेयान् सर्वविदायातस्याम्नायस्याविलोपतः ॥२॥ न हि सर्वविदायातत्वमेतदाम्नायस्यासिद्धं बाधकाभावात् स्वर्गाद्यान्नायवत् , प्राक् चिंतितं चागमस्य प्रामाण्यमिति नेह प्रतन्यते ॥ कीदृशलेश्यादयस्तत्र प्राणिनो वसंतीत्याह; नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३॥ लेश्यादिशब्दा उक्तार्थाः । तिर्यग्व्यपेक्षयातिशयनिर्देशः पूर्वोपेक्षो वाधोगतानां । नित्यग्रहणाल्लेश्याद्यनिवृत्तिप्रसंग इति चेन्न, आभीक्ष्ण्यवचनत्वान्नित्यशब्दस्य नित्यप्रहसितवत् ॥ के पुनरेवं विशेष्यमाणा नारकाणामित्याह;तिर्यंचोऽशुभलेश्याद्यास्तेभ्योप्यतिशयेन ये । प्राणिनोऽशुभलेश्याद्याः केचित्ते तत्र नारकाः॥१॥ तिर्यचस्तावदशुभलेश्याः केचित्प्रसिद्धास्ततोप्यतिशयेनाशुभलेश्याः प्राणिनो नारकाः संभाव्यंते अशु. भतरलेश्याः, प्रथमायां भूमौ एवमशुभतरपरिणामादयोपीति प्रसिद्धा एव प्रतिपादितविशेषाधारी नारकाः, ततोप्यतिशयेनाशुभलेश्यादयो द्वितीयायां, ततोपि तृतीयायां, ततोपि चतुर्थी, ततोपि पंचम्यां, ततोपि षष्ठ्यां, ततोपि सप्तम्यामिति । कथं पुनरेतदशुभत्वतारतम्यं सिद्धमित्याह;संक्लेशतारतम्येनाशुभतातारतम्यता । सिद्ध्येदशुभलेश्यादितारतम्यमशेषतः ॥२॥ संक्लेशो जीवस्याविशुद्धिपरिणामो मिथ्यादर्शनादिस्तस्य तारतम्यादशुभत्वतारतम्यमशेषतोपि लेश्यादीमां सिद्ध्येदिति न तदहेतुकं यतोतिप्रसज्येत ॥ __ ननु चैकांतिकदुःखयोगिनो नारकाः सुखदुःखयोगिनां तिर्यङ्मनुष्यवचनात् , ऐकांतिकशरीरसुखयोगिनां देवत्वाभिधानात् । तत्र किमुदीरितदुःखास्ते नारका इत्याह; परस्परोदीरितदुःखाः ॥४॥ ननु च कोपोत्पत्तौ सत्यां परस्परं दुःखोदीरणं दृष्टं नान्यथा न च तेषां तदुत्पत्तौ कारणमस्ति न चाकारणिका सातिप्रसंगादिति चेन्न, निर्दयत्वात्तेषां परस्परदर्शने सति कोपोत्पत्तेः श्ववत् । सत्यंतरंगे क्रोधकर्मोदये बहिरंगे च परस्परदर्शने तेषां कोपोत्पत्ति हेतुका यतोतिप्रसंगः स्यादिति ॥ तथा तैर्नारकैर्दुःखं परस्परसुदीर्यते । रौद्रध्यानात्समुद्भूतेः कुधेर्मेषादिभिर्यथा ॥१॥ निमित्तहेतवस्त्वेतेऽन्योन्यं दुःखसमुद्भवे । बहिरंगास्तथाभूते सति स्वकृतकर्मणि ॥२॥ ततो नेदं परस्परोदीरितदुःखत्वं नारकाणामसंभाव्यं युक्तिमत्त्वात् ॥ Page #358 -------------------------------------------------------------------------- ________________ • अन्योदीरितदुःखाश्च ते इत्याह ; तृतीयोऽध्यायः । संक्लिष्टासु रोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥ पूर्वभवसंक्लेशपरिणामोपात्ताशुभकर्मोदयात् सततं क्लिष्टाः संक्लिष्टा असुरनामकर्मोदयादसुराः संक्लिष्टाश्च तेऽसुराश्चेति । संक्लिष्टविशेषणमन्यासुरनिवृत्त्यर्थं, असुराणां गतिविषयनियमप्रदर्शनार्थं प्राक् चतुर्थ्या इति वचनं । आङो ग्रहणं लध्वर्थमिति चेन्न, संदेहात् । चशब्दः पूर्वहेतुसमुच्चयार्थः । अनंतरत्वादुदीरितग्रहणस्येहानर्थक्यमिति चेन्न, तस्य वृत्तौ परार्थत्वात् । वाक्येऽवचनमिति चेन्न, उदीरणहेतुप्रकारप्रदर्शनार्थत्वात् पुनरुदीरितग्रहणस्य । तेन कुंभीपाकाद्युदीरितदुःखाश्चेति प्रतिपादितं भवति ॥ ३४९ कथं पुनः संक्लिष्टैरसुरैर्दुःखं नारकाणामुदीर्यते । मेषादीनां यथा तारूपैस्तिषु भूमिषु ॥ १॥ परासु गमनाभावात्तेषां तद्वासिदेहिनां । दुःखोत्पत्तौ निमित्तत्वमसुराणां न विद्यते ॥ २ ॥ एवं सूत्रत्रयोनीतस्वभावा नारकांगिनः । स्वकर्मवशतः संति प्रमाणनयगोचराः ॥ ३ ॥ प्रमाणं परमागमः स्याद्वादस्तद्विषयास्तावद्यथोन्नीता नारका जीवाः साकल्येन तेषां ततः प्रतिपत्तेः नयविषयाश्च विप्रतिपत्तिसमाक्रांतैकदेशप्रतिपत्तेरन्यथानुपपत्तेरिति प्रमाणनयैरधिगमो नानानारकाणामूह्यः ॥ अथ रत्नप्रभादिनरकेषु त्रिंशल्लक्षादिसंख्येषु यथाक्रमं स्थितिविशेषप्रतिपत्त्यर्थमाह; - तेष्वेक त्रिसप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ सागर उपमा येषां तानि सागरोपमाणि, सागरस्योपमात्वं द्रव्यभूयस्त्वात् । एकत्रिसप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमाणि यस्या सा तथेत्येकादीनां कृतद्वन्द्वानां सागरोपमविशेषणत्वं । रत्नप्रभादिभिरानुपूर्व्येण संबंधो यथाक्रमानुवृत्तेः । नरकप्रसंगस्तेष्विति वचनादिति चेन्न, रत्नप्रभाद्युपलक्षितानि नरकाणि त्रिंशच्छतसहस्रादिसंख्यानि तेष्वित्यनेन परामृश्यते, साहचर्याद्वा ताच्छन्द्यात्सिद्धिः । ततो यथोक्तसंख्यनरकसाहचर्यादलप्रभादयो नरकशब्दवाच्याः प्रतीयते । यद्येवं रत्नप्रभादिष्वधिकरणभूतासु नरकाणां स्थितिः प्रसक्तेति चेत्, सत्त्वानामिति वचनात् । परोत्कृष्टा न पुनरिष्टा परशब्दस्येष्टवाचकस्येहाग्रहणात् ॥ कुतः सोत्कृष्टा स्थितिः सत्त्वानां प्रसिद्धेत्याह;; नरकेषूदितैकादिसागरोपमसम्मितः । स्थितिरस्त्यत्र सत्त्वानां सद्भावात्तादृगायुषः ॥ १ ॥ संक्षेपादिपरा त्वग्रे वक्ष्यमाणा तु मध्यमा । सामर्थ्याद्बहुधा प्रोक्ता निर्णेतव्या यथाक्रमं ॥ २ ॥ परा स्थितिरस्ति प्राणिनां परमायुष्कत्वान्यथानुपपत्तेः । परमायुष्कत्वं पुनः केषांचित्तद्धेतुपरिणामविशेषात्स्वोपात्ताद्भवन्न वाच्यते मनुष्यतिरश्चामायुः प्रकर्षप्रसिद्धेः । तत्र रत्नप्रभायां नरकेषु सत्त्वानां परास्थितिरेकसागरोपमप्रमिताः, शर्कराप्रभायां त्रिसागरोपमप्रमिताः, बालुकाप्रभायां सप्तसागरोपमप्रमिताः, पंकप्रभायां दशसागरोपमप्रमिताः, धूमप्रभायां सप्तदशसागरोपमप्रमिताः, तमः प्रभायां द्वाविंशतिसागरोपमप्रमिताः, महातमः प्रभायां त्रयस्त्रिंशत्सागरोपमप्रमिता इति वचनसामर्थ्यान्मध्यमा स्थितिरनेकधा यथागमं निर्णीयते । जघन्यायाः स्थितेस्त्वत्र संक्षेपाद्वक्ष्यमाणत्वादित्यलं प्रपंचेन ॥ ss प्रपंचेन विचिंतनीयं शरीरिणोधोगतिभाजनस्य । स्वतत्त्वमाचारविशेषशिष्टं बुधैः स्वसंवेगविरक्तिसिद्ध्यै ॥ २ ॥ इति तृतीयाध्यायस्य प्रथममाह्निकं समाप्तं । Page #359 -------------------------------------------------------------------------- ________________ ३५० तत्त्वार्थश्लोकवार्तिके [सू० १० जंबूदीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ प्रतिविशिष्टजंबूवृक्षासाधारणाधिकरणाजंबूद्वीपः, लवणोदकानुयोगाल्लवणोदः । आदिशब्दः प्रत्येकमभिसंबध्यते तेन जंबूद्वीपादयो द्वीपा लवणोदादयः समुद्रा इति संप्रत्ययः । शुभनामान इति वचनादशुभनामत्वनिरासः ॥ किंविष्कंभाः किंपरिक्षेपिणः किमाकृतयश्च ते इत्याह; दिर्दिर्विष्कंभाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः॥८॥ द्विििरति वीप्साभ्यावृत्तेर्वचनं विष्कंभद्विगुणत्वव्याप्त्यर्थ, पूर्वपूर्वपरिक्षेपिण इति वचनादनिष्टनिवेशनिवृत्तिः, वलयाकृतय इतिवचनाच्चतुरस्रादिसंस्थाननिवृत्तिः । जंबूद्वीपस्य द्विर्विष्कंभत्वपूर्वपरिक्षेपित्ववलयाकृतित्वाभावादव्यापीनि विशेषणानीति चेत् न, जंबूद्वीपस्यैतदपवादलक्षणस्य वक्ष्यमाणत्वात् 'तन्मध्ये' इत्यादि सूत्रस्यानंतरस्य सद्भावात् ॥ क पुनरिमे द्वीपसमुद्रा इत्याह;सप्ताधो भूमयो यसान्मध्यलोको बलाद्गतः । तत्र द्वीपसमुद्राः स्युः सूत्रद्वितयवर्णिता ॥१॥ ऊर्ध्वाधोलोकवचनसामर्थ्यान्मध्यलोकस्तावद्गत एव यस्मादधोरत्नप्रभायाः सप्तभूमयः प्रतिपादितास्तस्मिन् मध्यलोके द्वीपसमुद्राः संक्षेपादभिहिताः सूत्रद्वयेन प्रपंचतोसंख्येयास्ते यथागमं प्रतिपत्तव्याः ॥ व पुनरयं जंबूद्वीपः कीदृशश्चेत्याह; तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कंभो जंबूदीपः॥ ९॥ तच्छब्दः पूर्वद्वीपसमुद्रनिर्देशार्थः । जंबूद्वीपस्य निर्देशप्रसंगः पूर्वोक्तत्वाद्विशेषादितिचेत् , तस्य प्रतिनियतदेशादितया प्रतिपाद्यत्वात् तत्परिक्षेपिणामेव परामर्शोपपत्तेः । तर्हि पूर्वोक्तसमुद्रद्वीपनिर्देशार्थस्तच्छब्द इति वक्तव्यं जंबूद्वीपपरिक्षेपिणां समुद्रादित्वादिति चेन्न, स्थितिक्रमस्याविवक्षायां पूर्वोक्तद्वीपसमुद्रनिर्देशार्थ इति वचनाविरोधात् , यत्र कुत्रचिदवस्थितानां द्वीपानां समुद्राणां च विवक्षितत्वात् । द्वीपशब्दस्यात्माकरत्वाच्च द्वंद्वे पूर्ववचनेपि समुद्रादय एवार्थान्न्यायात् परामृश्यते । तत इदमुक्तं भवति तेषां समुद्रादीनां मध्यं तन्मध्यं तस्मिन् जंबूद्वीपः । स च मेरुनाभिरुपचरितमध्यदेशस्य मेरुत्वात् । वृत्तो न चतुरस्रादिसंस्थानः । तत्परिक्षेपिणां वलयाकृतिवचनादेव तस्य वृत्तत्वं सिद्धमिति चेन्न, चतुरस्रादिपरिक्षेपिणामपि वलयाकृतित्वाविरोधात् । योजनशतसहस्रविष्कंभ इति वचनात् तद्विगुणद्विगु. णविष्कंभादिनिर्णयः शेषसमुद्रादीनां कृतो भवति । एवं च तन्मध्ये मेरुनाभिः स्याजंबूद्वीपो यथोदितः । सूत्रेणैकेन निःशेषकुमतानां व्यपोहनात् ॥१॥ __ सकलसर्वथैकांतनिराकरणे हि न्यायबलाद्विहिते स्याद्वाद एव व्यवतिष्ठते परमागमः, स च यथोदितजंबूद्वीपप्रकाशक इति भवेदेवं सूत्रितो जंबूद्वीपः सर्वथा बाधकाभावात् अत्र ॥ तत्र कानि क्षेत्राणीत्याह; भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ भरतक्षत्रिययोगाद्भरतो वर्षः अनादिसंज्ञासंबंधत्वाद्वा आदिमदनादिरूपतोपपत्तेः । स च हिमवत्समुद्रत्रयमध्ये ज्ञेयः । तत्र पंचाशद्योजनविस्तारस्तदर्घोत्सेधः षड्योजनावगाहो रजताद्रिर्विजया?न्वर्थः सक Page #360 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। ३५१ लचक्रधरविजयस्यार्घसीमात्मकत्वात् । हिमवतोऽदूरभवः सोस्मिन्नस्तीति वा हैमवतः स च क्षुद्रहिमवन्महाहिमवतोर्मध्ये, तन्मध्ये शब्दवान् वृत्तवेदाढ्यः । हरिवर्णमनुष्ययोगाद्धरिवर्षः स निषधमहाहिमवतोर्मध्ये विकृतवान् वेदाढ्यः । विदेहयोगाजनपदेपि विदेहव्यपदेशः निषधनीलवतोरंतरे तत्संनिवेशः । स चतुर्विधः पूर्वविदेहादिभेदात् । रमणीयदेशयोगाद्रम्यकाभिधानं नीलरुक्मिणोरंतराले तत्संनिवेशः • तन्मध्ये गंधवान् वृत्तवेदाब्यः । हिरण्यवतोऽदूरभवत्वाद्धैरण्यवतव्यपदेशः रुक्मिशिखरिणोरंतरे तद्विस्तारः तन्मध्ये माल्यवान् वृत्तवेदाढ्यः । ऐरावतक्षत्रिययोगादैरावताभिधानं शिखरिसमुद्रत्रयांते तद्विन्यासः, तन्मध्ये पूर्ववद्विजयाधः॥ किमर्थं पुनर्भरतादीनि क्षेत्राणि सप्तोक्तानीत्याह;क्षेत्राणि भरतादीनि सप्त तत्रापरेण तु । सूत्रेणोक्तानि तत्संख्या हंतुं तीर्थककल्पिताम् ॥ १॥ कुतः पुनस्तीर्थककल्पिता क्षेत्रसंख्यानेन प्रतिहन्यते वचनस्याविशेषात् स्याद्वादाश्रयत्वादेतद्वचनस्य प्रमाणत्वोपपत्तेः संवादकत्वात्सर्वथा बाधवैधुर्यात्सर्वथैकांतवादिवचनस्य तेन प्रतिघातसिद्धेरिति निरूपितप्रायं ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिख रिणो वर्षधरपर्वताः ॥ ११ ॥ हिमाभिसंबंधतो हिमवयपदेशः भरतहैमवतयोः सीमनि स्थितः, महाहिमवन्निति चोक्तं हैमवतहरिवर्पयोर्भागकरः, निषीदंति तस्मिन्निति निषधो हरिविदेहयोमर्यादाहेतुः, नीलवर्णयोगान्नीलव्यपदेशः विदेहरम्यकविनिवेशविभाजी, रुक्मसद्भावतो रुक्मीत्यभिधानं रम्यकहैरण्यवतविवेककरः, शिखरिसद्भावाच्छिखरीति संज्ञा हैरण्यवतैरावतसेतुबंधः शिखरी । हिमवदादीनामितरेतरयोगे द्वंद्वो अवयवप्रधानत्वात् , वर्षधरपर्वता इति वचनं वर्षधराणां पर्वतानामपर्वतानां च निरासाथै । तद्विभाजिन इति वचनात् भरतादिवर्षविभागहेतुत्वसिद्धिः, पूर्वापरायता इति विशेषणादन्यथायतत्वमनायतत्वं व्युदस्तम् ॥ किं परिणामास्ते इत्याह; हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ हेममयो हिमवान् , अर्जुनमयो महाहिमवान् , तपनीयमयो निषधः, वैडूर्यमयो नीलः, रजतमयो रुक्मी, हेममयः शिखरीति । हेमादिपरिणामा हिमवदादयः तथानादिसिद्धत्वादन्यथोपदेशस्य परमागमप्रतिहतत्वात् ॥ · पुनरपि किं विशिष्टास्त इत्याह; ___ मणिविचित्रपाः ॥ १३ ॥ मणिभिर्विचित्राणि पार्थाणि येषां ते तथा । अनेन तेषामनादिपरिणाममणिविचित्रपार्श्वत्वं प्रतिपादितं ॥ तद्विस्तरविशेषप्रतिपादनार्थमाह; उपरि मूले च तुल्यविस्ताराः ॥ १४ ॥ च शब्दान्मध्ये च, तथा चानिष्टविस्तारसंस्थाननिवृत्तिः प्रतीयते ॥ तदेवं सूत्रचतुष्टयेन पर्वताः प्रोक्ताः इत्युपसंहरति;पूर्वापरायतास्तत्र पर्वतास्तद्विभाजिनः । षट्प्रधानाः परेणैते प्रोक्ता हिमवदादयः ॥१॥ Page #361 -------------------------------------------------------------------------- ________________ ३५२ तत्त्वार्थश्लोकवार्तिके [सू० १९ सूत्रेणेति पूर्वश्लोकादनुवृत्तिः परेणेति सूत्रविशेषणं तेन क्षेत्राभिधायिसूत्रात्परेण सूत्रेण हिमवदादयः षट् प्रधानाः पर्वताः प्रोक्ताः इति संबंधः कर्तव्यः । पूर्वपरायतास्तद्विभाजिन इति विशेषणद्वयवचनं हेमादिमयत्वमणिविचित्रपार्श्वत्वोपरि मूले च तुल्यविस्तारत्वविशेषणानामुपलक्षणार्थे । हेमादिमयाः मणिभिर्विचित्रपार्थाः तथोपरि मूले च तुल्यविस्ताराः प्रोक्ताः सूत्रत्रयेण ॥ तेषां हिमवदादीनामुपरि पद्मादिहदसद्भावनिवेदनार्थमाह;पद्ममहापद्मतिगिंछकेशरिमहापुंडरीकपुंडरीका ह्रदास्तेषामु. परि ॥ १५॥ हिमवत उपरि पद्मो हृदः, महाहिमवतो महापद्मः, निषधस्य तिगिंछः, नीलस्य केशरी, रुक्मिणः महापुंडरीकः, शिखरिणः पुंडरीक इति संबंधो यथाक्रमं वेदितव्यः । पद्मादिजलकुसुमविशेषसहचरितत्वात् पद्मादयो हृदा व्यपदिश्यंते, तथा रूढिसद्भावाद्वा हिमवदादिव्यपदेशवत् ॥ पद्मादयो हदास्तेषामुपरि प्रतिपादिताः। सूत्रेणैकेन विज्ञेया यथागममसंशयम् ॥१॥ तत्र प्रथमो हृदः किमायामविष्कंभ इत्याह; प्रथमो योजनसहस्रायामस्तदर्धविष्कंभो हृदः ॥ १६ ॥ सूत्रपाठापेक्षया प्रथमः पद्मो हृदः योजनसहस्रायाम इति वचनादन्यथा तदैर्ध्यव्यवच्छेदः, तदर्धविष्कंभ इति वचनात् पंचयोजनशतविष्कंभत्वप्रतिपत्तिरन्यथा तद्विस्तारनिरासः प्रतिपत्तव्यः ॥ किमवगाहोसावित्याह; दशयोजनावगाहः ॥ १७॥ पृथग्योगकरणं सर्वहदासाधारणावगाहप्रतिपत्त्यर्थ ॥ संख्ययायामविष्कंभावगाहगतया हृदः। सूत्रद्वयेन निर्दिष्टः प्रथमः सर्ववेदिभिः॥१॥ सामर्थ्यादेकेन सूत्रेण हिमवदादीनामुपरि षट् पद्मादयो हूदा निर्दिष्टा इति गम्यते, तत्पाठापेक्षया पद्मस्य हृदस्य प्रथमत्ववचनात् ॥ अथ तन्मध्ये विशिष्टपरिणामं पुष्करं प्रतिपादयति तन्मध्ये योजनं पुष्करम् ॥ १८॥ द्विकोशकर्णिकत्वादेकक्रोशबहलपत्रत्वाच योजनपरिमाणं योजनं पुष्करं जलकुसुमं तथानादिपरिणामाद्वेदितव्यम् । क तत् ? तस्य पद्महूदस्य मध्ये ॥ शेषहदपुष्करपरिणामप्रतिपादनार्थमाह; तद्विगुणदिगुणा हृदाः पुष्कराणि च ॥ १९ ॥ ततः पद्मदात् पुंडरीकहूदाच द्विगुणद्विगुणा हृदा महापद्ममहापुंडरीकादयः, योजनपरिमाणाच्च पुष्करादक्षिणादुत्तरमाच्च द्विगुणद्विगुणानि पुष्कराणि विष्कंभायामानीति वीप्सानिर्देशात् संप्रतीयंते 'उत्तरा दक्षिणतुल्याः' इति वक्ष्यमाणसूत्रसंबंधत्वात् । तत्संबंधः पुनर्बहुवचनसामर्थ्यादन्यथा द्विवचनप्रसंगात् तद्विगुणौ द्विगुणाविति । तदेवं- . तन्मध्ये योजनं प्रोक्तं पुष्करं द्विगुणास्ततः । इदाश्च पुष्कराणीति सूत्रद्वितयतोंजसा ॥१॥ Page #362 -------------------------------------------------------------------------- ________________ ३५३ तृतीयोऽध्यायः । तन्निवासिन्यो देव्यः काः किं स्थितयः परिवाराश्च श्रूयन्त इत्याह;तन्निवासिन्यो देव्यः श्रीहीतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥ २०॥ . तेषु पुष्करेषु निवसनशीलास्तन्निवासिन्यः, देवगतिनामकर्मविशेषादुपजाता इति देव्यः श्रीप्रभृतयः तत्र पद्महृदपुष्करप्रासादेषु । शेषहूदपुष्करप्रासादेषु हीप्रभृतयो यथाक्रमं निवसंतीति यथागमं वेदितव्यं । ताः पल्योपमस्थितयस्तावदापुष्करत्वेनोत्पत्तेः । सामानिकाः परिषदश्च वक्ष्यमाणलक्षणाः सह ताभिर्वर्तत इति ससामानिकपरिषत्काः । एतेन तासां परिवारविभूतिं कथितवान् । एतदेवाह;देव्यः श्रीमुखाः ख्याताः सूत्रेणैकेन सूचनात् । षडेव तन्निवासिन्यस्ता ससामानिकादयः १ गंगासिंधूरोहिद्रोहितास्या हरिद्धरिकांतासीतासीतोदानारीनरकां तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२१॥ सरितो न वाप्यः, तेषां भरतादिक्षेत्राणां मध्यं तन्मध्यं तद्गच्छंतीति तन्मध्यगा इत्यनेनान्यथागति गंगासिंध्वादीनां निवारयति । तत्र भरतक्षेत्रमध्ये गंगासिंध्वौ, हैमवतमध्यगे रोहिद्रोहितास्ये, हरिमध्यगे हरिद्धरिकांते, विदेहमध्यगे सीतासीतोदे, रम्यकमध्यगे नारीनरकांते, हैरण्यवतमध्यगे सुवर्णरूप्यकूले, ऐरावतमध्यगे रक्तारक्तोदे इति ॥ अथैतयोर्द्वयोः का पूर्वसमुद्रं गच्छतीत्याह; द्वयोईयोः पूर्वाः पूर्वगाः ॥ २२ ॥ द्वयोर्द्वयोरेकक्षेत्रविषयगत्यभिसंबंधादेकत्र सर्वासां प्रसंगनिवृत्तिः, पूर्वाः पूर्वगा इति वचनं दिग्विशेषप्रतिपत्त्यर्थ ॥ अथापरं समुद्र का गच्छंतीत्याह; शेषास्त्वपरगाः॥ २३ ॥ द्वयोर्द्वयोरेकत्रैकक्षेत्रे वर्तमानयोनद्योर्याः पूर्वास्ताभ्योन्याः शेषाः सरितोऽपरं समुद्रं गच्छंतीति । तत्र पद्महदप्रभवा पूर्वतोरणद्वारनिर्गता गंगा, अपरतोरणद्वारनिर्गता सिंधुः, उदीच्यतोरणद्वारनिर्गता रोहितास्या । महापद्महदप्रभवापाच्यतोरणद्वारनिर्गता रोहित् , उदीच्यतोरणद्वारनिर्गता हरिकांता । तिगिंछहदसमुद्भवा दक्षिणद्वारनिर्गता हरित् , उदीच्यतोरणद्वारनिर्गता सीतोदा । केसरिहदप्रभवा अपाच्यद्वारनिर्गता सीता, उदीच्यद्वारनिर्गता नारी । महापुंडरीकहूदप्रभवा दक्षिणद्वारनिर्गता नरकांता, उदीच्यद्वारनिर्गता रूप्यकूला । पुंडरीकहूदप्रभवा अपाच्यद्वारनिर्गता सुवर्णकूला, पूर्वतोरणद्वारनिर्गता रक्ता, प्रतीच्यद्वारनिर्गमा रक्तोदा ॥ अथ कियन्नदीपरिवृता एता नद्य इत्याह; चतुर्दशनदीसहस्रपरिवृता गंगासिंध्वादयो नद्यः ॥ २४ ॥ गंगासिंध्वाद्यग्रहणं प्रकरणादिति चेन्न, अनंतरग्रहणप्रसंगात् । गंगादिग्रहणमिति चेन्न, पूर्वगाणां ग्रहणमसंगात् । नदीग्रहणात्सिद्धिरिति चेन्न, तस्योत्तरत्र द्विगुणाभिसंबंधनार्थत्वात् ॥ सर्वथैवासंभाव्या गंगादयो नद्यः सूत्रिता इति कस्यचिदारेका निराकर्तुं प्रक्रमते Page #363 -------------------------------------------------------------------------- ________________ ३५४ तत्त्वार्थश्लोकवार्तिके [सू० २९ अथ गंगादयः प्रोक्ताः सरितः क्षेत्रमध्यगाः । पूर्वापरसमुद्रांतःप्रवेशिन्यो यथागमं ॥१॥ परिवारनदीसंख्याविशेषसहिताः पृथक् चतुर्दश चतुःसूत्र्या नासंभाव्या कथंचन संभाव्यं । तत एव हि गंगासिंध्वादयो महानद्यो यथागममायामविष्कंभावगाहैरपरैश्च विशेषैस्तदधिकरणस्य महत्वादिहास्ति कासांचिन्नदीनां सरय्वादीनां महाविस्ताराणामुपलंभात् कस्यचिद्वाधकस्यासंभवात् ॥ अथ कियद्विष्कंभो भरतो वर्ष इत्याह;भरतः षड्विंशतिपंचयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य ॥ २५ ॥ भरतविष्कंभस्योत्तरत्र वचनादिहावचनमिति चेन्न, जंबूद्वीपनवतिशतभागस्येयत्ताप्रतिपादनार्थत्वादेतत्सूत्रस्य तत्संख्यानयनोपायप्रतिपत्त्यर्थत्वात् ॥ अतोन्ये वर्षधरादयः किंविस्तारा इत्याह; तद्विगुणदिगुणविस्तारा वर्षधरवर्षा विदेहांताः॥ २६ ॥ वर्षधरशब्दस्य पूर्वनिपातस्तदानुपूर्व्यप्रतिपत्त्यर्थः वर्णानामानुपूर्येण इति निरुक्तिकारवचनस्यास्य मानाक्षुराणामन्येषामपि यथाभिधानमानानुपूर्येण पूर्वनिपातप्रतिपादनार्थत्वात् तथा प्रायः प्रयोगदर्शनात् । विदेहांतवचनं मर्यादाथै तेन भरतविष्कंभाविगुणविष्कंभो हिमवान् वर्षधरः, ततो हैमवतो वर्षः, ततो महाहिमवान् वर्षधरः, ततो हरिवर्षः, ततो निषधो वर्षधरस्ततोऽपि विदेहो वर्ष इत्युक्तं भवति ॥ परे वर्षधरादयः किंविस्तारा इत्याह; उत्तरा दक्षिणतुल्याः ॥ २७॥ निषधेन तुल्यो नीलो वर्षधरः, हरिणा रम्यको वर्षः, महाहिमवता रुक्मीवर्षधरः, हैमवतेन हैरण्यवतो वर्षः, हिमवता शिखरी वर्षधरः, भरतेन दक्षिणेनोत्तर ऐरावत इति योज्यं ॥ अथ भरतैरावतयोरनवस्थितत्वप्रतिपत्त्यर्थमाह;भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २८ ॥ तास्थ्यात्तच्छब्दासिद्धर्भरतैरावतयोवृद्धिहासयोगः अधिकरणनिर्देशो वा, तत्रस्थानां हि मनुष्यादीनामनुभवायुःप्रमाणादिकृतौ वृद्धिहासौ षट्कालाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां । तत्रानुभवादिभिरुत्सर्पणशीला उत्सर्पिणी तैरेवावसर्पणशीलावसर्पिणी । षटालाः पुनरुत्सर्पिण्यां दुःषमदुःषमादयोऽवसर्पिण्यां सुषमसुषमादयः प्रतिपत्तव्याः ॥ अथ भरतैरावताभ्यामपरा भूमयोवस्थिता एवेत्यावेदयति;-. ताभ्यामपरा भूमयोऽवस्थिताः ॥ २९ ॥ तत्स्थप्राणिनामनुभवादिभिर्वृद्धिहासाभावात् षट्समययोरुत्सपिण्यवसर्पिण्योरसंभवादेकैककालत्वादवस्थिता एव ताभ्यामपरा भूमयोऽवगंतव्याः । तदेवं वर्षवर्षधरावाध्यविष्कंभकथनं कृतं । सूत्रत्रयेण भूमीनां स्थितिभेदोदयेन तु ॥१॥ न हि भरतादिवर्षाणां हिमवदादिवर्षधराणां च सूत्रत्रयेण विष्कंभस्य कथनं बाध्यते प्रत्यक्षानुमा Page #364 -------------------------------------------------------------------------- ________________ • तृतीयोऽध्यायः । ३५५ नयोस्तदविषयत्वेन तद्बाधकत्वायोगात् प्रवचनैकदेशस्य च तद्वाधकस्याभावात् आगमांतरस्य च तद्ब (धकस्याप्रमाणत्वात् । तत एव सूत्रद्वयेन भरतैरावतयोस्तदपरभूमिषु च स्थितेर्भेदस्य वृद्धिह्रासयोगायोगाभ्यां विहितस्य प्रकथनं न बाध्यते, तथा संभवात् अन्यथाभावादेकप्रमाणाभावाच्चेति पर्याप्तं प्रपंचेन ॥ अथ भरतैरावताभ्यामपरा भूमयः किंस्थितय इत्याह ; एकद्वित्रिपल्योपमस्थितयो हैमवतकहरिवर्षक दैवकुरवकाः ॥ ३० ॥ हिमवतादिभ्यो भवार्थेषु महाहैमवतकादीनां द्वंद्वे सति हैमवतकस्यानुपूर्व्यप्रतिपत्त्यर्थः पूर्वनिपातः । एकादीनां हैमवतकादिभिर्यथासंख्यं संबंधः, तेनैकपल्योपमस्थितयो हैमवतका, द्विल्योपमस्थितयो हारिवर्षकाः, त्रिपल्योपमस्थितयो दैवकुरवका इत्युक्तं भवति ॥ विदेहादुत्तराः कथमित्याह ; - तथोत्तराः ॥ ३१ ॥ हैरण्यवतक रम्यकोत्तरकुरवका एकद्वित्रिपल्योपमस्थितयो हैमवतकादिवदित्यर्थः ॥ विदेहेषु किंकाला मनुष्या इत्याह; विदेहेषु संख्येयकालाः ॥ ३२ ॥ संख्येयः कालो येषां ते संख्येयकालाः संवत्सरादिगणनाविषयत्वात्तत्कालस्य || अथ प्रकारांतरेण भरतविष्कंभप्रतिपत्त्यर्थमाह; — भरतस्य विष्कंभो जंबूद्वीपस्य नवतिशतभागः ॥ ३३ ॥ नवत्याधिकं शतं नवतिशतं नवतिशतेन लब्धो भागो नवतिशतभागः । अत्र तृतीयांतपूर्वादुत्तरपदे लोपश्चेत्यनेन वृत्तिर्दध्योदनादिवत् । स पुनर्भवति शतभागो जंबूद्वीपस्य पंचयोजनशतानि षडिशानि षट्चैकान्नविंशतिभागा योजनस्येत्युक्तं वेदितव्यं । पुनर्भरत विष्कंभवचनं प्रकारांतर प्रतिपत्त्यर्थमुत्तरार्थं वा । तदेवं तत्क्षेत्रवासिनां नृणां सायुषः स्थितिरीरिता । सूत्रत्रयेण विष्कंभो भरतस्यैकसूत्रतः ॥ १ ॥ तन्नृणामित्युपलक्षणात्तिरश्चामपि स्थितिरुक्तेति गम्यते ॥ धातकीखंडे भरतादिविष्कंभः कथं प्रमीयत इत्याह ; द्विर्घातकीखंडे ॥ ३४ ॥ ननु च जंबूद्वीपानंतरं लवणोदो वक्तव्यस्तदुल्लंघने प्रयोजनाभावादिति चेन्न, जंबूद्वीपभरतादिद्विगुणधातकीखंडभरतादिप्रतिपादनार्थत्वात्, लवणोदवचनस्य सामर्थ्यलब्धत्वाच्च । महीतलमूलयोर्दशयोजनसहस्रविस्तारो लवणोदः तन्मध्ये दिक्षु पातालानि योजनशतसहस्रावगाहानि, विदिक्षु क्षुद्रपातालानि दशयोजनसह स्रावगाहानि, तदंतरे क्षुद्रपातालानां योजन सहस्रावगाहानां सहस्रं । दिक्षु वेलंधरनागाधिपतिनगराणि चत्वारि द्वादशयोजन सहस्रायामविष्कंभो गौतमद्वीपश्चेति श्रूयते । ननु च पूर्वपूर्वपरिक्षेपिद्वीपसमुद्रप्रकाशकस्तत्र सामर्थ्याज्जंबूद्वीपपरिक्षेपी लवणोदो ज्ञायते सामान्यत एव । तद्विशेषास्तु कथमनुक्ता इहावसीयत इति न शंकनीयं, सामान्यगतौ विशेषसद्भावगतेः सामान्यस्य स्वविशेषाविनाभावि - त्वात् संक्षेपतः सूत्राणां प्रवृत्तेः सूत्रैस्तद्विशेषानभिधानं जंबूद्वीपादिविशेषानभिधानवत् । वार्तिककारादय Page #365 -------------------------------------------------------------------------- ________________ ३५६ तत्त्वार्थश्लोकवार्तिके [सू० ३७ स्त्वर्थाविरोधेन तद्विशेषान् सूत्रसामर्थ्याल्लब्धानाचक्षाणा नोत्सूत्रवादितां लभंते 'व्याख्यानतो विशेष. प्रतिपत्तिर्न हि संदेहादलक्षणम्' इति वचनात् । ननु च धातकीखंडे द्वौ भरतौ द्वौ हिमवंतावित्यादि. द्रव्याभ्यावृत्तौ द्विरित्यत्र सूत्रसंभव इति चेन्न, मीयंत इति क्रियाध्याहारात् । द्विस्तावानिति यथा, तेन धातकीखंडे भरतादिवर्षो हिमवदादिवर्षधरश्च हृदादिश्च द्विर्मीयत इति सूत्रितं भवति । कियान् पुनर्धातकीखंडे भरतस्य विष्कंभ इत्युच्यते-षट्षष्टिशतानि चतुर्दशानि योजनानामेकान्नत्रिंशच्च भागाः । शतयोजनस्याभ्यंतरविष्कंभः । सैकाशीतिपंचशताधिकद्वादशसहस्राणि षट्त्रिंशच्च भागा योजनस्य मध्यविष्कंभः । सप्तचत्वारिंशत्पंचशताधिकाष्टादशसहस्राणि योजनानां पंचपंचाशच्च भागाः शतयोजनस्य बाह्यविष्कभः । वर्षाद्वर्षश्चतुर्गुणविस्तार आविदेहात् । वर्षधराद्वर्षधर आनिषधात् । उत्तरा दक्षिणतुल्या इति च विज्ञेयं । भरतैरावतविभाजिनौ च दक्षिणोत्तरायतौ लवणोदकालोदस्पर्शिनौ लवणोदाइक्षिणोत्तराविष्वाकारगिरी प्रतिपत्तव्यौ । धातकीखंडवलयपूर्वापरविभागमध्यगौ मेरू च ॥ अथ पुष्कराधै कथं भरतादिर्मीयते तद्विष्कंभाश्चेत्याह; पुष्कराधं च ॥ ३५॥ संख्याभ्यावृत्त्यनुवर्तनार्थश्चशब्दः । धातकीखंडवत्पुष्करार्धे च भरतादयो द्विर्मीयते । तत्रैकाशीत्युत्तरपंचशताधिकैकचत्वारिंशद्योजनसहस्राणि सत्रिसप्ततिभागशतं च भरतस्याभ्यंतरविष्कंभः, द्वादशपंचशतोत्तराणि त्रिपंचाशद्योजनसहस्राणि नवनवत्यधिकं च भागशतं योजनस्य मध्यविष्कंभः, द्वाचत्वारिंशच्चतुःशतोत्तरपंचषष्टिसहस्राणि त्रयोदश च भागा योजनस्य बाह्यविष्कंभः । वर्षाद्वर्षश्चतुर्गुणविस्तार आ विदेहात् । वर्षधराद्वर्षधरश्वा निषधात् । मानुषोत्तरशैलेन विभक्तार्धत्वात् पुष्करार्धसंज्ञा, पुष्करद्वीपस्याधै हि पुष्करार्धमिति प्रोक्तं । अत्र धातकीखंडवर्षधराश्चक्रारवदवस्थितास्तदंतरालवद्वर्षाः । कालोदमानुषोत्तरशैलस्पर्शिनाविष्वाकारगिरी दक्षिणोत्तरौ पूर्ववद्वेदितव्यौ । पुष्करार्धवलयपूर्वापरविभागमध्यवतिनौ मेरू चेति प्रपंचः सर्वस्य विद्यानंदमहोदयैः प्रतिपादितोवगंतव्यः । तदेवं जंबूद्वीपगवर्षादिविष्कंभादिरशेषतः । सदा द्विर्धातकीखंडे पुष्करार्धे च मीयते ॥१॥ एकेनैकेन सूत्रेणोक्तं यथोदितसूत्रवचनात् । कस्मात् पुनः पुष्करार्धनिरूपणमेव कृतमित्याह; प्राड्यानुषोत्तरान्मनुष्याः॥ ३६॥ न परतो यस्मादित्यभिसंबंधः । मनुष्यलोको हि प्रतिपादयितुमुपक्रांतः स चेयानेव ॥ यद्येवं किंप्रकारा मनुष्यास्तत्रेत्याह; आर्या म्लेच्छाश्च ॥ ३७॥ एतदेव प्ररूपयतिप्रामानुषोत्तराद्यसान्मनुष्याः परतश्च न । आर्याम्लेच्छाश्च ते ज्ञेयास्तादृकर्मबलोद्भवाः ॥ १॥ उच्चैर्गोत्रोदयादेरार्या, नीचेर्गोत्रादेश्च म्लेच्छाः ॥ प्राप्तर्णीतरभेदेन तत्रार्या द्विविधाः स्मृताः । सद्गुणैरर्यमाणत्वाद्गुणवद्भिश्व मानवैः ॥ २॥ तत्र प्राप्तर्द्धयः सप्तविधर्धिमधिसंसृताः । बुद्ध्यादिसप्तधा नाना विशेषास्तद्विशेषतः ॥३॥ ऋद्धिप्राप्तार्याः सप्तविधाः सप्तविधर्द्धिमासृता हि ते । सप्तविधर्धिः पुनर्बुद्ध्यादिस्तथाहि-बुद्धितपोविक्रियौषधरसबलाक्षीणर्द्धयः सप्त प्रज्ञापिताः नाना विशेषाश्च प्राप्तधयो भवंत्यार्यास्तद्विशेषात् । बुद्धि Page #366 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। ३५७ विशेषर्धिप्राप्ता हि बीजबुद्ध्यादयः, तपोविशेषर्धिप्राप्तास्तप्ततपःप्रभृतयः, विक्रियाविशेषर्धिप्राप्ता एकत्वविक्रियादिसमर्थाः, औषधविशेषर्धिप्राप्ताः जल्लौषधिप्राप्तादयः, रसर्धिप्राप्ताः क्षीरस्राविप्रभृतयः, बलविशेषर्धिप्राप्ता मनोबलप्रभृतयः, अक्षीणविशेषर्धिप्राप्ताः पुनरक्षीणमहालयादय इति । अन्ये त्वाहुः ऋद्धिप्राप्तार्या अष्टविधाः बुद्धिक्रियाविक्रियातपोबलौषधरसक्षेत्रभेदादिति । ते कुतः संभाव्या इत्याह;• संभाव्यंते च ते हेतुविशेषवशवर्तिनः । केचित्प्रकृष्यमाणात्मविशेषत्वात्प्रमाणवत् ॥४॥ ___यथा परिमाणमापरमाणोः प्रकृष्यमाणखरूपमाकाशे परमप्रकर्षपर्यंतप्राप्तं सिद्ध्यत्तदंतराले अनेकधा परिमाणप्रकर्ष साधयति तथा सर्वजघन्यज्ञानादिगुणर्षिविशेषादारभ्यर्धिविशेषः प्रकृष्यमाणखरूपं परमप्रकर्षपर्यंतमामुवन्नंतरालर्षिविशेषप्रकर्ष साधयतीति संभाव्यते सर्वे बुद्ध्यतिशयर्धिविशेषादयः परमागमप्रसिद्धाश्चेति न किंचिदनुपपन्नं ॥ के पुनरसंप्राप्तर्धय इत्यावेदयति; असंप्राप्तर्धयः क्षेत्राद्यार्या बहुविधाः स्थिताः । क्षेत्राद्यपेक्षया तेषां तथा निर्णीतियोगतः ॥५॥ क्षेत्रार्या, जात्यार्याः, कर्माश्चिारित्रार्या, दर्शनार्याश्चेत्यनेकविधाः क्षेत्राद्यपेक्षया अनृद्धिप्राप्तार्याः प्रत्येतव्या तथा प्रतीतियोगात् ।। के पुनर्लेच्छा इत्याह;तथा तद्द्वीपजा म्लेच्छाः परे स्युः कर्मभूमिजाः।आद्याः षण्णवतिः ख्याता वार्धिद्वयतटद्वयोः ६ म्लेच्छा द्विविधाः अंतर्वीपजाः कर्मभूमिजाश्च । तत्राद्यास्तावल्लवणोदस्योभयोरष्टचत्वारिंशत् तथा कालोदस्य इति षण्णवतिः ॥ ते च केचिद्भोगभूमिसमप्रणिधयः परे कर्मभूमिसमप्रणिधयः श्रूयमाणाः कीदृगायुरुत्सेधवृत्तय इत्याचष्टे;भोगभूम्यायुरुत्सेधवृत्तयोर्भोगभूमिभिः । समप्रणिधयः कर्मभूमिवत्कर्मभूमिभिः ॥७॥ भोगभूमिभिः समानप्रणिधयोंतीपजा म्लेच्छा भोगभूम्यायुरुत्सेधवृत्तयः प्रतिपत्तव्याः, कर्मभूमिभिः समप्रणिधयः कर्मभूम्यायुरुत्सेधवृत्तयस्तथा निमित्तसद्भावात् ॥ अथ के कर्मभूमिजा म्लेच्छा इत्याह;कर्मभूमिभवा म्लेच्छाः प्रसिद्धा यवनादयः । स्युः परे च तदाचारपालनाद्बहुधा जनाः॥८॥ कुतः पुनरेवमार्यम्लेच्छव्यवस्थेत्याह;संप्रदायाव्यवच्छेदादार्यम्लेच्छव्यवस्थितिः। संतानेन विनिश्चेया तद्विद्भिर्व्यवहारिभिः॥९॥ वयं संवेद्यमाना च गुणदोषनिबंधना । कथंचिदनुमेया च तत्कार्यस्य विनिश्चयात् ॥ १० ॥ न संप्रदायाव्यवच्छेदोऽसिद्धस्तद्विदां नास्तिकसंप्रदायाव्यवच्छेदवत् , नाप्यप्रमाणं सुनिश्चितासंभवद्वाधकत्वात्तद्वत् । ततः संतानेनार्यम्लेच्छव्यवस्थितिस्तद्विद्भिर्निश्वेतव्या । नास्तिकसंतानव्यवस्थितिवत् । सर्वः सर्वदार्यत्वम्लेच्छत्वशून्यो मनुष्यसंतान इत्यत्रापि संप्रदायाव्यवच्छेद एव नास्तिकानां शरणं प्रत्यक्षस्यानुमानस्य च तत्राव्यापारात् । यथा चाहं नास्तिकस्तथा सर्वे पूर्वकालवर्तिनो नास्तिका जात्यादिव्यवस्थानिराकरणपरा इत्यपि संप्रदायादेवाविच्छिन्नादवगंतव्यं नान्यथा । अयमेव संप्रदायः प्रमाणं न पुनरार्यम्लेच्छव्यवस्थितिप्रतिपादक इति मनोरथमात्र प्रतीत्यभावात् । जातमात्रस्य जंतोरार्येतरभावशून्यस्य प्रतीतेः प्रमाणं तद्भावाभावविषयः संप्रदाय इति चेन्न, तस्याप्यार्येतरभावप्रसिद्धेरन्यथा व्यवहारविरोधात् । कल्पनारोपितस्तव्यवहार इति चेत्, तन्निर्बीजायाः कल्पनाया एवासंभवात् कचित्कस्यचित्तत्त्वतः Page #367 -------------------------------------------------------------------------- ________________ ३५८ तत्त्वार्थश्लोकवार्तिके [ सू० ३७ प्रसिद्धस्यान्यनारोप्यो हि कल्पना दृष्टा विकल्पमात्रस्था गत्यंतराभावात् उभयथाचार्येतरभावकल्पनायां वास्तवस्तद्भावसिद्धेः प्रधानाद्वैतादिकल्पनानामपि हि निर्बीजानामनुपपतिरेव सत्त्वरजस्तमसां साम्यवास्तवस्य प्रधानत्वेन नराधिपादौ प्रसिद्धेनाध्यारोपस्य प्रधानकल्पनत्वात् । क्वचिच्चैकत्वस्याद्वैतस्य प्रमाणतः सिद्धस्य सर्ववस्तुष्वध्यारोपणस्याद्वैतकल्पनात्वादन्यथा तदसंभवात् । कथं वा कचित्संप्रदायात् पारमार्थिकी ध्यवस्थामाचक्षाणो मनुष्येष्वेवार्येतरभावव्यवस्थां काल्पनिकीमाचक्षीत, प्रमाणांतराविषयत्वादिति चेत् । न, आर्यम्लेच्छव्यवस्थाया गुणदोषनिबंधनायाः प्रत्यक्षानुमानाभ्यामिति प्रसिद्धरतः । तथाहि-खसंतानवर्तिनी हि मनुष्याणां आर्यत्वव्यवस्थितिः सम्यग्दर्शनादिगुणनिबंधना म्लेच्छव्यवस्थितिश्च मिथ्यात्वादिदोषनिबंधना खसंवेदनसिद्धा खरूपवत् । संतानांतरवर्तिनी तु सा व्यापारव्याहाराकारविशेषस्य कार्यस्य विनिश्चयादनुमेया चेति न प्रमाणांतरागोचरा प्रत्यक्षानुमानाभ्यां प्रसिद्धायां च गुणनिबंधनायामार्यत्वव्यवस्थायां कासुचित् मनुष्यव्यक्तिषु युगादावव्यवच्छिन्नसंतानास्तथाभूतगुणैरर्यमाणा जात्यार्याः प्रसिद्धा भवंति क्षेत्राचार्यवत् ॥ तथा म्लेच्छाःनित्यसर्वगतामूर्तस्वभावा सर्वथा तु या । जाति ह्मण्यचांडाल्यप्रभृतिः कैश्चिदीर्यते ॥११॥ सा न सिद्धा प्रमाणेन बाध्यमाना कदाचन । ब्राह्मणत्वादिजातिः सर्वगता सर्वत्र खप्रत्ययहेतुत्वादाकाशवत् सत्तावद्वा, तथा नित्या सर्वदोत्पादकविनाशककारणरहितत्वात् तद्वदेव इत्येके । तेत्र प्रष्टव्याः, सा सर्वगता सती व्यत्यंतराले कस्मात्स्वप्रत्ययं नोत्पादयतीति ? खव्यंजकविशेषाभावादनभिव्यक्तत्वादिति चेन्न, तदभिव्यक्तेः साकल्येन करणे क्वचिदुपलंभे सर्वत्रोपलंभप्रसंगात् , देशतः करणे सावयवत्वप्रसक्तेः । ननु च कायेनाभिव्यक्तावपि जातेन सर्वत्रोपलंभः सामग्र्यभावात् खव्यक्तिदेश एव हि तदुपलंभसामग्री प्रतीता इंद्रियमनआकाशादिवत् नच व्यक्त्यंतराले सास्तीति केचित् । तदप्यसंगतं, घटादेरेवं सर्वगतत्वप्रसक्तेः । शक्यं हि वक्तुं घटादीनां सर्वगतत्वेपि न सर्वत्रोपलंभः सामग्र्यभावात् कपालादिदेश एव हि तदुपलंभसामग्री न च सा सर्वत्रास्तीति कपालादेरप्यवयविनः सर्वगतत्वेपि न सर्वत्रोपलंभः सावयवोपलंभसामग्र्यभावादित्येवमनंतशः परमाणूनामनवयवित्वादसर्वगतत्वे सर्वत्रोपलंभाभावात्ययानुयोगनिवृत्तिरिति । यदि पुनर्घटादेः सर्वगतत्वकल्पनाया प्रत्यक्षविरोधः प्रतिनियतसंस्थानस्य प्रत्यक्षत्वात् अनुमानविरोधश्च । न सर्वगतो घटादिः सावयवत्वात् मूर्तिमत्त्वात् परमाणुवत् इत्यनुमानादसर्वगतत्वसिद्धेरिति मतं, तदा जातिसर्वगतत्वकल्पनायामपि स एव प्रत्यक्षादिविरोधः सादृश्यलक्षणाया एव जातेरसर्वगतायाः प्रतिनियतव्यक्तिगतायाः प्रत्यक्षत्वात् । तथा न जातिः सर्वगता प्रतिनियतव्यक्तिपरिणामत्वाद्विशेषवदित्यनुमानाजातेरसवंगतत्वसिद्धेः । कुतः पुनः सादृश्यलक्षणं सामान्यं सिद्धमिति चेत्. सिद्धं सादृश्यसामान्यं समाना इति तद्हात् । कुतश्चित्सदृशेष्वेव मनुष्येषु गवादिवत् ॥ १२ ॥ स एवं मनुष्य इति प्रत्ययान्न समाना इति तद्रहोस्ति यतः सादृश्यसामान्यं सिद्धयेदिति चेत् न, सदृशे मनुष्यादौ स एवायमिति प्रत्ययस्योपचरितैकत्वविषयत्वात् । द्विविधं ह्येकत्वं मुख्यमुपचरितं च, मुख्यमूर्खतासामान्यमुपचरितं तिर्यक् सामान्यं सादृश्यमिति सुनिश्चितमन्यत्र । सा पुनर्ब्राह्मणत्वादि जाति:कांततो नित्या शक्या व्यवस्थापयितुमनित्यव्यक्तितादात्म्यात् , सर्वथा तस्यास्तदतादात्म्ये वृत्तिविकल्पानवस्थादिदोषानुषंगात् । नाप्येकांतेनामूर्ता मूर्ततादात्म्यविरोधात् । ततः स्यान्नित्या जातिनित्यसादृश्यरूपत्वात् , स्यादनित्या नश्वरसादृश्यखभावत्वात् , स्यात्सर्वगता सर्वपदार्थान्वयित्वात् , स्याद Page #368 -------------------------------------------------------------------------- ________________ ३५९ तृतीयोऽध्यायः। सर्वगता प्रतिनियतपदार्थाश्रयत्वात् , स्यान्मूर्तिमती मूर्तिमद्रव्यपरिणामत्वात् , स्यादमूर्ता गगनाद्यमूर्तद्रव्यपरिणामात्मिकेति नित्यसर्वगतामूर्तखभावा सर्वथा ब्राह्मणत्वादिजातिरयुक्ता प्रमाणेन बाध्यमानत्वात् इति सूक्तं ॥ तदेवं सार्धद्विद्वीपविष्कंभप्रभृति प्रतिपादितं । समनुष्यं चतुष्ट्या च सूत्राणामिति गम्यते ॥ १३ ॥ काः पुनः कर्मभूमयः काश्च भोगभूमय इत्याह; भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३८॥ ___ कर्मभूमय इति विशेषणानुपपत्तिः सर्वत्र कर्मणो व्यापारादिति चेन्न वा, प्रकृष्टगुणानुभवनकर्मोपाजिंतनिर्जराधिष्ठानोपपत्तेः षटुर्मदर्शनाच्च । अन्यत्रशब्दः परिवर्जनार्थः । शेषास्ता भोगभूमय इति सामर्थ्याद्गम्यत इत्यावेदयति भरताद्या विदेहांताः प्रख्याताः कर्मभूमयः । देवोत्तरकुरूस्त्यक्त्वा ताः शेषा भोगभूमयः॥१॥ सामथ्योदवसीयंते सूत्रेस्सिन्नागता अपि । समुद्रद्वितयं यद्वत्पूर्वसूत्रोक्तशक्तितः ॥२॥ सार्धद्वीपद्वयप्रतिपादनसूत्रे वचनसामर्थ्यादश्रूयमाणस्यापि समुद्रद्वितयस्य यथावसायो जंबूद्वीपलवणोदादिद्वीपसमुद्राणां पूर्वपूर्वपरिक्षेपित्ववचनात् तथास्मिन् सूत्रेनुक्तानामपि भोगभूमीनां निश्चयः स्यात् । भरतैरावतविदेहा देवकुरूत्तरकुरुभिर्वर्जिताः कर्मभूमय इति वचनसामर्थ्यात् देवकुरूत्तरकुरवः शेषाश्च हैमवतहरिरम्यकहैरण्यक्ताख्या भूमयः कर्मभूमिविलक्षणत्वाद्भोगभूमय इत्यवसीयंते ॥ अथ तन्निवासिनां नृणां के परावरे स्थिती भवत इत्याह; नृस्थिती परावरे त्रिपल्योपमांतर्मुहूर्ते ॥ ३९ ॥ यथासंख्यमभिसंबधस्त्रिपल्योपमा परा नृस्थितिरंतर्मुहूर्तावरा इति । मध्यमा नृस्थितिः केल्याह;परावरे विनिर्दिष्टे मनुष्याणामिह स्थिती । त्रिपल्योपमसंख्यांतर्मुहूर्तगणने बलात् ॥१॥ मध्यमा स्थितिरेतेषां विविधा विनिवेदिता । खोपात्तायुर्विशेषाणां भावात्सूत्रेत्र तादृशां ॥२॥ तिरश्चां के परावरे स्थिती स्यातामित्याह; तिर्यग्योनिजानां च ॥४०॥ त्रिपल्योपमांतर्मुहूर्ते इति वर्तते, पृथग्योगकरणं यथासंख्यनिवृत्त्यर्थे । एकयोगकरणे हि नृस्थिती इति निर्देशे नृस्थितिः परा त्रिपल्योपमा, तिर्यस्थितिरवरान्तर्मुहूर्तेति यथासंख्यमभिसंबंधः प्रसज्येत । ततस्तन्निवृत्तिः पृथग्योगकरणात् । तिर्यामकर्मोदयापादितजन्म तिर्यग्योनिस्तत्र जातास्तिर्यग्योनिजाः एकेंद्रियविकलेंद्रियपंचेंद्रियविकल्पास्त्रिविधाः तेषां च यथागमं मध्यमा स्थितिः सामर्थ्यलभ्या प्रतिपत्तव्या परावरस्थितिवत् । किमर्थमिहोक्ते तिरश्चां परावरे स्थिती प्रकरणाभावेपीत्यादर्शयति; ते तिर्यग्योनिजानां च संक्षेपार्थमिहोदिते । स्थिती प्रकरणाभावेप्येषां सूत्रेण सूरिभिः ॥१॥ नन्धसंख्येयेष्वपि द्वीपसमुद्रेषु दृष्टेषु सार्धद्वीपद्वयप्रपंचं निरूपयतः सूत्रकारस्य किं चेतसि स्थितमित्याह;सार्धद्वीपद्वये क्षेत्र विभागादिनिरूपणं । अध्यायेसिनसंख्येयेष्वपि द्वीपेषु यत्कृतं ॥२॥ मनुष्यलोकसंख्या या जिज्ञासविषया मुनेः । तेन निर्णीयते सद्भिरन्यत्र तदभावतः ॥३॥ ननु च जीवतत्त्वप्ररूपणे प्रकृते किं निरर्थकं द्वीपसमुद्रविशेषनिरूपणमित्याशंका निवारयति; Page #369 -------------------------------------------------------------------------- ________________ ३६० तत्त्वार्थ श्लोकवार्तिके [ सू० ४० न च द्वीपसमुद्रादिविशेषाणां प्ररूपणं । निःप्रयोजनमाशंक्यं मनुष्याधारनिश्चयात् ॥ ४ ॥ कानि पुनर्निमित्तानि तवीपसमुद्रविशेषेषूत्पद्यमानानां मनुष्याणामित्याह;-- नानाक्षेत्रविपाकीनि कर्माण्युत्पत्तिहेतवः । संत्येव तद्विशेषेषु पुद्गलादिविपाकवत् ॥ ५॥ यथा पुद्गलेषु शरीरादिलक्षणेषु विवेचनशीलानि पुद्गलविपाकीनि कर्माणि शरीरनामादीनि यथा च भवविपाकीनि नारकायुरादीनि जीवविपाकीनि च सद्वद्यादीनि तथा तत्रोत्पत्तौ मनुष्याणामन्येषां च प्राणिनां हेतवः संति तद्वन्नानाक्षेत्रेषु विवेचनशीलानि क्षेत्रविपाकीन्यपि कर्माणि संति तत्र तत्रोत्पत्तौ तेषां हेतव इति तदाधारविशेषाः सर्वे निरूपणीया एव ॥ तदप्ररूपणे जीवतत्त्वं न स्यात् प्ररूपितं । विशेषेणेति तज्ज्ञानश्रद्धाने न प्रसिद्ध्यतः ॥६॥ तन्निबंधनमक्षुण्णं चारित्रं च तथा क नु । मुक्तिमार्गोपदेशो नो शेषतत्त्वविशेषवाक् ॥ ७॥ तेषां हि द्वीपसमुद्रविशेषाणामप्ररूपणे मनुष्याधाराणां नारकतिर्यग्देवाधाराणामप्यप्ररूपणप्रसंगान्न विशेषेण जीवतत्त्वं निरूपितं स्यात् , तन्निरूपणाभावे च न तद्विज्ञानं श्रद्धानं च सिद्ध्येत् , तदसिद्धौ श्रद्धानज्ञाननिबंधनमक्षुण्णं चारित्रं च क नु संभाव्यते ? मुक्तिमार्गश्च कैवं ? शेषाजीवादितत्त्ववचनं च नैवं स्यात् । ततो मुक्तिमार्गोपदेशमिच्छता सम्यग्दर्शनज्ञानचारित्राण्यभ्युपगंतव्यानि । तदन्यतमापाये मुक्तिमार्गानुपपत्तेः, तानि चाभ्युपगच्छता तद्विषयभावमनुभवत् जीवतत्त्वमजीवादितत्त्ववत् प्रतिपत्तव्यं । तत्प्रतिपद्यमाने च तद्विशेषा आधारादयः प्रतिपत्तव्याः । इति युक्तं द्वीपसमुद्रादिसन्निवेशादिविशेषमरूपणमध्यायेऽस्मिन् ॥ अत्रापरः प्राह; ननु द्वीपादयो धीमद्धेतुकाः संतु मूत्रिताः । सन्निवेशविशेषत्वसिद्धेर्घटवदित्यसत् ॥ ८ ॥ हेतोरीश्वरदेहेनानेकांतादिति केचन । तत्रापरे तु मन्यते निर्देहेश्वरवादिनः ॥९॥ निमित्तकारणं तेषां नेश्वरस्तत्र सिद्ध्यति । निर्देहत्वाद्यथा मुक्तः पुरुषः सम्मतः स्वयं ॥१०॥ विवादाध्यासिता द्वीपादयो बुद्धिमत्कारणकाः सन्निवेशविशेषत्वात् घटवदिति कश्चित् । तदसत् । हेतोरीश्वरशरीरेण विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रैवाभूमी जनयन् देव एक इत्यागमप्रसिद्धेनानेकांतादिति । अपरे नेश्वरस्य शरीरमस्ति हेतोर्व्यभिचारश्चोद्यत इति मन्यते तेषां "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महांत" इत्यागमं प्रमाणयतां नेश्वरस्तत्र निमित्तकारणं सिद्ध्यति निर्देहत्वात् स्वयं संमतमुक्तात्मवत् । ननु च मुक्तात्मनामज्ञत्वान्न जगदुत्पत्तौ निमित्तत्वं ईश्वरस्य तु निर्देहस्यापि नित्यज्ञानत्वात्तु निमित्तकारणत्वमेवेति चेत्नित्यज्ञानत्वतो हेतुरीश्वरो जगतामिति । न युक्तमन्वयासत्त्वाद्व्यतिरेकाप्रसिद्धितः ॥ ११ ॥ ननु नित्यज्ञानत्वादित्येतस्य हेतोरन्वयसत्त्वेपि न व्यतिरेकसत्त्वं जगदकारणस्यास्मदादेर्नित्यज्ञानत्वाभावादिति न मंतव्यं, ज्ञानसंतानापेक्षयास्मदादेरपि नित्यज्ञानत्वात् । न हि ज्ञानसामान्यरहितोमदादिः संभवति, विरोधात् । यदि पुनर्ज्ञानविशेषापेक्षया नित्यज्ञानत्वं हेतुस्तदा न सिद्ध इत्याह ; बोधोन वेधसो नित्यो बोधत्वादन्यबोधवत् । इति हेतोरसिद्धत्वान वेधाः कारणं भुवः ॥ १२ ॥ बोधत्वं च स्यादीश्वरबोधस्य नित्यत्वं च स्याद्विरोधाभावादस्मादृशविशेषत्वादीश्वरस्य विशिष्टबोधोपपत्तेः अन्यथा सर्वज्ञत्वसिद्धिविरोधात् इति कश्चित् । सोप्ययुक्तवादी, तद्बोधस्य प्रमाणत्वे ततोऽपरस्य Page #370 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ३६१ फलज्ञानस्यानित्यस्य तत्र प्रसिद्धेरफलस्य प्रमाणस्यासंभवात् । तस्य फलत्वे नित्यत्वविरोधात् । फलं हि प्रमाणं कार्य तत्कथं नित्यं युक्तं ? प्रमाणफलात्मकमीश्वरज्ञानमेकमित्यपि व्याहतं, खात्मनि क्रियाविरोधात् तस्य खजननासंभवात् । यदि पुनरीशस्य प्रमाणभूतं ज्ञानं नित्यं फलभूतं त्वनित्यमिति मतं, तदा ज्ञानद्वयपरिकल्पनायां प्रयोजनं वाच्यं । तस्याशरीरस्यासतः सदा सर्वज्ञत्वसिद्धिः प्रयोजनमिति चेन्न, अज्ञा• नरूपाया एव सन्निकर्षादिसामग्र्याः प्रमाणत्वाभ्युपगमेपि सदा सर्वार्थज्ञानस्यानित्यस्य तत्फलस्य कल्पनात् सदा सर्वज्ञत्वसिद्धेर्व्यवस्थापनात् । नन्वशरीरस्येंद्रियसंनिक भाववदंतःकरणसंनिकर्षस्याप्यभावात् सन्निकर्षादिसामग्रीविरहे ततो अनादिसर्वार्थविषयं नित्यज्ञानमेव तस्य प्रमाणमिति चेन्न, आत्मार्थसन्निकर्षस्य प्रमाणत्वोपगमात् । महेश्वरस्य हि सकृत्सर्वार्थसंनिकर्षमात्रात्सर्वार्थज्ञानोत्पत्तिरिष्यते कैश्चित् ततो न नित्यज्ञानत्वं सिद्धं, येन न जगन्निमित्तमीश्वरो निर्देहत्वात् मुक्तात्मवदित्यनुमानं प्रतिहन्येत ॥ कालादेरशरीरस्य कार्योत्पत्तिनिमित्तता । सिद्धति व्यभिचारित्वं निर्देहत्वस्य चेन्मतं ॥१३॥ न तस्य पुरुषत्वेन विशिष्टस्य प्रयोगतः । कालादेरशरीरत्वेश्वरत्वाव्यभिचारतः ॥१४॥ देहान्निष्क्रांतो निर्देहः पुरुषविशेषो महेश्वरस्तत्त्वनिर्देहपुरुषत्वं ततः पुरुषत्वे सति निर्देहत्वादिति पुरुषत्वेन विशिष्टस्य निर्देहत्वस्य प्रयोगान्न कालादिना सर्वकार्योत्पत्तिनिमित्तेनाशरीरेण व्यभिचारित्वं यतोऽप्रतिहतमिदमनुमानं न स्यादशरीरेश्वरजगन्निमित्तत्वाभावसाधनं । किं चजगतां नेश्वरो हेतुरज्ञत्वादन्यजंतुवत् । न ज्ञोसावशरीरत्वान्मुक्तवत्सोन्यथा स वित् ॥ १५॥ एतेनानित्यज्ञानत्वेपीश्वरस्य ज्ञात्वा जगन्निमित्तत्वसिद्धेन मुक्तात्मवत्तदनिमित्तत्वमित्येतन्निरस्तमशरीरस्य, तन्मते सर्वथाप्यज्ञत्वात् । तस्य ज्ञत्वे मुक्तात्मनोपि ज्ञत्वप्रसंगाद्विशेषाभावात् ॥ सदेहबुद्धिमद्धेतुर्दृष्टांतोपि घटः कथं । निर्देहबुद्धिमद्धेतौ साध्ये जगति युज्यते ॥ १६ ॥ धीमद्धेतुत्वसामान्यं साध्यंचेन्निर्विशेषकं । नानाधीमनिमित्तत्वसिद्धः स्यात् सिद्धसाधनं ॥१७॥ नानात्वपरिणामाख्यभावकर्मनिमित्तकं । सिद्धं हीदं जगत्तस्य तद्भोग्यत्वप्रसिद्धितः ॥१८॥ न हि धीमद्धेतुत्वमानं जगतां पर्यायार्थादेशादभ्युपगच्छतः स्याद्वादिनोऽपसिद्धांतः, सिद्धांतेपि नानाप्राणिपरिणामाख्यभावकर्मनिमित्तजगद्व्यवस्थितेः अन्यथा जगतस्तदुपभोग्यविरोधात् ॥ सशरीरकुलालादिः कुर्वन् दृष्टो घटादिकं । स्वयमात्मा पुनर्देहमशरीरोपि विश्रुतः ॥ १९ ॥ सदेहेतरसामान्यस्वभावो जगदीश्वरः । करोतीति नु साध्येत यदा दोषस्तदा क सः॥ २० ॥ इत्येके तदसंबंधं स्वशरीराणि कुर्वता । शरीरांतरसंबंधात्मनां स्थानान्यथा क्रिया ॥ २१ ॥ परापरशरीराणां कल्पनान्नानवस्थितिः । ते समानादिसंबंधात्कार्यकारणभावतः ॥२२॥ पूर्वमतनुत्वे नरस्यमुक्तस्येव न युज्येत भूयोन्यतनुसंगतिः॥ सा यद्यदृष्टसद्भावान्मता तस्य तु सिद्ध्यतु । पूर्व कर्मशरीरेण संबंधः परविग्रहात् ॥ २३ ॥ शरीरमात्मनोऽदृष्टं पुद्गलात्मकमीरितं । सर्वथात्मगुणत्वेस्य पारतंत्र्यानिमित्तता ॥ २४ ॥ न हि सर्वथात्मगुणत्वे धर्माधर्मसंज्ञकस्यादृष्टस्यात्मपारतंत्र्यनिमित्तत्वं युक्तं । बुद्धिवत् इच्छाद्वेषयोरात्मगुणत्वेप्यात्मपारतंत्र्यनिमित्तत्वसिद्धेर्युक्तमेवेति चेन्न, तयोः सर्वथात्मगुणत्वाभावात् कर्मोदयनिमित्तत्वेन भावकर्मत्ववचनात् । तयोरेवात्मपारतंत्र्यस्वभावत्वाच्च न पारतंत्र्यनिमित्तत्वं । मोहविशेषपारतंत्र्य एव हि पुरुषस्येच्छाद्वेषौ तदपरतंत्रस्य क्वचिदभिलाषद्वेषासंभवात् । ततो न धर्माधर्मों पुरुषगुणौ पुरुष Page #371 -------------------------------------------------------------------------- ________________ ३६२ तत्त्वार्थश्लोकवार्तिके [सू० ४० पारतंत्र्यनिमित्तत्वान्मोहविशेषान्निगलादिवत् । किं तर्हि ? पुद्गलपरिणामात्मको तौ तत एव तद्वत् पुद्गलपरिणामविशेषात्मकत्वाच्चादृष्टस्यात्मशरीरत्वमुपंगतमिति नौदारिकादिशरीरसंबंधात्पूर्वमदृष्टवत् सर्वथात्मा निर्देहो युक्तः । यस्तु निर्देहो मुक्तात्मा स न कस्यचिच्छरीरस्यारंभको भवति यतस्तद्वदीश्वरोपि जगतोऽहेतुः स्यात् ॥ संप्रति सदेहेश्वरवादिमतमाशंक्य प्रतिविधत्ते;क्षित्यादिमूर्तयः संति महेशस्य तदुद्भवे । स एव हेतुरित्यादि व्यभिचारो न चेद्भवेत् ॥२५॥ तथान्येपि किमात्मानः स्वमूर्युत्पत्तिहेतवः। स्वयं न स्युरितीशस्य क सियेत्सर्वहेतुता ॥२६॥ कुर्वन् क्षित्यादिमूर्तीश्च स्वमूर्ति तत्प्रयोगतः । मूर्त्यतराणि कुर्वीत यदि वानादिभिर्यतः ॥२७॥ गत्वा सुदूरमप्येवं यदि मूर्ती न काश्चन । कुर्यात्ताभिस्तदा हेतोरनैकांतिकता न किं ॥२८॥ अनादिमूर्तिभिस्तस्य संबंध इतिचेन्मतं । किंकृतानादिता तासां सनिवेशविशिष्टता ॥ २९ ॥ न वा ताभिर्महेशेन कृताभिव्यभिचारता । साधनस्य कृताभिवों तेन तामनवस्थिति ॥३०॥ केवलं मुखमस्तीति यत्किंचिदभिधीयते । मिथ्योत्तराणामानंत्यात्प्रेक्षावत्ता नु तत्र का ॥३१ ।। ततः सूक्तमेतत् सदेहेश्वरवादिनां सन्निवेशविशिष्टत्वादिति हेतुरीश्वरदेहेन व्यभिचारीति ॥ बुद्धिमद्धेतुकं यादृग्दृष्टं द्रव्यग्रहादिषु । संनिवेशविशिष्टत्वं तादृग्जगति नेक्ष्यते ॥ ३२॥ इति हेतोरसिद्धत्वं कैश्चिदुक्तं न युज्यते । तथा सर्वेष्टहेतूनामसिद्धत्वप्रसंगतः ॥ ३३ ॥ कृतधीजनकं तद्धि नाक्रियादर्शिनो यथा । कचित्तथा न धृमादिरम्यादिज्ञानकारणं ॥ ३४॥ वह्नयादिबुद्धिकारित्वं स्वयं सिद्धस्य सिद्धता । धूमादेः साधनस्यैतत्सिद्धौ वन्ह्यादिधीरिति३५ यथान्योन्याश्रयस्तद्वत्प्रकृतेपि हि साधने । कृतधीजनकत्वेस्य सिद्धतायां कृतत्वधीः ॥ ३६ ।। ततोनैकांतिको हेतुरेष वाच्यः परीक्षकैः । कार्यत्वार्थक्रियाकृत्वप्रमुखोनेन वर्णितः ॥ ३७॥ यथैव हि सन्निवेशविशिष्टत्वादिति हेतु सिद्धः संबंधो वक्तुमिष्टहेतूनामप्यसिद्धत्वप्रसंगात् । किं तर्हि ? परीक्षकैरनैकांतिको वाच्यस्तथा कार्यत्वादचेतनोपादानत्वादर्थक्रियाकारित्वात् स्थित्वाप्रवृत्तेः इत्येवमादिरपीश्वरदेहेन नैकांतिक एव सर्वथा विशेषाभावात् । अपि च स्थावरादिभिरप्यस्य व्यभिचारोनुवर्ण्यते । कैश्चित्पक्षीकृतैस्तेषामधीमद्धेतुतास्थितैः ॥ ३८॥ कथं पुनः स्थावरादीनामबुद्धिमत्कारणकत्वस्थितियतस्तैरनैकांतिकत्वं कार्यत्वादिहेतूनामुद्भाव्यत इत्यावेदयति; दृष्टक्षित्यादिहेतूनामन्वयव्यतिरेकतः । दृश्यते स्थावरादीनां सर्वगत्वेन वेधसः ॥ ३९ ॥ न देशे व्यतिरेकोस्ति क्षितावस्य सदा स्थितेः । सर्वगस्यान्वयस्त्वेको न तजन्यं त्वसाधनः ॥ क्षित्युदकबीजादितया कारणान्वयव्यतिरेकात् स्थावरादीनां भाव्यभावकयोरुपलंभान्न बुद्धिमत्कारणा. न्वयव्यतिरेकानुविधानं । न हि बुद्धिमतो वेधसः क्वचिद्देशे व्यतिरेकोस्ति सर्वगतत्वात् , नापि काले नित्यत्वात् । तथा च नान्वयो निश्चितः संभवति तद्भावाभावदर्शनमात्रान्वयो वा, स न तजन्यत्वं साधयति करभादे वे धूमाविर्भावदर्शनात्तजन्यत्वसिद्धिप्रसंगात् । कथमदृष्टस्य स्थावरादिनिमित्तत्वमित्याह; नश्वरत्वाददृष्टस्यासर्वगत्वाच्च सिद्ध्यति । व्यतिरेकस्तत्र तस्य स्थावरादिनिमित्तता ॥४१॥ न ह्यदृष्टं धर्माधर्मसंज्ञितं कूटस्थं सर्वगतं वा महेश्वरवदिप्यते यतस्तस्य देशकालव्यतिरेको न Page #372 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ३६३ सिद्ध्येत् । क्षित्यादिदृष्ट सामग्रीसद्भावेपि कचित्स्थावरादीनामनुपलंभाददृष्टकारणत्वं सिद्ध्यत्येव । कथमेवं तदुत्पत्तौ कालादेर्हेतुत्वमिति सर्वगतस्य व्यतिरेकासिद्धेरीश्वरवदिति वदंतं प्रत्याह; — कालादिपर्ययस्यापि नित्यत्वाद्यप्रसिद्धितः । सर्वथा कार्यनिष्पत्तौ हेतुत्वं न विरुध्यते ॥ ४२ ॥ न हि कालाकाशादिपर्यायाणां नित्यत्वं सर्वगतत्वं वा प्रसिद्धं कालाणूनामेव द्रव्यार्थादेशान्नित्यत्वोपगमात् । निःपर्यायस्य नित्यस्य सर्वगतस्य च कालस्य परोपगतस्याप्रमाणकत्वात्, सर्वगतस्य नित्यस्य चाकाशद्रव्यस्यैव व्यवस्थापनान्निः पर्यायस्य तस्यापि ग्राहकप्रमाणाभावात् । धर्मास्तिकायस्याधर्मास्तिकायस्य च लोकव्यापिनोपि द्रव्यत एव नित्यत्वोपगमात् पर्यायतोऽसर्वगतत्वादनित्यत्वाच्च । ततो युक्तं स्वकार्योत्पत्तौ निमित्तत्वं सर्वथा विरोधाभावात् । यद्येवं महेश्वरगुणस्य सिसृक्षालक्षणस्यानित्यत्वादसर्वगतत्वात् च तन्निमित्तत्वं स्थावरादीनां युक्तं व्यतिरेकप्रसिद्धेरिति पराकूतमनूद्य दूषयति ; 1 " महेश्वरसिसृक्षाया जगज्जन्मेति केचन । तस्याः शाश्वततापायाद् विभुत्वाददृष्टवत् ॥ ४३ ॥ तदयुक्तं महेशस्य सिसृक्षांतरतो विना । सिसृक्षोत्पादने हेतोस्तथैव व्यभिचारतः ॥ ४४ ॥ सिसृक्षांतरतस्तस्याः प्रसूतावनवस्थितेः । स्थावरादिसमुद्भूतिर्न स्यात्कल्पशतैरपि ॥ ४५ ॥ तद्भोक्तृप्राण्यदृष्टस्य सामर्थ्यात्सा भवस्य चेत् । प्रसूतिः स्थावरादीनां तस्मादन्वयनान्न किं ४६ स्वातंत्र्येण तदुद्भूतौ सर्वदोपरमच्युतेः । सर्वत्र सर्वकार्याणां जन्म केन निवार्यते ॥ ४७ ॥ व्याख्यातात्रेश्वरेणैव नित्या साध्यातिरेकिणी । कचिद्व्यवस्थितान्यत्र न स्यादन्वयभागपि ४८ नन्वेवं कालादिपर्ययस्य स्वकार्योत्पत्तौ निमित्तभावमनुभवतः प्रादुर्भावे यद्यपरः कालादिपर्यायो निमित्तं तद्वदन्यकार्योत्पत्तावपि कालादिपर्यायी निमित्तं मा भूत्, अथ निमित्तं तदुत्पत्तावप्यपरो निमितमित्यनवस्था स्यात् कालादिपर्यायस्य कारणमंतरेणोत्पत्तौ देशकालादिनियमानुपपत्तेः सर्वत्र सर्वदा भावात्सर्वकार्याणामनुपरतेत्यतिप्रसंग: । तस्य नित्यत्वे कालादिद्रव्यवद्यतिरिक्ता सिद्धिरन्वयमात्रसिद्धावपि सर्वदोत्पत्तिस्तेषामनिमित्तत्वप्रसंग ः । सिसृक्षावत्स्थावराद्युत्पत्ताविति केचित् तेपि न तत्त्वज्ञाः । स्याद्वादिनां स्वकार्योत्पत्तिनिमित्तस्य कालादिपर्ययस्य निमित्तत्व सिद्धेस्तदुत्पत्तावपि तत्पूर्वकालादिपर्यायस्य निमित्तत्वमित्यनादित्वान्निमित्तनैमित्तिकभावस्य तत्पर्यायाणां बीजांकुरादिवदनवस्थानवतारात् । कथंचित्खातंत्र्येणोत्पद्यमानस्यापि सर्वत्र सर्वदा च भावानुत्पत्तेः नित्यत्वाभ्युपगमाच्च । ननु महेश्वरसिसृक्षापि तर्हि स्त्रावराद्युत्पत्तौ निमित्तभावमनुभवतीति पूर्वसिसृक्षातः सापि खपूर्वसिसृक्षातः इत्यनादित्वात् कार्यकारणभावस्य कथमनवस्थादोषेणोपद्र्येत कथं वा तथैव हेतवो नैकांतिकाः स्युः ? न स्थावरादिकार्यानुपरमः स्वातंत्र्येणानुत्पादात् । नाव्यतिरेको नित्यत्वानभ्युपगमात् सिसृक्षायाः तन्नित्यत्वे सर्वदा कार्योत्पतिप्रसंगात् । सर्वदा सहकारिणामभावान्न तत्प्रसंग इति चेन्न, तेषामपि महेश्वरसिसृक्षया तज्जन्मत्वे सर्वदा सद्भावापत्तेस्तदनायत्तजन्मकृतैरेव हेतूनां व्यभिचारात् । तत्सहकारिणोपि खोत्पत्तिहेतूनामभावात् सर्वदोत्पद्यत इति चेन्न, तेषामपीश्वरसिसृक्षायास्तज्जन्मत्वेतरयोरुक्तदोषानुषंगात् । तत्सहकारिणां नित्यत्वे स एव सर्वदा कार्योत्पत्तिप्रसंग: । सिसृक्षायाः सहकारिणां च नित्यत्वादनित्यैव सा युक्ता । ब्राह्मण मानेन वर्षशतांते प्राणिनां भोगभूतये भगवतो महेश्वरस्य चतुर्दशभुवनाधिपतेः सिसृक्षोत्पद्यत इति वचनाच्च न नित्यासैौ तथोत्पत्तिविरोधादिति केचित् । तत्रैकेषां दूषणं सिसृक्षाया नित्यत्वाभावेपि दृष्टं क्षित्यादिकारण साकल्येपि स्थावरादीनां कदाचिदनुत्पत्तिप्रसंगः कदाचित्तदभावसंभवात् तदंत्य सहकारिकारणसन्निधानानंतरमेव सिसृक्षोत्पत्तेस्तदभावासंभवे तस्याः सहकारिकारणप्रभवत्वप्रसंगः तद्नंतर Page #373 -------------------------------------------------------------------------- ________________ ३६४ तत्त्वार्थश्लोकवार्तिके [ सू० ४० भावनियमस्यानुपपत्तेः तेषां सहकारिणां सिसृक्षामुत्पादयतां सिसृक्षांतरादुत्पत्तौ स्थावरादिवत् कदाचिदनुत्पत्तिप्रसंगस्तस्य कदाचिदसंनिधानात्तदंत्यकारणसंनिधानानंतरमेव सिसृक्षांतरस्योत्पत्तिनियमात् । तदप्रसंगे तत्कारणप्रभवत्वप्रसंगस्तद्रनंतरभावनियमस्यान्यथानुपपत्तेः इत्यादि पुनरावर्तत इति चक्रकमेतत् । सिसृक्षांतरेणाप्रेरितानामेव सहकारिणामुत्पत्तेरेव हेतूनामनेकांतिकत्वं सहकारिणां सिसृक्षया सह नियमेनोत्पत्तेः । स्थावरादीनां सकलकारणानां कदाचिदनुपपत्तेः । प्रसंगाभावे सिसृक्षाया सहकारिणां च . क्षित्यादीनामेकं कारणमनुपपद्येत अन्यथा सहभावनियमायोगात् । तचैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तजनकं तेनैव हेतुव्यभिचारस्तेन प्रेरितस्य तज्जनकत्वे कदाचित्तजननप्रसंगः । पूर्ववत्तस्यापि प्रेर्येण सह नियमेनोत्पत्तौ तयोरप्येकं कारणं स्यात् । तच्चैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तजनक तेनैव हेतुव्यभिचार इत्यादि पुनरावर्तत इति चक्रकमपरं । क्षित्यादिभिः प्रागनंतरं नियमोत्पत्तौ सिसृक्षायाः सहकारिहेतुभिरेकसामग्र्यधीनता स्यादन्यथा प्रागनंतरं नियमोत्पत्त्ययोगात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तज्जनिका तदा तयैव हेतुव्यभिचारः । यदि पुनः प्रेरिता सा तज्जनिका तदा प्रेर्यात्प्रागनंतरं नियमेनोत्पत्त्या तस्या भवितव्यमन्यथोक्तदोषानुषंगात् । तथा च सिसृक्षांतरं प्रेर्यासामग्र्यविशेषात्प्रागनंतरं नियमेनोत्पद्यमानं तद्धेतुभिरेकसामग्र्यधीनं स्यात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तजनिका तदा तयैव हेतुव्यभिचार इत्यादि पुनरावर्तत इत्यन्यच्चक्रकं । तदेतद्दूषणं परिहर्तुकामेन क्षित्यादिभ्योनंतरं प्राक् सद्वा तैः सिसृक्षोत्पत्तिनियमतो नाभ्युपगंतव्या । तथा च तद्व्यतिरेकानुविधानमुपलभ्येत न चोपलभ्यते, क्षित्युदकबीजादिकारणसामग्रीसन्निधाने प्रतिबंधे वा सति स्थावरादिकार्यस्यावश्यं भावदर्शनादिति । तदेतदयुक्तं, स्थावरादीनामदृष्टादिहेतुत्वेप्येतद्दोषप्रसंगात् खसिद्धांतविरोधात् । यदि पुनरदृष्टक्षित्यादिकारणसाकल्येपि स्थावरादीनां परिणामवैचित्र्याददृष्टादिसिद्धिः चक्षुरादिकारणसाकल्येपि रूपादिज्ञानपरिणामवैचित्र्यादिनियतशक्तिवदिति मतं, तदेश्वरसिसृक्षासिद्धिरपि तत एवास्तु तस्यास्तत्सिद्ध्या विरोधाभावादित्यपरे । तेत्र प्रष्टव्याः । स्थावराद्युत्पत्तौ निमित्तभावमनुभवंती महेश्वरस्य सिसृक्षा यदि पूर्वसिसृक्षातो भवति सापि तत्पूर्वसिसृक्षातस्तदा सोत्तरां सिसृक्षां प्रादुर्भावयति वा नवा ? न तावदुत्तरः पक्षस्तदनंतरस्थावरादिभ्य उत्तरोत्तरस्थावराद्यनुत्पत्तिप्रसंगात् । तत एव तदुत्पत्तौ व्यर्थानादिसिसृक्षापरंपरापरिकल्पना, कथंचिदेकयैवाशेषपरापरस्थावरादिकार्याणामुत्पादयितुं शक्यत्वात् पूर्वसिसृक्षया अप्युत्तरोत्तरसिसृक्षां प्रत्यव्यापारात् । यदि पुनराद्यः पक्षीक्रियते तदा चोत्तरसिसृक्षायामेव प्रकृतसिसृक्षाया व्यापारात् ततः स्थावरादिकार्योत्पत्तिर्न भवेत् । एतेन पूर्वपूर्वसिसृक्षाया अप्युत्तरोत्तरसिसृक्षायामेव व्यावृत्तेः पूर्वमपि स्थावराद्युत्पत्त्यभावः प्रतिपादितः । यदि पुनरियं सिसृक्षांतरोत्पत्तौ स्थावरादिकार्योत्पत्तौ च व्याप्रियेत पूर्वा पूर्वा च सिसृक्षा परां परां च सिसृक्षां तत्सहभाविस्थावरादींश्च प्रति व्याप्रियमाणाभ्युपेयेत, तदैकैव सिसृक्षा सकलोत्पत्तिमतामुत्पत्तौ व्यापारवती प्रतिपत्तव्या । तथा च सकृत्सर्वकार्योत्पत्तेः कुतः पुनः कार्यक्रमभावप्रतीतिः ? स्यान्मतं, क्रमशः स्थावरादिकार्याणां देशादिनियतखभावानामुभयवादिप्रसिद्धत्वात् तन्निमित्तभावमात्मसात्कुर्वाणा महेश्वरसिसृक्षाः क्रमभाविन्य एवानुमीयंते कार्यविशेषानुमेयत्वात् कारणविशेषव्यवस्थितेरिति । तर्हि सिसृक्षांतरोत्पत्तावन्याः सिसृक्षाः स्थावरादिकार्योत्पत्तौ वापरास्तावंत्यो अभ्युपगंतव्याः कार्यविशेषात्कारण विशेषव्यवस्थितेरन्यथानुपपत्तेः । नानाशक्तिरेकैव सिसृक्षायां तन्निमित्तमितिचेत् , तर्हि सकलक्रमभावीतरकार्यकारणपटुरनेकशक्तिरेकैव महेश्वरसिसृक्षास्तु । सा च यदि सिसृक्षांतरनिरपेक्षोत्पद्यते तदा स्थावरादिकार्याण्यपि तन्निरपेक्षाणि भवंतु किमीश्वरसिमक्षया ? सिसृक्षांतरात्तदुत्पत्तौ तत एव सकलक्रमभावीतरस्थावरादि Page #374 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ३६५ कार्याणि प्रादुर्भवंतु । नाना शक्तियोगात्तदभ्युपगमे च स एव पर्यनुयोग इत्यनवस्था दुर्निवारा । यदि पुनर्नित्यनेकशक्तिरेकैव महेश्वरसिसृक्षा तदा अस्याः स एव व्यतिरेकाभावो महेश्वरन्यायवत् । तदव्यापित्वे एतच्छ्रन्येपि देशे स्थावरादीनामुत्पत्तेः कुतोन्वयस्यापि प्रसिद्धिः ? यदि पुनरनित्यापि ससृक्षा ब्राह्मण मानेन वर्षशतांते जगद्भोक्तृप्राण्यदृष्टसामर्थ्यादेकैवोत्पद्यते न सिसृक्षांतरादिति मतं, तदा तत • एव जगदुत्पत्तिरस्तु किमीश्वरसिसृक्षया ! ततो न स्थावराद्युत्पत्तौ महेश्वरो निमित्तं तदन्वयव्यतिरेकानुविधानबिकल्पत्वात् । यद्यन्निमित्तं तन्न तदन्वयव्यतिरेकानुविधान विकलं दृष्टं यथा कुविंदादिनिमित्तं वस्त्रादि । महेश्वरसिसृक्षान्वयव्यतिरेकानुविधान विकलं च स्थावरादि तस्मान्न तन्निमित्तमिति व्यापकस्य तदन्वयव्यतिरेकानुविधानस्यानुपलंभाद्याप्यतन्निमित्तत्वस्य स्थावरादिषु प्रतिषिद्धे सिद्धे सति सन्निवेशविशिष्टत्वादेर्हेतोरनैकांतिकत्वं स्थावरादिभिः केचिन्मन्यते ॥ एवमीशस्य हेतुत्वाभावसिद्धिं प्रचक्षते । व्यापकानुपलंभेन स्थावरादिसमुद्भवे ॥ ४९ ॥ एवं जगतां बुद्धिमत्कारणत्वे साध्ये कार्यत्वादिहेतोः स्थावरादिभिर्व्यभिचारमुद्भाव्य पुनः स्थावरादीनामीशनिमित्तत्वाभावसिद्धिं व्यापकानुपलंभेन केचित्प्रचक्षते ॥ पक्षस्यैवानुमानेन बाधोद्भाव्येति चापरे । पक्षीकृतैरयुक्तत्वाद्व्यभिचारस्य साधने ॥ ५० ॥ अनेनैवानुमानेन व्यापकानुपलंभेन पक्षबाधोद्भावनीया कालात्ययापदिष्टत्वं च हेतोस्तथोद्भावितं स्यान्न पुनः पक्षीकृतैः स्थावरादिभिः साधनस्य व्यभिचारस्तत्रोद्भावनीयस्तस्यायुक्तत्वात् । एवं हि न कश्चिद्धेतुरव्यभिचारी स्यात् कृतकत्वादेरपि शब्दानित्यत्वादौ पक्षीकृतैः शब्दैरेव कश्चिव्यभिचारस्योद्भावयितुं शक्यत्वात् । न कश्चिज्जगद्वुद्धिमन्निमित्तं साधयितुं स्थावरादीन् पक्षीकुरुते । तैः साधनस्य व्यभिचारोद्भावने वा कृते सति पश्चान्न पक्षीकुर्वीत येन व्यभिचाराविषयस्य पक्षीकरणाद्धेतोरव्यभिचारे न कश्चिद्धेतुर्व्यभिचारी स्यात् । पक्कान्येतान्याम्रफलान्ये कशाखाप्रभवत्वादुपयुक्तफलवदित्यादिषु तदेकशाखाप्रभवानामपक्कानामाम्रफलानां व्यभिचारविषयाणां पक्षीकरणादित्युपलंभः स्यात् । यथा चात्र न पक्षीकृतैः कश्चिव्यभिचारमुद्भावयति किंतु प्रत्यक्षबाधा पक्षस्य हेतोश्च कालात्ययापदिष्टत्वं तथा प्रकृतानुमानेपि । यथा च पक्षस्य प्रत्यक्षबाधोद्भावयितुं युक्ता तथानुमानबाधापि । यथा च प्रत्यक्षबाधितपक्षनिर्देशानंतरं प्रयुज्यमानो हेतुः कालात्ययापदिष्टस्तथानुमानबाधितपक्षनिर्देशानंतरमपि सर्वथा विशेषाभावात् पक्षबाधोद्भावने च हेतुभिः परिधानमपि न भवेदिति सोद्भावनीया, तदुपेक्षायां प्रयोजनाभावादिति चापरे प्रचक्षते । अन्ये त्वाहु: सर्वथा यदि कार्यत्वं हेतुः स्याद्वादिनां तया । न सिद्धो द्रव्यरूपेण सर्वस्याकार्यता स्थितेः ५१ कथंचित्तु विरुद्धः स्याद्धीमत्त्वे तु जगत्स्वयं । कथंचित्साधयन्निष्टविपरीतं विशेषतः ।। ५२ ।। नाक्रोशंतः पलायंते विरुद्धा हेतवः स्वतः । सर्वगे बुद्धिमद्धेतौ साध्येन्यैर्जगतामिह ॥ ५३ ॥ यदि सर्वथा कार्यत्वमचेतनोपादानत्वं सन्निवेशविशिष्टत्वं स्थित्वा प्रवृत्त्यादि वा हेतुस्तदा न सिद्धस्तन्वादेरपि कद्रर्व्याथादेशादार्यत्वात् । कार्यत्वं तावदसिद्धं तथा तस्य नित्यत्वव्यवस्थितेः सर्वथा कस्यचिदनित्यत्वेर्थक्रियाविरोधात् । तत एव सर्वस्यानुपादानत्वादचेतनोपादानत्वं न सिद्धं ज्ञानादेः पक्षीकृतस्यापि चेतनोपादानत्वात् तदभ्युपगमो नापि भागासिद्धं वनस्पतिचैतन्ये खापवत् सन्निवेशविशिष्टत्वमपि न द्रव्यस्य पर्यायविषयत्वात्तस्येत्यसिद्धं ज्ञानादौ स्वयमभ्युपगमाच्च भागासिद्धं तद्वदेव स्थित्वा प्रवृत्तिरपि न द्रव्यार्थादेशात् कस्यचित्तथा सर्वस्य नित्यप्रवृत्तत्वादिती तर सिद्धिः । अर्थक्रियाकारित्वं Page #375 -------------------------------------------------------------------------- ________________ ३६६ तत्त्वार्थश्लोकवार्तिके [सू० ४० पुनद्रव्यादर्थातरभूतस्य पर्यायस्यैकांतेन तदुरुपपादमित्यसिद्धमेव । यदि पुनः कथंचित्कार्यत्वमन्यद्वा हेतुस्तदा विरुद्धः स्यात् खयमिष्टविपरीतस्य कथंचिद्धीमद्धेतुकत्वस्य साधनात् । सर्वथा बुद्धिमत्कारणत्वे हि साध्ये जगतः कथंचिद्धीमद्धेतुकत्वसाधनो हेतुर्विशेषविरुद्धः सर्वोपीति । नाक्रोशंतः प्रपलायंते विशेषविरुद्धा हेतवः । कार्यत्वादिना मौलेन हेतुना खेष्टस्य साध्यस्याप्रसाधनात्तेषां निरवकाशत्वाभावात् तैरस्य व्याघातसिद्धेः । न चैवं धूमादेरम्याद्यनुमानं प्रत्याख्येयं कथंचिदग्निमत्त्वादेरेव क्वचिल्लौ- । किकैः साध्यत्वात् कथंचिद्भूमकत्वादेरेव हेतुत्वेनोपगमाच्चासिद्धत्वविरुद्धत्वयोरयोगात् । तर्हि जगतां कथंचिहुद्धिमत्कारणत्वस्य साध्यत्वात् कथंचित्कार्यत्वादेश्च हेतुत्वोपगमात्परस्यापि न दोषः इति चेन्न, स्याद्वादिनां सिद्धसाधनस्य तथा व्यवस्थापनात् ॥ द्रव्यं गुणः क्रियानंतविशेषोशाश्वतो ननु । विवादाध्यासितो धीमान् हेतुः साध्यस्थितो यदा ५४ कार्यत्वं न तथा खेष्टविपरीतं प्रसाधयेत् । नाप्यसिद्धं भवेत्तत्र सर्वथापि विवक्षितं ॥ ५५ ॥ इत्येके तदसंप्राप्तं भेदैकांताप्रसिद्धितः । कार्यकारणयोरैक्यप्रतिपत्तेः कथंचन ॥ ५६ ॥ यदप्याहुः परे पृथिव्यादिकार्यद्रव्यमशाश्वतं धर्मि तस्य विवादाध्यासितत्वान्न पुनराकाशं अभिलापातमेवं शाश्वतं द्रव्यं, नाप्यात्मा सुखाद्यनुमेयो नित्यो, न कालः परत्वापरत्वाद्यनुमेयो दिग्वा, नापि मनः सकृद्विज्ञानान्यथानुपपत्त्यानुमेयं, नापि पृथिव्यादिपरमाणवोकार्यद्रव्यानुमेयास्तेषामविवादापन्नत्वात् । तत एव न सामान्यमनुवृत्तिप्रत्ययानुमेयं, नापि समवाय इहेदमिति प्रत्ययानुमेयो, नांत्यविशेषा नित्यद्रव्यवृत्तयोऽत्यंतव्यावृत्तिबुद्धिहेतवः तथा गुणोप्यशाश्वत एव रूपादिधर्मी न पुनः शाश्वतोंत्यविशेषैकार्थसमवेतः । परिमाणैकत्वैकपृथक्त्वगुरुत्वस्नेहसलिलादिपरमाणुरूपरसस्पर्शादिलक्षणो नापि द्रव्यत्वममूर्तद्रव्यसंयोगो वा तदाधारेतरेतराभावो वा तस्यानुत्पत्तिरूपस्याविवादाध्यासितत्वात् । तथा क्रियाधर्मिणी विनश्वरी परिस्पंदलक्षणोत्क्षेपणादिर्न पुनर्धात्वर्थलक्षणा भावनादिः काचिन्नित्या तस्या अपि विवादापन्नत्वाभावात् । तस्य च बुद्धिमान् हेतुरस्तीति । यदा साध्यस्थितो भवेत् तदा नु कार्यत्वं खेष्टविपरीतत्वं साधयेत् खेष्टस्यैव सर्वथा बुद्धिमत्कारणकत्वस्य साधनात् । सर्वथा विवक्षितस्यापि तस्य सिद्धत्वं च नोपपत्तिमदिति तदेतत्सर्वमसंबद्धं, कार्यकारणयोभेदेकांताप्रसिद्धेः कथंचिदैक्यप्रतिपत्तेः । सर्वस्य तद्धे. दैकांतसाधनस्यानेकान्तग्राहिणा प्रमाणेन बाधितविषयत्वात् कालात्ययापदिष्टत्वव्यवस्थितेः । ननु च कार्यकारणयोरेकस्य कथंचिन्निश्चयात् कार्यद्रव्यस्य कारणद्रव्याद्भेदैकांतो मा भूत् गुणस्य चानित्यस्य कर्मणोपि च तत्कार्यत्वाविशेषात् सदृशपरिणामलक्षणस्य सामान्यस्य विसदृशपरिणामलक्षणस्य विशेषस्य वांत्यापरविकल्पस्य समवायस्य वा विष्वग्भावलक्षणस्य द्रव्यकार्यत्वात् कथंचित्ततोनन्यत्वमस्तु नित्यात्तु गुणाद्गुणी भिन्न एव तयोः कार्यकारणभावाभावादिति मन्यमानं प्रत्याह; नैकांतभेदभृत्सिद्धो नित्यादपि गुणाद्गुणी । द्रव्यस्यानादिपर्यंतपरिणामात् तथा स्थितेः ५७ न केवलमनित्याद्गुणात्कर्मादेश्च गुणी जीवादिद्रव्यपदार्थः सर्वथा भिन्नो न सिद्धः । किं तर्हि ? नित्यादपि गुणादर्शनादिसामान्यान्न सर्वथा भिन्नस्तस्य तथानादिपर्यतपरिणामात्तथा व्यवस्थितत्वाज्जीवत्वादिवत् । कथंचित्तादात्म्याभावे तस्य तद्गुणत्वविरोधाद्रव्यांतरगुणवत् । तत्र समवायात्तस्य तद्गुणत्वमिति चेन्न, समवायस्य समवायितादात्म्यस्य प्रसाधितत्वात् । ततः सर्वस्य विवादाध्यासितस्य तत्कारणभुवनादेः सर्वथा बुद्धिमत्कारणत्वे साध्ये कथंचित्कार्यत्वं साधनं खेष्टविपरीतं कथंचिद्बुद्धिमन्निमित्तत्वं प्रसाधयेदेवेति विरुद्धं भवेत् । सर्वथात्र कार्यत्वमसिद्धमिति दुष्परिहरमेवैतद्रूषणद्वयं ॥ Page #376 -------------------------------------------------------------------------- ________________ ३६७ तृतीयोऽध्यायः। संप्रति साधनांतरमनूद्य दूषयन्नाह;विवादाध्यासितात्मानि करणादीनि केनचित । काधिष्ठितवृत्तीनि करणादित्वतो यथा ५८ वास्यादीनि च तत्कर्तृसामान्ये सिद्धसाधनं । साध्ये कर्तृविशेषे तु साध्यशून्यं निदर्शनम् ५९ विवादापन्नखभावानि करणाधिकरणादीनि केनचित् काधिष्ठितानि वर्तते करणाधिकरणत्वाद्वास्यादिवत् । योसौ कर्ता स महेश्वर इति कश्चित् , तस्य कर्तृसामान्ये साध्ये सिद्धसाधनं । कर्तृविशेषे तु नित्यसर्वगतामूर्तसर्वज्ञादिगुणोपेते साध्ये साध्यविकलमुदाहरणं, वास्यादेरसर्वगतादिरूपतक्षादिकधिष्ठितस्य प्रवृत्तिदर्शनात् ॥ तत्सामान्यविशेषस्य साध्यत्वाचेददूषणं । सोपि सिद्धाखिलव्यक्तिव्यापी कश्चित्प्रसिद्ध्यति ६० देशकालविशेषावच्छिन्नाग्निव्यक्तिनिष्ठितं । साध्यते ह्यग्निसामान्यं धूमानासिद्धभेदगं ॥६१॥ न कारणादिधर्मिणः करणादित्वेन हेतुना कर्तृसामान्याधिष्ठितवृत्तित्वं साध्यते, नापि कर्तृविशेषाधिष्ठितवृत्तित्वं येनोक्तदूषणं स्यात् । किं तर्हि ? कर्तृसामान्यविशेषाधिष्ठितत्वं साध्यते, रूपोपलब्ध्यादिक्रियाणां क्रियात्वेन करणसामान्यविशेषाधिष्ठितत्ववत् । न हि तासां करणसामान्याधिष्ठितत्वं साध्यं, सिद्धसाधनापत्तेः । नाप्यमूर्तत्वादिधर्माधारकरणविशेषाधिष्ठितत्वं, विच्छिदिक्रियायुदाहरणस्य साध्यविकलत्वप्रसंगात् । तस्य मूर्तत्वादिधर्माधारदात्रादिकरणाधिष्ठितस्य दर्शनात् । यथा वा लौकिकपरीक्षकप्रसिद्धे धूमादम्यनुमाने सामान्यविशेषः साध्यते तथात्रापीत्यदूषणमेव, अन्यथा सर्वानुमानोच्छेदप्रसंगादिति मन्यमानस्यापि सोपि कर्तृसामान्यविशेषः प्रसिद्धाखिलकर्तृव्यक्तिव्यापी कश्चित् सिद्ध्यति न पुनरिष्टविशेषव्यापी । न ह्यप्रसिद्धानिसामान्यं केनचित्साध्यते देशकालविशेषावच्छिन्नाग्निव्यक्तिनिष्ठितस्यैव तस्य साधयितुं शक्यत्वादन्यथा नित्यसर्वगतामूर्तामिसाधनस्यापि प्रसंगात् । तथा रूपोपलब्ध्यादीनामपि क्रियात्वेन प्रसिद्धकरणव्यक्तिव्यापिकरणसामान्यविशेषपूर्वकत्वमेव साध्यते नाप्रसिद्धकरणव्यक्तिव्यापि । व्यक्तिर्हि क्वचिन्मूर्तिमती दृष्टा यथा दात्रादिछिदिक्रियायां क्वचिदमूर्ता यथा विशेषणज्ञानादिविशेष्यज्ञानादौ । तत्र रूपोपलब्ध्यादौ करणसामान्यं कुतश्चित्सिद्ध्यति तदुपादानसामर्थ्य सिद्ध्येत् तद्र्व्यकरणं मूर्तिमत्पुद्गलपरिणामात्मकत्वाद्धावकरणं पुनरमूर्तमपि तस्यात्मपरिणामत्वादिति तस्य क्रियाविशेषात् प्रसिद्धस्य संज्ञाविशेषमानं क्रियते चक्षुः स्पर्शनं रसनमित्यादि । ततो भवतीष्टसिद्धिस्तावन्मात्रस्येष्टत्वात् । ननु च यथात्मनि रूपोपलब्ध्यादिक्रियामुपलभ्य तस्यैव तत्र व्याप्रियमाणस्य स्वतंत्रस्य कर्तुः करणं चक्षुरादि सिध्यति, तथा जगति करणादिसाधनमुपलभ्य तस्यैव करणादीनां कर्बधिष्ठितत्वं सिध्यतीति सकलजगत्कारणाद्यधिष्ठायीश्वर इति संज्ञायमानः कथमिष्टो न सियेत् तावन्मात्रस्य मयापीष्टत्वादिति पराकूतमनूद्य निराकरोति;सिद्धे कर्तरि निःशेषकारकाणां प्रयोक्तरि । हेतुः सामर्थ्यतः सिद्धः स चेदिष्टो महेश्वरः ॥६२॥ नैवं प्रयोक्तुरेकस्य कारकाणामसिद्धितः । नाना प्रयोक्तृकत्वस्य कचिदृष्टेरसंशयं ॥ ६३ ॥ न हि कारणावित्वस्य हेतोरेककर्तृत्वे सामर्थ्य येन ततो निःशेषकारकाणामेक एव प्रयोक्ता खेष्टोमहेश्वरः सिद्ध्येत् क्वचित्प्रासादादौ करणादीनां नाना प्रयोक्तकत्वस्याप्यसंदेहमुपलब्धेः । ननु प्राधान्येन चात्रापि तेषामेक एव प्रयोक्ता सूत्रकारो महत्तरो राजा वा गुणभावेन तु नाना प्रयोक्तृकत्वं जगत्करणादीनामपि न निवार्यत एव, ततः प्रधानभूतो अमीषामेक एव प्रयोक्तेश्वर इति चेत् न; प्रधानभूतानामपि समानकुले वित्तपौरुषत्यागाभिमानानां कचिन्नगरादौ करणादिषु नाना प्रयोक्तृणामुपलंभात् । Page #377 -------------------------------------------------------------------------- ________________ ३६८ तत्त्वार्थश्लोकवार्तिके [सू० ४० L तेषामपि राजाचार्यादिर्वा प्रयोक्तक एवेति चेत्, तस्यापि राज्ञोन्यो महाराजः प्रधानः प्रयोक्ता तस्याप्यपरः ततो महानिति क्व नाम प्रधानप्रयोक्तृत्वं व्यवतिष्ठेत । महेश्वर एवेति चेन्न, तस्यापि प्रधानापराधिष्ठापक परिकल्पनायामनवस्थानस्य दुर्निवारत्वात् । सुदूरमपि गत्वा व्यवस्थितिनिमित्ताभावाच्च । स्यान्मतं, नेश्वरस्यान्योऽधिष्ठाता प्रभुः सर्वज्ञत्वादनादिशुद्धिवैभवभाक्त्वाच्च । यस्य त्वन्योधिष्ठाता प्रभुः स न सर्वज्ञोऽनादिशुद्धिवैभवभाग्वा यथाधिष्टकर्मकरादिः न च तथेश्वरस्तस्मान्न तस्यान्योधिष्ठाता प्रभुरिति । नात्र धर्मिणोसिद्धिरखिलजगत्कारणादीनां प्रयोक्तुस्तस्यानुमानसिद्धत्वात् नापि हेतुरसिद्धस्तस्य सर्वज्ञत्व - मंतरेण समस्तकारकाप्रयोक्तृत्वस्यानुमानसिद्धस्यानुपपत्तेरनादिशुद्धिवैभवाभावे वा शरीरस्य सर्वज्ञत्वायोगात् । न च शरीरोसौ तच्छरीरप्रतिपादकप्रमाणाभावात् इति । तदप्यसत्, सर्वज्ञत्वस्य हेतो रुद्रैर्व्यभिचारात् । तेषां हि सर्वज्ञत्वमिष्यते योगिनान्येन वाधिष्ठितत्वं महेश्वरस्यानादेरधिष्ठापकस्य तेषामादिमतं खयमभ्युपगमात्, तदनभ्युपगमे अपसिद्धांत प्रसंगात् । तथानादिशुद्धिवैभवमप्याकाशेनानैकांतिकं, तस्य जगदुत्पत्तौ वाधिकरणस्य माहेश्वराधिष्ठितत्वोपगमात् । किं च, यदि प्राधान्येन समस्तकारकप्रयोक्तृत्वादीश्वरस्य सर्वज्ञत्वं साध्यते सर्वज्ञत्वाच्च प्रयोक्रंतरं निरपेक्षं समस्तकारकप्रयोक्तृत्वं प्रधानभावेन तदा परस्पराश्रयो दोषः कुतो निवार्येत ? साधनांतरात्तस्य सर्वज्ञत्वसिद्धिरिति चेन्न, तस्यानुमानेन बाधितविषयत्वेनागमकत्वात् । तथाहि -नेश्वरोऽशेषार्थवेदी दृष्टेष्टविरुद्धाभिधायित्वात् बुद्धादिवदित्यनुमानेन तत्सर्वज्ञत्वावबोधकमखिलमनुमानमभिधीयमानमेकांत वादिभिरभिहन्यते, स्याद्वादिन एव सर्वज्ञत्वो - पपत्तेः युक्तिशास्त्राविरोधिवाक्त्वादित्यन्यत्र निवेदितं । ततो नाशेषकार्याणामुत्पत्तौ कारकाणामेकः प्रयोक्ता प्राधान्येनापि सिद्ध्यतीति परेषां नेष्टसिद्धिः । स्यान्मतं; नैकः प्रयोक्ता साध्यते तेषां नाप्यनेकः प्रयोक्तृसामान्यस्य साधयितुमिष्टत्वादिति । तदप्यसंगतमेव, तथा सिद्धसाधनाभिधानात् । न हि प्रयोतृमात्रे समस्तकारकाणां विप्रतिपद्यामहे यस्य यदुपभोग्यं तत्कारणं तत्प्रयोक्तृत्वनियमनिश्चयात् ॥ इति क्रियानुमानानां माला नैवामला भुवं । कर्तर्येकत्र संसाध्येनुमित्या पक्षबाधनात् ॥ ६४ यथैव सन्निवेशविशिष्टत्वादिसाधनं निरवद्यं व्यापकानुपलंभेन पक्षस्य बाधनात् तथा करणत्वाद्यनुमानमपि जगतामेककर्तृत्वे साध्ये विशेषाभावात् । तच्च समर्थितमेवेति नानुमानमाला निरवद्या विधातुं शक्या तस्याः प्रतिपादितानेकदोषाश्रयत्वात् । तत एवागमादपि नेश्वरसिद्धिरित्याह; - विश्वतश्चक्षुरित्यादेरागमादपि नेश्वरः । सिद्ध्येत्तस्यानुमानेनानुग्रहाभावतस्ततः ॥ ६५ ॥ न हि नैयायिकानां युक्त्यननुग्रहीतः कश्चिदागमः प्रमाणमतिप्रसंगात् । न च युक्तिस्तत्र काचिद्यवतिष्ठत इति नेश्वरसिद्धिः प्रमाणाभावात् प्रधानाद्वैतादिवत् ॥ ततः किं सिद्धमित्याह; - osts इत्येतद्वचनं सत्यतां गतं । बाधकस्य प्रमाणस्य सर्वथा विनिवारणात् ॥ ६६ ॥ लोकः खल्वकृत्रिमोऽनादिनिधनः परिणामतः सादिपर्यवसानश्चेति प्रवचनं यथात्रेदानीं कृतपुरुषापेक्षा बाधविवर्जितं तथा देशांतरकालांतरवर्ति पुरुषापेक्षयापि विशेषाभावात् ततः सत्यतां प्राप्तमिति सिद्धं सुनिर्णीतासंभवद्बाधकप्रमाणत्वादात्मादिप्रतिपादकप्रवचनवत् ॥ अथानुमानादप्यकृत्रिमं जगत्सिद्धमित्याह ; विशिष्टसन्निवेशं च धीमता न कृतं जगत् । दृष्टकृत्रिमकूटादिविलक्षणतयेक्षणात् ॥ ६७ ॥ समुद्राकरसंभूतमणिमुक्ताफलादिवत् । इति हेतुवचः शक्तेरपि लोकोऽकृतः स्थितः ॥ ६८ ॥ Page #378 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ३६९ दृष्टकृत्रिमविलक्षणतापेक्ष्यमाणश्च स्यात् कृत्रिमश्च स्यात् संनिवेशविशिष्टो लोको विरोधाभावात् । ततोसिद्धमस्य हेतोः साध्येनाविनाभावित्वमिति मन्यमानं प्रत्याह; नान्यथानुपपन्नत्वमस्यासिद्धं कथंचन । कृत्रिमार्थविभिन्नस्याकृत्रिमत्वप्रसिद्धितः ॥ ६९ ॥ न हि कृत्रिमार्थविलक्षणो गगनादिः कृत्रिमः सिद्धो येन साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चितान्यथानुपपत्तिरस्य हेतोर्न सिद्ध्येत् ॥ असिद्धताप्यस्य हेतोर्नेत्यावेदयति;नासिद्धिर्मणिमुक्तादौ कृत्रिमेतरतो कृते । कृत्रिमत्वं न संभाव्यं जगत्स्कंधस्य तादृशः ॥७॥ मणिमुक्ताफलादीनां केषांचित्कृत्रिमत्वं व्रीहिसंमर्दनादिना रेखादिमत्त्वप्रतीत्या स्वयमुपयन् परेषां समुद्राकरोत्थानात्तथा रेखादिमत्त्वसंप्रत्ययेनाकृत्रिमत्वं च तद्वैलक्षण्यमालक्षयत्येव । तद्वद् दृष्टकर्तृकप्रासादादिभ्यः काष्टेष्टकादिघटनाविशेषाश्रयेभ्यस्तद्विपरीताकारप्रतिपत्त्या भूभूधरादीनां वैलक्षण्यं प्रतिपत्तुमहति च । न चेदभिनिविष्टमना इति नासिद्धो हेतुर्मणिमुक्तादौ कृत्रिमत्वव्यवहारक्षतिप्रसंगात् तद्वैलक्ष. ण्यस्यापि तद्वदसिद्धेः । न हि वयं दृष्टकृत्रिमकूटादिविलक्षणतयेक्षमाणत्वमकृत्रिममपेक्ष्यमाणत्वं वच्मो येन साध्यसमो हेतुः स्यादनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यादिवत् । नापि भिन्नदेशकालाकारमात्रतयेक्षमाणत्वं तदभिदध्महे येन पुराणप्रासादादिनानैकांतिकः । किं तर्हि ? घटनाविशेषानाश्रयापेक्षमाणत्वं जगतः प्रतीतकृत्रिमकूटादिविलक्षणतयेक्षमाणत्वमभिधीयते । ततो निरवद्यमिदं साधनं । ननु चेदस्मदादिकर्तृककूटादिविलक्षणतयेक्षणं जगतोमदादिकत्रपेक्षयैवाकृत्रिमत्वं साधयेत् मणिमुक्ताफलादीनामिव समुद्रादिप्रभवानां न पुनरस्माद्विलक्षणमहेश्वरकर्तृविशेषापेक्षया तदुपभोक्तृप्राण्यदृष्टविशेषापेक्षयाप्यकृत्रिमत्वप्रसंगात् । न च तदपेक्षयाकृत्रिमत्वेपि तेषां सर्वत्र कृत्रिमाकृत्रिमत्वव्यवहारविरोधः प्रतीतकर्तृव्यापारापेक्षया केषांचित्कृत्रिमत्वेन व्यवहरणात् परेषामतींद्रियकत्वं व्यापारापेक्षणेनाकृत्रिमतया व्यवहृतेरनीश्वरवादिनाप्यभ्युपगमनीयत्वात् , अन्यथास्य सर्वत्रोत्पत्तिमति तदुपभोक्तृप्राण्यदृष्टविशेषाहेतुके कथमकृत्रिमव्यवहारः क्वचिदेव युज्येत । ततोस्सदादिकत्रपेक्षया जगतोकृत्रिमत्वसाधने सिद्धसाधनमस्मद्विलक्षणेश्वरकर्तृविशेषापेक्षया तु तस्य साधने विरुद्धो हेतुः साध्यविपरीतस्यास्मदादिकपेक्षयैवाकृत्रिमत्वस्य ततः सिद्धेरिति केचित् । तेपि न न्यायविदः, अनित्यः शब्दो नित्यविलक्षणतया प्रतीयमानत्वात् कलशादिवदित्यादेरप्येवमगमकप्रसंगात् । शक्यं हि वक्तुं यदि निरतिशयनित्यविलक्षणतयेक्षणात्सातिशयनित्यत्वमनित्यत्वं साध्यते तदा सिद्धसाध्यता तेनेयं व्यवहारात् स्यादकौटस्थ्येपि नित्यत्वेपि खयं मीमांसकैरभिधानात् । अनेकक्षणत्रयस्थायित्वमनित्यत्वं साध्यं तदा विरुद्धो हेतुस्तद्विपरीतस्य सातिशयनित्यलक्षणस्यैवानित्यत्वस्य ततः सिद्धेरिति । यदि पुनर्नित्यमात्रविलक्षणतापेक्षणादिति हेतुरिष्टमेव क्षणिकत्वाख्यमनित्यत्वं साधयति, ततो न सिद्धसाधनं परस्य, नापि विरुद्धो हेतुरिति मतं तदा दृष्टाकृत्रिमसामान्यविलक्षणतयेक्षणादिति हेतुरस्मदादिकत्रपेक्षयास्मद्विलक्षणेश्वरादिकत्रपेक्षयापि वा कृत्रिमत्वं साधयतीति कथं नैयायिकस्यापि सिद्धसाधनं विरुद्धो वा हेतुः स्यात् । यथैव हि निरतिशयनित्यात् सातिशयनित्याच्च वैलक्षण्यमुत्पादकविनाशकारणकत्वं प्रतीयमानं शब्दे खेष्टं क्षणिकत्वं साधयेत् , तथैवास्मदादिकृतात्कूटप्रासादादेरीश्वरादिकृताच्च त्रिपुरदाहांधकासुरविध्वंसनादेः सामान्यतो वैलक्षण्यघटनादिविशेषानाश्रयत्वं जगति समीक्ष्यमाणं सकलबुद्धिमत्कञपेक्षयैवाकृत्रिमत्वं साधयतीति सर्व निरवयं । न हीश्वरनारायणादयः स्याद्वादिनामप्रसिद्धा एव, नापि तत्कृतत्रिपुरदाहादिकवत्स विध्वं Page #379 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ४० सनाश्रयो येन तद्विलक्षणं साधनमुपादीयमानं विरुद्ध्येत महेश्वरादेरखिलजगत्कारणस्यैव तेषामनभिमतत्वात् तादृशो महतो जगत्स्कंधस्य सकलघटनाविशेषानाश्रयस्येश्वरापेक्षयापि कर्तृमत्त्वमसंभाव्यं सन्निवेशविशिष्टत्वादेः साधनस्य तत्प्रयोजकत्यायोगस्य समर्थनात् । एतेन समुद्राकरसंभूतमणिमुक्ताफलादिदृष्टांतस्य साध्यधर्मविकलत्वं साधनधर्मविकलत्वं च निराकृतं, तत्रापि सकलकृत्रिमविलक्षणतयेक्षणस्य महेश्वरकृतत्वासंभवस्य च कृतानेश्चयत्वात् । तदेवं निखिलबाधकरहितात् प्रवचनादनुमानाच्चाकृत्रिमलो- । कव्यवस्थानान्नैकबुद्धिमत्कारणो लोकः शंकनीयः कालादिवत् । ततो मध्यलोकस्य निवेशः कथितः । द्वीपसमुद्रपर्वतक्षेत्रसरित्प्रभृतिविशेषः सम्यक् सकलनैगमादिनयमयेन ज्योतिषा प्रवचनमूलसूत्रैर्जन्यमानेन कथमपि भावयद्भिः सद्भिः वयं पूर्वापरशास्त्रार्थपर्यालोचनेन प्रवचनपदार्थविदुपासनेन चाभियोगाविशेषविशेषेण वा प्रपंचेन परिवेद्यो अधोलोकसन्निवेशविशेषवदित्युपसंहरन्नाह;इति कथितविशेषो मध्यलोकस सम्यक् सकलनयमयेन ज्योतिषा सन्निवेशः । प्रवचनभवसूत्रैर्जन्यमानेन सद्भिः कथमपि परिवेद्यो भावयद्भिः प्रपंचात् ॥ ७१ ॥ इति तृतीयाध्यायस्य द्वितीयमाह्निकम् । अधोलोकश्चित्रो नरकगणना नारकजनस्तथा लोको मध्यो बहुविधविशेषो नरगणः । तदायुर्भेदश्च प्रतिनियतकालो निगदितस्तिरश्चामध्याये स्थितिरपि तृतीयेत्र मुनिना ॥ १ ॥ इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे तृतीयोऽध्यायः ॥ ३ ॥ CGHTTA UNNY Page #380 -------------------------------------------------------------------------- ________________ अथ चतुर्थोऽध्यायः ॥ ४॥ देवाश्चतुर्णिकायाः ॥१॥ देवगतिनामकर्मोदये सति दीव्यंतीति देवाः व्युत्पत्त्याविरोधात् । बहुत्वनिर्देशोंतर्गतभेदप्रतिपत्यर्थः । खधर्मविशेषोपपादितसामर्थ्यान्निचीयंत इति निकायाः चत्वारो निकायाः येषां ते चतुर्निकायाः । कुतः पुनश्चत्वार एव निकाया देवानामितिचेत् , निकायिनां तेषां चतुःप्रकारतया वक्ष्यमाणत्वात् । ते हि भवनवासिनो व्यंतरा ज्योतिष्का वैमानिकाश्चेति चतुर्विधान्निकायिभेदाच्च निकायभेदा इति । नैक एव देवानां निकायो नापि द्वावेव त्रय एव वा, पंचादयोप्यसंभाव्या एव तेषामत्रांतर्भावात् । ननु च ब्राह्मसौम्यप्राजापत्यऐंद्रयक्षराक्षसभूतपिशाचानामष्टप्रकाराणामष्टौ निकायाः कुतो न परोक्ता इति चेत् , परागमस्य तत्प्रतिपादकस्य प्रमाणत्वासंभवादित्यसकृदभिधानात् ॥ ननु च नारकमनुष्याणामिवाधारवचनपूर्वकं देवानां वचनं किमर्थं न कृतमित्याशंकमानं प्रत्यावेदयति;-. देवाश्चतुर्णिकाया इत्येतत्सूत्रं यदब्रवीत् । नारकाणामिवाधारमनुक्तं देवसंविदे ॥१॥ सूत्रकारस्तदेतेषां लोकत्रयनिवासिनां । सामथ्योदूह्मलोकस्य संस्थानं वक्तुमैहत ॥२॥ न हि यथा नारकाणामाधारः प्रतिनियतोऽधोलोक एव मनुष्याणां च मानुषोत्तरान्मध्यलोक एव, तथा देवानामूललोक एव श्रूयते । भवनवासिनामधोलोकाधारतयैव श्रवणात् , व्यंतराणां तिर्यग्लोकाधारतयापि श्रूयमाणत्वात् । ततो लोकत्रयनिवासिनां सामर्थ्यादूर्ध्वलोकस्य संस्थानं च मृदंगवद्वक्तुमैहत सूत्रकारः आधारमनुक्त्वा निकायसंवित्तये सूत्रप्रणयनात् ॥ आदितस्त्रिषु पीतांतलेश्याः ॥२॥ संक्षेपार्थमिहेदं सूत्रं लेश्याप्रकरणस्य वचने विस्तरप्रसंगात् । तेन भवनवासिव्यंतरज्योतिष्कनिकायेषु देवाः पीतांतलेश्या इति । इह तु देवा इत्यवचनमनुवृत्तेर्भवनवास्याद्यवचनं च तत एव । कथमिह निकायेष्वित्यनुवर्तयितुं शक्यं, तेषामन्यपदार्थे वृत्तौ सामर्थ्याभावात् । चत्वारश्च ते निकायाश्चतुर्णिकाया इति स्वपदार्थायामपि वृत्तौ देवा इति सामानाधिकरण्यात् उपपत्तिरिति चेन्न, उभयथापि दोषाभावात् । अन्यपदार्थायां वृत्तौ तावन्निकायेष्विति शक्यमनुवर्तयितुं । त्रिष्विति वचनसामर्थ्यात् त्रित्वसंख्यायाश्च संख्येयैर्विना संभवाभावादन्येषामिहाश्रुतत्वात् प्रकरणाभावाच्च त्रिनिकायैरेव तैर्भवितव्य मित्यर्थसामर्थ्यान्निकायानुवृत्तिः । खपदार्थायामपि वृत्तौ तत एव तदनुवृत्तिः प्रधानत्वाच्च निकायानां चतुःसंख्याविशेषणरहितानामनुवृत्तिघटनात् त्रित्वसंख्यया चतुःसंख्यया बाधितत्वात् । देवा इति इति सामानाधिकरण्यं तु निकायनिकायिनां कथंचिदभेदान्न विरुध्यते । त्रिनिकायाः पीतांतलेश्या इति युक्तमिति चेन्न, इष्टविपर्ययप्रसंगात् । आदित इति वचने त्वत्र सूत्रगौरवमनिवार्य । ततो यथान्यासमेवास्तु किमर्थमिहादित इति वचनं ? विपर्यासनिवृत्त्यर्थ, अंतेन्यथा वा त्रिप्विति विपर्यासस्यान्यथा निवारयितुमशक्तेः । येकनिवृत्त्यर्थस्तु निष्विति वचनं । चतुर्निवृत्त्यर्थ कस्मान्न भवति ? आदित इति Page #381 -------------------------------------------------------------------------- ________________ ३७२ तत्त्वार्थश्लोकवार्तिके [सू० ४ वचनात् चतुर्थस्यादित्वासंभवात्, अंत्यत्वात्पंचमादिनिकायानुपदेशात् । आद्येषु पीतांतलेश्या इत्यस्तु लघुत्वादिति चेन्न, विपर्ययप्रसंगात् । आदौ निकाये भवा आद्या देवास्तेषु पीतांतलेश्या इति विपर्ययो यथा न्यासं सुशकः परिहर्तुं निःसंदेहार्थं चैवं वचनं । अथ पीतांतवचनं किमर्थं ? लेश्यावधारणार्थं । कृष्णा नीला कपोता पीता पद्मा शुक्ला लेश्येति पाठे हि पीतांतवचनात् कृष्णादीनां संप्रत्ययो भवतीति, पद्मा शुक्ला च निवर्तिता स्यात् । तेन त्रिष्वादितो निकायेषु देवानां कृष्णा नीला कपोता पीतेति चतस्रो लेश्या भवतीति ॥ अन्यथा कस्मान्न भवति तेषु देवा इत्युच्यते; त्रिष्वाद्येषु निकायेषु देवाः सूत्रेण सूचिताः । संति पीतांतलेश्यास्ते नान्यथा बाधितत्वतः ॥ १ ॥ न तावद्देवाः सूत्रोक्ताः संतोन्यथा भवंति, सुनिश्चितासंभवद्बाधकत्वात्सुखादिवत् । नापि त्रिषु निकायेषु पीतांतलेश्याः सूत्रेणोक्तास्तदन्यथा पद्मलेश्याः शुक्ललेश्या वा भवति, तत एव तद्वत् ॥ दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यंताः ॥ ३ ॥ --- देवाश्चतुर्णिकाया इत्यनुवर्तमानेनाभिसंबंधोस्य चतुर्णी निकायानामंतर्विकल्पप्रतिपादनार्थत्वात् न पुनरादितस्त्रिष्वित्यादीनां पीतांतलेश्यानां कल्पोपपन्नपर्यंतत्वाभावात् । तेन चतुर्णी देवनिकायानां दशादिभिः संख्याशब्दैर्यथासंख्यमभिसंबंधो विज्ञायते, तेन भवनवासिव्यंतरज्योतिष्कवैमानिका दशाष्टपंचद्वादश विकल्पा इति । वैमानिकानां द्वादशविकल्पांतः पातित्वे प्रसक्ते तद्व्यपोहनार्थं कल्पोपपन्नपयैतवचनं, ग्रैवेयकादीनां द्वादशविकल्पवैमानिक बहिर्भावप्रतीतेः । एतदेवाभिधीयते - चतुर्ष्वपि निकायेषु ते दशादिविकल्पकाः । कल्पोपपन्नपर्यंता इति सूत्रे नियामतः ॥ १ ॥ चतुर्निकाया देवा दशादिविकल्पा इत्यभिसंबंधे हि वैमानिकानां द्वादशविकल्पांतः पातित्वप्रसक्तौ कल्पोपपन्नपर्यंता इति वचनान्नियमो युज्यते, नान्यथा । इंद्रादयो दशप्रकारा एतेषु कल्प्यत इति कल्पाः सौधर्मादयो रूढिवशान्न भवनवासिनः । कल्पेषूपपन्नाः कल्पोपपन्नाः 'साधनं कृता बहुलमिति वृत्तिः मयूरव्यंसकादित्वाद्वा, कल्पोपपन्नाः पर्यंते येषां ते कल्पोपपन्नपर्यंताः प्राग्ग्रैवेयकादिभ्य इति यावत् ॥ इंद्रसामानि कत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्य किल्बिषकाचैकशः ॥ ४ ॥ अन्यदेवासाधारणाणिमादिगुणपरमैश्वर्ययोगादिदंतीतींद्राः । आज्ञैश्वर्यवर्जितमायुर्वीर्य परिवारभोगोपभोगादिस्थानमिंद्रैः समानं तत्र भवाः सामानिका इंद्रस्थानार्हत्वात् समानस्य तदादेश्चेति ठक् । त्रयस्त्रिंशति जाताः त्रायस्त्रिंशाः 'दृष्टेशानि च जाते च अणिद्विधीयत' इत्यभिधानमस्तीति अणिद्विधीयते, कथं वृत्तिर्भेदाभावात् महत्तरपितृगुरूपाध्यायतुल्याः । मंत्रिपुरोहितसंस्थानीया हि ये त्रयस्त्रिंशदेवास्त एव त्रायस्त्रिंशा न तत्र जाताः केचिदन्ये संतीति दुरुपपादा वृत्तिः । नैतत्सारं, संख्यासंख्येयभेदविवक्षायामाधाराधेयभेदोपपत्तेः, त्रयस्त्रिंशत्संख्या तदाधारः संख्येयास्तु यथोक्तास्तदाधेया इति सूपपादा वृत्तिः । अथवा त्रयस्त्रिंशद्देवा एव त्रायस्त्रिंशाः 'स्वार्थिकोपि हृत' इति बहुत्वनिर्देशात् । अंतिमादिवत् परिषद्वक्ष्यमाणा तत्र जाता भवा वा पारिषदाः, परिषत्तद्वतां कथंचिद्भेदात्ते च वयस्यपीठमर्दतुल्याः । आत्मानं रक्षंती - तीत्यात्मरक्षास्ते शिरोरक्षोपमाः । लोकं पालयंतीति लोकपालास्ते चारक्षिकार्थचरसमाः । अनीकानीवानीकानि तानि दंडस्थानीयानि गंधर्वानीकादीनि सप्त । प्रकीर्णा एव प्रकीर्णकाः ते पौरजानपदकल्पाः । वाहनादिभावेनाभिमुख्येन योगोभियोगस्तत्र भवा अभियोग्यास्त एव आभियोग्याः इति स्वार्थिकः घणु L Page #382 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः । ३७३ चातुर्वर्ण्यादिवत्, अथवा अभियोगे साधवः आभियोग्याः अभियोगमर्हतीति वा आभियोग्यास्ते च दाससमानाः । किल्बिषं पापं तदेषामस्तीति किल्बिषिकाः तेंत्यवासिस्थानीयाः । एकैकस्य निकायस्यैकश इति वीप्सा शस् ॥ कुतः पुनरेकैकस्य निकायस्येंद्रादयो दशविकल्पाः प्रतीयंत इत्यावेदयति इंद्रादयो दशैतेषामेकशः प्रतिसूत्रिताः । पुण्यकर्मविशेषाणां तद्धेतूनां तथा स्थितेः ॥ १ ॥ यथैव हि देवगतिनामपुण्यकर्मसामान्या देवास्तद्विशेषभवनवासिनामादिपुण्योदयाच्च भवनवास्यादयस्तथैवेंद्रादिनामपुण्यकर्मविशेषेण इंद्रादयोपि संभाव्यंते, तेषां तद्धेतूनां युक्त्यागमाभ्यां व्यवस्थितेर्बा - धकाभावात् ॥ त्रायस्त्रिंशलोकपालवर्ज्या व्यंतरज्योतिष्काः ॥ ५ ॥ इंद्रादिदश विकल्पानामुत्सर्गतोऽभिहितानां चतुर्षु निकायेष्वविशेषेण प्रसक्तौ तदर्थमिदमुच्यते । कुतः पुनर्व्यतरा ज्योतिष्काः त्रायस्त्रिंशैर्लोकपालैश्च वर्ज्या येन तेष्टविकल्पा एव स्युरित्यारेकायामिदमाह; तत्रापि व्यंतरा वर्ज्या ज्योतिष्काश्चोपवर्णिताः । त्रायस्त्रिंशैस्तथा लोकपालैस्तद्धेत्वसंभवात् ॥ १॥ न हि व्यंतरज्योतिष्का निकायास्त्रयस्त्रिंशल्लोकपालनामपुण्यकर्म विशेषास्त्रायस्त्रिंशलोकपालदेव विशेषकल्पनाहेतुरस्ति यतस्तयोस्त्रायस्त्रिंशलोकपालाश्च स्युरिति तद्वर्ज्यास्ते देवाः तदतिशयविशेषस्य प्रतीतिहेतोर्निकायांतरवत्तत्रासंभवात् ॥ पूर्वयोन्द्राः ॥ ६ ॥ भवनवासिव्यंतरनिकाययोः पूर्वयोर्देवा द्वींद्रा न पुनरेकेंद्रा निकायांतरवदिति प्रतिपत्त्यर्थमिदं सूत्रं । पूर्वयोरिति वचनं प्रथमद्वितीयनिकाय प्रतिपत्त्यर्थे, तृतीयापेक्षया द्वितीयस्य पूर्वत्वोपपत्तेः द्विवचनसामर्थ्याच्चतुर्थापेक्षया तृतीयस्य पूर्वत्वेप्यग्रहणादप्रत्यासत्तेः । द्वौ द्वौ इंद्रौ येषां ते द्वींद्रा इत्यंतनतवीसार्थो निर्देशः । द्विपदिका त्रिपदिकेति यथा वीप्सायां वुनो विधानादिह वीप्सागतिर्युक्ता न प्रकृतेः किंचिद्विधानमस्ति । तर्हि सप्तपर्णादिवद्भविष्यति वीप्साविधानाभावेपि वीप्सा संप्रत्ययः । पूर्वयोर्निकाययो द्वाविंद्र देवानामिति निकायनिकायिभेदविवक्षावशादाधाराधेयभावो विभाव्यते ॥ द्राः निकाययोर्देवाः पूर्वयोरिति निश्चयात् । तत्रैकस्य प्रभोर्भावो नेति ते स्तोकपुण्यकाः ॥१॥ भवनवासिनिकाये असुराणां द्वाविंद्रौ चमरवैरोचनौ, नागकुमाराणां धरणभूतानंदौ, विद्युत्कुमाराणां हरिसिंहहरिकांतौ, सुपर्णकुमाराणां वेणुदेववेणुधारिणौ, अग्निकुमाराणां अग्निशिखामिमाणवौ, वातकुमाराणां वैलंबनप्रभंजन, स्तनितकुमाराणां सुघोषमहाघोषौ, उदधिकुमाराणां जलकांतजलप्रभौ, द्वीपकुमाराणां पूर्णवशिष्टौ दिक्कुमाराणां अमितगत्यमितवाहनौ । तथा व्यंतरनिकाये किन्नराणां किन्नरकिंपुरुषौ, किंपुरुषाणां सत्पुरुष महापुरुषौ, महोरगाणामतिकायमहाकायौ, गंधर्वाणां गीत रतिगीतयशसौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, पिशाचानां कालमहाकालौ, भूतानां प्रतिरूपाप्रतिरूपौ । एवमेतेषामेकैकस्य प्रभोरभावात्ते स्तोकपुण्याः प्रभवो निश्चीयते ॥ कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ प्रतिपूर्वाच्चरेः संज्ञायां घणु तु प्रवीचरणं प्रवीचारो मैथुनोपसेवनं । काये प्रवीचारो येषां ते कायप्रवीचाराः । असंहितानिर्देशोऽसंदेहार्थः । ऐशानादित्युच्यमाने हि संदेहः स्यात् किमादंतर्भूत उत Page #383 -------------------------------------------------------------------------- ________________ ३७४ तत्त्वार्थश्लोकवार्तिके [ सू०९ दिक्छब्दोध्याहार्य इति विपर्ययो वा स्यात् । ऐशानात् पूर्वयोरित्यनुवर्तमानेनाभिसंबंधात् । असंहितानिर्देशे तु नायं दोषः ॥ देवाः कायप्रवीचारा आ ऐशानादितीरणात् । चतुर्वपि निकायेषु सुखभेदस्य सूचनं ॥१॥ चतुर्णिकाया देवाः कायप्रवीचाराः इति संबंधाच्चतुर्वपि निकायेषु सुराणां सुरतसुखविशेषस्य कथनं गम्यते आ ऐशानादिति वचनात् । न हि वैमानिकनिकाये सर्वसुराणां कायप्रवीचारप्रसक्तौ तन्नि- । वृत्त्यर्थ ऐशानादिति वचनमभ्युपगंतुं युक्तं ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः॥८॥ शेषा इति वचनं उक्तावशिष्टसंग्रहाथै, ते चोक्तावशिष्टाः सानत्कुमारादयः कल्पोपपन्ना एवाच्युतान्ताः परेऽप्रवीचारा इति वक्ष्यमाणत्वात् कल्पोपपन्नपर्यतानामेव द्वादशविकल्पत्वेन निर्दिष्टानां प्रकरणाच । नन्वेवं के स्पर्शप्रवीचाराः के च रूपादिप्रवीचारा इति विषयविवेकापरिज्ञानादगमकोऽयं निर्देश इत्याशंकायामिदमभिधीयते ते स्पर्शादिप्रवीचाराः शेषास्तेभ्यो यथागमं । ज्ञेयाः कामोदयाः पापतारतम्यविशेषतः ॥१॥ .. ते देवाः शेषाः सानत्कुमारादयो यथागमं स्पर्शादिप्रवीचाराः प्रतिपत्तव्याः । सानत्कुमारमाहेंद्रयोः स्पर्शप्रवीचारा देवास्तेषामुत्पन्नमैथुनसुखलिप्सानां समुपस्थितखदेवीशरीरस्पर्शमात्रात्रीत्युत्पत्तौ निवृत्तेच्छत्वोपपत्तेः । ब्रह्मब्रह्मोत्तरलांतवकापिष्ठेषु रूपप्रवीचाराः, खदेवीमनोज्ञरूपावलोकनमात्रादेव निराकांक्षतया प्रीत्यतिशयोपपत्तेः । शुक्रमहाशुक्रसतारसहस्रारेषु शब्दप्रवीचाराः, खकांतामनोज्ञशब्दश्रवणमात्रादेव संतोषोपपत्तेः । आनतप्राणतारणाच्युतकल्पेषु मनःप्रवीचाराः, खांगनामनःसंकल्पमात्रादेव परमसुखानुभवसिद्धेरिति हि परमागमः श्रूयते । ततस्तदनतिक्रमेणैव विषयविवेकविज्ञानान्नागमकोऽयं निर्देशः । पुनः प्रवीचारग्रहणादिष्टाभिसंबंधप्रत्ययादन्यथाभिसंबंधे चार्थविरोधात् । संभाव्यते यथागमं स्पर्शादिप्रवीचारा देवाः कामोदयाः पापस्य चारित्रमोहक्षयोपशमविशेषस्य तारतम्यभेदान्मनुष्यविशेषवत् ॥ परेऽप्रवीचाराः ॥९॥ परे ग्रहणं कल्पातीतसर्वदेवसंग्रहार्थ । ततोऽनिष्टकल्पनानिवृत्तिः । अप्रवीचारग्रहणं प्रकृष्टसुखप्रतिपत्त्यर्थ, ते न मनःप्रवीचाराः । तेभ्यः परे कल्पातीताः सर्वदेवाः प्रवीचाररहिता इत्युक्तं भवति ॥ कुतः पुनरुक्तेभ्यः परेऽप्रवीचारा इत्याह;तेभ्यस्तु परे कामवेदनायाः परिक्षयात् । सुखप्रकर्षसंप्राप्तेः प्रवीचारेण वर्जिताः ॥१॥ संभाव्यते च ते सर्वे तारतम्यस्य दर्शनात् । नराणामिह कैषांचित् कामापापस्य तादृशः ॥२ विवादापन्नाः सुराः कामवेदनाक्रांताः सशरीरत्वात् प्रसिद्धकामुकवत् इत्युक्तं कामवेदनापापस्य शरीरत्वेन विरोधाभावात् । केषांचिदिहैव मनुष्याणां मंदमंदतमकानां विनिश्चयात् कामवेदनाहानितारतम्ये शरीरहानितारतम्यदर्शनाभावात् प्रक्षीणशेषकल्मषाणामपि शरीराणां प्रमाणतः साधनात् । एतेन कामित्वे साध्ये सत्त्वप्रमेयत्वादयोपि हेतवः संदिग्धविपक्षव्यावृत्तिका इति प्रतिपादितं, ततः संभाव्या एव केचिदप्रवीचाराः ॥ इत्येवं नवभिः सूत्रैः निकायाातरस्य या । कल्पना संशयश्चात्र केषांचित्तनिराकृतिः ॥३॥ प्रथमेन सूत्रेण तावत्केषांचिन्निकायांतरस्य कल्पना तत्संदेहः चात्र निराकृतिः । द्वितीयेन लेश्यांतरस्य, Page #384 -------------------------------------------------------------------------- ________________ • चतुर्थोऽध्यायः । ३७५ तृतीयेन संख्यांतरस्य चतुर्थेन कल्पांतरस्य, पंचमेन तदपवादांतरस्य, षष्ठेनेंद्रसंख्यांतरस्य, सप्तमेनाष्टमेन चानिष्टप्रवीचारस्य, नवमेन सर्वप्रवीचारस्येति नवभिः सूत्रैर्निकायाद्यंतरकल्पनसंशयनिराकृतिः प्रत्येतव्या ॥ ||१०|| भवनवासिनोऽसुरनागविद्युत्सुपर्णानिवातस्तनितोदधिदीपदिकुमाराः भवनवासिनामकर्मोदये सति भवनेषु वसनशीला भवनवासिन इति सामान्यसंज्ञा प्रथम निकाये देवानां । असुरादिनामकर्मविशेषोदयादसुरकुमारादय इति विशेषसंज्ञा । कुमारशब्दस्य प्रत्येकमभिसंबंधात् तेषां कौमारवयोविशेषविक्रियादियोगाः केचिदाहुः । देवैः सहास्यतीति असुरा इति, तदयुक्तं, तेषामेवमवर्णवादात् । सौधर्मादिदेवानां महाप्रभावत्वादसुरैः सह युद्धायोगात् तेषां तत्प्रातिकूल्येनावृत्तेर्वैरकारणस्य च परदारापहारादेरभावात् ॥ अथैतेषां भवनवासिनां दशानामपि निरुक्तिसामर्थ्यादाचा - रविशेषप्रतिपत्तिरिति प्रदर्शयति दशासुरादयस्तत्र प्रोक्ता भवनवासिनः । अधोलोकगतेष्वेषां भवनेषु निवासतः ॥ १ ॥ क्व पुनरधोलोके तेषां भवनानि श्रूयंते ? रत्नप्रभायाः पंकबहुलभागे भवनान्यसुरकुमाराणां, खरपृथिवीभागे चतुर्दशयोजनसहस्रेषु नागादिकुमाराणां । तत्रोपर्यधश्चैकैकस्मिन् योजनसहस्रे तद्भवनाभावश्रवणात् । तत्र दक्षिणोत्तराधिपतीनां चमरवैरोचनादीनां भवनसंख्याविशेषः परिवारविभवविशेषश्च यथागमं प्रतिपत्तव्यः ॥ व्यंतराः किंनर किंपुरुषमहोरगगंधर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥ व्यं तरनामकर्मोदये सति विविधांतरनिवासित्वाद्व्यंतरा इत्यष्टविकल्पानामपि द्वितीय निकाये देवानां सामान्यसंज्ञा । किन्नरादिनामकर्मविशेषोदयात् किन्नरादय इति विशेषसंज्ञा । किंनरान् कामयंत इति किंनराः, किंपुरुषान् कामयंत इति किंपुरुषाः, पिशिताशनात् पिशाचा इत्याद्यन्वर्थसंज्ञायामवर्णवादप्रसंगात्; देवानां तथाभावसंभवात् । पिशाचानां मत्स्यादिप्रवृत्तिदर्शनात् पिशिताशित्वसंभव इति चेत् न तस्याः क्रीडासुखनिमित्तत्वात् तेषां मानसाहारत्वात् ॥ क पुनर्व्यतराणां विविधान्यंतराण्यवकाशस्थानाख्यानि यतो निरुक्तिसामर्थ्यादेतेषामाधारप्रतिपत्तिरित्याह; अष्टभेदा विनिर्दिष्टा व्यंतराः किन्नरादयः । विविधान्यंतराण्येषामधोमध्यमलोकयोः ॥ १ ॥ अधोलोके तावदौपरिष्टे खरपृथ्वीभागे किंनरादीनामष्टभेदानां व्यंतराणां दक्षिणाधिपतीनां किंपुरुषादीनां चोत्तराधिपतीनामसंख्येयनगरशतसहस्राणि श्रूयंते, मध्यलोके च द्वीपादिसमुद्र देशग्रामनगरत्रिकचतुष्कचतुरस्रगृहांगणे रथ्याजलाशयोद्यानदेवकुलादीनां वासशतसहस्राणां संख्येयानि तेषामाख्यायंते । तद्विशेषसंख्यापरिवारविभूतिविशेषो यथागमं प्रतिपत्तव्यः पूर्ववत् ॥ ज्योतिष्काः सूर्याचंद्रमसौ ग्रहनक्षत्रप्रकीर्णकतारका ॥ १२ ॥ ज्योतिष एव ज्योतिष्काः को वा यावादेरिति स्वार्थिकः कः । ज्योतिःशब्दस्य यावादिषु पाठात् तथाभिधानदर्शनात् प्रकृतिलिंगानुवृत्तिः कुटीरः समीर इति यथा । सूर्यचंद्रमसा इत्यत्रानदु देवताद्वंद्ववृत्तेः । ग्रहनक्षत्रप्रकीर्णकतारका इत्यत्र नानदु । ननु द्वंद्वग्रहणात्तस्येष्टविषये व्यवस्थानादसुरादिवत् किंनरादिवच्च कथं ज्योतिष्काः पंचविकल्पाः सिद्धा इत्याह; - ज्योतिष्काः पंचधा दृष्टाः सूर्याद्या ज्योतिराश्रिताः । नामकर्मवशात्तादृक् संज्ञा सामान्य भेदतः १ ज्योतिष्क नामकर्मोदये सतीराश्रयत्वाज्योतिष्का इति सामान्यतस्तेषां संज्ञा सूर्यादिनामकर्मविशेषो Page #385 -------------------------------------------------------------------------- ________________ ३७६ तत्त्वार्थश्लोकवार्तिके [ सू० १३ दयात्सूर्याद्या इति विशेषसंज्ञाः । त एते पंचधापि दृष्टाः प्रत्यक्षज्ञानिभिः साक्षात्कृतास्तदुपदेशाविसंवादान्यथानुपपत्तेः ॥ सामान्यतोऽनुमेयाश्च छद्मस्थानां विशेषतः । परमागमसंगम्या इति नादृष्टकल्पना ॥ २ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ ज्योतिष्का इत्यनुवर्तते । नृलोक इति किमर्थमित्यावेदयति;निरुक्त्या वासभेदस्य पूर्ववद्गत्यभावतः । ते नृलोक इति प्रोक्तमावासप्रतिपत्तये ॥१॥ न हि ज्योतिष्काणां निरुत्तयावासप्रतिपत्तिर्भवनवास्यादीनामिवास्ति यतो नृलोक इत्यावासप्रतिपत्त्यर्थ नोच्यते । क पुनर्नूलोके तेषामावासाः श्रूयंते ?-- अस्मात्समाद्धराभागावं तेषां प्रकाशिताः । आवासाः क्रमशः सर्वज्योतिषां विश्ववेदिभिः२ योजनानां शतान्यष्टौ हीनानि दशयोजनैः । उत्पत्य तारकास्तावच्चरंत्यध इति श्रुतिः ॥ ३॥ ततः सूर्या दशोत्पत्य योजनानि महाप्रभाः। ततश्चंद्रमसोशीति भानि त्रीणि ततस्त्रयः ॥४॥ त्रीणि त्रीणि बुधाः शुक्रा गुरवश्वोपरि क्रमात् । चत्वारोंगारकास्तद्वच्चत्वारि च शनैश्चराः ॥५॥ चरंति तादृशादृष्टविशेषवशवर्तिनः । स्वभावाद्वा तथानादिनिधनाद्रव्यरूपतः ॥ ६॥ एष एव नभोभागो ज्योतिःसंघातगोचरः । बहलः सदशकं सो योजनानां शतं स्मृतः ॥७ स घनोदधिपर्यंतो नृलोकेऽन्यत्र वा स्थितः । सिद्धस्तियंगसंख्यातद्वीपांभोधिप्रमाणकः ॥८॥ सर्वाभ्यंतरचारीष्टः तत्राभिजिदथो बहिः । सर्वेभ्यो गदितं मूलं भरण्योधस्तथोदिताः ॥९॥ सर्वेषामुपरि स्वातिरिति संक्षेपतः कृता । व्यवस्था ज्योतिषां चिंत्या प्रमाणनयवेदिभिः ॥१० मेरुप्रदक्षिणा नित्यगतय इति वचनात् किमिप्यत इत्याह;मेरुप्रदक्षिणा नित्यगतयस्त्विति निवेदनात् । नैवाप्रदक्षिणा तेषां कादाचित्कीष्यते न च ॥११ गत्यभावोपि चानिष्टं यथा भूभ्रमवादिनः । भुवो भ्रमणनिर्णीतिविरहस्योपपत्तितः ॥ १२ ॥ न हि प्रत्यक्षतो भूमेभ्रमणनिर्णीतिरस्ति, स्थिरतयैवानुभवात् । न चायं भ्रांतः सकलदेशकालपुरुषाणां तक्रमणाप्रतीतेः । कस्यचिन्नावादिस्थिरत्वानुभवस्तु भ्रांतः परेषां तद्गमनानुभवेन बाधनात् । नाप्यनुमानतो भूभ्रमणविनिश्चयः कर्तुं सुशकः तदविनाभाविलिंगाभावात् । स्थिरे भचक्रे सूर्योदयास्तमयमध्याह्नादिभूगोलभ्रमणे अविनाभावलिंगमिति चेन्न, तस्य प्रमाणबाधितविषयत्वात् पावकानौप्ण्यादिषु द्रव्यत्वादिवत् । भचक्रभ्रमणे सति भूभ्रमणमंतरेणापि सूर्योदयादिप्रतीत्युपपत्तेश्च । न तस्मात् साध्याविनाभावनियमनिश्चयः । प्रतिविहितं च प्रपंचतः पुरस्तात् भूगोलभ्रमणमिति न तदवलंबनेन ज्योतिषां नित्यगत्यभावो विभावयितुं शक्यः । नापि कादाचित्कीष्यते गतिर्नित्यग्रहणात् । तद्गतेर्नित्यत्वविशेषणानुपपत्तिरध्रौव्यादिति न शंकनीयं, नित्यशब्दस्याभीक्ष्ण्यवाचित्वान्नित्यप्रहसितादिवत् ॥ ऊर्ध्वाधोभ्रमणं सर्वज्योतिषां ध्रुवतारकाः । मुक्त्वा भूगोलकादेवं प्राहुर्भूभ्रमवादिनः ॥१३॥ तदप्यपास्तमाचार्यैर्नृलोक इति सूचनात् । तत्रैव भ्रमणं यस्मान्नोवधिोभ्रमणे सति ॥ १४ ॥ घनोदधेः पर्यंते हि ज्योतिर्गणगोचरे सिद्धे त्रिलोक एव भ्रमणं ज्योतिषामूर्ध्वाधः कथमुपपद्यते ? भूविदारणप्रसंगात् । तत एव विंशत्युत्तरैकादशयोजनशतविष्कंभत्वं भूगोलश्चाभ्युपगम्यत इति चेन्न, उत्तरतो भूमंडलस्येयत्तातिक्रमात् तदधिकपरिमाणस्य प्रतीतेः तच्छतभागस्य च सातिरेकैकादश Page #386 -------------------------------------------------------------------------- ________________ • चतुर्थोऽध्यायः । ३७७ योजनमात्रस्यैव समभूभागस्याप्रतीतेः कुरुक्षेत्रादिषु भूद्वादशयोजनादिप्रमाणस्यापि समभूतलस्य सुप्रसिद्धत्वात् । तच्छतगुण विष्कंभ भूगोल परिकल्पनायामनवस्थाप्रसंगात् । कथं च स्थिरेपि भूगोले गंगासिंध्वादयो नद्यः पूर्वापरसमुद्रगामिन्यो घटेरन् ? भूगोलमध्यांतप्रभवादिति चेत्, किं पुनर्भूगोलमध्यं ? । उज्जयिनीति चेत्, न ततो गंगासिंध्वादीनां प्रभवः समुपलभ्यते । यस्मात्तत्प्रभवः प्रतीयते तदेव मध्यमिति चेत्, तदिदमतिव्याहतं । गंगाप्रभवदेशस्य मध्यत्वे सिंधुप्रभवभूभागस्य ततोतिव्यवहितस्य मध्यत्वविरोधात् । स्वबाह्यदेशापेक्षया त्वस्य मध्यत्वे न किंचिदमध्यं स्यात् खसिद्धांत परित्यागश्वोज्जयिनीमध्यवादिनां । तदपरित्यागे चोज्जयिन्या उत्तरतो नद्यः सर्वा उदङ्मुख्यस्तस्या दक्षिणतोऽवाङ्मुख्यस्ततः पश्चिमतः प्रत्यमुख्यस्ततः पूर्वतः प्राङ्मुख्यः प्रतीयेरन् । भूम्यवगाहभेदान्नदीगतिभेद इति चेन्न, भूगोलमध्ये महावगाहप्रतीतिप्रसंगात् । न हि यावानेव नीचैर्देशेवगाहस्तावानेवोर्ध्व भूगोले युज्यते । ततो नदीभिर्भूगोलानुरूपतामतिक्रम्य वतीति भूगोलविदारणमिति सममेव धरातलमवलंबितुं युक्तं, समुद्रादिस्थितिविरोधश्च तथा परिहृतः स्यात् । तद्भूमिशक्तिविशेषात्स परिगीयत इति चेत्, तत एव समभूमौ छायादि - भेदोस्तु । शक्यं हि वक्तुं लंकाभूमेरीदृशी शक्तिर्यतो मध्याह्ने अल्पछाया मान्यखेटाद्युत्तरभूमेस्तु तादृशी यतस्तदाधिष्ठिततारतम्यभा छाया । तथा दर्पणसमतलायामपि भूमौ न सर्वेषामुपरि स्थिते सूर्ये छायाविरहस्तस्यास्तदभेदनिमित्तशक्तिविशेषासद्भावात् । तथा विषुमति समरात्रमपि तुल्यमध्यदिने वा भूमिशक्तिविशेषादस्तु । प्राच्यामुदयः प्रतीच्यामस्तमयः सूर्यस्य तत एव घटते । कार्यविशेषदर्शनाद्रव्यस्य शक्तिविशेषानुमानस्याविरोधात् अन्यथा दृष्टहानेरदृष्टकल्पनायाश्चावश्यं भावित्वात् । सा च पापीयसी महामोहविजृंभितमावेदयति । न च वयं दर्पणसमतलामेव भूमिं भाषामहे प्रतीतिविरोधात् तस्याः काला दिवशादुपचयापचयसिद्धेर्निम्नोन्नताकारसद्भावात् । ततो नोज्जयिन्या उत्तरोत्तरभूमौ निम्नायां मध्यं दिने छायावृद्धिर्विरुध्यते । नापि ततो दक्षिणक्षितौ समुन्नतायां छायाहानिरुन्नतेतरा कारभेदद्वारायाः शक्तिभेदप्रसिद्धेः । प्रदीपादिवादित्यान्न दूरे छायाया वृद्धिघटनात् निकटे प्रभातोपपत्तेः । तत एव नोदयास्तमययोः सूर्यादेबिंबार्धदर्शनं विरुध्यते । भूमि संलग्नतया वा सूर्यादिप्रतीतिर्न संभाव्या, दूरादिभूमेस्तथाविधदर्शनजननशक्तिसद्भावात् ॥ न च भूमात्र निबंधनाः समरात्रादयस्तेषां ज्योतिष्कगतिविशेषनिबंधनत्वादित्यावेदयति ; समरात्रंदिवावृद्धिर्हानिर्दोषाच्च युज्यते । छायाग्रहोपरागादिर्यथा ज्योतिर्गतिस्तथा ॥ १५ ॥ खखंडभेदतः सिद्धा बाह्याभ्यंतरमध्यतः । तथाभियोग्यदेवानां गतिभेदात्स्वभावतः ॥ १६ ॥ सूर्यस्य तावच्चतुरशीतिशतं मंडलानि । तत्र पंचषष्टिरभ्यंतरे जंबूद्वीपस्याशीतिशतयोजनं समवगाह्यप्रकाशनाज्जंबूद्वीपाद्वाह्यमंडलान्येकान्नविंशतिशतं लवणोदस्याभ्यंतरे त्रीणि त्रिंशानि योजनशतान्यवगाह्य तस्य प्रकाशनात् । द्वियोजनमेकैकमंडलांतरं द्वे योजने अष्टाचत्वारिंशद्योजनै कषष्टिभागाश्चैकैकमुदयांतरं । तत्र यदा त्रीणि शतसहस्राणि षोडशसहस्राणि सप्तशतानि यधिकानि परिधिपरिमाणं बिभ्रति तुलमेषप्रवेशदिनगोचरे सर्वमध्यमंडले मेरुं पंचचत्वारिंशद्योजन सहस्रैः पंचपंचाशद्योजनैरष्टाविंशत्या योजनैकषष्टिभागैश्च प्राप्य सूर्यः प्रकाशयति तदाहनि पंचदशमुहूर्ता भवंति रात्रौ चेति समरात्रं सिद्ध्यति । विषुमति दिने द्वाविंशत्येकषष्टिभागः सातिरेकाष्टसप्ततिद्विशतपंचसहस्रयोजन परिमाणां कमुहूर्त गति क्षेत्रोपपतेः । दक्षिणोत्तरे समप्रणिधीनां च व्यवहितानामपि जनानां प्राच्यमादित्यप्रतीतिश्च लंकादिकुरुक्षेत्रांतरदेशस्थानामभिमुखमादित्यस्योदयात् । अष्टचत्वारिंशद्योजनै कषष्टि भागत्वात् प्रमाणयोजनापेक्षया सातिरेक ४८ Page #387 -------------------------------------------------------------------------- ________________ ૩૭૮ [ सू० १३ त्रिनवतियोजनशतत्रयप्रमाणत्वादुत्सेधयोजनापेक्षया दूरोदयत्वाच्च स्वाभिमुखलंबीद्धप्रतिभाससिद्धेः । द्वितीये अहनि तथा प्रतिभासः कुतो न स्यात्तदविशेषादिति चेन्न, मंडलांतरे सूर्यस्योदयात् तदंतरस्योत्सेधयोजनापेक्षया द्वाविंशत्येकषष्टिभागयोजन सहस्रप्रमाणत्वात्, उत्तरायणे तदुत्तरतः प्रतिभासस्योपपत्तेः । दक्षिणायने तद्दक्षिणतः प्रतिभासनस्य घटनात् । सूर्यपरिणामदक्षिणोत्तरसमप्रणिधिभूभागादन्यप्रदेशे कुतः प्राची सिद्धिरिति चेत्, तदनंतरमंडले तथा सर्वाभिमुखमादित्यस्योदयादेवेति सर्वमनवद्यं, क्षेत्रांतरेपि तथा व्यवहारसिद्धेः । तदेतेन प्राचीदर्शनाद्धरायां गोलाकारतासाधनमप्रयोजकमुक्तं तत्र तत्र दर्पणाकारतायामपि प्राचीदर्शनोपपत्तेः । यदा तु सूर्यः सर्वाभ्यंतरमंडले चतुश्चत्वारिंशद्योजन सहस्रैरष्टाभिश्च योजनशतैर्विस्तरैर्मेरुमप्राप्य प्रकाशयति तदाहन्यष्टादश मुहूर्ता भवंति । चत्वारिंशषछताधिकनवनवतियोजन सहस्र विष्कंभस्य त्रिगुणसातिरेक परिधेस्तन्मंडलस्यैकान्नविंशद्योजनषष्टिभागाधिकैकं पंचाशद्द्द्विशतोत्तरयोजनसहस्रपंचकमात्रमुहूर्त गतिक्षेत्रत्वसिद्धेः शेषाप्रकर्षपर्यंततः प्राप्ता दिवावृद्धिर्हानिश्च रात्रौ सूर्यगतिभेदादभ्यंतरमंडलात् सिद्धा । यदा च सूर्यः सर्व बाह्यमंडले पंचचत्वारिंशत्सहसैस्त्रिभिश्च शतैस्त्रिशैर्योजनानां मेरुमप्राप्य भासयति तदाहनि द्वादश मुहूर्ताः । षष्ट्यधिकशतपट्रोत्तरयोजनशतसहस्रविष्कंभस्य तत्रिगुणसातिरेक परिधेः तन्मंडलस्य पंचदशैकयोजनषष्टिभागाधिकपंचोत्तरशतत्रय सहस्रपंचकपरिमाणगतिमुहूर्त क्षेत्रत्वात् शेषा परमप्रकर्षपर्यंतप्राप्ता तावद्दिवाहानिर्वृद्धिश्च रात्रौ सूर्यगतिभेदाद्वाह्याद्गगनखंडमंडलात् सिद्धा । मध्ये त्वनेकविधा दिनस्य वृद्धिहनिश्चानेकमंडलभेदात् सूर्यगतिभेदादेव यथागमं मंडलं यथागणनं च प्रत्येतव्या तथा दोषावृद्धिहनिश्च युज्यते । तदेतेन दिनरात्रिवृद्धिहानिदर्शनाद्भुवो गोलाकारतानुमानमपास्तं, तस्यान्यथानुपपत्तिवैकल्यादन्यथैव तदुपपत्तेः । तथा छाया महती दूरे सूर्यस्य गतिमनुमापयति अंतिकेऽतिखल्पां न पुनर्भूमेर्गोलकाकारतामिति छायावृद्धिहानिदर्शनमपि सूर्यगतिभेदनिमित्तकमेव । मध्याह्ने कचिच्छायाविरहेपि परत्र तद्दर्शनं भूमेर्गोलाकारतां गमयति समभूमौ तदनुपपत्तेरिति चेन्न तदापि भूमिनिम्नत्वोन्नतत्व विशेषमात्रस्यैव गतेः तस्य च भरतैरावतयोर्दृष्टत्वात् “भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां " इति वचनात् । तन्मनुष्याणामुत्सेधानुभवायुरादिभिर्वृद्धिहासौ प्रतिपादितौ न भूमेरपरपुद्गलैरिति न मंतव्यं, गौणशब्दप्रयोगान्मुख्यस्य घटनाद्न्यथा मुख्यशब्दार्थातिक्रमे प्रयोजनाभावात् । तेन भरतैरावतयोः क्षेत्रयोर्वृद्धिहासौ मुख्यतः प्रतिपत्तव्यौ, गुणभावतस्तु तत्स्थमनुष्याणामिति तथा वचनं सफलतामस्तु ते प्रतीतिश्चानुल्लंघिता स्यात् । सूर्यस्य ग्रहोपरा गोपि न भूगोलछायया युज्यते तन्मते भूगोलस्याल्पत्वात् सूर्यगोलस्य तच्चतुर्गुणत्वात् तया सर्वग्रासग्रहण विरोधात् । एतेन चंद्रछायया सूर्यस्य ग्रहणमपास्तं चंद्रमसोपि ततोरूपत्वात् क्षितिगोलचतुर्गुणछायावृद्धिघटनाच्चंद्रगोल वृद्धिगुणछायावृद्धिगुणघटनाद्वा । ततः सर्वग्रासे ग्रहण - मविरुद्धमेवेति चेत् कुतस्तत्र तथा तच्छायावृद्धिः । सूर्यस्यातिदूरत्वादिति चेन्न, समतलभूमावपि तत एव छायावृद्धिप्रसंगात् । कथं च भूगोलादेरुपरि स्थिते सूर्ये तच्छायाप्राप्तिः प्रतीतिविरोधात् तदा छायाविरहप्रसिद्धेर्मध्यंदिनवत् ततः तिर्यक् स्थिते सूर्ये तच्छायाप्राप्तिरिति चेन्न, गोलात्पूर्वदिक्षु स्थिते रवौ पश्चिमदिगभिमुखछायोपपत्तेस्तत्प्रात्ययोगात् । सर्वदा तिर्यगेव सूर्यग्रहणसंप्रत्ययप्रसंगात् । मध्यं दिने खस्योपरि तत्प्रतीतेश्च क्षितिगोलस्याधः स्थिते भानौ चंद्रे च तच्छायया ग्रहणमिति चेन्न, रात्राविव तददर्शनप्रसंगात् । ननु च न तयावरणरूपया भूम्यादिछायया ग्रहणमुपगम्यते तद्विद्भिर्थतोऽयं दोषः । किं तर्हि ? उपरागरूपया चंद्रादौ भूम्याद्युपरागस्य चंद्रादिग्रहण व्यवहारविषयतयोपगमात् । जपाकुसुमाद्युपरागवत् तत्र तदुपपत्तेरिति कश्चित् ; सोपि न सत्यवाक्, तथा सति सर्वदा ग्रहणव्यव तत्त्वार्थश्लोकवार्तिके Page #388 -------------------------------------------------------------------------- ________________ . चतुर्थोऽध्यायः । ३७९ हारप्रसंगात् भूगोलात्सर्वदिक्षु स्थितस्य चंद्रादेस्तदुपरागोपपत्तेः । जपाकुसुमादेः समंततः स्थितस्य स्फटिकादेस्तदुपरागवत् । न हि चंद्रादेः कस्यांचिदपि दिशि कदाचिदव्यवस्थितिर्नाम भूगोलस्य येन सर्वदा तदुपरागो न भवेत् तस्य ततोतिविप्रकर्षात् कदाचिन्न भवत्येव प्रत्यासत्त्यतिदेशकाल एव तदुपगमादिति चेत्, किमिदानीं सूर्यादेर्भ्रमणमार्गभेदोभ्युपगम्यते ? बाढमभ्युपगम्यत इति चेत्, कथं नानाराशिषु सूर्यादिग्रहणं प्रतिराशिमार्गस्य नियमात् प्रत्यासन्नतममार्गभ्रमण एव तद्धनात् अन्यथा सर्वदा ग्रहणप्रसंगस्य दुर्निवारत्वात् । प्रतिराशि प्रतिदिनं च तन्मार्गस्याप्रतिनियमात् समरात्रदिवस - द्धिहान्यादिनियमाभावः कुतो विनिवार्येत ? भूगोलशक्तेरिति चेत्, उक्तमत्र समायामपि भूमौ तत एव समरात्रादिनियमोस्त्विति । ततो न भूछायया चंद्रग्रहणं चंद्रछायया वा सूर्यग्रहणं विचारसहं । राहुविमानोपरागोत्र चंद्रादिग्रहणव्यवहार इति युक्तमुत्पश्यामः सकलबाधक विकलत्वात् । न हि राहुविमानानि सूर्यादिविमानेभ्योल्पानि श्रूयंते । अष्टचत्वारिंशद्योजनैकषष्टिभागविष्कंभायामानि तत्रिगुणसातिरेक परिधीनि चतुर्विंशतियोजनैकषष्टिभागबाहुल्यानि सूर्यविमानानि, तथा षट्पंचाशद्योजनैकषष्टिभागविष्कंभायामानि तत्रिगुणसातिरेकपरिधीन्यष्टाविंशतियोजनै कषष्टिभागबाहुल्यानि चंद्र विमानानि, तथैकयोजनविष्कंभायामानि सातिरेकयोजनत्रयपरिधीन्यर्धतृतीयधनुस्तु बाहुल्यानि राहुविमानानीति श्रुतेः । ततो न चंद्रबिंबस्य सूर्यबिंबस्य वार्धग्रहोपरागो कुंठविषाणत्वदर्शनं विरुध्यते । नाप्यन्यदा तीक्ष्णविषाणत्वदर्शनं व्याहन्यते राहुविमानस्यातिवृत्तस्य अर्धगोलकाकृतेः परभागेनोपरक्ते समवृत्ते अर्धगोलकाकृतौ सूर्यबिंबे चंद्रबिंबे तीक्ष्णविषाणतया प्रतीतिघटनात् । सूर्याचंद्रमसां राहूणां च गतिभेदात्तदुपरागभेदसंभवाग्रहयुद्धादिवत् । यथैव हि ज्योतिर्गतिः सिद्धा तथा ग्रहोपरागादिः सिद्ध इति स्याद्वादिनां दर्शनं न च सूर्यादिविमानस्य राहुविमानेनोपरागोऽसंभाव्यः, स्फटिकस्येव स्वच्छस्य तेनासितेनोपरागघटनात् । स्वच्छत्वं पुनः सूर्यादिविमानानां मणिमयत्वात् । तप्ततपनीयसमप्रभाणि लोहिताक्षमणिमयानि सूर्यविमानानि, विमलमृणालवर्णानि चंद्रविमानानि, अर्कमणिमयानि अंजनसमप्रभाणि राहुविमानानि, अरिष्टमणिमयानीति परमागमसद्भावात् । शिरोमात्रं राहुः सर्पाकारो वेति प्रवादस्य मिथ्यात्वात् तेन ग्रहोपरानुपपत्तेः वराहमिहरादिभिरप्यभिधानात् । कथं पुनः सूर्यादिः कदाचिद्राहुविमानस्यावग्भागेन महतोपरज्यमानः कुंठविषाणः स एवान्यदा तस्यापरभागेनाल्पेनोपरज्यमानस्तीक्ष्णविषाणः स्यादिति चेत्, तदाभियोग्यदेवगतिविशेषात्तद्विमानपरिवर्तनोपपत्तेः । षोडशभिर्देवसहस्रैरुह्यंते सूर्यविमानानि प्रत्येकं पूर्वदक्षिणोत्तरापरभागात् क्रमेण सिंहकुंजरवृषभतुरंगरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वहंतीति वचनात् । तथा चंद्रविमानानि प्रत्येकं षोडशर्भिर्देवसह सैरुह्यंते, तथैव राहुविमानानि प्रत्येकं चतुर्भिर्देव सहस्रैरुह्यते इति च श्रुतेः । तदाभियोग्यदेवानां सिंहादिरूपविकारिणां कुतो गतिभेदस्तादृक् इति चेत्, स्वभावत एव पूर्वोपात्तकर्मविशेषनिमित्तकादिति ब्रूमः । सर्वेषामेवमभ्युपगमस्यावश्यं भावित्वादन्यथा खेष्टविशेषव्यवस्थानुपपत्तेः तत्प्रतिपादकस्यागमस्यासंभवद्बाधकस्य सद्भावाच्च । गोल|कारा भूमिः समरात्रादिदर्शनान्यथानुपपत्तेरित्येतद्बाधकमागमस्यास्येति चेत् न, अत्र हेतोरप्रयोजकत्वात् । समरात्रादिदर्शनं हि यदि तिष्ठद्भूमेर्गोलाकारतायां साध्यायां हेतुस्तदा न प्रयोजकः स्यात् भ्रम्यद्भूमेर्गोलाकारतायामपि तदुपपत्तेः । अथ भ्रमद्भूमेर्गोलाकारतायां साध्यायां, तथाप्यप्रयोजको हेतुस्तिष्ठत् भूगोलाकारतायामपि तद्धनात् । अथ भूसामान्यस्य गोलाकारतायां साध्यायां हेतुस्तथाप्यगमकस्तिर्यक्सूर्यादिश्रमणवादिनामर्धगोलकाकारतायामपि भूमेः साध्यायां तदुपपत्तेः । समतलायामपि भूमौ ज्योतिर्गति विशेषात्समरात्रादिदर्शनस्योपपादितत्वाच्च । नातः साध्यसिद्धिः कालात्यया Page #389 -------------------------------------------------------------------------- ________________ ३८० तत्त्वार्थश्लोकवार्तिके [सू० १४ पदिष्टत्वाच्च । प्रमाणबाधितपक्षनिर्देशानंतरं प्रयुज्यमानस्य हेतुत्वेतिप्रसंगात् । ततो नेदमनुमानं हेत्वाभासोत्थं बाधकं प्रकृतागमस्य येनास्मादेवेष्टसिद्धिर्न स्यात् ॥ ज्योतिः शास्त्रमतो युक्तं नैतत्स्याद्वादविद्विषां । संवादकमनेकांते सति तस्य प्रतिष्ठिते ॥ १७ ॥ न हि किंचित्सर्वथैकांते ज्योतिःशास्त्रे संवादकं व्यवतिष्ठते प्रत्यक्षादिवत् नित्याद्यनेकांतरूपस्य तद्विषयस्य सुनिश्चितासंभवबाधकत्वाभावात् तस्य दृष्टेष्टाभ्यां बाधनात् । ततः स्याद्वादिनामेव तद्युक्तं, सत्यनेकांते तस्प्रतिष्ठानात् तत्र सर्वथा बाधकविरहितनिश्चयात् ॥ तत्कृतः कालविभागः॥१४॥ . किं कृत इत्याह;ये ज्योतिष्काः स्मृता देवास्तत्कृतो व्यवहारतः कृतः काल विभागोयं समयादिर्न मुख्यतः॥१॥ तद्विभागात्तथा मुख्यो नाविभागः प्रसिद्ध्यति । विभागरहिते हेतौ विभागो न फले कचित् ॥२॥ विभागवान् मुख्यः कालो विभागवत्फलनिमित्तत्वात् क्षित्यादिवत् । समयावलिकादिविभागवद्ध्यवहारकाललक्षणफलनिमित्तत्वस्य मुख्यकाले धर्मिणि प्रसिद्धत्वात् नाप्याश्रयासिद्धः, सकलकालवादिनां मुख्यकाले विवादाभावात् तदभाववादिनां तु प्रतिक्षेपात् । गगनादिनानैकांतिकोऽयं हेतुरिति चेन्न, तस्यापि विभागवदवगाहनादिकार्योत्पत्तौ विभागवत एव निमित्तत्वोपपत्तेः । ननु च यद्यवयवभेदो विभागस्तदा नासौ गगनादावस्ति तस्यैकद्रव्यत्वोपगमात् । पटादिवदवयवारभ्यत्वानुपपत्तेश्च । अथ प्रदेशवतोपचारो विभागस्तदा कालेप्यस्ति, सर्वगतैककालवादिनामाकाशादिवदुपचरितप्रदेशकालस्य विभागवत्त्वोपगमात् । तथा च तत्साधने सिद्धसाधनमिति कश्चित् , परमार्थत एव गगनादेः सप्रदेशत्वनिश्चयात् तस्य सर्वदावस्थितप्रदेशत्वात् एकद्रव्यत्वाच्च । द्विविधा ह्यवयवाः सदावस्थितवपुषोऽनवस्थितवपुषश्च । गुणवत्तत्र सदावस्थितद्रव्यप्रदेशाः सदावस्थिता एवान्यथा द्रव्यस्यानवस्थितत्वप्रसंगात् । पटादिवदनवस्थितद्रव्यप्रदेशास्तु तंत्वादयोऽनवस्थितास्तेषामवस्थितत्वे पटादीनामवस्थितत्वापत्तेः । कादाचित्कत्वस्थेयतयावधारितावयवत्वस्य च विरोधात् । तत्र गगनं धर्माधर्मैकजीवाश्चावस्थितप्रदेशाः सर्वे यतोवधारितप्रदेशत्वेन वक्ष्यमाणत्वात् प्रदेशप्रदेशिभावस्य च तेषां तैरनादित्वात् । कथमनादीनां गगनादितत्प्रदेशानां प्रदेशप्रदेशिभावः परमार्थपथप्रस्थायी? सादीनामेव तंतुपटादीनां तद्भावदर्शनात् इति चेत्, कथमिदानी गगनादि तन्महत्वादिगुणानामनादिनिधनानां गुणगुणिभावः पारमार्थिकः सिद्ध्येत् ? तेषां गुणगुणिलक्षणयोगात्तथाभाव इति चेत् , तर्हि तत्प्रदेशानामपि प्रदेशिप्रदेशलक्षणयोगात् प्रदेशप्रदेशिभावोस्तु । यथैव हि गुणपर्ययवद्रव्यमिति गगनादीनां द्रव्यलक्षणमस्ति तन्महत्वादीनां च "द्रव्याश्रिता निर्गुणा गुणा" इति गुणलक्षणं तथावयवानामेकत्वपरिणामः प्रदेशिद्रव्यमिति प्रदेशिलक्षणं गगनादीनामवयुतोऽवयवः प्रदेशलक्षणं तदेकदेशानामस्तीति युक्तस्तेषां प्रदेशप्रदेशिभावः । कालस्तु नैकद्रव्यं तस्यासंख्येयगुणद्रव्यपरिणामत्वात् । एकैकस्मिल्लोकाकाशप्रदेशे कालाणोरेकैकस्य द्रव्यस्यानंतपर्यायस्यानभ्युपगमे तद्देशवर्तिद्रव्यस्यानंतस्य परमाण्वादेरनंतपरिणामानुपपत्तेरिति द्रव्यतो भावतो वा विभा. गवत्त्वे साध्ये कालस्य न सिद्धसाधनं । नापि गगनादिनानैकांतिको हेतुः । क्षित्यादिनिदर्शनं साध्यसाधनविकलमित्यपि न मंतव्यं तत्कार्यस्यांकुरादेविभागवतः प्रतीतेः, क्षित्यादेश्च द्रव्यतो भावतश्च विभागत्वसिद्धेरिति सूक्तं "विभागरहिते हेतौ विभागो न फले कचित्" इति ॥ Page #390 -------------------------------------------------------------------------- ________________ ३८१ चतुर्थोऽध्यायः । बहिरवस्थिताः ॥ १५॥ किमनेन सूत्रेण कृतमित्याह;बहिर्मनुष्यलोकांतेवस्थिता इति सूत्रतः । तत्रासन्नाव्यवच्छेदः प्रादक्षिण्यमति क्षतिः ॥१॥ कृतेति शेषः । एवं सूत्रचतुष्टयाज्योतिषामरचिंतनं । निवासादिविशेषेण युक्तं बाधविवर्जनात् ॥२॥ वैमानिकाः ॥ १६ ॥ खांस्तु कृतिनो विशेषेण मानयंतीति विमानानि तेषु भवा वैमानिकाः । परेपि वैमानिकाः स्युरेवमिति चेन्न, वैमानिकनामकर्मोदये सति वैमानिका इति वचनात् । तेन श्रेणींद्रकपुष्पप्रकीर्णकभेदात् त्रिविधेषु विमानेषु भवा देवा वैमानिकनामकर्मोदयाद्वैमानिका इत्यधिकृता वेदितव्याः ॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १७॥ सौधर्मादयोच्युतांताः कल्पोपपन्ना इंद्रादिदशतयकल्पनासद्भावात् कल्पोपपन्ननामकर्मोदयवशवर्तित्वाच न भवनवास्यादयस्तेषां तदभावात् । नच अवेयका नवानुदिशाः पंचानुत्तराश्च कल्पातीताः कल्पातीतनामकर्मोदये सति कल्पातीतत्वात् तेषामिंद्रादिदशतयकल्पनाविरहात् सर्वेषामहमिंद्रत्वात् ॥ वैमानिका विमानेषु निवासादुपवर्णिताः। द्विधा कल्पोपपन्नाश्च कल्पातीताश्च ते मताः॥१॥ न वैमानिकास्त्रिधा चतुर्धा वान्यथा वा संभाव्यते द्विविधेष्वेवान्येषामंतर्भावात् ते च कथमवस्थिताः॥ उपर्युपरि ॥ १८॥ सामीप्ये वोपर्युपरीति द्वित्वं तेषामसंख्येययोजनांतरत्वेपि तुल्यजातीयव्यवधानाभावात् सामीप्योपपत्तेः । किमत्रोपर्युपरीत्यनेनाभिसंबध्यते ? कल्पा इत्येके । कल्पोपपन्ना इत्यत्र कल्पग्रहणस्योपसर्जनीभूतस्यापि विशेषणेनाभिसंबंधात् । राजपुरुषोऽयं, कस्य राज्ञ इति यथा प्रत्यासत्तेढुर्व्यपेक्षितत्वादिति । तन्न बुध्यामहे, वैमानिका इत्यधिकारार्थ वचनमित्येतस्य व्याघातात् । यथा हि वैमानिका देवाः कल्पोपपन्नाः कल्पातीताश्चेति संबध्यते तथोपर्युपरीत्यपि त एवेति युक्तं । न हि देवा एव निर्विशेषणा उपर्युपरीत्युच्यते येनानिष्टप्रसंगः । किं तर्हि ? मध्यस्थेंद्रकतिर्यगवस्थितश्रेणिप्रकीर्णकविमानलक्षणकल्पो. पपन्नत्वविशेषणाक्रांताः कल्पातीतत्वविशेषणाक्रांताश्च यथोपवर्णितसन्निवेशाः संबध्यते । तथा च निरवद्यो निर्देशः सर्वानिष्टनिवृत्तेः । तथाहि उपर्युपरि तद्धाम नाधस्तिर्यक् च तत्स्थितिः। यथा भवनवास्यादिदेवानामिति निर्णयः ॥१॥ न हि यथा भवनवासिनो व्यंतराश्चाधस्तिर्यक् समवस्थितयो ज्योतिष्कास्तिर्यक् स्थितयस्तथा वैमानिका इष्यंते, तेषामुपर्युपरि समवस्थितत्वात् उपर्युपरि वचनेनैव निर्णयात् ॥ सौधर्मेशानसानत्कुमारमाहेंद्रब्रह्मलोकब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रसतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥ सुधर्मा नाम सभा सास्मिन्नस्तीति सौधर्मः कल्पः 'तदस्मिन्नस्तीत्यण' तत्कल्पसाहचर्यादिंद्रोपि सौधर्मः, Page #391 -------------------------------------------------------------------------- ________________ ३८२ तत्त्वार्थश्लोकवार्तिके [सू० २० ईशानो नार्मेंद्रः खभावतः ईशानोस्य निवासः कल्प ऐशानः 'तस्य निवासः' इत्यण् तत्साहचर्यादिंद्रोप्यैशानः, सनत्कुमारो नामेंद्रः स्वभावतः तस्य निवासः कल्पः सानत्कुमारः तत्साहचर्यादिंद्रोपि सानत्कुमारः, महेंद्रो नार्मेंद्रः स्वभावतः तस्य निवासः कल्पो महेंद्रः तत्साहचर्यादिद्रोपि माहेंद्र:, ब्रह्मनामेंद्रः तस्य लोको ब्रह्मलोकः कल्पो ब्रह्मोत्तरश्च, लांतवादयोच्युतांता इंद्रास्तत्साहचर्यात् कल्पा अपि लांतवादयः, इंद्रलोकपुरुषस्य ग्रीवास्थानीयत्वाद्रीवा: ग्रीवासु भवानि ग्रैवेयकाणि विमानानि तत्साहचर्यादिद्रा अपि चैवेयकाः, विजयादीनि विमानानि परमाभ्युदयविजयादन्वर्थसंज्ञानि तत्साहचर्यादिंद्रा अपि विजयादिनामानः सर्वार्थानां सिद्धेः सर्वार्थसिद्धिविमानं तत्साहचर्यादिंद्रोपि सर्वार्थसिद्धः । तस्य पृथग्रहणं द्वंद्वे कर्तव्येपि स्थित्यादिविशेषप्रतिपत्त्यर्थं । सर्वार्थसिद्धस्य हि स्थितिरुत्कृष्टा जघन्या च त्रयस्त्रिंशत्सागरोपमा विजयादिभ्यो जघन्यतो द्वात्रिंशत्सागरोपमस्थितिभ्यो विशिष्टा प्रभावतश्च ततोल्पप्रभावेभ्यः इति श्रूयते । ग्रैवेयकाणां पृथग्ग्रहणं कल्पातीतत्वज्ञापनार्थे, नवशब्दस्यावृत्तिकरणमनुदिशसूचनार्थं । दिश आनुपूर्व्येणानुदिशं विमानानीति पूर्वपदार्थप्रधाना वृत्तिः दिक्छब्दस्य शरदादित्वात् आकारांतस्य वा दिशाशब्दस्य भावात् तत्साहचर्यादिद्रा अप्यनुदिशास्ते च नव संति ग्रैवेयकाणामुपरीति श्रवणात् ॥ ननु च सौधर्मेशानयोः केषांचिदप्युपरिभावाभावादव्यापक तोपरिभावस्य स्यादित्याशंकायामिदमाह; — सौधर्मैशानयोर्देवा ज्योतिषामुपरि स्थिताः । नोपर्युपरिभावस्य तेनाव्यापकता भवेत् ॥ १ ॥ कुतः पुनर्द्वयोर्द्वयोरुपर्युपरिभावः प्राग्यैवेयकेभ्य एवेत्याह; सौधर्मेत्यादिसूत्रे च द्वंद्ववृत्तिर्विभाव्यते । सौधर्मादिविमानानामुपर्युपरिनान्यथा ॥ २ ॥ आनतप्राणतद्वंद्वमारणाच्युतयोरिति । सूचनादंतशः सा च कल्पेष्वेवैकशस्ततः ॥ ३ ॥ ग्रैवेयकेषु नव नवस्वनुदिशेष्वियं । ततोनुत्तरसंज्ञानां पंचानां सेष्यतेर्थतः ॥ ४ ॥ सौधर्मेत्यादिसूत्रे निर्दिष्टानां सौधर्मेशानादीनां श्रेणींद्र कप्रकीर्णकात्मकपटलभावापन्नानां विमानानामुपर्युपरि द्वंद्व वर्तनं विभाव्यते आनतप्राणतद्वंद्वमनंतरमारणाच्युतयोरिति सूचनादन्यावृत्त्यकरणे प्रयोजनाभावात् । तच्च द्वंद्ववर्तनं कल्पेष्वेव विभाव्यते । तदंते वृत्त्यकरणात् प्रागेव सौधर्मेशानयोः सानत्कुमारम|हेंद्रयोरित्यवृत्त्यकरणात् । तत एव नवसु ग्रैवेयकेष्वेकशो वर्तनं विभाव्यते । नवखनुदिशेषु च तत्र दिग्विदिग्वत्यैकैक विमानमध्यगस्येंद्रक विमानस्यैकत्वात् । तत एवानुत्तरसंज्ञानां पंचानामेकशो वर्तनं विभाव्यते दिग्वत्यैकैक विमानमध्यगस्येंद्रकस्य सर्वार्थसिद्धस्यैकत्वात् । अर्थतश्चैवं विभाव्यते अन्यथोक्तनिर्देशक्रमस्य प्रयोजनानुपपत्तेः ॥ ते च सूत्रितेषु सौधर्मादिषु कल्पेषु कल्पातीतेषु च वैमानिका देवा:स्थितिप्रभावसुखद्युतिलेश्याविशुद्धींद्रियावधिविषय तोधिकाः ॥ २० ॥ खोपात्तायुष उदयात्तस्मिन् भवे तेन शरीरेणावस्थानं स्थितिः, शापानुग्रहलक्षणः प्रभावः, सद्योदये सतीष्टविषयानुभवनं सुखं, शरीरवसनाभरणादिदीप्तिर्द्युतिः, कषायानुरंजिता योगप्रवृत्तिर्लेश्योक्ता तस्या विशुद्धिर्लेश्याविशुद्धिः, इंद्रियस्यावधेश्च विषयो गोचरः प्रत्येयः, विषयशब्दस्येंद्रियावधिभ्यां प्रत्येकमभिसंबंधात् अन्यथोपर्युपरि देवानामिंद्रियादिवृद्धिप्रसंगात् सिद्धांत विरोधापत्तेः । स्थित्यादीनां द्वंद्वे स्थितिशब्दस्यादौ ग्रहणं तत्पूर्वकत्वात् प्रभावादीनां । तेभ्यस्ततः इत्यत्रोपादाने ' हीयरहोरितसिः तैर्वा ततस्तसि प्रकरणे आट्यादिभ्य उपसंख्यानमिति' तसिः । उपर्युपरि वैमानिका इति चानुवर्तते तेनैवमभिसंबंधः क्रियते उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च स्थित्यादिभिरधिका इति ॥ Page #392 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः । कुतस्ते तथा सिद्धा इत्याह; सप्तभिस्ते तथा ज्ञेयाः स्थित्यादिभिरसंशयं । तेषामिह मनुष्यादौ तारतम्यस्य दर्शनात् ॥ १ ॥ मनुष्यादौ स्थितेस्तावत्तारतम्यस्य दर्शनाद्देवानामुपर्युपरि स्थित्याधिक्यं दृष्टं संभाव्यते । येषामप समाना स्थितिः तेषामपि गुणतोधिकत्वसिद्धेः प्रभावस्य तारतम्यदर्शनं तेनाधिकं । यः प्रभावः सौधर्मकल्पे निग्रहानुग्रहपराभियोगादिषु तदनंतगुणत्वादुपर्युपरि देवानां केवलं मंदाभिमानतयाल्पसंक्लेशतया च न प्रवर्तनं । एवमिह सुखस्य तारतम्यदर्शनात्तेषां सुखेनाधिक्यं । द्युत्या तारतम्यदर्शनादिति धुत्याधिक्यं । लेश्याविशुद्धेस्तारतम्यदर्शनात्तयाधिक्यं समानलेश्यानामपि कर्मविशुद्ध्यधिकत्वसिद्धेः । इंद्रियविषयस्य तारतम्यदर्शनादिंद्रियविषयेणाधिक्यं । तद्वदवधिविषयेण तथा संभावनायां बाधकाभावात् ॥ गत्यादिभिरधिकत्वप्रसंगे तन्निवृत्त्यर्थमाह ; गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ उभयनिमित्तवशादेशांतरप्राप्तिनिमित्तः कायपरिस्पंदो गतिः, शरीरमिह वैक्रियिकमुक्तलक्षणं ग्राह्यं, लोकषायोदयान्मूर्छा परिग्रहो वक्ष्यमाणः, मानकषायोदयात् प्रतियोगेष्वप्रणतिपरिणामोऽभिमानः । गतिशरीरपरिग्रहाभिमानैर्गतिशरीरपरिग्रहाभिमानतः उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च हीनाः प्रत्येतव्याः ॥ कुतस्ते तथेत्याह ; ३८३ उपर्युपरि ते हीना गत्यादिभिरसंभवात् । तत्कारणप्रकर्षस्य परिणामविशेषतः ॥ १ ॥ 3 गत्या तावदुपर्युपरि हीना देवास्तत्कारणस्य विषयाभिष्वंगोद्रेकस्य हीनत्वात् तथा परिणामेनोत्पत्तेः । शरीरेणापि हीनास्तत्कारणस्य प्रवृद्धशरीरनामकर्मोदयस्य हीनत्वात् । सौधर्मेशानयोर्देवानां शरीरं सप्तरनिप्रमाणं, सानत्कुमारमा हेंद्रयोरर लिहीनं, ततोप्य रत्निहीनं कापिष्टांतेषु ततोपि सहस्रारांतेष्वर लिहीनं, ततोप्यानतप्राणतयोरर्धरलिहीनं, ततोप्यारणाच्युतयोः, ततोप्यधोग्रैवेयकेषु ततो मध्यग्रैवेयकेषु, ततोप्युपरि ग्रैवेयकेष्वनुदिशविमानेषु च ततोनुत्तरेषु तत्रारनिमात्रत्वादेवशरीरस्येति हि श्रुतिः । परिग्रहेणापि विमानपरिवारादिलक्षणेन हीनाः तत्कारणस्य प्रकृष्टस्याभावात् । सौधर्मादिषु हि देवानामुपर्युपरि नामकर्मविशेषोल्पाल्पतराल्पतमविमानपरिवारहेतुरंत रंगो बहिरंगस्तु क्षेत्रविशेषादिरिति कारणापकर्षतारतम्यात् कार्यापकर्षतारतम्या सिद्धिः । कुतोभिमानेन हीनास्ते ! तत्कारणप्रकर्षस्याभावादेव । किं पुनरभिमानकारणं शरीरिणामप्रतनुकषायत्वं मनसः संक्लेशोवधिशुद्धिविरहादतत्त्वावलोकनमसंवेग परिणामश्च तस्य हानितारतम्यादुपर्युपरि देवानामभिमानहानितारतम्यं तत्पुनरभिमानकारणस्य हानितारतम्यं तत्प्रतिपक्षभूतानामतनुकषायत्वाल्पसंक्लेशावधिविशुद्धितत्त्वावलोकनसंवेग परिणामाधिक्यानां तारतम्यादुपपद्यते पूर्वजन्मोपात्तविशुद्धाध्यवसायप्रकर्षतारतम्यादुपर्युपरि तेषामुपपादस्य घटनाच्च ॥ कथं पुनरुपर्युपरिभावो वैमानिकानां संगच्छत इत्याशंकायामिदमाह ; स्थित्यादिभिस्तथाधिक्यस्यान्यथानुपपत्तितः । नोपर्युपरिभावस्य तेषां संकेतिसंगतिः ॥ २ ॥ पूर्वजन्मभाबिस्व परिणाम विशेष विशुद्धितारतम्योपात्तशुभकर्मविशेषप्रकर्षतारतम्यात् स्थित्यादिभिराधिक्यं तावद्वैमानिकानां सूत्रितं सर्वथा बाधकविधुरत्वात्तदन्यथानुपपत्त्या च तेषामुपर्युपरिभावस्य संगतिः । पूर्वजन्मभाविखपरिणाम विशेषविशुद्धितारतम्योपात्तशुभकर्मतारतम्यात् स्थित्यादिभिराधिक्यस्य दर्शनात् क्षीणान्यथानुपपत्तिरिति चेन्न तदाधिक्यविशेषस्य तेषामुपर्युपरिभावेनान्यथानुपपत्तिसिद्धेः ॥ Page #393 -------------------------------------------------------------------------- ________________ ३८४ तत्त्वार्थश्लोकवार्तिके [सू० २२ अथायेषु त्रिषु निकायेषु लेश्याविधानमुक्तं वैमानिकनिकाये संप्रत्युच्यते; पीतपद्मशुक्ललेश्या वित्रिशेषेषु ॥ २२ ॥ ननु च पूर्वमेतद्वक्तव्यं तत्र पुनर्लेश्याभावात् सूत्रस्य लाघवोपपत्तेः आदितस्त्रिषु पीतांतलेश्याः ततः पीतपद्मशुक्ला द्वित्रिशेषेष्विति । तदसत् , तत्र सौधर्मादिग्रहणे सूत्रगौरवप्रसंगादग्रहणेभिसंबंधानुपपत्तेः , संक्षेपार्थमिहैव वचनोपपत्तेः । पीतपद्मशुक्लानां द्वंद्वे पीतपद्मयोरुत्तरपदिकं ह्रखत्वं द्रुतापात्तपरकरणान्मध्यमविडंबितयोरुपसंख्यानमित्याचार्यवचनदर्शनात् मध्यमाशब्दस्य विडंबितोत्तरपदे द्वंद्वेपि ह्रखत्वसिद्धेः । ततः पीतपद्मशुक्ललेश्याः येषां देवानां ते पीतपद्मशुक्ललेश्या इति द्वंद्वपूर्वान्यपदार्था वृत्तिः । द्वित्रिशेपेष्वित्यधिकरणनिर्देशाद्वयादिविकल्पादीनामाधारत्वसिद्धेः ॥ कथं पुनः पीतादयो लेश्यास्तदाधेयानः देवानां विज्ञेया इत्यावेद्यते; लेश्याः पीतादयस्तेषां सूत्रवाक्यप्रभेदतः । प्रत्येतव्याः प्रपंचेन यथागममसंशयं ॥१॥ द्वयोः सौधर्मेशानयोः सानत्कुमारमाहेंद्रयोश्च पीतलेश्याः द्वयोर्ब्रह्मलांतवकल्पयोः शुक्लसतारकल्पयोश्च पद्मलेश्याः, द्वयोरानतप्राणतयोरारणाच्युतयोश्च शुक्ललेश्याः, त्रिवधोग्रैवेयकेषु त्रिषु मध्यमग्रैवेयकेषु त्रिपरिग्रैवेयकेषु च शुक्ललेश्याः । शेषेष्वनुदिशेषु पंचखनुत्तरेषु च शुक्ललेश्या इति सूत्रवाक्यप्रभेदतां प्रत्येतव्याः । चतुःशेषेष्विति वक्तव्यं स्पष्टार्थमिति चेत् न, अविशेषेण चतुर्यु माहेंद्रांतेषु पीतायाः प्रसंगात् , चतुषु च सहस्रांतेषु कल्पेषु पद्मायाः प्रसक्तेः शेषेषु चानतादिषु शुक्ललेश्यायाः समनुषंगात् तथाचार्यविरोधः स्यात् । तत्र हि सौधर्मेशानयोः देवानां पीता लेश्येष्यते, सानत्कुमारमाहेंद्रयोः पीत. पद्मा, ततः कापिष्टांतेषु पद्मा, ततः सहस्रारांतेषु पद्मशुक्ला, ततोऽच्युतांतेषु शुक्ला, ततः शेषेषु परमशुक्लेति । कथं सूत्रेणानभिहितोयं विशेषः प्रतीयते । पीताग्रहणेन पीतपद्मयोः संग्रहात् पद्माग्रहणेन पद्मशुक्लयोः इत्याहुः । कथं ? तथा लोके शब्दव्यवहारदर्शनात् । छत्रिणो गच्छंतीति यथा छत्रिसहचरितानामछत्रिणामपि छत्रिव्यपदेशात् । पाठांतरेपि यथा व्याख्यानाददोष इति चेन्न, अनिष्टशंकानिवृत्त्यर्थत्वात् । द्वित्रिशेषेष्विति पाठस्य चतुःशेषेष्विति तु पाठे चतुर्णी चतुर्णामुपर्युपरिभावेऽनिष्टः शक्येत तन्निवृत्तिर्यथान्यासवचने कृता भवति । यथासंख्यप्रसंगादत्राप्यनिष्टमिति चेन्न, न्यादिशब्दानामंतीतवीप्सार्थत्वाविभोजनादिवत् । दिने दिने द्विभोजने यस्य स द्विभोजन इत्यादयो यथान्त तवीप्सार्थास्तथोपर्युपरि द्वयोर्द्वयोस्त्रिषु शेषेषु शेषेष्वित्यंत तवीप्सार्था व्यादिशब्दा इह व्याख्यायंते, ततो न यथासंख्यप्रसंगो वाक्यभेदान्याख्यानाच्च । पीतमिश्रपद्ममिश्रपद्मशुक्ललेश्या द्विद्विचतुःशेषेप्विति पाठांतरमन्ये मन्यते, तत्र सूत्रगौरवं तदवस्थं । अथवास्तु यथासंख्यमभिसंबंधस्तथापि नानिष्टप्रसंगः । कथं ? द्वयोः युगलयोः पीतलेश्या, सानत्कुमारमाहेंद्रयोः पद्मलेश्यायाः अविवक्षातः ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या शेषेषु सतारादिषु शुक्ललेश्या पद्मलेश्याया अविवक्षातः इत्युक्तौ अभिसंबंधात् । ततो न कश्चिदार्षविरोधः ॥ लेश्या निर्देशतः साध्या कृष्णेत्यादिस्वरूपतः ।वर्णतो भ्रमरादीनां छायां बिभ्रति बाह्यतः॥२॥ अनंतभेदमासां स्याद्वर्णातरमपि स्फुटं । एकद्वित्रिकसंख्यादिकृष्णादिगुणयोगतः ॥३॥ तथांतःपरिणामेन साध्यजीवस्य तत्त्वतः । स चासंख्यातलोकात्मप्रदेशपरिमाणकः ॥ ४ ॥ तत्कषायोदयस्थानेष्वियत्सूत्कृष्टमध्यम- । जघन्यात्मकरूपेषु क्लेशहान्या निवर्तनात् ॥ ५॥ कृष्णादयोऽशुभास्तिस्रो विवर्तते शरीरिणः । जघन्यमध्यमोत्कृष्टेष्वंशांशेषु विवृद्धितः ॥६॥ Page #394 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः । ३८५ विशुद्धेरुत्तरास्तिस्रः शुभा एवं विपर्ययात् । विशुद्धिहान्या संशवृद्ध्या चैव शुभेतराः ॥ ७ ॥ एकैका चाप्यसंख्येयलोकात्मा व्यवसायभृत् । लेश्याविशेषतो ज्ञेयाः कषायोदय भेदतः ॥ ८ ॥ तथा संक्रमतः साध्या लेश्याः क्लेशविशुद्धिजात् । क्लिश्यमानस्य कृष्णायां न लेश्यांतरसंक्रमः ९ ॥ तस्यामेव तु षट्स्थानपतितेन विवर्धते । हीयते च पुमानेष संक्रमेण निजक्रमात् ॥ १० ॥ कृष्णा प्राथमिक क्लेशस्थानाद्धि परिवर्धते । संख्येयादप्यसंख्येयभागतः स्वनिमित्ततः ॥ ११ ॥ संख्येयादिगुणाद्वापि नान्यथेति विनिश्चयः । लेश्यांतरस्य कृष्णातोऽशुभस्यान्यस्य बाधनात् १२ तत्कुष्णलेश्यतः स्थानाद्धीयमानो विहीयते । कृष्णायामेव नान्यस्यां लेश्यायां हेत्वभावतः १३ साद्यनंतादिभागाद्वा संख्यातादिगुणात्तथा । हीयते नान्यथा स्थानपट्टसंक्रमतोसुभृत् ॥ १४ ॥ यानंतगुणा हानिः कृष्णायाः संक्रमस्तदा । नीलाया उत्तमस्थाने तल्लेश्यांतर संक्रमः ॥ १५ एवं विशुद्धिवृद्धौ स्याच्छुक्कलेश्यस्य संक्रमः । शुक्कायामेव नान्यत्र लेश्या एवावसानतः ॥ १६ तथा विशुद्धिहान्यां स्यात्तल्लेश्यांतर संक्रमः । अनंतगुणहान्यैव नान्यहान्या कदाचन ॥ १७ ॥ मध्ये लेश्याचतुष्कस्य शुद्धिसंक्लेशयोर्नृणां । हानौ वृद्धौ च विज्ञेयस्तेषां स्वपरसंक्रमः ॥ १८ ॥ तथैव कर्मतो लेश्याः साध्याः पडपि भेदतः । फललक्षणदृष्टांतसामर्थ्यात्तत्त्ववेदिभिः ॥ १९ ॥ आद्या तु स्कंधभेदेच्छा विटपच्छेदशेमुषी । परा च शाखाछेदीच्छादनुशाखछि दैषणा ॥ २० ॥ पिंडिकाछेदनेच्छा च स्वयं पतितमात्रक- । फलादित्सा च कृष्णादिलेश्यानां भक्षणेच्छया २१ तथा लक्षणतो लेश्याः साध्याः सिद्धाः प्रमाणतः । पराननुभयादिः स्यात्कृष्णायास्तत्र लक्षणः अलस्यादिस्तु नीलाया मात्सर्यादिः पुनः स्फुटं । कापोत्या दृढमैत्र्यादिः पीतायाः सत्यवादिता प्रभृति पद्मलेश्यायाः शुक्कायाः प्रशमादिकं । गत्या लेश्यास्तथा ज्ञेयाः प्राणिनां बहुभेदया ॥ २४ प्रत्यंशकं समाख्याताः षड्विंशतिरिहांशकाः । तत्राष्टौ मध्यमास्तावदायुषो बंधहेतवः ।। २५ ।। आर्षोपदेशतः सिद्धाः शेषास्तु गतिहेतवः । पुण्यपापविशेषाणामुपचारतया हि ते ।। २६ ।। भवायुर्गतिभेदानां कारणं नामभेदवत् । शुक्लोत्कृष्टांश कादात्मा भवेत्सर्वार्थसिद्धिगः ॥ २७ ॥ कृष्णोत्कृष्टांशकात्तु स्यादप्रतिष्ठानगाम्यसौ । शेषांशकवशान्नानागतिभागवगम्यताम् ॥ २८ ॥ यथागमं प्रपंचेन विद्यानंदमहोदया | स्वामित्वेन तथा साध्या लेश्या साधनतोपि च ॥ २९ ॥ संख्यातः क्षेत्रतश्चापि स्पर्शनात्कालतोंतरात् । भावाच्चाल्पबहुत्वाच्च पूर्वसूत्रोक्तनीतितः॥३०॥ प्रास्यैवेयकेभ्यः कल्पाः ॥ २३ ॥ सौधर्मादिग्रहणमनुवर्तते, तेनायमर्थः – सौधर्मादयः प्राग्यैवेयकेभ्यः कल्पा इति । सौधर्मादिसूत्रानंतरमिदं सूत्रं वक्तव्यमिति चेन्न, स्थितिप्रभावादिसूत्रत्रयस्य व्यवधानप्रसंगात् । सति व्यवधानेऽनेन विधीयमानोर्थः कल्पेष्वेव स्यादनंतरत्वात् ॥ के पुनः कल्पातीता इत्याह ; कल्पाः प्रागेव ते बोध्या ग्रैवेयकविमानतः । तदादयस्तु सामर्थ्यात् कल्पातीताः प्रतीतितः १ ननु च परिशेषाद्वैवेयकादीनां कल्पातीतत्वसिद्धौ भवनवास्यादीनां कल्पातीतत्वप्रसंग इति चेन्न, उपर्युपरीत्यनुवर्तनात् ॥ ब्रह्मलोकालया लोकांतिकाः ॥ २४ ॥ एत्यास्मिल्लीयत इत्यालयो निवासः । ब्रह्मलोक आलयो येषां ते ब्रह्मलोकालयाः । सर्वब्रह्मलोकदेवानां लौकांतिकत्वप्रसंग इति चेन्न, लोकांतोपश्लेषात् । ब्रह्मलोकस्यांतो हि लोकांतः लोकांते भवा ४९ Page #395 -------------------------------------------------------------------------- ________________ ३८६ तत्त्वार्थश्लोकवार्तिके [ सू० २६ लोकांतिका इति न सर्वत्र ब्रह्मलोकदेवास्तथा । अथवा लोकः संसारः जन्मजरामृत्युसंकीर्णः तस्यांतो लोकांतः तत्प्रयोजना लौकांतिकाः । ते हि परीतसंसाराः ततश्च्युत्वा एकं गर्भवासमवाप्य परिनिर्वाति ॥ किं पुनरनेन सूत्रेण क्रियत इत्याह; तत्र लौकांतिका देवा ब्रह्मलोकालया इति । सूचनात् कल्पवासित्वं तेषां नियतमुच्यते ॥१॥ लोकांतिकानां कल्पोपपन्नकल्पातीतेभ्योन्यत्वं मा भूदिति तेषां कल्पवासिनियमोऽनेन क्रियते न . ततो देवानां चतुर्णिकायत्वनियमो विरुध्यते ॥ तद्विशेषप्रतिपादनार्थमाह; सारस्वतादित्यवन्ह्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५॥ किमिमे सारखतादयः पूर्वोत्तरादिदिक्षु यथाक्रमं । तद्यथा-अरुणसमुद्रप्रभवो मूले संख्येययोजनविस्तारस्तमसः स्कंधः समुद्रवलयाकृतिरिति तीब्रांधकारपरिणामः स ऊर्ध्व क्रमवृद्ध्या गच्छन् मध्येते वा संख्येययोजनबाहुल्यः अरिष्टविमानस्याधोभागे समेतः कुक्कुटकुटीवदवस्थितः । तस्योपरि तमोराजयोष्टा व्युत्पत्त्यारिष्टंद्रकविमानसमप्रणिधयः । तत्र चतसृष्वपि दिक्षु द्वंद्वं गतास्तिर्यगालोकांतात् तदंतरेषु पूर्वोत्तरकोणादिषु सारखतादयो यथाक्रमं वेदितव्याः । चशब्दसमुच्चिताः सारखताद्यंतरालवर्तिनः परेऽग्याभसूर्याभादयो द्वंद्ववृत्त्या स्थिताः प्रत्येतव्याः । तद्यथा-सारस्वतादित्ययोरंतरालेऽग्याभसूर्याभाः, आदित्यवयोश्चंद्राभसत्याभाः, वह्यरुणयोः श्रेयस्करक्षेमंकराः, अरुणगर्दतोययोवृषभेष्टकामचाराः, गर्दतोयतुषितयोर्निमाणरजोदिगंतरक्षिताः, तुषिताव्याबाधयोरात्मरक्षितसर्वरक्षिताः, अव्याबाधारिष्टयोर्मरुद्वसवः, अरिष्टसारखतयोरश्वविश्वाः । तान्येतानि विमानानां नामानि तन्निवासिनां च देवानां तत्साहचर्यात् । तत्र सारखताः सप्तशतसंख्याः , आदित्या वह्नयः सप्तसहस्राणि सप्ताधिकानि, अरुणाश्च तावंत एव, गर्दतोया नवसहस्राणि नवोत्तराणि, तुषिताश्च तावंत एव, अव्याबाधा एकादशसहस्राण्येकादशानि, अरिष्टा अपि तावंत एव । चशब्दसमुच्चितानां संख्योच्यते-अन्याभे देवाः सप्तसहस्राणि सप्ताधिकानि, सूर्याभे नवनवोत्तराणि, चंद्राभे एकादशैकादशोत्तराणि, सत्याभे त्रयोदश त्रयोदशोत्तराणि, श्रेयस्करे पंचदशपंचदशोत्तराणि, क्षेमंकरे सप्तदशसप्तदशोत्तराणि, वृषभेष्टे एकोनविंशत्येकोनविंशत्यधिकानि, कामचारे एकविंशत्येकविंशत्यधिकानि, निर्माणरजसि त्रयोविंशतित्रयोविंशत्यधिकानि, दिगंतरक्षिते पंचविंशतिपंचविंशत्यधिकानि, आत्मरक्षिते सप्तविंशतिसप्तविंशत्यधिकानि, सर्वरक्षिते एकान्नत्रिंशदेकान्नत्रिंशदधिकानि, मरुति एकत्रिंशदेकत्रिंशदधिकानि, वसुनि त्रयस्त्रिंशत्रयस्त्रिंशदधिकानि, अश्वे पंचत्रिंशत्पंचत्रिंशदधिकानि, विश्वे सप्तत्रिंशत्सप्तत्रिंशदधिकानि । त एते चतुर्विंशतिर्लोकांतिकगणाः समुदिताः चत्वारिंशत्सहस्राणि अष्टसप्ततिश्च शतानि षड्डुत्तराणि । सर्वे खतंत्राः हीनाधिकत्वाभावात् । विषयरतिविरहाद्देवर्षयः तत एवेतरेषां देवानामर्चनीयाः चतुर्दशपूर्वधराः सततं ज्ञानभावनावहितमनसः नित्यं संसारादुद्विग्नाः अनित्याशरणाद्यनुप्रेक्षावहितचेतसः तीर्थकरनिःक्रमणप्रबोधनपराः नामकर्मविशेषोदयादुपजायते ।। तेन्वर्थसंज्ञतां प्राप्ता भेदाः सारस्वतादयः । तेनैकचरमास्तद्वच्छकाद्याश्चोपलक्षिताः ॥१॥ यथैकचरमा लौकांतिकाः सर्वेन्वर्थसंज्ञां प्राप्ताः सूत्रिताः तथा शक्रादयश्च तेषामुपलक्षणत्वात् ॥ क पुनर्द्विचरमा इत्याह; विजयादिषु दिचरमाः॥२६॥ आदिशब्दः प्रकारार्थः । कः प्रकारः? सम्यग्दृष्टित्वे निर्ग्रथत्वे च सत्युपपादः । स च विजयस्येव Page #396 -------------------------------------------------------------------------- ________________ • चतुर्थोऽध्यायः । ३८७ वैजयंता पराजितानामनुदिशानामप्यस्तीति तत्रादिशब्देन गृह्यंते । सर्वार्थसिद्धस्य ग्रहणप्रसंग इति चेन्न, तस्यान्वर्थसंज्ञाकरणात् पृथगुपादानाच्च लौकांतिकवदेकचरमत्वसिद्धेः । कथं पुनर्विजयादीनां द्विचरमत्वं मनुप्यभवापेक्षायां तथैव व्याख्याप्रज्ञप्तिदंडकेऽभिधानात् । देवभवापेक्षायामपि त्रिचरमत्वप्रसंगात् । मनुष्यभवस्य पुनरेकस्य मुख्यचरमत्वं येनैव निर्वाणप्राप्तेः । अपरस्य तु चरमप्रत्यासत्तेरुपचरितं चरमत्वं सजातीयस्य व्यवधायकस्याभावात् तस्य तत्प्रत्यासत्तिसिद्धेः । द्वौ चरमौ मनुष्यभवौ येषां ते द्विचरमाः देवाः विजयादिषु प्रतिपत्तव्याः । अथान्यत्र सौधर्मादिषु कियच्चरमा देवा इत्यावेदयितुमाह ; तथा द्विचरमाः प्रोक्ता विजयादिषु यतोऽमराः । ततोन्यत्र नियामोस्ति न मनुष्य भवेष्विह ।। १ यतो लौकांतिकानां सर्वार्थसिद्धस्य शक्रस्य च तदग्रमहिष्या लोकपालादीनामेकचरमत्वमुक्तं तथा विजयादिदेवानां द्विचरमत्वं, ततोन्यत्र सौधर्मादिषु नियमो नास्तीति गम्यते ॥ इत्येकादशभिः सूत्रैर्वैमानिकनिरूपणं । युक्तत्यागमवशादात्तं तन्निकायचतुष्टयम् ॥ २ ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे चतुर्थाध्यायस्य प्रथममाह्निकम् । औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥ औपपादिकाश्च मनुष्याश्चौपपादिकमनुष्या इत्यत्र द्वंद्वेभ्यर्हितत्वादौ पपादिकशब्दस्य पूर्वनिपातः । मनुष्यशब्दस्याल्पाक्षरत्वेपि तस्मादुत्तरत्र प्रयोगः, अभ्यर्हितत्वस्याल्पाक्षरापवादत्वात् । तेभ्योन्ये शेषाः संसारिणः तिर्यग्योनयः प्रत्येयाः, तिर्यग्नामकर्मोदयसद्भावात् । न पुनः सिद्धाः संसारिप्रकरणे तदप्रसंगात् । कस्मात्पुनर्हि तेभिधीयते ? तिर्यक्प्रकरणे तेषामभिधानार्हत्वात् इत्याशंकमानं प्रत्याह ; सर्वलोकाश्रयाः सिद्धास्तिर्यचोप्यर्थतोंगिनः । संतौपपादिकेभ्यस्ते मनुष्येभ्योपि चापरे ॥ १ ॥ इति संक्षेपतस्तिर्यग्योनिजानां विनिश्चयः । कृतोत्र सूत्रकारेण लक्षणावास भेदतः ॥ २ ॥ अधोलोकं मध्यलोकमूर्ध्वलोकं चाभिधाय यदत्र प्रकरणाभावेपि तिर्यग्योनिजानां निरूपणं सूत्रका - रेण कृतं तत्तेषां सर्वलोकाश्रयत्वप्रतिपत्त्यर्थं संक्षेपार्थं च । तिर्यक्प्रकरणेस्य सूत्रस्याभिधाने सर्वतिर्यग्भेदवचने सति सूत्रस्य गौरवप्रसंगात् सर्वलोकाश्रयत्वं पुनरेषां परिशेषात् योज्यते । तिर्यग्योनयो द्विविधाः सूक्ष्मा बादराश्च, सूक्ष्मबादरनामकर्मद्वैविध्यात् । तत्र सूक्ष्माः सर्वलोकवासिनः, बादरास्तु नियतावासा इति नियतावासभेदनिरूपणं तिर्यग्योनिशब्दनिरुक्तया लक्षणनिरूपणं तिरश्ची न्यग्भूतोपजाता योनिर्येषां ते तिर्यग्योनय इति । मनुष्यादीनां केषांचित् परोपबाह्यत्वात् तिर्यग्योनित्वप्रसंगादिति चेन्न, तिर्यग्ग्रामकर्मोदये सतीति वचनात् ॥ संप्रति भवनवासिनां तावदुत्कृष्टस्थितिप्रतिपादनार्थमाह; - ―――――――― स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्धनमिता ॥ २८ ॥ असुरादीनां सागरोपमादिभिरभिसंबंधो यथाक्रमं ॥ सौधर्मेशानयोः सागरोपमेधिके ।। २९ ।। द्विवचननिर्देशाद्वित्वगतिः, अधिके इत्यधिकार आसहस्रारात् ॥ Page #397 -------------------------------------------------------------------------- ________________ ३८८ तत्त्वार्थश्लोकवार्तिके [सू० ३५ सानत्कुमारमाहेंद्रयोः सप्त ॥ ३०॥ अधिकारात् सागरोपमाधिकानि चेति संप्रत्ययः ॥ त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधिकानि तु ॥ ३१ ॥ सप्तेत्यनुवर्तते, तेन सानत्कुमारमाहेंद्रयोरुपरि द्वयोः कल्पयोः सप्तसागरोपमाणि त्रिभिरधिकानि इति . दश साधिकानि स्थितिः, तयोरुपरि द्वयोः कल्पयोः सप्त सप्ताधिकानीति चतुर्दशाधिकानीति, तयोरुपरि द्वयोः सप्त नवभिरधिकानीति षोडशाधिकानि, तयोरुपरि द्वयोः सप्तैकादशभिरधिकानीत्यष्टदशाधिकानि, तयोरुपरि द्वयोरानतप्राणतयोः सप्तत्रयोदशभिरधिकानीति विंशतिरेव, तयोरुपरि द्वयोरारणाच्युतयोः सप्तपंचदशभिरधिकानीति द्वाविंशतिरेव । तुशब्दस्य विशेषणार्थत्वात् । आसहस्रादधिकारात् परत्राधिकानीत्यभिसंबंधाभावः ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ।। ३२॥ अधिकारादधिकसंबंधः । ग्रैवेयकेभ्यो विजयादीनां पृथग्रहणमनुदिशसंग्रहार्थं । प्रत्येकमेकैकवृद्ध्यभिसंबंधार्थ नवग्रहणं । सर्वार्थसिद्धस्य पृथग्ग्रहणं विकल्पनिवृत्त्यर्थ ॥ का पुनरियं भवनवास्यादीनां स्थितिरुक्तेत्याह;स्थितिरित्यादिसूत्रेण योक्ता भवनवासिनां । विशेषेण स्थितिर्या च तदनंतरकीर्तिता ॥ १॥ सूत्रैश्चतुर्भिरभ्यासायथागमविशेषतः । परा वैमानिकानां च सोत्तरत्रावरोक्तितः ॥३॥ अवरायाः स्थितेरुत्तरत्र वचनादिह भवनवासिनामेकेन सूत्रेण वैमानिकानां च चतुर्भिः सूत्रैविशेषेण या स्थितिः परोक्ता सा परोत्कृष्टेति गम्यते ॥ का पुनरवरेत्याह; __ अपरा पल्योपममधिकम् ॥ ३३ ॥ परिशेषात्सौधर्मेशानयोर्देवानामवरा स्थितिरियं विज्ञायते, ततोन्येषामुत्तरत्र जघन्यस्थितेर्वक्ष्यमाणत्वात् ॥ पल्योपममतिरिक्तमवरास्थितिमब्रवीत् । सौधर्मेशानयोः सेह सूत्रेर्थात्संप्रतीयते ॥ १॥ तत एवानंतरसूत्रेण सानत्कुमारादिषु जघन्या स्थितिरुच्यते; परतः परतः पूर्वा पूर्वानंतरा ॥ ३४ ॥ अपरेत्यनुवर्तते, तेन परतः परतो या च परा स्थितिः सा पूर्वा पूर्वानंतरा परस्मिन्नवरा स्थितिरिति संप्रत्ययः । अधिकग्रहणानुवृत्तेः सातिरेकसंप्रत्ययः । आ विजयादिभ्योधिकारः । अनंतरेति वचनं व्यवहितनिवृत्त्यर्थ । सर्वेत्येतावत्युच्यमाने व्यवहितग्रहणप्रसंगस्तत्रापि पूर्वशब्दप्रवृत्तेः ॥ नारकाणां च द्वितीयादिषु ॥ ३५॥ किमर्थ नारकाणां जघन्या स्थितिरिह निवेदितेत्याह;सानत्कुमारमाहेंद्रप्रभृतीनामनंतरे । यथा तथा द्वितीयादिपृथिवीषु निवेदिता ॥१॥ नारकाणां च संक्षेपादत्रैव तदनंतरे देवस्थितिप्रकरणेपि नारकस्थितिवचनं संक्षेपार्थे । Page #398 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः। ३८९ दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ पृथिव्यां नरकाणामवरस्थितिरिति घटनीयं ॥ भवनेषु च ॥ ३७॥ दशवर्षसहस्राणि देवानामवरा स्थितिरिति संप्रत्ययः ॥ व्यंतराणां च ॥ ३८॥ अपरा स्थितिर्दशवर्षसहस्राणीति चशब्देन समुचीयते ॥ दशवर्षसहस्राणि प्रथमायामुदीरिता । भवनेषु च सा प्रोक्ता व्यंतराणां च तावती ॥१॥ अथ व्यंतराणां परा का स्थितिरित्याह;-- परापल्योपममधिकम् ॥ ३९ ॥ स्थितिरिति संबंधः ॥ ज्योतिष्काणां च ॥४०॥ पल्योपममधिकं परा स्थितिघटना । तदष्टभागोऽपरा ॥ ४१ ॥ स्थितियॊतिप्काणामिति संप्रत्ययस्तेषामनंतरत्वात् ॥ परेषामधिकं ज्ञेयं पल्योपममवस्थितिः । ज्योतिष्काणां च तद्वत्तदष्टभागोऽपरोदिता ॥१॥ यथा व्यंतराणां पल्योपममधिकं परा स्थितिः तद्वत् ज्योतिष्काणामपि तद् ज्ञेयं तदष्टभागः । पुनरवरा स्थितियॊतिष्काणां प्रतीता । अथ मध्यमा स्थितिः कुतोवगम्यत इत्याह; सामर्थ्यान्मध्यमा बोध्या सर्वेषां स्थितिरायुषः । प्राणिनां सा च संभाव्या कर्मवैचित्र्यसिद्धितः॥२ ननु यद्ववटादीनां विचित्रा स्थितिरिष्यते । कर्मानपेक्षिणां तद्वदेहिनामिति ये विदुः॥३॥ तेऽनभिज्ञा घटादीनामपि तद्भोक्तृकर्मभिः । स्थितेर्निष्पादनादृष्टकारणव्यभिचारतः ॥४॥ सूक्ष्मो भूतविशेषश्चेद्यभिचारेण वर्जितः । तद्धेतुर्विविधं कर्म तन्न सिद्धं तथाख्यया ॥५॥ परापरस्थितिवचनसामर्थ्यात् मध्यमानेकविधा स्थितिर्देवनारकाणां तिर्यङ्मनुष्याणामिव संभाव्या। सा च कर्मवैचित्र्यसिद्धिं प्राप्य व्यवतिष्ठते ततः कर्मवैचित्र्यमनुमीयते । स्थितिवैचित्र्यसिद्धेरन्यथानुपपत्तेः । कर्मवैचित्र्याभावेपि घटादीनां स्थितिवैचित्र्यदर्शनादसिद्धान्यथानुपपत्तिरिति येऽभ्यमन्यंत तेऽनभिज्ञा एव, घटादीनामपि विचित्रायाः स्थितेस्तदुपभोक्तप्राणिकर्मभिर्विचित्रैर्निवर्तनात् , कुंभकारादिदृष्टतत्कारणानां व्यभिचारात् । अदृष्टकारणानपेक्षित्वे तदघटनात् । समानकुंभकारादिकारणानां समानकालजन्मनां सदृशक्षेत्राणां समानकारणानां च घटादीनां समानकालस्थितिप्रसंगात् । मुद्गरादिविनाशकरणसंपातवैचित्र्याद् दृष्टादेव घटस्थितिवैचित्र्यमिति चेत् , तदेव कुतः? समानकारणादित्वेपि तेषामिति चिंत्यं । स्वकारणविशेषाद् दृष्टादेवेति चेन्न, मुद्रादिविनाशकारणसंपातहेतोः पुरुषप्रयत्नादेः परिदृष्टस्य व्यभिचारात् । समानेपि तस्मिन् क्वचित्तत्संपातादर्शनात् । समानेपि च तत्संपाते तद्विनाशाप्रतीतेः कारणांतरस्य सिद्धेः । सूक्ष्मो भूतविशेषः सर्वथा व्यभिचारवर्जितो विविधः कारणांतरमिति चेत् , तदेव कर्मास्माकं सिद्धं तस्य सूक्ष्मभूतविशेषसंज्ञामात्रं तु भिद्यते परिदृष्टस्य सूक्ष्मभूतविशेषस्य Page #399 -------------------------------------------------------------------------- ________________ ३९० तत्त्वार्थश्लोकवार्तिके [सू० ४१ व्यभिचारवर्जितत्वासंभवात् । अथ किमेते संसारिणो जीवाः कर्मवैचित्र्यात् स्थितिवैचित्र्यमनुभवंतो नानात्मानः प्रत्येकायतैकात्मानः इति ? यदि नानात्मानस्तदा नु संबंधानाद्यभावः स्यादेकसंतानेपि नानासंतानवत् । अथैकात्मानस्तदानुभवस्मरणादिसंक्रमानुपपत्तिः पौर्वापर्यायोगादिति वदंतं प्रत्याहततः संसारिणो जीवाः स्वतत्त्वादिभिरीरिताः । नानैकात्मतया संतो नान्यथार्थक्रियाक्षतेः ६ यस्माद्वितीयाध्याये स्वतत्त्वलक्षणादिभिः स्वभावैः संसारिणो जीवाः प्रत्येकं निश्चितास्तृतीयचतुर्थाध्याययोश्चाधारादिविशेषैर्नानाविधैरध्यवसितास्ततो नानैकात्मतया व्यवस्थिताः । न पुनर्नानात्मान एवैकात्मान एव वा सर्वार्थक्रियाविरहात्तेषामसत्त्वप्रसंगात् । संश्च सर्वसंसारी जीव इति निश्चितप्रायं, अभावविलक्षणत्वं हि सत्त्वं तच्च नास्तीत्येकखभावाद्धि भावाद्वैलक्षण्यं ॥ नानाखभावत्वं जीवस्य कुत इत्याह; जन्मास्तित्वं निवृत्तिं च क्रमाद्धिमपक्षयं । विनाशं च प्रपद्यते विकारं षड्विधं हि ते ॥७॥ सर्वो हि भावो जन्म प्रतिपद्यते निमित्तद्वयवशादात्मलाभमापद्यमानस्य जायत इत्यस्य विषयत्वात् । यथा सुवर्ण कटकादित्वेन अस्तित्वं च प्रतिपद्यते खनिमित्तवशादवस्थामाविभ्रतोर्थस्यास्तीति प्रत्ययाभिधानगोचरत्वात् । निवृत्तिं च प्रपद्यते तत एवावस्थांतरावाप्तिदर्शनात् परिणमते इत्यस्य विषयत्वात् । वृद्धिं च प्रतिपद्यते अनिवृत्तपूर्वखभावस्य भावांतरेणाधिक्यं लभमानस्य वर्द्धते इत्यस्य विषयत्वात् । अपक्षयं च प्रपद्यते क्रमेण पूर्वभावैकदेशविनिवृत्तिं प्रामुवतो वस्तुनोपक्षीयत इत्यस्य विषयत्वात् । विनाशं च प्रतिपद्यते, तत्पर्यायसामान्यनिवृत्तिं समासादयतोर्थस्य नश्यतीत्यस्य गोचरत्वात् । तथा जीवा अपि भावाः संतः षडिधं विकारं प्रपद्यते अभावविलक्षणत्वादित्येके, तेषां यद्यवस्तुविलक्षणत्वं सत्त्वं धर्मस्तदा न सम्यगिदं साधनं । प्रतिक्षणपरिणामेनैकेन अभावविलक्षणत्वं वस्तुत्वं तदा युक्तं । ततो जीवस्य षडिकारप्राप्तिस्वाधनं वस्तुत्वस्य तदविनाभावसिद्धेः । अथासत्त्वधर्मविलक्षणत्वं सत्त्वं धर्मस्तदा न सम्यगिदं साधनं प्रतिक्षणपरिणामैकेन ऋजुसूत्रविषयेण व्यवहारनयगोचरेण द्रव्येण च व्यभिचारात् तस्य षडिधविकाराभावेपि सत्त्वधर्माश्रयत्वेनाभावविलक्षणत्वसिद्धेरन्यथा सिद्धांतविरोधात् ॥ ननु च वस्तुत्वमप्यभावविलक्षणत्वं न जीवानां षड्डिधविकारप्राप्तिं साधयति तस्यास्तित्वमात्रेण व्याप्तत्वादिति मन्यमानं प्रत्याह;-- बिभ्रतेस्तित्वमेवैते शश्वदेकात्मकत्वतः । नान्यं विकारमित्येके तन्न जन्मादिदृष्टितः ॥ ८॥ एतेष्वस्तित्वादिषु मध्ये अस्तित्वमेवात्मानो बिभ्रति नान्यं पंचविधं जन्मादिविकारं तेषां नित्यैकरूपत्वात् स्वरूपेण शश्वदस्तित्वोपपत्तेरित्येके । तन्न सम्यक्, तेषां जन्मादिदर्शनात् । मनुष्यादीनां हि देहिनां बाल्यादिभावेन जन्मादयः प्रतीयंते मुक्तात्मनामपि मुक्तत्वादिना ते संभाव्यंत इति प्रतीतिविरुद्धं जीवानां जन्मादिविकारविकलत्ववचनम् ॥ जन्मादयः प्रधानस विकाराः परिणामिनः । तत्संसर्गात्प्रतीयंते भ्रांते पुंसीति चेन्न वै ॥९॥ तेषां भावविकारत्वादात्मन्यप्यविरोधतः । जन्मादिरहितस्यास्याप्रतीते भ्रांत्यसिद्धितः॥१०॥ विकारी पुरुषः सत्त्वाद्बहुधानकवत्तव । सर्वथार्थक्रियाहानेरन्यथा सत्त्वहानितः ॥ ११ ॥ यथा हि प्रधानं भावस्तथात्मापि सन्नभ्युपगंतव्यः । सत्त्वं चार्थक्रियया व्याप्तं तदभावे खपुष्पवत्सत्त्वानुपपत्तेः । सा चार्थक्रिया क्रमयोगपद्याभ्यां व्याप्ता, तद्विरहेर्थक्रियाविरहात्तद्वत् । ते च क्रमयोगपद्ये विकारत्वेन व्याप्ते जन्मादिविकाराभावे क्रमानुपलब्धेरात्मनोऽसत्त्वप्रसक्तेरित्युक्तप्रायं ॥ Page #400 -------------------------------------------------------------------------- ________________ ३९१ चतुर्थोऽध्यायः। जायंते ते विनश्यति संति च क्षणमात्रकं । पुमांसो न विवर्तते वृद्ध्यपक्षयगाश्च न ॥ १२ ॥ इति केचित्प्रध्वस्तास्तेप्येतेनैवाविगानतः । विवाद्यात्मतापाये सत्त्वस्यानुपपत्तितः॥१३॥ यथैव हि जन्मविनाशास्तित्वापेक्षणमपि न परमार्थसत्त्वं तथा विवर्तनपरिवर्धनपरिक्षयणात्मकत्वापायेपि तथा प्रतीयते, अन्यथा कूटस्थात्मनीव खे पुष्पवद्वा चेतनस्य सत्त्वानुपपत्तेः । खभावांतरेणोपपत्तिरेव परिणामो वृद्धिश्चाधिक्येनोत्पत्तिरपक्षयस्तु विनाश एवेति न षडिकारो जीव इति चेन्न, अन्वितखभावापरित्यागेन सजातीयेतरखभावांतरमात्रप्राप्तेः परिणामत्वादाधिक्येनोत्पत्तेश्च वृद्धित्वाद्देशतो विनाशस्यापक्षयत्वात्परिणामादीनां विनाशोत्पादास्तित्वेभ्यः कथंचिढ़ेदवचनात् । जीवस्यान्वितस्वभावासिद्धेयथोक्तपरिणामादनुपपत्तिरिति चेन्न, तस्य पुरस्तादन्वितस्य भावस्य प्रमाणतः साधनात् । ततो न जीवस्यैकानेकात्मकत्वे साध्ये सत्त्वादित्ययं हेतुरसिद्धोऽनैकांतिको विरुद्धो वा, जन्माद्यनेकविकारात्मकत्वापायेन्वितैकत्वभावाभावे च सर्वथा सत्त्वानुपपत्तेः । एतेनानेकवाग्विज्ञानविषयत्वमात्मनो निवेदितं । तथानेकशक्तिप्रचितत्वं वस्त्वंतरसंबंधाविर्भूतानेकसंबंधिरूपत्वं अन्यापेक्षानेकरूपोत्कर्षापकर्षपरिणतगुणसंबंधित्वं अतीतानागतवर्तमानकालसंबंधित्वं उत्पादव्ययध्रौव्ययुक्तत्वं अन्वयव्यतिरेकात्मकत्वं च समर्थितं । तस्य जन्मादिविकारषट्रप्रपंचात्मकत्वात्सत्त्वव्यापकत्वोपपत्तेः । सत्त्वान्यथानुपपत्त्या प्रसिद्धं च तत्सर्वमेकात्मकत्वमनेकात्मकत्वं च जीवस्य साधयति तदन्यतरापाये अनेकवाग्विज्ञानविषयत्वाद्यनुपपत्तेः । तदनुपपत्तौ सत्त्वानुपपत्तेश्च जीवतत्त्वाव्यवस्थितिप्रसंगात् । तत्र जन्मादिविकारप्रपंचस्याविद्योपकल्पितत्वे क्रमाक्रमयोरप्यविद्योपकल्पितत्वप्रसक्तिः । ततश्चार्थक्रियाप्यविद्याविनँभितैवेति न सत्त्वं परमार्थतः प्रसिद्ध्येत् । तत एव संचिन्मानं तत्त्वमित्ययुक्तं, तस्य ब्रह्माद्यद्वैतवदप्रतीतेरिति प्रपंचेन समर्थितत्वात् । नानैकात्मतया प्रतीतेरंतर्बहिश्च सुनिश्चितासंभवबाधकत्वसिद्धेश्च सिद्धो नानैकात्मको जीवः ।। ततः स्वतत्त्वादिविशेषचिंतनं घटेत जीवस्य नयप्रमाणतः । क्रमाद्यनेकांततया व्यवस्थितेरिहोदितन्यायवलेन तत्त्वतः ॥ १४ ॥ इति चतुर्थाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥ Page #401 -------------------------------------------------------------------------- ________________ अथ पञ्चमोऽध्यायः ॥ ५॥ अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ किमर्थास्य सूत्रस्य प्रवृत्तिरत्रेत्याह;अथाजीवविभागादिविवादविनिवृत्तये । अजीवेत्यादिसूत्रस्य प्रवृत्तिरुपपद्यते ॥१॥ सम्यग्दर्शनविषयभावेन जीवोद्दिष्टे दृष्टेष्टजीवतत्त्वव्याख्यानमर्हत्येव, तत्र च लक्षणविभागविशेषलक्षणविप्रतिपत्तौ तद्विनिवृत्त्यर्थास्य सूत्रस्य प्रवृत्तिर्घटत एवान्यथा निःशंकमजीवतत्त्वाव्यवस्थानात् ॥ अजीवनादजीवाः स्युरिति सामान्यलक्षणं । कायाः प्रदेशवाहल्यादिति कालाद्विशिष्टता ॥२ धर्मादिशब्दतो बोध्यो विभागो भेदलक्षणः । तेन नैकं प्रधानादिरूपता नाप्यनंशता ॥३॥ निःशेषाणामजीवानामिति सिद्धं प्रतीतितः । विपक्षे बाधसद्भावाद् दृष्टेनेटेन च स्वयम् ॥४॥ जीवस्योपयोगो लक्षणं जीवनमिति प्रतिपादितं ततोन्यदजीवनं गतिस्थित्यवगाहहेतुत्वरूपादिस्वरूपमन्वयिसाधारणमजीवानां लक्षणं । त्रिकालविषयाजीवनानुभवनादजीव इति निरुक्तरव्यभिचारान्न पुनर्जीवनाभावमात्रं तस्य प्रमाणागोचरत्वात् पदार्थलक्षणत्वायोगात् भावांतरखभावस्यैवाभावस्य व्यवस्थापनात् । काया इव कायाः प्रदेशबाहुल्यात् कालाणुवदणुमात्रत्वाभावात् । ततो विशिष्टाः पंचैवास्तिकाया इति वचनात् । अजीवाश्च ते कायाश्चेति समानाधिकरणावृत्तिः सामर्थ्यादवसीयते, भिन्नाधिकरणायां वृत्तौ कथंचिद्भेदविवक्षायामपि कायानामेव संप्रत्ययप्रसंगात् । जीवानां विशेषणभावात् सामानाधिकरण्यायामपि वृत्तौ दोषोयमिति चेन्न, अभेदप्रतीतेः । अजीवा एव काया इति धर्मादीनामजी. धत्वकायत्वाभ्यां तादात्म्यप्राधान्ये तयोः सामानाधिकरण्योपपत्तेः । काया इत्येवास्तु इति चेन्न, जीवस्यापि कायत्वात् तद्यवच्छेदार्थत्वादजीवग्रहणस्य । धर्मादीनामजीवत्वविधानार्थत्वाच्च सूत्रस्य युक्तमजीवग्रहणं । तद्दजीवा इत्येवास्तु इति चेन्न, कालाणुव प्रदेशमात्रत्वनिराकरणार्थत्वात् कायग्रहणस्य । अन्यथा तेऽस्तिकाया इति सूत्रांतरारंभप्रसंगात् । जीवानां कायत्वविधानार्थमारंभणीयमेव सूत्रांतरमिति चेत् ; नारंभणीयं, असंख्येयाः प्रदेशा धर्माधर्भेकजीवानामित्यत एव जीवानां प्रदेशबाहुल्यसिद्धेः कायत्वविधानात् । तर्हि धर्माधर्मयोस्तत एव, आकाशस्यानंता इति वचनादाकाशस्य, संख्येयासंख्येयानंताश्च पुद्गलानामिति वचनात् पुद्गलस्य कायत्वविधानसिद्धेरपार्थकं कायग्रहणमिति चेन्न, ततो धर्मादिप्रदेशानामियत्ताविधानात् । तर्हि जीवस्यापि ततोऽसंख्येयप्रदेशत्वविधानान्न कायत्वविधिरिति चेन्न, ततो जीवस्य कायत्वानुमानात् । न चात्र धर्मादीनां कायत्वविधाने तत्र जीवस्य कायत्वमनुमातुं शक्यमिति युक्तमिह कायग्रहणं । अस्तिकायो जीवः प्रदेशेयत्ताश्रयत्वाद्धर्मादिवदित्यनुमानप्रवृत्तेः, अन्यथा दृष्टांतासिद्धेः । किमर्थं धर्मादिशब्दानां वचनं? विभागविशेषलक्षणप्रसिद्ध्यर्थे । अस्तु नाम धर्माधर्माकाशपुद्गला इति शब्दोपादानात् विभागस्य प्रसिद्धिः, विशेषलक्षणस्य तु कथं ? तन्निर्वचनस्य लक्षणाव्यभिचारात् तद्विशेषलक्षणसिद्धिः । सकृत्सकलगतिपरिणामिनां सांनिध्यधानाद्धर्मः, सकृत्सकलस्थितिपरिणामिनामसांनिध्यधानाद्गतिपर्यायादधर्मः, आकाशंतेऽस्मिन् द्रव्याणि खयं वाकाशते इत्याकाशं, त्रिकाल Page #402 -------------------------------------------------------------------------- ________________ • पञ्चमोऽध्यायः । ३९३ पूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षमुपयातीत्यव्यभिचारं सिद्धं । कालस्याजीवत्वेनोपसंख्या - नमिह कर्तव्यमिति चेन्न, तस्याग्रे वक्ष्यमाणत्वात् । ततो धर्माधर्माकाशपुद्गलाः कालश्चेति पंचैवाजीवपदार्थाः प्रतिपादिता भवंति । तेन प्रधानमेवाजीवपदार्थो धर्मादीनामशेषाणामजीवानां प्रधानरूपत्वादिति नः सिद्धं तेषां पृथगुपलब्धेः । प्रधानाद्वैते दृष्टेन स्वयमिष्टेन च बाधसद्भावात् । न हि प्रधानमेकमुपलभामहे अंतर्बहिश्च भेदानामुपलब्धेः । न चैषा भ्रांता भेदोपलब्धिर्बाधकाभावात् । प्रधानाद्वैतग्राहकमनुमानं बाधकमिति चेन्न तस्य तदभेदे तद्वदसिद्धत्वतत्साधकत्वाभावाद्भेदोपलब्धिबाधकत्वायोगात् । ततो भेदे द्वैतसिद्धिप्रसंगात् । पराभ्युपगमादनुमानं तत्साधकं भेदोपलब्धेश्च बाधकमिति चेन्न, पराभ्युपगमस्याप्रमाणत्वात् । तत्प्रमाणत्वे भेदसिद्धेरवश्यंभावात् । ततः प्रधानाद्वैते निर्वाधं दृष्टविरोधः । तथेष्टेन च महदादिविकारप्रतिपादकागमेन तद्वाधोस्ति, तस्याविद्योपकल्पितत्वे प्रधानाद्वैतसिद्धिरपि ततो न स्यात् । न च प्रत्यक्षानुमानागमागोचरस्यापि प्रधानस्य स्वतः प्रकाशमचेतनत्वादिति न तद्रूपता धर्मा - दीनां । एतेन शब्दाद्वैतरूपता प्रतिषिद्धा, पुरुषाद्वैतरूपतायां तु तेषामजीवत्वविरोधः । न च पुरुष एवेदं सर्वमिति शक्यव्यवस्थं, पुरस्तादजीवसिद्धिविधानात् । पृथिव्यप्तेजोवायुमनोदिक्कालाकाशभेदरूपताप्यजीव पदार्थस्यायुक्तैव, पृथिव्यप्तेजोवायुमनसां पुद्गलद्रव्यपर्यायत्वाज्जात्यंतरत्वासिद्धेः । पृथिव्यादयः पुद्गलपर्याया एव भेदसंघाताभ्यामुत्पद्यमानत्वात् । ये तु न पुद्गलपर्यायास्ते न तथा दृष्टाः यथाकाशादयः भेदसंघाताभ्यामुत्पद्यमानाश्च पृथिव्यादय इति न ततो जात्यंतरं । विभागसंयोगाभ्यामुत्पद्यमानेन शब्देन व्यभिचार इति चेन्न, तस्यापि पुद्गलपर्यायत्वात् । तदपर्यायत्वे तस्य बहिः करणवेद्यत्वविरोधात् । न च भेदो विभागमात्रं, स्कंध विदारणस्य भेदशब्देनाभिधानात् । नापि संघातः संयोगमात्रं, मृत्पिंडादीनां स्कंधपरिणामस्य संघातशब्दवाच्यत्वात् । न च ताभ्यामुत्पद्यमानत्वमपुद्गलपर्यायस्य ज्ञानादेरस्ति येनानैकांतिको हेतुः स्यात् । भेदात् पृथिव्यादीनामुत्पत्त्यसंभवादसिद्धो हेतुरिति चेन्न, घटादिभेदात्कपालाद्युत्पत्तिदर्शनात् द्यणुभेदादपि परमाणूत्पत्तिसिद्धेः । यथैव हि तंत्वादिसंघातान्वयव्यतिरेकानुविधानात् पटादीनां तत्संघातादुत्पत्तिरुररीक्रियते तथा पटादिभेदान्वयव्यतिरेकानुविधानात्तत्वादीनामात्मलाभात्तद्भेदादुत्पत्तिः सुशकाभ्युपगंतुं । पटादिभेदाभावेपि तत्वादिदर्शनान्न ततस्तदुपपत्तिरिति चेन्न, तस्यापि तत्वादेः कर्पासप्रवेणीभेदादेवोत्पत्तिसिद्धेः । यथाविधानां च तत्वादीनां पटादिभेदादुत्पत्तिरुपलब्धा तथाविधानां न तदभावे प्रतीयते इति नोपालंभः सममिष्यते च भेदात्परमाण्वादीनामुत्पत्तिः संघा - ताति नासिद्ध हेतु:, यतः पुद्गलपर्यायाः पृथिव्यादयो न सिद्ध्येयुः । दिशोपि नात्रोपसंख्यानं कार्यमाकाशेऽन्तर्भावात् ततो द्रव्यांतरत्वाप्रसिद्धेः । स्यान्मतं पूर्वापरादिप्रत्ययविशेषः पदार्थविशेषहेतुको विशिष्टप्रत्ययत्वात् दंडादिप्रत्ययवत्, योसौ विशिष्टः पदार्थस्तद्धेतुः सा दिग्द्रव्यं परिशेषादन्यस्य प्रसक्तस्य प्रतिषेधात् ततो द्रव्यांतरमाकाशादिति । तदसत् तद्धेतुत्वे नाशस्य प्रतिषेद्धुमशक्तेस्तप्रदेशश्रेणिष्वेवादित्योदयादिवशात् प्राच्यादिदिग्व्यवहारप्रसिद्धेः । प्राच्यादिदिक्संबंधाच्च मूर्तद्रव्येषु पूर्वापरादिप्रत्ययविशेषोत्पत्तेर्न परस्परापेक्षया मूर्तद्रव्याण्येव तद्धेतवः । एकतरस्य पूर्वत्वासिद्धावन्यतरस्यापरत्वासिद्धेस्तदसिद्धैौ चैकतरस्य पूर्वत्वायोगादितरेतराश्रयत्वात् उभयासत्त्वप्रसंगात् । नन्वेवमाकाशप्रदेशश्रेणिष्वपि कुतः पूर्वापरादिप्रत्ययः सिद्ध्येत् ? स्वरूपत एव तत्सिद्धौ तस्य परावृत्त्यभावप्रसंगात् । परस्परापेक्षया तत्सिद्धावितरेतराश्रयणादुभया सत्त्वप्रसक्तेरिति चेत्, दिक्प्रदेशेष्वपि पूर्वापरादिप्रत्ययो - त्पत्तौ समः पर्यनुयोगः । द्रव्यांतर परिकल्पनायामनवस्थाप्रसंगश्च । यथैव हि मूर्तद्रव्यमवधिं कृत्वा मूर्तेप्वेवेदमस्मात्पश्चिमेनेत्यादिप्रत्यया दिग्द्रव्यहेतुकास्ततो दिग्भेदमवधिं कृत्वा दिग्भेदष्वेवेयमतः पूर्वा पश्चि ५० Page #403 -------------------------------------------------------------------------- ________________ ३९४ तत्त्वार्थश्लोकवार्तिके [सू०२ मेयमित्यादिप्रत्यया द्रव्यांतरहेतुकाः संतु विशिष्टप्रत्ययत्वाविशेषात् तद्भेदेष्वपि पूर्वापरादिप्रत्ययाः परद्रव्यहेतुका इत्यनवस्था । दिक्षु भेदेषु द्रव्यांतरमंतरेण पूर्वापरादिप्रत्ययस्योत्पत्तौ तेनैव हेतोरनेकांतिकत्वास्कुतो दिसिद्धिः? विषुवति दिने यत्र सवितोदेति स पूर्वो दिग्भागो, यत्रास्तमेति सोऽपर इति दिग्भेदेषु पूर्वापरादिप्रत्ययसिद्धौ गगनप्रदेशपंक्तिष्वपि तथैव तत्सिद्धिरस्तु किमत्र दिग्द्रव्यांतरकल्पनया तद्देशद्रव्यकल्पनाप्रसंगात् । अयमतः पूर्वो देश इत्यादिप्रत्ययस्य देशद्रव्यमंतरेणानुपपत्तेः । पृथिव्यादिरेव देशं द्रव्यमित्ययुक्तं, तत्र पृथिव्यादिप्रत्ययोत्पत्तेः । पूर्वादिदिकृतः पृथिव्यादिषु पूर्वदेशादिप्रत्यय इति चेत्, पूर्वाद्याकाशकृतस्तत्रैव पूर्वादिदिक्प्रत्ययोस्त्विति व्यर्था दिक्कल्पना । नन्वेवमादित्योदयादिवशादेवाकाशप्रदेशश्रेणिष्विव पृथिव्यादिष्वेव पूर्वापरादिप्रत्ययसिद्धेराकाशश्रेणिकल्पनाप्यनर्थिका भवत्विति चेत् न, पूर्वस्यां दिशि पृथिव्यादय इत्याद्याधाराधेयव्यवहारदर्शनात् । पृथिव्यायधिकरणभूताया गगनप्रदेशपंक्तेः परिकल्पनस्य सार्थकत्वात् गगनस्य प्रमाणांतरत्वतः साधयिष्यमाणत्वाच्च । ततो न धर्मादीनामजीवादीनां दिग्द्रव्यरूपतोपसंख्यातव्या । पृथिव्यादिरूपतावत्स्कंधस्वरूप एवाजीवपदार्थ इत्यप्ययुक्तं, धर्माधर्मादीनामपि ततो भिन्नखभावानामजीवद्रव्याणामग्रे समर्थयिष्यमाणत्वात् । पुद्गलद्रव्यव्यतिरेकेण रूपस्कंधस्यासंभवाच्च सूक्तं धर्मादय एवाजीवपदार्था इति ॥ द्रव्याणि ॥ २॥ खपरप्रत्ययोत्पादविगमपर्यायैर्दूयंते द्रवंति वा तानीति द्रव्याणि, कर्मकर्तृसाधनत्वोपपत्तेः द्रव्यशब्दस्य स्याद्वादिनां विरोधानवतारात् । सर्वथैकांतवादिनां तु तदनुपपत्तिर्विरोधात् । द्रव्यपर्यायाणां हि भेदैकांतेन द्रव्याणां पर्यायैवणं तथा खयमसिद्धत्वात् । सिद्धरूपैरेव हि देवदत्तादिभिः प्रसिद्धसत्ताका ग्रामाद्रयो द्रूयमाणा दृष्टाः न पुनरसिद्धसत्ताकैरसिद्धसत्ताका वंध्यापुत्रादिभिः कूर्मरोमादय इति । न च द्रव्येभ्यः पर्यायाः पृथक् सिद्धसत्त्वाः पर्यायत्वविरोधात् द्रव्यांतरवत् , द्रव्यपरतंत्राणामेव खभावानां पर्यायत्वोपपत्तेः । पृथग्भूता अपि द्रव्यतो द्रव्यपरतंत्राः पर्यायास्तत्समवायादिति चेन्न, कथंचित्तादात्म्यव्यतिरेकेण समवायस्य निरस्तपूर्वत्वात् । पर्यायेभ्यो भिन्नानां द्रव्याणां च सत्त्वसिद्धौ पर्यायपरिकल्पनावैयर्थ्यात् । कार्यनानात्वपरिकल्पनायां त्वभिन्नपर्यायसंबंधनानात्वसिद्धितस्तन्निबंधनपर्यायांतरपरिकल्पनाप्रसंगात् । सुदूरमपि गत्वा पर्यायांतरतादात्म्योपगमे प्रथमत एव पर्यायतादात्म्योपगमे च न पर्यायैद्रव्याणि यंते कथंचिद्भिन्नानामेव प्राप्यप्रापकभावोपपत्तेः । स्याद्वादिनां तु भेदनयार्पणात् पर्यायाणां द्रव्येभ्यः कथंचि दे सति यथोदितपर्यायैर्दूयंते प्राप्यते इति द्रव्याणि 'कर्मणि यस्त्ये युज्यते' द्रवंति प्राप्नुवंति पर्यायानिति द्रव्याणीति च कर्तरि बहुलवचनादुपपद्यते द्रव्या इव भवंतीति द्रव्याणीति चेवार्थे द्रव्यशब्दस्य निपातनात् । द्रव्यत्वयोगाद्रव्याणीत्यपरे, तेषां द्रव्यत्ववंतीति स्याइंडीत्यभिधानवत् । अथाभेदोपचारः क्रियते यष्टियोगात् पुरुषो यष्टिरिति यथा तदपि द्रव्यत्वानीति स्यान्न तु द्रव्याणि, द्रव्यत्वाभावलक्षणाभावात् । तच्च द्रव्यत्वं द्रवणं द्रव्यमिति द्रव्यशब्दाभिधेयमपि सामान्यं । यदि सर्वगतामूर्तानां स्वखभावं द्रव्येभ्यः सर्वथा भिन्नं तदा न प्रमाणसिद्धं, द्रव्येषु सदृशपरिणामस्यैव द्रव्यत्वाख्यस्यानुवृत्त्यप्रत्ययहेतुत्वोपपत्तेरित्यन्यत्र निरूपणात् । अथ तदेव सादृश्यं सामान्यं तदाभिमतमेव पर्याय यंत इति द्रव्याणीति वचनात् सादृश्यव्यंजनपर्यायत्वात् धर्मादयोनुवर्तते इति सामानाधिकरण्यात् द्रव्याणीति वचनात् । पुल्लिंगत्वप्रसंग इति चेन्न, आविष्टलिंगत्वाद्रव्यशब्दस्य वनादिशब्दवत् ॥ किं पुनरत्रानेन सूत्रेण कृतमित्याह; Page #404 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । ३९५ तगुणादिस्वभावत्वं द्रव्याणीतीह सूत्रतः । द्रव्यलक्षणसद्भावात्प्रत्याख्यातमवेयते ॥ १ ॥ धर्माधर्मयोरात्मगुणत्वादाकाशस्य च मूर्तद्रव्याभावस्वभावत्वान्न द्रव्यत्वमित्येके मन्यंते, तान् प्रति धर्मादीनां गुणाभावस्वभावत्वमनेनात्र प्रत्याख्यातं निश्चीयते । न हि पुण्यपापे धर्माधर्मौ ब्रूमो नाप्याकाशं मूर्तद्रव्याभावमात्रं द्रव्यलक्षणयोगात् तेषां द्रव्यव्यपदेशसिद्धेः । कथमित्याह; धर्माधर्मौ मतौ द्रव्ये गुणित्वात्पुद्गलादिवत् । तथाकाशमतो नैषां गुणाभावस्वभावता ॥ २ ॥ न तोराश्रयासिद्धिस्तेषामग्रे प्रसाधनात् । नापि स्वरूपतोसिद्धिर्महच्चादिगुणस्थितेः ॥ ३ ॥ द्रव्यत्वे साध्ये धर्मादीनां धर्मिणामप्रसिद्धत्वाद्गुणित्वादित्यस्य हेतोराश्रयासिद्धत्वात्तत एव गुणित्वस्या - संभवात् खरूपासिद्धत्वं चेत्येके । तन्न सम्यक् तेषामग्रे प्रमाणतः साधनात् तत्र महत्त्वादिगुणस्थितत्वाच्च । ततः सूक्तं धर्मादयो द्रव्याणीति ॥ जीवाश्च ॥ ३ ॥ द्रव्याणीत्यभिसंबंधः । तत्र बहुत्ववचनं जीवानां वैविध्यख्यापनार्थं । द्रव्याणि जीवा इत्येकयोगकरणं युक्तमिति चेन्न, जीवानामेव द्रव्यत्वप्रसंगात् । धर्मादीनामप्यधिकारात् द्रव्यत्वसंप्रत्यय इति चेन्न, द्रव्यशब्दस्य जीवशब्दावबद्धत्वाद्धर्मादिभिः संबंधयितुमशक्तेः । सत्यप्यधिकारे अभिप्रेतसंबंधस्य यत्नमंतरेणाप्रसिद्धेः । चशब्दकरणात्तत्सिद्धिरिति चेत्, को विशेषः स्यादेकयोगकरणे ? योगविभागे तु स्पष्टा प्रतिपत्तिरिति स एवास्तु ॥ किं पुनरनेन वा व्यवच्छिद्यते इत्याह; — कल्पिताश्चित्तसंताना जीवा इति निरस्यते । जीवाचेतीह सूत्रेण द्रव्याणीत्यनुवृत्तिः ॥ १ ॥ परामृष्टभेदा निरन्वयविनश्वरचित्तलक्षणा एव पूर्वपूर्वापरीभूताः संताना जीवाख्यां प्रतिपद्यंत इति युक्तं, यतस्तेषां संवृत्त्या द्रव्यव्यवहारानुरोधतः प्रमाणतः प्रसिद्धान्वयत्वात् । प्रमाणं पुनस्तदन्वयप्रसाधकमेकत्वप्रत्यभिज्ञानं पुरस्तात्समर्थितमिति परमार्थसदेव द्रव्यत्वमनेन जीवानां सूत्रितं । ततः कल्पिताश्चित्तसंताना एव जीवा इत्येतन्निराकृतं वेदितव्यं । पृथिव्यादीन्येव द्रव्याणि न जीवास्तेषां तत्समुदायोत्थजीवत्कायात्मकत्वात्, चैतन्यविशिष्टः कायः पुरुष इति वचनात् द्रव्यांतरत्वानुपपत्तेरित्यपरः, सोपि तेनैव पराकृत इत्यावेदयति ; क्ष्मादिभूतचतुष्काच्च द्रव्यांतरतया गतिः । ननु देहगुणत्वादिरिति देहात् परे नराः ॥ २ ॥ पृथिव्यादिभ्यो द्रव्यांतरं जीव इति प्रागुक्तात्साधनाद्भिन्नलक्षणत्वादेर्विनिश्चयः । तथा देहस्य गुणः कार्य वा चेतनेत्यपि न, विग्रहगुणो बोधः तत्रानध्यवसीयते इत्यादेर्वा निरस्तत्वान्न देहगुणत्वादिर्जीवानामतो भेदात् द्रव्यांतरान्नैव जीवाः । एवं च पंचास्तिकायद्रव्याणि धर्माधर्माकाशपुद्गलजीवाख्यानि प्रसिद्धानि भवति ॥ तानि पुनः - नित्यावस्थितान्यरूपाणि ॥ ४ ॥ तद्भावाव्ययानि नित्यानि, नित्यशब्दस्य धौव्यवचनत्वात् सर्वदेयत्ता निवृत्तेरवस्थितानि, न विद्यते रूपमेतेष्वित्यरूपाणि ॥ कुतस्तान्यवमित्याह ; द्रव्यार्थिकनयात्तानि नित्यान्येवान्वितत्वतः । अवस्थितानि सांकर्यस्यान्योन्यं शश्वदस्थितेः ॥ १ ततो द्रव्यांतरस्यापि द्रव्यषद्वादभावतः । तत्पर्यायानवस्थानान्नित्यत्वे पुनरर्थतः ॥ २ ॥ धर्मादीनि व्याख्यातानि पंच वक्ष्यमाणेन कालेन सह षडेव द्रव्याणि । तानि द्रव्यार्थिकनयादेशादेव Page #405 -------------------------------------------------------------------------- ________________ ३९६ तत्त्वार्थश्लोकवार्तिके [सू० ६ नित्यानि, निर्बाधान्वितविज्ञानविषयत्वान्यथानुपपत्तेः । तत एवावस्थितानि तेषामन्योन्यसांकर्यस्याव्यवस्थानात् सर्वदा सप्तमद्रव्यस्याभावाच्चेति सूत्रकारवचनात् पर्यायार्थादेशादनित्यानि तान्यनवस्थितानि चेति सामर्थ्यादवगम्यते । एतेन क्षणिकान्येव खलक्षणानि द्रव्याणीति दर्शनं प्रत्याख्यातं, प्रमाणतः प्रकृतद्रव्याणां नित्यत्वसिद्धेरन्यत्र प्रतीत्यभावात् । तथैकमेव द्रव्यं सन्मात्रं प्रधानाद्यद्वैतमेव वा नाना द्रव्याणां तत्रानुप्रवेशात् । परमार्थतोनवस्थितानि तानीत्यपि मतमपास्तं, प्रतिनियतलक्षणभेदात्सर्वदा तेषामवस्थितत्वसिद्धेः ॥ अथारूपाणीति किं सामान्यतो विशेषतो वाभिधीयत इत्याशंकमानं प्रत्याह; — अरूपाणीति सामान्यादाह न त्वपवादतः । रूपित्ववचनादग्रे पुद्गलानां विशेषतः ॥ ३ ॥ न विद्यते रूपं मूर्तिर्येषां तान्यरूपाणीत्युत्सर्गतः षडपि द्रव्याणि विशेष्यंते न पुनर्विशेषतस्तथोत्तरत्र पुद्गलानां रूपित्वविधानात् । कश्चिदाह - धर्माधर्मकालाणवो जीवाश्च नामूर्तयो असर्वगतद्रव्यत्वात् पुद्गलवत् । स्याद्वादिभिस्तेषामसर्वगतद्रव्यत्वाभ्युपगमान्नात्रासिद्धो हेतु:, नाप्यनैकांतिकः साध्यविपक्षे गगने सुखादौ वा पर्याये तदसंभवादिति । सोत्र प्रष्टव्यः । का पुनरियं मूर्तिरिति ? असर्वगतद्रव्यपरिणामो मूर्तिरिति चेत्, तर्हि सर्वगतद्रव्यपरिणामवतो धर्मादय इति साध्यमायातं तथा वा सिद्धसाधनं । अथ स्पर्शादिसंस्थानपरिणामो मूर्तिस्तद्भावान्नामूर्तयो धर्मादय इति साध्यं तदानुमानबाधितः पक्षः कालात्ययापदिष्टश्च हेतुः । तथाहि - धर्मादयो न मूर्तिमंतः पुद्गलादन्यत्वे सति द्रव्यत्वादाकाशवदित्यनुमानं विवादाध्यासितद्रव्याणाममूर्तित्वं साधयत्येव । सुखादिपर्यायेष्वभावाद्भागासिद्धत्वं हेतोरिति चेन्न, तेषामपि पक्षीकृतत्वात् । कुतस्तेषाममूर्तित्वसिद्धिः ? साधनांतरादित्यभिधीयते । सुखादयोप्यमूर्तद्रव्य पर्याया न मूर्तिमंतः अमूर्तिद्रव्यपर्यायत्वादाकाशपर्यायवत् । मूर्तिमद्दव्यपर्यायाणां रूपादीनां कथममूर्तित्वसिद्धिरिति चेन्न, कथमपि तेषां स्वयं मूर्तिमत्त्वात् । मूर्त्यतराभावात् तेषाममूर्तित्वं गुणत्वादेव सिद्ध्यति गुणानां निर्गुणत्वसाधनात् । एतेन सामान्यविशेषसमवायानां सदृशेतरपरिणामाविष्वग्भावलक्षणान, मूर्तिमद्रव्याश्रयाणां कर्मणां च मूर्तित्वममूर्तित्वं चिंतितं बोद्धव्यं । तेषाममूर्तित्वमेवेत्यपि व्याख्यातां तेन यदुक्तं गुणकर्मसामान्यविशेषसमवाया अमूर्तय एवेति तदयुक्तं, प्रतीतिविरोधात् ॥ अथोत्सर्गतः पुद्गलानामप्यरूपित्वप्रसक्तौ तदपवादार्थमिदमाह ;रूपिणः पुद्गलाः ॥ ५॥ रूपशब्दस्यानेकार्थत्वेपि मूर्तिमत्पर्यायग्रहणं, शास्त्रसामर्थ्यात् । ततो रूपं मूर्तिरिति गृह्यते रूपादिसंस्थान परिणामो मूर्तिरितिवचनात् । गुणविशेषवचनं ग्रहणं वास्मदादीनां तदविनाभावात्तदंतर्भूत - त्वादग्रहणाभावात् । रूपमेतेष्वस्तीति रूपिण इति नित्ययोगे कथंचिद्व्यतिरेकिणां रूपतद्वतामिति । पुद्गला इति बहुवचनं भेदप्रतिपादनार्थं । तदेवं — अरूपित्वापवादो ऽयं रूपिणः पुद्गला इति । रूपं मूर्तिरिह ज्ञेया न स्वभावेखिलार्थभाक् || १|| रूपादिपरिणामस्य मूर्तित्वेनाभिधानतः । स्पर्शादिमत्त्वमेतेषामुपलक्ष्येत तत्त्वतः ॥ २ ॥ अथ षण्णामपि द्रव्याणां नानाद्रव्यत्वमाहोखिदेकैकद्रव्यत्वमुत केषांचिन्नानाद्रव्यत्वमित्याशंकायामिदमाह ; - आ आकाशादेकद्रव्याणि ॥ ६ ॥ अभिविधावाप्रयोगः । एकशब्दः संख्यावचनस्तत्संबंधाद्रव्यस्यैकवचनप्रसंग इति चेन्न, धर्मापेक्षा बहुत्वसिद्धेः । एकं च द्रव्यं च तदेकद्रव्यं एकद्रव्यं चैकद्रव्यं च एकद्रव्याणीति धर्माद्यपेक्षया बहुत्वं न C Page #406 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । विरुध्यते । एकैकमस्तु लघुत्वात् प्रसिद्धत्वाद्द्रव्यगतेरिति चेन्न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वादेकद्रव्याणीतिवचनस्य पर्यायार्थादेशाद्बहुत्वप्रतिपत्तेः ॥ एकसंख्याविशिष्टानीत्येकद्रव्याणि सूचयन् । अनेकद्रव्यतां हंति धर्मादीनामसंशयम् ॥ १॥ आ आकाशादितिख्यातिः पुद्गलानां नृणामपि । कालाणूनामनेकत्वविशिष्टद्रव्यतां विदुः ॥२ आ आकाशादेकत्वसंख्याविशिष्टान्येकद्रव्याणीति सूत्रयन्न केवलं द्रव्यापेक्षयानेकद्रव्यतामेषामपास्यति । किं तर्हि ? जीवपुद्गल कालद्रव्याणामेकत्वं च ततोनेकत्वविशिष्टद्रव्यतामेषां वार्तिककारादयो विदुः । कथमिति चेत्, उच्यते ३९७ एकद्रव्यमयं धर्मः स्यादधर्मश्च तत्त्वतः । महत्त्वे सत्यमूर्तत्वात्खवत्तत्सिद्धिवादिनाम् ॥ ३ ॥ महत्त्वादित्युच्यमाने पुद्गलस्कंधैर्व्यभिचारो मा भूदित्यमूर्तत्ववचनं, अमूर्तत्वादित्युक्ते कालाणुभिर्वादिनः सुखादिभिः प्रतिवादिनोऽनेकांतो मा भूदिति महत्त्व विशेषणं । न चामूर्तत्वमसिद्धं धर्माधर्मयोः पुद्गलादन्यत्वे सति द्रव्यत्वादाकाशवदिति तत्साधनात् । नापि महत्त्वं त्रिजगद्व्यापित्वेन साधयिष्यमाणत्वात् । ततो निरवद्यो हेतुः । खमुदाहरणमपि न साध्यसाधनधर्मविकलं तत्सिद्धिवादिनां तदेकद्रव्यत्वस्य साध्यधर्मस्य साधनधर्मस्य च महत्त्वामूर्तत्वस्य तत्त्वस्य तत्र प्रसिद्धत्वात् । गगनासत्त्ववादिनां प्रति तस्य तथात्वेनाग्रे साधनाद्धर्माधर्मद्रव्यवत् । तत एव नाश्रयासिद्धो हेतुस्तदाश्रयस्य धर्मस्याधर्मस्य च प्रमाणत्वे सिद्धत्वात् ॥ नानाद्रव्यमसौ नानाप्रदेशत्वाद्धरादिवत् । इत्ययुक्तमनेकांतादाकाशेनैकता हृता ॥ ४ ॥ तस्य नान प्रदेशत्वसाधनादग्रतो नयात् । निरंशस्य स तत्सर्वमूर्तद्रव्यैर संगतः ॥ ५ ॥ ततो न पक्षस्यास्यानुमाने बाधा तस्याप्रयोजकत्वात् । नापि हेतोः कालात्ययापदिष्टतेति धर्माधर्मयोरेकद्रव्यत्वसिद्धिः ॥ यथा च तानि धर्माधर्माकाशान्येकद्रव्याणि तथा— निष्क्रियाणि च ॥ ७ ॥ उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशांतरप्राप्तिहेतुः क्रिया, न पुनः पदार्थोंतरं तथा प्रतीयमानत्वात् गुणसामान्यविशेषसमवायवत् । ननु क्रिया द्रव्यात्पदार्थांतरं तद्भिन्नलक्षणत्वाद्गुणादिवदिति । पदार्थांतरत्वेनाप्रतीयमानत्वमसिद्धमिति चेत्, कथंचिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिभिरनेकांतात् । कालादिद्रव्यव्यक्तीनां न द्रव्याद्भिन्नलक्षणत्वं क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य तत्र भावादि चेन्न, कालादिषु क्रियावत्त्ववर्जितस्य द्रव्यलक्षणस्योपगमात् । पृथिव्यादिषु तदवर्जितस्य तस्य व्याख्या - नात् कथंचितेषां द्रव्यलक्षणभेदसिद्धेः । पदार्थांतरत्वे तु द्रव्यव्यक्तीनां गुणादिव्यक्तीनामपि पदार्थीतरस्वप्रसक्तेः कुतः षट्पदार्थनियमः ? द्रव्यत्वप्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्य व्यक्तीनामभिन्नं नास्य कर्मणि मनागप्यभावात् । सर्वथा तद्भिन्नलक्षणत्वं हेतुरिति चेत्, प्रतिवाद्यसिद्धः सद्रव्यलक्षणमिति कर्मण्यपि द्रव्यप्रत्ययमात्रस्य द्रव्यलक्षणस्य भावादन्यथा तदसत्त्वप्रसंगात् । न हि सत्तामहासामान्यमेव द्रव्यमिति स्याद्वादिनां दर्शनं तस्याः शुद्धद्रव्यत्वोपगमात् । गुणपर्ययवद्द्रव्यमित्यशुद्धद्रव्यलक्षणस्य कर्मण्यभावेपि कथंचिदेकद्रव्याभिन्नलक्षणत्वं तस्य सिध्येन सर्वथा । तच्च कथंचित्पदार्थांतरत्वं साधयेदिति विरुद्धसाधनाद्विरुद्धं परैः सर्वथा पदार्थांतरत्वस्य तत्र साध्यत्वात् । कर्म सर्वथा न द्रव्यपदार्थांतरं कथंचित्तद्भिन्नलक्षणत्वाद्गुणादिवदिति परमतसिद्धेः । न चात्र कर्माप्रतिपन्नं येनाश्रयासिद्धिः साधनस्य । नापि सर्वथा पदार्थांतरत्वेन द्रव्यात्प्रतिपन्नं कुतश्चित्प्रमाणात् स्याद्वादिभिः, येन धर्मिग्राहक प्रमाणबाधा - Page #407 -------------------------------------------------------------------------- ________________ ३९८ तत्त्वार्थश्लोकवार्तिके [ सू० ७ तस्य कथंचित्पदार्थांतरत्वेनैव प्रतिपन्नत्वात् । न चैवं सिद्धांतविरोधः, कर्मणः पर्यायत्वेन द्रव्यात्कथंचित्पदार्थांतरत्वव्यवस्थितेरुत्पादविनाशत्वलक्षणस्य धौव्याद्द्रव्यलक्षणाद्भेदसिद्धेः कर्मगुणसामान्यविशेषसमवायानां पर्यायलक्षणसद्भावात् पर्यायपदार्थत्ववचनादन्यथातिप्रसक्तेः । प्राग्भावादीनां विशेषणविशेष्यभावादीनां च पदार्थांतरत्वप्रसंगात् । पदार्थशेषत्वकल्पनायामेकेनैव पदार्थेन पर्याप्तत्वादन्येषां पदार्थशेषावस्थिते सूत्रेवधारणादित्युक्तप्रायं । सामान्यसमवायौ कथं पर्यायौ ? नित्यत्वादिति चेन्न, तयोरपि गुणकर्मविशेषवदनित्यत्वोपगमात् । सदृशपरिणामो हि सामान्यं स्याद्वादिनां अविष्वग्भावश्च द्रव्यपर्याययोः समवायः, स चोत्पादविनाशवानेव सदृशव्यत्तत्युत्पादे सादृश्योत्पादप्रतीतेस्तद्विनाशे च तद्विनाशमात्रभावात् । सादृश्यस्य व्यक्त्यंतरेषु दर्शनान्नित्यत्वमिति चेन्न च, सादृश्यस्य विशेषस्य गुणस्य कर्मणश्चैवं नित्यत्वप्रसंगात् । नष्टोत्पन्नव्यक्तिभ्यो व्यत्यंतरेषु न तदेव वैसादृश्यादि दृश्यते । ततोन्यस्यैव दर्शनादिति चेत्, सादृश्यादि परमेव किन्न भवेत् तथाप्रतीतेरविशेषात् । ततो द्रव्यपर्याय एव । क्रियागुणादीनां क्रियात्वप्रसंग इति चेन्न, ततो विशेषलक्षणसद्भावात् । द्रव्यस्य हि देशांतरप्राप्तिहेतुः पर्यायः क्रिया न सर्वः । सर्वत्र सर्वदा कस्मान्न स्यादिति चेन्न, उभयनिमित्तापेक्षत्वात् क्रियायास्तद्भाव एव भावात् पर्यायांतरवत् । निष्क्रांतानि क्रियायाः निष्क्रियाणि धर्माधर्माकाशानि । कुत इत्याह निष्क्रियाणि च तानीति परिस्पंदविमुक्तितः । सूत्रितं त्रिजगद्व्यापिरूपाणां स्पंदहानितः ॥ १ ॥ धर्माधर्मौ परिस्पंद लक्षणया क्रियया निष्क्रियौ सकलजगद्व्यापित्वादाकाशवत् । परिणामलक्षणया तु क्रिया सक्रिया वेव, अन्यथा वस्तुत्वविरोधात् । खरूपासिद्धो हेतुरिति चेन्न, धर्माधर्मयोः सकललोकव्यापित्वस्याग्रे समर्थनात् ॥ सामर्थ्यात्सक्रिय जीवपुद्गलाविति निश्चयः । जीवस्य निष्क्रियत्वे हि न क्रियाहेतुता तनौ ॥ २ प्रकृतेषु पंचसु द्रव्येष्वाकाशांतानां त्रयाणां निष्क्रियत्ववचने सामर्थ्याज्जीवपुद्गल सक्रिय सूत्रितौ वेदितव्यौ । ननु पुद्गलाः क्रियावत्तयोपलभ्यमानाः क्रियावंत इति युक्तं, जीवस्तु न सक्रियस्तस्य तथानुपलभ्यमानत्वादिति न चोद्यं तस्य निष्क्रियत्वे शरीरे क्रिया हेतुत्वविरोधात् । ततः क्रियावानात्मान्यत्र द्रव्ये क्रियाहेतुत्वात् पुद्गलद्रव्यवदित्यनुमानाज्जीवस्य क्रियावत्तोपलंभान्न तस्य सक्रियत्वमयुक्तं । कालेन व्यभिचारान्न हेतुर्गमको वेति चेन्न, कालस्य क्रियाहेतुत्वाभावात् । क्रियानिर्वर्तकत्वं क्रियाहेतुत्वमिह साधनं न पुनः क्रियानिमित्तमात्रत्वं तस्य कालादौ सद्भावाभावान्न व्यभिचारः । कालो हि क्रियापरिणामिनां स्वयं निमित्तमात्रं स्थविरगतौ यष्टिवत्, न पुनः क्रियानिर्वर्तकः पर्णादौ पवनवत् ॥ प्रयत्नादिगुणस्तद्वान्न हेतुरितिचेन्न वै । गुणोस्ति तद्वतो भिन्नः सर्वथेति निवेदितम् ॥ ३ ॥ नात्मा शरीरादौ क्रिया हेतुर्निर्गुणस्यापि मुक्तस्य तद्धेतुत्वप्रसंगात् । ततोऽसिद्धो हेतुः । प्रयत्नो धर्मोऽधर्मश्वात्मनो गुणो हि तन्वामन्यत्र वा द्रव्ये क्रिया हेतुरिति परेषामाशयो न युक्तः, प्रयत्नस्य गुणत्वासिद्धेः । वीर्यांतरायक्षयोपशमादिकारणापादितो ह्यात्मप्रदेशपरिस्पंदः प्रयत्नो नः क्रियैवेति स्याद्वादिभिनिवेदनात् । तथा धर्माधर्मयोरपि पुद्गलपरिणामत्वसमर्थनान्नात्मगुणत्वं । सन्नप्यसौ प्रयत्नादिरात्मगुणः सर्वथात्मनो भिन्नो न प्रमाणसिद्धोस्तीतिनिवेदनात् कथंचित्तदभिन्नस्तु स तत्र क्रिया हेतुरित्यात्मैव तद्धेतुरुक्तः स्यात् । तथा च कथमसिद्धो हेतुः ? | क्रियाहेतुगुणत्वाद्वा लोष्ठवत्सक्रियः पुमान् । धर्मद्रव्येण चेदस्य व्यभिचारः परश्रुतौ ॥ ४ ॥ न तस्य प्रेरणाहेतुगुणयोगित्वहानितः । निमित्तमात्र हेतुत्वात्स्वयं गतिविवर्तिनाम् ॥ ५ ॥ C Page #408 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । ३९९ · " क्रियाहेतुगुणत्वस्य हेतोः क्रियावत्त्वे साध्ये गगनेनानेकांत इत्ययुक्तं, तस्य क्रियाहेतुगुणायोगात् । वायुसंयोगः क्रियाहेतुरिति चेन्न, तस्य क्रियावति तृणादौ क्रियाहेतुत्वेन दर्शनात् । निष्क्रिये व्योमाद तथात्वेनाप्रतीतेः । न च य एवं तृणादौ वायुसंयोगः स एवाकाशेस्ति, प्रतियोगिसंयोगस्य भेदात् । वायुसंयोगसामान्यं तु न क्वचिदपि क्रियाकारणं, मंदतमवेगवायुसंयोगे सत्यपि पादपादौ क्रियानुप• लब्धेः । स्यान्मतं, क्रियावानात्मा सर्वगतत्वादाकाशवदित्यनुमानबाधितः क्रियावान् पुरुष इति पक्षः कालात्ययापदिष्टश्च हेतुरिति । तदसत् पुरुषस्य सर्वगतत्वासिद्धेः । सर्वगतः पुरुषो द्रव्यत्वे सत्यमूर्तत्वाद्गगनवदिति चेन्न, परेषां कालद्रव्येण व्यभिचारात् साधनस्य । कालस्य पक्षीकरणाददोष इति चेन्न, पक्षस्यानुमानागमबाधानुषंगात् । तथाहि - कालोऽसर्वगतो नानाद्रव्यत्वात् पुद्गलवदित्यनुमानं पक्षस्य बाधकं । न चात्रासिद्धो हेतुः तस्य नानाद्रव्यत्वेन स्याद्वादिनां सिद्धत्वात् । नानाद्रव्यं कालः प्रत्याकाशप्रदेशं युगपद्व्यवहार कालभेदान्यथानुपपत्तेः । प्रत्याकाशप्रदेशभिन्नो व्यवहारकालः सकृत्कुरुक्षेत्राकाशलंकाकाशदेशयोदिवसादिभेदान्यथानुपपत्तेः । तत्र दिवसादिभेदतः पुनः क्रियाविशेषभेदात् नैमित्तिकानां लौकिकानां च सुप्रसिद्ध एव । स च व्यवहारकालभेदो गौणः परैरभ्युपगम्यमानो मुख्यकालद्रव्यमंतरेण नोपपद्यते । यथा मुख्यसत्त्वमंतरेण क्वचिदुपचरितं सत्त्वमिति प्रतिलोकाकाशप्रदेशं कालद्रव्यभेदसिद्धिस्तत्साधनस्यानवद्यत्वात् अन्यथानुपपन्नत्वसिद्धेः ॥ कालस्या सर्वगतत्वेऽनिष्टानुषंगपरिजिही या प्राहः कालोऽसर्वगतत्वेन क्रियावन्नानुषज्यते । सर्वदा जगदेकैकदेशस्थत्वात् पृथक पृथक् ॥ ६ ॥ क्रियावान् कालोऽसर्वगतद्रव्यत्वात् पुद्गलवदित्यनिष्टानुषंजनमयुक्तं, सर्वदा लोकाकाशैकैकप्रदेशस्थ - त्वेन पृथक् पृथक् कालाणूनां प्रसाधनात् । ते हि प्रत्याकाशप्रदेशं प्रतिनियतस्वभावस्थितयोभ्युपगंतव्याः परीक्षकैरन्यथा व्यवहार कालभेदप्रतिनियतखभावस्थित्यनुपपत्तेः कदाचित्तत्परावृत्तिप्रसंगात् । अणुपरिमाणानि च तानि कालद्रव्याणि स्कंधाकारत्वेन कार्यानुमितिप्रतीयमानस्य कार्यस्य प्रत्याकाशप्रदेशं सकृद्व्यवहारकालभेदलक्षणस्याणुनापि कालद्रव्येण कर्तुं शक्यत्वात् । एतेन सर्वगतः काल इति पक्षस्यागमबाधोपदर्शिता । कथं ? " लोयायासपए से एक्केके जे ठिया हु एक्केका । रयणाणं रासी इव ते काला मुणेया ||" इत्यागमस्याबाधितस्य सिद्धेः । अत एव द्रव्यत्वे सत्यमूर्तत्वादिति हेतुः कालात्ययापदिष्टः । कालोऽसर्वगत एव व्यवतिष्ठते । तथा चात्मनः परममहत्त्वे साध्येस्यैव हेतोः कालेन व्यभिचारः सिद्ध्यतीति नातस्तत्सिद्धिर्येन क्रियावानात्मा क्रियाहेतुगुणत्वाल्लोष्ठवदित्यनुमानमनवद्यं न भवेत् । पक्षस्यानुमानबाधनानवताराद्धेतोश्च कालात्ययापदिष्टत्वाभावादिति सूक्तमाकाशांतानां निष्क्रियत्वं तद्वचनेन सामर्थ्याज्जीवपुद्गलानां सक्रियत्वप्रतिपादनं च कालस्य वक्ष्यमाणस्य निष्क्रियत्वात् ॥ नन्वेवं न क्रियत्वेपि धर्मादीनां व्यवस्थितेः । न स्युः स्वयमभिप्रेता जन्मस्थानव्ययक्रियाः ॥७ तथोत्पादव्ययधौव्ययुक्तं सदिति लक्षणं । तत्र न स्यात्ततो नैषां द्रव्यत्वं वस्तुतापि च ॥ ८ ॥ इत्यपास्तं परिस्पंदक्रियायाः प्रतिषेधनात् । उत्पादादिक्रियासिद्धेरन्यथा सत्त्वहानितः ॥ ९ ॥ परिस्पंदक्रियामूला नचोत्पादादयः क्रियाः । सर्वत्र गुणभेदानामुत्पादादिविरोधतः ॥ १० ॥ स्वपरप्रत्ययौ जन्मन्ययौ यदि गुणादिषु । स्थितिश्च किं न धर्मादिद्रव्येष्वेवमुपेयते ॥ ११ ॥ गतिस्थित्यवगाहानां परत्र न निबंधनं । धर्मादीनि क्रियाशून्य स्वभावत्वात्खपुष्पवत् ॥ १२ ॥ क्रियावत्त्वप्रसंगो वा तेषां वायुधरांबुवत् । इत्यचोद्यं बलाधानमात्रत्वाद्गमनादिषु ॥ १३ ॥ धर्मादीनां स्वशक्त्यैव गत्यादिपरिणामिनां । यथेंद्रियं बलाधानमात्रं विषयसंनिधौ ॥ १४ ॥ Page #409 -------------------------------------------------------------------------- ________________ ४०० तत्त्वार्थश्लोकवार्तिके [सू० ७ पुंसः स्वयं समर्थस्य तत्र सिद्धेर्न चान्यथा। तत्रैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयं ॥१५॥ धमोदीनां परत्रास्तु क्रियाकारणमाप्तता । नचैवमात्मनः कायक्रियाहेतुत्वमापतेत ॥ १६ ॥ सर्वथा निष्क्रियस्यापि स्वयं मानविरोधतः । आत्मा हि प्रेरको हेतुरिष्टः कायादिकर्मणि॥१७॥ तृणादिकर्मणीवास्तु पवनादिश्च सक्रियः । वीर्यातरायविज्ञानावरणच्छेदभेदतः ॥ १८ ॥ सक्रियस्यैव जीवस्य ततोंगे कर्महेतुता । हस्ते कर्मात्मसंयोगप्रपन्नाभ्यामुपेयते ॥ १९ ॥ यैस्तेपि च प्रतिक्षिप्तास्तयोस्तच्छक्त्ययोगतः। निष्क्रियो हि यथात्मैषां क्रियावद्वसदृश्यतः॥२० कालादिवत्तथैवात्मसंयोगः सप्रयत्नकः । गुणः स्यात्तस्य तद्वच्च निष्क्रियत्वादिदेशतः ॥ २१ ॥ गुणाः कर्माणि चैतेन व्याख्यातानीति सूचनात् । न तावदात्मसंयोगः केवलः कर्मकारणं॥२२ निःप्रयत्नस्य हस्तादौ क्रियाहेतुत्वहानितः । नैकस्य तत्प्रयत्नस्य क्रियाहेतुत्वमीक्ष्यते ॥ २३ ॥ शरीरायोगिनोन्यस्य ततः कर्मप्रसंगतः । सहितावात्मसंयोगप्रपन्नौ कुरुतः क्रियाः ॥२४॥ हस्तादावित्यसंभाव्यमनयोः सहदृष्टिवत् । अदृष्टापेक्षिणौ तौ चेदकुर्वाणौ क्रियां नरि ॥ २५॥ हस्तादौ कुरुतः कर्म नैवं कचिददृष्टतः । उष्णापेक्षो यथा वन्हिसंयोगः कलशादिषु ॥ २६ ॥ रूपादीन् पाकजान वर्तते वह्नौ स्वाश्रये तथा । नृसंयोगादिरन्यत्र क्रियामारभते न तु ॥२७॥ खाधारे नरि तस्येत्थं सामर्थ्यादितिचेन वै । वैषम्यादसदिष्टस्य सिद्धेः साध्यसमत्वतः ॥२८ प्रतीतिबाधनाच्चैतद्विपरीतप्रसिद्धितः । साध्ये क्रियानिमित्तत्वे दृष्टांतो ह्यक्रियाश्रयः ॥ २९ ॥ स्यादेष विषमस्तावदग्निसंयोग उष्णभृत् । यथा च स्वाश्रये कुर्वन् विकारं कलशादिषु ॥३०॥ करोति वन्हिसंयोगः पुंसो योगस्तथा तनौ । इत्यस्मदिष्टसंसिद्धिः क्रियापरिणतस्य नुः ॥३१ काये क्रियानिमित्तत्वसिद्धेः संयोगिनि स्फुटं । संयोगार्थातरं वन्हेंः कुटादेश्च तदाश्रितः ॥ ३२ समवायात्ततो भिन्नप्रतीत्या बाध्यते न किं । घटादिष्वामरूपादीन् विनाशयति स स्वयं ॥३३ पाकजान् जनयत्येतत्प्रतिपद्येत कः सुधीः । न चैषा पाकजोत्पत्तिप्रक्रिया व्यवतिष्ठते ॥३४॥ वन्हेः पाकजरूपादिपरिणामाः कुटादिषु । खहेतुभेदतः सर्वः परिणामः प्रतीयते ॥ ३५ ॥ पूर्वाकारपरित्यागादुत्तराकारलब्धितः । कुटे पाकजरूपादिपरित्यागेन जायते ॥ ३६॥ वन्हेः पाकजरूपादिस्तथा दृष्टेरबाधनात् । नौष्ण्यापेक्षस्ततो वन्हिसंयोगोत्र निदर्शनं ॥ ३७॥ नुः क्रियाहेतुतासिद्धौ विपरीतप्रसिद्धितः । अनुष्णाशीतरूपश्चाप्रेरकोनुपघातकः ॥ ३८ ॥ कुटेः प्राप्तः कथं रूपाद्युच्छेदोत्पादकारणं । गुरुत्वं निष्क्रिय लोष्ठे वर्तमानं तृणादिषु ॥ ३९ ॥ क्रियाहेतुर्यथा तद्वत्प्रयत्नादिस्तथेक्षणात् । ये त्वाहुस्तेपि विध्वस्ताः प्रत्येतव्या दिशानया ॥४० स्वाश्रये विक्रियाहेतौ ततोन्यत्र हि विक्रिया । द्रव्यस्यैव क्रियाहेतुपरिणामात्पुनः पुनः॥४१ क्रियाकारित्वमन्यत्र प्रतीत्या नैव बाध्यते । पुरुषस्तद्गुणो वापि न क्रियाकारणं तनौ ॥४२॥ निष्क्रियत्वाद्यथा व्योमेत्युक्तिर्यात्मनि बाधकं । नानैकांतिकता धर्मद्रव्येणास्य कथंचन ॥४३ तस्याः प्रेरकतासिद्धेः क्रियाया विग्रहादिषु । एवं सक्रियतासिद्धावात्मनो निर्वतावपि ॥४४॥ सक्रियत्वं प्रसक्तं चेदिष्टमूर्ध्वगतित्वतः । यादृशी सशरीरस्य क्रिया मुक्तस्य तादृशी॥ ४५ ॥ न युक्ता तस्य मुक्तत्वविरोधात् कर्मसंगतः। क्रियानेकप्रकारा हि पुद्गलानामिवात्मनां ॥४६॥ स्वपरप्रत्ययायत्तभेदा न व्यतिकीर्यते । सान्यैव तद्वतो येषां तेषां तद्वयशून्यता ॥४७॥ क्रियाक्रियावतोभैदेनाप्रतीतेः कदाचन । क्रियाक्रियाश्रयौ भिन्नौ विभिन्नप्रत्ययत्वतः ॥ ४८ सह्यविंध्यवदित्येतद्विभेदैकांतसाधनं । धर्मिग्राहिप्रमाणेन हेतोधिननिर्णयात् ॥ ४९ ॥ Page #410 -------------------------------------------------------------------------- ________________ • पञ्चमोऽध्यायः । ४०१ कथंचिद्भिन्नयोस्तेन तयोर्ग्रहणतः स्फुटं । विभिन्नप्रत्ययत्वं च सर्वथा यदि गद्यते ॥ ५० ॥ तत एव तदा तस्य सिद्धत्वं प्रतिवादिनः । कथंचित्तु न तत्सिद्धं वादिनामित्यसाधनं ॥ ५१ ॥ विरुद्धं वा भवेदिष्टविपरीतप्रसाधनात् । साध्यसाधनवैकल्यं दृष्टांतस्थापि दृश्यताम् ॥ ५२ ॥ सत्त्वेनाभिन्नयोरेव प्रतीतेः सह्यविध्ययोः । विरुद्धधर्मताध्यासादित्यादेरप्यहेतुता ॥ ५३ ॥ प्रोक्तेन प्रपत्तव्या सर्वथाप्यविशेषतः । क्रियाक्रियावतोनन्यानन्यदेशत्वतः क्रिया ॥ ५४ ॥ तत्स्वरूपवदित्येके तदप्यज्ञानचेष्टितं । लौकिकानन्यदेशत्वं हेतुभिचारता ॥ ५५ ॥ वातातपादिभिस्तस्यानन्य देशैर्विभेदिभिः । शास्त्रीयानन्यदेशत्वं मन्यते साधनं यदि ॥ ५६ ॥ न सिद्धमन्यदेशत्वप्रतीते रूपयोस्तयोः । तद्वद्देशा क्रिया तद्वत्स्वकीयाश्रयदेशकः ॥ ५७ ॥ प्रतीयते यदानन्यदेशत्वं कथमेतयोः । सर्वथानन्यदेशत्वमसिद्धं प्रतिवादिनः ॥ ५८ ॥ कथंचिद्वादिनस्तत्स्याद्विरुद्धं चेष्टहानिकृत् । धर्मिग्राहिप्रमाणेन बाधा पक्षस्य पूर्ववत् ॥ ५९ ॥ साधनस्य च विज्ञेया तैरेवातीतकालता । निष्क्रियाः सर्वथा सर्वे भावाः स्युः क्षणिकत्वतः ६० पर्यायार्थतया लब्धि प्रतिक्षणविवर्तवत् । इत्याहुर्ये न ते स्वस्थाः साधनस्याप्रसिद्धितः ॥ ६१ ॥ न हि प्रत्यक्षतः सिद्धं क्षणिकत्वं निरन्वयं । साधर्म्यस्य ततः सिद्धेर्बहिरंतश्च वस्तुनः ॥ ६२ ॥ इदानींतनता दृष्टिर्न क्षणक्षयिणः कचित् । कालांतरस्थितेरेव तथात्वप्रतिपत्तितः ॥ ६३ ॥ नानुमानाच्च तत्सिद्धं तद्धेतोरन भीक्षणात् । सच्चादि सत्त्वहेतुश्चेन्न तत्रागमकत्वतः ॥ ६४ ॥ विरुद्धादितया तस्य पुरस्तादुपवर्णनात् । प्रपंचेन पुनर्नेह तद्विचारः प्रतन्यते ॥ ६५ ॥ कथंचिनिष्क्रियत्वेन साध्ये स्यात्सिद्धसाधनं । तनिश्चयनयादेशात्प्रसिद्धं सर्ववस्तुषु ॥ ६६ ॥ व्यवहारनयात्तेषां सक्रियत्वप्रसिद्धितः । भूतिर्येषां क्रिया सैवेप्ययुक्तं सान्वयत्वतः ॥ ६७ ॥ नित्यत्वात्सर्वभावानां निष्क्रियत्वं तु सर्वथा । यैरुक्तं तेप्यनेनैव हेतुना दूषिता हृताः ||६८ || सर्वथा तन्मतध्वंसात्प्रमाणाभावतः क्वचित् । कथंचिन्नित्यताहेतुर्यदि तस्य विरुद्धता ।। ६९ ।। कथंचिन्निष्क्रियत्वस्य साधनात् क्षणिकादिवत् । ततः स्युर्निष्क्रियाः सर्वे भावाः स्यात्सक्रियासह विरोधादिप्रसंगचेन्न दृष्टे तदयोगतः । चैत्रैकज्ञानवत्स्वेष्टतत्त्ववद्वा प्रवादिनाम् ॥ ७१ ॥ स्वेष्टं तत्त्वमनिष्टात्मशून्यं सदिति ये विदुः । सदसद्रूपमेकं ते निराकुर्युः कथं पुनः ॥ ७२ ॥ निष्क्रियेतरताभावे बहिरंतः कथंचन । प्रतीतेर्बाधशून्यायाः सर्वथाप्यविशेषतः ॥ ७३ ॥ 1 असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥ ८ ॥ प्रदेशेयत्तावधारणार्थमिदं । धर्माधर्मयोरेकजीवस्य च । कुतः पुनरसंख्येयप्रदेशता धर्मादीनां प्रसियतीत्यावेदयति ; -- प्रतिदेशं जगद्व्योमव्याप्तयोग्यत्वसिद्धितः । धर्माधर्मैकजीवानामसंख्येयप्रदेशता ॥ १॥ लोकाकाशवदेव स्याच्चासंख्येयप्रदेशभृत् । तदाध्येयस्य लोकस्य सावधित्वप्रसाधनात् || २ || अनंतदेशतापायात् प्रसंख्यातुमशक्तितः । न तत्रानंतसं ख्यातप्रदेशत्वविभावना ॥ ३॥ न ह्ययं लोको निरवधिः प्रतीतिविरोधात् । पृथिव्या उपरि सावधित्वदर्शनात् पार्श्वतोधस्ताच्च सावधित्वसंभवनात् तद्वदुपरि लोकस्य सावधित्वसिद्धेः । सर्वतः अपर्यंता मेदिनीति साधने सर्वस्य हेतोरप्रयोजकत्वापत्तेः । प्रसिद्धे च सावधौ लोके तदधिकरणस्याकाशस्य लोकाकाशसंज्ञकस्य सावधित्वसिद्धेः परिशेषादसंख्येयप्रदेशत्वसिद्धिः । तथाहि न तावल्लोकाकाशमनंतप्रदेशं शश्वदसंहरणधर्मत्वे सति ५१ Page #411 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० ९ सावधित्वात् पंचाणुकाकाशवत् । असंहरणधर्मत्वादित्युच्यमाने लोकाकाशेन व्यभिचार इति सावधित्ववचनं, सावधित्वादित्युक्तेपि पुद्गलस्कंधेनानंतपरमाणुकेनानेकांतो मा भूदिति शश्वदसंहरणधर्मकत्वे सतीति विशेषणं । न चैतदसिद्धं साधनसद्भावात् । शश्वदसंहरणधर्मकं लोकाकाशमजीवत्वे सत्यमूर्तद्रव्यत्वादलोकाकाशवत् । न ह्यलोकाकाशं कदाचित्संहरणधर्म सर्वदा परममहत्त्वाभावप्रसंगात् । तथा न संख्यातप्रदेशं लोकाकाशं गणनया प्रसंख्यातुमशक्यत्वादलो का का शव देवेति नानंतसंख्यातप्रदेशत्वं तस्य विभावयितुं शक्यं । परिशेषादसंख्येयप्रदेशं लोकाकाशं सिद्धं । ततो धर्माधर्मैकजीवास्त्वसंख्येयप्रदेशाः प्रतिप्रदेशं तावदसंख्येयप्रदेशलो का काश व्याप्तियोग्यत्वात् यन्न तथा तन्न तथा यथैकपरमाणुरिति निरवद्यो हेतुः, अन्यथानुपपत्तिसद्भावात् ॥ नन्वत्र जीवस्यैकविशेषणं किमर्थमित्यारे कायामिदमाह; - ४०२ एकजीववचःशक्तेर्नासंख्येयप्रदेशता । नानात्मनामनंतादिप्रदेशत्वस्य संभवात् ॥ ४ ॥ एकजीववचनसामर्थ्यान्न नानाजीवानामसंख्येयप्रदेशत्वं तेषां अनंतप्रदेशत्वस्यानंतानंत प्रदेशत्वस्य च संभवात् ॥ कुतः पुनर्धर्मादीनां सप्रदेशत्वं सिद्धं यतोऽसंख्येयप्रदेशता साध्यत इत्याशंकां निराचिकीर्षुराह ; प्रदेशा इमे सर्वे मूर्तिमद्रव्य संगमात् । सकृदेवान्यथा तस्यायोगादेकाणुवत्ततः ॥ ५ ॥ ॥ न हि सकृत्सर्वमूर्तिमद्रव्य संगमः सप्रदेशत्वमंतरेण घटते धर्मादीनामेकपरमाणुवत् । ततोमी धर्माधर्मेकजीवास्ते सप्रदेशा एव । मुख्यप्रदेशाभावादुपचरिताः प्रदेशास्तेषामिति चेत्, कुतस्तत्र तदुपचारः ? सकृन्नानादेशद्रव्यसंबंधादेव तस्य सप्रदेशे कांडपटादौ दर्शनादिति चेत् तद्वन्मुख्य प्रदेशसद्भावे को दोषो ? अनित्यत्वप्रसंगः सावयवस्यानित्यत्वप्रसिद्धेर्घटादिवदिति चेत्, कथंचिदनित्यत्वस्येष्टत्वाददोषोयं । सर्वथानित्यत्वेर्थक्रियाविरोधात् । सर्वस्य कथंचिदनित्यत्वस्य व्यवस्थापनात् ॥ जीवस्य सर्वतद्रव्यसंगमो न विरुध्यते । लोकपूरणसंसिद्धेः सदा तद्योग्यतास्थितेः ॥ ६॥ जीवो हि लोकपूरणावस्थायां सकृत्सर्वमूर्तिमद्द्रव्यैः संबध्यते इति सिद्धांतसद्भावान्न स्याद्वादिनां तस्य सकृत्सर्वमूर्तिमद्रव्य संगमो विरुध्यते, शेषावस्थाखपि तद्योग्यताव्यवस्थापनात् । एतेन धर्माधर्मयोः सर्वथा प्रतिदेशं लोकाकाशव्याप्तिवदेकजीवस्यापि तद्व्याप्तियोग्यत्वस्थितेरसंख्येयप्रदेशत्वसाधने हेतोर - सिद्धिः परिहृता वेदितव्या । तथा योग्यतामंतरेण धर्मादीनां शश्वत्तद्व्याप्तिविरोधात् । परमाणुवत् कालानुवद्वा तद्व्याप्तिः साधयिष्यते चाग्रतः ॥ अथाकाशस्य कियंतः प्रदेशा इत्याह; आकाशस्यानंताः ॥९॥ प्रदेशा इत्यनुवर्तते । पूर्वसूत्रे वृत्त्यकरणं तत एवासंख्येयप्रदेशा इति वृत्तिनिर्देशे लाघवेपि वाक्यनिर्देशोऽसंख्येयाः इति कृत इहोत्तरसूत्रेषु च प्रदेशग्रहणं मा भूद्योगैरेवमिति । अतोऽवसानमिह गृह्यते, अविद्यमानोंतो येषां त इमेऽनंताः प्रदेशा इत्यन्यपदार्थनिर्देशोयं । ते चाकाशस्येति भेदनिर्देशः कथंचित्प्रदेश प्रदेशिनोर्भेदोपपत्तेः । सर्वथा तयोरभेदे प्रदेशिनः खप्रदेशादेकस्मादर्थांतरत्वाभावात् प्रदेशमात्रत्वप्रसंग इति प्रदेशिनोऽसत्त्वं । तदसत्त्वे प्रदेशस्याप्यसत्त्वमित्युभयासत्त्वप्रसक्तिः । सर्वथा तद्भेदे पुनराकाशस्य च द्रव्यप्रदेशा द्रव्याणि वा स्युर्गुणादयो वा ? यदि द्रव्याणि तदाकाशस्यानेकद्रव्यत्वप्रसंगो घटादिवत् । तथा च सादिपर्यवसानत्वं तद्वदेव । न ह्यनेकद्रव्यारब्धं द्रव्यं किंचिदनाद्यनंतं Page #412 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ४०३ दृष्टमिष्टं वा परस्य । गुणाः प्रदेशा इति चेन्न, गुणांतराश्रयत्वविरोधात् । साधारणगुणा हि संयोगविभागसंख्यादयस्तत्रेष्यते घटसंयोगोन्यस्याकाशप्रदेशस्य कुड्यसंयोगोन्यस्य द्वार्विभागोऽन्यस्य दंडविभागोन्यस्येति संयोगविभागयोः प्रतीतेः । एकः खस्य प्रदेशो द्वौ चेति संख्यायाः संप्रत्ययात् परो गगनप्रदेशोऽपरो वेति परत्वापरत्वयोरवबोधात् पृथगेतस्मात् पाटलिपुत्राकाशप्रदेशाच्चित्रकूटाद्याकाशप्रदेश इति पृथक्त्वस्योपलंभात् । तथा घटाकाशप्रदेशान्महान् मंदराकाशप्रदेश इति परिमाणस्य सन्निर्णयात् । प्रदेशिन्येवाकाशे संयोगादयो गुणा न प्रदेशेष्विति चेन्न, अवयवसंयोगपूर्वकावयविसंयोगोपगमाद्धि तंतुकवीरणसंयोगवत् । पटादीनामाकाशप्रदेशसंयोगमंतरेणाकाशप्रदेशे संयोगोपरः एकवीरणस्य सिद्धिः । सिद्धे तंतुकसंयोगे द्वितंतुकसंयोगप्रसंगात् संयोगजसंयोगाभावः । एतेन विभागजविभागाभावः प्रतिपादितः । संख्या पुनर्द्वित्वादिकाकाशे प्रदेशिन्यनुपपन्नैव तस्यैकत्वात् । एतेन परत्वापरत्वपृथक्त्वपरिमाणभेदाभावः प्रतिनिवेदितः तत्रैकत्र तदनुपपत्तेः । ततः खप्रदेशेप्वेवैते गुणाः सिद्धा इति न गुणाः प्रदेशा गुणित्वात् पृथिव्यादिवत् । नापि कर्माणि तत एव परिस्पंदात्मकत्वाभावाच्च । नापि सामान्यादयोनुवृत्तिप्रत्ययादिहेतुत्वाभावात् । पदार्थातराणि खप्रदेशा इत्ययुक्तं । षट्पदार्थनियमविरोधात् । अत एव न मुख्याः खस्य प्रदेशा इति चेन्न, मुख्यकार्यकारणदर्शनात् । तेषामुपचरितत्वे तदयोगात् । न ह्युपचरितोग्निः पाकादावुपयुज्यमानो दृष्टस्तस्य मुख्यत्वप्रसंगात् । प्रतीयते च मुख्य कार्यमनेकपुद्गलद्रव्याद्यवगाहकलक्षणं । निरंशस्यापि विभुत्वात्तद्युक्तमिति चेत् , कथं विभुर्निरंशो वेति न विरुध्यते । ननु प्रमाणसिद्धत्वाद्वादिप्रतिवादिनोराकाशे विभुत्वभावं न विप्रतिषिद्धं । तत एव निरंशत्वसिद्धिः । तथाहि-निरंशमाकाशादि सर्वजगद्व्यापित्वात् यन्न निरंशं न तत्तथा दृष्टं यथा घटादि सर्वजगद्व्यापि चाकाशादि तस्मान्निरंशमिति कश्चित् । तदसमीचीनं, हेतोः पक्षाव्यापकत्वात् परमाणौ निरंशे तदभावात् । तस्या विवादगोचरत्वादपक्षीकरणाददोष इति चेन्न, सांशपरमाणुवादिनस्तत्रापि विप्रतिपत्तेः पक्षीकरणोपपत्तेः । साधनांतरात्तत्र निरंशत्वसिद्धेरिहापक्षीकरणमिति चेत् , एवं तर्हि न कश्चित्पक्षाव्यापको हेतुः स्यात् चेतनास्तरवः खापात् मनुष्यवदित्यत्रापि तथा परिहारस्य संभवात् । शक्यं हि वक्तुं येषु तरुषु खापादयोऽसिद्धास्त एव पक्षीक्रियते, तेनेतरे तत्र हेत्वंतराच्चेतनत्वप्रसाधनात् । ततो न पक्षाव्यापको हेतुरिति किल कालात्ययापदिष्टो हेतुर्निरंशत्वसाधने; सर्वजगद्व्यापित्वादिति पक्षस्यानुमानागमबाधितत्वात् अत्र हेतोः सामान्यादिभिर्व्यभिचारासंभवात् , तेषां सकृद्भिन्नदेशद्रव्यसंबंधस्य प्रमाणसिद्धस्याभावात् । तथा धर्माधर्मेकजीवलोकाकाशानां तुल्यासंख्येयप्रदेशत्वात् प्रदेशसमवाय इत्याद्यागमस्यापि तत्सांशत्वप्रतिपादकस्य सुनिश्चितासंभवबाधकस्य सद्भावाच्च । यदप्युच्यते निरंशमाकाशादि सदावयवानारभ्यत्वात् परमाणुवदिति तदप्यनेन निरस्तं, हेतोः कालात्ययापदिष्टत्वविशेषात् । किं च यदि सर्वथा सदावयवानारभ्यत्वं हेतुस्तदा प्रतिवाद्यसिद्धः पर्यायार्थादेशात् पूर्वपूर्वाकाशादिप्रदेशोत्पत्तेरारभ्यारंभकभावोपपत्तेः । अथ कथंचित्सदावयवानारभ्यत्वं हेतुस्तदा विरुद्धः, कथंचिन्निरंशत्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । कथंचिन्निरंशत्वस्य साधने सिद्धसाधनमेव पुद्गलस्कंधवत्सर्वदावयवविभागाभावात् सावयवत्वाभावोपगमात् । स्यान्मतं, नाकाशादीनां प्रदेशा मुख्याः संति खतोऽप्रदिश्यमानत्वात् परमाणुवत् । परमाण्वादीनां हि मुख्याः प्रदेशाः खतोवधार्यमाणाः सिद्धा इति । तदयुक्तं, परमाणोरेकप्रदेशाभावप्रसंगात् छद्मस्थैः खतोऽप्रदिश्यमानत्वा विशेषात् । परमागुरेकप्रदेशोत्यन्तपरोक्षत्वादस्मदादीनां स्वतोप्रदिश्यमान इति चेत् , त एवाकाशादिप्रदेशाः खतोपदिश्यमानाः संत्वस्मदादिभिः । अतींद्रियार्थदर्शिनां तु यथा परमाणुरेकप्रदेशः खतः प्रदेश्यस्तथाकाशादिप्र Page #413 -------------------------------------------------------------------------- ________________ ४०४ तत्त्वार्थश्लोकवार्तिके [सू० ९ देशोपीति खतोऽप्रदिश्यमानत्वादित्यसिद्धो हेतुः । पटादिद्यणुकाद्यवयवैरनेकांतिकश्च तेषामस्मदादिभिः खतोऽप्रदिश्यमानानामपि भावात् । किं च कथंचित्सांशमाकाशादि परमाणुभिरेकदेशेन युज्यमानत्वात् स्कंधवत् । तस्य तैः सर्वात्मना संयुज्यमानत्वे परमाणुमात्रत्वप्रसंगात् । तथा चाकाशादिबहुत्वापत्तिः । स्यान्मतं, नैकदेशेन सर्वात्मना वा परमाणुभिराकाशादिर्युज्यते । किं तर्हि ? युज्यते एव यथावयवी स्वावयवैः सामान्यं वा स्वाश्रयैरिति । तदसत् साध्यसमत्वान्निदर्शनस्य । तस्याप्यवयव्यादेः सर्वथा निरंशत्वे स्वावयवादिभिरेकांततो भिन्नैः संबंधो यथोक्तदोषानुषंगात् कात्स्यैकदेशव्यतिरिक्तस्य प्रकारांतरस्य तत्संबंधनिबंधनस्यासिद्धेः । कथंचित्तादात्म्यस्य तत्संबंधत्वे स्याद्वादिमतसिद्धिः, सामान्यतद्वतोरवयवावयविनोश्च कथंचित्तादात्म्योपगमात् । न चैवमाकाशादेः परमाणुभिः कथंचित्तादात्म्यमित्येकदेशेन संयोगोभ्युपगंतव्यः । तथा च सांशत्वसिद्धिः । किं च सांशमाकाशादि श्येनमेषाद्यन्यतोभयकर्मजसंयोगविभागान्यथानुपपत्तेः । श्येनेन हि स्थाणोः संयोगो विभागश्चान्यतर कर्मजस्तत्रोत्पन्नं कर्म स्वाश्रयं श्येनं तदाकाशप्रदेशाद्वियोज्य स्थाण्वाकाशदेशेन संयोजयति ततो वा विभिद्याकाशदेशांतरेण संयोजयतीति प्रतीयते न चाकाशस्यैकदेशाभावे तद्धटनात् कर्मणः स्वाश्रयान्याश्रययोरेकदेशत्वात् । एतेन शेषयोरुभयकर्मजः संयोगो विभागश्चाकाशस्याप्रदेशत्वेन घटत इति निवेदितं क्रियानुपपत्तिश्च तस्याः देशांतरप्राप्तिहेतुत्वेन व्यवस्थितत्वात् देशांतरस्य वा संभवात् । तत एव परत्वापरत्वपृथक्त्वाद्यनुपपत्तिः पदार्थानां विज्ञेया । तत्सकलमभ्युपगच्छतांजसा सांशमाकाशादि प्रमाणयितव्यं ॥ कुतः पुनराकाशस्याताः प्रदेशा इत्यावेदयति ; अनंतास्तु प्रदेशाः स्युराकाशस्य समंततः । लोकत्रयाद्बहिः प्रांताभावात्तस्यान्यथागतेः ॥ १ ॥ अनंतप्रदेशमाकाशं लोकत्रयाद्वहिः समंततः प्रांताभावात् यन्नानतप्रदेशं न तस्य ततो बहिः समंततः प्रांताभावो यथा परमाण्वादेः । इत्यन्यथानुपपत्तिलक्षणो हेतुः खसाध्यं साधयत्येव । ततो बहिः समं - ततः प्रांताभावस्याभावे पुनराकाशस्य गत्यभावप्रसंगात् । भावेपि कथमाकाशस्य गतिरित्याह ; जगतः सावधेस्तावद्भावो बहिरवस्थितिः । संतानात्मा न युज्येत सर्वथार्थक्रियाक्षमः ॥ २ ॥ न गुणः कस्यचित्तत्र द्रव्यस्यानभ्युपायतः । तदाश्रयस्य कर्मादेरपि नैवं विभाव्यते ॥ ३ ॥ द्रव्यं तु परिशेषात्स्यात्तन्नभो नः प्रतिष्ठितं । प्रसक्तप्रतिषेधे हि परिशिष्टव्यवस्थितिः ॥ ४ ॥ अनंता लोकधातवः इत्याकाशत्ववादिनां दर्शनमयुक्तं प्रमाणाभावात् । स्वभावविप्रकृष्टानां भावाभावनिश्चयासंभवात् संभवे वा खतः क्षतिप्रसंगात् तदागमस्य प्रमाणभूतस्यानभ्युपगमात् । ततः सावधिरे - व लोको व्यवतिष्ठते । तस्य च खतो बहिः समंतादभावस्तावत्सिद्धः स च नीरूपो न युज्यते प्रमाणाभावात् । भावधर्मखभावो न गुणः कर्मसामान्यं विशेषो वा कस्यचिद्रव्यस्य तदाश्रयस्यानभ्युपगमात् परिशेषाद्द्रव्यमिति विभाव्यते । प्रसक्तप्रतिषेधे परिशिष्टव्यवस्थितेः तदस्माकमाकाशं सर्वतोऽवधिरहितI मित्यनंत प्रदेशसिद्धिः । परेषां पुनरनंता लोकधातवः संतोपि यदि निरंतरास्तदा अंतरालप्रतीतिर्न स्यात् सर्वथा तेषां निरन्वये चैकं लोकधातुमात्रं स्यात् । परेषां लोकधातूनां तत्रानुप्रवेशात् । एकदेशेन नैरंतर्ये सावयवत्वं तदवयवेनापि तदवयवांतरैः सर्वात्मना नैरंतर्ये तदेकावयवमात्रं स्यात्, तदेकदेशेन नैरंतर्ये तदेव सावयवत्वमेवं अनंतपरमाणूनां । सर्वात्मना नैरंतर्ये परमाणुमात्रं जगद्भवेत् तदेकदेशेन नैरंतर्ये सावयवत्वं परमाणूनां । तन्नानिष्टं, इति सांतरा एव लोकधातवः प्रतिपरमाणु वक्तव्याः । तदंतर एवाकाशमेवोक्त व्यापादनादनंतप्रदेशमायातं । आलोकतमः परमाणुमात्रमंतरमिति चेन्न, आलोकत L Page #414 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ४०५ मःपरमाणुभिरपि सांतरैभवितव्यं । तन्नरंतर्ये प्रतिपादितदोषानुषंगात् । तदंतराण्याकाशप्रदेशा एवेत्यवश्यभावि नमोऽनंतप्रदेशं ॥ आगमज्ञानसंवेद्यमनुमानं विनिश्चितं । सर्वज्ञैर्वा परिच्छेद्यमप्यनंतप्रमाणभाव ॥४॥ यद्विज्ञानपरिच्छेद्यं तत्सांतमिति योब्रवीत् । तस्य वेदो भवादिर्वा नानंत्यं प्रतिपद्यते ॥६॥ __ स्वयं वेदस्येश्वरस्य पुरुषादेर्वा अनाद्यनंतत्वं कुतश्चित्प्रमाणात् परिच्छिदन्नपि तत्सादिपर्यंतत्वमिति छिन्नाकाशस्यानुमानागमयोगिप्रत्यक्षैः परिच्छिद्यमानस्यानंतत्वं प्रतिक्षिपतीति कथं खस्थः? प्रमाणस्य यथावस्थितवस्तुपरिच्छेदनखभावत्वादनंतस्यानंतत्वेनैवपरिच्छेदने को विरोधः स्यादसंख्यातादसंख्यातादेस्तथा परिच्छेदनवत् । ततः सूक्तमाकाशस्यानंताः प्रदेशा इति ॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १०॥ प्रदेशा इत्यनुवर्तते । चशब्दादनंताश्च समुच्चीयंते । कुतस्ते पुद्गलानां तथेत्याह;संख्येयाः स्युरसंख्येयास्तथानंताश्च तत्त्वतः। प्रदेशाः स्कंधसंसिद्धेः पुद्गलानामनेकधा ॥१॥ संख्येयपरमाण्वारब्धानामनेकधा स्कंधानामसंख्यातानंतानंतपरमाण्वारब्धानां च संसिद्धेः पुद्गलानां स्युरेवं संख्येयाश्चासंख्येयाश्चानंताश्च प्रदेशास्तत्त्वतः सकलबाधवैधुर्यात् । ननु च स्कंधस्य ग्रहणं तदारंभकावयवग्रहणपूर्वकं तदग्रहणपूर्वकं वा ? प्रथमपक्षेऽनंतशः परमाणूनां तदवयवानामतींद्रियत्वादग्रहणे स्कंधाग्रहणमिति सर्वाग्रहणमवयव्यसिद्धेः, द्वितीयपक्षेत्र सकलावयवशून्येपि देशेऽवयविग्रहणप्रसंगः । कतिपयावयविग्रहणपूर्वकेपि स्कंधग्रहणे सर्वाग्रहणमेव कतिपयावयवानामप्यनंतशः परमाणूनां व्यवस्थानात्तेषां च ग्रहणसंभवात् । ततो न परमार्थतः स्कंधसंसिद्धिः । अनाद्यविद्यावशादत्यासन्नेष्वसंसृष्टेषु बहिरंतश्च परमाणुषु तदाकारप्रतीतेः तादृशकेशादिष्वप्यनाकारप्रतीतिवदिति कश्चित् , तस्यापि सर्वाग्रहणमवयव्यसिद्धेः । परमाणवो हि बहिरंतर्वाबुद्धिगोचरा एवातींद्रियत्वात् न चावयवी तदारब्धोभ्युपगतः इति सर्वस्य बहिरंगस्यांतरंगस्य चार्थस्याग्रहणं कथं विनिवार्यते? । अथ केचित्संचिताः परमाणव एव स्वप्रत्ययविशेषादिंद्रियज्ञानपरिच्छेद्यखभावा जायंते तेषां ग्रहणसिद्धेर्न सर्वाग्रहणमिति मतं; तदपि न समीचीनं, कदाचित्वचित्कस्यचित्परमाणुप्रतीत्यभावात् । एको हि ज्ञानसन्निवेशी खधियानाकारः परिस्फुटमवभासते । परमाणव एव चेतनात्मन्यविद्यमानमप्याकारं स्थवीयांसं कुतश्चिद्विभ्रमादर्शयंतीति चेत् , कथंचित्प्रतिभातास्ते तमुपदर्शयेयुरप्रतिभाता ? न तावदप्रतिभाताः सर्वत्र सर्वदा, सर्वथा सर्वस्य तदुपदर्शनप्रसंगात् ; प्रतिभाता एव ते तमुपदर्शयंति सत्त्वादिनातिकेशादिवदिति चेन्न । परमाणुत्वादिनापि तेषां प्रतिभातत्वप्रसंगात् । सत्यं, तेनाप्रतिभाता एव परमाणवः “एकस्यार्थखभावस्य प्रत्यक्षस्य खतः खयं । कोन्यो न दृष्टो भागः स्याद्वा प्रमाणैः परीक्षते॥” इति वचनात् केवलं तथा निश्चयात्तथानुत्पत्तेस्तेषामप्रतिभातत्वमुच्यते । “तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रांतेनिश्चीयते नेति साधनं संप्रवर्तते ॥” इति वचनात् सत्त्वादिनैव खभावेन तत्र निश्चयोत्पत्तेरभ्यासप्रवरबुद्धिपाटवार्थित्वलक्षणस्य तत्कारणस्य भावाद्वस्तुखभावात् । वस्तुखभावो ह्येष परं प्रतीतिकानुभवपटीयान् कचिदेव स्मृतिबीजमाधत्ते प्रबोधयति चांतरं संसारमिति चेत् , कथमेवं सत्त्वादेरणुत्वादिखभावः परमाणुषु भिन्नो न भवेद्विरुद्धधर्माध्यासात् सह्यविंध्यवत् । यदि पुनर्निश्चयस्यावस्तुविषयत्वान्न तद्भावाभावानां वस्तुखभावभेद इति मतं, तदा कथं दर्शनस्य प्रमाणेतरभावव्यवस्था निश्चयोत्पत्त्यनुत्पत्तिभ्यां विपर्ययोपजननानुपजननाभ्यामिति तद्व्यवस्थानुषंगात् । दर्शनप्रामाण्यहेतुर्यथार्थनिश्चय एव दृष्टार्था Page #415 -------------------------------------------------------------------------- ________________ ४०६ तत्त्वार्थश्लोकवार्तिके [सू० ११ व्यवसायित्वान्न विपर्ययः संशयो वा तद्विपरीतत्वादितिचेयाहतमेतत् । स्खलक्षणानालंबनश्च निश्चयो दृष्टार्थाव्यवसायी चेति, ततः स्खलक्षणाव्यवसायी स्वलक्षणालंबन एवेति वस्तुविषयो निश्चयोन्यथानुपपत्तेः सिद्धः । एवं च तद्भावाभावाभ्यां वस्तुखभावभेदोवश्यंभावीति सत्त्वे द्रव्यत्वादिस्वभावेन निश्चीयमानाः परमाणवो अणुत्वादिखभावेन वा निश्चीयमाना नानास्वभावाः सिद्धा एव । केशादित्वेन निश्चीयमानाः प्रविरलत्वादिना वा निश्चीयमानाः प्रतिपत्तव्याः सर्वथा तदनिश्चये तत्र विभ्रमाभावप्र- . संगात् तद्भावे अतिशक्तेः । सत्त्वादिना च निश्चीयमानोवयवी बहिर्न परमाणव इत्ययुक्तं, सर्वानिश्चयेऽवयवसिद्धेः । तीमूलदानक्रियिणः परमाणवः प्रत्यक्षबुद्धावात्मानं च न समर्पयंति प्रत्यक्षतां च खीकुवैतीति ततः परमार्थसंतः पुद्गलानां स्कंधा व्यणुकादयोऽनेकविधा इति तेषां संख्येयादिप्रदेशाः प्रातीतिका एव ॥ नाणोः ॥ ११ ॥ संख्येयासंख्येयाश्च प्रदेशा इत्यनुवर्तनात्त एवाणोः प्रतिषिध्यते । तथा चनाणोरितिनिषेधस्य वचनान्नाप्रदेशता । प्रसिद्धैवैकदेशत्वात्तस्याणुत्वं नचान्यथा ॥१॥ न टेकप्रदेशोप्यणुन भवतीति युक्तं तस्यावस्तुत्वप्रसंगात् । ननु चाणोः प्रदेशत्वे प्रदेशी कः स्यात् ? स एव स्पर्शादिगुणाश्रयत्वाद्गुणीति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च ? विरोधादिति चेत् , तदुभयखभावत्वोपपत्तेः । प्रदेशत्वस्वभावत्वस्यास्ति स्कंधावस्थायां तद्भावान्यथानुपपत्तेः प्रदेशित्वखभावः पुद्गलद्रव्यत्वात् । एकेन प्रदेशेन पुद्गलद्रव्यस्याप्रदेशित्वे यादिप्रदेशैरप्यप्रदेशित्वप्रसंगात् विरुद्धं चेदं परमागुरेकप्रदेशोऽप्रदेशी चेति प्रदेशप्रदेशिनोरन्योन्याविनाभावात् प्रदेशिनमंतरेण प्रदेशस्यासंभवात् खपुप्पवत् प्रदेशमंतरेण च प्रदेशिनोनुपपत्तेस्तद्वदेव । तत एव न प्रदेशो नापि प्रदेशी परमाणुरिति चेन्न, द्रव्यत्वविरोधात् गुणादिवत् । न चाद्रव्यं परमाणुर्गुणवत्त्वात् स्कंधवत् । न चाप्रदेशि प्रदेशिखभावं किंचिद्रव्यं सिद्धं गगनाद्यसिद्धमिति चेन्न, तस्यानंतादिप्रदेशत्वसाधनेन प्रदेशित्वव्यवस्थापनात् । स्यादाकूतं ते अनेकप्रदेशः परमाणुव्यत्वाद् घटाकाशादिवदिति । तदसत्, धर्भिग्राहकप्रमाणबाधितत्वात् पक्षस्य कालात्ययापदिष्टत्वात् हेतोः कालेन व्यभिचाराच्च । स्याद्वादिनां मीमांसकानां च शब्दद्रव्येणानेकांतात् । तथाहि-घटादिर्भिद्यमानपर्यंतो भेद्यत्वान्यथानुपपत्तेः योसौ तस्य पर्यंतः स परमाणुरिति परमाणुग्राहिणा प्रमाणेनानेकप्रदेशित्वं बाध्यते तस्यानेकप्रदेशत्वे परमाणुत्वविरोधात् ॥ अष्टप्रदेशरूपाणुवादोऽनेन निवारितः । तत्रापि परमस्कंधविदभावप्रसंगतः ॥२॥ परमाणूनामनेकप्रदेशत्वाभावे सर्वात्मनैकदेशेन च संयोगेणुमात्रेपि अणुप्रसक्तेः । सावयवत्वेनवस्थाप्रसंगाच्च परमस्कंधस्य प्रतीतिविरोधादष्टप्रदेशरूपाणुभिद्यमानपर्यंतः सर्वदा स्वयमवेद्यः सिद्ध्यति न पुनरनंशः परमाणुस्तस्य बुद्ध्या परिकल्पनादिति केषांचिदष्टप्रदेशरूपाणुवादः सोप्यनेनैव प्रदेशपरमागुस्कंधस्य वचनेन विचारितो द्रष्टव्यः, रूपाणोरप्रदेशस्य सर्वदाप्यस्य भेद्यत्वायोगात् । तथाहि-भेद्यो रूपाणुः मूर्तत्वे सत्यनेकावयवत्वात् घटवत् । नात्र हेतोराकाशादिभिरनेकांतो मूर्तिमत्त्वे सतीति विशेषणात्तेषाममूर्तत्वात् । ततः परमाणुरेकप्रदेश एव भिद्यमानपर्यंतः सिद्धः । नन्वेवं परमस्कंधप्रतीत्यभावप्रसंग इति चेन्न, तस्याष्टप्रदेशाणुवादेपि समानत्वात् । तथाहि; यथाणुरणुभिर्नानादिक्कैः संबंधमादधत् । देशतोवयवी तद्वत्प्रदेशोन्यैः प्रदेशतः ॥३॥ सर्वात्मना च तैस्तस्यापि संबंधेणुमात्रकः। पिंडः स्यादन्यथोपात्तदोषाभावः समो न किम्॥४॥ Page #416 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । ४०७ अष्टप्रदेशोपि हि रूपाणुः पूर्वादिदिग्गतरूपाण्वंतरप्रदेशैरेकशः संबंधमधितिष्ठन्नेकदेशेन कालान वाधितिष्ठेत् ? एकदेशेन चेदवयवी प्रदेशः स्यात्परमाणुवत् तथा चानवस्था परापरप्रदेशपरिकल्पनात् पिंडमात्रः स्यात् रूपाणुप्रदेशेष्वष्टासु रूपाण्वंतरप्रदेशानां प्रवेशात्तेषां च परस्परानुप्रवेशात् । तथा च परमस्कंधत्वप्रतीत्यभावः । अथ महतः स्कंधस्य प्रतीत्यन्यथानुपपत्त्या प्रकारांतरेण रूपाणुप्रदेशानामन्यरूपदेशैः संबंधसिद्धेः कास्यैकदेशपक्षोपात्तदोषाभावो विभाव्यते परमाणूनामपि प्रकारांतरेण संबंधस्तत एवेति समानस्तत्पक्षोपात्तदोषाभावः । वक्ष्यते च परमाणूनां बंधपरिणामहेतुः स्निग्धरूक्षत्वादिति परिणामविशेषः प्रकारांतरमिति नेहोच्यतेविद्यादजीवकायानां द्रव्यत्वादिस्वभावतां । एवं प्राधान्यतःप्रोक्तां समासात् सुनयान्विताम् ॥५ धर्मादीनामजीवकायानामादिसूत्रोक्तानां द्रव्यत्वस्वभावो जीवानां च प्राधान्येन वेदितव्यो गुणभावेन पर्यायत्वस्य भावस्यापि भावात् । शुद्धद्रव्यस्य हि सन्मानदेहस्य पर्याया एवाजीवकाया जीवाश्च तस्यैकस्यानंतपर्यायस्यातिसंक्षेपतोभिमतत्वात् । एकं द्रव्यमनंतपर्यायमिति वचनात् । तथा नित्यत्वावस्थितारूपत्वैकद्रव्यत्वनिष्क्रियत्वखभावोऽपि प्राधान्येनैव तेषां गुणभावेनानित्यत्वानवस्थितत्वसरूपत्वानेकद्रव्यत्वस्वभावानामपि भावात् तेषामनुक्तानामपि गम्यमानत्वात् समासतोभिधानात् । तथैव सुनयान्वितत्वोपपत्तेरन्यथा दुर्नयान्वितत्वप्रसंगात् । द्रव्यान्नित्यत्वेपि पर्यायार्थादेशादनित्यत्वोपगमादन्यथार्थक्रियाविरोधाद्वस्तुत्वायोगात् । तथा द्रव्यतोवस्थितत्वेपि पर्यायतोनवस्थितत्वसिद्धेरित्यवयवावस्थानाभावात् । तथा खरूपतो अरूपत्वेपि मूर्तिमद्रव्यसंबंधात्तेषां खरूपत्वव्यवहारात् । तथैकद्रव्यत्वेपि विभागापेक्षया तद्विभागविवक्षायामनेकद्रव्यत्वोपपत्तेः । परिस्पंदक्रियया निष्क्रियत्वेपि तेषामवस्थितत्वादिक्रियया सक्रियत्वात् । एवमसंख्येयप्रदेशत्वादयोपि प्रधानभावेनैव धर्मादीनां गुणभावेन संख्येयप्रदेशत्वादिखभावानामप्यविरोधात् परिमिततद्भावापेक्षया संख्योपपत्तेरिति सर्वत्र स्यात्कारः सत्यलांछनो द्रष्टव्यस्तस्यानुक्तस्यापि सामर्थ्यात् सर्वत्र प्रतीयमानत्वादिति प्रकरणार्थोपसंहृतिः ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्मादीनामित्यभिसंबंधः प्रकृतत्वादर्थवशाद्विभक्तिपरिणामात् । लोको न युक्तमाकाशं तत्रावगाहः । कुत इत्याह;लोकाकाशेवगाहः स्यात्सर्वेषामवगाहिनां । बाह्यतोसंभवात्तसाल्लोकत्वस्यानुषंगतः॥१॥ न हि लोकाकाशाबाह्यतो धर्मादयोऽवगाहिनः संभवत्यलोकाकाशस्यापि लोकाकाशत्वप्रसंगात् ॥ ननु च यथा धर्मादीनां लोकाकाशेवगाहस्तथा लोकाकाशस्यान्यस्मिन्नधिकरणावगाहेन भवितव्यं तस्याप्यन्यस्मिन्नित्यनवस्था स्यात् , तस्य स्वरूपेवगाहे सर्वेषां खात्मन्येवावगाहोस्त्वित्याशंकायामिदमुच्यते;___ लोकाकाशस्य नान्यस्मिन्नवगाहः कचिन्मतः। आकाशस्य विभुत्वेन स्वप्रतिष्टत्वसिद्धितः ॥२॥ ततो नानवस्था नापि सर्वेषां खात्मन्येवावगाहस्तेषामविभुत्वात् , परस्मिन्नधिकरणेवगाहोपपत्तेरन्यथाधाराधेयव्यवहाराभावात् ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ लोकाकाशेवगाह इत्यनुवर्तनीयं । कृत्स्न इति वचनात्तदेकदेश एव धर्माधर्मयोरवगाहो व्युदस्तः । कुतस्तौ कृत्वलोकाकाशावगाहिनौ सिद्धावित्याह; Page #417 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १६ धर्मात कृत्स्रलोकाकाशावगाहिनौ । गच्छत्तिष्ठत्पदार्थानां सर्वेषामुपकारतः ॥ १ ॥ न हि लोकत्रयवर्तिनां पदार्थानां सर्वेषां गतिपरिणामिनां स्थितिपरिणामिनां च गतिस्थित्युपग्रह युगपदुपकारो धर्माधर्मयोरेकदेशवर्तिनोः संभवत्यलोकाकाशेपि तद्गतिस्थितिप्रसंगात् । ततो लोकाकाशे गच्छत्तिष्ठत्पदार्थानां सर्वेषां गतिस्थित्युपकारमिच्छता धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भ्युपगंतव्यः ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अवगाह इत्यनुवर्तते लोकाकाशस्येत्यर्थवशाद्विभक्तिपरिणामः । तेन लोकाकाशस्यैक प्रदेशेष्वसंख्येयेषु च पुद्गलानामवगाह इति वाक्यार्थः सिद्धः || कथमित्याह ; ४०८ तस्यैवैकप्रदेशेस्ति यथैकस्यावगाहनं । परमाणोस्तथानेकाणुस्कंधानां च सौक्ष्म्यतः ॥ १ ॥ तथा चैकप्रदेशादिस्तेषां प्रतिविभिद्यतां । सोवगाहो यथायोग्यं पुद्गलानामशेषतः ॥ २ ॥ तस्यैव लोकाकाशस्यैकस्य प्रदेशे यथैकस्य परमाणोरवगाहनमस्ति निर्बाधं तथा व्यादिसंख्येयानां स्कंधानामपि परमसौक्ष्म्यपरिणामानां तद्रव्यादिप्रदेशेषु च । यथैकत्वपरिणाम निरुत्सुकानां व्यादिपरमाणूनामवगाहस्तथा त्र्यादिसंख्येयासंख्येयानंतपरमाणुमय स्कंधानामपि तादृशात् सौक्ष्म्यपरिणामादित्यशेषतो यथायोगं प्रविभज्यतां न च पुद्गलस्कंधानां तादृशसौक्ष्म्यपरिणामोऽसिद्धः स्थूलानामपि शिथिलावयव कर्पासपिंडादीनां निबिडावयवदशायां सौक्ष्म्यदर्शनात्, कूष्मांडमातुलिंगबिल्वामलकबदर सौक्ष्म्यात्तारतम्यदर्शनाच्च क्वचित्कार्मणस्कंधादिषु परमसौक्ष्म्यानुमानात् महत्त्व तारतम्यदर्शनात् कचित्परममहत्त्वानुमानवत् ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ लोकाकाशस्येति संबंधनीयं अवगाहो भाज्य इति चानुवर्तते । तेनासंख्येयभागे असंख्येयप्रदेशे कस्यचिज्जीवस्य सर्वजघन्यशरीरस्य नित्यनिगोतस्यावगाहः, कस्यचिद्वयोस्तदसंख्येयभागयोः कस्यचित्र्यादिषु सर्वस्मिंश्च लोके स्यादित्युक्तं भवति । नाना जीवानां केषांचित्साधारणशरीराणामेकस्मिन्न संख्येयभागेवगाहः, केषांचिद्वयोरसंख्येयभागयोख्यादिषु चासंख्येयभागेष्विति भाज्योवगाहो न चैकस्य तदसंख्येयभागस्य द्व्याद्यसंख्येयभागानां चासंख्येयप्रदेशत्वाविशेषात् सर्वजीवानां समानोवगाहः शंकनीयः असंख्येयस्यासंख्येयविकल्पत्वात् च सिद्धं लोकाकाशैका संख्येयप्रदेश परिणमनत्वाद्ब्राद्यसंख्येयभागानामिति नानारूपावगाहसिद्धिः । धर्मादीनां सकललोकाकाशादिव्यवहारवचनात्सामर्थ्याल्लोकाकाशस्यैकस्मिन्नेकस्मिन् प्रदेशे चैकस्य कालपरमाणोरवगाहः प्रतीयते । तथा च सूत्रकारस्य नासंग्रहदोषः ।। ननु च लोकाकाशप्रमाणत्वे जीवस्य व्यवस्थापिते कथं तदसंख्येयभागावगाहनं न विरुध्यत इत्याशंक्याह ; प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ असंख्येयभागादिषु जीवानामवगाहो भाज्य इति साध्यत इत्याह ; न जीवानामसंख्येयभागादिष्ववगाहनं । विरुद्धं तत्प्रदेशानां संहारात्प्रविसर्पतः ॥ १ ॥ प्रदीपवदिति ज्ञेया व्यवहारनयाश्रया । आधाराधेयतार्थानां निश्चयात्तदयोगतः ॥ २ ॥ अमूर्तस्वभावस्याप्यात्मनोऽनादिसंबंधं प्रत्येकत्वात् कथंचिन्मूर्ततां बिभ्रतो लोकाकाशतुल्यप्रदेश स्थापि कार्मणशरीरवशादुपात्तं सूक्ष्मशरीरमधितिष्ठतः शुष्कचर्मवत्संकोचनं प्रदेशानां संहारस्तस्यैव बादरशरीरमधितिष्ठतो जले तैलवद्विसर्पणं विसर्पः प्रसर्पस्ततोऽसंख्येयभागादिषु वृत्तिः प्रदीपवन्न विरुध्यते । न Page #418 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ४०९ हि प्रदीपस्य निरावरणनभोदेशावधृतप्रकाशपरिमाणस्यापि प्रभापवरकाद्यावरणवशात् प्रकाशप्रदेशसंहारविसौ कस्यचिदसिद्धौ यतो न दृष्टांतता स्यात् । स्यादाकूतं, नात्मा प्रदेशसंहारविसर्पवान् अमूर्तद्रव्यत्वादाकाशवदिति । तदयुक्तं, पक्षस्य बाधितप्रमाणत्वात् । तथाहि-आत्मा प्रदेशसंहारविसर्पवानस्ति महापरिमाणदेशव्यापित्वात् प्रदीपप्रकाशवदित्यनुमानेन तावत्पक्षो बाध्यते । न चात्र हेतुरसिद्धः शिशु. शरीरव्यापिनः पुनः कुमाश्शरीरष्यापित्यप्रतीतेः । स्थूलशरीरव्यापिनश्च सतो जीवस्य कृशशरीरव्यापित्वसंवेदनात् । न च पूर्वापरशरीरविशेषव्यापिनो जीवस्य भेद एव प्रत्यभिज्ञानाभावप्रसंगात् । न वेह तदेकत्वप्रत्यभिज्ञानं भ्रांतं बाधकाभावादियुक्तत्वात् । तथागमबाधितश्च पक्षः स्याद्वादागमे जीवस्य संसारिणः प्रदेशसंहारविसर्पवत्कथनात् । न च तदप्रमाणत्वं सुनिर्णीतासंभवबाधकत्वात् प्रत्यक्षार्थप्रतिपादकागमवत् । सर्वगतत्वादात्मनो न प्रदेशे संहारविसर्पवत्त्वमाकाशवदिति चेन्न, तस्यासर्वगतत्वसाधनात् । येषां पुनर्घटकणिकामात्रः सहस्रधा भिन्नो वा केशाग्रमात्रोंगुष्ठपर्वप्रमाणो वात्मा तेषां सर्वशरीरे खसंवेदनविरोधः, तस्याशु संचारित्वात्तथा संवेदने सकलशरीरेषु तथा संवेदनापत्तेरेकात्मवादावतरणात् । शक्यं हि वक्तुं सकलशरीरेष्वेक एवात्माणुप्रमाणोप्याशु संचारित्वात् संवेद्यत इति तत्राश्वेवाचेतनत्वप्रसंगोऽन्यत्र संचारणादिति चेत् , शरीरावयवेष्वपि तन्मुक्तेष्वचेतनत्वमुपसज्येत तद्युक्तस्यैव चोपशरीरैकदेशस्य सचेतनत्वोपपत्तेरिति यत्किचिदेतत् यथाप्रतीतेः शरीरपरमाणानुविधायिनो जीवस्याभ्युपगमनीयत्वात् । तथासति तस्यानित्यत्वप्रसंगः प्रदीपवदिति चेन्न किंचिदनिष्टं, पर्यायार्थादेशादात्मनोऽनित्यत्वसाधनात् । द्रव्यार्थादेशात्तन्नित्यत्ववचनात् प्रदीपवदेव । सोपि हि पुद्गलद्रव्यार्थादेशानित्य एवान्यथा वस्तुत्वविरोधात् । जीवस्य सावयवत्वे भंगुरत्वे वावयवविशरणप्रसंगो घटवदिति चेन्न, आकाशादिनानेकांतात् । न ह्याकाशादि कथंचिदनित्योपि सावयवोपि प्रमाणसिद्धो न भवति । न चावयवविशरणं तस्येति प्रतीतं किंचिदात्मनोवयवा विशीर्यते कारणपूर्वकत्वादाकाशादिप्रदेशवत् परमाण्वेकप्रदेशवद्वा । कारणपूर्वका एव हि पटादिस्कंधावयवा विशीर्यमाणा दृष्टास्तथाश्रयत्वेनावयवव्यपदेशात् । अवयूयंते विश्लिष्यंते इत्यवयवा इति व्युत्पत्तेः । नचैवमात्मनः प्रदेशाः, परमाणुपरिमाणेन प्रदिश्यमानतया तेषां प्रदेशव्यपदेशादाकाशादिप्रदेशवत् । ततो न विशरणं जीवस्याविभागद्रव्यत्वादाकाशादिवत् नावयवविशरणमविभागद्रव्यमात्मा अमूर्तत्वानुभवात् । प्रसाधितं चास्यामूर्तद्रव्यत्वमिति न पुनरत्रोच्यते । तदेवं लोकाकाशमाधारः कास्येनैकदेशेन वा धर्मादीनां यथासंभवं । धर्मादयः पुनराधेयास्तथाप्रतीते व्यवहारनयाश्रयादिति विज्ञेयार्थानामाकाशधर्मादीनामाधाराधेयता घटोदकादीनामिव वाधकाभावात् । न तेषामाधाराधेयता सहभावित्वात् सव्येतरगोविषाणवदित्येतद्वाधकमिति चेन्न, नित्यगुणिगुणाभ्यां व्यभिचारात् । न लोकाकाशद्रव्ये धर्मादीनि द्रव्याण्याधेयानि युतसिद्धत्वादनेककालद्रव्यवदिति चेन्न, कुंडबदरादिभिरनेकांतात् । साधारणशरीराणामात्मनामपि परस्परमाधाराधेयत्वोपगमादश्वमनुष्यादीनां च दर्शनात् साध्यशून्यमुदाहरणं । न तानि तत्राधेयानि शश्वदसमवेतत्वे सति सहभावादिति चेन्न , हेतोरन्यथानुपपन्ननियमासिद्धेः । न हि यत्र यदाधेयं तत्र शश्वत्समवेतं तदसहभावि च सर्व दृष्टं व्योमादौ नित्यमहत्त्वादिगुणस्याधेयस्य शश्वत्समवेतस्य सिद्धावपि तदसहभावाप्रतीतेः, कुंडादौ बदरादेराधेयस्य सहभावसिद्धावपि शश्वत्समवेतत्वाप्रसिद्धिरिति समुदितस्य हेतोः साध्यव्यावृत्तौ व्यावृत्त्यभावादप्रयोजको हेतुः । नभःपुद्गलद्रव्याभ्यां व्यभिचाराच्च । न हि नभसि पुद्गलद्रव्यमाधेयं न भवति तस्य तदवगाहित्वेन प्रतीतेस्तदाधेयत्वसिद्धेः पयसि मकरादिवत् , तत्र तस्य शश्वदसमवेतत्वे सति सहभावश्च हेतुः प्रसिद्धः । खपुद्गलद्रव्यस्य सदा समवायासंभवान्नित्यत्वेन सहभावत्वेपि विपक्षेपि भावात् Page #419 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १७ तस्य व्यभिचारत एव तयोः पक्षीकरणेत्र पक्षस्य प्रमाणबाधः कालात्ययापदिष्टश्च हेतुः खपुद्गलद्रव्ययोराधाराधेयताप्रतीतेः । पुद्गलपर्याया एव घटादयः खस्याधेयाः प्रतीयंते न च द्रव्यमिति चेन्न, पर्यायेभ्यो द्रव्यस्य कथंचिदव्यतिरेकात् तदाधेयत्वे तस्याप्याधेयत्वसिद्धेः । ततः सूक्तं लोकाकाशधर्मादिद्रव्याणामाधाराधेयता व्यवहारनयाश्रया प्रतिपत्तव्या बाधकामावादिति निश्चयनयान्न तेषामाधाराधेयता युक्ता । व्योमवद्धर्मादीनामपि स्वरूपेवस्थानादन्यस्यान्यत्र स्थितौ खरूपसंकरप्रसंगात् । वयं स्थानोरन्येन । स्थितिकरणमनर्थकं खयमस्थास्त्रोः स्थितिकरणमसंभाव्यं शशविषाणवत् । शक्तिरूपेण स्वयं स्थानशीलस्यान्येन व्यक्तिरूपतया स्थितिः क्रियत इति चेत्तस्यापि व्यक्तिरूपा स्थितिस्तत्वभावस्य वा क्रियेत । न च तावत्तत्स्वभावस्य वैयर्थ्यात् करणव्यापारस्य, नाप्यतत्स्वभावस्य खपुष्पवत्करणानुपपत्तेः । कथमेवमुत्पत्तिविनाशयोः कारणं कस्यचित्तत्खभावस्यातत्स्वभावस्य वा केनचित्तत्कारणे स्थितिपक्षोक्तदोषानुषंगादिति चेन्न कथमपि तन्निश्चयनयात्सर्वस्य विलसोत्पादव्ययध्रौव्यव्यवस्थितेः । व्यवहारनयादेवोत्पादादीनां सहेतुकत्वप्रतीतेः । क्षणक्षयकांते तु सर्वथा तदभावः शाश्वतैकांतवत् । संवृत्त्या तु जन्मैव सहेतुकं न पुनर्विनाशः स्थितिश्चेति स्वरुचिविरचितदशनोपदर्शनमात्रं नियमहेत्वभावात् । ततो नास्ति निश्चयनयाद्भावानामाधाराधेयभावः सर्वथा विचार्यमाणस्यायोगात्कार्यकारणभावादिति स्याल्लोकाकाशे धर्मादीनामवगाहः स्यादनवगाह इति स्याद्वादप्रसिद्धिः ॥ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ १७ ॥ द्रव्यस्य देशांतरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीता स्थितिः । उपग्रहोऽनुग्रहः गतिस्थिती एवोपग्रहो खपदार्था वृत्तिर्न पुनरन्यपदार्था धर्माधर्मावित्यवचनात् । नाप्यन्यतरपदार्था गतिस्थित्युपग्रहाविति द्विवचननिर्देशात् । तस्यां हि सत्यामुपग्रहस्यैकत्वादेकवचनमेव स्यात् । गतिस्थित्योरुपग्रहो गतिस्थि. त्युपग्रह इति भावसाधनस्योपग्रहशब्दस्य षष्ठीवृत्तेघटनात् । तस्य कर्मसाधनत्वे स्वपदार्थवृत्तरेवोपपत्तेः गतिस्थिती एवोपगृह्येते इत्युपग्रहौ । न च कर्मसाधनत्वेप्युपग्रहशब्दस्योपकारशब्देन सह सामानाधिकरण्यानुपपत्तिः गतिस्थित्युपग्रहौ उपकार इति उपकारशब्दस्यापि कर्मसाधनत्वात् । न चैवमुपकारशब्दस्य द्विवचनप्रस्था सामान्योपक्रमादेकवचनोपपत्तेः । पुनर्विशेषोपक्रमेपि तदपरित्यागात् साधोः कार्य तपःश्रुतिरित्यादिवत् । ननु खपदार्थायां वृत्तावुपग्रहवचनमनर्थक गतिस्थिती धर्माधर्मयोरुपकार इतीयता पर्याप्तत्वात् । धर्माधर्मयोरनुग्रहमात्रवृत्तित्वख्यापनार्थ गतिस्थित्योर्निर्वर्तककारणत्वप्रतिपत्त्यर्थ चोपग्रहग्रहणमित्यप्ययुक्तं, गतिस्थिती धर्माधर्मकृते इत्यवचनादेव तसिद्धेः । उपकारवचनाजीवपुद्लानां गतिस्थिती खयमारभमाणानां धर्माधर्मों तदनुग्रहमात्रवृत्तित्वादुपकारकाविति प्रतिपत्तेः । यथासंख्यनिवृत्त्यर्थमुपग्रहवचनमित्यप्यसारं, तद्भावे तदनिवृत्तेः । शक्यं हि वक्तुं जीवस्य गत्युपग्रहो धर्मस्योपकारः पुद्गलस्य स्थित्युपग्रहोऽधर्मस्योपकार इति यथासंख्यमुपग्रहवचनसद्भावेपि जीवपुद्गलानां बहुत्वाच द्वाभ्यां समत्वाभावादेव यथासंख्यनिवृत्तिसिद्धिर्न तदर्थ तद्वचनं युक्तं । धर्माधर्माभ्यां यथासंख्यप्रतिपत्त्यर्थ गतिस्थित्युपग्रहाविति वचनं व्यवतिष्ठते न गत्युपग्रहो धर्मस्य स्थित्युपग्रहः पुनरधर्मस्येति प्रतीयते । ननु गतिस्थित्युपग्रहौ धर्मस्याधर्मस्य च प्रत्येकमिति कश्चित् ; सोपि न स्थितवादी, उपकाराविति वचनादपि तसिद्धिः गतिरुपकारो धर्मस्य स्थितिरधर्मस्येत्यभिसंबंधत्वात् । तत्किमिदानीमुपग्रहवचनं? न कर्तव्यं । कर्तव्यमेवोपकारशब्देन कार्यसामान्यस्याभिधानात् गतिस्थित्युपग्रहाविति कार्यविशेषकथनात् । तेन धर्माधर्मयोर्न किंचित्कार्यमस्तीति वदन्निवार्यते धर्माधर्मयोरुपकारोस्तीति वचनात् । Page #420 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। किं पुनस्तत्कार्यमित्यारेकायां गतिस्थित्युपग्रहावित्युच्यते गतिस्थिती इति तयोस्तदनिर्वय॑त्वात् धर्माधर्मों हि न जीवपुद्गलानां गतिस्थिती निर्वर्तयतः । किं तर्हि ? तदनुग्रहावेव । कुत इत्येवं सकृत्सर्वपदार्थानां गच्छतां गत्युपग्रहः । धर्मस्य चोपकारः स्यात्तिष्ठतां स्थित्युपग्रहः ॥१॥ तथैव स्यादधर्मस्थानुमेयाविति तो ततः । तादृक्कार्य विशेषस्य कारणाव्यभिचारतः ॥२॥ क्रमेण सर्वपदार्थानां गतिपरिणामिनां गत्युपग्रहस्य स्थितिपरिणामिनां स्थित्युपग्रहस्य च क्षित्यादिहेतुकस्य दर्शनस्य धर्माधर्मनिबंधनमिति चेन्न सकृद्रहणात् । सकृदपि केषांचित्पदार्थानां तस्य क्षित्यादिकृतत्वसिद्धेश्च तन्निमित्तत्वमित्यपि न मंतव्यं, सर्वग्रहात् । ततः सकृत्सर्वपदार्थगतिस्थित्युपग्रहौ सर्वलो. कव्यापिद्रव्योपकृतौ सकृत्सर्वपदार्थगतिस्थित्युपग्रहत्वान्यथानुपपत्तेरिति कार्यविशेषानुमेयौ धर्माधौं । न हि धर्माधर्माभ्यां विना सकृत्सर्वार्थानां गतिस्थित्युपग्रहौ संभाव्येते, यतो न तदव्यभिचारिणौ स्यातां । ताभ्यां विनैव परस्परतः संभाव्येते ताविति चेत्, किमिदानीं युगपद्गच्छता सर्वेषां तिष्ठंतो हेतवः सर्वे, तिष्ठतां च सकृत्सर्वेषां गच्छंतः सर्वेषां आहोखित् केचिदेव केषांचित् ? । न तावत्प्रथमः पक्षः परस्पराश्रयप्रसंगात् । नापि द्वितीयः श्रेयान् सर्वार्थगतिस्थित्युपग्रहयोः सर्वलोकव्यापिद्रव्योपकृतत्वेन साध्यत्वात् । प्रतिनियतार्थगतिस्थित्यनुग्रह्योः कादाचित्कयोः प्रतिविशिष्टयोः क्षित्यादिद्रव्योपकृतत्वाभ्युपगमात् । गगनोपकृतत्वात् सिद्धसाधनमिति चेन्न, लोकालोकविभागाभावसंगताल्लोकस्य सावधित्वसाधनात् । निरवधित्वे संस्थानत्वविरोधात् प्रमाणाभावाच्च । यदि पुनर्लोकैकदेशवर्तिद्रव्योपकृतौ सकलाथगतिस्थित्युपग्रहौ स्यातां तदापि लोकालोकविभागासिद्धिः, क्वचिद्वर्तमानयोर्धर्माधर्मास्तिकाययोः सर्वलोकाकाशे इवालोकाकाशेपि सर्वार्थगतिस्थित्युपग्रहोपकारित्वप्रसक्तेस्तस्य लोकत्वापत्तेः । ततः सर्वगताभ्यामेव द्रव्याभ्यां सकलार्थगतिस्थित्यनुग्रहोपकारिभ्यां भवितव्यं । तौ नो धर्माधर्मों ॥ आकाशस्यावगाहः ॥ १८ ॥ उपकार इत्यनुवर्तते । कः पुनरवगाहः ? अवगाहनमवगाहः स च न कर्मस्थस्तस्यासिद्धत्वालिंगत्वायोगात् । किं तर्हि ? कर्तृस्थ इत्याह उपकारोवगाहः स्यात् सर्वेषामवगाहिनां । आकाशस्य सकृन्नान्यस्येत्येतदनुमीयते ॥१॥ जीवादयो ह्यवगाहकास्तत्र प्रतीतिसिद्धत्वालिंगमवगाह्यस्य कस्यचित् यत्तदवगाह्यं सकृत्सर्वार्थानां तदाकाशमिति कर्तृस्थादवगाहादनुमीयते । गगनादन्यस्य तथाभावानुपपत्तेः । आलोकतमसोरवगाहः सर्वेषामवगाहकानां जलादेर्भस्मादिवदिति चेन्न, तयोरप्यवगाहकत्वादवगाह्यांतरसिद्धेः । नन्वेवमाकाशस्याप्यवगाहकत्वादन्यदवगाचं कल्प्यतां तस्याप्यवगाहकत्वे अपरमवगाह्यमित्यनवस्था स्यादिति चेन्न, आकाशस्यानंतस्यामूर्तस्य व्यापिनः खावगाहित्वसिद्धेश्वगायांतरासंभवात् । न चैवमालोकतमसोः सर्वार्थानां वा खावगाहित्वप्रसक्तिरसर्वगतत्वात् । न च किंचिदसर्वगतं खावगाहि दृष्टं, मत्स्यादेर्जलाधवगाहित्वदर्शनात् । सर्वार्थानां क्षणिकपरमाणुस्वभावत्वात् अवगाह्यावगाहकभावाभाव इति चेन्न, स्थूलस्थिरसाधारणार्थप्रतीतेः । न चेयं भ्रांतिर्बाधकाभावात् एकस्यानेकदेशकालव्यापिनोर्थस्याभावे सर्वशून्यता. पत्तेः । भावे पुनरवगाह्यावगाहकभावाविरोध एवाधाराधेयभावादिवत् शीतवातातपादीनामभिन्नदेशकाल. तया प्रतीतेः खावगाडावगाहकभावसिद्धिः परस्परमवगाहानुपपत्तौ भिन्नदेशत्वप्रसंगाल्लोष्ठद्वयवत् । ततो यथाप्रतीतिनियतानामवगाहकानां प्रतिनियतमवगाह्यमसिद्धं तया सकृत्सर्वावगाहिनामवगाह्यमाकाशमनुमंतव्यम् ॥ Page #421 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ १९ ॥ उपकार इत्यनुवर्तनीयं, तत्र शरीर मौदारिकं व्याख्यातं । वाक् द्विधा - द्रव्यवाक् भाववाक् च । तत्रेह द्रव्यवाक् पौगलिकी गृह्यते । मनोपि द्विविधं द्रव्यभावविकल्पात् । तत्रेह द्रव्यमन: पौगलिकं ग्राह्यं, प्राणापानौ श्वासोच्छ्रासौ । त एते पुद्गलानां शरीरवर्गणादीनामतींद्रियाणामुपकारः कार्यमनुमापकमि - त्यावेदयति ; ४१२ शरीरवर्गणादीनां पुद्गलानां स संमतः । शरीरावयव इत्येतैस्तेषामनुमितिर्भवेत् ॥ १ ॥ संति शरीरवाङ्मनोवर्गणाः प्राणापानारंभकाश्च सूक्ष्माः पुद्गलाः शरीरादिकार्यान्यथानुपपत्तेः । न प्रधानं कारणं शरीरादीनां मूर्तिमत्त्वाभावादात्मवत् । न ह्यमूर्तिमतः परिणामः कारणं दृष्टं । पृथिव्यादिपरमाणवः कारणमिति केचित् तेषां सर्वेप्यविशेषेण पृथिव्यादिपरमाणवः शरीराद्यारंभकाः स्युः प्रतिनियतखभावाः ? न तावदादिविकल्पोऽनिष्टप्रसंगात् । द्वितीयकल्पनायां तु शरीरादिवर्गणा एव नामांतरेणोक्ता भवेयुरिति सिद्धोऽस्मत्सिद्धांतः ॥ " सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ 1 पुद्गलानामुपकार इत्यभिसंबंध: । केषां पुनः पुद्गलानामिमे कार्यमित्याह ; -- सुखाद्युपग्रहाश्चोपकारो जीवविपाकिनाम् | सातवेद्यादिकर्मात्मपुद्गलानामितोनुमा ॥ १ ॥ सुखं तच्चेत्सद्यस्य कर्मणः कार्यं दुःखमसद्वेद्यस्य, जीवितमायुषः, मरणमसद्वेद्यस्यैवायुः क्षये तदुदयात्परमदुःखात्मना तस्यानुभवात् । ततः सातवेद्यादि कर्मात्मानः पुद्गलाः सुखाद्युपग्रहेभ्योऽनुमीयंते । अत्रोपग्रहवचनं सद्वेद्यादिकर्मणां सुखाद्युत्पत्तौ निमित्तमात्रत्वेनानुग्राहकत्वप्रतिपत्त्यर्थं परिणाम - कारणं जीवः सुखादीनां तस्यैव तथ्यपरिणामात् । अत एव जीवविपाकित्वं सद्वेद्यादिकर्मणां जीवे तद्विपाकोपलब्धेः । नन्वायुः भवविपाकि श्रूयते तत्कथं जीवविपाकि स्यात् ? भवस्य जीवपरिणामत्वविवक्षायां तथा विधानाददोषः । तस्य कथंचिदजीव परिणामविशेषत्वे वा जीवपरिणाममात्राद्भेदविवक्षायामायुर्भवविपाकि प्रोक्तमिति न विरोधः । नन्वाभरणादिपुद्गलानां सुखाद्युपग्रहे वृत्तिदर्शनात्तेषां सुखाद्युपग्रह उपकारोस्त्विति चेन्न, तेषामनुमेयत्वात् नियमाभावाच्च कस्यचित्कदाचित्सुखोपग्रहे वर्तमानस्यापि बंधनादेरपरस्य दुःखाद्युपग्रहेपि वृत्त्यविरोधान्न नियमः । सद्वेद्यादिकर्माणि सुखाद्युपग्रहे प्रतिनियतखभावान्येवान्यथा तत्संभावनानुपपत्तेरिति तेभ्यस्तदनुमानम् ॥ [ सू० २२ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ उपकार इत्यनुवर्तते, ततः परस्परं जीवानामनुमानमित्याह ; जीवानामुपकारः स्यात्परस्परमुपग्रहः । संतानांतरवद्भाजां व्यापारादिरतोनुमा ॥ १ ॥ संतानांतरभाजो हि जीवाः परस्परमसंविदात्मानः कार्यतोनुमेयाः स्युर्न पुनरैक्यभाजः । तच्च कार्यं परस्परमुपग्रहः । स च व्यापारादिरालिंगनादिवाहनादिभिर्व्यापारः । अनुनयनं हितप्रतिपादनादिर्व्याहारः । स च परस्परमुपलभ्यमानः संतानांतरत्वं साधयतीति तदनुमेयाः संतानांतरभाजो जीवाः परस्परं संवृत्त्या संतानांतरव्यवहार इत्ययुक्तं, पुरुषाद्वैतवादस्य पूर्वमेव निरस्तत्वात्संवेदनाद्वैतवादवत् ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ वर्तते वर्तनमात्रं वा वर्तना, वृत्तेर्ण्यन्तात्कर्मणि भावे वा युक् तस्यानुदात्तत्वाद्वा ताच्छीलिको वायुच् Page #422 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । ४१३ वर्तनाशीला वर्तनेति । का पुनरियं? प्रतिद्रव्यपर्यायमंतनीतैकसमया खसत्तानुभूतिर्वर्तना । द्रव्यं वक्ष्यमाणं तस्य पर्यायो द्रव्यपर्यायः द्रव्यपर्यायं द्रव्यपर्यायं प्रति प्रतिद्रव्यपर्यायं अंतर्भात एकः समयोनयेत्यंत तैकसमया । का पुनरसौ ? खसत्तानुभूतिः खस्यैव सत्ता स्वसत्ता अन्यासाधारणी जन्मव्यय ध्रौव्यैक्यवृत्तिरित्यर्थः । 'उत्पादव्ययध्रौव्ययुक्तं सत्' इति वचनात् । न हि सत्तात्यं भिन्ना खाश्रयादु• पपद्यते । द्रव्याभिधानानुप्रवृत्तिलिंगेनानुमीयमाना सैकैवेत्ययुक्तं, सादृश्योपचारात्तदेकत्वप्रत्ययप्रवृत्तिः । जीवाजीवतद्भेदप्रभेदैः संबध्यमाना विशिष्टा शक्तिरनेकत्वमास्कंदतीति खसत्ताया अनुभूतिः सा वर्तना वर्त्यमानत्वात् वर्तमानमात्रत्वाद्वा तदुच्यते अंत तकसमयः स्वसत्तानुभवो भिदा । यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ॥ १॥ यस्मात्कर्मणि भावे च ण्यताद्वर्तेः स्त्रियां युचि । वर्तनेत्यनुदात्ते ताच्छील्यादौ वा युचीष्यते॥२॥ धर्मादीनां हि वस्तूनामेकसिन्नविभागिनि । समये वर्तमानानां स्वपर्यायैः कथंचन ॥३॥ उत्पादव्ययध्रौव्यविकल्पैर्बहुधा स्वयं । प्रयुज्यमानतान्येन वर्तना कर्म भाव्यते ॥४॥ प्रयोजनं तु भावः स्यात्स चासौ तत्प्रयोजकः । काल इत्येष निर्णीतो वर्तनालक्षणोंजसा ॥५॥ प्रत्यक्षतोऽप्रसिद्धापि वर्तनास्मादृशां तथा । व्यावहारिककार्यस्य दर्शनादनुमीयते ॥६॥ तथा तंदुलविक्लेदलक्षणस्य प्रसिद्धितः । पाकस्योदनपर्यायनामभाजः प्रतिक्षणं ॥ ७ ॥ सूक्ष्मतंदुलपाकोस्तीत्यनुमानं प्रवर्तते । पाकस्यैवान्यथेष्टस्य सर्वथानुपपत्तितः ॥ ८ ॥ तथैव स्वात्मसद्भावानुभूतौ सर्ववस्तुनः । प्रतिक्षणं बहिर्हेतुः साधारण इति ध्रुवम् ॥९॥ प्रसिद्धद्रव्यपर्यायवृत्तौ बाह्यस्य दर्शनात् । निमित्तस्यान्यथाभावाभावान्निश्चीयते बुधैः ॥१०॥ आदित्यादिगतिस्तावन्न तद्धेतुर्विभाव्यते । तस्यापि स्वात्मसत्तानुभूतौ हेतुव्यपेक्षणात् ॥ ११ ॥ नचैवमनवस्था स्यात्कालस्यान्याव्यपेक्षणात् । स्ववृत्तौ तत्स्वभावत्वात्स्वयं वृत्तेः प्रसिद्धितः ॥१२ तथैव सर्वभावानां स्वयं वृत्तिने युज्यते । दृष्टेष्टबाधनात्सर्वादीनामिति विचिंतितं ॥ १३ ॥ न दृश्यमानतैवात्र युज्यते वर्तमानता । वर्तमानस्य कालस्याभावे तस्याः स्वतः स्थितेः ॥१४॥ प्रत्यक्षासंभवाशक्तेरनुमानाद्ययोगतः । सर्वप्रमाणनिन्हुत्या सर्वशून्यत्वशक्तितः ॥ १५ ॥ खसंविदद्वयं तत्त्वमिच्छतः सांप्रतं कथं । सिद्धयेन वर्तमानोस्य कालः सूक्ष्मः स्वयंप्रभुः ॥१६॥ ततो न भाविता द्रक्ष्यमाणता नाप्यतीतता । दृष्टता भाव्यतीतस्य कालस्यान्यप्रसिद्धितः॥१७।। गतं न गम्यते तावदागतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ १८ ॥ इत्येवं वर्तमानस्य कालस्याभावभाषणं । स्ववाग्विरुद्धमाभाति तनिषेधे समत्वतः ।। १९ ॥ निषिद्धमनिषिद्धं वा तद्वयोन्मुक्तमेव वा । निषिध्यते न हि कैवं निषेधो विधिरेव वा ॥२०॥ क वाभ्युपगमः सिद्धयेत् प्रतिज्ञाहानिसंगतः । तस्य स्वयं प्रतिज्ञानाद्वर्तमानस्य तत्त्वतः ॥२१॥ तथैव च स्वयं किंचित्परैरभ्युपगम्यते । तथैव गम्यते किं न क्रियते वेद्यतेपि च ॥ २२ ॥ संवेदनाद्वयं तावद्विदितं नैव वेद्यते । न चाविदितमात्मादितत्त्वं वा नापि तद्वयं ॥ २३ ॥ इति स्वसंविदादीनामभावः केन वार्यते । वर्तमानस्य कालस्यापन्हवे स्वात्मविद्विषां ॥ २४ ॥ न संवित्संविदेवेति स्वतः समवतिष्ठते । ब्रह्म ब्रह्मैव वेत्यादि यथा भेदाप्रसिद्धितः ॥ २५ ॥ तत्स्वसंवेदनस्यापि संतानमनुगच्छतः । परेण हेतुना भाव्यं स्वयं वृत्त्यात्मनां न सः ॥२६॥ वर्तनवं प्रसिद्धा स्यात्परिणामादिवत् स्वयं । ततः सिद्धांतसूत्रोक्ताः सर्वेमी वर्तनादयः॥२७॥ Page #423 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० २२ अत एवाह;कालस्योपग्रहाः प्रोक्ता ये पुनर्वर्तनादयः । स्यात्त एवोपकारोतस्तस्थानुमितिरिष्यते ॥ २८॥ वर्तना हि जीवपुद्गलधर्माधर्माकाशानां तत्सत्तायाश्च साधारण्याः सूर्यगत्यादीनां च खकार्यविशेषानुमितखभावानां बहिरंगकारणापेक्षाकार्यत्वातंदुलपाकवत् । यत्तावबहिरंगकारणं स कालः । ननु कालवर्तनया व्यभिचारः खयं वर्तमानेषु कालाणुषु तदभावात् । न हि कालाणवः स्वसत्तानुभूतौ प्रयोजक- ' मपरमपेक्षते सर्वप्रयोजकस्वभावत्वात्स्वसर्वप्रयोजकस्वभावत्वविरोधात् । खस्य खावगाहहेतुत्वाभावे सर्वावगाहहेतुत्ववभावत्वविरोधात् । सर्वज्ञविज्ञानस्य खरूपपरिच्छेदकत्वाभावत्वविरोधवद्वा दिशः खस्मिन् पूर्वापररादिप्रत्ययहेतुत्वाभावे सर्वत्र पूर्वापरादिप्रत्ययहेतुत्वविरोधवद्वेति केचित् । कालवर्तनाया अनुपचरितरूपेणासद्भावात् यस्यासावन्येन वर्तते तस्य सा मुख्यवर्तना कर्मसाधनत्वात्तस्याः । कालस्य तु नान्येन वर्तते तस्य स्वयं खसत्तावृत्तिहेतुत्वादन्यथानवस्थाप्रसंगात् । ततः कालमा स्वतो वृत्तिरेवोपचारतो वर्तना । वृत्तिवर्तकयोर्विभागाभावान्मुख्यवर्तनानुपपत्तेः । शक्तिभेदात्तयोविभागे तु सा कालस्य यथा मुख्या तथा च बहिरंगनिमित्तापेक्षात्वं वर्तकशक्तेर्बहिरंगकारणत्वात् । ततो न तया व्यभिचारः। अकालवृत्तित्वे सति कार्यत्वादिति सविशेषणो वा हेतुः सामर्थ्यादवसीयते । यथा पृथिव्यादयः खतो. थीतरभूतज्ञानवेद्याः प्रमेयत्वादित्युक्तेप्यज्ञानत्वे सतीति गम्यते, अन्यथा ज्ञानेन स्वयं वेद्यमानेन व्यभिचारप्रसंगात् । नन्वत्र प्रमेयत्वादेवेत्यवधारणात्तदप्रमाणत्वे सतीति विशेषणमनुक्तमपि शक्यमवगंतुमन्यत्र तु कथमिति चेत्, कार्यत्वादेवेत्यवधारणाश्रयणादन्यत्राप्यकारणत्वे सतीति विशेषणं लभ्यत एव सामर्थ्यात् ततो न प्रकृतौ हेतुविशेषमिच्छंतौ हेत्वंतरं । नन्वेवं कालवृत्तेः कार्यत्वे तया व्यभिचाराभावादनर्थकं विशेषणोपादानमिति चेन्न, पर्यायार्थादेशात्कार्यत्वस्य तत्र भावात्तया व्यभिचारप्रसंगात् । तत्परिहारार्थ विशेषणोपादानस्यानर्थकत्वायोगात् । ततो वर्तनोपकारः कालसत्तां साधयत्येव ॥ कः पुनः परिणामः? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः । तत्र विस्रसापरिणामोनादिरादिमांश्च । चेतनद्रव्यस्य तावत्खजातेश्चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वाभव्य - स्वादिरनादिरौपशमिकादिः पूर्वाकारपरित्यागाजहद्वृत्तिरादिमान् स तु कर्मोपशमाद्यपेक्षत्वादपौरुषेयत्वाद्वैस्रसिकः । अचेतनद्रव्यस्य तु लोकसंस्थानमंदराकारादिरनादिरिति । द्रव्यतयादिमानपुरुषप्रयत्नानपेक्षत्वादेव वैससिकः । प्रयोगजः पुनर्दानशीलभावनादिश्चेतनस्याचार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात् , घटसंस्थानादिरचेतनस्य कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैस्रसिकोऽसंख्येयप्रदेशित्वादिरनादिः परिणामः प्रतिनियतगत्युपग्रहहेतुत्वादिः । आदिमान् प्रयोगजो यंत्रादिगत्युपग्रहहेतुत्वादिः पुरुषप्रयोगापेक्षत्वात् । समर्थो हि बहिरंगकारणापेक्षो कालपरिणामत्वे सति कार्यत्वात् ब्रीह्यादिवदिति । यत्तत्कारणं बाह्यं स कालः । परिणामोऽसिद्ध इति चेन्न, बाधकाभावात् । परिणामस्याभावः सत्त्वासत्त्वयोर्दोषोपपत्तेरिति चेन्न, पक्षांतरत्वात् । न हि सन्नेव बीजादावंकुरादिः परिणामस्तत्परिणामत्वविरोधाद्वीजखात्मवत् । नाप्यसन्नेव तत एव खरविषाणवत् । किं तर्हि ? द्रव्यार्थादेशात् सन् पर्यायार्थादेशादसन् । न चोभयपक्षभावी दोषोत्रावतरति सदसदेकांतपक्षाभ्यामनेकांतपक्षस्यान्यस्वात् हिंसकत्वपारदारिकत्वाभ्यामहिंसकापारदारिकत्ववत् वियुक्तगुडशुंठीभ्यां तत्संयोगवद्वा जात्यंतरत्वाच्च रसांतरसंभवात् । एतेन विरोधादयः परिद्रुता द्रष्टव्याः । किं च परिणामस्य प्रतिषेधो न तावत्सतः सत्त्वादेव परिणामप्रतिषेधवत् सतोपि प्रतिषेधस्यापि प्रतिषेधप्रसंगात् प्रतिषेधाभावः अप्रतिषेधः सत्त्वान्न प्रतिषिध्यते । तत एव परिणामोपि न प्रतिषेद्धव्य इति स एव प्रतिषेधाभावः । नाप्यसत; Page #424 -------------------------------------------------------------------------- ________________ • पञ्चमोऽध्यायः । ४१५ प्रतिषेधमियान्निर्विषयत्वप्रसंगात् । खरविषाणप्रतिषेधः कथमिति चेत्, न कथमपि सत्त्वाद्येकांतवाद - नामिति ब्रूमः । तदनेकांतवादिनां तु क्वचित्कदाचित्कथंचित् सत एवान्यत्रान्यदान्यथा प्रतिषेध इति सर्वमनवद्यम् । सर्वथैकांतस्य प्रतिषेधः कथमिति चेत्, कोऽयं सर्वथैकांतः । इदमेवेत्थमेवेति वा धर्मिणो धर्मस्य वाभिमननमिति चेत्, तर्हि तस्य सत एव निर्विषयसाधनमेव प्रतिषेधः । स्वरूपप्रतिषेधे तु सर्वथा प्रतीतिविरोधः स्यात् । दर्शन मोहोदये सति सदाद्येकांताभिनिवेशस्य मिथ्यादर्शनविशेषस्य प्रत्यात्मवेद्यत्वात् । निर्विषयत्वसाधने तु तस्य न प्रतीतिबाधा प्रतीयमानस्य वस्तुनि सत्त्वाद्यंशस्य धर्मित्वात् । नायं सर्वथा सत्त्वाद्येकांताभिनिवेशस्य विषयो वस्त्वंशः सर्वथा विरोधात् । एतेन प्रधानादिप्रतिषेधो व्याख्यातः प्रधानाद्यभिनिवेशस्य निर्विषयत्वसाधनात् । ततो नैकांतेनासतः प्रतिषेध इति सत एव परिणामस्य कथंचित्प्रतिषेधोपपत्तेः । सर्वथा नाभावः । स्यान्मतं, नास्ति परिणामोन्यानन्यत्वयोर्दोषादिति नोक्तत्वात् । उक्तमत्रोत्तरं, न वयं बीजादं कुरमन्यमेव मन्यामहे तदपरिणामत्वप्रसंगात् पदार्थतरवत् । नाप्यनन्यमेवांकुरभावानुषंगात् । किं तर्हि ? पर्यायार्थादेशाद्वीजा दंकुरमन्यमनुमन्यामहे द्रव्यार्थादेशादनन्यमिति पक्षांतरानुसरणाद्दोषाभावान्न परिणामाभावः । व्यवस्थिताव्यवस्थितदोषात्परिणामाभाव इति चेन्नानेकांतात् । न हि वयमंकुरे बीजं व्यवस्थितमेव ब्रूमहे विरोधादंकुर भावप्रसंगात् । नाप्यव्यवस्थितमेवांकुरस्य बीजपरिणामत्वाभावप्रसंगात् पदार्थांतर परिणामत्वाभाववत् । किं तर्हि ? स्याद्वीजं व्यवस्थितं स्यादवस्थितमंकुरे व्याकुर्महे । न चैकांतपक्षभावी दोषोऽनेकांतेष्वस्तीत्युक्तप्रायं । स्याद्वादिनां हि बीजशरीरादेरेव वनस्पतिकायिको बीजोंकुरादिः खशरीरपरिणाम भागभिमतो यथा कललशरीरे मनुष्यजीवोर्बुदादिखशरीरपरिणामभृदिति न पुनरन्यथा सः । तथा सति — मनुष्यनामकर्मायुषोरुदयात्प्रतिपद्यते । कललादिशरीरांगोपांगपर्यायरूपताम् ।। २९ । स जीवत्वमनुष्यत्वप्रमुखैरन्वयैर्यथा । व्यवस्थितः खकीयेषु परिणामेष्वशेषतः ॥ ३० ॥ कललादिभिः पुनः पूर्वैर्भावैः क्रमविवर्तिभिः । व्यतिरिक्तैः परत्रासौ न व्यवस्थित ईक्ष्यते ॥ तथा वनस्पतिर्जीवः स्वनामायुर्विशेषतः । वनस्पतित्वजीवत्वप्रमुखैरन्वयैः स्थितः ॥ ३२ ॥ स्वशरीरविवर्तेषु वीजादिषु परं न तु । पूर्वपूर्वेण भावेन तु स्थितः क्रमभाविनः ॥ ३३ ॥ । स्यान्मतं, न बीजमंकुरादित्वेन परिणमते वृद्ध्यभावप्रसंगात् यो हि यत्परिणामः स न ततो वृद्धि - मान् दृष्टो यथा पयःपरिणामो दध्यादिः बीजपरिणामश्चांकुरादिस्तस्मान्न ततो वृद्धिमान् इति बीजमात्रमंकुरादिः स्यादतत्परिणामो वेति । उक्तं च- " किं वान्यद्यदि तद्वीजं गच्छेदंकुरतामिह । विवृद्धिरंकुरस्य स्यात्कथं बीजादपुष्कलात् ॥” “यथेष्टं तै रसैः सोमैरौदकैश्च विवर्धते । तस्यैव सति बीजस्य परिणामो न युज्यते ॥” “आलिप्तं जतुना काष्ठं यथा स्थूलत्वमृच्छति । न तु काष्ठं तथैवास्ते जना विवर्धते ||” “तथैव यत्र तद्वीजमास्ते येनात्मना स्थितं । रसाश्च वृद्धिं कुर्वेति बीजं तत्र करोति किम् ॥” इति । तदेतदनालोचिततत्त्ववचनं, तद्वृद्धेरहेतुकत्वात् ॥ 1 यथा मनुष्यनामायुः कर्मोदय विशेषतः । जातो बालो मनुष्यात्मा स्तन्याद्याहारमाहरन् ॥ ३४ ॥ सूर्यातपादिसापेक्षः कायाग्निबलमादधन् । वीर्यंतराय विच्छेद विशेषविहितोद्भवं ।। ३५ ।। विवर्धते निजाहाररसादिपरिणामतः । निर्माणनामकर्मोपष्टंभादभ्यंतरादपि ॥ ३६ ॥ तथा वनस्पतिर्जीवः स्वायुर्नामोदये सति । जीवाश्रयोंकुरो जातो भौमादिरसमाहरन् ॥३७॥ तप्ताय स्पिडवत्तोयं स्वीकुर्वन्नेव वर्धते । आत्मानुरूपनिर्माणनामकर्मोदयाद्भुवम् ॥ ३८ ॥ Page #425 -------------------------------------------------------------------------- ________________ ४१६ तत्त्वार्थश्लोकवार्तिके [ सू० २२ ततो न वृद्ध्यभावोंकुरादेः । यदप्युक्तं, यो यत्परिणामश्च ततो न वृद्धिमान् दृष्टो यथा क्षीरपरिणामो दध्यादिर्न क्षीरादिति । तत्र हेतुः कालात्ययापदिष्टो धर्मिदृष्टांतग्राहकप्रमाणबाधितत्वात् । धर्मी तावद्वीजपरिणामोंकुरादिस्ततो वृद्धिमानेव प्रतिभासमानः कथं वावृद्धिमाननुमातुं शक्यः । दृष्टांतश्च शीतक्षीरस्य तप्यमानोन्यो न क्षीरपरिणामो धर्मोद्वर्तितदधिपरिणामो वा क्षीरावृद्धिमनुपलभ्यमानः कथं तद्वृद्ध्यभावसाध्ये निदर्शनं तत्परिणामत्वादित्यसिद्धं च साधनं च परिणामाभाववादिनः पराभ्युपगमात् । ' तत्सिद्धौ वृद्धिसिद्धिरपि तत एव स्यात् सर्वथा विशेषाभावात् । तन्न वृद्ध्यभावात् परिणामाभावः स्याद्वादिनां प्रति साधयितुं शक्यः परिणामाभावात् वृद्ध्यभावः सर्वथैकांतवादिनः प्रसिद्ध्यत्येव जन्माद्यभाववदिति निवेदितप्रायं । न हि नित्यकांते परिणामोस्ति, पूर्वाकारविनाशाजहद्वत्तोत्तराकारोत्पादानभ्युपगमात् स्थितिमात्रावस्थानात् । न च स्थितिमात्रं परिणामः तस्य पूर्वोत्तराकारपरित्यागोपादानभावस्थितिलक्षणत्वात् सदा स्थास्लोरात्मादेरर्थीतरभूतोतिशयः कुतश्चिदुपजायमानः परिणाम इति चेत् , स तस्येति कुतः ? तदाश्रयत्वादिति चेत्, कथमेकखभावमात्मादि वस्तु कदाचित्कस्यचिदतिशयस्याश्रयः कदाचित्त्वे सति संभाव्यते ? स्वभावविशेषादिति चेत्, तर्हि येन स्वभावविशेषेणाश्रयः कस्यचिद्भावो येन वानाश्रयः स ततोनांतरभूतश्चेत्तन्नित्यत्वैकांतविरोधः । स ततोर्थांतरभूतश्चेत्तस्येति कुतः? तदाश्रयत्वादिति चेत् , स एव पर्यनुयोगोनवस्था च । सुदूरमपि गत्वा तस्य कथंचिदन तरभूतखभावविशेषाभ्युपगमे कथं ततो तरभूतोतिशयः परिणामस्तदाश्रयः स्यात् । यो यथा यत्र यदा यातोतिशयस्तस्य तथा तत्र तदाश्रयो भाव इत्येवंरूपैकखभावत्वादात्मादिभावस्यादोष एवेति चेन्नानात्मादिभावपरिकल्पनात् विरोधः पृथिव्याद्यतिशयानामेकात्मातिशयत्वप्रसंगात् । शक्यं हि वक्तुमेक एवात्मैवंभूतं खभावं बिभात येन यथा यत्र यदा पृथिव्याद्यतिशयाः प्रभवंति तेषां तथा तत्र तदाश्रयो न भवतीति । तदतिशया एव ते पुनरन्यद्रव्यातिशय इति । द्रव्यांतराभावे कुतोतिशयाः स्युरात्मनीति चेत् , अति. शयांतरेभ्यः । एते चान्येपि परेभ्योतिशयेभ्य इत्यनाद्यतिशयपरंपराभ्युपगमादनुपालंभः । अस्त्येक एवात्मा पुरुषाद्वैताभ्युपगमादित्यपरः तस्यापि नात्मातिशयः परिणामो द्वैतप्रसंगात् । अनाद्यविद्योपदशिनः पुरुषस्यातिशयः परिणाम इति चेत्, तर्हि न वास्तवः परिणामः पुरुषाद्वैतवादिनोस्ति । योप्याह, प्रधानादर्थीतरभूत एव महदादेः परिणाम इति, सोप्ययुक्तवादी; सर्वथा प्रधानादभिन्नस्य महदादेः परिणामत्वविरोधात्वात्मप्रधानवत् तस्य वा परिणामित्वप्रसंगात् महदादिवत् । ततो न प्रधानं परिणामि घटते नित्यैकखभावत्वादात्मवत् । यदि पुनः प्रधानस्य महदादिरूपेणाविर्भावतिरोभावाभ्युपगमात् परिणामित्वमभिधीयते तदा स एव स्याद्वादिभिरभिधीयमानः परिणामो नान्यथेति नित्यत्वैकांतपक्षे परिणामाभावः । क्षणिकैकांतेपि क्षणादूर्ध्वस्थितेरभावात् परिणामाभावः । पूर्वक्षणे निरन्वयविनाशादुत्तरक्षणोत्पादः परिणाम इति चेत्, कस्य परिणामिन इति वक्तव्यं ? पूर्वक्षणस्यैवेति चेन्न, तस्यात्यंतविनाशात्तदपरिणामित्वाच्चिरंतनविशिष्टक्षणवत् । कार्यकारणभाव एव परिणामिभाव इति चेन्न, क्षणिकैकांते कार्यकारणभावस्य निरस्तत्वात् । क्रमयोगपद्यविरोधान्नित्यत्वैकांतवत् । संवृत्या कार्यकारणभावे तु न वास्तवः परिणामिभावः कयोश्चिदिति क्षणिकैकांतपक्षे परिणामाभावः सिद्धः । संवेदनाद्यद्वैते तु दूरो. त्सारित एव परिणाम इति सकलसर्वथैकांतवादिनां परिणामाभावाद्वद्ध्यभावो अपक्षयाद्यभाववदवतिष्ठते । स्याद्वादिनां पुनः परिणामप्रसिद्धेर्युक्ता कस्यचिद्वद्धिः । खकारणसन्निपातादपक्षयादिवत्तथा प्रतीतेर्वा बाधकाभावात् । परिणामो हि कश्चित् पूर्वपरिणामेन सदृशो यथा प्रदीपादेर्वालादिः, कश्चिद्विसदृशो यथा तस्यैव कजलादिः, कश्चित्सदृशासदृशो यथा सुवर्णस्य कटकादिः । तत्र पूर्वसंस्थानाद्यपरित्यागे Page #426 -------------------------------------------------------------------------- ________________ s पञ्चमोऽध्यायः । ४१७ सति परिणामाधिक्यं वृद्धिः । सदृशेतरपरिणामो यथा बालकस्य कुमारादिभावः । सदृश एवायमित्ययुक्तं, विसदृशप्रत्ययोत्पत्तेः । सर्वथा सादृश्ये बालकुमाराद्यवस्थयोः कुमाराद्यवस्थायामपि बालप्रत्ययोत्पत्तिप्रसंगात्, बालकावस्थायां वा कुमारादिप्रत्ययोत्पत्तिप्रसक्तेः । सर्वथा विसदृश एव बालकपरिणामात्कुमारादिपरिणाम इत्यपि न प्रातीतिकं, स एवायमिति प्रत्ययस्वभावात् । भ्रांतोसौ प्रत्यय इति चेन्न, बाधकाभावादात्मनि स एवाहं प्रत्ययवत् । सर्वत्र तस्य भ्रांतत्वोपगमे नैरात्म्यवादावलंबन प्रसंग: । न चासौ श्रेयान् वश्च सदृशेतर परिणामात्मनो वस्तुनः साधनात् प्रतीतिज्ञानस्याभेदप्रत्ययस्य वा प्रामाण्यव्यवस्थापनात् । ततो युक्तः सदृशेतरपरिणामात्मको वृद्धिपरिणामः । एतेनापक्षयपरिणामो व्याख्यातः । यथा स्थूलस्य कायादेः सदृशेतरप्रत्ययसद्भावात् सदृशेतरात्मक इति विसदृशपरिणामो जन्म तस्यापूर्वप्रादुर्भावलक्षणत्वात्, तथा विनाशः पूर्वविनाशस्यापूर्वप्रादुर्भावरूपत्वात् । तद्व्यतिरिक्तस्य विनाशस्याप्रतीतेः । नाभावोस्तीति प्रत्ययविषयत्वादिति चेत्, ततश्च भावखभावत्वे नीरूपत्वप्रसंगात् नास्तीति प्रत्ययविषयरूपसद्भावान्न नीरूपत्वमिति चेत्, तर्हि भावस्वभाव विनाशः स्वभावत्वादुत्पादवत् । प्रागभावेतरेतराभावात्यंताभावानामप्यनेनैव भावखभावता व्याख्याता । ननु च यथा स्वभाववत्त्वाविशेषेपि घटपटयोर्नानात्वं विशिष्टप्रत्ययविषयत्वात्तथा भावाभावयोरपि स्यादिति चेन्न घटत्वेन वा खभाववत्त्वस्यावाप्तत्वाद् घटस्य पटात्मकत्वासिद्धेः, पटस्य वा घटात्मकत्वानुपपत्तेः कथंचिन्नानात्वव्यवस्थितेः । भावात्मकत्वेन तु खभावत्वस्य व्याप्तिसिद्धेः सर्वत्र भावात्ममंतरेण खभावत्वाप्रसिद्धेरभावस्य । ततो भावात्मकत्वसिद्धेरप्रतिबंधनात् । तत्र विशिष्टप्रत्ययस्तु पर्यायविशेषादुपपद्यते एव घटे नवपुराणादिप्रत्ययवत् । यथैव घटो नवः पुराण इति विशिष्टप्रत्ययतामात्मसात्कुर्वन्नपि घटात्मतां जहाति तथा भावोस्ति नास्तीति विशिष्टप्रत्ययं विषयतां स्वीकुर्वन्नपि न भावत्वमविशेषात् । न चाभावो भावपर्याय एव न भवति सर्वदा भावपरतंत्रत्वादभावप्रसंगात् । न च सर्वदाभावपरतंत्रो नीलत्वादिर्भावधर्मो नाप्रसिद्धो येनाभावोपि तद्वद्भावधर्मो न स्यात् । न च सर्वदा भावपरतंत्रत्वमभावस्यासिद्धं, घटस्याभावः पटस्य चेत्येवं प्रतीतेः खतंत्रस्याभावस्य जातुचिदप्रतीतेः । अत एव भाववैलक्षण्यमभावस्येति चेन्न, नीलादिना व्यभिचारात् । नीलमिदमित्येवं नीलादेः स्वतंत्रस्य संप्रत्ययात्सर्वदा भावपरतंत्रे नीलत्वासिद्धेर्न तेन व्यभिचार इति चेत्, तर्हि तवाप्यसदिदमित्येवमभावस्य स्वतंत्रस्य निश्चयात् सर्वदा भावपारतंत्र्यं न सिद्ध्येत् इदमिति प्रतीयमानभाव विशेषणतयात्रासतः प्रतीतेरस्वतंत्रत्वे नीलादेरपि स्वतंत्रत्वं मा भूत्तत एव व्यवस्थापितप्रायं वा भावस्य भावस्वभावत्वमिति न प्रपंच्यते । यत्पुनरस्तित्वं विपरिणमनं च जातस्य सतस्तत्सदृशपरिणामात्मकं तत्र वैसादृश्यप्रत्ययानुत्पत्तेः । ननु च सर्वस्य वस्तुनः सदृशेतरपरिणामात्मकत्वे स्याद्वादिनां कथं कश्चित्सदृश परिणामात्मक एव कश्चिद्विसदृश परिणामात्मकः पर्यायो युज्यते इति चेत्, तथा पर्यायार्थिकप्राधान्यात् सादृश्यार्थप्राधान्याद्वैसादृश्यगुणभावात् सादृश्यात्मकोयं परिणाम इति मन्यामहे न पुनर्वैसादृश्यनिराकरणात् । तथा वैसादृश्यार्थप्राधान्यात्सादृश्यस्य सतोपि गुणभावाद्विसदृशात्मकोयं परिणाम इति व्यवहरामहे । तदुभयार्थ प्राधान्यात्तु सदृशेतर परिणामात्मक इति संगिराम तथा प्रतीतेः । ततोपि न कश्चिदुपालंभः, संकरव्यतिकरव्यतिरेकेणाविरुद्धखभावानां निःसंशयं तदतत्परिणामानां विनियतात्मनां जीवादिपदार्थेषु प्रसिद्धेः । सुखादिपर्यायेषु सत्त्वाद्यन्वय विवर्तसंदर्भोपलक्षितजन्मादिविकारविशेषवत् जीवादयो द्रव्यपदार्थाः सुखादयः पर्याया विनियततदतत्परिणामायत्तत्वविवर्तयितृविकारा' इत्यकलंकदेवैरप्यभिधानात् । ततो नावस्थितस्यैव द्रव्यस्य परिणामः, पूर्वापरखभावत्यागोपादानविरोधात् । तदप्यनवस्थितस्यैव सर्वथान्वयरहितस्य परिणमनाघटनादिति स्याद ५३ " Page #427 -------------------------------------------------------------------------- ________________ ४१८ तत्त्वार्थश्लोकवार्तिके [सू० २२ वस्थितस्य द्रव्यार्थादेशात् , स्यादनवस्थितस्य पर्यायार्थादेशादित्यादि सप्तभंगीभाक् परिणामो वेदितव्यः । सोयं परिणामः कालस्योपकारः, सकृत्सर्वपदार्थगस्य परिणामस्य बाह्य कारणमंतरेणानुपपत्तेर्वर्तनात् यत्तद्वाह्यं निमित्तं स कालः । ननु च कालस्य परिणामो यद्यस्ति तदासौ बाह्यान्यनिमित्तापेक्षं सन्निमित्तं परिणाममात्मसात्कुर्वदपरनिमित्तापेक्षमित्यनवस्था स्यात् । कालपरिणामस्य बाह्यनिमित्तानपेक्षत्वे पुद्गला. दिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । अथ कालस्य परिणामो नास्ति पूर्व परिणामिसत्त्वादिति । साधनमप्रयोजकं स्यात्तेन व्यभिचारात् । ततो न कालस्य परिणामोऽनुमापक इति कश्चित् । सोपि न विपश्चित् ; कालस्य सकलपरिणामनिमित्तत्वेन वपरिणामनिमित्तत्वसिद्धेः । सकलावगाहहेतुत्वेनाका. शस्य खावगाहहेतुवत् सर्वविदः सकलार्थसाक्षात्कारित्वेन खात्मसाक्षात्कारित्ववद्वान्यथा तदनुपपत्तेः । न चैवं पुद्गलादयः सकलपरिणामहेतवः, खपरिणामहेतुत्वेपि सकलपरिणामहेतुत्वाभावात् प्रतिनियतखपरिणामहेतुत्वात् । ये त्याहुः, नान्योन्यं परिणामयति भावान् नासौ स्वयं च परिणमते विविधपरिणामभाजां निमित्तमात्रं भवति काल इति । तेपि न कालस्यापरिणामित्वं प्रतिपन्नाः, सर्वस्य वस्तुनः परिणामित्वात् । न च स्वयं परिणमते इत्यनेन पुद्गलादिवत् महत्त्वादिपरिणामप्रतिषेधात् । न चासौ भावानन्योन्यं परिणमयतीत्यनेनापि तेषां स्वयं परिणममानानां कालस्य प्रधानकर्तृत्वप्रतिषेधात् । तस्यापि परिणामहेतुत्वं निमित्तमात्रं भवति काल इति वचनात् । ततः सर्वो वस्तुपरिणामो निमित्तद्रव्यहेतुक एवान्यथा तदनुपपत्तेरिति प्रतिपत्तव्यं । का पुनः क्रिया ? ॥ परिस्पंदात्मको द्रव्यपर्यायः संप्रतीयते । क्रिया देशांतरप्राप्तिहेतुर्गत्यादिभेदभृत् ॥ ३९ ॥ प्रयोगविस्रसोत्पादाद्वेधा संक्षेपतस्तु सा । प्रयोगजा पुनर्नानोत्क्षेपणादिप्रभेदतः ॥ ४० ॥ विस्रसोत्पत्तिका तेजोवातांभःप्रभृतिष्वियं । सर्वाप्यदृष्टवैचित्र्यात् प्राणिनां फलभागिनां ॥४१ क्रिया क्षणक्षयैकांते पदार्थानां न युज्यते । भूतिरूपापि वस्तुत्वहानेरेकांतनित्यवत् ॥ ४२ ॥ क्रमाक्रमप्रसिद्धेस्तु परिणामिनि वस्तुनि । प्रतीतिपदमापन्ना प्रमाणेन न वाध्यते ॥४३॥ . कथं पुनरेवं विधा क्रिया कालस्योपकारोस्तु यतस्तं गमयेत् कालमंतरेणानुपपद्यमानत्वात् परिणामवत् । तथाहि-सकृत्सर्वद्रव्यक्रिया बहिरंगसाधारणकारणा, कारणापेक्षकार्यत्वात् परिणामवत् सकृत्सवपदार्थगतिस्थित्यवगाहवद्वा यत्तद्वहिरंगसाधारणकारणं स कालोन्यासंभवात् । के पुनः परत्वापरत्वे ? विप्रकृष्टेतरदेशापेक्षाभ्यां प्रशस्तेतरापेक्षाभ्यां च परत्वापरत्वाभ्यामनेकांतप्रकरणात् अपरदिक्संबंधिनि निवेद्ये वृद्धलुब्धके परत्वप्रत्ययकारणं परत्वं, परदिक्संबंधिनि च प्रशस्ते कुमारतपखिन्यपरत्वप्रत्ययहेतुरपरत्वं न तद्धि गुणकृतं न वाहेतुकमिति तद्धेतुना विशिष्टेन भवितव्यं । स नः काल इति । काले तर्हि दिग्भेदगुणदोषानपेक्षे परत्वापरत्वे परः कालोऽपरः काल इति प्रत्ययविशेषनिमित्ते किं कृते स्यातामिति चेत् , अध्यारोपकृते गौणे इति केचित् । स्वहेतुके मुख्ये एवास्त्वन्यप्रत्ययसमधिगमत्वादित्यन्ये । न चैवं सर्वद्रव्येषु खहेतुके परत्वापरत्वे प्रसज्येते, निंबादौ खहेतुकस्य तिक्तत्वादेर्दर्शनादोदनादावपि तस्य स्खहेतुकत्वप्रसंगात् निंबादिसंस्कारानपेक्षत्वापत्तेः । व्यवहारकालस्य परिणामक्रियापरत्वापरत्वैरनुमेयत्वाच्च न मुख्यकालापेक्षया चोद्यमनवा । द्विविधो ह्यत्र कालो मुख्यो व्यवहाररूपश्च । तत्र मुख्यो वर्तनानुमेयः, परस्तु परिणामाद्यनुमेयः प्रतिपादितः सूत्रेऽन्यथा परिणामादिग्रहणानर्थक्यप्रसंगात् वर्तनाग्रहणेनैव पर्याप्तत्वात् । कः पुनरसौ मुख्यः कालो नाम ? ॥ लोकाकाशप्रभेदेषु कृत्स्नेष्वेकैकवृत्तितः । प्रतिप्रदेशमन्योन्यमबद्धाः परमाणवः ॥ ४४ ॥ Page #428 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। मुख्योपचारभेदैस्तेऽवयवैः परिवर्जिताः । निरंशा निष्क्रिया यसादवस्थानात्स्वदेशवत् ॥ ४५ अमूर्तास्तद्वदेवेष्टाः स्पर्शादिरहितत्वतः। कालाख्या मुख्यतो येस्तिकायेभ्योन्ये प्रकाशिता:४६ व्यवहारात्मकः कालः परिणामादिलक्षणः । कालवर्तनया लब्धकालाख्यस्तु ततोऽपरः ४७ कुतश्चित् परिच्छिन्नोऽन्यपरिच्छेदनकारणं । प्रस्थादिवत्प्रपत्तव्योन्योन्यापेक्षप्रभेदभृत् ॥४८॥ ततस्त्रैविध्यसिद्धिश्च तस्य भूतादिभेदतः । कथंचिन्नाविरुद्धा स्यात् व्यवहारानुरोधतः॥४९॥ यथा प्रतितरु प्राप्तप्राप्नुवत्प्राप्स्यदुच्यते । तरुपक्तिं क्रमादश्वप्रसृत्यनुसरन् मतं ॥ ५० ॥ तथावस्थितकालाणुश्च जीवाद्यनुसंगमात् । भूतं स्याद्वर्तमानं च भविष्यच्चाप्यपेक्षया ॥ ५१ ॥ भूतादिव्यवहारोतः कालः स्यादुपचारतः। परमार्थात्मनि मुख्यस्तु स स्यात् सांव्यवहारिके ५२ एवं प्रतिक्षणादित्यगतिप्रचयभेदतः । समयावलिकोच्छ्वासप्राणस्तोकलवात्मकः ॥ ५३॥ नालिकादेश्व विख्याते कालोनेकविधः सतां । मुख्यकालाविनाभूतां कालाख्यां प्रतिपद्यते५४ परापरचिरक्षिप्रक्रमाक्रमधियामपि । हेतुः स एव सर्वत्र वस्तुतो गुणतः स्मृतः ॥ ५५ ॥ क्रियैव काल इत्येतदनेनैवापसारितं । वर्तनानुमितः कालः सिद्धो हि परमार्थतः ॥५६॥ धर्मादिवर्गवत्कार्यविशेषव्यवसायतः । बाधकामावतश्चापि सर्वथा तत्र तत्त्वतः ॥ ५७॥ सांप्रतं सर्वेषां धर्मादीनामनुमेयार्थानामानुमानिकी प्रतिपत्तिः सूत्रसामर्थ्यादुपजाता प्रत्यक्षार्थप्रतीतिवन्न बाध्यत इत्युपसंहरन्नाह; एवं सर्वानुमेयार्था प्रतिपत्तिर्न बाध्यते । सूत्रसामर्थ्यतो जाता प्रत्यक्षार्थप्रतीतिवत् ॥ ५८ ॥ न हि धर्मास्तिकायाद्यनुमेयार्थप्रतिपत्तिरस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् । न संति धर्मादयोऽनुपलब्धेः खरशृंगवदित्याद्यनुमानेन वाध्यते इति चेन्न, तस्याप्रयोजकत्वात् । परचेतोवृत्त्यादिना व्यभिचारात् । दृश्यानुपलब्धिः पुनरत्रासिद्धैव सर्वथा धर्मादीनामस्मदादिभिः प्रत्यक्षतोनुपलभ्यत्वात् । कालात्ययापदिष्टश्च हेतुः प्रमाणभूतागमाबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । एवमबाधितप्रतीतिगोचरार्थप्रकाशिनः सूत्रकारादयः प्रेक्षावतां स्तोत्राओं इति स्तुवंति; निरस्तनिःशेषविपक्षसाधनैरजीवभावा निखिलाः प्रसाधिताः। प्रपंचतो पैरिह नीतिशालिभिर्जयंति ते विश्वविपश्चितंमताः ॥ ५९ ॥ इति पंचमस्याध्यायस्य प्रथममाह्निकम् । स्पर्शरसगंधवर्णवंतः पुद्गलाः ॥ २३ ॥ स्पर्शग्रहणमादौ विषयबलदर्शनात् । सर्वेषु हि विषयेषु रसादिषु स्पर्शस्य बलं दृश्यते स्पष्टग्राहिबिद्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तेः, सर्वसंसारिजीवग्रहणयोग्यत्वाच्चादौ स्पर्शस्य ग्रहणं । रसग्रहणमादौ प्रसज्यते विषयबलदर्शनात् स्पर्शसुखनिरुत्सुकेष्वपि रसव्यापारदर्शनादिति चेन्न, स्पर्शे सति तद्व्यापारात् । तत एवानंतरं रसवचनं, स्पर्शग्रहणानंतरभावि हि रसग्रहणं । रूपात्प्राग्गंधवचनमचाक्षुषत्वात् अंते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः । नित्ययोगे मतोर्बिधानात् क्षीरिणो न्यग्रोधा इत्यादिवत् स्पर्शादिसामान्यस्य नित्ययोगात्पुद्गलेषु ॥ अथ स्पर्शादिमंतः स्युः पुद्गला इति सूचनात् । क्षित्यादिजातिभेदानां प्रकल्पननिराकृतिः॥१ Page #429 -------------------------------------------------------------------------- ________________ ४२० तत्त्वार्थश्लोकवार्तिके [सू० २४ पृथिव्यप्तेजोवायवो हि पुद्गलद्रव्यस्य पर्यायाः स्पर्शादिमत्त्वात् ये न तत्पर्यायास्ते न स्पर्शादिमंतो दृष्टा यथाकाशादयः स्पर्शादिमंतश्च पृथिव्यादय इति तज्जातिभेदानां निराकरणं सिद्धं । नन्वयं पक्षाव्यापको हेतुः स्पर्शादिजले गंधस्याभावात्तेजसि गंधरसयोः वायौ गंधरसरूपाणामनुपलब्धेरिति ब्रुवाणं प्रत्याह; नाभावोऽन्यतमस्यापि स्पर्शादीनामदृष्टितः । तस्यानुमानसिद्धत्वात्स्वाभिप्रेतार्थतत्त्ववत् ॥२॥ । किमियं प्रत्यक्षनिवृत्तिरनुपलब्धिराहोस्वित्सकलप्रमाणनिवृत्तिः ? प्रथमा च चेत्ततः सलिलादिषु स्पर्शादीनामन्यतमस्याप्यभावः सिद्ध्येत् । खाभिप्रेतत्वेनातींद्रियेण धर्मादिनानेकांतात् । तस्यानुमानसिद्धत्वेप्सु गंधस्य, तेजसि गंधरसयोः, पवने गंधरसरूपाणामनुमानसिद्धत्वमस्तु । तथाहि-आपो गंधवत्यस्तेजो गंधरसवद्वायुः गंधरसरूपवान् स्पर्शवत्त्वात् पृथिवीवत् । कालात्ययापदिष्टो हेतु: प्रत्यक्षागमविरु. द्धपक्षनिर्देशानंतरं प्रयुक्तत्वात् तेजस्यनुष्णत्वे साध्ये द्रव्यत्ववदिति चेत् , न नाम रसादिष्वनुभूतरूपस्पर्शविशेषे साध्ये तैजसत्वहेतोः कालात्ययापदिष्टत्वप्रसंगात् । तत्रागमेन विरोधाभावात्तदभावप्रतिपादनान्न दोष इति चेत् , तत एवान्यत्र दोषो मा भूत् । स्याद्वादागमस्य प्रमाणत्वमसिद्धमिति चेन्न, तस्यैव प्रामाण्यसाधनात् । यौगागमस्यैव सर्वत्र दृष्टेष्टविरुद्धत्वेन प्रामाण्यानुपपत्तेः । युक्त्यनुगृहीतत्वेन चागमस्य प्रामाण्यमनुमन्यमानः कथमितरेतराश्रयदोषं परिहरेत् ? सिद्धे ह्यागमस्य तत्प्रतिपादकस्य प्रामाण्ये तत्र हेतोरतीतकालत्वाभावसिद्धिः तत्सिद्धौ च तदनुमानेनानुगृहीतस्य तदागमस्य प्रामाण्यसिद्धिरिति । स्याद्वादिनां तु सुनिश्चितासंभवबाधकप्रमाणत्वेनागमस्य प्रामाण्यसिद्धौ नायं दोषः । अत एव जलादिषु गंधाधभावसाधने सर्वस्य हेतोरतीतकालत्वं प्रत्येतव्यं, तस्य प्रमाणभूतजैनागमविरुद्धत्वात् । ततो न कालात्ययापदिष्टो हेतुः । नाप्यनैकांतिको विपक्षवृत्त्यभावात् । अन्वयाभावादगमक इति चेन्न, सर्वस्य केवलव्यतिरेकिणोऽप्रयोजकत्वप्रसंगात् साध्याविनाभावनियमनिश्चयात् । कस्यचित्प्रयोजकत्वे प्रकृतहेतोस्तत एव प्रयोजकत्वमस्तु । पुद्गलद्रव्यपर्यायत्वाभावे क्षित्यादीनां स्पर्शतत्त्वाभावनियमनिश्चयात् । एतेन सर्वप्रमाणानिवृत्तिरनुपलब्धिरसिद्धा न तोयादिषु गंधाद्यभावसाधनीत्युक्तं वेदितव्यं, प्रवचनस्यानुमानस्य च तद्भावावेदिनः प्रवृत्तेः ॥ शब्दबंधसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवंतश्च ॥ २४ ॥ पुद्गला इत्यनुवर्तते । तत्र शब्दादीनामभिहितनिर्वचनानां परिप्राप्तद्वंद्वानामेवाभिसंबंधः । शब्दो द्वेधा भाषालक्षणो विपरीतश्च । भाषात्मको द्वेधा अक्षरात्मको अनक्षरात्मकश्च । प्रथमः शास्त्राभिव्यंजकः संस्कृतादिभेदादार्यम्लेच्छव्यवहारहेतुः, अनक्षरात्मको द्वींद्रियादीनामतिशयज्ञानखरूपप्रतिपादनहेतुश्च । स एष प्रायोगिक एव । अभाषात्मको द्वेधा प्रयोगविस्रसानिमित्तत्वात् । तत्र प्रयोगनिमित्तश्चतुर्धा, ततादिभेदात् । चर्मतननात्ततः पुष्करादिप्रभवः, तंत्रीकृतो विततो वीणादिसमुद्भवः, कांस्यतालादिजो घनः, वंशादिनिमित्तः शौषिरः, विससानिमित्तः शब्दो मेघादिप्रभवः । बंधो द्विविधो विस्रसाप्रयोगभेदात् । विस्रसा बंधोऽनादिरादिमांश्च, प्रयोगबंधः पुनरादिमानेव पर्यायतः । सौम्यं द्विविधमत्यक्षमापेक्षिकं च । तथा स्थौल्यं संस्थानमित्थलक्षणं चतुरस्रादिकमनित्थंलक्षणं च अनियताकारं । भेदः षोढा उत्करश्चूर्णः खंडस्तूर्णिका प्रतरोनुचटनमिति । तमो दृष्टिप्रतिबंधकारणं केषांचित् । छाया प्रकाशावरणं । आतप उष्णप्रकाशलक्षणः । उद्योतश्चंद्रादिप्रकाशोनुष्णः । त एते शब्दादयः स्वरूपतो भेदतश्च सुप्रसिद्धा एव । कुतः पुनः पुद्गलाः शब्दादिमंतः सिद्धा इत्याह; Page #430 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । ४२१ प्रोक्ता शब्दादिमंतस्तु पुंगलाः स्कंधभेदतः । तथा प्रमाण सद्भावादन्यथातदभावतः ॥ १ ॥ न हि परमाणवः शब्दादिमंतः संति विरोधात् स्कंधस्यैव शब्दादिमत्तया प्रतीतेः । शब्दस्याकाशगुणत्वान्न तद्वान् पुद्गलस्कंध इत्येके, तस्यामूर्तद्रव्यत्वादित्यन्ये । तान् प्रत्याह; — न शब्दः खगुणो बाह्यकरणज्ञानगोचरः । सिद्धो गंधादिवन्नैव सोमूर्तद्रव्यमप्यतः ॥ २ ॥ न स्फोटात्मापि तस्यैव स्वभावस्याप्रतीतितः । शब्दात्मनस्सदा नानास्वभावस्यावभासनात् ३ अंतःप्रकाशरूपस्तु शब्दे स्फोटोपरे ध्वनेः । यथार्थगतिहेतुः स्यात्तथा गंधादितोपरः ॥ ४ ॥ गंधरूपरसस्पर्शः स्फोटः किं नोपगम्यते । तत्राक्षेपसमाधानसमत्वात्सर्वथार्थतः ॥ ५ ॥ नाकाशगुणः शब्दो बाचेंद्रियविषयत्वाद्धादिवदित्यत्र न हेतुर्व्यभिचारी विपक्षावृत्तित्वात् । पटाकाशसंयोगेन व्यभिचार इतिचेन्न, तस्याकाशगुणत्वैकांताभावात् तदुभयगुणत्वात् । तत्र बाचेंद्रियवि - षयत्वासिद्धेः संयोगिनो गगनस्यातींद्रियत्वात् । पटस्येंद्रियविषयत्वेपि तत्संयोगस्य तद्योगात् । तदुक्तमन्यैः । “द्वयसंबंधसंवित्तिर्नैकरूपप्रवेदनात् । द्वयवरूपग्रहणे सति संबंध वेदनं ॥” इति । एतेनैतदपि प्रत्युक्तं । यदुक्तं यौगैः-न स्पर्शवद्रव्यगुणः शब्दोऽस्मदादिप्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वादकारणगुणपूर्वकत्वाद्वा सुखादिवदिति, पक्षस्य प्रकृतानुमानबाधितत्वात् । शब्दस्य द्रव्यार्थादेशादयावद्रव्य - भावित्वासिद्धिः खरूपादिवत् । पर्यायार्थादेशादकारणगुणपूर्वत्वस्याप्यसिद्धिः शब्दपरिणतानां पुद्गलानामपरापरसदृशशब्दारंभकत्वात् । अन्यथा वक्तृदेशादन्यत्र शब्दस्याश्रवणप्रसंगात् । ननु च वक्रुव्यापारात्पुद्गलस्कंधः शब्दतया परिणमन्नेकोनेको वा परिणमेत् ? न तावदेकस्तस्य सकृत्सर्वदिक्षु गमनासंभवात् । यदि पुनर्यावद्भिः सर्वदिकैः श्रोतृभिः श्रूयते शब्दस्तावानेव वक्रूव्यापारनिष्पन्नः तच्छ्रोत्राभिमुखं गच्छतीति तैर्मतं, तदा सदृशशब्दकोलाहलश्रवणं श्रोतृजनस्य कुतो न भवेत् ? सर्वेषां शब्दानामेकैकश्रोतृग्राह्यत्वपरिणामाभावादिति चेत्, त कैकः शब्द एकैकश्रोतृग्राह्यत्वपरिणतः सर्वदिक्कं गच्छन्नेकैकेनैव श्रोत्रा श्रूयते इत्यायातं । तच्चायुक्तं, एकदिकेषु सप्रणिधिषु श्रोतृषु स्थितेष्वत्यासन्न श्रोतृश्रोत्रस्य परापरश्रोतृश्रवणविरोधात् । परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत्, स तर्हि परा - परशब्दः किं वक्रुव्यापारादेव प्रादुर्भवदाहोखित्पूर्व श्रोतृशब्दात् ! प्रथमपक्षे कथमसौ परापरैः श्रोतृभिः श्रूयमाणः पूर्वपूर्वैः सममाकाशश्रेणिस्थैरपि न श्रूयते इति महदाश्चर्य । न चैवं कारणगुणपूर्वकः शब्दः सिद्ध्येत् । द्वितीयविकल्पे पर्यंतस्थित श्रोतृश्रुतशब्दादपि शब्दांतरोत्पत्तिः कथं न भवेत् ? पुद्गलस्कंधस्य तदुपादानस्य सद्भावात् । वनृव्यापारजनितवायुविशेषस्य तत्सहकारिणस्तत्राभावादिति चेत्, तर्हि वायवीयः शब्दोस्तु किमपरेण पुद्गलविशेषेण तदुपादानेन कल्पितेनादृष्टकल्पनामात्रहेतुना किं कर्तव्यं, तथोपगमे स्वमतविरोधात् । ततः स्याद्वादिनो दुर्निवार इति कश्चित् । सोप्यनालोचितवचनः, शब्दस्य गगनगुणत्वेपि प्रतिपादितदोषस्य समानत्वात् । तथाहि - शंखमुखसंयोगादाकाशे शब्दः प्रादुर्भवन्नेक एव प्रादुर्भवेदनेको वा ? प्रथमपक्षे कुतस्तस्य नानादिकैः श्रोतृभिः श्रवणं ? सकृत्सर्वदिक्कगमनासंभवात् । अथानेकस्तदा शब्दकोलाहलश्रुतिप्रसंगः समानः शब्दस्यानेकस्य सकृदुत्पत्तेः, सर्वदिक्काशेषश्रोतृश्रूयमाणस्य तावद्वा भेदसिद्धेः । यदि पुनरेकैकस्यैव शब्दस्यैकैकश्रोतृग्राह्यस्वभावतयोत्पत्तेर्न समानशब्दकलकलश्रुतिरिति मतं, तदैकदिक्षु समानप्रणिधिषु श्रोतृषु प्रत्यासन्नतम श्रोतृश्रुतस्य शब्दस्यांत्यत्वाच्छब्दांतरा - रंभकत्वविरोधाच्छेषश्रोतॄणां तच्छ्रवणं न स्यात् । तस्यापरशब्दारंभकत्वे चांत्यत्वाव्यवस्थितिः । प्रत्यासन्नतम श्रोतृश्रवणमपि न भवेत् तद्भावे वाद्य एव शब्दः श्रूयते नांत्य इति सिद्धांतव्याघातः । अथ प्रत्या Page #431 -------------------------------------------------------------------------- ________________ ४२२ तत्त्वार्थश्लोकवार्तिके [सू० २४ सन्नतमश्रोतारं प्रत्यसौ शब्दोंत्यस्तेन श्रूयमाणत्वान्न प्रत्यासन्नतरं तेन तस्याश्रवणात् तेन च श्रूयमाणस्तमेव प्रत्यंतो न तु प्रत्यासन्नं प्रति । तत एव सोपि तमेव प्रत्यत्यो न दूरश्रोतारं प्रतीति मतिः; सापि न श्रेयसी, शब्दस्यैकस्यांत्यत्वानंत्यत्वविरोधात्तस्य निरंशत्वोपगमात् । अथ तस्यापि धर्मभेदोपगमाददोषः स तर्हि धर्मशब्दस्य जातिरेव भवितुमर्हति न गुणादिः शब्दस्य स्वयं गुणत्वात् तदाश्रयत्वासंभवात् । न च तदंत्यत्वं तदनंत्यत्वं वा जातिरेकव्यक्तिनिष्ठत्वात् जातेस्त्वनेकव्यक्तिवृत्तित्वात् । अथैकश्रोतृश्रवणयोग्यो- । नेकः शब्दोंत्योऽनंतश्चापरश्रोतृश्रवणयोग्योस्तीति मतं, तोद्योपि शब्दोत्यः स्यात् कस्यचिच्छ्रवणयोग्यत्वात् कर्णशः कुट्यंतःप्रविष्टमाकाशशब्दवत् कर्णघोषवद्वा । तथा चाद्यः शब्दो न श्रूयते इति सिद्धांतविरोधः । अथ न श्रवणयोग्यत्वादंत्यत्वं किं तर्हि ? आद्यापेक्षया शब्दांतरानारंभकत्वापेक्षया चेत्यभिमतिस्तदाद्यस्यांत्यत्वं तदंत्यस्यानंत्यत्वं कथमुपपद्यते ? येनैकस्यांत्यत्वमनंत्यत्वं च स्यात् । ततः सूक्तं प्रत्यासन्नतमश्रोतृश्रुतशब्दाच्छब्दांतरस्याप्रादुर्भावादेकदिक्कसप्रणिधिश्रोतृपंक्त्या शब्दश्रवणभावप्रसंग इति । स्यान्मतं, शंखमुखसंयोगादाकाशे बहवः शब्दाः समानाः प्रत्याकाशप्रदेशकदंबके शंखादुपजायते ते च पवनप्रेरिततरंगात्मवच्छब्दांतरानारभंते; ततो भिन्नदिक्कसप्रणिधिश्रोतृपंक्तेरिवैकदिक्कसप्रणिधिश्रोतृपंक्तेरपि प्रतिनियतसंततिपतितस्यैव शब्दस्य श्रवणमेकस्यैव च श्रोतुर्न पुनरन्यस्य यतो निगदितदोषः स्यादिति । तदप्यनालोचिताभिधानं शब्दसंततेः सर्वतोपर्यंततापत्तेः । समवायिकारणस्य गगनस्यासमवायिकारणस्य च शब्दस्य शब्दांतरोत्पत्तिहेतोः सद्भावात् शंखमुखसंयोगजपवनाकाशसंयोगस्य शब्दकारणस्याभावान्नांत्याभिमतः शब्दः शब्दांतरमारभते यतः शब्दसंततिपर्यंतता स्यादिति चेत् , तर्हि वायवीयः शब्दोस्तु किमाकाशेन समवायिना कल्पितेनेति मतांतरं स्यात् । शब्दाच्छब्दोत्पत्तिर्न स्यात्तस्यापि पवनसंयोगजत्वात् । सत्येवाकाशे शब्दस्योत्पत्तिस्तत्समवायिकारणं न तत्प्रतिषेधहेतवो गमकाः स्युर्बाधितविषयस्वादिति मतं, तदा शब्दः स्पर्शवद्र्व्यपर्यायो बायेंद्रियप्रत्यक्षत्वात्स्पर्शादिवदित्यनुमानात्तस्य पुद्गलपर्यायत्वे सिद्धे तत्प्रतिषेधहेतवोनुमानवाधितविषयत्वादेव गमकाः कथमुपपद्येरन् ? । एतेन यदुक्तं सौगतैःएकद्रव्याश्रितः शब्दः सामान्यविशेषवत्त्वे सति बाखैकेंद्रियप्रत्यक्षत्वाद्रूपवदिति । तदपि प्रत्याख्यातं, पुद्गलस्कंधस्यैकद्रव्यस्य शब्दाश्रयत्वोपपत्तेः सिद्धसाधनत्वात् । गगनाश्रयत्वे साध्ये साध्यविकलो दृष्टांत, स्याद्धेतुश्च विरुद्धः । तथाहि-स्पर्शवदेकद्रव्याश्रितः शब्दः सामान्यविशेषवत्त्वे सति बाखैकेंद्रियप्रत्यक्षत्वात् रूपादिवत् । न च हेतोरात्मना व्यभिचारस्तस्यांतःकरणप्रत्यक्षत्वात् । नापि घटादिना तस्य बायेंद्रियप्रत्यक्षत्वात् चंगुलसंयोगस्यानेकद्रव्याश्रितस्य स्पर्शनेन च साक्षात्करणात् । ततः सूक्तं-न शब्दः खगुणो बायेंद्रियप्रत्यक्षत्वात् गंधादिवदिति तस्य पुद्गलपर्यायत्वव्यवस्थितेः । तथा नामूर्तिद्रव्यं शब्दः बाडेंद्रियप्रत्यक्षात् घटादिवत् । न नभसा व्यभिचारः साधनस्य, नभसो बाडेंद्रियाप्रत्यक्षत्वात् । ननु च शुषिरस्य चक्षुषा स्पर्शनेन च साक्षात्करणाद्यच्छुषिरं तदाकाशमिति वचनाद्वायेंद्रियप्रत्यक्षमेवाकाशं तस्येदंतया प्ररूपणादिति चेत् ; नैतत्सत्यं, शुषिरस्य घनद्रव्याभावरूपत्वादुपचारतस्तत्राकाशव्यपदेशाद् घनद्रव्याभावस्य च द्रव्यांतरसद्भावरूपत्वात् । तत्र चक्षुषः स्पर्शनस्य च व्यापारात् । परमार्थतस्तत्प्रत्यक्षत्वाभावान्नभसः । तथाहि-नभो न बाडेंद्रियप्रत्यक्षममूर्तद्रव्यत्वादात्मादिवत् यत्तु बायंद्रियप्रत्यक्षं तन्नामूर्तद्रव्यं यथा घटादिद्रव्यं इति न नभसा व्यभिचारी हेतुः । स्यादाकूतं ते, अमूर्तद्रव्यं शब्दः परममहत्त्वाश्रयत्वादाकाशवदित्यनुमानबाधितः पक्ष इति । तदसम्यक्; परममहत्त्वाश्रयत्वस्यासिद्धत्वात् । तथाहि-न परममहान् शब्दः अस्मदादिशब्दत्वात् पटादिवत् । नापि मानसप्रत्यक्षेण नभसा, तस्यास्मदादिमनःप्रत्यक्षत्वासिद्धेः । संव्यवहारतोनिंद्रियप्रत्यक्षस्य स्वसंवेदनस्य सुखादिप्रतिभासिनश्चक्षुरादिपरिच्छि Page #432 -------------------------------------------------------------------------- ________________ • पञ्चमोऽध्यायः । ४२३ न्नार्थस्मरणस्य च विशदस्याभ्युपगमात् । गगनादिष्वतींद्रियेषु मानसप्रत्यक्षानवगमात् । न चैवं मतिज्ञानस्य सर्वद्रव्यविषयत्ववचनं विरुध्यते, गगनादीनामतींद्रियद्रव्याणां खार्थानुमानमतिविषयत्वाभ्युपगमात् । अस्मदादिप्रत्यक्षया सत्तयानेकांत इत्यपि न स्याद्वादिना क्षम्यते, सत्तायाः सर्वथा परममहत्त्वाभावात् । परममहतो द्रव्यस्य नभसः सत्ता हि परममहती नासर्वगतद्रव्यादिसत्ता । न च नभसः सत्तास्मदादिप्रत्यक्षा ततो न तया व्यभिचारः । न च सकलद्रव्यपर्यायव्यापिन्येकैव सत्ता प्रसिद्धा, तस्यास्तथोपचारतः प्रतिपादनात् । परमार्थतस्तदेकत्वे विश्वरूपत्वविरोधात् । सत्प्रत्ययाविशेषादे कैव सत्तेति चेन्न, सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वात् संयुक्तप्रत्ययाविशेषवत् । अत्रान्ये प्राहुः - : --न द्रव्यं शब्दः किं तर्हि ? गुणः प्रतिषिद्धमानद्रव्यकर्मत्वे सति सत्त्वाद्रूपवत् । शब्दो न द्रव्यमनित्यत्वे सत्यस्मदाद्यचाक्षुषप्रत्यक्षत्वात् । शब्दो न कर्माचाक्षुषप्रत्यक्षत्वाद्रसवदिति । तदयुक्तं ; ( मीमांसकान् प्रति ) तेषां वायुनास्मदाद्यचाक्षुषप्रत्यक्षत्वस्य व्यभिचाराद्वायोरस्मदादिप्रत्यक्षत्वात् । अनित्यत्वविशेषणस्य चापसिद्धत्वात् द्रव्यत्वप्रतिषेधानुपपत्तेः । कर्मत्वप्रतिषेघनस्य चाक्षुषप्रत्यक्षत्वस्य वायुकर्मणानैकांतिकत्वात् । द्रव्यं शब्दः क्रियावत्त्वाद्वाणादिवदित्यपरे । ते यदि स्याद्वादमनासृत्याचक्षते तदापसिद्धांतः शब्दस्य पर्यायतया प्रवचने निरूपणादन्यथा पुद्गलानां शब्दवत्त्वविरोधात् । द्रव्यार्थादेशाद्रव्यं शब्दः पुद्गलद्रव्याभेदादिति चेत्, किमेवं गंधादिरपि द्रव्यं न स्यात् ? गंधादयो गुणा एव द्रव्याश्रितत्वात् निर्गुणत्वाच्च 'द्रव्याश्रया निर्गुणा गुणा' इति वचनान्निष्क्रियत्वाच्चेति चेत्, शब्दस्तत एव गुणोस्तु । सहभावित्वाभावान्न गुण इति चेत्, कथं रूपादिविशेषास्तत एव गुणा भवेयुः । सामान्यार्पणात्तेषां सहभावित्वात् पुद्गलद्रव्येण तद्गुणास्ते इति चेत्, शब्द समवायिकारणमस्तु भवत एव पृथिवीद्रव्याभावे सत्यप्याकाशे गंधस्यानुत्पत्तेः पृथिवी द्रव्यमेव तत्समवायिकारणमाकाशं तु निमित्तमिति चेत्, तर्हि वायुद्रव्यस्याभावे शब्दस्यानुत्पत्तेः तदेव तस्य समवायिकारणमस्तु गगनं तु निमित्तमात्रं तस्य सर्वोत्पत्तिमतामुत्पत्तौ निमित्तकारणत्वोपगमात् । पवनद्रव्याभावेपि भेरी दंडसंयोगाच्छब्दस्योत्पत्तेर्न पवनद्रव्यं तत्समवायि पृथिव्यप्तेजोद्रव्यवदिति चेत्, तर्हि शब्दपरिणामयोग्यं पुद्गलद्रव्यं शब्दस्योपादानकारणमस्तु वाय्वादेरनियततया तत्सहकारित्वसिद्धेः । कुतस्तत्सिद्धिरिति चेत् पृथिव्यादेः कुतः ? प्रतिविशिष्टस्पर्शरूपरसगंधानामुपलंभात्पृथिव्याः सिद्धिः, स्पर्शरूपरस विशेषाणामुपलब्धेरपां, स्पर्शरूपविशेषयोरुपलब्धेस्तेजसः, स्पर्शविशेषस्योपलंभाद्वायोः । स्वाश्रयद्रव्याभावे तदनुपपत्तेरिति चेत्, तर्हि शब्दस्य पृथिव्यादिष्वसंभविनः स्फुटमुपलंभात्तदाश्रयद्रव्यस्य भाषावर्गणापुद्गलस्य प्रसिद्धिरन्यथा तदनुपपत्तेः । न च परमाणुरूपः पुद्गलः शब्दस्याश्रयोस्मदादिवाचेंद्रियग्राह्यत्वात् छायातपादिवत् । स्कंधरूपस्तु स्यादिति सूक्ष्मशब्दगुणात्मकेभ्यः सूक्ष्मभाषावर्गणापुद्गलेभ्योस्मदा दिवालेंद्रियग्राह्यपुद्गलस्कंधात्मा शब्दः प्रादुर्भवन् कारणगुणपूर्वक एव पटरूपादिवत् । ततोऽकारण पूर्वकत्वादित्यसिद्धो हेतुरयावद्द्रव्यभावित्वादिवत् । कश्चिदाह-अकारणगुणपूर्वकः शब्दोऽस्पर्शद्रव्यगुणत्वात् सुखादिवदिति; तस्यापि परस्पराश्रयः । सिद्धे ह्यकारणगुणपूर्वकत्वे शब्दस्यास्पर्शवद्रव्यगुणत्वं सिद्ध्येत् तत्सिद्धौ वाकारणगुणपूर्वकत्वमिति । तथा नाकारणगुणपूर्वकः शब्दोस्मदादिबाझेंद्रिय ज्ञानपरिच्छेद्यत्वे सति गुणत्वात् घटरूपादिवदित्यनुमानविरुद्धश्च पक्षः स्यात् । न ह्यत्र हेतोः परमाणुरूपादिना व्यभिचारः सुखादिना वा, बायेंद्रियज्ञानपरिच्छेद्यत्वे सतीति विशेषणात् । तथापि योगिबालेंद्रियप्रत्यक्षेण परमाणुरूपादिनानेकांत इति न शंकनीयमस्मदादिग्रहणात् । पृथिवीत्वादिसामान्येनानित्यद्रव्यविशेषेण समवायेन कर्मणा वा व्यभिचार इत्यपि न मंतव्यं, गुणत्वादिति वचनात् । न चैवं स्याद्वादिनामपसिद्धांतः शब्दस्य पर्यायत्ववचनात् पर्या " Page #433 -------------------------------------------------------------------------- ________________ ४२४ तत्त्वार्थश्लोकवार्तिके [सू० २४ यस्य च गुणत्वात् । तथा चाहुरकलंक देवाः, 'शब्दः पुद्गलपर्यायः स्कंधः छायातपादिवदिति । स्यान्मतं, न शब्दः न पुद्गलस्कंधपर्यायोऽस्मदाद्यनुपलभ्यमानस्पर्शरूपरसगंधा श्रयत्वात्सुखादिवदिति । तदसत्, द्व्यणुकादिरूपादिना हेतोर्व्यभिचारात् । शब्दाश्रयत्वेस्मदाद्यनुपलभ्यमानानामप्यनुद्भूततया स्पर्शादीनां सद्भावसाधनात् । गंधाश्रयत्वे स्पर्शरूपरसवत् । गंधो हि कस्तूरिकादेर्गंधद्रव्याद्दूरे गंधं समुपलभ्यमाने घ्राणेंद्रिये संप्राप्तः खाश्रयद्रव्यरहितः न संभवति, गुणत्वाभावप्रसंगात् । नापि तदाश्रयद्रव्यमस्मदादिभिरुपलभ्यमानस्पर्शरूपरसं । न च तत्रानुभूतवृत्तयः स्पर्शरूपरसा न संति पार्थिवेष्यविरोधात् । यथा वायोरनुपलभ्यमानरूपरसगंधस्य तेजसश्चानुपलभ्यमानरसगंधस्य सलिलस्य चानुपलभ्यमानगंधस्य पर्या........... गगं स्पर्शरूपरसगंधाः प्रसिद्धास्तथानुपलभ्यमानस्पर्शरूपरसगंधस्यापि भाषावर्गणापुद्गलस्य पर्यायः शब्दो निस्संदेहं प्रसिद्ध्यत्येव । कथमन्यथैवमाचक्षाणः प्रतिक्षिप्यते परैः । न वायुगुणोनुष्णाशीतस्पर्शोपाकजः उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानरूपरसगंधाश्रयत्वात्सुखादिवत् । तथा न भासुररूपोपण स्पर्शस्तेजोद्रव्यगुण उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात् तद्वत् । तथा न शीतस्पर्शनीलरूपमधुररसाः सलिलगुणाः उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात्तद्वदेवेति । यदि पुनः स्पर्शादयो द्रव्याश्रया एव गुणत्वात्सुखादिवत् यत्तद्रव्यं तदाश्रयः स वायुरनलः सलिलं क्षितिरित्यनुमानसिद्धत्वात्स्पर्शविशेषादीनां वाय्वादिगुणत्वस्य सामान्यार्पणया किं न भाषावर्गणपुद्गलद्रव्येण सहभावीष्टो येन तद्गुणो न स्यात् । विशेषार्पणात् यथा रूपादयः पर्यायास्तथा शब्दोपि पुद्गपर्याय इति कथमसौ द्रव्यं स्यात् ? षड्द्रव्यप्रतिज्ञानविरोधाच्च । शब्दद्रव्यस्य पृथिव्यादिवत्पुद्गलद्रव्येंतर्भावान्न तद्विरोध इति चेत्, गंधद्रव्यादीनामपि तद्वत्तत्रांतर्भावात्तद्विरोधासिद्धेर्गुणत्वं किमभिधीयते ज्ञानादीनां च द्रव्यत्वमस्तु जीवद्रव्येंतर्भावत्वाप्रसक्तेः द्रव्यसंख्यानियमाविघातात् । तथा च न कश्चिद्गुण इति द्रव्यस्याप्यभावः तस्य गुणवत्त्वलक्षणत्वात् । ततो द्रव्यगुणपर्यायव्यवस्थामिच्छता ज्ञानादिरूपादीनामिव शब्दस्य सहभाविनो गुणत्वं क्रमभुवस्तु पर्यायत्वमभ्युपगंतव्यं । क्रियावत्त्वं च शब्दस्यासिद्धं गंधादिवत् तदाश्रयस्य पुद्गलद्रव्यस्य क्रियावत्त्वोपचारात् । स्यान्मतं, न शब्दपर्यायः श्रोत्रग्राह्यो द्रव्यं साध्यते किं तु तदाश्रयः पुद्गलविशेष इति, तर्हि क्रियावद्रव्यपर्यायः शब्दः परमार्थतः साध्यः । स्यादाकूतं ते; न द्रव्यं शब्दः साध्यते, नापि सर्वथा पर्यायं । किं तर्हि ? द्रव्यपर्यायात्मा, ततो न कश्चिद्दोषः क्रियावत्त्वस्य हेतोरपिं परमार्थतस्तत्र सिद्धेः अनुवातप्रतिवाततिर्यग्वातेषु शब्दस्य प्रतिपत्त्यप्रतिपत्तीषत्प्रतिपत्तिदर्शनात् क्रियाक्रियावत्त्वसाधनादिति । किमेवं गंधादिर्द्रव्यपर्यायात्मा न साध्यते ? ' द्रव्यपर्यायात्मार्थ' इत्यकलंकदेवैरभिधानात् स्पर्शादीनां चेंद्रियार्थत्वकथनात्, स्पर्शरसरूपगंधशब्दास्तदर्था इति सूत्रसद्भाव पर्यायार्थप्राधान्यात् पर्याय एव गंधादयः शब्दस्तथा किमपर्यायः शब्दो ! द्रव्यार्थादेशात् द्रव्यमिति चेत्, तर्हि तथा विशेषणं कर्तव्यं । स्याद्द्रव्यं शब्द इति तदप्रयुक्तमपि वा तत्रैषितव्यं । ततो नैकांतेन द्रव्यं शब्दः स्याद्वादिनां सिद्धो यतस्तस्य द्रव्यत्वप्रतिषेधेपसिद्धांतः तस्यामूर्तद्रव्यत्वप्रतिषेधाद्वा न दोषः कश्चिदवतरति । कश्चिदाह-स्फोटोऽर्थप्रतिपत्तिहेतुर्न ध्वनयस्तेषां प्रत्येकं समुदितानां वार्थप्रतिपत्तिनिमित्ततानुपपत्तेः । देवदत्तादिवाक्ये दकारोच्चारणादेव तदर्थप्रतिपत्तौ शेषशब्दोच्चारणवैयर्थ्यान्न प्रत्येकं तन्निमित्तत्वं युक्तं, दकारस्य वाक्यांतरेपि दर्शनात् । संशयनिरासार्थं शब्दांतरोच्चारणमुचितमेवेति चेन्न, आवृत्त्या वाक्यार्थप्रतिपत्तिप्रसंगात् । वर्णातरेपि तस्यैवार्थस्य प्रतिपादनात् । न च समुदितानामेव वाक्यार्थप्रतिपत्तिहेतुत्वं प्रतिक्षणं विनाशित्वे समुदायासंभवात् । कल्पितस्य तत्समुदायस्य तद्धेतुत्वेतिप्रसंगात् । नित्यत्वाद्वर्णानां समुदायः संभवतीति चेत् न, अभिव्यक्तानां तेषां क्रमवृत्तित्वात्तदभिव्यंजकवायूनामनि Page #434 -------------------------------------------------------------------------- ________________ . पञ्चमोऽध्यायः । त्यत्वात् क्रमभावित्वात् क्रमशस्तदभिव्यक्तिसिद्धेः । तेषामनभिव्यक्तानामर्थप्रतिपत्तिहेतुत्वे तदभिव्यंजकव्यापारवैयर्थ्यादतिप्रसंगाच्च । तत एवाभिव्यक्तानभिव्यक्तशब्दसमूहादर्थप्रतिपत्तिरिति प्रतिव्यूढं । पूर्वपूर्ववर्णज्ञानाहितसंस्कारापेक्षादत्यवर्णश्रवणाद्वाक्यार्थप्रतिपत्तिरिति चेन्न तत्संस्काराणामनित्यत्वेंत्यवर्णश्रवण ४२५ काले सत्त्वविरोधादसत्तोपेक्षानुपपत्तेः । कल्पनारोपित संस्कारापेक्षायां कल्पनारोपितादेव वाक्यार्थप्रतिपतिप्रसंगात् तत्संस्काराणां कालांतरस्थायित्वेंत्यवर्णश्रवणाहितसंस्कारस्य पूर्ववर्णश्रवणा हितसंस्कारैः सहाप्रतिपत्तिहेतुत्वमिति तत्संस्कारसमूहोऽर्थप्रतिपत्तिहेतुर्न शब्द इत्यायातं । न चैतद्युक्तं, वर्णश्रवणाहितसंस्कारेभ्यो वर्णस्मरणमात्रस्यैवोपपत्तेः पदश्रवणाहितसंस्कारेभ्यः पदस्मरणमात्रवत् । अथ संकेतबलो - पजातपदाभिधेयज्ञानाहित संस्कारेभ्योर्थप्रतिपत्तिरिष्यते तथा हि पदार्थप्रतिपत्तिरेव स्यान्न वाक्यार्थप्रतिपत्तिः । न च पदार्थसमुदायप्रतिपत्तिरेव वाक्यार्थप्रतिपत्तिरिति युक्तं, वर्णार्थसमुदायप्रतिपत्तेरेव पदार्थप्रतिपत्तिरूपत्वप्रसंगात् । न च वर्णानामर्थवत्त्वाभावे पदस्यार्थवत्त्वं घटते, तस्य प्रकृतिप्रत्ययादिसमुदायात्मकत्वात् प्रकृत्यादीनां च अर्थवत्त्वोपगमात् । यदि पुनः प्रकृत्यादयः स्वार्थापेक्षयार्थवंतोपि पदार्थापेक्षया निरर्थका एवेति मतं तदा पदान्यपि स्वाभिधेयापेक्षयार्थवत्यपि वाक्यार्थापेक्षया निरर्थकानि किं न भवेयुः ? तदुक्तं - " ब्राह्मण्यार्थे यदा नास्ति कश्चिद्ब्राह्मण्यकंवले । देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥” इति । तथा च न पदार्थसमुदाय एव वाक्यस्यार्थस्तस्य ततोन्यत्वादेकत्वे प्रतीयमानत्वादभ्यं जनक्रियादेर्देवदत्तादिवाक्यार्थत्वात् । न च तस्य वर्णेभ्य इव पदेभ्योपि विप्रतिपत्तिः संभवतीति तत्प्रतिपत्तिहेतुर्वर्णपदव्यतिरिक्तः कश्चिद्वस्त्वात्माभ्युपगंतव्यः । स च स्फोट एव, स्फुटत्यर्थोऽस्मादिति स्फोट इति तस्यैकरूपता पुनरेकाकारप्रतिभासादवसीयते नानाकारेभ्यो हेतुभ्यस्तदयोगादहेतुकत्वप्रसंगादिति । सोप्ययं स्फोटवादी प्रष्टव्यः, किमयं स्फोटः शब्दात्मकोऽशब्दात्मको वा ? इति । न ताव - दाद्यः पक्षः श्रेयान् ; तस्य स्फोटस्य शब्दात्मनः सदैकस्वभावस्याप्रतीतेः वर्णपदात्मनो नानास्वभावस्या - वभासनात्, वर्णपदेभ्यो भिन्नस्यैकस्वभावस्यैव शब्दस्य श्रोत्रबुद्धौ प्रतिभासनादसिद्धा स्वभावानुपलब्धिः । स्वभावविरुद्धोपलब्धिर्वा न स्फोटाभावसाधनीति चेत् न, तस्य वर्णपदश्रवणकाले पश्चाद्वा प्रतिभासाभावात् । स हि यदि तावदाख्यातशब्दः प्रतिभासन एव वाक्यात्मा तदा नैकखभावोऽनेकवर्णात्मकत्वात् । भिन्न एवाख्यातशब्दोऽभ्याजेत्यादिवर्णेभ्य इत्ययुक्तं, तथा प्रतीत्यभावात् । वर्णव्यंग्योंत्यवर्णश्रवणानंतरमेकः प्रतीयत एवेति चेन्न, वर्णानां प्रत्येकं समुदितानां वा स्फोटाभिव्यक्तौ हेतुत्वाघटनादर्थप्रतिपत्ताविव सर्वथा विशेषाभावात् । यदि पुनः कथंचिद्वर्णाः स्फोटाभिव्यक्तिहेतवः स्युस्तदा तथैवार्थप्रतिपत्तिहेतवः संतु किमनया परंपरया ? वर्णेभ्यः स्फोट स्याभिव्यक्तिस्ततोभिव्यक्तादर्थप्रतिपत्तिरिति कथंचिदव्यतिरिक्तः स्फोटो वर्णेभ्य इति तस्य श्रोत्रबुद्धौ प्रतिभासनोपगमे कथमेकानेकखभावोसौ न स्यात् ? सुखदुःखादिपर्यायात्मकात्मवत् । नवपुराणादिविशेषात्मकत्वसंबंधात् । भाषावर्गणापुद्गलद्रव्यं हि खसहकारिविशेषवशादकाररूपतामासाद्य भकारादिरूपता मासादयत् क्रमशः प्रतिनियतवक्तृविशेषादिरभ्याजेत्यादिराख्यातशब्दः प्रतिभासते न चासौ वाक्यं देवदत्तादिपदनिरपेक्षस्तदुच्चारवैयर्थ्यापत्तेः । सत्तापक्षस्य वाक्यत्वे देवदत्त गामभ्याज शुक्लां दंडेनेत्यादि कथंचित्पदात्मकं वाक्यमेकानेकस्वभावमाख्यातशब्दवदभिधातव्यं, तन्निराकृतौ क्षणक्षयैकतावलंबनप्रसंगात् । क्रमभुवां केषांचिद्वर्णानां वास्तवैकपदत्वाभावे क्षणिकवर्णभागानामपि पारमार्थिकैकवर्णत्वासिद्धेस्तथोपगमे वांतर्बहिश्चात्मनो घटादेश्व क्रमभाव्य नेकपर्यायात्मकस्याभावानुषंगात् । ततस्तद्भावमभ्युपगच्छता क्षणिकानेक क्रमवृत्तिवर्णभागात्मकमेकं वर्णमभ्युपेयं, तद्वदनेकक्रमवत्सवर्णात्मकमेकं पदं तादृशानेकपदात्मकं च वाक्यमेषितव्यं । ततो नाख्यातशब्दो ५४ - Page #435 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० २४ वाक्यात्मैकस्वभाव एव कथंचिदनेकस्वभावस्य तस्य प्रतीतेः । एतेन पदमाद्यमंत्यं चान्यद्वा पदांतरापेक्षं वाक्यमेकस्वभावमिति निरस्तं, तस्याप्याख्यातशब्दवत्कथंचिदनेकस्वभावस्य प्रतिभासनात् । एकोनवयवः शब्दो वाक्यमित्ययुक्तं, तस्य सावयवस्य प्रतिभासनात् । तस्य चावयवेभ्यो नर्थांतरत्वेऽनेकत्वमेव स्यात्, तदर्थीतरत्वे संबंधासिद्धिः उपकारकल्पनायां वाक्यस्यावयव कार्यत्वप्रसंगस्तैरुपकार्यत्वादवयवानां वा वाक्यकार्यता तेनोपक्रियमाणत्वात् उपकारस्य ततोर्थीतरत्वे संबंधासिद्धिरनुपकारात् तदुपकारांतरकल्पनायामनवस्थाप्रसंग इति वाक्यतदवयवाभेदभेदैकांतवादिनामुपालंभः । स्याद्वादिनां यथाप्रतीति कथंचित्तदभेदोपगमात् एकानेकाकारप्रतीतेरेका नेकात्मकस्य जात्यंतरस्य व्यवस्थितेः । न हि वाक्यश्रवणानंतरमनेकाकारप्रतीतिवत्सर्वदा सर्वत्र सद्भावप्रसंगात् । नापि वर्णपदमात्र हेतुका तदाकारत्वप्रसंगा - पदप्रतीतिवत् । ततो वाक्याकारपरिणतशब्दद्रव्यहेतुका वाक्यप्रतीतिवच्च तथा परिणतशब्दद्रव्यमेकानेकाकारं परमार्थतः सिद्धं बाधकाभावात् । कथं नानाभाषावर्गणापुद्गलपरिणामवर्णानामेकद्रव्यत्वमिति चेत्, तत्रोपचारान्नानाद्रव्यादिसंतानवत् । किं पुनस्तदनेकत्वोपचारनिमित्तमिति चेत्, तथा सदृशपरिणाम एव तद्वत् वर्णक्रमो वाक्यमित्यपरः । सोपि वर्णेभ्यो भिन्नमेकखभावं क्रमं यदि ब्रूयात्तदा प्रतीतिविरोधः तस्य श्रोत्रबुद्धावप्रतिभासनात् । तत्संबंधानुपपत्तेश्चानवयववाक्यवत् । वर्णेभ्योनतरत्ववत् क्रमस्य वर्णा एव न कश्चित्क्रमः स्यात् । सत्यमेतदेवं, यावंतो यादृशा ये च पदार्थप्रतिपाद वर्णा विज्ञातसामर्थ्यास्ते तथैव बोधका इति वचनात् ततोन्यस्य वाक्यस्य निराकरणादितीतरः । सोपि यदि वर्णानां क्रमं प्रत्याचक्षीत तदाग्निष्टोमेन यजेत स्वर्गकाम इत्याकारादयो ये यावंतश्च वर्णाः खेष्टवा - क्यार्थप्रतिपादने विज्ञातसामर्थ्यास्ते तावंत एव वेत्युद्गमेनापि समुच्चार्यमाणास्तथा स्युर्विशेषाभावात् । अथ येन क्रमेण विशिष्टास्ते तथा दृष्टास्तादृशा एव तदर्थस्यावबोधका इति मतं, तहींष्टः क्रमो वर्णानामन्यथा तेन विशेषणाघटनात् वर्णाभिव्यक्तेः क्रमो वर्णानां तेषामक्रमत्वात् । उपचारात्तु तस्य तत्र भावात्तद्विशेषणत्वमुपपद्यत एवेति चेन्न, एकांतनित्यत्वे वर्णानामभिव्यक्तेः सर्वथानुपपत्तेः उत्पत्तिसमर्थनात्तत्र मुख्यक्रमस्य प्रसिद्धेः । कः पुनरयं क्रमो नाम वर्णानामिति चेत्, कालकृता व्यवस्थेति ब्रूमः । कथमसौ वर्णानामिति चेत्, वर्णोपादानादुदात्ताद्यवस्थावत् । तपाधिकः क्रमो वर्णानामिति चेन्न, उदात्ताद्यवस्थानामप्यौपाधिकत्वप्रसंगात् । औपाधिक्युदात्ताद्यवस्था एव वाचो वर्णत्वात् ककारादिवदिति चेन्न, तेषां स्वयमनंशत्वासिद्धेः । स्वभावतस्तथात्वोपपत्तेरन्यथा ध्वनीनामपि स्वाभाविकोदात्तत्वाद्ययोगात् । ततः स्वकारणविशेषवशात् क्रमविशेषविशिष्टानामकारादिवर्णानामुत्पत्तेः कथंचिदनर्थांतरक्रमः । स च सादृश्यसामान्यादुपचारादेकः, प्रतिनियतविशेषाकारतया त्वनेक इति स्याद्वादिनामेकानेकात्मकः क्रमोपि वाक्यं न विरुध्यते । वर्णसंघातो वाक्यार्थप्रतिपत्तिहेतुर्वाक्यमित्यन्ये; तेषामपि न वर्णेभ्यो भिन्नः संघातोनंशः प्रतीतिमार्गावतारी, संघातत्व विरोधादवर्णोतरवत् । नापि ततोऽनर्थौतरमेव संघातः प्रतिवर्णसंघातप्रसंगात् । न चैको वर्णः संघातो भवेत् । कथंचिदन्योन्यखवर्णेभ्यः संघात इति चेत्, कथमेकानेकखभावो न स्यात् ? कथंचिदनेकवर्णादभिन्नत्वादने कस्तत्वात्मवत् । संघातत्व परिणाम देशाततो भिन्नत्वादेकः स्यादिति प्रतीतिसिद्धेः । एतेन संघातवर्तिनी जातिर्वाक्यमिति चिंतितं, तस्याः संघातेभ्यो भिन्नायाः सर्वथानुत्पत्तेः । कथंचिदभिन्नायास्तु संघातवदेकानेकस्वभावत्वसिद्धेर्नानंशः शब्दात्मा कश्चिदेको वाक्यस्फोटोस्ति श्रोत्रबुद्धौ जात्यंतरस्यार्थप्रतिपत्तिहेतोः प्रतिभासनात् एकानेकात्मन एव सर्वात्मना वाक्यस्य सिद्धेः । यदि पुनरंतः प्रकाशरूपः शब्दस्फोट : पूर्ववर्णज्ञानाहितसंस्कारस्यात्मनोंत्यवर्णश्रवणानंतरं वाक्यार्थनिश्चय हेतुर्बुद्ध्यात्मा ध्वनिभ्योऽन्योभ्युपगम्यते, स्फुटत्यर्थोस्मिन् प्रकाशत ४२६ L Page #436 -------------------------------------------------------------------------- ________________ . पञ्चमोऽध्यायः । इति स्फोट इत्यभिप्रायात् ; तदाप्येतस्यैकानेकात्मकत्वे स्याद्वादसिद्धिरात्मन एव वाक्यार्थग्राहकत्वपरितस्य भाववाक्यस्य संप्रत्ययात्, तस्य स्फोट इति नामकरणे विरोधाभावात् । तस्य निरंशत्वे तु प्रतीतिविरोधः, सर्वदा तस्यैकानेकस्वभावस्य त्रिधांशकस्य प्रतिभासनात् । न चायमभिनिवेशः शब्दस्फोट इति श्रेयान् गंधादिस्फोटस्य तथाभ्युपगमार्हत्वात् । यथैव शब्दः वक्तसंकेतस्य क्वचिदर्थप्रतिपत्तिहेतुस्तथा गंधादिरपि, विशेषाभावात् । एवंविधमेव गंध समाघ्रायेत्थमेवंविधोर्थः प्रतिपत्तव्यः स्पर्श स्पृश्य रसं वाखाद्य रूपं वालोक्येत्थंभूतमीदृशो भावः प्रत्येतव्य इति समयग्राहिणां पुनः क्वचित्तादृशगंधाद्युपलंभात्तथाविधार्थनिर्णयप्रसिद्धेर्गेधादिज्ञाना हितसंस्कारस्यात्मनस्तद्वाक्यार्थप्रतिपत्तिहेतोर्गंधादिपदस्फोट तोपपत्तेः । पूर्वपूर्वगंधादिविशेषज्ञानाहितसंस्कारस्यात्मनोंत्यगंधादिविशेषोपलंभानंतरं गंधादिविशेषसमुदाय - गम्यार्थप्रतिपत्तिहेतोर्गंधादिवाक्यस्फोटत्वघटनात् । तथा लोकव्यवहारस्यापि कर्तुं सुशकत्वात् कायज्ञप्तिवत् । हस्तपादकरणमात्रिकांगहारादिस्फोटवद्वा हस्तादिपदादिस्फोट एवं घटते न पुनः खावयवक्रियाविशेषाभिव्यंग्यो हंसपक्ष्मादिर्हस्तस्फोटः स्वाभिधेयार्थप्रतिपत्तेर्हेतुरिति खल्पमतिसंदर्शनमात्रं । एतेन वित्कुटितादिः पादस्फोटो हस्तपादसमायोगलक्षणः करणस्फोटः करणद्वयरूपमात्रिका सहस्रलक्षणोंगहारादिस्फोटश्च न घटत इति वदन्ननवधेयवचनः प्रतिपादितो बोद्धव्यः, तस्यापि खखावयवाभिव्यंग्यस्य स्वाभिधेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणात् । न चैवं स्याद्वाद सिद्धांतविरोधः श्रोत्रमतिपूर्वस्येव प्राणादिमतिपूर्वस्यापि श्रुतज्ञानस्येष्टत्वात् तत्परिणतात्मनस्तद्धेतोः स्फोट इति संज्ञाकरणात् गंधादिभिः कस्यचिदसंबंधाभावात् तत्र तदुपलंभनिमित्तकप्रत्ययानुपपत्तेर्न तथा परिणतो बुद्ध्यात्मा स्फोट: संभवतीति चेत्, तत एव शब्दस्फोटोपि मास्म भूत् शब्दस्यार्थेन सह योग्यतालक्षणसंबंधसद्भावात् तत्संभवे तत एवेतरसंभवः । गंधादीनामर्थेन सह योग्यताख्य संबंधाभावे संकेतसहस्रेपि ततस्तत्प्रतीत्ययोगाच्छब्दतः शब्दार्थवत्प्रतिपत्तुरगृहीतसंकेतस्य शब्दस्य श्रवणात् किमयमाहेति विशिष्टार्थे संदेहेन प्रश्नदर्शनादर्थ - सामान्यप्रतिपत्तिसिद्धेः । शब्दसामान्यस्यार्थसामान्येन योग्यता संबंध सिद्धिरिति चेत्, तत एव रूपादिसामान्यस्य खदर्थ्यार्थसामान्येन योग्यतासिद्धिरस्तु स्वयमप्रतिपन्नसंकेतस्यांगुल्यादिरूपदर्शने केनचित्कृते किमयमाहेति विशिष्टार्थे संशयेन प्रश्नोपलंभादर्थसामान्यप्रतिपत्तिसिद्धेरविशेषात् । तदेवं शब्दस्येवार्थे गंधादीनां प्रतिपत्तिं कुर्वतामाक्षेपसमाधानानां समानत्वादतः प्रकाशरूपे बुद्ध्यात्मनि स्फोटे शब्दादन्यस्मिन्नुपगम्यमाने गंधादिभ्यः परं स्फोटोर्थप्रतिपत्तिहेतुर्घाणादींद्रिय मतिपूर्वश्रुतज्ञानरूपोभ्युपगंतव्योऽन्यथा शब्दस्फोट|व्यवस्थितिप्रसंगात् । स च नैकस्वभावो नानास्वभावतया सदावभासनात् । एतेनानुसंहति - र्वाक्यमित्यपि चिंतितं, पदानामनुसंहतेर्बुद्धिरूपतया प्रतीतेरनुसंधेयमाणानामेकपदाकारायाः सर्वथैकखभावत्वाप्रतीतेः । अत्रापरे प्राहु:-न पदेभ्योऽर्थांतर मेकखभावमेकानेकखभावं वा वाक्यमाख्यातशब्दरूपं पदांतरापेक्षं, नापि पदसंघातवर्तिजातिरूपं वा न चैकानवयवशब्दरूपं क्रमरूपं वा, नापि बुद्धिरूपमसंहृतिरूपं वा न चाद्यपदरूपमंत्यपदरूपं वा, पदमात्रं वा पदांतरापेक्षं यथा व्यावर्ण्यतेऽन्यैः । "आख्यातशब्दसंघातो जातिः संघातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहति । पदमाद्यपदं चांत्यं पदसापेक्षमित्यपि । वाक्यं प्रतिमितिर्भिन्ना बहुधा न्यायवेदिना" मिति । किं तर्हि ? पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यते तथा प्रतीतेरिति तेषामपि यदि पदांतरार्थैरन्वितानामेवार्थानां पदैरभिधानात् पदार्थप्रतिपत्तिर्वाक्यार्थावबोधः स्यात्तदा देवदत्तपदाद्देवदत्ता - र्थस्य गामभ्याजेत्यादिपदवाक्यैरर्थैरन्वितस्याभिधानात् तदुच्चारणवैयर्थ्यमेव वाक्यार्थावबोधसिद्धेः । स्वयमविवक्षितपदार्थान्यवच्छेदार्थत्वान्न गामित्यादिपदोच्चारणवैयर्थ्यमिति चेत्, किमेवं 'स्फोटवादिनः प्रथम ४२७ Page #437 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० २४ पदेनानवयवस्य वाक्यस्फोटस्याव्यक्तावपि व्यत्त्यंतराहितव्यंजक पदव्यवच्छेदार्थस्य पदांतरोच्चारणमनर्थकमुच्यते ? यतस्तदेव पदैरभिव्यक्तं ततोऽन्यदेवार्थप्रतिपत्तिनिमित्तं न भवेत् । तथा सत्यावृत्त्या सत्या वाक्याभिव्यक्तिप्रसंगः पदांतरैस्तस्याः पुनः प्रकाशनादिति चेत्, तवाप्यावृत्त्या वाक्यार्थावबोधः स्यात् । प्रथमपदेनाभिहितस्यार्थस्य द्वितीयादिपदार्थाभिधेयैरन्वितस्य द्वितीयादिपदैः पुनः पुनः प्रतिपादनात् । अथ द्वितीयपदेन खार्थस्य प्रधानभावेन पूर्वोत्तरपदवाक्यैरर्थैरन्वितस्याभिधानात् प्रथमपदाभिधेयस्य तथानभिधानात् नावृत्त्या तस्यैव प्रतिपत्तिरिति मतं, तर्हि यावंति पदानि तावंतस्तदर्थाः पदांतराभिधेयान्विताः प्राधान्येन प्रतिपत्तव्या इति तावत्यो वाक्यार्थप्रतिपत्तयः कथं न स्युः ? न ह्येतपदोच्चारणात्तदर्थस्याशेषपूर्वपदाभिधेयैरन्वितस्य प्रतिपत्तिर्वाक्यार्थावबोधो भवति न पुनः प्रथमपदोच्चारणात्तदर्थस्योत्तरपदाभिधेयैरन्वितस्य प्रतिपत्तिर्द्वितीयादिपदोच्चारणाच्च शेषपदाभिधेयैरन्वितस्य तदर्थस्य प्रतिपत्तिरित्यत्र किंचित्कारणमुपलभामहे । एतेनावृत्त्या पदार्थप्रतिपत्तिप्रसंग उक्तः । द्वितीयादिपदेन स्वार्थस्य च पूर्वोत्तरपदार्थानामपि प्रतिपादनादन्यथा तैस्तस्यान्वितत्वायोगात् गम्यमानैस्तैस्तस्यान्वितत्वं न पुनरभिधीयमानैरिति चेत्, स किमिदानीमभिधीयमान एव पदस्यार्थो गम्यमानः ? तथोपगमे कथमन्विताभिधानं ? विवक्षितपदस्य पदांतराभिधेयानां गम्यमानानां विषयत्वात्तैरन्वितस्य स्वार्थस्य प्रतिपादने सामर्थ्याभावात् । यदि पुनः पदानां द्वौ व्यापारौ स्वार्थाभिधाने व्यापारः पदार्थांतरे गमकत्वव्यापारश्च तदा कथं न पदार्थप्रतिपत्तिरावृत्त्या प्रसज्यते ? पदव्यापारात् प्रतीयमानस्य गम्यमानस्यापि पदार्थत्वादभिधीयमानार्थवत् । न च पदव्यापारात् प्रतीयमानोर्थो गम्यमानो युक्तः कश्विदेवाविशेषात् । स्यान्मतं, पदप्रयोगः प्रेक्षावता पदार्थप्रतिपत्त्यर्थो वाक्यार्थप्रतिपत्त्यर्थो वा क्रियेत ? न तावत्पदार्थप्रतिपत्त्यर्थस्तस्य प्रवृत्तिहेतुत्वाभावात् । कः पिकः ? कोकिल इत्यादि केवलपदप्रयोगस्यापि वाक्यार्थप्रतीतिनिमित्तत्वात् कः पिक उच्यते ? कोकिल उच्यते इति प्रतीतेः । यदि तु वाक्यार्थप्रतिपत्त्यर्थः पदप्रयोगस्तदा पदप्रयोगानंतरं पदार्थे प्रतिपत्तिः साक्षाद्भवतीति तत्र पदस्याभिधा व्यापारः पदांतरार्थस्यापि प्रतिपत्तये तस्याप्रयोगात् तत्र गमकत्वव्यापार इति तदप्यसत्, पादप इति पदस्य प्रयोगे शाखादि मदर्थस्यैव प्रतिपत्तिस्तदर्थाच्च प्रतिपन्नात्तिष्ठत्यादिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेस्तत्र पदस्य साक्षाद्यापाराभावाद्गमकत्वायोगात् तदर्थस्यैव तद्गमकत्वात् । परंपरया तस्य तत्र व्यापारे लिंगवचनस्य लिंगप्रतिपत्तौ व्यापारोस्तु । तथा सति शाब्दमेवानुमानज्ञानं भवेत् लिंगवाचकाच्छब्दाल्लिंगस्य प्रतिपत्तेः । सैव शाब्दी न पुनस्तत्प्रतिपत्तिषु लिंगादनुमेयप्रतिपत्तिरतिप्रसंगादिति चेत्, तत एव पादपस्थानाद्यर्थप्रतिपत्तिर्भवंती शाब्दी मा भूत्, तस्याः खार्थप्रतिपत्तावेव पर्यवसितत्वाल्लिंगशब्दवत् । कथमेवं गम्यमानः शब्दस्यार्थः स्यादिति चेत्, न कथमपीति कश्चित् तस्यापि वाक्यार्थावसायो न शाब्दः स्यात् गम्यमानस्याशब्दार्थत्वात् वाच्यस्यैव शब्दार्थत्वज्ञानात् द्योत्यविषयभूतयोरपि वाच्यत्वात् शब्दमूलत्वात् वाक्यार्थावबोधः शाब्द इति चेत्, तत एवागम्यमानोर्थः शब्दस्यास्तु । पादपशब्दोच्चारणानंतरं शाखादिमदर्थप्रतिपत्तिवत्तत्स्थानाद्यर्थस्यापि गतेरिति स एवावृत्त्या पदार्थाप्रतिपत्तिप्रसंगोन्विताभिधानवादिनः पदस्फोटवादिवत् । किं च, विशेष्यपदं विशेष्यविशेषणसामान्येनान्वितं विशेषणविशेषेण वाभिधत्ते तदुभयेन वा ? प्रथमपक्षे विशिष्टवाक्यार्थ प्रतिपत्तिविरोधः । परापरविशेषण विशेष्य पदप्रयोगातदविरोध इति चेत्, तर्ह्यभिहितान्वयप्रसंग ः । द्वितीयपक्षे पुनः निश्चयासंभवः प्रतिनियत विशेषणस्य शब्देनानिर्दिष्टस्य खोक्तविशेषेन्वयसं शीतेर्विशेषणांतराणामपि संभवात् । वक्तुरभिप्रायात् प्रतिनियतविशेषणस्य तत्रान्वयनिर्णय इति चेन्न यं प्रति शब्दोच्चारणं तस्य तदनिर्णयादात्मानमेव प्रति 1 -४२८ " Page #438 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ४२९ वक्तुः शब्दोच्चारणार्थक्यात् । तृतीयपक्षे तु उभयदोषानुषंगः । एतेन क्रियासामान्येन क्रियाविशेषण तदुभयेन चान्वितस्य साधनसामान्यस्याभिधानं निरस्तं, क्रियायाश्च साधनसामान्येन साधनविशेषेण तदुभयेन वान्वितयोः प्रतिपादनमाख्यातं, ततो न प्रतिपाद्यबुद्धावन्वितानां पदार्थानामभिधानं प्रतीतिविरोधात् । प्रतिपादकबुद्धौ तु तेषामन्वितत्वप्रतिपत्तावपि नान्विताभिधानसिद्धिस्तत्र तेषां परेणाभिहितानामन्वयात् । अत एवाभिहितान्वयः श्रेयानित्यन्ये, तेषामप्यभिहिताः पदार्थाः शब्दांतरेणान्वीयंते बुद्ध्या वा ? न तावदाद्यः पक्षः, शब्दांतरस्याशेषपदार्थविषयस्य कस्यचिदनिष्टेः । द्वितीयपक्षे तु बुद्धिरेव वाक्यं स्यान्न पुनः पदान्येव, ततो वाक्यार्थाप्रतिपत्तेः पदार्थेभ्योपेक्षाबुद्धिसंनिधात् परस्परमन्वि. तेभ्यो वाक्यार्थप्रतिपत्तिः । परंपरया पदेभ्य एव भावान्न ततो व्यतिरिक्तं वाक्यमस्तीति चेत् , तर्हि प्रकृतिप्रत्ययेभ्यः प्रकृतिप्रत्ययार्थाः प्रतीयंते तेभ्योपेक्षाबुद्धिसंनिधानादन्योन्यमन्वितेभ्यः पदार्थप्रतिपत्ति. रिति प्रकृत्यादिव्यतिरिक्तं पदमपि मा भूत् , प्रकृत्यादीनामन्वितानामभिधानमभिहितानामन्वये पदार्थप्रतिपत्तिसिद्धेः । स्यान्मतं, पदमेव लोके वेदे वार्थप्रतिपत्तये प्रयोगार्ह न तु केवला प्रकृतिः प्रत्ययो वा पदादयो वांत्यतदुत्पादनार्थ यथाकथंचित्तदभिधानात्तत्त्वतस्तदभावः । तदुक्तं । अथ गौरित्यत्र कः शब्द ? गकारौकारविसर्जनीया इति भगवान् पवर्ष इति । यथैव हि वर्णोनंशः प्रकल्पितमात्राभेदस्तथा गौरिति पदमप्यनंशमपोद्धृत्य गकारादिभेदं स्वार्थप्रतिपत्तिमवसीयते इति । तदप्यनालोचितवचनं, वाक्यस्यैवं तात्त्विकत्वसिद्धेस्तयुत्पादनार्थ ततोपोद्धृत्य पदानामुपदेशाद्वाक्यस्यैव लोके शास्त्रे वार्थप्रतिपत्तये प्रयोगार्हत्वात् । तदुक्तं । “द्विधा कैश्चित्पदं भिन्नं चतुर्धा पंचधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिति ॥” ततः प्रकृत्यादिभ्योवयवेभ्यः कथंचिद्भिन्नमभिन्नं च पदं प्रातीतिकमभ्युपगंतव्यं न पुनः सर्वथानंशवर्णवत्तद्राहकाभावात् । तद्वत्पदेभ्यः कथंचिद्भिन्नं च वाक्यं प्रतीतिपदमास्कंददुपगम्यतां न च द्रव्यरूपं भावरूपं वा । एकानेकखभावं चिंतितप्रायमिति स्थितमेतच्छब्दवतः पुद्गला इति । शब्दस्य वर्णपदवाक्यरूपस्यान्यस्य च पुद्गलस्कंधपर्यायत्वसिद्धेराकाशगुणत्वेनामूर्तद्रव्यत्वेन स्फोटात्मतया वा विचार्यमाणस्यायोगात् ॥ कः पुनर्बधः? पुद्गलपर्याय एव प्रसिद्धो येन बंधवंतः पुद्गला एव स्युरित्यारेकायामिदमाह; बंधो विशिष्टसंयोगो व्योमात्मादिष्वसंभवी । पुद्गलस्कंधपर्यायः सक्तुतोयादिबंधवत ॥ ६॥ द्रव्ययोरप्राप्तिपूर्विका प्राप्तिः संयोगः स चाबाधितसंयुक्तप्रत्ययात्प्रसिद्धः, संयोगमंतरेण तस्यानुपपत्तेः । प्रत्यक्षतः कचित्संयुक्तप्रत्ययोऽसिद्धस्तस्य तत्पृष्टभाविविकल्परूपत्वादिति चेत् न, अगृहीतसंकेतस्यापि प्रत्तिपत्तुः शब्दयोजनामंतरेण खार्थव्यवसायात्मनि प्रत्यक्षे संयुक्तप्रत्ययप्रसिद्धेनिर्विकल्पकप्रत्यक्षस्य सर्वथा निराकृतत्वात् । तथा दृष्टे कचित्संयोगे संयुक्तविकल्पो युक्तो नीलप्रत्ययवत् तस्यासत्यत्वप्रसंगात् । न चासावसत्यो बाधकाभावात् । ननु च संयुक्तप्रत्ययः सत्यस्तद्विषयस्य वृत्तविकल्पानवस्थादिदोषदूषितत्वादवयविप्रत्ययवदित्येतदस्ति तद्बाधकं । तथाहि-संयोगः खाश्रये वर्तमानो यद्येकदेशेन वर्तते तदा सावयवः स्यात् , खावयवेषु च खतो भिन्नेषु तस्यैकदेशांतरेण वृत्तौ परापरदेशकल्पनेऽनवस्था । सर्वात्मना प्रत्येकं तत्र तस्य वृत्तौ संयोगानेकत्वप्रसंगस्तथा सत्येकैकस्मिन् संयोगे संयोगप्रत्ययप्रसंगः । सकृदने कसंयुक्तप्रत्ययप्रसंगश्च । नैकदेशेन वर्तते नापि सर्वात्मना । किं तर्हि ? वर्तत एवेति चायुक्तं, प्रकारांतरेण कचित्कस्यचिद्वर्तमानस्यादृष्टेः खाश्रयाभिन्नरूपस्तत्संयोगिना चैव प्रत्यासनतयोत्पत्तौ न ततोर्थातरं किंचिदित्येकांतवादिनामुपालंभो न पुनः स्याद्वादिनां, तेषां खाश्रयात्कथंचिदिन्नस्य संयोगस्याभिमतत्वात् संयोगव्यतिरेकेणानुपलब्धेः संयोगस्य तद्भिन्नत्वसिद्धेः, प्राक् पश्चाच्च Page #439 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० २५ तदाश्रयद्रव्यसद्भावेपि संयोगस्याभावात्ततो भेदस्यापि प्रतीतिविरोधाभावात् । नन्वसंयुक्तद्रव्यलक्षणाभ्यामुपसर्पणाप्रत्ययवशात्संयुक्तयोस्तयोरुत्पत्तेर्नापरः संयोगोवभासत इति चेन्न, तयोर संयुक्त परिणाम त्यागेन संयुक्त परिणामस्य प्रतीतेः । संयुक्तयोः पुनर्विभागपरिणामवत् । यावेव संयुक्तौ तत्तूभयोपलब्धौ तावेव च संप्रति भक्तौ दृश्येते इति प्रत्यभिज्ञानात् संयोगविभागाश्रयद्रव्ययोरवस्थितत्वसिद्धेः । न च प्रत्यभिज्ञानमप्रमाणं तस्य प्रत्यक्षवत्स्वविषये प्रमाणत्वेन पूर्वं समर्थनात् । नन्वेवं प्रसिद्धोपि संयोगः कथं व्योमात्मादिष्वसंभवी विशेषः पुद्गलेषु सिध्येद्यतो बंध : पुद्गलानामेव पर्यायः स्यादिति चेत्, तदेकत्व - परिणामहेतुत्वात्तस्य विशिष्टत्वसिद्धिः सक्ततोयादिबंधवत् । तर्हि यथा सक्ततोयादीनां संयोगः पिंडैकत्वपरिणामहेतुस्तथा व्योमात्मादीनां तेषामेकद्रव्यत्वप्रसंगात् । संयोगमात्रे तु सत्यपि न तत्प्रसंग: । पुरुषतदासरणवत् । ततोति पुद्गलानां बंधस्तदेकत्वपरिणामान्यथानुपपत्तेः कस्यचिदवयवद्रव्यस्यैकस्मादनेकपुद्गलपरिणामस्यासंभवादसिद्धस्तदेकत्वपरिणाम इति चेन्न तस्य प्राक् साधितत्वात् । जीवकर्मणोबैधः कथमिति चेत्, परस्परं प्रदेशानुप्रवेशान्न त्वेकत्वपरिणामात्तयोरेकद्रव्यानुपपत्तेः 'चेतनाचेतनावेतौ बंघं प्रत्येकतां गतौ' इति वचनात्तयोरेकत्वपरिणामहेतुर्बधोस्तीति चेन्न, उपसरतस्तदेकत्ववचनात् । भिन्नौ लक्षणतोत्यंतमिति द्रव्यभेदाभिधानात् । ततः पुद्गलानामेवैकत्वपरिणाम हेतुबंध इति प्रतिपत्तव्यं बाधकाभावात् । स च स्कंधधर्म एव ॥ ४३० तथैवांतरं सौक्ष्म्यं परमाणुष्वसंभवि । स्थौल्यादिवत्प्रपत्तव्यमन्यथानुपपत्तितः ॥ ७ ॥ परमसौक्ष्म्यस्याणुधर्मत्वमणूनां तत एव व्यवस्थानात् सामर्थ्यादपरसौक्ष्म्यं बिल्वाद्यपेक्षया बदरादिषु स्कंधपरिणामः बाचेंद्रियग्राह्यत्वात् । स्थौल्यसंस्थानभेदतमश्छायातपोद्योतवत् शब्दबंधवच व्यणुकादिष्वबाचेंद्रियग्राह्यमपि सौक्ष्म्यं स्कंधपर्याय एवापेक्षिकसूक्ष्मात्मत्वाद्वदरादिसैौक्ष्म्यवत् । एतेन कार्मणशरीरादौ सौक्ष्म्यस्य स्कंधपर्यायत्वं साधितं । तथास्मदादिबायेंद्रियग्राह्याः स्थौल्यादयः सूक्ष्मपर्याय स्थौल्यत्वादस्मदादिबायेंद्रियग्राह्यस्थौल्यादिवत् ॥ अणवः स्कंधाश्च ॥ २५ ॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येनाण्यं ते शब्दयन्ते इत्यणवः सौक्ष्म्यादात्मादय आत्ममध्या आत्मांताश्च । तथा चोक्तं । "आत्मादिमात्ममध्यं च तथात्मांतमतींद्रियं । अविभागं विजानीयात् परमाणुमनंशकं” इति । स्थौल्यात् ग्रहणनिक्षेपणादिव्यापारास्कंदनात् स्कंधा, उभयत्र जात्यपेक्षा बहुवचनं । अणुजात्याधाराणां स्कंधजात्याधाराणां तावंतरतज्जातिभेदानामनंतत्वात् । अणुस्कंधा इत्यस्तु लघुत्वादिति चेन्नोभयत्रसंबंधार्थत्वाद्भेदकरणस्य । स्पर्शरसगंधवर्णवतोणवः, शब्दबंध सौक्ष्म्य स्थौल्य संस्थानभेदतमश्छायातपोद्योतवंतश्च स्कंधा इति । वृत्तौ पुनः समुदायस्यार्थवत्त्वादवयवार्थाभावात् भेदेनाभिसंबंध: कर्तुमशक्यः ॥ किं पुनरनेन सूत्रेण कृतमित्याह; अणवः पुद्गलाः केचित्स्कंधाचेति निवेदनात् । अण्वेकांतः प्रतिक्षिप्तः स्कंधैकांतश्च तत्त्वतः १ नव एवेत्येकांतः श्रेयान् स्कंधानामक्षबुद्धौ प्रतिभासनात् । तत्र तत्प्रतिभासस्य भ्रांतत्वे बहिरंतश्च परमाणूनामप्रतिभासनान्न प्रत्यक्षमभ्रांतं स्यात् । स्वसंवेदनेपि संवित्परमाणोरप्रतिभासनात् । तथोपगमे सर्वशून्यतापत्तिरनुमानस्यापि परमाणुग्राहिणोसद्भावात् भ्रांतात्प्रत्यक्षतः कस्यचिन्न लिंगस्याव्यवस्थितेः कुतः परमाण्वेकांतवादः पारमार्थिकः स्यात् ? स्कंधैकांतस्तत्त्वतोस्त्वित्यपि न सम्यक्, पर Page #440 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ४३१ माणूनामपि प्रमाणसिद्धत्वात् । तथाहि-अष्टाणुकादिस्कंधो भेद्यो मूर्तत्वे सति सावयवत्वात् कलशवत् । योसौ तद्भेदाज्जातोनंशोवयवः स परमाणुरिति प्रमाणसिद्धाः परमाणवः स्कंधवत् ॥ भेदसंघातेभ्य उत्पद्यते ॥ २६ ॥ संहतानां द्वितयनिमित्तवशाद्विदारणं भेदः, विविक्तानामेकीभावः संघातः । द्वित्वाविवचनप्रसंग इति चेन्न, बहुवचनस्यार्थविशेषज्ञापनार्थत्वात्ततो भेदेन संघात इत्यस्याप्यविरोधः । उत्पूर्वः पदिर्जात्यर्थस्तेनोत्पद्यते जायत इत्युक्तं भवति । तदपेक्षो हेतुनिर्देशो भेदसंघातेभ्य इति निमित्तकारणहेतुषु सर्वासां प्रदर्शनाद्भेदसंघातेभ्य उत्पद्यत इति । ननु च नोत्पद्यतेणवोऽकार्यत्वाद्गगनादिवदिति कश्चित् , स्कंधाश्च नोत्पद्यते सत्त्वमेव तेषामाविर्भावादित्यपरः । तं प्रत्यभिधीयते; उत्पद्यतेणवः स्कंधाः पर्यायत्वाविशेषतः । भेदात्संघाततो भेदसंघाभ्यां वापि केचन ॥१॥ इति सूत्रे बहुत्वस्य निर्देशाद्वाक्यभिद्गतेः । निश्चीयतेन्यथा दृष्टविरोधस्यानुषंगतः ॥२॥ स्कंधस्यारंभका यद्वदणवस्तद्वदेव हि । स्कंधोणूनां भिदारंभनियमस्यानभीक्षणात् ॥३॥ उत्पद्यतेऽणवः पुद्गलपर्यायत्वात् स्कंधवत् । न हि पार्थिवादिपरमाणवोपि पृथिव्यादिद्रव्याण्येव, पृथिव्यादिपरमाणुस्कंधद्रव्यगतिषु पृथिवीत्वादिप्रत्ययहेतोरूर्खतासामान्याख्यस्य पृथिव्यादिद्रव्यस्य व्यवस्थापनात् । ततो न तेषां पर्यायत्वमसिद्धं । परमाणूनां कारणद्रव्यत्वनियमादसिद्धमेवेति चेन्न, तेषां कार्यत्वस्यापि सिद्धेः । यथैव भेदात् संघाताभ्यां च स्कंधानामुत्पत्तेः कार्यत्वं तथाणूनामपि भेदादुत्पत्तेः कार्यत्वसिद्धेरन्यथा दृष्टविरोधस्यानुषंगात् । न हि स्कंधस्यारंभकाः परमाणवो न पुनः परमाणोः स्कंध इति नियमो दृश्यते, तस्यापि भिद्यमानस्य सूक्ष्मद्रव्यजनकत्वदर्शनात् भिद्यमानपर्यंतस्य परमाणुजनकत्वसिद्धेः ॥ भेदादणुः ॥ २७ ॥ सामर्थ्यादवधारणप्रतीतेरेवकारावचनं अब्भक्षवत् । यस्मात्भेदादणुरिति प्रोक्तं नियमस्योपपत्तये । पूर्वसूत्रात्ततोणूनामुत्पादे विदितेपि च ॥१॥ अणवः स्कंधाश्च भेदसंघातेभ्य उत्पद्यते इति वचनात्स्कंधानामिवाणूनामपि तेभ्य उत्पत्तिविधानान्नियमोपपत्त्यर्थमिदं सूत्रं भेदादणुरिति प्रोच्यते । तस्माद्भेदादेवाणुरुत्पद्यते न संघाताद्भेदसंघाताभ्यां वा स्कंधवत् । भेदादणुरेवेत्यवधारणानिष्टेश्च न स्कंधस्य भेदादुत्पत्तिर्निवृत्तिभैंदादेवेत्यवधारणस्येष्टत्वात् ॥ विभागः परमाणूनां स्कंधभेदान्न वाणवः । नित्यत्वादुपजायते मरुत्पथवदित्यसत् ॥ २॥ संयोगः परमाणूनां संघातादुपजायते । न स्कंधस्तद्वदेवेति वक्तुं शक्तेः परैरपि ॥३॥ ननु च संघाततः संयोगविशेष एव ततः कथं परमाणूनां परस्परं संयोगः समुपजायेत तस्यासंयोगजत्वात् । सर्वत्रावयवसंयोगपूर्वस्यावयविसंयोगस्य प्रसिद्धेरिणादौ द्वितंतुकसंयोगवत् परस्परमवयवानां तु संयोगस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीतेस्खलद्रूपत्वात् । ततः संघातादवयविन एव स्कंधापरनाम्न उत्पत्तिर्न संयोगस्येति चेत् , तर्हि विभागो भेद एव प्रतिपाद्यते ततः कथं व्यणुकादेः स्कंधस्य विभागः समुपजायेत तस्याविभागजत्वात्सर्वत्रावयवविभागपूर्वस्यावयविविभागस्य विभागजविभागस्य वा प्रसिद्धेराकाशस्कंधदलविभागवत् । परस्परमवयवानां तु विभागस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीते. रबाध्यत्वात् कथं घणुकादिस्कंधभेदाद्विभागस्यैवोत्पत्तिरभ्युपगम्यते भवद्भिः? तस्यावयवभेदादाकाशाद्वि Page #441 -------------------------------------------------------------------------- ________________ ४३२ तत्त्वार्थश्लोकवार्तिके [ सू० २८ भाग विभाग एवेति चेत्, तर्हि परमाणुसंघातादाकाशदेशादिना संयोगोपि संयोगजोस्तु | अथ परमाणुसंघातादुत्पन्नेनावयविना व्योमादेः संयोगः संयोगजो न पुनः परमाणुभिस्तस्य संयोग इति मतं, तर्हि स्कंधभेदादुत्पन्नस्य परमाणोरेकदेशादिभ्यो विभागो न विभागजः किं तु स्कंधभेद इति सर्व समानं पश्यामः । यदि पुनरवयवानां संयोगादवयविनः प्रादुर्भावस्तद्भावे भावात्तदभावे वाभावाद्विभाव्यते, तदा तत एव परमाणूनां स्कंधभेदात्प्रादुर्भावोस्तु । नित्यत्वात् तेषां न प्रादुर्भाव इति चेन्न, तन्नित्यत्वस्य सर्वथा अनवसायात् । नित्याः परमाणवः सदकारणवत्त्वादाकाशादिवदित्यपि न सम्यक्, तेषा - मकारणवत्त्वासिद्धेः । पुद्गलद्रव्यस्य तदुपादानकारणस्य भावात् । स्कंधभेदस्य च सहकारिणः प्रसिद्धेस्तद्भावे वा भावात् । सूक्ष्मपूर्वकः स्कंधो न स्कंधपूर्वकः सूक्ष्मोस्ति यतः स्कंधादणुरुत्पद्यत इति चेन्न, प्रमाणाभावात् ॥ 1 विवादाध्यासितः स्कंधो जायते सूक्ष्मतोन्यतः । स्कंधत्वात्पटवत्प्रोक्तं यैरेवं ते वदंत्विदं ॥४ विवादगोचराः सूक्ष्मा जायंते स्कंधभेदतः । सूक्ष्मत्वाद् दृष्टवस्त्रादिखंडवांत्यभावतः ॥ ५ ॥ कर्पासपिंडेन सूक्ष्मेण व्यभिचारिता । हेतोरिति न वक्तव्यमन्यस्यापि समत्वतः ।। ६ ।। लिथावयव कर्पासपिंड संघाततो यथा । घनावयवकर्पासपिंडः समुपजायते ॥ ७ ॥ तथा स्वष्टपिंडेोऽनिष्ट निबिडपिंडकः । प्रतीतिगोचरोस्तु स यथासूत्रोपपादितः ॥ ८ ॥ विवादापन्नोवयवी खपरिमाणान्महापरिमाण कारणारब्धावयवित्वात् पटवदिति यैरुक्तमनुमानं ते वदंत्विदमपि विवादगोचराः सूक्ष्माः स्थूलभेदपूर्वकाः सूक्ष्मत्वात् पटखंडादिवदिति । धनकर्पासपिंडेन सूक्ष्मेण शिथिलावयवकर्पासपिंडसंघातारब्धेनावयवित्वस्य हेतोर्व्यभिचारान्नैव वदंतीति चेत्, समान मन्यत्र तेनैव खपरिमाणान्महापरिमाणकारणारब्धेनावयवित्वस्य हेतोर्व्यभिचारात् । यथैव हि लिथावयवकर्पासपिंडानां सतां समुपजायमानो घनावयव कर्पासपिंडः सूक्ष्मो न स्थूलभेदपूर्वकस्तथा स एव तेषां स्थविष्टानां संयोगविशेषादुपजायमानो घनावयवः स्वपरिमाणादणुपरिमाण कारणारब्धः प्रतीतिविषयः । ततो नाप्तोपज्ञमिदं नियमकल्पनमिति यथा सूत्रोपपादितं तथैवास्तु । तथाहि - द्वयोः परमाण्वोः संघातादुत्पद्यमानो द्विप्रदेशः स्कंधः कश्चिदाकाशप्रदेशद्वयावगाही परमाणुपरिमाण एव स्यात् । द्व्यणुकाभ्यां च स्वकारणादधिकपरिमाणाभ्यामुत्पद्यमानः कश्चिदाकाशप्रदेशचतुष्टयावगाही महान् । कश्चित्पुनरेकाकाशप्रदेशावगाही । ततोणुरेवावगाहविशेषस्य नियमाभावात् । तथा शताणुकावयविभेदादुत्पद्यमानोवयवी कश्चित्सूक्ष्मः स्तोकाकाशप्रदेशावगाहित्वात् । कश्चित्तत एवाल्पाकाशप्रदेशावगाहभाजोल्पाद्वह्नाकाशप्रदेशावगाहित्वान्महान् । एवमेकैकसमयिकाभ्यां भेदसंघाताभ्यामुत्पद्यमानोपि स्कंधः कश्चित्स्वकारणपरिमाणादधिक परिमाणः कश्चिन्यूनपरिमाण इति सूक्तमुत्पश्यामो दृष्टविरोधाभावात् प्रतीयते हि तादृशः ॥ भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ भेदात्संघाताद्भेदसंघाताभ्यां च चक्षुर्ज्ञानग्राद्यावयवी कश्चित् परिमाणादणुपरिमाण कारणपूर्वकः, कश्चिन्महापरिमाणकारणपूर्वकः, कश्चित्समानकारणारब्धस्तद्वद्दृष्टोपि स्याद्वाधकाभावात् । तदाहुः चाक्षुषोarat कचिद्भेदात्संघाततो द्वयात् । उत्पद्यते ततो नास्य संघातादेव जन्मनः ॥ १ ॥ पटादिरूपव्यतिरेकेण चक्षुर्बुद्धौ च प्रतिभासमानोवयवी कथं चाक्षुषो नाम ? गंधादेरपि चाक्षुषत्वप्रसंगादिति चेन्न, पटाद्यवयविन एव चक्षुर्बुद्धौ प्रतिभासनात् । तद्व्यतिरेकेण रूपस्य तत्राप्रतीतेर्गधादि Page #442 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । 1 वत् । चक्षुर्बुद्धौ रूपं प्रतिभासते न पुनस्तदभिन्नोवयवीति ब्रुवाणः कथं स्वस्थः ? कथं रूपादभिन्नोवयवी रूपमेव न स्यादिति चेत् तस्य ततः कथंचिद्भेदात् । न हि सर्वथा गुणगुणिनोरभेदमात्रमाचक्ष्महे प्रतीतिविरोधात् पर्यायार्थतस्तयोर्भेदस्यापि प्रतीतेः । सर्वथाभेदे तयोर्भेद इव गुणगुणिभावानुपपत्तेः गुणखात्मवत्कुटपटवच्च । तत्र द्रव्यार्थिकप्राधान्याद्रव्यखरूपादभिन्नत्वाद्रूपस्य चाक्षुषत्वे द्रव्यस्य चाक्षुषत्वसिद्धिः स्पृश्यादभिन्नस्य स्पर्शस्याभावात्तत्र तस्य स्पर्शनत्वसिद्धिरिति चेत् पर्यायार्थिकप्राधान्याच्च द्रव्याद्भेदेपि रूपस्येव द्रव्यस्यापि चाक्षुषत्वोपगमान्न तस्याचाक्षुषत्वं नाप्यस्पर्शनत्वं स्पर्शस्येव तद्रव्यस्य स्पर्शनत्वप्रतीतेः । न च दर्शनं स्पर्शनं च द्रव्यमिति द्वींद्रियग्राह्यं द्रव्यमुपगम्यते तस्य प्राणरसनश्रोत्रमनोग्राह्यत्वेनापि प्रसिद्धेः । रूपादिरहितस्य द्रव्यस्यैव द्रव्यरहितानां रूपादीनां प्रत्यक्षाद्यविषयत्वादसर्वपर्यायाणां द्रव्याणां मतिश्रुतयोर्विषयत्वव्यवस्थापनात् । इदमेव हि प्रत्यक्षस्य प्रत्यक्षत्वं यदनात्मन्यविवेकेन बुद्धौ स्वरूपस्य समर्पणं । इमे पुना रूपादयो द्रव्यरहिता एवामूल्यदानक्रयिणः स्वरूपं च नोपदर्शयंति प्रत्यक्षतां च खीकर्तुमिच्छंतीति स्फुटमभिधीयतां । एतेन श्रुतज्ञानेप्यप्रतिभासमानाः श्रुतज्ञानप - रिच्छेद्यत्वं स्वीकर्तुमिच्छंतस्त एवामूल्यदानक्रयिणः प्रतिपादितास्तदा हितद्रव्यवत् । ततः प्रतीतिसिद्धमवयविनः चाक्षुषत्वं स्पर्शनत्वादि समुपलक्षयति बाधकाभावात् ॥ किं पुनर्द्रव्यस्य लक्षणमित्याह ; सद्द्रव्यलक्षणम् ॥ २९ ॥ अथ विशेषतः सद्द्रव्यस्य लक्षणं सामान्यतो वा ? यदि विशेषतस्तदा पर्यायाणां द्रव्यत्वप्रसंगादतिव्याप्तिर्नाम लक्षणदोषः, अव्याप्तिश्च त्रिकालानुयायिनि द्रव्ये सद्विशेषाभावात् वर्तमानद्रव्य एव तद्भावात् । यदि पुनः सामान्यतस्तद्रव्यस्य लक्षणं शुद्धमेव द्रव्यं स्यादिति सैवाव्याप्तिरशुद्धद्रव्ये तदभावादिति वदतं प्रत्युच्यते ; सद्रव्यलक्षणं शुद्धमशुद्धं सविशेषणं । प्रोक्तं सामान्यतो यस्मात्ततो द्रव्यं यथोदितं ॥ १ ॥ न हि विशेषतः सद्द्रव्यलक्षणं यतोत्रातिव्याप्यव्याप्ती स्यातां सामान्यतस्तस्य तल्लक्षणत्वात् । न चैवं शुद्धद्रव्यमेव सल्लक्षणं स्यादशुद्धद्रव्यस्यापि लक्षणत्वोपपत्तेः । ततो नाव्याप्तिर्लक्षणस्य । यथैव हि देशकॉलेरविच्छिन्नं सर्वत्र सर्वदा सर्वथा वस्तुनि सत्सदिति प्रत्ययाभिधानव्यवहारनिबंधनं सत्तासामान्यं शुद्धद्रव्यलक्षणमबाधमनुभूयमानमाबालप्रसिद्धं तथा सर्वद्रव्यविशेषेषु द्रव्यं द्रव्यमित्यनुभूतबुद्ध्यभिधाननिबंधनद्रव्योपाधि सदेव द्रव्यत्वमशुद्धद्रव्य सविशेषणस्य सत्त्वस्याशुद्धत्वात् । एवं जीवपुद्गलधर्माधर्माकाशकालद्रव्यं प्रत्येतव्यं । क्रमयौगपद्यवृत्ति स्वपर्यायव्यापि जीवत्वविशेषणस्य सत्त्वस्य जीवद्रव्यत्वात्तादृक् पुद्गलत्वविशिष्टस्य पुद्गलद्रव्यत्वात् क्रमाक्रमभाविधर्मपर्यायव्यापिधर्मत्व विशेषणस्य धर्मद्रव्यत्वात्, तथाविधाधर्मत्वोपहितस्याधर्मद्रव्यत्वात् तादृशाकाशत्वोपाधेराकाशद्रव्यत्वात्, क्रमाक्रमभाविपर्यायव्यापिकालत्वविशिष्टस्य कालद्रव्यत्वात् ॥ I 2 ४३३ नन्वस्तु सद्द्रव्यस्य लक्षणं तत्तु नित्यमेव, तदेवेदमिति प्रत्यभिज्ञानात् । तदनित्यत्वेऽघटनात् सर्वदा बाधकरहितत्वादिति कश्चित्, प्रतिक्षणमुत्पादव्ययात्मकत्वान्नश्वरमेव तद्विच्छेदप्रत्ययस्याभ्रांतस्यान्यथानुपतेरित्यपरः । तं प्रत्याह; - ५५ Page #443 -------------------------------------------------------------------------- ________________ ४३४ तत्त्वार्थश्लोकवार्तिके [सू० ३१ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ३०॥ खजात्यपरित्यागेन भावांतरावाप्तिरुत्पादः, तथा पूर्वभावविगमो व्ययः, ध्रुवेः स्थैर्यकर्मणो ध्रुवतीति ध्रुवस्तस्य भावः कर्म वा धौव्यं तैर्युक्तं सदिति बोद्धव्यम् ॥ तत्रोत्पादव्ययध्रौव्ययुक्तं सदिति सूचनात् । गुणसत्त्वं भवेनैव द्रव्यलक्षणमंजसा ॥१॥ न हि गुणभूतं सत्त्वमुत्पादव्ययध्रौव्ययुक्तमुपपद्यते तस्य कल्पितत्वात् , नांजसा द्रव्यस्य लक्षणं वस्तुभूतस्यैव सत्त्वस्योत्पादादियुक्तत्वोपपत्तेः भेदज्ञानादुत्पादव्ययध्रौव्यसिद्धिवदभेदज्ञानाद्रौव्यसिद्धेरप्रतिबंधत्वात् । ननु च ध्रौव्ययुक्तं सद्रव्यस्य लक्षणं उत्पादव्यययुक्तं सत् पर्यायस्य लक्षणमिति व्यक्तं वक्तव्यमविरोधात् । नैवं वक्तव्यं, सतः एकत्वादेका सत्तेति वचनात्तदेवैकं द्रव्यमनंतपर्यायमित्युच्यते न पुनर्द्विविधा द्रव्यसत्ता पर्यायसत्ता चेति । ततोन्यस्य महासामान्यस्यैकस्य तद्व्यापिनो द्रव्यस्य प्रसंगात् । तदपि यद्यसद्रूपं तदा न द्रव्यं खरविषाणवत् । सद्रूपं चेत् , सैवैका सत्तेति सिद्धं सल्लक्षणं द्रव्यमेव पर्यायस्य पर्यायांतररूपेण सद्रूपत्वप्रतीतेः । तत एव सल्लक्षणमेव द्रव्यं शुद्धमित्यवधार्यते, तस्यासद्रूपत्वाभावात् प्रागभावादेरपि भावांतरस्वभावस्यैव सदसत्त्वसिद्धेः । सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेका सत्तेति परैरप्यभिधानात् केवलध्रौव्ययुक्तमेव सदित्येकांतव्यवच्छेदनार्थमुत्पादव्यययुक्तमित्युच्यते, तस्यानंतपर्यायात्मकत्वात् पर्यायाणां चोत्पादव्ययध्रौव्ययुक्तत्वात् । न नित्यं सदेकमस्त्यनुस्यूताकारं तस्यासपव्यावृत्त्या कल्पितत्वात् खलक्षणस्यैवोत्पादव्ययवतः सत्त्वादित्येकांतव्यवच्छित्तये ध्रौव्ययुक्तमित्यभिभाषणात् । स्यान्मतं; यद्युत्पादादीनि परैरुत्पादादिभिर्विना संति तदा द्रव्यमपि तैर्विनैव सदस्त्विति व्यर्थ तद्युक्तवचनं, अथ परैरुत्पादादिभिर्योगात् तदानवस्था स्यात् प्रत्येकमुत्पादादीनामपरोत्पादादित्रययोगात्तदुत्पादादीनामपि प्रत्येकमपरोत्पादादित्रययोगतः सत्त्वसिद्धेः । सुदूरमपि गत्वोत्पादादीनां खतः सत्त्वे सतोपि स्वत एव सत्त्वं भवेदुत्पादादीनां सतोन तरत्वे लक्ष्यलक्षणभावविरोधस्तद्विशेषाभावादिति । तदेतत्प्रज्ञाकरेणोक्तं तस्याप्रज्ञाविजूंभितमित्ययं दर्शयति; यथोत्पादादयः संतः परोत्पादादिभिर्विना । तथा वस्तु न चेत्केनानवस्थादि निवार्यते ॥२॥ इत्यसत्सर्वथा तेषां वस्तुनो सदसिद्धितः । लक्ष्यलक्षणभावः स्यात्सर्वथैक्यानभीष्टितः ॥३॥ उत्पादव्ययध्रौव्यैक्ययुक्तं सत्समाहितं । तादात्म्येन स्थापितं सदिति युजेः समाध्यर्थस्य व्याख्यानान्न तेषां सतोर्थीतरत्वमुच्यते येन तत्पक्षभावी दोषोनवस्था तद्योगवैयर्थ्यलक्षणः स्यात् । न चार्थीतरत्वमेव यतो लक्ष्यलक्षणभावविरोधः कथंचिद्भेदोपगमायुजेर्योगार्थस्यापि व्याख्यानात् ॥ किं पुनः सतो रूपं नित्यं ? यौव्ययुक्तं स्यात् , किं वानित्यं ? यदुत्पादव्यययुक्तं भवेदित्युपदर्शयन्नाह; तद्भावाव्ययं नित्यं ॥ ३१ ॥ सामर्थ्याल्लभ्यते द्वितीयं सूत्रं 'अतद्भावेन सव्ययमनित्यं' इति तस्य भावस्तद्भावस्तत्त्वमेकत्वं तदेवमिति प्रत्यभिज्ञानसमधिगम्यं तदित्युपगमात् । तेन कदाचिद्ययासत्त्वादव्ययं नित्यं सामर्थ्यादनुत्पादमिति गम्यते व्ययनिवृत्तावुत्पादनि त्तिसिद्धेरुत्तराकारोत्पादस्य पूर्वाकारव्ययेन व्याप्तत्वात् तन्निवृत्तौ निवृत्तिसिद्धेः । अतद्भावोन्यत्वं पूर्वलादन्यदिदमित्यन्वयप्रत्ययादवसेयं । तत्त्वध्रौव्यमनित्यमुत्पादव्यययोगात् तदुक्तं नित्यं तदेवेदमिति प्रतीतेन नित्यमन्यप्रतिपत्तिसिद्धेरिति तदेव युक्तमेतत्सूत्रद्वितयमित्युपदर्शयति;- . Page #444 -------------------------------------------------------------------------- ________________ • पञ्चमोऽध्यायः । ४३५ तद्भावेनाव्ययं नित्यं तथा प्रत्यवमर्शतः । तद्रव्यं वस्तुनो रूपं युक्तमर्थक्रियाक्रियः ॥ १ ॥ सामर्थ्यात्सव्ययं रूपमुत्पादव्ययसंज्ञकं । सूत्रेस्मिन् सूचितं तस्यापाये वस्तुत्वहानितः ॥ २ ॥ न ह्येकांततो नित्यं सन्नाम तस्य क्रमयौगपद्याभ्यामर्थक्रियारोधात् । नाप्यनित्यमेव तत एव । न चार्थक्रियारहितं वस्तु सत् खरशृंगवत्, अर्थक्रियाकारिण एव वस्तुनः सत्त्वोपपत्तेः । ततस्सन्नित्यमनित्यं च युक्तं सूचितमविरुद्धत्वात् ॥ कुतस्तदविरुद्धमित्याह; — अर्पितानर्पित सिद्धेः ॥ ३२ ॥ तद्भावेनाव्ययं नित्यमतद्भावेन सव्ययमनित्यमिति साध्यं । ततः -- नित्यं रूपं विरुध्येत नेतरेणैकवस्तुनि । अर्पितेत्यादिसूत्रेण प्राहैवं नयभेदवत् ॥ १ ॥ कुतः पुनः सतो नित्यमनित्यं च रूपमर्पितं चेत्याह; द्रव्यार्थादर्पितं रूपं पर्यायार्थादनर्पितं । नित्यं वाच्यमनित्यं तु विपर्यासात्प्रसिद्ध्यति ॥ २ ॥ द्रव्यार्थादादिष्टं रूपं पर्यायार्थादनादिष्टं यथा नित्यं, तथा पर्यायार्थादादिष्टं द्रव्यार्थादनादिष्टमनित्यमिति सिद्ध्यत्येव । ततस्तदेकत्र सदात्मनि न विरुद्धं । यदेव रूपं नित्यं तदेवानित्यमिति वचने विरोधसिद्धेः विकलादेशायत्तनयनिरूपणायां सर्वथा विरोधस्यानवतारात् ॥ नन्वेवमुभयदोषाद्यनुषंगः स्यादित्यारे कायामिदमाह ; - प्रमाणार्पणतस्तत्स्याद्वस्तु जात्यंतरं ततः । तत्र नोभयदोषादिप्रसंगोनुभवास्पदे ॥ ३ ॥ न हि सकलादेशे प्रमाणायते प्रतिभासनमुत्पादव्ययधौव्ययुक्तं तदुभयदोषाभ्यां स्पृश्यते, तस्य नित्यानित्यैकांताभ्यां जात्यंतरत्वात् । तत एव नानवस्थावैयधिकरण्यं संकरव्यतिकरौ वा संशयो वा यतो प्रतिपत्तेरभावस्तस्यापाद्यते चित्रसंवेदनवदनुभवास्पदे वस्तुनि तदनवतारात् । तदित्थं परापरद्रव्यस्य सल्लक्षणस्य प्रसिद्धेर्न चाक्षुषमवयविद्रव्यं पुद्गलं स्कंधसंज्ञकं प्रतिक्षेप्तुं शक्यं, सर्वप्रतिक्षेपप्रसंगात् ॥ कुतः पुनः पुद्गलानां नानाद्रव्याणां संबंधो यतः स्कंध एकोवतिष्ठत इत्यारे कायामिदमाह;स्निग्धरूक्षत्वाद्वंघः ॥ ३३ ॥ स्नेहगुणयोगात्स्निग्धाः रूक्षगुणयोगाद्र्क्षास्तद्भावात् पुद्गलानां बंधः स्यात् । न रूक्षो नाम गुणोस्ति, स्नेहाभावे रुक्षव्यवहारसिद्धेरिति चेन्न; रूक्षाभावे स्नेहव्यवहारप्रसंगात् स्नेहस्याप्यभावोपपत्तेः, शीताभावे चोष्णव्यवहारप्रसक्तेरुष्णगुणाभावानुषंगात् । स्पर्शनेंद्रियज्ञाने शीतवदुष्णगुणस्य प्रतिभासनादुष्णो गुणस्पर्शविशेषोनुष्णाशीतपाकजेतरस्पर्शवदिति चेत्, तर्हि स्नेहस्पर्शन करणज्ञाने रूक्षस्य लघुगुरुस्पर्शविशेषवदवभासनात् कथं रूक्षो गुणो न स्यात् ? तस्य बाधकाभावादप्रतिक्षेपार्हत्वाच्चतुर्विंशतिरेव गुणा इति नियमस्याघटनात् । तथा सति; स्कंधो बंधात्स चास्त्येषां स्त्रिग्धरूक्षत्वयोगतः । पुद्गलानामिति ध्वस्ता सूत्रे स्मिंस्तदभावता १ स्निग्धाः स्निग्धैस्तथा रूक्षा रूक्षैः स्निग्धाश्च पुद्गलाः । बंधं यथासते स्कंधसिद्धेर्बाधक हानित: २ नैकदेशेन कात्र्येन बंधस्याघटनात्ततः । कार्यकारणमाध्यस्थ्यक्षणवत्तद्विभावनात् ॥ ३ ॥ यथैककार्यकारणक्षणाभ्यां तन्मध्यस्यैकदेशेन संबंधे सावयवत्वमनवस्था च तदेकदेशाप्येकदेशांतरेण संबंधात् । कात्र्येन संबंधे पुनरेकक्षणमात्र संतानप्रसंग: कार्यकारणभावाभावश्च सर्वथैकस्मिंस्तद्विरोधात् । Page #445 -------------------------------------------------------------------------- ________________ ४३६. तत्त्वार्थश्लोकवार्तिके [सू० ३४ किं तर्हि ? संबंध एवेति कथ्यते । तथा परमाणूनामपि युगपत्परस्परमेकत्वपरिणामहेतुर्बधो नैकदेशेन सर्वात्मना वा सावयवत्वानवस्थाप्रसंगादेकपरमाणुमात्रपिंडप्रसंगाच्च । किं तर्हि ? पिंड एव स्निग्धरूक्षत्वविशेषायत्तत्वात्तस्य तथा दर्शनात् सक्ततोयादिवत् ॥ पूर्वापरविदां बंधस्तथाभावात् परो भवेत् । नानाणुभावतः सांशादणोर्वधोऽपरोस्ति किम् ||४|| निरंशत्वं न चाणूनां मध्यं प्राप्तस्य नावतः । तथा ते संविदोर्मध्यं प्राप्ताया: संविदः स्फुटम् संविदद्वैततत्त्वस्यासिद्धौ बंधो न केवलं । स स्यात् किंतु स्वसंतानाद्यभावात्सर्वशून्यता ॥ ६ ॥ तत्संविन्मात्रसंसिद्धौ संतानस्ते प्रसिद्ध्यति । तद्वद्वंघः स्थितोर्थानां परिणामो विशेषतः ||७|| शून्यवादिनापि संविन्मात्रमुपगंतव्यं तस्य चावश्यं कारणमन्यथा नित्यत्वप्रसंगात् कार्यमभ्युपगंतव्य - मन्यथा तदवस्तुत्वापत्तेरिति तत्संतानसिद्धिः । तत्सिद्धौ च कार्यकारणसंविदोर्मध्यमध्यासीनायाः संविदस्तत्संबंधेपि सांशत्वाभाववत्परमाणूनां मध्यमधिष्ठितोपि परमाणोरनंशत्वसिद्धेस्तत्सर्व समुदाय विशेषोप्यनेकपरिणामो बंधः प्रसिद्ध्यत्येव । स च सर्वपरमाणूनामविशेषेण प्रसक्त इत्यनिर्गुणानां बंधप्रतिषेधार्थमाह ; - न जघन्यगुणानाम् ॥ ३४ ॥ जघन्यमिव जघन्यं निकृष्टमिति शाखादित्वादेर्देहांगत्वाद्वा जघनशब्दसिद्धिः जघने भवो जघन्योनिकृष्टः जघन्य इव जघन्योत्यताप्रकृष्ट इति । गुणशब्दस्यानेकार्थत्वे विवक्षावशाद्भागग्रहणं द्विगुणावयवा इति यथा द्विभागा इत्यर्थप्रतिपत्तेर्जघन्यो गुणो येषां ते जघन्यगुणाः परमाणवः सूक्ष्मत्वाद्वा तेषां न बंध इत्यभिसंबंधः । तेनैकगुणस्य स्निग्धरूक्षस्य वा परेण स्निग्धेन रूक्षेण चैकगुणेन द्वित्रिसंख्येयासंख्येयानंतगुणेन वा नास्ति बंधस्तथा व्यादिभिर्द्यादिगुणैरेकगुणैश्चेति सूत्रितं भवति । ननु च जघन्यगुणाः परमाणवः केचित्संतीति कुतो निश्चयः स्निग्धरूक्षगुणयोरप कर्षातिशयदर्शनात् परमापकर्षस्य सिद्धैर्जघन्यगुणसिद्धिः । उष्ट्रीक्षीराद्धि महिषीक्षीरस्यापकृष्टः स्नेहगुणः प्रतीयते ततो गोक्षीरस्य ततोप्यजाक्षीरस्य ततोपि तोयस्येति । तथा रूक्षगुणोपि शर्करातः कणिकानामपकृष्टः प्रतीयते ततोपि पांशूनामिति । स्निग्धरूक्षगुणः कचिदत्यंतमपकर्षमेति प्रकृष्यमाणापकर्षत्वादा नभसः परिमाणे परिमाणवादित्यनुमानाज्जघन्यगुणसिद्धि: । एतेनोत्कृष्टगुणसिद्धिर्व्याख्याता, प्रकर्षातिशयदर्शनात्कचित्परमप्रकर्षसिद्धेः । ननु च कदाचिदबंधः परमाणूनां सर्वदा स्कंधात्मतयैव पुद्गलानामवस्थितेः । बुद्ध्या परमाणुकल्पनोपपत्तेरविभागपरिच्छेदवदिति कश्चित्तं प्रत्याह ; --- न जघन्यगुणानां स्याद्वंध इत्युपदेशतः । पुद्गलानामबंधस्य प्रसिद्धेरपि संग्रहः ॥ १ ॥ स्कंधानामेव केषांचिद्वालुकादीनामबंधोस्तु न परमाणूनामित्ययुक्तं, प्रमाणविरोधात् । "पृथिवी सलिलं छाया चतुरिंद्रियविषयकर्मपरमाणुः षड्विधभेदं भणितं पुद्गलतत्त्वं जिनेंद्रेणे" त्यागमेन पारमार्थिकपरमाणुप्रकाशकेन कल्पितपरमाणुवादस्य विधानात् । परमार्थतो असंबंधपरमाणुवादस्य च परमाणूत्पत्तिसूत्रेण निराकरणात् । भेदादणुः कल्प्यते इति क्रियाध्याहारान्नोत्पत्तिः परमाणूनामिति चेन्न, भेदसंघातेभ्य उत्पद्यंत इत्यत्र स्वयमुत्पद्यंत इति क्रियायाः क्रियांतराध्याहारनिवृत्त्यर्थमुपन्यासात् भेदादणुरिति सूत्रस्य नियमाथत्वात् पूर्वसूत्रेणैव परमाणूत्पत्तेर्विधानात् । किं च, विवादापन्नाः स्कंधभेदाः कचित्प्रकर्षभाजः प्रकृष्यमाणत्वात् परिमाणवदित्यनुमानबाधितत्वान्न परमाणूनामबंधकल्पना श्रेयसी । ननु च परमाणूना Page #446 -------------------------------------------------------------------------- ________________ • पञ्चमोऽध्यायः । ४३७ मबंधसाधने तेषां पुनर्बंधाभावः साकल्येनैकदेशेन बंधस्याघटनादिति चेन्न, सूक्ष्मस्कंधानामपि बंधाभावप्रसंगात् । तेषामपि कात्रुर्येन बंधे सूक्ष्मैकस्कंध मात्रपिंडप्रसक्तेः । एकदेशेन संबंधे चैकस्कंधदेशस्य स्कंधांतरदेशेन बंधो नैकदेशेन वा भवेत् ? कात्सूर्येन चेत्तदेकदेशमात्रप्रसक्तिः, एकदेशेन चेदनवस्था स्यात् प्रकारांतरेण तद्वन्द्वे परमाणूनामपि बंधस्तथैव स्यात् स्निग्धरूक्षत्वाद्वेध इति निःप्रतिद्वंद्वस्य बंधस्य साधनात् । ततः सूक्तं न जघन्यगुणानां बंध इति । प्रतिषेधवत्पुद्गलानामबंधसिद्धेरपि संग्रह इति । येषां परमाणूनां बंधस्तेषां बंध एव सर्वदा, येषां त्वबंधस्तेषामबंध एवेत्येकांतोप्यनेनापास्तः । केषांचिदबंधानामपि कदाचिद्वंधदर्शनाद्वंघवतां वा बंधप्रतीतेर्बाधकाभावात् परमाणुष्वपि तन्नियमानुपपत्तेः ॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ गुणवैषम्ये बंधप्रतिपत्त्यर्थं सदृशग्रहणं । सदृशानां स्निग्धगुणानां परस्परं रूक्षगुणानां वान्योन्यं भागसाम्ये बंधस्य प्रतिषेधात् । नन्वेवं विसदृशानां गुणसाम्ये बंधप्रतिषेधो न स्यादिति न मंतव्यं, सदृशग्रहणस्य विसदृशव्यवच्छेदार्थत्वाभावात् सदृशानामेवेत्यवधारणानाश्रयणात् । गुणसाम्ये वे सूत्रोपदेशे हि सदृशानां गुणवैषम्येपि बंधप्रतिषेधप्रसक्तौ तद्वत्तत्सिद्धये सदृशग्रहणं कृतं, तेन स्निग्धरूक्षजात्या साम्येपि गुणवैषम्ये बंधसिद्धिः । किमर्थमिदं सूत्रमब्रवीदित्याह ; अजघन्यगुणानां तत्प्रसक्तावविशेषतः । गुणसाम्ये समानानां न बंध इति चाब्रवीत् ॥ १ ॥ केषां पुनर्बंध: स्यादित्याह ; धिकादिगुणानां तु ॥ ३६ ॥ व्यधिकश्चतुर्गुणः । कथं ? एकगुणस्य केनचिद्वंधप्रतिषेधाद्विगुणस्य बंधसंभवात्ततोयधिकस्य चतुर्गुणत्वोपपत्तेः । प्रकारवाचिनादिग्रहणेन पंचगुणादिपरिग्रहः, त्रिगुणादीनां बंधे पंचगुणादीनां व्यधिकतोपपत्तेः । एवं च तुल्यजातीयानां विजातीयानां च व्यधिकादिगुणानां बंधः सिद्धो भवति । तु शब्दस्य प्रतिषेधानिवृत्त्यर्थत्वात् । तथाहि अधिकादिगुणानां तु बंधोस्तीति निवेदयत् । सर्वापवादनिर्मुक्तविषयस्याह संभवम् ॥ १॥ उक्तं च । “णिद्धस्स णिद्वेण दुराहिएण लुक्खस्स लक्खेण दुराहिएण । णिद्धस्स लुक्खेण उ एइ बंध जहणजे विसमे समे वा ॥" विषमोऽतुल्यजातीयः समः सजातीयो न पुनः समानभाग इति व्याख्यानान्न समगुणयोर्बंधप्रसिद्धिः ॥ कुतः पुनर्द्वावेव गुणावधिको सजातीयस्य विजातीयस्य वा परेण बंधहेतुतां प्रतिपद्येते नान्यथेत्याह; - jarat पारिणामिकौ ॥ ३७ ॥ यस्मादिति शेषः । प्रकृतत्वाद्गुणसंप्रत्ययः । क्व, प्रकृतौ गुणौ व्यधिकादिगुणानां त्वित्यत्र समासे गुणीभूतस्यापि गुणशब्दस्यानुवर्तनमिह सामर्थ्यात् तदन्यस्यानुवर्तनासंभवात् । गुणाविति वाभिसंबंधोर्थवशाद्विभक्तिवचनयोः परिणामात् भावांतरापादकौ पारिणामिकौ, रेणोः क्लिन्नगुडवत् । तथाहि बंधेधिको गुणौ यस्मादन्येषां पारिणामिकौ । दृष्टौ सक्कुजलादीनां नान्यथेत्यत्र युक्तिवाक् १ तथैव हि रूक्षाणां सक्तूनां स्निग्धा जलकणास्ततो द्वाभ्यां गुणाभ्यामधिका: पिंडात्मतया पारिणामिका दृश्यते नान्यथा । तथैव परमाणोर्द्विगुणस्य चतुर्गुणः परमाणुः परिणामकः स्यादन्यथा द्वयोः परमाण्वो - Page #447 -------------------------------------------------------------------------- ________________ तत्त्वार्थ श्लोकवार्तिके [सू० ३८ रन्योन्यमविविक्तरूपद्व्यणुकस्कंध परिणामायोगात् संयोगमात्रप्रसक्तेः परस्परविवेकप्रसक्तेस्तदनन्वयवत्त्वं । न च विभागसंयोगाभ्यामन्यपरिणामः प्राप्तिरूपो न संभवतीति युक्तं वक्तुं तृतीयस्यावस्थाविशेषस्य स्कंधैकत्वप्रत्ययहेतोः सद्भावात् । शुक्लपीतद्रव्ययोः परिणामे युक्तपीतवर्णपरिणामवत् क्लिन्नगुडानुप्रवेशे रेण्वादीनां मधुरसपरिणामवद्वा । नन्वत्रापि द्वावेव गुणावधिको पारिणामिकाविति कुतः प्रतिपत्तिः ? सुनिश्चितासंभवद्बाधकप्रमाणादागमाद्विशेषतस्तत्प्रतिपत्तिः । एवं युक्तमार्षे वर्गणायां बंधविधाने नोआगमद्रव्यबंधविकल्पो सादिवैख सिकबंध निर्देशे प्रोक्तः । विषमस्निग्धतायां विषमरूक्षतायां च बंधः समस्त्रिग्धतायां समरूक्षतायां वा भेद इति । तदनुसारेण सूत्रकारैर्बंधव्यपस्थापनात् परमागमसिद्धो बंधविशेषहेतुर्ह्यधिकादिगुणत्वं । द्वयोरेव वाधिकयोर्गुणयोः पारिणामिकत्वं । सामान्येन तु पुद्गलानां बंधहेतुः कश्चिदस्ति कात्स्यैकदेशतो बंधासंभवेपि बंधविनिश्चयात्तत्र बाधकाभावादिति पुद्गलस्कंधद्रव्यसिद्धिः, तस्यैव रूपादिभिः खभावैः परिणतस्य चक्षुरादिकरणग्राह्यतामापन्नस्य रत्यादिव्यवहारगोचरतया व्यवस्थितेः । न हि तथा परिणतं तद्भवत्यतिप्रसंगात् नापि तदेव परिणाममात्रप्रसंगात् । न च परिणामिनोसत्त्वे परिणामः संभवति खरविषाणस्य तैक्ष्ण्यादिवत् । नापि परिणामाभावे परिणामि भवति खरविषाणवदिति परिणामपरिणामिनोरन्योन्याविनाभावित्वादन्यतरापायेप्युभयासत्त्वप्रसक्तिः । ततो नित्यतापरिणामि द्रव्यमुपगंतव्यं तत्परिणामवत् ॥ ४३८ गुणपर्ययवद्रव्यम् ॥ ३८ ॥ गुणाः वक्ष्यमाणलक्षणाः पर्यायाश्च तत्सामान्यापेक्षया नित्ययोगे मतुः । द्रवति द्रोण्यत्यदुद्रुवत्तां - स्तान् पर्यायानिति द्रव्यमित्यपि न विरुध्यते । विशेषापेक्षया पर्यायाणां नित्ययोगाभावात्कादाचित्कत्वसिद्धेः ॥ किमर्थमिदं पुनर्द्रव्यलक्षणं ब्रवीतीत्यारेकायामाह ; गुणपर्ययवद्रव्यमित्याह व्यवहारतः । सत्पर्यायस्य धर्मादेर्द्रव्यत्वप्रतिपत्तये ॥ १ ॥ सतो हि महाद्रव्यस्य पर्यायो धर्मास्तिकायादिर्व्यवहारनयार्पणायां द्रव्यत्वमपि स्वीकरोत्येव, तस्य चाधारसाधारणलक्षणं गुणपर्यायवत्त्वमिति प्रतिपत्तव्यं, न पुनः क्रियावत्त्वं तस्याव्यापकत्वान्निष्क्रियेष्वाकाशादिष्वभावात् । समवायिकारणत्वमपि न द्रव्यलक्षणं युक्तं, गुणकर्मणोरपि द्रव्यत्वप्रसंगात्तयोर्गुणत्वकर्मत्वसमवायिकारणत्वसिद्धेः । तयोस्तत्समवायित्वमेव तत्कारणत्वं गुणत्वकर्मत्वसामान्ययोरकार्यत्वादिति चेन्न, सदृशपरिणामलक्षणस्य सामान्यस्य कथंचित्कार्यत्वसाधनात् । कथंचित्तदनित्यत्वमपि नानिष्टं, प्रत्यभिज्ञानस्य सर्वथा नित्येष्वसंभवादित्युक्तप्रायं । गुणवत्त्वे सति क्रियावत्त्वं समवायिकारणत्वं च द्रव्यलक्षणमित्यप्ययुक्तं, गुणवद्रव्यमित्युक्ते लक्षणस्याव्याप्त्यतिव्याप्त्योरभावात् तद्वचनानर्थक्यात् । नन्वेवमत्रापि पर्यायवद्द्रव्यमित्युक्ते गुणवदित्यनर्थकं सर्वद्रव्येषु पर्यायबंधस्य भावात् । गुणवदिति चोक्ते पर्यायवदिति व्यर्थं तत एवेति तदुभयं लक्षणं द्रव्यस्य किमर्थमुक्तमित्यत्रोच्यते गुणवद्रव्यमित्युक्तं सहानेकांतसिद्धये । तथा पर्यायवद्द्रव्यं क्रमाकांतवित्तये ॥ २ ॥ नास्त्येकत्र वस्तुनीहानेको धर्मः सर्वभावानां परस्पर परिहारस्थितिलक्षणत्वादेकेन धर्मेण सर्वात्मना व्याप्तेः धर्मिणि धर्मांतरस्य तद्व्याप्तिविरोधादन्यथा सर्वधर्मसंकरप्रसंगादिति । सहानेकांत निराकरणवादिनः प्रति गुणवद्द्रव्यमित्युक्तं । सकृदनेकधर्माधिकरणस्य वस्तुनः प्रतीयमानत्वात् कुटे रूपादिवत् खपरपक्षसाधकत्वेतरधर्माधिकरणैकहेतुवत् । पितापुत्रादिव्यपदेशविषयाने कधर्माधिकरणपुरुषवद्वा । ग्राह्यग्राहकसंवेदनाकारं संवेदनमेकमुपयन् सकृदनेकधर्माधिकरणमेकं बहिरंतर्वा प्रतिक्षिपतीति कथं परीक्षको नाम ? - Page #448 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ४३९ वेद्याद्याकारविवेकं परोक्षं संविदाकारं च प्रत्यक्षमिच्छन्नपि न सहानेकांतं निराकर्तुमर्हति संविदद्वैते प्रत्यक्षपरोक्षाकारयोरपारमार्थिकत्वे परमार्थेतराकारमेकं संवेदनं बलादापतेत् परमार्थाकारस्यैव सत्त्वात् संविदा नापारमार्थिकाकारः, सन्निति ब्रुवाणस्सकृत्सदसत्त्वस्वभावाक्रांतमेकं संवेदनं स्वीकरोत्येव । न सन्नाप्यसत्संवेदनमित्यपि व्याहतं, पुरुषाद्वैतादिवत्ततः सकृदनेकस्वभावमेकं वस्तु तत्त्वतः सर्वस्य खेष्टतत्त्वव्यवस्थानुपपत्तेः । खपररूपोपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुत्वस्येति प्रपंचितप्रायं । तथा क्रमानेकांतनिराकरणवादिनं प्रति पर्यायवद्रव्यं प्रतीयमानत्वात् सर्वस्य परिणामित्वसिद्धेः प्रतिपादितत्वात् । एवं क्रमाक्रमानेकांतनिराकरणप्रवणमानसं प्रति गुणपर्यायवद्र्व्यमित्युक्तं सर्वथा निरुपाधिभावस्याप्रमाणत्वात् । अथवेयं त्रिसूत्री समवतिष्ठते, गुणवद्रव्यं पर्ययवद्रव्यं गुणपर्ययवद्रव्यं द्रव्यत्वान्यथानुपपत्तेरित्यनुमानत्रयं चेदं संक्षेपतो लक्ष्यते । ननु चैवं निष्क्रियं न सर्वद्रव्यसमवायिकारणं चेति पराकूतनिराकृतये क्रियावद्रव्यं समवायिकारणमिति च द्रव्यलक्षणमभिधीयते, पृथिव्यप्तेजोवायुननसां क्रियावत्त्वसिद्धेः सर्वद्रव्याणां समवायिकारणत्वस्य च गुणवत्त्ववत्प्रतीतेरित्येतदपि च परेषां वचोऽसमीचीनं, द्रव्यवद्विशेषवत्सामान्यवच्च द्रव्यमिति द्रव्यलक्षणवचनप्रसंगात् । न कार्यद्रव्यवत्कारणद्रव्यं नापि विशेषवत्सामान्यवद्वेति परद्रव्यविप्रतिपत्तिनिराकरणार्थत्वात् । स्याद्वादिनां पुनः कार्यद्रव्यविशेषसदृशपरिणामलक्षणसामान्यानामपि क्रियावत्समवायवच्च पर्यायत्वान्न तथा वचनं कर्तव्यमिति सर्वमनवद्यं ।। तदेवं जीवपुद्गलधर्माधर्माकाशभेदात्पंचविधमेव द्रव्यमिति वदंतं प्रत्याह; कालश्च ॥ ३९॥ गुणपर्ययवद्रव्यमित्यभिसंबंधनीयम् ॥ कालश्च द्रव्यमित्याह प्रोक्तलक्षणयोगतः । तस्याद्रव्यत्वविज्ञाननिवृत्त्यर्थ समासतः॥१॥ के पुनः कालस्य गुणाः के च पर्यायाः प्रसिद्धा यतो गुणपर्यायवद्र्व्यमिति प्रोक्तलक्षणयोगः सियेत्तस्याद्रव्यत्वविज्ञाननिवृत्तेश्चेत्यत्रोच्यतेनिःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयोमिधा २ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः संति कालस्य गुणपर्यायवानतः ॥३॥ सर्वद्रव्यैः संयोगस्तावत्कालस्यास्ति सादिरनादिश्च विभागश्चासर्वगतक्रियावद्रव्यैः संख्यापरिमाणादयश्च गुणा इति सामान्यतोऽशेषद्रव्यसंयोगस्य विभागादिगुणानां चाश्रयः कालः सिद्धः । विशेषेण तु सूक्ष्मामूर्तत्वागुरुलघुत्वैकप्रदेशत्वादयस्तस्य गुणा इति सूक्ष्मत्वादिविशेषगुणाश्रयश्च । क्रमवृत्तीनां पदार्थानां पुद्गलादिपर्यायाणां वृत्तिहेतुत्वपरिणामक्रियाकारणत्वपरत्वापरत्वप्रत्ययहेतुत्वाख्याः पर्यायाश्च कालस्य संति यैस्तत्तानुमानमिति । गुणपर्यायवान् कालः । कथं द्रव्यलक्षणभाक् ? ततः कालो द्रव्यं गुणपर्ययवत्त्वाज्जीवादिद्रव्यवदिति तस्याद्रव्यत्वविज्ञाननिवृत्तिः ॥ सोऽनंतसमयः॥४०॥ परमसूक्ष्मः कालविशेषः समयः अनंताः समया यस्य सोनंतसमयः कालोवबोद्धव्यः । पर्यायतो द्रव्यतो वा व्यवहारतः परमार्थतो वेति शंकायामिदमुच्यते सोनंतसमयः प्रोक्तो भावतो व्यवहारतः । द्रव्यतो जगदाकाशप्रदेशपरिमाणकः ॥१॥ भावः पर्यायस्तेनानंतसमयः कालोनंतपर्यायवर्तनाहेतुत्वात् । एकैको हि कालाणुरनंतपर्यायान् वर्त सानसि Page #449 -------------------------------------------------------------------------- ________________ ४४० तत्त्वार्थश्लोकवार्तिके [सू० ४२ यते प्रतिक्षणं शक्तिभेदान्नान्यथा । ततोनंतशक्तिः सन्ननंतसमयः व्यवहारतोऽभिधीयते समयस्य व्यवहारकालत्वादावलिकादिवत् । द्रव्यतस्तु लोकाकाशप्रदेशपरिमाणकोऽसंख्येय एव कालो मुनिभिः प्रोक्तो न पुनरेक एवाकाशादिवत् , नाप्यनंतः पुद्गलात्मद्रव्यवत् प्रतिलोकाकाशप्रदेशं वर्तमानानां पदार्थानां वृत्तिहेतुत्वसिद्धेः । लोकाकाशाद्वहिस्तदभावात् । कथमेवमलोकाकाशस्य वर्तनं कालकृतं युक्तं तत्र कालस्यासंभवादिति चेत् , अत्रोच्यते लोकादहिरभावे स्याल्लोकाकाशस्य वर्तनं । तस्यैकद्रव्यतासिद्धेयुक्तं कालोपपादितं ॥ २ ॥ न ह्यलोकाकाशं द्रव्यांतरमाकाशस्यैकद्रव्यत्वात्तस्य लोकस्यांतर्बहिश्च वर्तमानस्य वर्तनं लोकवर्तिना कालेनोपपादितं युक्तं, न पुनः कालानपेक्षं सकलपदार्थवर्तनस्यापि कालानपेक्षत्वप्रसंगात् । न चैतदभ्युपगंतुं शक्यं, कालास्तित्वसाधितत्वात् ॥ ___ ननु च जीवादीनि षडेव द्रव्याणि गुणपर्यायवत्त्वान्यथानुपपत्तेरित्ययुक्तं गुणानामपि द्रव्यत्वप्रसंगातेषां गुणपर्ययवत्त्वप्रतीतेरित्यारेकायामिदमाह; द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ आशयशब्दोधिकरणसाधनः कर्मसाधनो वा द्रव्यशब्द उक्तार्थः । द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः, निष्क्रांता गुणेभ्यो निर्गुणाः । एवंविधा गुणाः प्रतिपत्तव्याः न पुनरन्यथा । तत्र द्रव्याश्रया इति विशेपणवचनाद्गुणानां किमवसीयत इत्युच्यते द्रव्याश्रया इति ख्यातेः सूत्रेस्मिन्नवसीयते । गुणाश्रया गुणत्वाद्या न गुणाः परमार्थतः ॥१ न हि गुणत्वसर्वज्ञेयत्वधर्मा गुणाश्रया गुणा शक्यव्यवस्थाः, परमार्थतस्तेषां कथंचिद्गुणेभ्योनांतरतया गुणत्वोपचारात् । तत्त्वतस्तेषां गुणत्वे गुणानां द्रव्यत्वप्रसंगाद्गुणगुणिभावव्यवहारावस्थितिविरोधात् । द्रव्येष्वपि गुणास्तदुपचरिता एव भवंतु विशेषाभावादित्ययुक्तं, क्वचिन्मुख्यगुणाभावे तदुपचारायोगात् । ततो द्रव्याश्रया इति वचनादद्रव्याश्रयाणां गुणत्वादीनां गुणत्वं व्यावर्तितमवसीयते । निर्गुणा इति वचनात् । किं क्रियते इत्याहनिर्गुणा इति निर्देशात्कार्यद्रव्यस्य वार्यते । गुणभावः परद्रव्याश्रयिणोपीति निर्णयः ॥ २ ॥ द्रव्याश्रया गुणा इत्युच्यमाने हि परमाणुद्रव्याश्रयाणां ध्यणुकादिकार्यद्रव्याणां गुणत्वं प्रसज्येत तन्निगुणा इति वचनाद्विनिवार्यते तेषां गुणत्वेन द्रव्यत्वसिद्धेः । एतेन घटसंस्थानादीनां गुणत्वं प्रत्युक्तं, तेषां पर्यायत्वात् ॥ कः पुनरसौ पर्याय इत्याह; तद्भावः परिणामः ॥४२॥ जीवादीनां द्रव्याणां तेन प्रतिनियतेन रूपेण भवनं तद्भावः तेषां द्रव्याणां खभावो वर्तमानकालतयानुभूयमानस्तद्भावः परिणामः प्रतिपत्तव्यः । स च तद्भावः परिणामोत्र पर्यायः प्रतिवर्णितः । गुणाच सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम्॥१ पूर्वखभावपरित्यागाजहद्वृत्तोत्पादो द्रव्यस्योत्तराकारः परिणामः स एव पर्यायः क्रमवान् द्रव्यलक्षणं । न वासौ गुण एव प्रतिवर्णितस्तस्य सहभावित्वात्कथंचिद्भिन्नत्वेन व्यवस्थानात् । नन्वेवं नयद्वयविरोधस्तृ. तीयस्य गुणार्थिकनयस्य सिद्धेरित्यारेकायामाह Page #450 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । ४४१ पर्याय एव च द्वेधा सहक्रमविवर्तितः । शुद्धाशुद्धत्वभेदेन यथाद्रव्यं द्विधोदितं ॥ २ ॥ तेन नैव प्रसज्येत नयद्वैविध्यबाधनं । संक्षेपतोन्यथा त्र्यादिनयसंख्या न वार्यते ॥ ३ ॥ संक्षेपतो हि द्रव्यार्थिकः पर्यायार्थिकश्चेति नयद्वयवचनं गुणवचने न बाध्यते पर्यायस्यैव सहक्रम - विवर्तनवशाद्गुणपर्यायव्यपदेशात् द्रव्यस्य निरुपाधित्ववशेन शुद्धाशुद्धव्यपदेशवत् । प्रपंचस्तु यथा शुद्धद्रव्यार्थिकोऽशुद्धद्रव्यार्थिकश्चेति द्रव्यार्थिको द्वेधा । तथा सहभावी पर्यायार्थिकः क्रमभावी पर्यायार्थिकश्चेति पर्यायार्थिकोप द्वेधा अभीयतां । ततख्यादिसंख्या न वार्यत एव द्विभेदस्य पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य विवक्षायां नयत्रितयसिद्धेः । पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य द्विभेदस्य विवक्षायामिति कश्चित् । द्वयोर्विभेदयोर्विवक्षायां तु नयचतुष्टयमिष्यते । ते नैगमसंग्रह व्यवहार विकल्पाद्रव्यार्थिकस्य त्रिविधस्य पर्यायार्थिकस्य चार्थपर्यायव्यंजनपर्यायार्थिकभेदेन द्विविधस्य विवक्षायां नयपंचकं शुद्धाशुद्धद्रव्यार्थिकद्वयस्य ऋजुसूत्रादिपर्यायार्थिकचतुष्टयस्य विवक्षायां नयष्टुं नैगमादिसूत्रपाठापेक्षया नयसप्तकमिति । नयानामष्टादिसंख्यापि न वार्यते । ततो न गुणेभ्यः पर्यायाणां कथंचिद्भेदेन कथनमयुक्तं, गुणपर्यवद्रव्यमिति द्रव्यलक्षणं निरवद्यं न भवेत् ॥ प्रतीयतामेवमजीवतत्त्वं समासतः सूत्रितसर्वभेदं । प्रमाणतस्तद्विपरीतरूपं प्रकल्प्यतां सन्नयतो निहत्य ॥ १ ॥ इति पंचमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ ५६ Page #451 -------------------------------------------------------------------------- ________________ अथ षष्ठोऽध्यायः ॥ ६॥ कार्यवाड्मनःकर्म योगः ॥१॥ नवजीवपदार्थव्याख्यानानंतरमास्रवे वक्तव्ये किं चिकीर्षुः सूत्रकारः प्रागेव योगं ब्रवीतीत्यारेकायामिदमुपदिश्यते; अथास्रवं विनिर्देष्टुकामः प्रागात्मनोंजसा । कायवाङ्मनसां कर्म योगोस्तीत्याह कर्मणाम्॥१॥ आत्मनः कर्मणां ज्ञानावरणादीनामास्रवं विनिर्देष्टुकामोंजसा प्रागेव कायवाङ्मनसां कर्मयोगोस्तीत्याहेदं सूत्रं । तत्र योज्यते अनेनात्मा कर्मभिरिति योगो बंधहेतुर्न पुनः समाधिः युजेर्योगार्थस्य ण्यंतस्य प्रयोगात् । प्रेरवौप्यः प्रायेणेति यस्य विधानात् । स च कायवाङ्मनःकर्म, तेनैवात्मनि ज्ञानावरणादिकमभिर्बधस्य करणात् तस्य बंधहेतुत्वोपपत्तेः । प्रधानपरिणामो योग इत्ययुक्तं, तस्यात्मबंधहेतुत्वायोगात् । प्रधानस्यैव बंधहेतुरसाविति चायुक्तं, बंधस्योभयस्थत्वसिद्धेः । तर्हि जीवाजीवपरिणामो बंध इति चेत् , सत्यं; जीवकर्मणोधस्य तदुभयपरिणामहेतुकत्ववचनात् । कायादिक्रियालक्षणयोगपरिणामो जीवस्यानुपपन्नो निष्क्रियत्वादिति न मंतव्यं ॥ कायादिवर्गणालंबप्रदेशस्पंदनं हि यत् । युक्तं कायादिकर्मास्य सक्रियत्वप्रसिद्धितः ॥२॥ जीवस्य सक्रियत्वसाधनादुपपन्नमेव हि कायादि कर्मेष्यते । कायवर्गणालंबिप्रदेशपरिस्पंदनस्यात्मनि कायकर्मत्वाद्वाग्वर्गणालंबिनस्तस्य वाकर्मत्वात् मनोवर्गणापुद्गलालंबिनो मनःकर्मत्वात् । न च तस्यायोगकेवलिनि सिद्धेषु च प्रसक्तिस्तेषां प्रदेशपरिस्पंदनाभावात् । तथाहि-अयोगकेवलिनो न प्रदेशस्पंदः समुच्छिन्नक्रियाप्रतिपातिध्यानाश्रयत्वात् । यस्य तु प्रदेशस्पंदः स्यात् स तथा प्रसिद्धो यथा सयोग इति युक्तिः । सिद्धानामत एव प्रदेशस्पंदाभावस्तेषामयोगव्यपदेशः समुच्छिन्नक्रियाप्रतिपातिध्यानाश्रयत्वासिद्धेरव्यपदेश्यचारित्रमयत्वात् कायादिवर्गणाभावाच्च सिद्धानां न योगोः युज्यते । ततो वीर्यातरायस्य क्षयोपशमे क्षये वा सति कायादिवर्गणालब्धितो जीवप्रदेशपरिस्पंदो योगस्त्रिविधः प्रत्येतव्यः । स आस्रवः ॥२॥ स आसव इत्यवधारणात् केवलिसमुद्धातकाले दंडकपाटप्रतरलोकपूरणकाययोगस्यासंबंधव्यवच्छेदः । कायादिवर्गणालंबनस्यैव योगस्यास्रवत्ववचनात् । तत्स्पंदनालंबनत्वात् । कथमेवं च केवलिनः समुद्धातकालेभ्यो बंधः स्यादिति चेत् , कायवर्गणानिमित्तात्मप्रदेशपरिस्पंदस्य तन्निमित्तस्य भावात्स इति प्रत्येयं । कायवाङ्मनःकर्मास्रव इत्येकमेव सूत्रमस्तु लघुत्वादिति चेन्न, योग आस्रव इति सिद्धांतोपदेशप्रत्ययापायप्रसंगात् । तर्हि योग आस्रव इत्यस्तु निरवद्यत्वादिति चेन्न, केवलिसमुद्धातस्याप्यास्रवत्वप्रसंगात् तस्य लोकयोगत्वेन प्रसिद्धेः संदेहाच । कायवाङ्मनःकर्म योग आस्रव इत्यपि न श्रेयः, संदेहप्रसक्तेः । कायवाङ्मनःकर्म योग इत्यपि संकेतं, न चैवं तद्युक्तं तस्य योगलक्षणत्वेन निर्देशात् । संबंधस्यात्मनि निःक्रियेपि भावात्स एवास्रवो युक्त इति चेन्न, आत्मनो निष्क्रियत्वनिराकरणात्तत्र तत्कर्मण एव Page #452 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। ४४३ भावात् । ततो योगविभाग एव श्रेयान् निःसंदेहार्थत्वात् तदन्यस्यापि योगस्यास्तित्वसंप्रतिपत्तेश्च ॥ कुतः पुनर्यथोक्तलक्षणो योग एवास्रवः सूत्रितो न तु मिथ्यादर्शनादयोपीत्याह;स आस्रव इह प्रोक्तः कर्मागमनकारणं । पुंसोत्रानुप्रवेशेन मिथ्यात्वादेरशेषतः ॥ १॥ मिथ्यादर्शनं हि ज्ञानावरणादिकर्मणामागमनकारणं मिथ्यादृष्टेरेव न पुनः सासादनसम्यग्दृष्ट्यादीनां । अविरतिरप्यसंयतस्यैव कात्स्येनैकदेशेन वा न पुनः संयतस्य, प्रमादोपि प्रमत्तपर्यतस्यैव नाप्रमत्तादेः, कषायश्च सकषायस्यैव न शेषस्योपशांतकषायादेः, योगः पुनरशेषतः सयोगकेवल्यंतस्य तत्कारणमिति स एवास्रवः प्रोक्तोत्र शास्त्रे संक्षेपादशेषास्रवप्रतिपत्त्यर्थत्वान्मिथ्यादर्शनादेरत्रैव योगेनुप्रवेशात् तस्यैव मिथ्यादर्शनाद्यनुरंजितस्य केवलस्य च कर्मागमनकारणत्वसिद्धेः ॥ कीदृशः स योगः पुण्यस्यास्रवः कीदृशश्च पापस्येत्याह; शुभः पुण्यस्याशुभः पापस्य ॥३॥ सम्यग्दर्शनाद्यनुरंजितो योगः शुभो विशुद्ध्यंगत्वात् , मिथ्यादर्शनाद्यनुरंजितोऽशुभः संक्लेशांगत्वात् । स पुण्यस्य पापस्य च वक्ष्यमाणस्य कर्मण आस्रवो वेदितव्यः । एतेन खस्मिन् दुःखं परत्र सुखं जनयन् च पुण्यस्य, स्वस्मिन् सुखं परस्मिन् दुःखं च कुर्वन् पापस्यास्रव इत्येकांतो निरस्तः । विशुद्धिसंक्लेशात्मकस्यैव स्वपरस्थस्य सुखासुखस्य पुण्यपापास्रवत्वोपपत्तेरन्यथातिप्रसंगात् । तदुक्तं-"विशुद्धिसंक्लेशाप्तं चेत्स्वपरस्थं सुखासुखं । पुण्यपापास्रवो युक्तो न चेद्ध्यर्थस्तवार्हतः ॥” इति । तदेवंशुभः पुण्यस्य विज्ञेयोऽशुभः पापस्य सूत्रितः । संक्षेपाद्विप्रकारोपि प्रत्येकं स द्विधास्रवः ॥१॥ कायादियोगस्त्रिविधः शुभाशुभभेदात् । प्रत्येकं स द्विविधोपि द्विविध एवास्रवो विज्ञेयः । पुण्यपापकर्मणोः सामान्यादाश्रूयमाणयोर्द्विविधत्वेन सूत्रितत्वात् । कुतः पुनः शुभः पुण्यस्याशुभः पापस्यास्रवो जीवस्येति निश्चीयत इत्याह; शुभाशुभफलानां तु पुद्गलानां समागमः । विशुद्धतरकायादिहेतुस्तत्त्वात्स्वदृष्टवत् ॥ २॥ जीवस्य शुभफलपुद्गलानामास्रवो विशुद्धकायाध्यवसानाद्यतरंगबहिरंगकृतः शुभफलपुद्गलास्रवत्वात्वयं दृष्टशुभफलपथ्याहारादिसमागमवत् । तथैवाशुभफलपुद्गलसमागमो जीवस्याविशुद्धकारणकृतः अशुभफलपुद्गलसमागमत्वात् खयं दृष्टाशुभफलापथ्याहारादिवदित्यनुमानात्तन्निश्चयः । न तावदत्रासिद्धो हेतुः शुभस्य विशुद्धिरूपस्याशुभस्य च संक्लेशात्मनः परिणामस्य खसंवेदनसिद्धस्य कारणानां पुद्गलानां समागमस्य शुभाशुभफलस्य प्रसिद्धेस्तद्भावभावित्वान्यथानुपपत्तेः । ननु चात्मनि शुभाशुभफलपुद्गलसमागमस्यात्मविशेषगुणकृतत्वान्न शुभाशुभकायादियोगकृतत्वं युक्तमिति चेन्न, तस्य विशुद्धिसंक्लेशपरिणामव्यतिरेकेणासंभवात् । धर्माधर्मों तद्व्यतिरिक्तावेवेति चेन्न, भावधर्माधर्मयोर्विशुद्धिसंक्लेशरूपत्वात् । द्रव्यधर्माधर्मयोः पुद्गलखभावत्वात् समागमस्य विशुद्धिसंक्लेशपरिणामानुगृहीतस्य कायादियोगकृतत्वोपपत्तेः । खप्रसिद्धशुभाशुभफलपथ्यापथ्याहारादिपुद्गलसमागमस्य तत्कृतत्वनिश्चयात्तदभावे सर्वथा तदनुपपत्तेः । द्वैविध्यात्तत्फलं चैवमास्रवो द्विविधः स्मृतः । कायादिरखिलो योगः सोऽसंख्येयो विशेषतः ज्ञानावरणवीर्यातराययोः कर्मणोरिह । क्षयोपशमतोनंतभेदयोः स्पर्द्धकात्मनोः ॥४॥ प्रादुर्भावादनंतः स्याद्योगोऽनंतनिमित्तकः । अनंतकर्महेतुत्वादनंतात्मास्रवत्वतः ॥५॥ असंख्येयोथ संख्याताध्यवसायात्मकोगिनां । संख्यातश्च यथायोगं संक्षेपाविविधोप्ययं॥६॥ Page #453 -------------------------------------------------------------------------- ________________ ४४४ तत्त्वार्थश्लोकवार्तिके [ सू० ४ खामिद्वैविध्याच्च द्विविधो योग इत्याह; __सकषायाकषाययोः सांपरायिकर्यापथयोः ॥ ४॥ यथासंख्यमभिसंबंधमाह;स सांपरायिकस्य स्यात्सकषायस्य देहिनः । ईर्यापथस्य च प्रोक्तोऽकषायस्पेह सूत्रतः॥ १॥ इह सूत्रे स आस्रवः सकषायस्य जीवस्य सांपरायिकस्य कर्मणः स्यात् , अकषायस्य पुनरीर्यापथस्येत्यास्रवस्योभयस्वामिकत्वात् द्वयोः प्रसिद्धिः ॥ कषणादात्मनां घातात्कषायः कुगतिप्रदः। क्रोधादिः सह तेनात्मा सकषायः प्रवर्तनात्॥२॥ कषायरहितस्तु स्यादकषायः प्रशांतितः । कषायस्य क्षयाद्वेति प्रतिपत्तव्यमागमात् ॥ ३ ॥ समंततः पराभूतिः संपरायः पराभवः । जीवस्य कर्मभिः प्रोक्तस्तदर्थ सांपरायिकं ॥४॥ कर्म मिथ्यागादीनामार्द्रचर्मणि रेणुवत् । कषायपिच्छिले जीवे स्थितिमाप्नुवदुच्यते ॥५॥ ईर्या योगगतिः सैवं यथा यस्य तदुच्यते । कर्मेर्यापथमस्थास्तु शुष्ककुट्येश्मवच्चिरं ॥ ६॥ योगमात्रनिमित्तं तु पुंस्यास्रवदपि स्थितिः । न प्रयात्यनुभागं वा कषायान्सत्त्वतः सदा॥७॥ कषायपरतंत्रस्यात्मनः सांपरायिकास्रवस्तदपरतंत्रस्येर्यापथास्रव इति सूक्तं । कथं पुनरात्मनः कस्यचि. त्पारतंत्र्यमपरस्यापारतंत्र्यं वात्मत्वाविशेषेप्युपपद्यते इत्याह; कपायहेतुकं पुंसः पारतंत्र्यं समंततः । सत्त्वांतरानपेक्षीह पद्ममध्यगगवत् ॥ ८॥ कषायविनिवृत्तौ तु पारतंत्र्यं निवर्त्यते । यथेह कस्यचिच्छांतकपायावस्थितिक्षणे ॥ ९ ॥ संसारिणो जीवस्य पारतंत्र्यं चिदापन्नं कषायहेतुकं सत्त्वांतरानपेक्षित्वे सति पारतंत्र्यशब्दवाच्यत्वात् पद्ममध्यगभ्रमरस्य तत्पारतंत्र्यवत् । निःकषायस्य यतेदस्युकृतेन रक्षादिपरतंत्रत्वेन व्यभिचार इति चेन्न, तस्य सत्त्वांतरानपेक्षित्वेन विशेषणात् । वीतरागस्याघातिकर्मपारतंत्र्येणानेकांत इति चेन्न, तस्य पूर्वकपायकृतत्वात् । महेश्वरसिसृक्षापेक्षित्वात्संसारिजीवपारतंत्र्यस्य सत्त्वांतरानपेक्षित्वमसिद्धमिति चेन्न, महेश्वरापेक्षित्वस्य संसारिणामपाकृतत्वात् । नित्यशुद्धखभावत्वाज्जीवस्य कर्मपारतंत्र्यमसिद्धमिति चेन्न, तस्य संसाराभावप्रसंगात् । प्रकृतेः संसार इति चेन्न, पुरुषकल्पनावैयर्थ्यप्रसंगात् तस्या एव मोक्षस्यापि घटनात् । न च प्रकृतिरेव संसारमोक्षभागचेतनत्वाद्धटवत् । चेतनसंसर्गविवेकाभ्यां सा तद्भागेवेति चेत् , तर्हि यथा प्रकृतेश्चेतनसंसर्गात्पारतंत्र्यलक्षणः संसारस्तथा चेतनस्यापि प्रकृतिसंसर्गात् तत्पारतंत्र्यं सिद्धं, संसर्गस्य द्विष्ठत्वात् । नन्वेवं प्रकृतिपारतंत्र्येण व्यभिचारस्तस्य कषायहेतुकत्वाभावादिति न मंतव्यं, कापिलानां कषायस्य क्रोधादेः प्रकृतिपरिणामतयेष्टत्वात् । तत्पारतंत्र्यस्य कषायहेतुकत्वसिद्धेः । स्याद्वादिनां तु कषायस्य जीवपरिणामत्वेपि कर्मलक्षणप्रकृतेः पारतंत्र्यस्य तत्प्रकृतत्वोपपत्तेः कथं तेन व्यभिचारः ? कषायपरिणामो हि जीवस्य कर्मणां बंधमादधानो यथा तत्पारतंत्र्यं कुरुते तथा कर्मणोपि जीवनपरतंत्रत्वमिति न व्यभिचारसाधनं कषायहेतुकत्वनिवृत्तौ निवर्तमानत्वादन्यथा मुक्तात्मनोपि पारतंत्र्यप्रसंगात् । जीवन्मुक्तस्यापि हि शांतकषायावस्थाकाले पारतंत्र्यनिवृत्तिरुपलभ्यते । “जीवन्नेव हि विद्वान् संगाशाभ्यां विभुच्यते” इति प्रसिद्धेः साध्यसाधनविकलमुदाहरणमिति च न शंकनीयं, पद्ममध्यगतस्य भंगस्य तद्धलोभकषायहेतुकत्वेन तत्संकोचकाले पारतंत्र्यांतरानपेक्षिणः प्रसिद्धत्वात् । ततोऽनवद्यमिदं साधनं ॥ Page #454 -------------------------------------------------------------------------- ________________ ४४५ षष्ठोऽध्यायः । तत्र सांपरायिकास्रवस्य के भेदा इत्याह;इंद्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंख्याः पूर्वस्य भेदाः ॥५॥ इंद्रियाणि पंचसंख्यानि कषायाश्चतुःसंख्याः अव्रतानि पंचसंख्यानि क्रियाः पंचविंशतिसंख्या इति यथासंख्यमभिसंबंधः ॥ सांपरायिकमत्रोक्तं पूर्व तस्येंद्रियादयः । भेदाः पंचादिसंख्याः स्युः परिणामविशेषतः ॥१॥ न हि जीवस्येंद्रियादिपरिणामांनां विशेषोसिद्धः परिणामित्वस्य वचनात् । कारणविशेषापेक्षत्वाच्च स्पर्शादिषु विषयेषु पुंसः स्पर्शादीनि पंच भावेंद्रियाणि तदुपकृतौ वर्तमानानि द्रव्येद्रियाणि पंचेंद्रियसामान्योपादानादुक्तलक्षणानि प्रत्येतव्यानि । तानि वीर्यातरायेंद्रियज्ञानावरणक्षयोपशमान्नामकर्मविशेषोदयाञ्चोपजायमानानि कायेभ्यो मोहनीयविशेषोदयादुत्पद्यमानेभ्यः कथंचिद्भिद्यते नियत विषयत्वाच्च । कषायाः पुनरनियतविषया वक्ष्यमाणास्ततो भिन्नलक्षणानि हिंसादीन्यव्रतानि च वक्ष्यते । क्रियास्तत्राभिधीयते पंचविंशतिः ॥ तत्र चैत्यश्रुताचार्यपूजास्तवादिलक्षणा । सम्यक्त्ववर्धनी ज्ञेया विद्भिः सम्यक्त्वसत्क्रिया ॥२॥ कुचैत्यादिप्रतिष्ठादियों मिथ्यात्वप्रवर्धनी । सा मिथ्यात्व क्रिया बोध्या मिथ्यात्वोदयसंसृता ३ कायादिभिः परेषां यद्गमनादिप्रवर्तनं । सदसत्कार्यसिद्ध्यर्थं सा प्रयोगक्रिया मता ॥४॥ न कायवामनोयोगानो निवर्तयितुं क्षमाः । पुद्गलास्तदुपादानं स्वहेतुद्वयतोन्यथा ॥५॥ संयतस्य सतः पुंसोऽसंयमं प्रति यद्भवेत् । आभिमुख्यं समादानक्रिया सा वृत्तघातिनी ॥ ६ ईयोपथक्रिया तत्र प्रोक्ता तत्कर्महेतुका । इति पंचक्रियास्तावच्छुभाशुभफलाः स्मृताः॥७॥ क्रोधावेशात्प्रदोषो यः सांतपादोषिकी क्रिया। तत्कार्यत्वात्सहेतुत्वात् क्रोधादन्या ह्यनीदृशात् प्रदुष्टस्योद्यमो हंतुं गदिता कायिकी क्रिया । हिंसोपकरणादानं तथाधिकरणक्रिया ॥९॥ दुःखोत्पादनतंत्रत्वं स्यात्क्रिया पारितापिकी क्रिया सा तावता भिन्ना प्रथमा तत्फलत्वतः।। ....... । कषायाचेति पंचैताः प्रपत्तव्याः क्रियाः पराः॥११॥ रागार्द्रस्य प्रमत्तस्य सुरूपालोकनाशयः । स्यादर्शनक्रिया स्पर्शे स्पृष्टधीः स्पर्शनक्रिया ॥१२॥ एते चेंद्रियतो भिन्ने परिस्पंदात्मिके मते । ज्ञानात्मनःकषायाच तत्फलत्वात्तथावतात् ॥१३॥ अपूर्वप्राणिघातार्थोपकरणप्रवर्तनं । क्रिया प्रात्ययिकी ज्ञेया हिंसाहेतुस्तथा परा ॥ १४ ॥ ख्यादिसंपातिदेशेंतर्मलोत्सर्गः प्रमादिनः । शक्तस्य यः क्रियेष्टेह सा समंतानुपातिकी ॥१५॥ अदृष्टे योप्रमृष्टे च स्थाने न्यासो यतेरपि । कायादेः सा त्वनाभोगक्रिया सैताश्च पंच ताः१६ परनिर्वत्येकायेस्य स्वयं करणमत्र यत् । सा स्वहस्तक्रियावद्यप्रधाना धीमतां मता ॥ १७ ॥ पापप्रवृत्तावन्येपामभ्यनुज्ञानमात्मना । स्थानिसर्गक्रियालस्यादकृतिर्वा सुकर्मणां ॥१८॥ पराचरितसावधप्रकाशनमिह स्फुटं । विदारणक्रिया त्वन्या स्यादन्यत्र विशुद्धितः ॥ १९ ॥ आवश्यकादिषु ख्यातामहेदाज्ञामुपासितुं । अशक्तस्यान्यथाख्यानादाज्ञाव्यापादिकी क्रिया ॥ शाठ्यालस्यवशादहत्प्रोक्ताचारविधौ तु यः । अनादरः स एव स्यादनाकांक्षक्रिया विदां २१ एताः पंच क्रियाः प्रोक्ताः परास्तत्त्वार्थवेदिभिः। कषायहेतुका भिन्नाः कषायेभ्यः कथंचन।। छेदनादिक्रियासक्तचित्तत्वं स्वस्य यद्भवेत् । परेण तत्कृतौ हर्षः सेहारंभक्रिया मता ॥२३॥ परिग्रहाविनाशार्था स्यात्पारिग्रहिकी क्रिया। दुर्वक्तृकवचो ज्ञानादौ सा मायादिक्रिया परा २४ Page #455 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० ६ मिथ्यादिकारणाविष्टदृष्टीकरणमत्र यत् । प्रशंसादिभिरुक्तान्या सा मिथ्यादर्शनक्रिया ||२५|| वृत्तमोहोदयात्पुंसामनिवृत्तिः कुकर्मणः । अप्रत्याख्या क्रियेत्येताः पंच पंच क्रियाः स्मृताः २६ ननु चेंद्रियकषायाव्रतानां क्रियाखभावनिवृत्तेः क्रियावचनेनैव गतत्वात् प्रपंचमात्र प्रसंग इति चेन्न, अनेकांतात् । नामस्थापनाद्रव्येंद्रिय कषायात्रतानां क्रियास्वभावत्वाभावात् । द्रव्यार्थादेशात्तेषां क्रियाखभावत्वात् । किं च, द्रव्यभावात्रवत्वभेदाचेंद्रियादीनां क्रियाणां च न क्रियाः तत्प्रपंचमात्रं इंद्रियादयो हि शुभेतरास्रवपरिणामाभिमुखत्वाद्रव्यासवाः क्रियास्तु कर्मादानरूपाः पुंसो भावास्रवा इति सिद्धांतः । कायवाङ्मनःकर्म योगः स आस्रव इत्यनेन भावास्रवस्य कथनात् । द्रव्यास्रव एव योगः कर्मागमनभावासवस्य हेतुत्वादिति चेन्न, आस्रवत्यनेनेत्यास्रव इति करणसाधनतायां योगस्य भावास्रवत्वोपपत्तेः । एव मंद्रियादीनामपि भावास्रवत्वप्रसंग इति चेन्न, तेषां क्रियाकारणत्वेन द्रव्यासवत्वेन विवक्षितत्वात् । आस्रवणमात्रव इति भावसाधनतायां क्रियाणां भावासवत्वघटनात् कार्यकारणभावाच्चेंद्रियादिभ्यः क्रियाणां पृथग्वचनं युक्तं इंद्रियादिपरिणामा हेतवः क्रियाणां तेषु सत्सु भावादसत्खभावादिति निगदितमन्यत्र । इंद्रियग्रहणमेवास्त्विति चेन्न तदभावेप्यप्रमत्तादीनामासवसद्भावात् । एकद्वित्रिचतुरिंद्रियासंज्ञिपंचेंद्रियेषु यथासंभवं चक्षुरादींद्रियमनोविचाराभावेपि क्रोधादिहिंसादिपूर्वक कर्मादानश्रवणात् । कषायाणां सांपरायिकभावे पर्याप्तत्वादन्याग्रहणमिति चेन्न, सन्मात्रेपि कषाये भगवत्प्रशांतस्य कषायस्य तत्प्रसंगात् । न श्च तस्येंद्रियकषायाव्रतक्रियास्रवाः संति, योगास्रवस्यैव तत्र भावात् । चक्षुरादिरूपाद्यग्रहणं वीतरागत्वात् । अत्रतवचनमेवेति चेन्न, तत्प्रवृत्तिनिमित्त निर्देशार्थत्वादिंद्रिय कषायक्रियावचनस्य । तदेवमिंद्रियादय एकान्नचत्वारिंशत्संख्याः सांपरायकस्य भेदा युक्ता एव वक्तुं संग्रहात् ॥ ४४६ कुतः पुनः प्रत्यात्मसंभवतामेतेषामात्रवाणां विशेष इत्याह ; ---- तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥ ६ ॥ अतिप्रवृद्धक्रोधादिवशात्तीत्रः स्थूलत्वादुद्रिक्तः परिणामः, तद्विपरीतो मंदः, ज्ञानमात्रं ज्ञात्वा वा प्रवृत्तिर्ज्ञातं मदात्प्रमादाद्वा अनवबुद्ध्य प्रवृत्तिरज्ञातं, अधिक्रियतेस्मिन्नर्था इत्यधिकरणं प्रयोजनाश्रयं द्रव्यं, द्रव्यस्यात्मसामर्थ्य वीर्य । भावशब्दः प्रत्येकमभिसंबध्यते भुजिवत्, तीव्रभावो मंदभावो ज्ञातभावो अज्ञात भाव इति । युगपदसंभवाद्भावशब्दस्यायुक्तं विशेषणमिति चेन्न, बुद्धिविशेषव्यापारात्तस्य तद्विशेषणत्वोपपत्तेः । न हि सत्प्रत्ययाविशेषलिंगाभावादेको भावः सत्तालक्षण एवेति युक्तं, भावद्वैवियात् । द्विविधो हि स्याद्वादिनां भावः परिस्पंदरूपोऽपरिस्पंदरूपश्च । तत्रापरिस्पंद रूपोंतर्द्रव्याणामस्तित्वमात्रमनादिनिधनं तदेकं कथंचिदिति मा भूद्विशेषकं, परिस्पंदरूपस्तु व्ययोदयात्मकस्तीत्रादीनां विशेषकः कायादिव्यापारलक्षणः सकृदुपपद्यते, कायादिसत्त्वस्य च तस्याभिमतत्वात् । कायवाङ्मनः कर्मयोगाधिकारात्कथं तस्य विशेषकत्वमिति चेत्, बौद्धाव्यापारात् भेदेनायोद्धारसिद्धेः । आत्मनो व्यतिरेकाद्वा तत्रादीनां भावत्वसिद्धेः । किं च भावस्य भूयस्त्वात् असंख्येयलोकपरिमाणो हि जीवस्यैकैकस्मिन्नपि कषायादिपरिणामो भावः श्रूयते । ततो युक्तं भावस्य युगपत्तीत्रादीनां विशेषकत्वं । एकत्वेपि वा भावस्य परेष्ट्या बुद्ध्यानेकत्वकल्पनान्न चोद्यमेतत् । वीर्यस्य च परिणामत्वान्न पृथग्ग्रहणमिति चेन्न, तद्विशेषवतो व्यपरोपणादिष्वास्रवभेदज्ञापनार्थत्वात् पृथक्त्वं तद्ग्रहणस्य । वीर्यवतो ह्यात्मनस्तीत्रतीव्रतरादिपरिणामविशेषो जायत इति प्राणव्यपरोपणादिष्वासवफलभेदो ज्ञायते । तथा च तीत्रादिग्रहसिद्धिः । इतरथा हि जीवाधिकरणस्वरूपत्वाद्वीर्यवत्तीत्रादीनामपि पृथग्ग्रहणमनर्थकं स्यात् तन्निमित्त Page #456 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। ४४७ त्वाच्छरीराद्यानंत्यसिद्धिः । कथं? अनुभागविकल्पादास्रवस्यानंतत्वात्तत्कार्यशरीरादीनामनंतत्वोपपत्तेः । कुतः । पुनः सांपरायिकास्रवाणां विशेषः किंहेतुकेभ्यश्च प्रपंच्यत इत्याहतीव्रत्वादिविशेषेभ्यस्तेषां प्रत्येकमीरितः । बंधः कषायहेतुभ्यो विशेषो व्यासतः पुनः ॥१॥ न युक्तः सूत्रितश्चित्रः कर्मबंधानुरूपतः । तच्च कर्म नृणां तस्मादिति हेतुफलस्थितिः ॥२॥ जीवस्य भावास्रवो हि स्वपरिणाम एवेंद्रियकषायादिस्तीवत्वादिविशेषात् । प्रपंचतः पुनः कषायविशेषकारणाद्विशिष्टो ज्ञातः । स च कर्मबंधानुसारतोनेकप्रकारो युक्तः सूत्रितः । कर्म पुनर्नृणामनेकप्रकारं कषायविशेषाद्भावकर्मण इति हेतुफलव्यवस्था । परस्पराश्रयान्न तव्यवस्थेति चेन्न, बीजांकुरवदनादित्वात्कार्यकारणभावस्य तत्र सर्वेषां संप्रतिपत्तेश्च ॥ किं पुनरत्राधिकरणमित्याह; अधिकरणं जीवाजीवाः ॥ ७ ॥ द्विवचनप्रसंग इति चेन्न, पर्यायापेक्षया बहुत्वनिर्देशात् । न हि जीवद्रव्यसामान्यमजीवद्रव्यसामान्य वा हिंसाधुपकरणभावेन सांपरायिकास्रवहेतुस्तेनाधिकरणत्वं प्रतिपद्यते केनचित्पर्यायेण विशिष्टेनैव तस्य तथाभावप्रतीतेः । सामानाधिकरण्यं तदभेदार्पणाय जीवाजीवास्तदधिकरणमिति । सर्वथा तद्भेदेऽभेदे च सामानाधिकरण्यानुपपत्तिः । तत्त्वेभिर्निर्धारणार्थः सूत्रे सामर्थ्यान्निर्देशः । तेषु तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेषु यदधिकरणं तस्य जीवाजीवात्मकत्वेन निर्धारणात् । तदेव दर्शयति; तत्राधिकरणं जीवाजीवा यस्य विशेषतः । सांपरायिकभेदानां विशेषः प्रतिसूत्रितः ॥१॥ तदधिकरणं जीवाजीवा इति प्रतिपत्तव्यं । तत्राद्यं कुतो भिद्यते इत्याह;आद्यं संरंभसमारंभारंभयोगकृतकारितानुमतकषायविशेषै स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८॥ आद्यग्रहणमनर्थकमुत्तरसूत्रे परवचनसामर्थ्यात्सिद्धेरिति चेन्न, विशिष्टार्थत्वात्तस्य । तदग्रहणे हि प्रतिपत्तिगौरवप्रसंगः । परवचनसामर्थ्यादनुमानासंप्रत्ययात्परशब्दस्येष्टवाचिनोपि भावात्तद्वचनादाद्यसंप्रत्ययात्सिद्ध्येत्सूक्तमिह ग्रहणं । प्रमादवतः प्रपन्नावेशः प्राणव्यपरोपणादिषु संरंभः, क्रियायाः साधनानां समभ्यासीकरणं समारंभः, प्रथमप्रवृत्तिरारंभश्चादय आद्यकर्मणि द्योतनत्वात् । संरंभणं संरंभः, समारंभणं समारंभः, आरंभणमारंभ इति भावसाधनाः संरंभादयो, योगशब्दो व्याख्यातार्थः कायवाअनःकर्म योग इति । कृतवचनं कर्तुः खातंत्र्यप्रतिपत्त्यर्थ, कारिताभिधानं परप्रयोगापेक्षं, अनुमतशब्दः प्रयोक्तुर्मानसव्यापारप्रदर्शनार्थः, क्वचिन्मौनव्रतिकवत्तस्य वचनप्रयोजकत्वासंभवात् कायव्यापारेऽप्रयोक्तृत्वान्मानसव्यापारसिद्धेः । कत्यात्मानमिति कषायाः प्रोक्तलक्षणाः विशेषशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् , तेन संरंभादिविशेषैर्योगविशेषैः कृतादिविशेषैः कषायविशेषैरेकशः प्रथममधिकरणं भिद्यत इति सूत्रार्थो व्यवतिष्ठते । एतदेवाह जीवाजीवाधिकरणं प्रोक्तमाद्यं हि भिद्यते । संरंभादिभिराख्यातैर्विशेषैस्त्रिभिरेकशः ॥१॥ योगैस्तनवधा भिन्नं सप्तविंशतिसंख्यकं । कृतादिभिः पुनश्चैतद्भवेदष्टोत्तरं शतं ॥२॥ Page #457 -------------------------------------------------------------------------- ________________ तत्वार्थ लोकवार्तिके [सू०९ कषायैर्भिद्यमानात्मचतुर्भिरिति संग्रहः । कषायस्थानभेदानां सर्वेषां परमागमे ॥ ३ ॥ जीवाधिकरणं संरंभादिभिस्त्रिभिर्भिद्यमानं हिंसास्रवस्य तावत्रिविधं । हिंसायां संरंभः समारंभः आरंभश्चेति । तदेव योगैस्त्रिभिः प्रत्येकं भिद्यमानं नवधावधार्यते कायेन संरंभो वाचा संरंभो मनसा संरंभ इति, तथा समारंभस्तथा चारंभ इति । तदेव नवभेदं कृतादिभिर्भिन्नं सप्तविंशति संख्यं कायेन कृतकारितानुमताः संरंभसमारंभारंभाः, तथा वाचा मनसा चेति । पुनश्चैतत्सप्तविंशतिभेदं कषायैः क्रोधादिभिश्चतुर्भिर्भिद्यमानात्मकं भवेदष्टोत्तरशतं - क्रोधमानमायालोभैः कृतकारितानुमताः कायवाङ्मनसा संरंभसमारंभारंभा इति । तथैवानृतादिष्वत्रतेषु योज्यं । एवं कषायस्थानभेदानां सर्वेषां परमागमे संग्रहः कृतो भवति । तदप्यष्टोत्तरशतं प्रत्येकमसंख्येयैः कषायस्थानैः प्रतिभिद्यमानमसंख्येयमिति जीवाधिकरणं व्याख्यातं । जीव एव हि तथा परिणाम विशेषकर्मणामात्रवतां तत्कारणानां च हिंसादिपरिणामानाधिकरणतां प्रतिपद्यते न पुनः पुद्गलादिस्तस्य तथा परिणामाभावात् । संरंभादीनां वा क्रोधाद्याविष्टपुरुषकर्तृकाणां तदनुरंजनादधिकरणभावो नीलपटादिवत् । न चैषां जीवविवर्तनामास्रवादिभावे जीवस्य तद्व्याघातः सर्वेषां तेषां तद्भेदाभावात् । न हि नीलगुणस्य नीलद्रव्यमेवाधिकरणं तत्रैव नीलप्रत्ययप्रसंगात् । नीलः पट इति संप्रत्ययात्तु पटस्यापि तदधिकरणाभावः सिद्धस्तस्य नीलिद्रव्यानुरंजनान्नीलद्रव्य - त्वपरिणामात्तद्भावोपपत्तेः कथंचिदभेदसिद्धेः । सर्वथा तद्भेदेपि पढे संयुक्तनीलीसमवायान्नीलगुणस्य नील: पट इति प्रत्ययो घटत एवेति चेन्न, आत्माकाशादिष्वपि प्रसंगात् । तैर्नीलीद्रव्यसंयोगविशेषाभावान्न तत्प्रसंग इति चेत्, स कोन्यो विशेषः संयोगस्य तथा परिणामात् । तथाहि परिणामित्वं हि तंतुषु तत्संयुक्तमत्रोपचारात् । न च नीलः पट इत्युपचरितः प्रत्ययोsस्खलदुपचाराच्छुक्लः पट इति प्रत्ययवत् तद्बाधकाभावाविशेषात् । तत्सूक्तं यथा नील्या नीलगुणः पटे नील इति च तस्य तदधिकरणभावस्तथा संरंभादिष्वास्रवो जीवेष्वास्रव इति वास्रवस्य तेधिकरणं जीवपरिणामानां जीवग्रहणेन ग्रहणादधिकरणं जीवा इत्युपपत्तेः अन्यथा तत्परिणामग्रहणप्रसंगादिति ॥ ४४८ ततः परमधिकरणमाह; - निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥ " अधिकरणमित्यनुवर्तते । निर्वर्तनादीनां कर्मसाधनं भावो वा सामानाधिकरण्येन वैयधिकरण्येन वाघिकरणसंबंधः कथंचिद्भेदाभेदोपपत्तेः । द्विचतुर्द्वित्रिभेदा इति द्वंद्वपूर्वोन्यपदार्थनिर्देशः । कश्चिदाहपरवचनमनर्थकं पूर्वत्राद्यवचनात् पूर्वत्राद्यवचनमनर्थकमिह सूत्रे परवचनात्तयोरेकतरवचनाद्वितीयस्यार्थापत्तिसिद्धेः पूर्वपरयोरन्योन्याविनाभावित्वात् । न चेयमर्थापत्तिरनैकांतिकी क्वचिद्यभिचारचोदनात् सर्वत्र व्यभिचारचोदनायाः प्रयासमात्रत्वात् परस्परापेक्षयोरव्यभिचारात् । पूर्वपरयोरंतराले मध्यमस्यापि संभवान्नाविनाभाव इत्यप्ययुक्तं, मध्यमस्य पूर्वपरोभयापेक्षत्वात् पूर्वमात्रापेक्षया तस्य परत्वोपपत्तेः परमात्रापेक्षया पूर्वत्वघटनादव्यवहितयोः पूर्वपरयोरविनाभावसिद्धिः । परशब्दस्यासंबंधार्थत्वान्नानर्थक्यमित्यपि न साधीयो निवर्त्यभावात् । परसंबंधमधिकरणमिति वचनं हि स्वसंबंधमधिकरणं निवर्तयति न चेह तदस्ति, तथा वचनाभावात् । एतेन प्रकृष्टवाचित्वं परशब्दस्य प्रत्युक्तं तन्निवर्त्यस्याप्रकृष्टस्यावचनात् । इष्टवाचित्वमपि तादृशमेवानिष्टस्य निवर्त्यस्याभावात् । न च प्रकारांतरमस्ति यतोत्र परवचनमनर्थवत्स्या - दिति । सोप्ययुक्तवादी, परवचनस्यान्यार्थत्वात् । परं जीवाधिकरणादजीवाधिकरणमित्यर्थः तेनाद्याजीवाधिकरणादिदमपरं जीवाधिकरणमिति निवर्तितं स्यात् । जीवाजीवप्रकरणात्तत्सिद्धिरिति चेत्, ततो Page #458 -------------------------------------------------------------------------- ________________ • षष्ठोऽध्यायः । न्यस्याजीवस्यासंभवात् । इष्टवाचित्वाद्वा परशब्दस्य नानर्थक्यमनिष्टस्य निर्वर्तनादनिष्टजीवाधिकरणत्वस्य निवर्त्यत्वात् । एतदेवाह - ततोधिकरणं प्रोक्तं परं निर्वर्तनादयः । द्वयादिभेदास्तदस्य स्यादजीवात्मकमेव हि ॥ १ ॥ निर्वर्तना द्विधा, मूलोत्तरभेदात् । निक्षेपश्चतुर्धा, अप्रत्यवेक्षणदुःप्रमार्जनसहसानाभोगभेदात् । त एते निर्वर्तनादयो व्यादिभेदाः परमाद्यजीवाधिकरणादिष्टमधिकरणमस्या जीवात्मकत्वात् ॥ नन्वेवं जीवा - जीवाधिकरणद्वैविध्यात् द्वावेवास्रवौ स्यातां न पुनरिंद्रियादयो बहुप्रकाराः कथंचिदास्रवाः स्युः सर्वाश्च कषायानपेक्षानपि वा जीवाजीवानाश्रित्य ते प्रवर्तेरन्नित्यारे कायामिदमाह - जीवाजीवान्समाश्रित्य कषायानुग्रहान्वितान् । आस्रवा बहुधा भिन्नाः स्युर्नृणामिंद्रियादयः बहुविधक्रोधादिकषायानुग्रहीतात्मनो जीवाजीवाधिकरणानां बहुप्रकारत्वोपपत्तेस्तदाश्रितानामिंद्रियाद्यावाणां बहुप्रकारत्वसिद्धिः । तत एव मुक्तात्मनोऽकषायवतो वा न तदासवप्रसंग: ॥ कुतस्ते तथा सिद्धा एवेत्याह- ४४९ बाधकाभावनिर्णीतेस्तथा सर्वत्र सर्वदा । सर्वेषां स्वेष्टनात्सिद्धास्तीव्रत्वादिविशिष्टवत् ॥ ३ ॥ यथैव हि तीव्रमंदत्वादिविशिष्टाः सांपरायिका स्रवस्य भेदाः सुनिश्चितासंभवद्बाधकप्रमाणत्वात्सिद्धास्तथा जीवाजीवाधिकरणाः सर्वस्य तत एवेष्टसिद्धेः ॥ एवं भूमा कर्मणामात्रवोयं सामान्येन ख्यापितः सांपरायी । तत्सामर्थ्यादन्यमीर्यापथस्य प्राहुर्ध्वस्ताशेषदोषाश्रयस्य ॥ ४ ॥ यथोक्तप्रकारेण सकषायस्यात्मनः सामान्यतोस्यास्रवस्य ख्यापने सामर्थ्यादकषायस्य तैरर्थ्यापथास्रवसिद्धिरिति न तत्र सूत्रकाराः सूत्रितवंतः, सामर्थ्यासिद्धस्य सूत्रणे फलाभावादतिप्रसक्तेश्च । विशेषः पुनरीर्यापथास्रवस्याकषाययोगविशेषाद्बोद्धव्यः ॥ इति षष्ठाध्यायस्य प्रथममाह्निकम् । तत्प्रदोषनिह्नवमात्सर्यांतरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १० ॥ 1 आस्रवा इति संबंध: । के पुनः प्रदोषादयो ज्ञानदर्शनयोरित्युच्यते — कस्यचित्तत्कीर्तनानंतरमनभिव्याहरतोंतःपैशून्यं प्रदोषः, परातिसंधानतो व्यपलापो निह्नवः, यावद्यथावद्वेषस्य प्रदानं मात्सर्य, विच्छेदकरणमंतरायः, वाक्कायाभ्यामनावर्तनमासादनं, प्रशस्तस्यापि दूषणमुपघातः । न चासादनमेव स्यादूषपि विनयाद्यनुष्ठानलक्षणत्वात् । तदिति ज्ञानदर्शनयोः प्रतिनिर्देश सामर्थ्यादन्यस्याश्रुतेः । ज्ञानदर्शनावरणयोरास्रवास्तत्प्रदोषादयो ज्ञानदर्शनप्रदोषादय इत्यभिसंबंधात् । समासे गुणीभूतयोरपि ज्ञानदर्शनयोरार्थेन न्यायेन प्रधानत्वात् तच्छब्देन परामर्शोपपत्तिः । सामान्यतः सर्वकर्मास्रवस्येंद्रियत्रतादिरूपस्य वचनादिह भूयोपि तत्कथनं पुनरुक्तमेवेत्यारेकायामिदमुच्यते विशेषेण पुनर्ज्ञानावरणयोर्मताः । तत्प्रदोषादयः पुंसामात्र वास्तेनुभागगाः ॥ १ ॥ सामान्यतोभिहितानामप्यास्रवाणां पुनरभिधानं विशेषतः प्रत्येकं ज्ञानावरणादीनामष्टानामप्यास्रवप्रतिपत्त्यर्थम् । एते वास्रवाः सर्वेनुभागगाः प्रतिपत्तव्याः कषायास्रवत्वात् । पुंसामिति वचनात् प्रधानादिव्युदासः । कथं पुनस्ते तदावरणकर्मास्रवहेतव इत्युपपत्तिमाह- ५७ Page #459 -------------------------------------------------------------------------- ________________ ४५० तत्त्वार्थश्लोकवार्तिके [सू० ११ यत्प्रदोषादयो ये ते तदावरणमुद्गलात् । नरो नयंति वीभत्सुप्रदोषाद्या यथा करान् ॥ २ ॥ ये यत्प्रदोषादयस्ते तदावरणपुद्गलानात्मनो ढौकयंति यथा बीभत्सुखशरीरप्रदेशप्रदोषादयः करादीन् । ज्ञानदर्शनविषयाश्च कस्यचित्प्रदोषादय इत्यत्र न तावदसिद्धो हेतुः कचित्कदाचित्प्रदोषादीनां प्रतीतिसिद्धत्वात् । नाप्यनैकांतिको विपक्षवृत्त्यभावात् । अशुद्ध्यादिपूतिगंधिविषयः प्रदोषादिभिस्तदन्यप्राणिविषयकराद्यावरणाढौकनहेतुभिर्व्यभिचारीति चेन्न, घ्राणसंबंधदुर्गधपुद्गलाः प्रदोषादिहेतुकत्वात् तत्पिधायककराद्यावरणढौकनस्य दोषाद्यभावे तदधिष्ठानसंभूतबाह्याशुच्यादिगंधप्रदोषानुपपत्तेः । तद्विषयत्वपरिज्ञानायोगात् तदन्यविषयवत् । तत एव न विरुद्धं सर्वथा विपक्षावृत्तेरविरुद्धोपपत्तेः । विपक्षे बाधकप्रमाणाभावात्संदिग्धविपक्षव्यावृत्तिकोऽयं हेतुरिति चेन्न, साध्याभावे साधनाभावप्रतिपादनात् । यस्य यद्विषयाः प्रदोषादयस्तस्य तद्विषयास्तदविद्यैव न पुनस्तदावरणपुद्गलः सिद्ध्येत् ततो न तत्प्रदोषादिभ्यो ज्ञानदर्शनयोरावरणपुद्गलप्रसिद्धिरिति न शंकनीयं, तदावरणस्य कर्मणः पौगलिकत्वसाधनात् । कथं मूर्तकर्मामूर्तस्य ज्ञानादेरावरणमिति चेत् , तदविद्याद्यमूर्त कथमिति समः पर्यनुयोगः । यथैवामूतस्य वारकत्वे ज्ञानादीनां शरीरमावारकं विप्रसज्यं तथैवामूर्तस्य सद्भावे तेषां गगनमावारकमासज्येत । तदविरुद्धत्वान्न तत्तदावारकमिति चेत् , तत एव शरीरमपि तद्विरुद्धस्यैव तदावारकत्वसिद्धेः । स्यान्मतं, ज्ञानादेवर्तमानस्य सतोप्यविद्याद्युदये तिरोधानात्तदेव तद्विरुद्धं तदावरणं युक्तं न पुनः पौद्गलिकं कर्म तस्य तद्विरुद्धत्वासिद्धेरिति । तदसत् , तस्यापि तद्विरुद्धत्वप्रतीतेः सुरादिद्रव्यवत् । ननु मदिरादिद्रव्यमविद्यादिविकारस्य मदस्य ज्ञानादिविरोधिनो जनकत्वात् परंपरया तद्विरुद्धं न साक्षादिति चेत् , पौद्गलिकं कर्म तथैव तद्विरुद्धमस्तु तस्यापि विज्ञानविरुद्धाज्ञानादिहेतुत्वात् तस्य भावावरणत्वात् । न च द्रव्यावरणापाये भावावरणसंभवोतिप्रसंगात् । युक्तस्यातत्प्राप्तेरपि वारणात् । तस्य सम्यग्ज्ञानसात्मीभावे मिथ्याज्ञानादेरत्यंतमुच्छेदात्तस्योदये तदात्मनो भावावरणस्य सद्भावात् । कुतो द्रव्यावरणसिद्धिरिति चेत् , आत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसंबंधिबंधनस्तत्स्वभावान्यथाभावस्वभावत्वादुन्मत्तकादिहेतुकोन्मादादिवदित्यनुमानात् । मिथ्याज्ञानादिहेतुकापरमिथ्याज्ञानव्यभिचारान्नेदमनुमानं समीचीनमिति चेन्न, तस्यापि परापरपौद्गलिककर्मोदये सत्येव भावात् तदभावे तदनुपपत्तेः । परापरोन्मत्तकादिरससद्भावे तत्कृतोन्मादादिसंतानवत् । कामिन्यादिभावेनोद्भूतैरुन्मादादिभिरनेकांत इति चेन्न, तेषामपि परं. परया तन्वीमनोहरांगनिरीक्षणादिनिबंधत्वात् तदभावे तदनुपपत्तेः । ततो युक्तमेव तद् ज्ञानदर्शनप्रदोषादीनां तदावरणकर्मास्रवत्ववचनं युक्तिसद्भावाद्वाधकाभावाच्च तादृशान्यवचनवत् ॥ अथासद्वेद्यास्रवसूचनार्थमाह;दुःखशोकतापानंदनबधपरिदेवनान्यात्मपरोभयस्थान्यसद्धेद्यस्य ॥ ११॥ पीडाद्यसद्वेद्यास्रवसूचनार्थमाह । पीडालक्षणः परिणामो दुःखं, तचासद्वेद्योदये सति विरोधिद्रव्याधुपनिपातात् । अनुग्राहकबांधवादिविच्छेदे मोहकर्मविशेषोदयादसद्वेद्ये च वैक्लव्यविशेषः शोकः, स च बांधवादिगताशयस्य जीवस्य चित्तखेदलक्षणः प्रसिद्ध एव । परिवादादिनिमित्तादाविलांतःकरणस्य तीत्रानुशयस्तापः, स चासद्वेद्योदये क्रोधादिविशेषोदये च सत्युपपद्यते । परितापात्युपात्तप्रचुरविलापांगविकाराभिव्यक्तं क्रंदनं, तच्चासद्वेद्योदये कषायविषयोदये च प्रजायते । आयुरिंद्रियबलप्राणवियोगकरणं बधः, सोप्यसद्वेद्योदये च सति प्रत्येतव्यः । संक्लेशश्रवणं खपरानुग्रहणं हा नाथ नाथेत्यनुकंपाप्रायं परिदेवनं, तच्चासद्वेद्योदये मोहोदये च सति बोद्धव्यं । तदेवं शोकादीनामसद्वेद्योदयापेक्षत्वाहुःखजातीयत्वेपि | Page #460 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। १५१ दुःखात्पृथग्वचनं मोहविशेषोदयापेक्षत्वात् तद्विशेषप्रतिपादनार्थत्वात् पर्यायार्थादेशाद्भेदोपपत्तेश्च नानर्थकमुत्प्रेक्षणीयं, तथैवाक्षेपसमाधानवचनात् । वार्तिककारैर्दुःखजातीयत्वात्सर्वेषां पृथग्वचनमिति न कतिपयविशेषसंबद्धेन जात्याख्यानात् कथंचिदन्यत्वोपपत्तेश्चेति । दुःखादीनां कर्तादिसाधनभावः पर्यायिपर्याययोर्भेदाभेदोपपत्तेः । तयोरभेदे तावदात्मैव दुःखपरिणामात्मको दुःखयतीति दुःखं, भेदे तु दुःखयत्यनेनास्मिन्वा दुःखमिति, सन्मात्रकथने दुःखनं दुःखमिति । शोकादिष्वपि कर्तृकरणाधिकरणभावसाधनत्वं प्रत्येयं, तदेकांतावधारणानुपपन्नमन्यतरैकांतसंग्रहात् । पर्यायैकांते हि दुःखादिचित्तस्य कर्तृत्वसंग्रहः करणादित्वसंग्रहो वा स्यान्न पुनस्तदुभयसंग्रहः । तत्र कर्तृत्वसंग्रहस्तावदयुक्तः करणाद्यभावे तदसंभवात् । मनःकरणं संतानोधिकरणमित्युभयसंग्रहोपि न श्रेयान्, कर्तृकाले स्वयमसतः पूर्व विज्ञानलक्षणस्य मनसः करणत्वायोगात् षण्णामनंतरातीतं विज्ञानं यद्धि तन्मन इति वचनात् । सत्ता न भावा वस्तु ततोधिकरणत्वानुपपत्तेः खरविषाणवत् । चक्षुरादिकरणं शरीरमधिकरणमित्यपि न श्रेयस्तस्यापि तत्काले स्थित्यभावात् । यदि पुनर्दुःखादि चित्तं कर्तृ स्वकार्योत्पादने तत्समानसमयवर्ति चक्षुरादि करणं शरीरमधिकरणं व्यवहारमात्रात् । परमार्थतस्तु न किंचित्कर्तृ करणादि वा भूतिमात्रव्यतिरेकेण भावानां क्रियाकारकत्वायोगात् । भूतिर्येषां क्रिया सैव कारकं सैत्र चोद्यते इति वचनात् । सर्वस्याकर्तृत्वादिव्यावृत्तरेव कर्तृत्वादिव्यवहारणादिति मतं, तदापि न दुःखादिचित्तस्य कर्तुश्चक्षुरादिकरणाधिकरणे तस्य बहिर्भूतरूपादिज्ञानोत्पत्तौ करणत्ववचनात् । नापि मनस्तस्य दुःखादिचित्तसमानकालसंभवात् । ननु रूपादिस्कंधपंचकस्य युगपद्भावाहुःखाद्यनुभवात्मकस्य वेदनास्कंधस्य पूर्वस्य कर्तृत्वमुत्तरदुःखाद्युत्पत्ती तस्यैव वाधिकरणत्वं सर्वस्य खाधिकरणत्वात् । दुःखादिहेतुर्बहिरर्थविज्ञप्तिलक्षणस्य वेदनस्कंधस्य चोत्तरतत्कार्यात्पूर्वकस्य मनोव्यपदेशमर्हतः करणत्वं युक्तमेवेति चेन्न, निरन्वयनष्टस्य कर्तृकरणत्वविरोधात् । खकार्यकाले तदनाशे वा क्षणभंगविघातः । तथैव स्वभावस्य भावस्य खात्मैवाधिकरणमित्यप्यसंभाव्यं, शक्तिवैचित्र्ये सति तस्य तदुपपत्तेः तस्याध्येयत्वशक्त्याधेयताव्यवस्थितेरधिकरणत्वशक्त्या पुनरधिकरणत्वस्थितिः । संवृत्या तदुपपत्तौ परमार्थतो न कर्तादिसिद्धिरिति न दुःखादीनां कर्तादिसाधनत्वं । नित्यत्वैकांतेपि न तत्संगच्छते, निरतिशयात्मनः कर्तृत्वानभ्युपगमात् । केनचित्सहकारिणा ततो भिन्नस्यातिशयस्य करणे तस्य पूर्वकर्तृत्वावस्थातोऽप्रच्युतेः कर्तृत्वविरोधात् । प्रच्युतौ वा नित्यत्वविघातात् तदभिनस्यातिशयस्य करणे तस्यैव कृतेरनित्यतैव स्यात् । कथंचित्तस्य नित्यतायां परमताश्रयणं दुर्निवारं । एतेन प्रधानपरिणामस्य महदादेः करणत्वं प्रत्युक्तं, स्याद्वादानाश्रयणे कस्यचित्परिणामानुपपत्तेः प्रसाधनात् । तत एव नाधिकरणत्वं कर्मता वा तस्येति विचिंतितं । एतेन खतो भिन्नानेकगुणस्यात्मनः कर्तृत्वं व्यवच्छिन्नं, नित्यस्यानादेयाप्रहेयातिशयत्वात् । तत एव न मनसः करणत्वं दुःखाद्युत्पत्तौ सर्वथाप्यनित्यत्वप्रसंगात् । दुःखाधिकरणत्वमप्यात्मनोनुपपन्नं पूर्व तदधिकरणखभावस्यात्यागे तद्विरोधात् , त्यागे नित्यत्वक्षतेः सर्वथापत्तेः । ततोनेकात्मन्येवात्मनि दुःखादीनि संसृतौ संभाव्यते नेतरत्र । तान्यात्मपरोभयस्थानि क्रोधाद्यावेशवशाद्भवंति खघातनवत् खदास्यादिताडनवत् स्वाधमणनिरोधकोत्तमर्णवच्च । असद्वेद्यस्येत्यत्र विद्यादीनामवगमनाद्यर्थत्वादनर्थको निर्देश इति चेन्न, विदेश्चेतनार्थस्य ग्रहणात् विदेश्चेतनार्थे चुरादित्वात्तस्येदं वेद्यते इति वेद्यं न पुनरवगमनलाभविचारणसद्भावार्थानां वेत्तिविंदतिविनत्तिवेत्तीनामन्यतमग्रहणं येनानर्थको निर्देशः स्यात् । तदसद्वेद्यमप्रशस्तत्वादनिष्टफलप्रादुर्भावकारणत्वाच विशिष्यते । असच्च तद्वेद्यं च तदिति । अत्र सूत्रे दुःखाभिधानमादौ प्रधानत्वात् । तस्य प्राधान्यं तद्विकल्प. त्वादितरेषां शोकादीनां । शोकादिग्रहणस्यान्यविकल्पोपलक्षणार्थत्वादन्यसंग्रहः । के पुनस्तेन्ये ? अशुभ Page #461 -------------------------------------------------------------------------- ________________ तत्त्वार्थ श्लोकवार्तिके [सू० १२ प्रयोगपैशून्यपरपरिवादाः कृपाविहीनत्वं अंगोपांगछेदनतर्जनसंत्रासनानि । तथा भर्त्सनभक्षणविशसनबंधनसंरोधननिरोधाद्यैर्मर्दनचिद्भेदनवाहनसंघर्षणानि तथा विग्रहे रौक्ष्यविधानं परात्मनिंदाप्रशंसने संक्लेशजननमायुर्बहुमानत्वं च सुखलोभात् बह्वारंभपरिग्रह विश्रंभविघातनैकशीलत्वं पापक्रियोपजीवननिःशेषानर्थदंड करणानि तद्दानं च परेषां पापाचारैर्जनैश्च सह मैत्री तत्सेवा संभाषणसंव्यवहाराच्च संलक्ष्याः । ते ते दुःखादयः परिणामाः खपरोभयस्थाः असद्वेद्यस्य कर्मण आस्रवाः प्रत्येतव्याः । प्रपंचतोन्यत्र तदभिधानात् । अथ दुःखादीनामसद्वेद्यास्रवत्वं किमागममात्रसिद्धमाहोस्विदनुमानसिद्धमपीत्याशंकायामस्यानुमानसिद्धत्वमादर्शयति ४५२ दुःखादीनि यथोक्तानि स्वपरोभयगानि तु । आस्रावयंति सर्वस्याप्यसातफलपुद्गलान् ॥ १ ॥ तज्जातीयात्मसंक्लेशविशेषत्वाद्यथानले । प्रवेशादिविधायीनि स्वसंवेद्यानि कानिचित् ॥ २ ॥ दुःखमात्मस्थमसातफलपुद्गलास्रावि दुःखजातीयात्मसंक्लेश विशेषत्वात् पावकप्रवेशकारिप्रसिद्धदुःखवत् । तथा परत्र दुःखमसात फलपुद्गलास्रावि तत एव तद्वत्, तथोभयस्थं दुःखं विवादापन्नमसातफलपुद्गलास्रावि तत एव तद्वत् । एवं शोकतापाक्रंदनवधपरिदेवनान्यात्मपरोभयस्थान्यसातफलपुद्गलास्रावीण्युत्पादयितुर्जीवस्य दुःखजातीयात्म संक्लेशविशेषत्वाद्विषभक्षणादिविधायिशोकतापाक्रंदनवधपरिदेवनवत् इत्यष्टादशानुमानानि प्रतिपत्तव्यानि । न तावदत्र दुःखजातीयात्मसंक्लेशविशेषत्वं साधनमसिद्धं, क्रोधादुपनीतदुःखादीनां विशुद्धिरिति विरोधिनां दुःखजातीयात्म संक्लेश विशेषत्वप्रसिद्धेः । नाप्यनैकांतिकं तीर्थकराद्युत्पादित कायक्लेशादिदुःखेन न खपरोभयस्थेनाप्यसातफलपुद्गलानास्रवणादिति न मंतव्यं, तस्यातज्जातीयत्वादात्मसंक्लेशविशेषत्वासिद्धेः । तत एव न तीर्थकरोपदेशविरोधात् दुःखादीनामसद्वेद्यात्रवत्वायुक्तिः, सर्वेषां स्वर्गापवर्गसाधनानां दुःखजातीनां पापास्रवत्वप्रसंगात् । तपश्चरणाद्यनुष्ठायिनो द्वेषाद्यभावाच्च आसादितप्रसादत्वाच्च दिष्टा प्रसन्नमनसामेव खपरोभयदुःखाद्युत्पादने पापास्रवत्वसिद्धेः ॥ “ग्रामे पुरे वा विजने जने वा प्रासादशृंगे द्रुमकोटरे वा । प्रियांगनांकेथ शिलातले वा मनोरतिं सौख्यमुदाहरंति ॥” इति । न च मनोरत्यभावे बुद्धिपूर्वः स्वतंत्रः क्वचित्तपः क्लेशमारभते, विरोधात् । ततो न प्रकृतहेतोः तपश्चरणादिभिर्व्यभिचारः सर्वसंप्रतिपत्तेः । परेषामसद्वेद्यादीनां निराकरणाच्च निरवद्यदुःखादीनामसद्वेद्यास्रवत्वसाधनं ॥ भूतत्रत्यनुकंपादानसरागसंयमादियोगः क्षांतिः शौचमिति सद्यस्य ॥ १२ ॥ आयुर्नामकर्मोदयवशाद्भवनाद्भूतानि सर्वप्राणिन इत्यर्थः । व्रताभिसंबंधिनो व्रतिनः सागारानगारभेदाद्वक्ष्यमाणाः । अनुकंपनमनुकंपा । भूतानि च व्रतिनश्च भूतत्रतिनः तेषामनुकंपा भूतत्रत्यनुकंपा । 'साधनं कृता बहुलमिति वृत्तिः गले चोपकवत् मयूरव्यंसकादित्वाद्वा । स्वस्य परानुग्रहबुद्ध्या तिसर्जनं दानं वक्ष्यमाणं, सांपरायनिवारणप्रवणो अक्षीणाशयः सरागः, प्राणींद्रियेष्वशुभप्रवृत्तेोर्विरतिः संयमः सरागो वा संयमः स आदिर्येषां ते सरागसंयमादयः । संयमासंयमकामनिर्जराबालतपसां वक्ष्यमाणानामादिग्रहणादवरोधतः । निरवद्यक्रियाविशेषानुष्ठानं योगः समाधिरित्यर्थः । तस्य ग्रहणं कायादिदंडभावनिवृत्त्यर्थं । भूतवत्यनुकंपा च दानं च सरागसंयमाश्चेति द्वंद्वः तेषां योगः । धर्मप्रणिधानात्क्रोधादिनिवृत्तिः क्षांतिः क्षमूषू सहने इत्यस्य दिवादिकस्य रूपं । लोभप्रकाराणामुपरमः शौचः, खद्रव्यात्यागपरद्रव्यापहरणसांन्यासिकनिवादयो लोभप्रकाराः तेषामुपरमः शौचमिति प्रतीताः । इतिकरणः प्रकारार्थः । वृत्तिप्रयोगप्रसंगो 1 Page #462 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। ४५३ लघुत्वादिति चेन्न, अन्योपसंग्रहार्थत्वात् तदकरणस्य इति । करणानर्थक्यमिति चेन्न, उभयग्रहणस्य व्यक्त्यर्थत्वात् । के पुनस्ते गृह्यमाणा इत्युपदर्शयामः । "अर्हत्पूजापरता वैयावृत्त्योद्यमो विनीतत्वं । आर्जवमार्दवधार्मिकजनसेवा मित्रभावाद्याः" । भूतग्रहणादेव सर्वप्राणिसंप्रतिपत्तेतिग्रहणमनर्थकमिति चेन्न, प्रधानख्यापनार्थत्वाद्रतिग्रहणस्य नित्यानित्यात्मकत्वेनुकंपादिसिद्धिर्नान्यथा । सोऽयमशेषभूतव्रत्यनुकंपादिः सद्वेद्यस्यास्रवः ॥ कुतो निश्चीयत इति युक्तिमाह भूतव्रत्यनुकंपादि सातकारणपुद्गलान् । जीवस्य ढौकयत्येवं विशुद्ध्यंगत्वतो यथा ॥१॥ पथ्यौषधावबोधादिः प्रसिद्धः कस्यचिद्द्वयोः । सदसवैद्यकर्माणि तादृशान् पुद्गलानयं ॥२॥ यथा दुःखादीनि खपरोभयस्थानि संक्लेशविशेषत्वाद्दुःखफलानास्रावयंति जीवस्य तथा भूतव्रत्यनुकंपादयः सुखफलान् विशुद्ध्यंगत्वादुभयवादिप्रसिद्धपथ्यौषधावबोधादिवत् । ये ते तादृशा दुःखसुखफलास्ते असद्वैद्यकर्मप्रकृतिविशेषाः सद्वेद्यकर्मप्रकृतिविशेषाश्चास्माकं सिद्धाः........""कारणविशेषाविनाभावित्वात् ॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ करणक्रमव्यवधानातिवर्तिज्ञानोपेताः केवलिनः प्रतिपादिताः, तदुपदिष्टं बुद्ध्यतिशयगणधरावधारितं श्रुतं व्याख्यातं, रत्नत्रयोपेतः श्रमणगणः संघः । एकस्यासंघत्वमिति चेन्न, अनेकव्रतगुणसंहननादेकस्यापि संघत्वसिद्धेः । “संघो गुणसंघादो कम्माणविमोक्खदो हवदि संघो । दसणणाणचरिते संघादितो हवदि संघो ॥” इति वचनात् । अहिंसालक्षणो धर्मः । देवशब्दो व्याख्यातार्थः । अंतःकलुषदोषादसद्भूतमलोद्भावनमवर्णवादः । पिंडाभ्यवहारजीवनादिवचनं केवलिषु, मांसभक्षणानवद्याभिधानं श्रुते, शूद्रत्वाशुचित्वाद्याविर्भावनं संघे, निर्गुणत्वाद्यभिधानं धर्मे, सुरामांसोपसेवाद्याघोषणं देवेष्ववर्णवादो बोद्धव्यः । दर्शनमोहकर्मण आस्रवः । दर्शनं मोहयति मोहनमात्रं वा दर्शनमोहः कर्म तस्यागमनहेतुरित्यर्थः ॥ कथमित्याह केवल्यादिषु योवर्णवादः स्यादाशय नृणां । स स्यादर्शनमोहस्य तत्त्वाश्रद्धानकारिणः ॥१॥ आस्रवो यो हि यत्र स्थायदाचारे यदा स्थितौ । यत्प्रणेतरि चावर्णवादः श्रद्धानघात्यसौ ॥२॥ श्रोत्रियस्य यथा मद्ये तदाधारादिकेषु च । प्रतीतोसौ तथा तत्त्वे ततो दर्शनमोहकृत् ॥ ३ ॥ यो यत्र यदाश्रये यत्प्रतिज्ञाने यत्प्रणेतरि चावर्णवादः स तत्र तदाश्रये तत्प्रतिज्ञाने तत्प्रणेतरि च श्रद्धानघातहेतून् पुद्गलानास्रवयति, यथा श्रोत्रियस्य मद्ये तद्भांडे तत्प्रतिज्ञाने तत्प्रणेतरि च श्रद्धानघातहेतून्नासिकादिपिधायककरादीन् , तथा च कस्यचिज्जीवादितत्त्वप्रणेतरि केवलिनि तदाश्रये च श्रुते तत्प्रतिज्ञापिनि च संघे तत्प्रतिपादिते च धर्मे देवेषु चावर्णवादस्तस्मात्तथेति प्रत्येतव्यम् ॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ द्रव्यादिनिमित्तवशात्कर्मपरिपाक उदयः, तीनकषायशब्दावुक्तार्थों, चारित्रं मोहयति मोहनमात्रं वा मोहः । कषायस्योदयात्तीत्रः परिणामश्चारित्रमोहस्य कर्मण आस्रव इति सूत्रार्थः ॥ कथमित्याहतथा चारित्रमोहस्य कषायोदयतो नृणां । स्यात्तीव्रपरिणामो यः स समागमकारणं ॥१॥ यः कषायोदयात्तीवः परिणामः स ढोकयेत् । चारित्रघातिनं भावं कामोद्रेको यथा यतेः॥२॥ कस्यचित्तादृशस्यायं विवादापन्नविग्रहः । तसात्तथेति निर्वाधमनुमानं प्रवर्तते ॥३॥ Page #463 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [सू० १९ कषायोदयात्तीत्रपरिणामो विवादापन्नश्चारित्रमोहहेतुपुद्गलसमागमकारणं जीवस्य कषायोदयहेतुकती परिणामत्वात् कस्यचिद्यतेः कामोद्रेकवत् । न साध्यसाधनविकलो दृष्टांतः, कामोद्रेके चारित्रमोहहेतुर्योषिदादिपुद्गलसमागमकारणत्वेन व्याप्तस्य कषायोदय हेतु कतीत्रपरिणामत्वस्य सुप्रसिद्धत्वात् ॥ बहारंभपरिग्रहत्वं नारकस्यायुषः ॥ १५ ॥ संख्या वैपुल्यवाचिनो बहुशब्दस्य ग्रहणमविशेषात् । आरंभो हेतुकर्म, ममेदमिति संकल्पः परिग्रहः, बारंभः परिग्रहो यस्य स तथा तस्य भावस्तत्त्वं, तन्नारकस्यायुषः आस्रवः प्रत्येयः । एतदेव सोपपत्तिकमाह - ४५४ नरकस्यायुषोभीष्टं बहारंभत्वमास्रवः । भूयः परिग्रहत्वं च रौद्रध्यानातिशायि यत् ॥ १ ॥ निंद्यं धाम नृणां तावत्पापाधान निबंधनम् । सिद्धं चांडालकादीनां धेनुघातविधायिनाम् ||२|| तत्प्रकर्षात्पुनः सिद्धयेद्धीनधामप्रकृष्टता । तस्य प्रकर्षपर्यंता तत्प्रकर्षव्यवस्थितिः ॥ ३ ॥ पापानुष्ठा कचिद्वातिपर्यंततारतम्यतः । परिणामादिवत्तत्तो रौद्रध्यानमपश्चिमं ॥ ४ ॥ तस्यापकर्षतो हीनगतेरप्यपकृष्टता । सिद्धेति बहुधा भिन्नं नारकायुरुपेयते ॥ ५ ॥ माया तैर्यग्योनस्य ॥ १६ ॥ चारित्रमोहोदयात् कुटिलभावो माया । सा कीदृशी : तैर्यग्योनस्यायुष आस्रव इत्याह--- माया तैर्यग्योनस्येत्यायुषः कारणं मता । आर्तध्यानाद्विना नात्र स्वाभ्युपायविरोधतः ॥ १ ॥ अपकृष्टं हि यत्पापध्यानमार्तं तदीरितं । निंद्यं धाम तथैवाप्रकृष्टं तैर्यग्गतिस्ततः ॥ २ ॥ प्रसिद्धमायुषो नैकप्रधानत्वं प्रमाणतः । तैर्यग्योनस्य सिद्धांते दृष्टेष्टाभ्यामबाधितं ॥ ३ ॥ अल्पारंभपरिग्रहत्वं मानुषस्य ॥ १७ ॥ नारकायुरास्रवविपरीतो मानुषस्तस्येत्यर्थः ॥ किं तदित्याह— मानुषस्यायुषो ज्ञेयमल्पारंभत्वमास्रवः । मिश्रध्यानान्वितमल्पपरिग्रहतया सह ॥ १ ॥ धर्ममात्रेण संमिश्रं मानुषीं कुरुते गतिं । सातासातात्मतन्मिश्रफलसंवर्तिका हि सा ॥ २ ॥ धर्माधिक्यात्सुखाधिक्यं पापाधिक्यात्पुनर्नृणां । दुःखाधिक्य मिति प्रोक्ता बहुधा मानुषी गतिः स्वभावमार्दवं च ॥ १८ ॥ उपदेशानपेक्षं मार्दवं स्वभावमार्दवं । एकयोगीकरणमिति चेत्, ततोनंतरापेक्षत्वात् पृथक्करणस्य । तेन दैवस्यायुषोयमास्रवः प्रतिपादयिष्यते । कीदृशं तन्मानुषस्यायुष आस्रव इत्याह स्वभावमार्दवं चेति हेत्वंतरसमुच्चयः । मानुषस्यायुषस्तद्धि मिश्रध्यानोपपादिकं ॥ १ ॥ निःशील तत्वं च सर्वेषाम् ॥ १९ ॥ चशब्दोधिकृतसमुच्चयार्थः । सर्वेषां ग्रहणं सकलास्रवप्रतिपत्त्यर्थं । देवायुषोपि प्रसंग इति चेन्न, अतिक्रांतापेक्षत्वात् । पृथक्करणात् सिद्धेरानर्थक्यमिति चेन्न, भोगभूमिजार्थत्वात् । तेन भोगभूमिजानां निःशीलव्रतत्वं दैवस्यायुष आस्रवः सिद्धो भवति । कुत एतदित्याह - निःशीलव्रतत्वं च सर्वेषामायुषामिह । तत्र सर्वस्य संभूतेयनस्यासुभृतां श्रितौ ॥ १ ॥ ततो यथासंभवं सर्वस्यायुषो भवत्याखवः ॥ Page #464 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः । ४५५ सरागसंयम संयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ २० ॥ व्याख्याताः सरागसंयमादयः । कीदृशानि सरागसंयमादीनि दैवमायुः प्रतिपादयंतीत्याहतस्यैकस्यापि दैवस्यायुषः संप्रतिपत्तये । धर्मध्यानान्वितत्वेन नान्यथातिप्रसंगतः ॥ १ ॥ सम्यक्त्वं च ॥ २१ ॥ अविशेषाभिधानेपि सौधर्मादिविशेषगतिः । पृथक्करणात्सिद्धेः किमर्थश्चशब्द इति चेदुच्यतेसम्यक्त्वं चेति तद्धेतुसमुच्चयवचोबलात् । तस्यैकस्यापि दैवायुः कारणत्वविनिश्चयः ॥ १ ॥ सर्वापवादकं सूत्रं केचिद्याचक्षते सति । सम्यक्त्वे न्यायुषां हेतोर्विफलस्य प्रसिद्धितः ॥ २ ॥ तत्राप्रच्युतसम्यक्त्वा जायंते देवनारकाः । मनुष्येष्विति नैवेदं तद्बाधकमितीतरे ॥ ३ ॥ तन्निःशीलव्रतत्वस्य न बाधकमिदं विदुः । स्यादशेषायुषां हेतुभावसिद्धेः कुतश्चन ॥ ४ ॥ पृथक्सूत्रस्य निर्देशाद्धेतुर्वैमानिकायुषः । सम्यक्त्वमिति विज्ञेयं संयमासंयमादिवत् ॥ ५ ॥ सम्यग्दृष्टेरनंतानुबंधिक्रोधाद्यभावतः । जीवेष्वजीवता श्रद्धापायान्मिथ्यात्वहानितः ॥ ६ ॥ हिंसायास्तत्स्वभावाया निवृत्तेः शुद्धिवृत्तितः । प्रकृष्टस्यायुषो दैवस्यास्रवो न विरुध्यते ॥ ७ ॥ योगवकता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ कायवाङ्मनसां कौटिल्येन वृत्तिर्योगवक्रता, विसंवादनमन्यथा प्रवर्तनं । योगवक्रतैवेति चेत्, सत्यं; किंत्वात्मांतरेपि तद्भावप्रयोजकत्वात्पृथग्वचनं विसंवादनस्य । चशब्दोनुक्तसमुच्चयार्थः तेन तज्जातीय शेषपरिणामपरिग्रहः । कुतोऽशुभस्य नाम्नोयमासव इत्याह नाम्नोशुभस्य हेतुः स्याद्योगानां वक्रता तथा । विसंवादनमन्यस्य संक्केशादात्मभेदतः ॥ १ ॥ तद्विपरीतं शुभस्य ॥ २३ ॥ प्रयोगताऽविसंवादनं च तद्विपरीतं । कुतस्तदखिलं शुभस्य नाम्नः कारणमित्याहततस्तद्विपरीतं यत्किंचित्तत्कारणं विदुः । नाम्नः शुभस्य शुद्धात्म विशेषत्वावसायः ॥ १ ॥ दर्शन विशुद्धिर्विनयसंपन्नता शीलवतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यका परिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य ॥ २४ ॥ के पुनर्दर्शनविशुयादय इत्युच्यतेः - ―――― जिनोद्दिष्टेति नैर्ग्रथ्यमोक्षवर्त्मन्यशंकनं । अनाकांक्षणमप्यत्रामुत्र चैतत्फलाप्तये ॥ १ ॥ विचिकित्सान्यदृष्टीनां प्रशंसासंस्तवच्युतिः । मौढ्यादिरहितत्वं च विशुद्धिः सा दृशो मता ॥ २ ॥ संज्ञानादिषु तद्वत्सु वादरोत्थानपेक्षया । कषायविनिवृत्तिर्वा विनयैर्मुनिसंमतैः ॥ ३ ॥ संपन्नता समाख्याता मुमुक्षूणामशेषतः । सद्द्दष्ट्यादिगुणस्थानवर्तिनां खानुरूपतः ॥ ४ ॥ Page #465 -------------------------------------------------------------------------- ________________ ४५६ [सू० २६ सच्चारित्रविकल्पेषु व्रतशीलेष्वशेषतः । निरवद्यानुवृत्तिर्यानतिचारः स तेषु वै ॥ ५ ॥ संज्ञानभावनायां तु या नित्यमुपयुक्तता । ज्ञानोपयोग एवासौ तदाभीक्ष्णं प्रसिद्धितः ॥ ६ ॥ संसाराद्भीरुताभीक्ष्णं संवेगः सद्धियां मतः । न तु मिथ्यादृशां तेषां संसारस्याप्रसिद्धितः ॥ ७॥ शक्तितस्त्याग उद्गीतः प्रीत्या स्वस्यातिसर्जनं । नात्मपीडाकरं नापि संपद्यनतिसर्जनं ॥ ८ ॥ अनिगूहितवीर्यस्य सम्यग्मार्गाविरोधतः । कायक्लेशः समाख्यातं विशुद्धं शक्तितस्तपः ॥ ९ ॥ भांडागाराग्निसंशांतिसमं मुनिगणस्य यत् । तपः संरक्षणं साधुसमाधिः स उदीरितः ॥ १० ॥ गुणिदुःखनिपाते तु निरवद्यविधानतः । तस्यापहरणं प्रोक्तं वैयावृत्यमनिंदितं ॥ ११ ॥ अर्हत्वाचार्यवर्येषु बहुश्रुतयतिष्वपि । जैने प्रवचने चापि भक्तिः प्रत्युपवर्णिता ॥ १२ ॥ भावशुद्ध्या नुता शश्वदनुरागपरैरलं । विपर्यासितचित्तस्याप्यन्यथाभावहानितः ॥ १३ ॥ आवश्यक क्रियाणां तु यथाकालं प्रवर्तना । आवश्यकापरिहाणिः षण्णामपि यथागमं ॥ १४ ॥ मार्गप्रभावना ज्ञानतपोर्हत्पूजनादिभिः । धर्मप्रकाशनं शुद्ध बौद्धानां परमार्थतः ।। १५ ।। वत्सलत्वं पुनर्वत्से धेनुवत्संप्रकीर्तितं । जैने प्रवचने सम्यक्छ्रद्धानज्ञानवत्स्वपि ॥ १६ ॥ अथ किमेते दर्शनविशुद्ध्यादयः षोडशापि समुदितास्तीर्थकरत्वसंवर्तकस्य नामकर्मणः पुण्यास्रवः प्रत्येकं वेत्यारेकायामाह; — तत्त्वार्थश्लोकवार्तिके शुद्ध्यादयो नानस्तीर्थकृत्त्वस्य हेतवः । समस्ता व्यस्तरूपा वा दृग्विशुद्ध्या समन्विताः १७ सर्वातिशायि तत्पुण्यं त्रैलोक्याधिपतित्वकृत् । प्रवृत्त्यातिशयादीनां निर्वर्तकमपीशितुः ॥ १८ ॥ अत एव शुभनाम्नः सामान्येनास्रवप्रतिपादनादेव तीर्थकरत्वस्य शुभनामकर्मविशेषास्रवप्रतिपत्तावपि तत्प्रतिपत्तये सूत्रमिदमुक्तमाचार्यैः । सामान्येन भूतस्यापि विशेषार्थिना विशेषस्यानुप्रयोगः कर्तव्य इति न्यायसद्भावात् ॥ परात्मनिंदाप्रशंसे सदसद्गुणच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥ दोषोद्भावनेच्छा निंदा, गुणोद्भावनाभिप्रायः प्रशंसा, अनुद्भूतवृत्तिता छादनं, प्रतिबंधकाभावे प्रकाशितवृत्तितोद्भावनं, गूयते तदिति गोत्रं, नीचैरित्यधिकप्रधानशब्दः । तदेवं परात्मनो निंदाप्रशंसे सदसद्गुणयोश्छादनोद्भावने नीचैर्गोत्रस्यास्रव इति वाक्यार्थः प्रत्येयः । कुत एतदित्याह— परनिंदादयो नीचैर्गोत्रस्यास्रवणं मतं । तेषां तदनुरूपत्वादन्यथानुपपत्तितः तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २६ ॥ नीचैर्गोत्रास्रवप्रतिनिर्देशार्थस्तच्छब्दः, विपर्ययोऽन्यथावृत्तिः, गुरुष्ववनतिर्नीचैर्वृत्तिः, अनहंकारतानुत्सेकः । त एते उच्चैर्गोत्रस्यासवा इति समुदायार्थः ॥ कथमित्याह उत्तरस्यास्रवः सिद्धः सामर्थ्यात्तद्विपर्ययः । नीचैर्वृत्तिरनुत्सेकस्तथैवामलविग्रह ॥ १ ॥ यथैव हि नीचैर्गोत्रानुरूपो नीचैर्गोत्रस्यासवः परनिंदादिस्तथोचीत्रानुरूपः परप्रशंसादिरुचैर्गोत्रस्येति न कश्चिद्विरोधः ॥ Page #466 -------------------------------------------------------------------------- ________________ ४५७ षष्ठोऽध्यायः। विघ्नकरणमंतरायस्य ।। २७ ॥ दानादिविहननं विघ्नः तस्य करणं दानाद्यंतरायस्यास्रवः प्रत्येयः । कुत इत्याहसर्वस्याप्यंतरायस्यास्रवः स्यात्प्राणिनामिह । विघ्नस्य करणात्तस्य तथायोग्यत्वनिश्चयात् ॥१॥ प्रवर्तमानदानादिप्रतिषेधस्य भावना । आस्राविकांतरायस्य दृष्टतद्भावना यथा ॥२॥ इति करणानुवृत्तेः सर्वत्रानुक्तसंग्रहः । तेन विघ्नकरणजातीयाः क्रियाविशेषाः। प्रभूतखं प्रयच्छति प्रभौ स्वल्पदानोपदेशादयोपि दानाद्यंतरायास्रवाः प्रसिद्धा भवंति । सोयं विचित्रः खोपात्तकर्मवशादात्मनो विकारः शौंडातुरवत् प्रत्येयः । अनुपदिष्टहेतुकत्वात् खयं वानियम इति चेन्न, खभावाभिव्यंजकत्वाच्छास्त्रस्य । तत्सिद्धिरतिशयज्ञानदृष्टत्वात् सर्वविसंवादोपलंभनिवृत्तिः । सर्वेषां प्रवादिनामविसंवाद एव शुभाशुभास्रवहेतुषु यथोपवर्णितेषु । कुत इत्याहइति प्रत्येकमाख्यातः कर्मणामास्रवः शुभः । पुण्यानामशुभः पापरूपाणां शुद्ध्यशुद्धितः ॥३॥ ज्ञानावरणादीनां कर्मणां तत्प्रदोषादयोऽशुभास्रवाः प्राणिनां संक्लेशांगत्वात् , भूतव्रत्यनुकंपादयः सद्वद्यादीनां शुभास्रवा विशुद्ध्यंगत्वान्यथानुपपत्तेरिति प्रमाणसिद्धत्वात् । तत्स्वभावाभिव्यंजकशास्त्रस्य सर्वसंवादः सिद्ध एव । ननु तत्प्रदोषादीनां सर्वास्रवत्वान्नियमाभाव इति चेन्न, अनुभागविशेषनियमोपपत्तेः । प्रकृतिप्रदेशसंबंधनिबंधनो हि सर्वकर्मणां तत्प्रदोषादिः सकलोप्यास्रवो न प्रतिविभिद्यते । यस्त्वनुभागासवः स विशिष्टः प्रोक्तः । अत एव सकलास्रवाध्यायसूत्रितमत्र विशेषात्समुदायतोनुभागापेक्षयैवोपसंहृत्य दर्शयति यादृशाः स्वपरिणामविशेषा यस्य हेतुवशतोऽसुभृतः स्युः । तादृशान्युपपतंति तमग्रे स्वानुभागकरकर्मरजांसि ॥ ४ ॥ ___ इति षष्ठाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ Page #467 -------------------------------------------------------------------------- ________________ CGDST अथ सप्तमोऽध्यायः ॥ ७॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १॥ हिंसादयो निर्देक्ष्यमाणलक्षणाः, विरमणं विरतिः, व्रतमहिंसादिकृतो नियमः । हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्य इत्यपादाननिर्देशः । ध्रुवत्वाभावात्तदनुपपत्तिरिति चेन्न, बुद्ध्यपायाद्धृवत्वविवक्षोपपत्तेः । अहिंसायाः प्रधानत्वादादौ तद्वचनं, इतरेषां तत्परिपालनार्थत्वात् । विषयभेदाद्विरतिभेदे तद्बहुत्वप्रसंग इति चेन्न वा, तद्विषयविरमणसामान्योपादानात् । तदेवं हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति युक्तोऽयं सूत्रनिर्देशः । नन्विह हिंसादिनिवृत्तिवचनं निरर्थकं संवरांतर्भावात् , धर्माभ्यंतरत्वात् तत्प्रपंचार्थ उपन्यास इति चेन्न, तत्रैव करणात् । संवरप्रपंचो हि स संवराध्याये कर्तव्यो न पुनरिहास्रवाध्यायेतिप्रसंगादिति कश्चित् । तं प्रत्युच्यते-न संवरो व्रतानि, परिस्पंददर्शनात् गुप्त्यादिसंवरपरिकर्मत्वाच्च । ननु पंचसु व्रतेष्वनंत वादिह रात्रिभोजनविरत्युपसंख्यानमिति चेन्न, भावनांतर्भावात् । तत्रानिर्देशादयुक्तोंतर्भाव इति चेन्न, आलोकितपानभोजनस्य वचनात् । प्रदीपादिसंभवे सति रात्रावपि तत्प्रसंग इति चेन्न, अनेकारंभदोषात् । परकृतप्रदीपादिसंभवे तदभाव इति चेन्न, चंक्रमणाद्यसंभवात् । दिवानीतस्य रात्रौ भोजनप्रसंग इति चेन्न, उक्तोत्तरत्वात् स्फुटार्थाभिव्यक्तेश्च दिवा भोजनमेव युक्तं, तेनालोकितपानभोजनाख्या भावना रात्रिभोजनविरतिरेवेति नासावुपसंख्येया । किं पुनरनेन व्रतलक्षणेन व्युदस्तमित्याह अथ पुण्यास्रवः प्रोक्तः प्राग्वतं विरतिश्च तत् । हिंसादिभ्य इति ध्वस्तं गुणेभ्यो विरतिव्रतम्॥१ विरतिव्रतमित्युच्यमाने सम्यक्त्वादिगुणेभ्योपि विरतिव्रतमनुषक्तं तदत्र हिंसादिभ्य इति वचनात् प्रध्वस्तं बोद्धव्यं । ततो यः पुण्यासवः प्रागभिहितः शुभः पुण्यस्येति वचनात् संक्षेपत इति सर्वस्तमेव प्रदर्शनार्थोयमध्यायस्तत्प्रपंचस्यैवात्र सूत्रितत्वादिति प्रतिपत्तव्यं ॥ । व्रतिष्वनुकंपा सद्वेद्यस्यास्रव इति प्रागुक्तं, तत्र के वतिनो येषां व्रतेनाभिसंबंधः ? किं ततमिति प्रश्नेन प्रतिपादनार्थोयमारंभः प्रतीयताम् ; देशसर्वतोऽणुमहती ॥२॥ कुतश्चिद्दिश्यत इति देशः, सरत्यशेषानवयवानिति सर्व, ततो देशसर्वतो हिंसादिभ्यो विरती अणुमहती व्रते भवत इति सूत्रार्थः । कथं व्रते इति ? पूर्वसूत्रस्यानुवृत्तेरर्थवशाद्विभक्तिपरिणामेनाभिसंबंधोपपत्तेः । तत इदमुच्यते देशतोणुव्रतं चेह सर्वतस्तु महद्वतं । देशसर्वविशुद्धात्मभेदात् संज्ञानिनो मतं ॥१॥ न हि मिथ्यादृशो हिंसादिभ्यो विरतिव्रतं, तस्य बालतपोव्यपदेशात् सम्यग्ज्ञानवत एव नु तेभ्यो विरतिर्देशतोणुव्रतं सर्वतस्तेभ्यो विरतिर्महाव्रतमिति प्रत्ययं । देशविशुद्धिस्वभावभेदात्तदेकमपि व्रतं द्वेधा भिद्यत इत्यर्थः ।। Page #468 -------------------------------------------------------------------------- ________________ ४५९ सप्तमोऽध्यायः। तत्स्थैर्यार्थ भावनाः पंच पंच ॥ ३॥ भावनाशब्दः कर्मसाधनः, पंच पंचेत्यत्र वीप्सायां शसः प्रसंग इति चेन्न, कारकाधिकारात् । क्रियाध्यारोपात्कारकत्वमासामिति चेन्न, विकल्पाधिकारात् । तेनैकैकस्य व्रतस्य भावनाः पंच पंच कर्तव्यास्तत्स्थिरभावार्थमित्युक्तं भवति ॥ तदेवाह तत्स्थैर्यार्थ विधातव्या भावनाः पंच पंच तु । तदस्थैर्ये यतीनां हि संभाव्यो नोत्तरोगुणः॥१॥ अथाद्यस्य व्रतस्य पंचभावनाः कथ्यंते;वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पंच ॥ ४॥ कथमित्याह;स्यातां मे वाङ्मनोगुप्ती प्रथमव्रतशुद्धये । तथैर्यादाननिक्षेपसमिती वीक्ष्यभोजनः ॥ १॥ इति मुहुर्मुहुश्चेतसि संचिंतनात् ॥ काः पुनर्द्वितीयस्य व्रतस्य भावना इत्याह;क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचीभाषणं च पंच ॥५॥ कथमित्याह;क्रोधलोभभयं हायं प्रत्याख्यानमृतोद्भवं । तत्त्वानुकूलमाभाषे द्वितीयव्रतशुद्धये ॥१॥ इत्येवं पौनःपुन्येन चिंतनात् ॥ तृतीयस्य व्रतस्य का भावना इत्याह;शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्मा विसंवादाः पंच ॥६॥ कथमित्याह;शून्यं मोचितमावासमधितिष्ठामि शुद्धिदं । परोपरोधं मुंचामि भैक्ष्यशुद्धिं करोम्यहं ॥१॥ सधर्मभिः समं शश्वदविसंवादमाद्रिये । अस्तेयातिकमध्वंसहेतुतद्रतवृद्धये ॥२॥ इत्येवं बहुशः समीहनात् ॥ चतुर्थस्य व्रतस्य कास्ता भावना इत्याह;--- स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरस शरीरसंस्कारत्यागाः पंच ॥७॥ कथमित्युपदर्शयति;स्त्रीणां रागकथां जह्यां मनोहार्यगवीक्षणं । पूर्वरतस्मृतिं वृष्यमिष्टं रसमसंशयम् ॥१॥ तथा शरीरसंस्कारं रतिचेतोभिवृद्धिकं । चतुर्थव्रतरक्षार्थ सततं यतमानसः ॥ २॥ इत्येवं भूरिशः समीक्षणात् ॥ पंचमस्य व्रतस्य का भावना इत्याह; मनोज्ञामनोजेंद्रियविषयरागद्वेषवर्जनानि पंच ॥ ८॥ कथमिति निवेदयति; Page #469 -------------------------------------------------------------------------- ________________ ४६० तत्त्वार्थश्लोकवार्तिके [सू० ११ सर्वाक्षविषयेष्विष्टानिष्टोपस्थितेष्विह । रागद्वेषौ त्यजाम्येवं पंचमत्तशुद्धये ॥ १॥ इत्यनेकधावधानात् ॥ प्रत्येकमिति पंचानां व्रतानां भावना मताः । पंच पंच सदा संतु निःश्रेयसफलप्रदाः॥२॥ किं पुनरत्र भाव्यं? को वा भावकः? कश्च भावनोपाय इत्याह;भाव्यं निःश्रेयसं भाव्यो भावको भावना पुनः। तदुपाय इति त्र्यंशपूर्णाः स्याद्वादिनां गिरः॥३ . न हि सर्वथैकांतवादिनां भावना भवति । नित्यस्यात्मनो भावकत्वे विरोधः, ततः प्रागभावकस्य शश्वदभावकत्वानुषक्तेः, भावकस्य सर्वदा भावकत्वापत्तेः । तत एव प्रधानस्यापि न भावकत्वमनित्यत्वप्रसंगात् । . नापि क्षणिकैकांते भावकोस्ति, निरन्वयविनाशिनः क्षणादूर्ध्वमवस्थानाभावात् पौनःपुन्येन चित्संतानानामसंभवात् संतानस्याप्यवस्तुत्वात् । ततोनेकांतवादिनामेव भावना युक्ता भावकस्य भव्यस्यात्मनः सिद्धेः सर्वकर्मनिर्मोक्षलक्षणस्य च निःश्रेयसस्य भाव्यस्योपपत्तेः । तदुपायभूतायाः सम्यग्दर्शनादिखभावविशेषात्मिकायाः सत्यभावनायाः प्रसिद्धेः । स्याद्वादिनामेव व्यंशपूर्णा गिरो वेदितव्याः ॥ सकलव्रतस्थैर्यार्थमित्थं च भावना कर्तव्येत्याह; हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९॥ अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकोपायः भयं वा, अवयं च गझै तयोर्दर्शनमवलोकन प्रत्येकं हिंसादिषु भावयितव्यं ॥ कथमित्याहहिंसनादिष्विहापायदर्शनं भावना यथा । मयामुत्र तथावद्यदर्शनं प्रविधीयते ॥१॥ हिंसादिसकलमव्रतं दुःखमेवेति च भावनां व्रतस्थैर्यार्थमाह; दुःखमेव वा ॥ १०॥ दुःखमेवेति कारणे कार्योपचारो अन्नप्राणवत् , कारणकारणे वा धनप्राणवत् । दुःखस्य कारणं ह्यव्रतं हिंसादिकमपायहेतुत्वादिहैव दुःखमित्युपचर्यते, कारणे कारणं वा तदवद्यहेतुहेतुत्वात् तस्य च दुःखफलत्वात् तत्परत्र भावनामात्मसाक्षिकं ॥ ननु चाब्रह्मकर्मामुत्र दुःखमात्मसाक्षिकं तद्धि स्पर्शसुखमेवेति चेन्न, तत्र स्पर्शसुखवेदनाप्रतीकारत्वात् दुःखानुषक्तत्वाच्च दुःखत्वोपपत्तेः ॥ एतदेवाह भावना देहिनां तत्र कर्तव्या दुःखमेव वा । दुःखात्मकभवोद्भूतिहेतुत्वादव्रतं हि तत् ॥ १॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेषु॥११॥ हिंसादिविरतिस्थैर्यार्थ भावयितव्यानीति भावनाश्चतस्रोपि वेदितव्याः । परेषां दुःखानुत्पत्त्यभिलाषो मैत्री, वदनप्रसादादिभिरभिव्यज्यमानांतर्भक्तिरनुरागः प्रमोदः, दीनानुग्रहभावः कारुण्यं, रागद्वेषपूर्वकपक्षपाताभावो माध्यस्थ्यं, अनादिकर्मबंधवशात्सीदंतीति सत्त्वाः, सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः, असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः, तत्त्वार्थश्रवणग्रहणाभ्याससंपादितगुणा अविनेयाः । सत्त्वादिषु मैत्र्यादयो यथासंख्यमभिसंबंधनीयाः । ता एता भावनाः सत्यनेकांताश्रयणे संभवंति नान्यथेत्याहमैत्र्यादयो विशुद्ध्यंगाः सत्त्वादिषु यथागमं । भावनाः संभवंत्यंत कांताश्रयणे तु ताः॥१॥ मैत्री सत्त्वेषु कर्तव्या यथा तद्वद्गुणाधिके । क्लिश्यमानेऽविनेये च सत्त्वरूपाविशेषतः ॥ २॥ Page #470 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः। ४६१ कारुण्यं च समस्तेषु संसारक्लेशभागिषु । माध्यस्थ्य वीतरागाणां न कचिद्विनिधीयते ॥३॥ भव्यत्वं गुणमालोक्य प्रमोदाखिलदेहिषु । कर्तव्य इति तत्रायं विभागो मुख्यरूपतः ॥४॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ भावयितव्यो व्रतस्थैर्यार्थमिति शेषः । संवेगवैराग्ये हि व्रतस्थैर्यस्य हेतू , जगत्कायखभावभावनं संवेगवैराग्यार्थमिति परंपरया तस्य तदर्थसिद्धिः । जगत्कायशब्दावुक्तार्थो खेनात्मना भवनं खभावः, जगकाययोः खभावाविति वैराग्याथै ग्राह्यं । संसाराद्भीरुता संवेगः, रागकारणभावाद्विषयेभ्यो विरंजनं विरागः तस्य भावो वैराग्यं, संवेगवैराग्याभ्यां संवेगवैराग्यार्थमिति द्वयोः प्रत्येकमुभथार्थत्वं प्रत्येतव्यं ॥ केषां पुनः संवेगवैराग्याथै जगत्कायस्वभावभावने कुतो वा भवत इत्याहजगत्कायस्वभावौ वा भावने भावितात्मनां । संवेगाय विरक्त्यर्थं तत्त्वतस्तत्प्रबोधतः ॥१॥ तत्त्वतो जगत्कायखभावाभावबोधवादिनां तु तद्भावनातो नाभिप्रेतार्थसिद्धिरित्याह;भावना कल्पनामात्रं येषामर्थानपेक्षया । तेषां नार्थस्ततोऽनिष्टकल्पनात इवेप्सितम् ॥२॥ अनंतानंततत्त्वस्य कश्चिदर्थेषु भाव्यते । सन्नेवेति यथार्थैव भावना नो व्यवस्थिता ॥३॥ ततो यथा वितथसकलभावनाः प्रतिपन्नव्रतस्थैर्यहेतवस्तत्प्रतिपक्षस्वीकारनिराकरणहेतुत्वात्सम्यक् सूत्रिताः प्रतिपत्तव्याः ॥ अथ के हिंसादयो येभ्यो विरतिव्रतमित्युक्तमिति शंकायां हिंसां तावदाह; प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ १३ ॥ अनभिगृहीतप्रचारविशेषः प्रमत्तः अभ्यंतरीभूतेवार्थो वा पंचदशप्रमादपरिणतो वा, योगशब्दः संबंधपर्यायवचनः, कायवाङ्मनःकर्म वा; तेन प्रमत्तसंबंधात् प्रमत्तकायादिकर्मणो वा प्राणव्यपरोपणं हिंसेति सूत्रितं भवति । किं पुनर्व्यपरोपणं? वियोगकरणं प्राणानां व्यपरोपणं प्राणव्यपरोपणं प्राणग्रहणं तत्पूर्वकत्वात् प्राणिव्यपरोपणस्य । सामर्थ्यतः सिद्धेः प्राणस्य प्राणिभ्योन्यत्वादधर्माभाव इति चेन्न, तद्दुःखोत्पादकत्वात् प्राणव्यपरोपणस्य । प्राणानां व्यपरोपणे ततः शरीरिणोऽन्यत्वादुःखाभाव इति चेन्न, इष्टपुत्रकलत्रादिवियोगे तापदर्शनात् । तेनान्यत्वस्य व्यभिचारात् प्राणप्राणिनोर्बधं प्रत्येकत्वाच्च सर्वथान्यत्वमसिद्धमिति न दुःखाभावसंभवः । शरीरिणः साधयतो यतो हिंसा न स्यात् । एकांतवादिनां तदनुपपत्तिः संबंधाभावात् । प्राणप्राणिनोः संयोगविशेषसंबंध इति चेत् , कुतस्तत्सांतरसंयोगाद्विशेषः? तददृष्टविशेषादिति चेत् , तस्याप्यात्मनोन्यत्वे कुतः प्रतिनियतात्मना व्यपदेशः । तत्र समवायादिति चेत् , सर्वात्मसु कस्मान्न तत्समवायः? प्रतिनियतात्मनि धर्माधर्मयोः फलानुभवनात्तत्रैव समवायो न सर्वात्मखिति चेत् , तदेव सर्वात्मसु किं न स्यात् ? सर्वात्मशरीरेष्वभावादिति चेन्न, शरीरस्यापि प्रतिनियतात्मखाभाविकत्वायोगात् सर्वात्मसाधारणत्वात् । यददृष्टविशेषेण कृतं यच्छरीरं तत्तस्यैवेति चेत् , तीदृष्टस्यापि ततोन्यतैवेत्येकांते कुतः प्रतिनियतात्मना व्यपदेश इति स एव पर्यनुयोगश्चक्रकं च । ततः सुदूरमपि गत्वा यत्रात्मनि भावादृष्टं कथंचित्तादात्म्येन स्थितं तस्य तत्कृतं द्रव्यादृष्टं पौद्गलिकं कर्म व्यपदिश्यते । तत्कृतं च शरीरं प्राणात्मकं तव्यपदेशमर्हति पुत्रकलत्रादिवदेवेति स्याद्वादिनामेव प्राणव्यपरोपणे प्राणिनो व्यपरोपणं दुःखोत्पत्तेर्युक्तं न पुनरेकांतवादिनां योगानां संख्यादिवत् । ननु प्रमत्तयोग एव हिंसा तदभावे संयतात्मनो यतेः प्राणव्यपरोपणेपि हिंसानिष्टेरिति कश्चित् । प्राणव्य Page #471 -------------------------------------------------------------------------- ________________ ४६२ तत्त्वार्थश्लोकवार्तिके [ सू० १५ परोपणमेव हिंसा प्रमत्तयोगाभावे तद्विधाने प्रायश्चित्तोपदेशात् , ततस्तदुभयोपादानं सूत्रे किमर्थमित्यपरः । अत्रोच्यते-उभयविशेषोपादानमन्यतमाभावे हिंसाभावज्ञापनार्थ । हिंसा हि द्वेधा भावतो द्रव्यतश्च । तत्र भावतो हिंसा प्रमत्तयोगः सन् केवलस्तत्र भावप्राणव्यपरोपणस्यावश्यंभावित्वात् । ततः प्रमत्तस्यात्मनः खात्मघातित्वात् रागाद्युत्पत्तेरेव हिंसात्वेन समये प्रतिवर्णनात् । द्रव्यहिंसा तु परद्रव्यप्राणव्यपरोपणं खात्मनो वा तद्विधायिनः प्रायश्चित्तोपदेशो भावप्राणव्यपरोपणाभावात् तदसंभवात् प्रमत्तयोगः स्यात् तद्धि पूर्वकस्य यतेरप्यवश्यंभावात् । ततः प्रमत्तयोगः प्राणव्यपरोपणं च हिंसेति ज्ञापनार्थ तदुभयोपादानं कृतं सूत्रे युक्तमेव । येषां तु न कश्चिदात्मा विद्यते क्षणकचित्तमात्रप्रतिज्ञानात् पृथिव्यादिभूतचतुष्टयप्रतिज्ञानाद्वा तेषां प्राण्यभावे प्राणाभावः कर्तुरभावात् । न हि चित्तलक्षणः प्राणानां कर्ता तस्य निरन्वयस्यार्थक्रियाहेतुत्वनिराकरणात् । नापि कायाकारपरिणतो भूतसंघातो मृतशरीरस्यापि तत्कर्तृत्वप्रसंगात् । ततो जीवशरीरस्यात्माधिष्ठितत्वमंतरेण विशेषाव्यवधानसाधनात् जीवति प्राणिनि प्राणसंभवात् तद्व्यपरोपणं प्रमत्तयोगात् स्याद्वादिनामेव हिंसेत्यावेदयतिहिंसात्र प्राणिनां प्राणव्यपरोपणमुदीरिता । प्रमत्तयोगतो नातो मुनेः संयतनात्मनः ॥१॥ रागादीनामनुत्पादान्न हिंसा खस्मिन् परत्र वास्तु न हिंसक इति सिद्धांते देशना, तस्य कचिदपि भावद्रव्यप्राणव्यपरोपणाभावात् तद्भाव एव हिंसकत्वव्यवस्थितेः रागादीनामुत्पत्तिर्हिसेति वचनात् ॥ किं पुनरनृतमित्याह; असदभिधानमनृतम् ॥ १४ ॥ असदिति निर्मातसत्प्रतिषेधेनर्थसंप्रत्ययप्रसंग इति कश्चित् नवा, सच्छब्दस्य प्रशंसार्थवाचित्वात् तत्प्रतिषेधे अप्रशस्तार्थगतिरित्यन्वयः । तदिह हिंसादिकमसदभिप्रेतं अभिधानशब्दः करणाधिकरणसाधनः, ऋतं च तत्सत्यार्थे तत्प्रतिषेधादनृतं । तेनेदमुक्तं भवति प्रमत्तयोगादसदभिधानं यत्तदनृतमिति । मिथ्यानृतमित्यस्तु लघुत्वादिति चेन्न, विपरीतार्थमात्रसंप्रत्ययप्रसंगात् । न च विपरीतार्थमात्रमनृतमिप्यते सर्वथैकांतविपरीतस्यानेकात्मनोर्थस्यानृतत्वप्रसंगात् । एतेन मिथ्याभिधानमनृतमित्यपि निराकृतमतिव्यापित्वात् । यदि पुनरसदेव मिथ्येति व्याख्यानमाश्रीयते तदा यथावस्थितमस्तु प्रतिपत्तिगौरवानवतरणात् ॥ तदेवं अप्रशस्तमसद्धोधमभिधानं यदस्य तत् । प्रमत्तस्यानृतं नान्यस्येत्याहुः सत्यवादिनः ॥१॥ तेन स्वपरसंतापकारणं यद्वचोगिनां । यथादृष्टार्थमप्यत्र तदसत्यं विभाव्यते ॥ २ ॥ मिथ्यार्थमपि हिंसादिनिषेधे वचनं मतं । सत्यं तत्सत्सु साधुत्वादहिंसात्रतशुद्धिदम् ॥ ३॥ स्तेयं किमित्याह; अदत्तादानं स्तेयम ॥ १५॥ सर्वमदत्तमाददानस्य स्तेयत्वकल्पनायां कर्मादेयमात्मसात्कुर्वतः स्तेयत्वप्रसंग इति चेन्न, दानादानयोर्यत्रैव प्रवृत्तिनिवृत्ती तत्रैवोपपत्तेः । इच्छामात्रमिति चेन्न, अदत्तादानग्रहणात् । अदत्तस्यादानं स्तेयमित्युक्ते हि दानादानयोर्यत्र प्रवर्तनमस्ति तत्रैव स्तेयव्यवहार इत्यभिहितं भवति । तत्कर्मापि किमर्थ कस्मैचिन्न दीयत इति चेन्न, तस्य हस्तादिग्रहणविसर्गासंभवात् । स एव कुत इति चेत् , सूक्ष्मत्वात् । कथं धर्मो मयास्मै दत्त इति व्यवहार इति चेत् , धर्मकारणस्यायतनादेर्दानात् कारणे कार्योपचाराद्धर्मस्य दानसिद्धेः । धर्मानुष्ठानात् मनःकरणाद्वा तथा व्यवहारोपपत्तेरनुपालंभः । Page #472 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः । ४६३ कथमेवं कर्मणा जीवस्य बंधस्तद्योग्यपुद्गलादानलक्षणः सूत्रित इति चेत्, शरीराहारविषयपरिणामतस्तद्वंधः शरीरिणो न पुनः स्वहस्ताद्यादानतः तेषामात्मनि शुभाशुभपरिणामढौकनस्यैवादानशब्देन व्यपदेशात् । तर्हि शब्दादिविषयाणां रथ्याद्वारादीनां वादत्तानामादानात् स्तेयप्रसंग इति चेन्न, तदादायिनो यतेरप्रमत्तत्वात् तेषां सामान्येन जनैर्दत्तत्वाच्च देववंदनादिनिमित्तधर्मादानात् स्तेयप्रसंग इति चेन्न, उक्तत्वात् । तत्र दानादानव्यवहारासंभवाद्धर्मकारणानुष्ठानादिग्रहणाद्धर्मग्रहणोपचाराद्वा तथा व्यवहारसिद्धेरिति । प्रमत्ताधिकारत्वादन्यत्राप्रसंगः स्तेयस्य । देववंदनादौ प्रमादाभावात्तन्निमित्तकस्य धर्मस्य परेणादत्तस्याप्यादाने कुतः स्तेयप्रसंगः? एतदेवाह प्रमत्तयोगतो यत्स्याददत्तादानमात्मनः । स्तेयं तत्सूत्रितं दानादानयोग्यार्थगोचरम् ॥ १ ॥ तेन सामान्यतोऽदत्तमाददानस्य सन्मुनेः । सरिनिर्झरणाद्यंभः शुष्कगोमयखंडकम् ॥ २॥ भस्मादि वा स्वयं मुक्तं पिच्छालाबूफलादिकं । प्रासुकं न भवेत्स्तेयं प्रमत्तत्वस्य हानितः ॥३॥ अथ किमब्रह्मेत्याह; मैथुनमब्रह्म ॥ १६ ॥ मिथुनस्य भावो मैथुनमिति चेन्न, द्रव्यद्वयभवनमात्रप्रसंगात् । मिथुनस्य कर्मेति चेन्न, पुरुषद्वयनिवर्त्यक्रियाविशेषप्रसंगात् । स्त्रीपुंसयोः कर्मेति चेन्न, पच्यादिक्रियाप्रसंगात् । स्त्रीपुंसयोः परस्परगात्रश्लेषे रागपरिणामो मैथुनमिति चेन्न, एकस्मिन्नप्रसंगात् । उपचारादिति चेन्न, मुख्यफलाभावप्रसंगात् । ततो न मैथुनशब्दादिष्टार्थसंप्रत्यय इति कश्चित् , तत्प्रतिक्षेपार्थमुच्यते-न च, स्पर्शवद्रव्यसंयोगस्याविशेपाभिधानादेकस्य द्वितीयत्वोपपत्तौ मिथुनत्वसिद्धेः, प्रसिद्धिवशाद्वार्थप्रतीतेः पूर्वोक्तानां चानवद्यत्वात् सिद्धो मैथुनशब्दार्थः । अहिंसादिगुणबृंहणाद्ब्रह्म तद्विपरीतमब्रह्म तच्च मैथुनमिति प्रतिपत्तव्यं रूढिवशात् । ततो न प्राणव्यपरोपणादीनां ब्रह्मविपरीतत्वेप्यब्रह्मत्वप्रसिद्धिः ॥ तदिदमब्रह्म प्रमत्तस्यैव संभवतीत्याह; तथा मैथुनमब्रह्म प्रमत्तस्यैव तत्पुनः । प्रमादरहितानां हि जातुचित्तदसंभवः ॥१॥ न हि यथा प्रमादाभावेपि कस्यचित्संयतात्मनः प्राणव्यपरोपणादिकं संभवति तथा मैथुनमपि, तस्य प्रमादसद्भाव एव भावात् । वरांगनालिंगनमात्रमप्रमत्तस्यापि भवतीति चेन्न, तस्य मैथुनत्वाप्रसिद्धेः पुत्रस्य मात्रालिंगनवत् । स्पर्शनमैथुनदर्शनादि वा केषांचित्प्रसिद्धमिति चेन्न, तस्य रिरंसापूर्वकस्योपगमात् । न च संयतस्यांगनालिंगितस्यापि रिम्सास्ति, असंयतत्वप्रसंगात् । तदंगनाया रिरंसास्तीति चेत् , तस्या एव मैथुनमस्तु लेपमयपुरुषालिंगनवत् । प्रायश्चित्तोपदेशस्तत्र कथमिति चेत् , तस्यापि प्रसंगनिवृत्त्यर्थत्वात् । विस्रब्धालोकनादावपि तदुपदेशस्याविरोधात् ॥ कः पुनः परिग्रह इत्याह; मूर्छा परिग्रहः ॥ १७ ॥ बाह्याभ्यंतरोपधिसंरक्षणादिव्यापृतिर्मूर्छा । वातपित्तश्लेष्मविकारस्येति चेन्न, विशेषितत्वात् । तस्याः सकलसंगरहितेपि यतौ प्रसंगात् । बाह्यस्यापरिग्रहत्वप्रसंग इति चेन्न, अध्यात्मकप्रधानत्वात् मूर्छाकारणत्वाबाह्यस्य मूर्छाव्यपदेशात् । ज्ञानदर्शनचारित्रेषु प्रसंगः परिग्रहस्येति चेन्न, प्रमत्ताधिकारात् । ततः सूक्तं मूर्छा परिग्रहः प्रमत्तयोगादिति । तन्मूलाः सर्वदोषानुषंगाः । यथा चामी परिग्रहमूलास्तथा हिंसादिमूला अपि हिंसादीनां पंचानामपि परस्परमविनाभावात् ॥ तदेवाह; Page #473 -------------------------------------------------------------------------- ________________ ४६४ तत्त्वार्थश्लोकवार्तिके [ सू० १७ यस्य हिंसानृतादीनि तस्य संति परस्परं । अविनाभाववद्भावादेषामिति च दुर्बुधाः ॥ १॥ ततो हिंसाव्रतं यस्य तस्य सर्वव्रतक्षतिः । तदेव पंचधा भिन्नं कांश्चित् प्रति महाव्रतं ॥२॥ यस्मादतिजडान् वक्रजडांश्च विनेयान् प्रति सर्वसावद्यनिवृत्तिलक्षणमहिंसाव्रतमेकमेव सुमेधोभिरभिमन्यमानं पंचधा छिन्नं तस्माद्यस्य हिंसा तस्यानृतादीनि संत्येव तेषां परस्परमविनाभावादहिंसायाः सत्यादविनाभाववत् । ननु च सति परिग्रहे तत्संरक्षणानंदादवश्यंभाविनी हिंसानृते स्यातां स्तेयात्रह्मणी तु कथमिति चेत् , सर्वथा परिग्रहवतः परस्य खग्रहणात् स्त्रीग्रह्णाच्च निवृत्तेरभावात् । तन्निवृत्तौ देशतो विरतिप्रसंगात् सर्वथा विरोधात् । एतेन सर्वथा हिंसायामनृतस्तेयाब्रह्मपरिग्रहाणामवश्यंभावः प्रतिपादितस्तत्रानृतादिभ्यो हिंसांगेभ्यो विरतेरसंभवात् संभवे वा सर्वथा हिंसानवस्थितेः । तथैवानृते सर्वथा हिंसास्तेयाब्रह्मपरिग्रहाणामवश्यंभावः प्रकाशितः हिंसांगत्वेनानृतस्य वचनात् तत्र तस्याः साम र्थ्यतः सिद्धेः । स्तेयाब्रह्मपरिग्रहाणामपि सिद्धेस्तदंगत्वान्यथानुपपत्तेः । तथा स्तेयासत्ये अवश्यंभाविनी हिंसा, द्रविणहरणस्यैव हिंसात्वात् द्रविणस्य बाह्यप्राणात्मकत्वात् । तथा चोक्तं-"यावत्तद्रविणं नाम प्राणा एते बहिस्तरां । स तस्य हरते प्राणान् यो यस्य हरते धनं ॥” इति हिंसाप्रसिद्धौ चानृताब्रह्मपरिग्रहाणां सिद्धिस्तदंगत्वात् । एवमब्रह्मणि सति हिंसायाः सिद्धिस्तस्या रागाद्युत्पत्तिलक्षणत्वात् खभोग्यस्त्रीसंरक्षणानंदाच्च हिंसायां च सिद्धायां स्तेयानृतपरिग्रहसिद्धिस्तदंगत्वात् तेषां तद्विरत्यभावाद्विरतौ वा सर्वथा तद्भावविरोधात् देशविरतिप्रसंगात् ॥ तदेवं वस्त्रपात्रदंडाजिनादिपरिग्रहाणां न परिग्रहो मूर्छारहितत्वात् तत्त्वज्ञानादिखीकरणवदिति वदंतं प्रत्याह;मूर्छा परिग्रहः सोपि नाप्रमत्तस्य युज्यते । तया विना न वस्त्रादिग्रहणं कस्यचित्ततः ॥३॥ लज्जापनयनाथ कर्पटखंडादिमात्रग्रहणं मूर्छाविरहेपि संभवतीति चेन्न, कामवेदनापनयनाथ स्त्रीमात्रग्रहणेपि मूर्छाविरहप्रसंगात् । तत्र योषिदभिषंग एव मूर्छति चेत् , अन्यत्रापि वस्त्राभिलाषः सास्तु केवलमेकं तु कामवेदना योषिदभिलापहेतुः परत्र लज्जा कर्पटाभिलाषकारणमिति न तत्कारणनियमोस्ति, मोहोदयस्यैवांतरंगकारणस्य नियतत्वात् । एतेन लिंगदर्शनात् कामिनीजनदुरभिसंधिः स्यादिति तन्निवारणार्थ पटखंडग्रहणमिति प्रत्युक्तं, तन्निवारणस्यैव तदभिलाषकारणत्वात् । नयनादिमनोहरांगानां दर्शनेपि वनिताजनदुरभिप्रायसंभवात् तत्प्रच्छादनकर्पटस्यापि ग्रहणप्रसक्तिश्च तत एव तद्वत् । सोऽयं वहस्तेन बुद्धिपूर्वपटखंडादिकमादाय परिदधानोपि तन्मूर्छारहित इति कोशपानं विधेयं, तन्वीमाश्लिष्यतोऽपि तन्मूर्छारहितत्वमेवं स्यात् । ततो न मूर्छामंतरेण पटादिखीकरणं संभवति तस्य तद्धेतुकत्वात् । सा तु तदभावेपि संभाव्यते कार्यापायेपि कारणस्य दर्शनात् , धूमाभावेपि मुर्मुराद्यवस्थपावकवत् । नन्वेवं पिच्छादिग्रहणेपि मूर्छा स्यात् इति चेत् , तत एव परमनैर्ग्रन्थ्यसिद्धौ परिहारविशुद्धिसंयमभृतां तत्त्यागः सूक्ष्मसांपराययथाख्यातसंयमभृन्मुनिवत् । सामायिकछेदोपस्थापनसंयमभृतां तु यतीनां संयमोपकरणत्वात् प्रतिलेखनस्य ग्रहणं सूक्ष्ममूर्छासद्भावेपि युक्तमेव, मार्गाविरोधित्वाच्च । नत्वेवं सुवर्णादिग्रहणप्रसंगः तस्य नाम्यासंयमोपकरणत्वाभावात् तद्विरोधित्वात् । सकलोपभोगसम्यग्निबंधनत्वाच । न च त्रिचतुरपिच्छमात्रमलाबूफलमानं वा किंचिन्मूल्यं लभते यतस्तदप्युपभोगसंपत्तिनिमित्तं स्यात् । न हि मूल्यदानक्रययोग्यस्य पिच्छादेरपि ग्रहणं न्याय्यं, सिद्धांतविरोधात् । ननु मूर्छाविरहे क्षीणमोहानां शरीरपरिग्रहोपगमान्न तद्धेतुः सर्वः परिग्रह इति चेन्न, तेषां पूर्वभवमोहोदयापादितकर्मबंधनिबंधनशरीरपरिग्रहाभ्युपगमात् । मोहक्षयात्तत्त्यागार्थ परमचारित्रस्य विधानादन्यथा तत्त्यागस्यात्यं Page #474 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः । ४६५ तिकस्य करणायोगात् । तर्हि तनुस्थित्यर्थमाहारग्रहणं यतेस्तनुमूर्छाकारणक्षमं युक्तमेवेति चेन्न, रत्नत्रयाराधननिबंधनस्यैवोपगमात् । तद्विराधन हेतोस्तस्याप्यनिष्टः । न हि नवकोटिविशुद्धमाहारं भैक्ष्यशुद्ध्यनुसारितया गृह्णन् मुनिर्जातुचिद्रलत्रय विराधनविधायी, ततो न किंचित्पदार्थग्रहणं कस्यचिन्मूर्छाविरहे संभवतीति सर्वः परिग्रहः प्रमत्तस्यैवाब्रह्मवत् ॥ अथैतेभ्यो हिंसादिभ्यो विरतिर्ब्रतमिति निश्चितं तदभिसंबंधातु यो व्रती स कीदृश इत्याहनिःशल्यो व्रती ॥ १८ ॥ अनेकधा प्राणिगणशरणाच्छत्यं बाधाकरत्वादुपचारसिद्धिः । त्रिविधं मायानिदानमिथ्यादर्शनभेदात् । कश्चिदाह-विरोधाद्विशेषणानुपपत्तिः, मिथ्यादर्शनादिनिवृत्तेत्रेतित्वाभावात् सद्दर्शनादित्वसिद्धेर्व्रताभिसंबंधादेव तत्वघटनात् । विरुद्धं प्रतित्वस्य निःशल्यत्वं विशेषणं दंडित्वस्य चक्रित्वविशेषणवत् । तदविरुद्धेपि विशेषणस्यानर्थक्यं वान्यतरेण गतार्थत्वात् । निःशल्य इत्यनेनैव त्रतित्वसिद्धिर्ब्रतिग्रहणस्यानर्थक्यं व्रतीति वचनादेव निःशल्यत्वसिद्धेस्तद्वचनानर्थक्यवत् । विकल्प इति चेन्न, फलविशेषाभावात् निःशल्य इति वा व्रतीति वा स्यादिति, विकल्पे हि न किंचित्फलमुपलभामहे । न च व्यपदेशद्वयमात्रमेव फलं । संशयनिवृत्तिः फलमित्यपि न सम्यक्, तदविनाभावादेव संशयनिवृत्तेर्विपर्ययानध्यवसायनिवृत्तिवदिति । अत्राभिधीयते न वांगांगिभावस्य विवक्षितत्वात् । निःशल्यत्रतित्वयोर्ह्यत्रांगांगिभावो विवक्षितः । प्रधानविधानादप्रधानस्य । प्रधानं हि त्रतित्वमंगि तन्निः शल्यत्वमप्रधानमंगभूतमनुविधत्ते, यत्र व्रतित्वं तत्रावश्यं भवतीति न तस्य तेन विरोधेनापि विशेषणं तदनर्थकं न विकल्पोपगमो न च फलविशेषाभावोपि प्रधानगुणदर्शनेन मतांतरव्यवच्छेदस्य फलस्य सिद्धेः । तेन कृतनिदानस्यापि मायाविनो मिथ्यादृष्टेच हिंसादिभ्यो विरतावपि व्रतित्वाभावः सिद्धः । मायानिदान मिथ्यादर्शन र हितस्यापि चासंयतसम्यग्दृष्टेर्व्रतित्वाभावः प्रतिपादितः स्यात् । ततः ॥ निःशल्योत्र व्रती ज्ञेयः शल्यानि त्रीणि तत्त्वतः । मिथ्यात्वादीनि सद्भावे व्रताशय विपर्ययः ॥ १ सनी सागार एवानगार एवेत्येकांतापाकृतये सूत्रकारः प्राह ; अगार्यनगार ॥ १९ ॥ प्रतिश्रयार्थितयांगनादगारं । अनियमप्रसंग इति चेन्न, भावागारस्य विवक्षितत्वात् तदस्यास्तीत्यगारी । व्रतीत्यभिसंबंधः । व्रतिकारणासाकल्याद्गृहस्थस्यानतित्वमिति चेन्न, नैगमसंग्रहव्यवहारव्यापारान्नगरवासवद्राजवद्वा ! नैगमव्यापाराद्धि देशतो विरतः सर्वतो विरतिं प्रत्यभिमुख संकल्पो व्रती व्यपदिश्यते नगरवासत्वराजत्वाभिमुखस्य नगरवासराजव्यपदेशवत् । संग्रहनयाद्वाणुत्रतमहा व्यक्तिवर्तित्रतत्वसामान्यादेशादणुव्रतोपि व्रतीप्यते नगरैकदेशवासिनो नगरवासव्यपदेशवत् देशविषयराजस्यापि राजव्यपदेशवच्च व्यवहारनयाद्देशतो व्रत्यप्यगारी व्रतीति प्रतिपाद्यते तद्वदेवेत्यविरोधः ॥ न विद्यते अगारमस्येत्यनगारः स च व्रती सकलव्रतकारणसद्भावात् । ततो अग्रहस्थ एव त्रतीत्येकांतोप्यपास्तः ॥ नन्वेवमनगारस्य पथिकादेः प्रतित्वं स्यादित्याशंकामपासन्नाहसोप्यगार्यनगारश्च भावागारस्य भावतः । अभावाच्चेति पांथादेर्नानगारत्वसंभवः ॥ १ ॥ कः पुनरगारीत्याह;— ५९ - Page #475 -------------------------------------------------------------------------- ________________ ४६६ तत्त्वार्थश्लोकवार्तिके [सू० २१ अणुव्रतोऽगारी ॥ २०॥ अनुशब्दः सूक्ष्मवचनः सर्वसावधनिवृत्त्यसंभवात् । स हि द्वींद्रियादिव्यपरोपणे निवृत्तः, स्नेहद्वेषमोहावेशादसत्याभिधानवर्जनप्रवणः, अन्यपीडाकरात् पार्थिवभयाद्युत्पादितनिमित्तादप्यदत्तात् प्रतिनिवृत्तः, उपात्तानुपात्तान्यांगनासंगाद्विरतिः, परिच्छिन्नधनधान्यक्षेत्राद्यवधिही प्रत्येतव्यः ॥ सामर्थ्यात् महाव्रतोऽनगार इत्याह तत्र चाणुव्रतोगारी सामर्थ्यात्स्यान्महाव्रतः । अनगार इति ज्ञेयमत्र सूत्रांतराद्विना ॥१॥ दिग्विरत्यादिसंपन्नः स्यादगारीत्याह;दिग्देशानर्थदंडविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमा णातिथिसंविभागवतसंपन्नश्च ॥ २१ ॥ आकाशप्रदेशश्रेणी दिक्, न पुनद्रव्यांतरं तस्य निरस्तत्वात् । आदित्यादिगतिविभक्तस्तद्भेदः पूर्वादिर्दशधा । ग्रामादीनामवधृतपरिमाणप्रदेशो देशः । उपकारात्यये पापादाननिमित्तमनर्थदंडः । विरतिशब्दः प्रत्येकमभिसंबध्यते । विरत्यग्रहणमधिकारादिति चेन्न, उपसर्जनानभिसंबंधत्वात् । एकत्वेन गमनं समयः, एकोहमात्मेति प्रतिपत्तिर्द्रव्यार्थादेशात् कायवाङ्मनःकर्म पर्यायानर्पणात् , सर्वसावद्ययोगनिवृत्त्येकनिश्चयनं वा व्रतभेदार्पणात् , समय एव सामयिकं समयः प्रयोजनमस्येति वा । उपत्य खस्मिन् वसंतींद्रियाणीत्युपवासः, खविषयं प्रत्यव्यावृत्तत्वात् प्रोषधे पर्वण्युपवासः प्रोषधोपवासः । उपेत्य भुज्यत इत्युपभोगः अशनादिः, परित्यज्य भुज्यत इति परिभोगः पुनः पुनर्भुज्यत इत्यर्थः स वस्त्रादिः । परिमाणशब्दः प्रत्येकमुभाभ्यां संबंधनीयः । संयममविराधयन्नततीत्यतिथिः, न विद्यतेस्य तिथिरिति वा तस्मै संविभागः प्रतिश्रयादीनां यथायोगमतिथिसंविभागः । व्रतशब्दः प्रत्येकमभिसंबध्यते संपन्नशब्दश्च तेन दिग्विरतिव्रतसंपन्न इत्यादि योज्यं । व्रतग्रहणमनर्थकमिति चेत्, उक्तमत्र चोपसर्जनानभिसंबंधादिति । तत इदमुच्यतेदिग्देशानर्थदंडेभ्यो विरतिर्या विशुद्धिकृत । सामायिकं त्रिधा शुद्धं त्रिकालं यदुदाहृतं ॥१॥ यः प्रोषधोपवासश्च यथाविधि निवेदितः । परिमाणं च यत्स्वस्योपभोगपरिभोगयोः ॥२॥ आहारभेषजावासपुस्तवस्त्रादिगोचरः । संविभागो व्रतं यत्स्यायोग्यायातिथये स्वयं ॥३॥ तत्संपन्नश्च निश्चयोऽगारीति द्वादशोदिताः । दीक्षाभेदा गृहस्थस्य ते सम्यक्त्वपुरःसराः॥४॥ कुतः कारणादिग्विरतिः परिमिताच्च समाश्रीयते यतो विशुद्धिकारिणी स्यादिति चेत् , दुष्परिहारक्षुद्रजंतुप्रायत्वाद्विनिवृत्तिस्तत्परिमाणं च योजनादिभितिवद्भिः ततो अगमनेपि प्राणिवधाद्यनुज्ञातमिति चेन्न, निवृत्त्यर्थत्वात्तद्वचनस्य । कथंचित्प्राणिवधस्य परिहारेण गमनसंभवात् , तृष्णाप्राकाम्यनिरोधनतंत्रत्वाच्च तद्विरतेः । महालाभेपि परिमितदिशो बहिरगमनात् । ततो बहिर्महाव्रतसिद्धिरिति वचनात् । तथैव देशविरतेर्विशुद्धिकृत् अनर्थदंडः पंचधा, अपध्यानपापोद्देशप्रमादचरितहिंसाप्रदानाशुभश्रुतिभेदात् । ततोपि विरतिर्विशुद्धिकारिणी । नरपतिजयपराजयादिसंचिंतनलक्षणादपध्यानात् क्लेशतिर्यग्वणिज्यादिवचनलक्षणात्पापोपदेशात् निःप्रयोजनवृक्षादिछेदनभूमिकुट्टनादिलक्षणात्प्रमादाचरितात् विषशस्त्रादिप्रदानलक्षणाच्च हिंसाप्रदानात् हिंसादिकथाश्रवणाभीक्ष्णव्यावृत्तिलक्षणाचाशुभश्रुतेर्विरतेर्विशुद्धपरिणामोत्पत्तेः । मध्येनर्थदंडग्रहणं पूर्वोत्तरातिरेकानर्थक्यज्ञापनार्थं तेनानर्थदंडात्पूर्वयोर्दिग्देशविरत्योरुत्तरयोश्चो Page #476 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः। ४६७ पभोगपरिभोगपरिमाणयोरनर्थकं चंक्रमणादिकं विषयोपसेवनं च न कर्तव्यमिति प्रकाशितं भवति ततो विशुद्धिविशेषोत्पत्तेः । सामायिकं कथं त्रिधा विशुद्धिदमिति चेत् , प्रतिपाद्यते । सामायिके नियतदेशकाले महाव्रतत्वं पूर्ववत् ततो विशुद्धिरणुस्थूलकृतहिंसादिनिवृत्तेः । संयमप्रसंगः संयतासंयतस्यापीति चेन्न, तस्य तद्धातिकर्मोदयात् । महाव्रतत्वाभाव इति चेन्न, उपचाराद्राजकुले सर्वगतचैत्रवत् । कः पुनः प्रोषधोपवासो यथाविधीत्युच्यते-स्नानगंधमाल्यादिविरहितो अवकाशे शुचावुपवसेत् इत्युपवासविधिर्विशुद्धिकृत् , खशरीरसंस्कारकरणत्यागाद्धर्मश्रवणादिसमाहितांतःकरणत्वात् तस्मिन् वसति निरारंभत्वाच्च । भोगपरिभोगसंख्यानं पंचविधं, सघातप्रमादबहुवधानिष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं त्रसघातजं तद्विषयं सर्वदा विरमणं विशुद्धिदं, मद्यं प्रमादनिमित्तं तद्विषयं च विरमणं संविधेयमन्यथा तदुपसेवनकृतः प्रमादात्सकलव्रतविलोपप्रसंगः । केतक्यर्जुनपुष्पादिमाल्यं जंतुप्रायं शृंगवेरमूलकाहरिद्रानिंबकुसुमादिकमुपदंशकमनंतकायव्यपदेशं च बहुवधं तद्विषयं विरमणं नित्यं श्रेयः, श्रावकत्वविशुद्धिहेतुत्वात् । यानवाहनादि यद्यस्यानिष्टं तद्विषयं परिभोगविरमणं यावज्जीवं विधेयं । चित्रवस्वाद्यनुपसेव्यमसत्यशिष्टसेव्यत्वात् , तदिष्टमपि परित्याज्यं शश्वदेव । ततोन्यत्र यथाशक्ति स्वविभवानुरूपं नियतदेशकालतया भोक्तव्यं । अतिथिसंविभागश्चतुर्विधो भिक्षोपकरणौषधप्रतिश्रयभेदात् । तत्र भिक्षा निरवद्याहारः, रत्नत्रयोपबृंहणमुपकरणं पुस्तकादि, तथौषधं रोगनिवृत्त्यर्थमनवद्यद्रव्यं, प्रतिश्रयो वसतिः स्त्रीपश्वादिकृतसंबंधरहिता योग्या विज्ञेया । एवंविधोदितव्रतसंपन्नोणुव्रतो गृहस्थः शुद्धात्मा प्रतिपत्तव्यः । चशब्दः सूत्रेनुक्तसमुच्चयार्थः प्रागुक्तसमुच्चयार्थात् । तेन गृहस्थस्य पंचाणुव्रतानि सप्तशीलानि गुणव्रतशिक्षाबतव्यपदेशभांजीति द्वादश दीक्षाभेदाः सम्यक्त्वपूर्वकाः सल्लेखनांताश्च महाव्रततच्छीलवत् ॥ कदा सल्लेखना कर्तव्येत्याह; मारणांतिकी सल्लेखनां जोषिता ॥ २२ ॥ व्रतीत्यभिसंबंधः सामान्यात् । वायुरिंद्रियबलसंक्षयो मरणं, अंतग्रहणं तद्भवमरणप्रतिपत्त्यथै ततः प्रतिसमयं वायुरादिसंक्षयोपलक्षणनित्यमरणव्युदासः । भवांतरप्राप्त्यजहद्वृत्तखभावनिवृत्तिरूपस्यैव तद्भवमरणस्य प्रतिपत्तेः । मरणमेवांतो मरणांतः मरणांतः प्रयोजनमस्या इति मारणांतिकी । सम्यक्कायकषायलेखना बाह्यस्य कायस्याभ्यंतराणां च कषायाणां यथाविधिमरणविभक्त्याराधनोदितक्रमेण तनूकरणमिति यावत् । तां मारणांतिकी सल्लेखनां जोषिता प्रीत्या सेवितेत्यर्थः ॥ किं कर्तुमित्याह सम्यकायकषायाणां त्वक्षा सल्लेखनात्र तां । जोषिता सेविता प्रीत्या स व्रती मारणांतिकीं ॥१ मृत्युकारणसंपातकालमास्थित्य सद्वतं । रक्षितुं शक्यभावेन नान्यथेत्यप्रमत्तगं ॥२॥ सेवितेति ग्रहणं विस्पष्टार्थमिति चेन्न, अर्थविशेषोपपत्तेः । प्रीतिसेवनार्थों हि विशिष्टो जोषितेति वचनात्प्रतिपद्यते । विशेषोपयोगादिभिरात्मानं नत एव तद्भावात् तत्र खयमारोपितगुणक्षतेरभावात्प्रीत्युत्पत्तावपि मरणस्यानिष्टत्वात् , खरत्नाविधाते भांडागारविनाशेपि तदधिपतेः प्रीतिविनाशानिष्टवत् । उभयानभिसंबंधाच्चाप्रमत्तस्य नास्मबधः । न ह्यसौ तदा जीवनं मरणं वाभिसंबंधे "नाभिनंदामि मरणं नाभिकांक्षामि जीवितं । कालमेव प्रतीक्षेहं निदेशं भृतको यथा ॥” इति संन्यासिनो भावनाविशुद्धिः । ततो न सल्लेखनायामात्मवध इति वचनं युक्तं, तदा वदतः खसमयविरोधात् । सोयं नासंचेतितं कर्म बध्यत इति स्वयं प्रतिज्ञाय बधकचित्तमंतरेणापि संन्यासे खबधदोषमुद्भावयन् खसमयं बाधते स्ववचनविरोधाच्च सदा मौनव्रतिकोहमित्यभिधानवत् । मरणसंचेतनाभावे कथं सल्लेखनायां प्रपन्न इति चेन्न, Page #477 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० २३ जरारोगेंद्रियहानिभिरावश्यकपरिक्षय संप्राप्ते यत्तस्य स्वगुणरक्षणे प्रयत्नात् ततो न सल्लेखनात्मबधः प्रयलस्य विशुद्ध्यंगत्वात्तपश्चरणादिवत् । एकयोगकरणं न्याय्यं इति चेन्न कचित्कदाचित्कस्यचित्तां प्रत्याभिमुख्यप्रतिपादनार्थत्वात् वेश्मापरित्यागिनस्तदुपदेशात् । दिग्विरत्यादिसूत्रेण सहास्य सूत्रस्यैकयोगीकरणेपि यथा दिग्विरत्यादयो वेश्मापरित्यागिनः कार्यास्तथा सल्लेखनापि कार्या स्यात् । न चासौ तथा क्रियते कचिदेव समाध्यनुकूले क्षेत्रे कदाचिदेव संन्यासयोग्ये काले कस्यचिदेवासाध्यव्याध्यादेः संन्यासकारणसंनिपातादप्रमत्तस्य समाध्यर्थिनः सल्लेखनां प्रत्याभिमुख्यज्ञापनाच्च सागारानगारयोरविशेषविधिप्रतिपादनार्थत्वाच्च सल्लेखनायां पूर्वत्वादस्य तंत्रस्य पृथग्वचनं न्याय्यं ॥ एतदेवाह – पृथक्सूत्रस्य सामर्थ्याच्च सागारानगारयोः । सल्लेखनस्य सेवेति प्रतिपत्तव्यमंजसा ॥ ३ ॥ तदेवमयं साकल्येनैकदेशेन च निवृत्तिपरिणामो हिंसादिभ्योनेकप्रकारः क्रमाक्रमखभावविशेषात्मकस्यात्मनोनेकांतवादिनां सिद्धो न पुनर्नित्याद्येकांतवादिन इति ॥ तेषामेव बहुविधत्रतमुपपन्नं नान्यस्येत्युपसंहृत्य दर्शयन्नाह - ४६८ नानानिवृत्तिपरिणामविशेषसिद्धेरेकस्य नुर्बहुविधत्रतमर्थभेदात् । युक्तं क्रमाक्रमविवर्तिभिदात्मकस्य नान्यस्य जातु नयवाधितविग्रहस्य || १ ॥ इति सप्तमाध्यायस्य प्रथममाह्निकम् । अथ सद्दर्शनादीनां सल्लेखनांतानां चतुर्दशानामप्यतीचारप्रकरणे सम्यक्त्वातिचारप्रतिपादनार्थ तावदाह; शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥ २३ ॥ जीवादितत्त्वार्थेषु रत्नत्रयमोक्षमार्गे तत्प्रतिपादके वागमे तत्प्रणेतरि च सर्वज्ञे सदसत्त्वाभ्यामन्यथा वा संशीतिः शंका, सद्दर्शनफलस्य विषयोपभोगस्येहामुत्र चाकांक्षणमाकांक्षा, आप्तागमपदार्थेषु संयमाधारे च जुगुप्सा विचिकित्सा, सुगतादिदर्शनान्यन्यदृष्टयस्तदाश्रिता वा पुमांसस्तेषां प्रशंसासंस्तवौ अन्यदृष्टिप्रशंसासंस्तवौ । त एते सम्यग्दृष्टेर्गुणस्य तद्गते वातीचाराः पंच प्रतिपत्तव्याः । कः पुनः प्रशंसासंस्तवयोः प्रतिविशेषः ? इत्युच्यते - वाङ्मनसविषयभेदात् प्रशंसासंस्तवयोर्भेदः । मनसा मिथ्यादृष्टिज्ञानादिषु गुणोद्भावनाभिप्रायः प्रशंसा, वचसा तद्भावनं संस्तव इति । प्रत्येकं प्रकरणादगार्यवधारणमिति चेन्न, सम्यग्दृष्टिग्रहणस्योभयार्थत्वात् । सत्यप्यगारिप्रकरणे नागारिण एव सम्यग्दृष्टरितीष्टमवधारणं । सामान्यतः सम्यग्दृष्टाधिकारेपि पुनरिह सम्यग्दृष्टिग्रहणस्यागार्थनगार संबंधनार्थत्वात् । एतेनानगारस्यैवेत्यवधारणमपास्तं, उत्तरत्रागा रिग्रहणानुवृत्तेः । दर्शनमोहोदयादतिचरणमतीचारः तत्त्वार्थश्रद्धानातिक्रमणमित्यर्थः । ननु च न पंचातिचारवचनं युक्तमष्टांगत्वात् सम्यग्दर्शनस्यातिक्रमणानां तावत्वमिति चेन्न, अत्रैवांतर्भावात् निःशंकितत्वाद्यष्टांगविपरीताचाराणामष्टविधत्वप्रसंगे त्रयाणां वात्सल्यादिविपरीतानामवात्सल्यादीनामन्यदृष्टिप्रशंसादिना सजातीयानां तत्रैवांतर्भावात् । त्रताद्यतीचाराणां पंचसंख्याव्याख्यानप्रकाराणामपि पंच संख्याभिधानात् । कुतः पुनरमी दर्शनस्यातिचारा इत्याहसम्यग्टटेरतीचाराः पंच शंकादयः स्मृताः । तेषु सत्सु हि तत्त्वार्थश्रद्धानं न विशुद्ध्यति ॥ १ ॥ शंकादयः सद्दर्शनस्यातीचारा एव मालिन्यहेतुत्वात् ये तु न तस्यातीचारा न ते तन्मालिन्यहेतवो 3 ---- L Page #478 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः । ४६९ यथा तद्विशुद्धिहेतवस्तत्त्वार्थश्रवणाद्यर्थास्तद्विनाशहेतवो वा दर्शनमोहोदयादयस्तन्मालिन्यहेतवश्चैव ते तस्मात्तदतीचारा इति युक्तिवचनं प्रत्येयं ॥ व्रतशीलेषु कियंतोतीचारा इत्याह; व्रतशीलेषु पंच पंच यथाक्रमम् ॥ २४ ॥ अतीचारा इत्यनुवृत्तिः । व्रतग्रहणमेवास्त्विति चेन्न, शीलविशेषद्योतनार्थत्वात् शीलग्रहणस्य । दिग्विरत्यादीनां हि व्रतलक्षणस्याभिसंधिकृतनियमरूपस्य सद्भावातत्वेपि तथाभिधानेपि च शीलत्वं प्रकाश्यते, व्रतपरिरक्षणं शीलमिति शीललक्षणोपपत्तेः । सामर्थ्यागृहिसंप्रत्ययः, बंधनादयो यतीचारा वक्ष्यमाणा नानगारस्य संभवंतीति सामर्थ्यावृहिण एव व्रतेषु शीलेषु पंच पंचातीचाराः प्रतीयंते । पंच पंचेति वीप्सायां द्वित्वं व्रतशीलातीचाराणामनयवेन पंचसंख्यया व्याप्यत्वात् । पंचश इति लघुनिर्देशे संभवत्यपि पंच पंचेति वचनमभिवाक्याथै, यथाक्रमवचनं वक्ष्यमाणातीचारक्रमसंबंधनार्थ ॥ अत एवाह:पंच पंच व्रतेष्वेवं शीलेषु च यथाक्रमं । वक्ष्यंतेतः परं शेषे इति सूत्रेतिदिश्यताम् ॥ १॥ तत्राद्यस्याणुव्रतस्य केतीचारा इत्याह; बंधवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ अभिमतदेशे गतिनिरोधहेतुबैधः, प्राणिपीडाहेतुर्बधः कशाद्यभिघातमात्रं न तु प्राणव्यपरोपणं तस्य व्रतनाशरूपत्वात् , छेदोंगापनयनं, न्याय्यभारातिरिक्तभारवाहनमतिभारारोपणं, क्षुत्पिपासाबाधनमन्नपाननिरोधः । कुतोमी पंचाहिंसाणुव्रतस्यातीचारा इत्याह तत्राहिंसाव्रतस्यातीचारा बंधादयः श्रुताः । तेषां क्रोधादिजन्मत्वात्क्रोधादेस्तन्मलत्वतः ॥१॥ पूर्ववदनुमानप्रयोगः प्रत्येतव्यः ॥ अथ द्वितीयस्याणुव्रतस्य केतीचाराः पंचेत्याह;मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकार मंत्रभेदाः ॥ २६ ॥ मिथ्यान्यथाप्रवर्तनमतिसंधापनं वा मिथ्योपदेशः सर्वथैकांतप्रवर्तनवत् सच्छास्त्रान्यथाकथनवत् परातिसंधायकशास्त्रोपदेशवच्च, संवृतस्य प्रकाशनं रहोभ्याख्यानं स्त्रीपुरुषानुष्ठितगुप्तक्रियाविशेषप्रकाशनवत् , परप्रयोगादन्यानुक्तपद्धतिकर्म कूटलेखक्रिया एवं तेनोक्तमनुष्ठितं चेति वचनाभिप्रायलेखनवत् , हिरण्यादिनिक्षेपे अल्पसंख्यानुज्ञावचनं न्यासापहारः शतन्यासे नवत्यनुष्ठानवत् , अर्थादिभिः परगुह्यप्रकाशनं साकारमंत्रभेदः अर्थप्रकरणादिभिरन्याकूतमुपलभ्यासूयादिना तत्प्रकाशनवत् ।। कथमेते अतीचारा इत्याह तथा मिथ्योपदेशाद्या द्वितीयस्य व्रतस्य ते । तेषामनृतमूलत्वात्तद्वत्तेन विरोधतः ॥१॥ यथाद्यव्रतस्य मालिन्यहेतुत्वाद्वंधादयोतीचारास्तथा द्वितीयस्य मिथ्योपदेशादयस्तदविशेषात् । तन्मालिन्यहेतुत्वं पुनस्तेषां तच्छुद्धिविरोधित्वात् ॥ अथ तृतीयस्य व्रतस्य केतीचारा इत्याह; Page #479 -------------------------------------------------------------------------- ________________ ४७० तत्त्वार्थश्लोकवार्तिके [सू० ३० स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानो न्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥ मोषकस्य त्रिधा प्रयोजनं । स्तेनप्रयोगः, चोरानीतग्रहणं तदाहृतादानं, उचितादन्यथा दानग्रहणमतिक्रमः, विरुद्धराज्ये सत्यतिक्रमः विरुद्धराज्यातिक्रमः, कूटप्रस्थतुलादिभिः क्रयविक्रयप्रयोगो हीनाधिक- . मानोन्मानं, कृत्रिमहिरण्यादिकरणं प्रतिरूपकव्यवहारः । कुतोमी तृतीयस्य व्रतस्यातीचारा इत्याह;प्रोक्ताः स्तेनप्रयोगाद्याः पंचास्तेयव्रतस्य ते । स्तेयहेतुत्वतस्तेषां भावे तन्मलिनत्वतः॥१॥ अथ चतुर्थस्याणुव्रतस्य केतीचारा इत्याह;परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानंगकी डाकामतीव्राभिनिवेशाः ॥ २८ ॥ सद्वेद्यचारित्रमोहोदयाद्विवहनं विवाहः परस्य विवाहस्तस्य करणं परविवाहकरणं, अयनशीलेवरी सैव कुत्सिता इत्वरिका तस्यां परिगृहीतायामपरिगृहीतायां च गमनमित्वरिकापरिगृहीतापरिगृहीतागमनं, अनंगेषु क्रीडा अनंगक्रीडा, कामस्य प्रवृद्धः परिणामः कामतीवाभिनिवेशः। दीक्षितातिबालातिर्यग्योन्यादीनामनुपसंग्रह इति चेन्न, कामतीव्राभिनिवेशग्रह्णात् सिद्धेः । त एते चतुर्थाणुव्रतस्य कुतोतीचारा इत्याह चतुर्थस्य व्रतस्यान्यविवाहकरणादयः । पंचैतेतिक्रमा ब्रह्मविघातकरणक्षमाः ॥१॥ खदारसंतोषव्रतविहननयोग्या हि तदतीचारा न पुनस्तद्विघातिन एव पूर्ववत् ।। अथ पंचमव्रतस्य केतीचारा इत्याह;क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २९ ॥ क्षेत्रवास्त्वादीनां द्वयोर्द्वयोद्वः प्राक् कुप्यात् , तीव्रलोभाभिनिवेशात् प्रमाणातिरेकास्तेषामतिक्रमाः । पंच कुतोतीचारा इत्याह; क्षेत्रवास्त्वादिषूपात्तप्रमाणातिक्रमाः स्वयं । पंच संतोषनिर्घातहेतवोत्यव्रतस्य ते ॥१॥ संतोषनिर्घातानुकूलकारणत्वाद्धि तदतीचाराः स्युन पुनः समर्थकारणत्वात् पूर्ववत् ॥ अथ दिग्विरतेः केतिक्रमाः परेत्याह; ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतराधानानि ॥ ३०॥ परिमितदिगवधिव्यतिलंघनमतिक्रमः, स त्रेधा ऊर्ध्वाधस्तिर्यग्विषयभेदात् । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः, कूपावतरणादेरधोतिवृत्तिः, बिलप्रवेशादेस्तिर्यगतीचारः, अभिगृहीताया दिशो लोभावेशादाधिक्याभिसंबंधः क्षेत्रवृद्धिः । इच्छापरिमाणेतर्भावात्पौनरुत्त्यमिति चेन्न, तस्यान्याधिकरणत्वात् तदतिक्रमः । प्रमादमोहव्यासंगादिभिः अननुस्मरणं स्मृत्यंतराधानं । कस्मात् पुनरमी प्रथमस्य शीलस्य पंचातीचारा इत्याहऊर्ध्वातिक्रमणाद्याः स्युः शीलस्याद्यस्य पंच ते । तद्विरत्युपधातित्वात्तेषां तद्धि मलत्वतः ॥१॥ अथ द्वितीयस्य केतीचारा इत्याह; Page #480 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः। ४७१ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ तमानयेत्याज्ञापनमानयनं, एवं कुर्विति विनियोगः प्रष्यप्रयोगः, अभ्युत्कासिकादिकरणं शब्दानुपातः, खविग्रहप्ररूपणं रूपानुपातः, लोष्ठादिपातः पुद्गलक्षेपः । कुतः पंचैते द्वितीयस्य शीलस्य व्यतिक्रमा इत्याहद्वितीयस्य तु शीलस्य ते पंचानयनादयः । स्वदेशविरतेर्वाधा तैः संक्लेशविधानतः ॥२॥ अथ तृतीयस्य शीलस्य केतीचारा इत्याह;कंदर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थ क्यानि ॥ ३२॥ रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कंदर्पः, तदेवोभयं परत्र दुष्टकायकर्मयुक्तं कौत्कुच्यं, धार्यप्रायोसंबद्धबहुपलापित्वं मौखर्य, असमीक्ष्य प्रयोजनाधिक्येन करणं असमीक्ष्याधिकरणं, तत्रेधा कायवाङ्मनोविषयभेदात् । यावतार्थेनोपभोगपरिभोगस्यार्थस्ततोन्यस्याधिक्यमानर्थक्यं । उपभोगपरिभोगव्रतेंतर्भावात्पौनरुक्त्यप्रसंग इति चेन्न, तदर्थानवधारणात् ॥ कस्मादिमे तृतीयशीलस्यातीचारा इत्याह;कंदर्पाद्यास्तृतीयस्य शीलस्येहोपसूत्रिताः । तेषामनर्थदंडेभ्यो विरतेर्बाधकत्वतः ॥१॥ अथ चतुर्थस्य शीलस्य केतिक्रमा इत्याह; योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ योगशब्दो व्याख्यातार्थः, दुष्टप्रणिधानमन्यथा वा दुःप्रणिधानं, अनादरोनुत्साहः, अनैकाग्र्यं स्मृत्यनुपस्थानं । मनोदुःप्रणिधानं तदिति चेन्न, तद्रतादन्याचिंतनात् । कुतश्चतुर्थस्य शीलस्यातिकमा इत्याह योगदुःप्रणिधानाद्याचतुर्थस्य व्यतिक्रमाः। शीलस तद्विघातित्वात्तेषां तन्मलतास्थितेः ॥१॥ पंचमस्य शीलस्य केतीचारा इत्याह;अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्य नुपस्थानानि ॥ ३४॥ प्रत्यवेक्षणं चक्षुषो व्यापारः, प्रमार्जनमुपकरणोपकारः, तस्य प्रतिषेधविशिष्टस्योत्सर्गादिभिः संबंधस्तेनाप्रत्यवेक्षिताप्रमार्जितदेशे क्वचिदुत्सर्गस्तादृशस्य कस्यचिदुपकरणस्यादानं तादृशे च क्वचिच्छयनीयस्थाने संस्तरोपक्रमणमिति त्रीण्यभिहितानि भवंति, तथावश्यकेष्वनादरः, स्मृत्यनुपस्थानं च क्षुदर्दितत्वात् प्रोषधोपवासानुष्ठायिनः स्यादिति । तस्यैते पंचातीचाराः कुत इत्याह अप्रत्यवेक्षितेत्याद्यास्तत्रोक्ताः पंचमस्य ते । शीलस्यातिक्रमाः पंच तद्विघातस हेतवः॥१॥ यत इति शेषः ॥ षष्ठस्य शीलस्य केतीचारा इत्याह; सचित्तसंबंधसंमिश्राभिषवदुःपकाहाराः ॥ ३५॥ सह चित्तेन वर्तत इति सचित्तं, तदुपश्लिष्टः संबंधः, तद्व्यतिकीर्णस्तन्मिश्रः । पूर्वेणाविशिष्ट इति Page #481 -------------------------------------------------------------------------- ________________ ४७२ तत्त्वार्थश्लोकवार्तिके [सू० ३९ चेन्न, तत्र संसर्गमात्रत्वात् । प्रमादसंमोहाभ्यां सचित्तादिषु वृत्तिर्देशविरतस्योपभोगपरिभोगविषयेषु परिमितेष्वपीत्यर्थः । द्रवो वृष्यं चाभिषवः, असम्यक् पक्को दुःपक्कः । त एतेतिक्रमाः पंच कथमित्याह तथा तचित्तसंबंधाहाराद्याः पंच सूत्रिताः । तेत्र षष्ठस्य शीलस्य तद्विरोधनहेतवः ॥१॥ सप्तमस्य शीलस्य केतिक्रमा इत्याह; सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६॥ सचित्ते निक्षेपः, प्रकरणात् सचित्तेनापिधानं, अन्यदातृदेयार्पणं परव्यपदेशः, प्रयच्छतोप्यादराभावो मात्सर्य, अकाले भोजनं कालातिक्रमः ॥ कुत एतेतिचारा इत्याह;स्मृताः सचित्तनिक्षेपप्रमुखास्ते व्यतिक्रमाः । सप्तमस्येह शीलस्य तद्विघातविधायिनः ॥१॥ अथ सल्लेखनायाः केतिचारा इत्याह; जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ॥ ३७ ॥ आकांक्षणमाशंसा, अवश्यहेयत्वे शरीरस्यावस्थानादरो जीविताशंसा, जीवितसंक्लेशान्मरणं प्रति चित्तानुरोधो मरणाशंसा, पूर्व सुहृत्सहपांशुक्रीडनाद्यनुस्मरणं मित्रानुरागः, पूर्वानुभूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबंधः, भोगाकांक्षया नियतं दीयते चित्तं तस्मिंस्तेनेति वा निदानं । त एते संन्यासस्यातिक्रमाः कथमित्याहविज्ञेया जीविताशंसाप्रमुखाः पंच तत्त्वतः । प्रोक्तसल्लेखनायास्ते विशुद्धिक्षतिहेतवः ॥१॥ तदेवं शीलवतेष्वनतिचारैस्तीर्थकरत्वस्य परमशुभनाम्नः कर्मणो हेतुरित्येतस्य पुण्यास्रवस्य प्रपंचतो निश्चयार्थ व्रतशीलसम्यक्त्वभावनातदतिचारप्रपंचं व्याख्याय संप्रति शक्तितस्त्यागतपसी इत्यत्र प्रोक्तस्य व्याख्यानार्थमुपक्रम्यते; अनुग्रहार्थं स्वस्यातिसर्गों दानम् ॥ ३८ ॥ खपरोपकारोनुग्रहः, स्वशब्दो धनपर्यायवचनः । किमर्थोयं निर्देश इत्याहखं धनं स्यात्परित्यागोतिसर्गस्तस्य नु स्फुटः । तदानमिति निर्देशोतिप्रसंगनिवृत्तये ॥१॥ अनुग्रहार्थमित्येतद्विशेषणमुदीरितं । तेन स्वमांसदानादि निषिद्धं परमापकृत् ॥ २ ॥ न हि परकीय वित्तस्यातिसर्जनं दानं स्वस्यातिसर्ग इति वचनात् । खकीयं हि धनं खमिति प्रसिद्ध धनपर्यायवाचिनः खशब्दस्य तथैव प्रसिद्धेः । न चैवं स्वदुःखकारणं परदुःखनिमित्तं वा सर्वमाहारादिकं धनं भवतीति तस्याप्यतिसर्गो दानमिति प्रसज्यते सामान्यतोनुग्रहार्थमिति वचनात् । खानुग्रहार्थस्य वापरानुग्रहार्थस्य च धनस्यातिसर्गो दानमिति व्यवस्थितेः । तेन च विशेषणेन स्वमांसादिदानं स्वापायकारणं परस्यावधनिबंधनं च प्रतिक्षिप्तमालक्ष्यते, तस्य खपरयोः परमापकारहेतुत्वात् ॥ कुतस्तस्य दानस्य विशेष इत्याह; विधिद्रव्यदातृपात्रविशेषात्तविशेषः ॥ ३९ ॥ प्रतिग्रहादिक्रमो विधिः, विशेषो गुणकृतः तस्य प्रत्येकममिसंबंधः । तपःखाध्यायपरिवृद्धिहेतुत्वादिद्रव्यविशेषः, अनसूयाऽविषादादिर्दातृविशेषः, मोक्षकारणगुणसंयोगः पात्रविशेषः । एतदेवाहतद्विशेषः प्रपंचेन स्थाद्विध्यादिविशेषतः । दातुः शुद्धिविशेषाय सम्यग्बोधस्य विश्रुतः ॥१॥ Page #482 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः । कुतोयं विध्यादीनां यथोदितो विशेषः स्यादित्याह ; विध्यादीनां विशेषः स्यात्स्वकारणविशेषतः । तत्कारणं पुनर्वामांतरं चाप्यनेकधा ॥ २ ॥ विद्रव्यदापात्राणां हि विशेषः, स्वकारणविशेषात् । तच्च कारणं बाह्यमनेकधा द्रव्यक्षेत्रकालभावभेदात् । आंतरं चानेकधा श्रद्धाविशेषादिपरिणामः । कः पुनरसौ विध्यादीनां विशेषः प्रख्यातो यतो दानस्य विशेषतः फलविशेषसंपादनः स्यादित्याह -- पात्रपरिग्रहादिभ्यो विधिभ्यस्तावदास्रवः । दातुः पुण्यस्य संक्केशरहितेभ्योतिशायिनः ||३|| किंचित्संक्लेशयुक्तेभ्यो मध्यमस्योपवर्णितः । बृहत्संक्लेशयुक्तेभ्यः स्वल्पस्येति विभिद्यते ॥ ४ ॥ निकृष्टमध्यमोत्कृष्टविशुद्धिभ्यो विपर्ययः । तेभ्यः स्यादिति संक्षेपादुक्तं सूरिभिरंजसा ॥ ५ ॥ गुणवृद्धिकरं द्रव्यं पापात्रे समर्पितं । दोषवृद्धिकरं पापकारि मिश्रं तु मिश्रकृत् ॥ ६ ॥ दाता गुणान्वितः शुद्धः परं पुण्यमवाप्नुयात् । दोषान्वितस्त्वशुद्धात्मा परं पापमुपैति सः ॥७॥ गुणदोपान्वितः शुद्धाशुद्धभावे समश्नुते । बहुधा मध्यमं पुण्यं पापं चेति विनिश्चयः ॥ ८ ॥ दत्तमन्नं सुपात्राय स्वल्पमप्युरुपुण्यकृत् । मध्यमाय तु पात्राय पुण्यं मध्यममानयेत् ॥ ९ ॥ कनिष्ठाय पुनः स्वल्पमपात्रायाफलं विदुः । पापापापं फलं चेति सूरयः संप्रचक्षते ॥ १० ॥ सामग्रीभेदाद्धि दानविशेषः स्यात् कृप्यादिविशेषाद्वीजविशेषवत् । निरात्मकत्वे सर्वभावानां विध्यादिखरूपाभावः क्षणिकत्वावधिविज्ञानस्य तदभिसंबंधाभावः नित्यत्वाज्ञत्वनिः क्रियत्वाच्च तदभावः । क्रियागुणसमवायादुपपत्तिरिति चेन्न, तत्परिणामाभावात् क्षेत्रस्य वाचेतनत्वात् । स्याद्वादिनस्तदुपपत्तिरनेकांताश्रयणात् । तथाहि— अपात्रेभ्यो दत्तं भवति सफलं किंचिदपरं न पात्रेभ्यो वित्तं प्रचुरमुदितं जातुचिदिह । अदत्तं पात्रेभ्यो जनयति शुभं भूरि गहनं जनोऽयं स्याद्वादं कथमिव निरुक्तं प्रभवति ॥ ११ ॥ किंचिद्धि वस्तु विशुद्धांतरमपात्रेभ्योपि दत्तं सफलमेव, संक्लेशदुर्गतं तु पात्रेभ्यो दत्तं न प्रचुरमपि सफलं कदाचिदुपपद्यतेऽतिप्रसंगात्, .." मदत्तमपि पात्रेभ्योऽपात्रेभ्यश्च शुभमेव फलं जनयति संक्लेशां गाप्रदानस्यैव श्रेयस्करत्वात् । ततः पात्रायापात्राय वा स्याद्दानं सफलं स्याददानं स्यादुभयं, स्यादवक्तव्यं च स्याद्दानं वा वक्तव्यं चेति स्याद्वादिनयप्रमाणमयज्योतिः प्रतानो अपसारितसकलकुनयतिमिरपटलः सम्यगनेकांतवादिदिनकर एव विभागेन विभावयितुं प्रभवति न पुनरितरो जनः कूपमंडूकवत्पारावारवारिविजृंभितमिति प्रायेणोक्तं पुरस्तात् प्रतिपत्तव्यम् ॥ इति सप्तमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे सप्तमोऽध्यायः समाप्तः ॥ ७ ॥ ६० ४७३ Page #483 -------------------------------------------------------------------------- ________________ अथ अष्टमोऽध्यायः ॥ ८॥ अथ बंधेऽभिधातव्येऽभिधीयतेस्य हेतवः । निर्हेतुकत्वकूटस्थाकारणत्वनिवृत्तये ॥ १॥ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बंधहेतवः ॥१॥ मिथ्यादर्शनं क्रियाखंतर्भूतं, विरतिप्रतिपक्षभूताप्यविरतिः, आज्ञाव्यापादनानाकांक्षक्रियायामतर्भावः प्रमादस्य, कषायाः क्रोधादयः प्रोक्ताः, योगाः कायादिविकल्पाः प्रक्लुप्ताः । मिथ्यादर्शनं द्वधा नैसर्गिकपरोपदेशनिमित्तभेदात् । तत्रोपदेशनिरपेक्षं नैसर्गिकं, परोपदेशनिमित्तं चतुर्विधं क्रियाक्रियावादाज्ञानिकवैनयिकमतविकल्पात् । चतुरशीतिः क्रियावादा इति कौत्कुल्यकंठविद्धिप्रभृतिमतविकल्पात् । अशीतिशतमक्रियावादानां मरीचिकुमारोलूककपिलादिदर्शनभेदात् । आज्ञानिकवादाः सप्तषष्टिसंख्याः साकल्यवाकल्यप्रभृतिदृष्टिभेदात् । वैनयिकानां द्वात्रिंशत् वशिष्टपराशरादिमतभेदात् । एते मिथ्यादर्श नोपदेशास्त्रीणि शतानि त्रिषष्ट्युत्तराणि बंधहेतवः प्राणिवधनिमित्तत्वादधर्महेतुत्वसिद्धेः । आगमप्रामाण्यात् प्राणिवधो धर्महेतुरिति चेन्न, तस्यागमत्वासिद्धेरनवस्थानात् । परमागमे प्रसिद्धत्वात्तदसिद्धिरिति चेन्न, अतिशयज्ञानाकरत्वात् । अन्यत्राप्यतिशयज्ञानदर्शनादिति चेन्न, अत एव तेषां संभवात् । श्रद्धामात्रमिति चेन्न, भूयसामुपलब्धेः रत्नाकरवत् । तदुद्भवत्वात्तेषामपि प्रामाण्यमिति चेन्न, निस्सारत्वात् कंत्वादिवत् । सर्वेषामविशेषप्रसंगात् । यज्ञकर्मणोन्यत्र वधः पापायेति चेन्न, उभयत्र तुल्यत्वात् । तादात्सर्वस्येति चेन्न, साध्यत्वात् अन्यथोपयोगे दोषप्रसंगात् । मंत्रप्राधान्याददोष इति चेन्न, प्रत्यक्षविरोधात् हिंसादोषाविनिवृत्तेः । नियतपरिणामनिमित्तस्यान्यथा विधिनिषेधासंभवात् कर्तुरसंभवाच्च । पंचविधं वा मिथ्यादर्शनं, अविरतिकषाययोगा द्वादशपंचविंशतित्रयोदशभेदाः, प्रमादोनेकविधः । समुदायावयवयोबैधहेतुत्वं वाक्यपरिसमाप्तेर्वैचित्र्यात् । अविरतेः प्रमादस्याविशेष इति चेन्न, विरतस्यापि प्रमाददर्शनात् । कषायाविरत्योरभेद इति चेन्न, कार्यकारणभेदोपपत्तेः । कुतः पुनर्मिथ्यादर्शनादयः पंच बंधहेतव इत्याह__ स्युर्वधहेतवः पुंसः स्वमिथ्यादर्शनादयः । तस्य तद्भावभावित्वादन्यथा तदसिद्धितः ॥२॥ पुंसो बंधहेतव इति वचनात् प्रधानक्षणिकचित्तस्य संतानस्य च व्यवच्छेदः, खमिथ्यादर्शनादयः इति निर्देशात् प्रधानपरिणामास्ते पुंसो बंधहेतव इति व्युदरतं, कृतनाशाकृताभ्यागमप्रसंगात् बंधस्य मिथ्यादर्शनाद्यन्वयव्यतिरेकानुविधानात्तद्धेतुकत्वसिद्धिः ॥ ननु च मोक्षकारणत्रैविध्योपदेशात् बंधकारणपांचविध्यं विरुद्धमित्याशंकायामाह;तद्विपर्ययतो मोक्षहेतवः पंच सूत्रिताः । सामर्थ्यादत्र नातोस्ति विरोधः सर्वथा गिराम् ॥ ३॥ निर्णीतप्रायं चैतन्न पुनरुच्यते ॥ कोयं बंध इत्याह; सकषायत्वान्जीवः कर्मणो योग्यान पुद्गलानादत्ते स बंधः ॥ २॥ पुनः कषायग्रहणमनुवाद इति चेन, कर्मविशेषाशयवाचित्वाज्जठराग्निवत् । जीवाभिधानं प्रचोदित Page #484 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः। ४७५ त्वात् , जीवस्य हि कथममूर्तेन कर्मणा बंध इति परैः प्राचोदि ततो जीव इत्यभिधीयते । जीवनाविनिर्मुक्तत्वाद्वा, जीवनं ह्यायुस्तेनाविनिर्मुक्त एवात्मा कर्मपुद्गलानादत्तेऽतश्च जीवाभिधानं युक्तं । कर्मणो योग्यान् पुद्गलानादत्त इति पृथग्विभक्त्युच्चारणं वाक्यांतरज्ञापनार्थ तेन कर्मणो जीवः सकषायो भवति पूर्वोपात्तादित्येकं वाक्यं सकषायत्वात् पूर्वमकर्मकस्य मुक्तवत्सकषायत्वायोगात् । तथा कर्मणो योग्यान् पुद्गलानादत्ते जीवः सकषायत्वात् इति द्वितीयं वाक्यं कर्मयोग्यपुद्गलादानात्पूर्वमकषायस्य क्षीणकषायादिवत्तदघटनात् । ततो जीवकर्मणोरनादिबंध इत्युक्तं भवति बीजांकुरवत् । सकपायत्वकर्मयोग्यपुद्गलादानयोर्भावद्रव्यबंधस्वभावयोनिमित्तनैमित्तिकभावव्यवस्थानात् । पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थ पुद्गलात्मकं द्रव्यकर्म न पुनरन्यस्वभावं । तदसिद्धमिति चेन्न, अमूर्तेरनुग्रहोपघाताभावात् । न ह्यमूर्तिरात्मगुणो जीवस्यामूर्तेरनुग्रहोपघातौ कर्तुमलं कालवदाकाशादीनां । मूर्तिमतस्तु पौद्गलिकस्य कर्मणोनुग्रहोपघातकरणममूर्तेप्यात्मनि कथंचिन्न विरुध्यते, तदनादिबंध प्रति तस्य मूर्तिमत्त्वप्रसिद्धेरन्यथा बंधायोगात् । आदत्ते इति प्रतिज्ञातोपसंहारार्थ । तथाहि-यो यः शुभाशुभफलदायिद्रव्ययोग्यान् पुद्गलानादत्ते स स सकषायो यथा तादृशः स स कर्मणो योग्यान् पुद्गलानादत्ते यथोभयवादिप्रसिद्धः शुभाशुभफलग्रासादिपुद्गलादायी रक्तो द्विष्टो वा सकषायश्च विवादापन्नः संसारी तस्मात् कर्मणो योग्यान् पुद्गलानादत्ते इति प्रतिज्ञातोपसंहारः प्रतिपत्तव्यः । अतस्तदुपश्लेषो बंधः तद्भावो मदिरापरिणामवत् । सवचनमन्यनिवृत्त्यर्थ, कर्मणो योग्यानां सूक्ष्मैकक्षेत्रावगाहिनामनंतानामादानादात्मनः कषायाद्रीकृतस्य प्रतिप्रदेशं तदुपश्लेषो बंधः स एव बंधो नान्यः संयोगमात्रं स्वगुणविशेषसमवायो वेति तात्पर्यार्थः । कषायार्दीकृते जीवे कर्मयोग्यपुद्गलानां कर्मपरिणामस्य भावानुडोदकधातकीकुसुमाद्याभाजनविशेष मदिरायोग्यपुद्गलानां मदिरापरिणामवत् । करणादिसाधनो बंधशब्दः तस्योपचयापचथसद्भावः कर्मण आयव्ययदर्शनात् ब्रीहिकोष्ठागारवत् । कर्मणामायव्ययदर्शनात् तत्फलायव्ययानुभवनात् सिद्धं ततोनुमितानुमानं । एतदेवाह पुद्गलानां नुरादानं बंधो द्रव्यात्मकः स्मृतः । योग्यानां कर्मणः स्वेष्टानिष्टनिर्वर्तनात्मनः ॥१॥ कथं पुनः पुद्गलाः कर्मपरिणामयोग्याः केचिदुपपद्यते इत्याह;पुद्गलाः कर्मणो योग्याः केचिन्मूर्थियोगतः। पच्यमानत्वतः शालिवीजादिवदितीरितं ॥२॥ पुद्गला एव कर्मपरिणामभाजो मूर्तद्रव्यसंबंधेन विपच्यमानत्वाच्छालिबीजादिवदित्युक्तं पुरस्तात् । ततः कर्मणो योग्याः पुद्गलाः केचित्संत्येव ॥ तानादत्ते स्वयं जीवः सकषायत्वतः स तु । यो नादत्ते प्रसिद्धो हि कपायरहितः परः ॥३॥ सकषायः सकर्मत्वजीवः स्यात्पूर्वतोन्यतः । कषायेभ्यः सकर्मेति नान्यथा भवभागयं ॥४॥ जीवः संबंध इति वा सकषायत्वतोन्यथा । तस्य मुक्तात्मवत्तत्त्वानुपपत्तेः प्रसिद्धितः ॥ ५ ॥ सकषायत्वमध्यक्षात्स्वसंवेदनतः स्वयं । कोपवानहमित्येवं रूपात् सिद्धं हि देहिनां ॥६॥ प्रधानं सकपायं तु स्यान्नैवाचेतनत्वतः । कुंभादिवत्ततो नेदं संबंधमिति निर्णयः ॥ ७ ॥ कर्मणः सकपायत्वं जीवस्येति न शाश्वतं । सहेतुकस्य कौटस्थ्यविरोधात् कुटकादिवत् ॥ ८ ॥ ततो नु मुक्त्यभावो नु कुतश्चित्कर्मणः क्षये । सकषायत्वविध्वंसाविध्वंसकृतसिद्धितः ॥९॥ जीवो हि कर्मणो योग्यानादत्ते पुद्गलान स्वयं । सकषायस्ततः पूर्व शुद्धस्य तदसंभवात् ॥१०॥ तद्रव्यकर्मभिर्वधः पुद्गलात्मभिरात्मनः । सिद्धो नात्मगुणेरेवं कषायैभोवकर्मभिः ॥ ११ ॥ Page #485 -------------------------------------------------------------------------- ________________ ४७६ तत्त्वार्थश्लोकवार्तिके [सू० ४ अन्यथा सकषायत्वप्रत्ययस्य विरोधतः । संसारिणां शरीरादिसंबंधस्यैव हानितः ॥ १२ ॥ सोयं सामान्यतो बंधः प्रतिपादितस्तत्प्रकारप्रतिपादनार्थमाह; प्रकृतिस्थित्यनुभाग(भव)प्रदेशास्तदिधयः ॥३॥ अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः, भावसाधनौ स्थित्यनुभवौ, कर्मसाधनः प्रदेशशब्दः । । प्रकृतिः स्वभाव इत्यनर्थान्तरं, स्वभावाप्रच्युतिः स्थितिः, तद्रसविशेषोनुभवः, इयत्तावधारणं प्रदेशः । विधिशब्दः प्रकारवचनः । तस्य विधयस्तद्विधयो बंधप्रकाराः प्रकृत्यादय इत्यर्थः ॥ तदेवाह; तस्य बंधस्य विधयः प्रकृत्याद्याः सुसूत्रिताः । तथाविधत्वसंसिद्धेर्बधव्यानां कथंचन ॥१॥ स्थित्यादिपर्ययोन्मुक्तैः कर्मयोग्यैर्हि पुद्गलैः । प्रकृत्यावस्थितैर्बधः प्रथमोत्र विवक्षितः ॥ २ ॥ प्रतिप्रदेशमेतैर्नु मतो बंधः प्रदेशतः । स्थित्यादिपर्ययाक्रांतैः स स्थित्यादिविशेपितः ॥३॥ बंधस्य भेदादेवं हि बंधो भिद्यते नान्यथा बंधव्यानि च कर्माणि प्रकृत्यावस्थितानि प्रकृतिबंधव्यपदेशं लभंते । तान्येवात्मप्रदेशवृत्तीनि प्रदेशबंधव्यपदेशं । समयादूर्ध्वस्थितिपर्ययाक्रांतानि स्थितिबंधव्यपदेशं फलदानप्रशक्तिलक्षणानुभवपर्ययाक्रांतान्यनुभवबंधव्यपदेशमिति शोभनं सूत्रिताः प्रकृत्यादिविधयो बंधस्य । तत्र योगनिमित्तौ प्रकृतिप्रदेशौ, स्थित्यनुभवौ कषायहेतुकौ । आयो द्वेधा मूलोत्तरप्रकृतिभेदात् ॥ तत्र मूलप्रकृतिबंधं तावदाह; आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायाः ॥ ४॥ सामानाधिकरण्ये सति पूर्वोत्तरवचनविरोध इति चेन्न, उभयनयधर्मविवक्षासद्भावात् तयोरेकवचनबहुवचनप्रयोगोपपत्तेः । प्रमाणं श्रोतार इति सामान्यविशेषयोरेकत्वबहुत्वव्यवस्थितेर्यथासंभवं कादिसाधनत्वं ज्ञानावरणादिशब्दानां प्रयोगपरिणामादागच्छदेवाविशिष्टं कर्म ज्ञानावरणादिविशेषैर्विभिद्यते अन्नादेर्वातादिविकारवत् । ज्ञानावरणमेव मोह इति चेन्न, अर्थातरभावात् कार्यभेदे च कारणान्यत्वात् । ज्ञानावरणस्य हि कार्य ज्ञानं, मोहस्य तत्त्वार्थश्रद्धानमचारित्रं चेति । एतेन ज्ञानदर्शनावरणयोरन्यत्वमुक्तं तत्कार्ययोरज्ञानादर्शनयोरन्यत्वात् तदात्रियमाणयोश्च ज्ञानदर्शनयोरन्यत्वं प्रयुक्तं भेदसाधनं । ज्ञानावरणस्याविशेषेपि प्रत्यास्रवं मत्यादिविशेषो जलवत् । एतेनेतराणि व्याख्यातानि दर्शनावरणादीन्यपि प्रत्यासवं मूलोत्तरप्रकृतिविकल्पभांजि विभाव्यते । सकलकर्मप्रकृतीनां कार्यविशेषानुमेयत्वादिंद्रियशक्तिविशेषवत् । तदेवाहकर्मप्रकृतयस्तत्र स्युर्ज्ञानावरणादयः । तादृक्कार्यविशेषानुमेयाः करणशक्तिवत् ॥१॥ कश्चिदाह-पुद्गलद्रव्यस्यैकस्यावरणसुखदुःखादिनिमित्तत्वानुपपत्तिर्विरोधात् इति । स विनिवार्यते न वा, तत्स्वाभाव्याद्वन्हेर्दाहपाकप्रतापप्रकाशसामर्थ्यवत् । अनैकांतिकत्वाच्च द्रव्यस्य नैकत्यादिरूपेणानैकांतिकत्वं यतो विरोधः । पराभिप्रायेणेंद्रियाणां भिन्नजातीयानां क्षीराद्युपभोगे वृद्धिवत् । वृद्धिरेकैवेति चेन्न, प्रतींद्रियं वृद्धिभेदात् । तथैवातुल्यजातीयेनानुग्रहसिद्धिः । तेन चेतनस्यात्मनोऽचेतनं कर्मानुग्राहकं सिद्धं भवति । किमेतावानेव प्रकृतिबंधविकल्पो नेत्याख्यायते-एकादिसंख्येयविकल्पश्च शब्दतः तत्रैकस्तावत्सामान्यात् कर्मबंधो विशेषाणाम विवक्षितत्वात् सेनावचनवत् । स एव पुण्यपापभेदाद्विविधः खामिभृत्यभेदात् सेनावत् । त्रिविधश्चानादिः सांतः, अनादिरनंतः, सादिः सांतश्चेति, भुजाकाराल्पतरावस्थितभेदाद्वा । प्रकृत्यादिभेदाच्चतुर्विधः, द्रव्यादिभेदात् पंचविधः । षड्जीवनकायभेदात् षोढा । Page #486 -------------------------------------------------------------------------- ________________ • अष्टमोऽध्यायः । ४७७ रागद्वेषमोह क्रोधमानमायालोभहेतुभेदात् सप्तविधः । ज्ञानावरणादिविकल्पादष्टविधः । एवं संख्येया विकल्पाः शब्दतो योजनीयाः । चशब्दादवस्थायाः स्थानविकल्पादसंख्येयाः प्रदेशस्कंधपरिणामभेदादनंताः ज्ञानावरणाद्यनुभवाविभागपरिच्छेदापेक्षया वा । क्रमयोजनज्ञानेनात्मनोधिगमाद् ज्ञानावरणं सर्वेषामादावुक्तं । ततो दर्शनावरणमना कारोपलब्धेः । तदनंतरं वेदनीयवचनं तदव्यभिचारात् । ततो मोहाभिधानं तद्विरोधात् । आयुर्वचनं तत्समीपे तन्निबंधनत्वात् । तदनंतरं नामवचनं तदुदयापेक्षत्वात् प्रायो नामोदयस्य । ततो गोत्रवचनं प्राप्तशरीरादिलाभस्य संशब्दनाभिव्यक्तेः । परिशेषादंते अंतरायवचनं ॥ अथोत्तरप्रकृतिबंधं प्रतिपिपादयिषुस्तत्संख्याभेदान् सूत्रयन्नाह ; पंचनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा यथाक्रमम् ॥ ५ ॥ पंचादिपंचांतानां द्वंद्वपूर्वोन्यपदार्थनिर्देशः । द्वितीयग्रहणमिति चेन्न, परिशेषात्सिद्धेः । पूर्वत्राद्यवचनात् । इह हि परिशेषादेव द्वितीय उत्तरप्रकृतिबंध इति सिद्ध्यति । भेदशब्दः प्रत्येकं परिसमाप्यते । यथाक्रमं यथानुपूर्वं तेन ज्ञानावरणं पंचभेदमिति । आद्यसंबंधः परिपाट्या द्रष्टव्यः । एतदेवाह — ते च पंचादिभेदाः स्युर्यथाक्रममितीरणात् । कार्यप्रभेदतः साध्याः सद्भिः प्रकृतयोपराः ॥ १ ॥ तत्र केषां ज्ञानानां पंचानामात्रियमाणा नामावृतिकार्यभेदात्पंचभेदं ज्ञानावरणमित्याह ; मतिश्रुतावधिमनः पर्यय केवलानाम् ॥ ६ ॥ मत्यादीन्युक्तलक्षणानि । मत्यादीनामिति पाठो लघुत्वादिति चेन्न, प्रत्येकमभिसंबंधार्थत्वात् । तेन पंच ज्ञानावरणानि सिद्धानि भवति । पंचवचनात्पंच संख्याप्रतीतिरिति चेन्न, प्रत्येकं पंचत्वप्रसंगात् । प्रतिपदं पठेत् । मतेरावरणं श्रुतस्यावरणमित्याद्यभिसंबंधात् प्रत्येकं पंचावरणानि प्रसज्यंते । कश्चिदाहमत्यादीनां सत्त्वासत्त्वयोरावृत्यभाव इति तं प्रत्याह, नवात्रादेशवचनात् सतश्चावरणदर्शनात् नभसोंभोधरपटलवत् । मत्यादीनां सत्त्वैकांते वासत्त्वैकांते च क्षायोपशमिकत्वविरोधात् कथंचित्सतामेवावरणसंभवः । अर्थातराभावाच्च प्रत्याख्यानावरणवत् । यस्योदये ह्यात्मनः प्रत्याख्यान परिणामो नोत्पद्यते तत्प्रत्याख्यानावरणं न पुनरर्थीतरं प्रत्याख्यानमावृतस्याभावात् । तद्वदात्मनो यत्क्षयोपशमे सति मतिज्ञानादिरूपतयोत्पत्तिस्तन्मत्याद्यावरणं न पुनरर्थीतरं मत्यादिज्ञानमावृतस्यासंभवात् । अपर आह - अभव्यस्योत्तरावरणद्वयानुपपत्तिस्तदभावात् । न च उक्तत्वात् । किमुक्तमिति चेत्, आदेशवचनात् सतश्चावरणदर्शनात् भावांतराभावाच्चेति । द्रव्यार्थादेशात् सतोरपि मन:पर्ययकेवलज्ञानयोरावरणोपगमे स्याद्वादिनां नाभव्यस्य भव्यत्वप्रसंगः, कदाचित्तदावरणविगमासंभवात् । पर्यायार्थादेशादसतोरपि तयोरावरणघटनादुत्पत्तिप्रतिबंधिनोप्यावरणत्वप्रसिद्धेः तयोरभाव्यादर्थांतरयोरभावाच्चं न कश्चिद्दोषः । न च मनःपर्ययादिसदसत्त्वमात्रात् द्रव्यतो भव्येतरविभागः । किं तर्हि ? सम्यक्त्वादिव्यक्तिभावाभावाभ्यां भव्याभव्यत्वविकल्पः, कनकेतरपाषाणवत् । न च ज्ञानावरणोदयादज्ञोतिदुःखितस्ततोनादिरेव परमनिर्वृत्तिरिति दर्शनमुपपन्नं । कुतः पुनर्मत्याद्यावरणसिद्धिरित्याह; — मत्यादीनां हि पंचानां ज्ञानानां पंच वेदितं । कर्मावरणमन्यस्य हेतोर्भावेप्यभावतः ॥ १ ॥ सत्यप्यात्मन्युपादानहेतौ कालाकाशादौ समाने विषये च योग्य देशवर्तिन्याहार परोपदेशाभ्यासादौ च कस्यचिन्मत्यादिज्ञानविशेषाणामभावात् । ततोन्यत्कारणमदृष्टमनुमीयते तत्तदावरणमेव भवितुमर्हतीति निश्चयः ॥ Page #487 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके ४७८ अथ दर्शनावरणं नवभेदं कथमित्याह ; चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥ ७ ॥ चक्षुरादीनां दर्शनावरणसंबंधाद्भेदनिर्देशः । चक्षुरचक्षुरवधिकेवलानां दर्शनावरणानीति । मदखेदक्लमविनोदनार्थः खापो निद्रा, उपर्युपरि तद्वृत्तिर्निद्रानिद्रा, प्रचलयत्यात्मानमिति प्रचला, पौनःपुन्येन सैवाहितवृत्तिः प्रचलाप्रचला, स्वप्ने यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः स्त्याने खमे गृध्यति दीप्यते रौद्रबहुकर्म करोति यदुदयादित्यर्थः । नानाधिकरणाभावाद्वीप्सानुपपत्तिरिति चेन्न, कालादिभेदेन तद्भेदसिद्धेः, पटुर्भवान् पटुदेशीवत् पटुतर एष स इति यथा । देशभेदादपि मथुरायां दृष्टस्य पुनः पाटलिपुत्रे दृश्यमानस्य तत्त्वत्वत् । तत्रैकस्मिन्नप्यात्मनि कालदेशभेदात् नानात्वभाजि वीप्सा युक्ता निद्रानिद्रा प्रचलाप्रचलेति । आभीक्ष्ण्ये वा द्वित्वप्रसिद्धिः यथा गेहं गेहमनुप्रवेशमास्त इति । निद्रादिकर्म सद्योदयात् निद्रादिपरिणामसिद्धिः । निद्रादीनामभेदेनाभिसंबंध विरोध इति चेन्न, विवक्षातः संबंधात् । चक्षुरचक्षुर्दर्शनावरणोदयाच्चक्षुरादींद्रियालोचनविकलः, अवधिदर्शनावरणोदयादवधिदर्शनविप्रयुक्तः, केवलदर्शनावरणोदयादनाविर्भूत केवलदर्शनः, निद्रानिद्रानिद्रोदयात्तमो महातमोवस्था, प्रचला - प्रचलाप्रचलोदयाच्चलनातिचलनभावः । एतदेवाह - चतुर्णां चक्षुरादीनां दर्शनानां चतुर्विधं । निद्रादयश्च पंचेति नव प्रकृतयोस्य ताः ॥ १ ॥ चतुर्णां हि चक्षुरादिदर्शनानामावरणाच्चतुर्विधमवबोध्यं तदात्रियमाणभेदात् तद्भेदसिद्धेः । निद्रादयश्च पंच दर्शनावरणानीति भेदाभेदाभ्यामभिसंबंधोत्राविरुद्ध एवेत्युक्तं ॥ अथ तृतीयस्योत्तरप्रकृतिबंधस्य भेदप्रदर्शनार्थमाह ;सदसद्ये ॥ ८ ॥ यस्योदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यं यत्फलं दुःखमनेकविधं तदसद्वेद्यं । तदेवो - पदर्शयति द्वेधातु सदसद्वे सातेतरकृतादिमे । प्रकृती वेदनीयस्य नान्यथा तद्व्यवस्थितिः ॥ १ ॥ अथ चतुर्थस्योत्तरप्रकृतिबंधस्य भेदोपदर्शनार्थमाह ;दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिन वषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकपायकपाय हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानसंज्वलन विकल्पाचैकशः क्रोधमानमायालोभाः ॥ ९ ॥ दर्शनादिभिस्त्रिद्विनवषोडशभेदानां यथासंख्येन संबंध: । दर्शनमोहनीयं त्रिभेदं, चारित्रमोहनीयं द्विभेद, अकषायवेदनीयं नवविधं, कपायवेदनीयं षोडशविधमिति । तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्वमिथ्यात्वतदुभयानीति । तद्वंधं प्रत्येकं भूत्वा सत्कर्म प्रतीत्य त्रेधा । चारित्रमोहनीयं द्वेधा, अकषायकषायभेदात् । कषायप्रतिषेधप्रसंग इति चेत् न, ईषदर्थत्वान्नञः । अकषायवेदनीयं नवविधं हास्यादिभेदात् । कषायवेदनीयं षोडशविधमनंतानुबंध्यादिविकल्पात् ॥ कुतो मोहस्याष्टाविंशतिः प्रकृतयः सिद्धा इत्याह [सू०९ Page #488 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः । ४७९ दर्शनेत्यादिसूत्रेण मोहनीयस्य कर्मणः । अष्टाविंशतिराख्यातास्तावद्वा कार्यदर्शनात् ॥ १ ॥ प्रसिद्धान्येव हि मोहप्रकृतीनामष्टाविंशतेस्तत्त्वार्थाश्रद्धानादीनि कार्याणि मिथ्यात्वादीनामिहेति न प्रतन्यते । ततस्तदुपलंभात्तासामनुमानमनवद्यमन्यथा तदनुपपत्तेर्दृष्टकारणव्यभिचाराच ॥ अथायुरुत्तरप्रकृतिबंधभेदमुपदर्शयन्नाहः - नारकतैर्यग्योनमानुषदैवानि ॥ १० ॥ आयूंषीति शेषः । नारकादिभव संबंधेनायुर्व्यपदेशः । यद्भावाभावयोर्जीवितमरणं तदायुः | अन्नादि तन्निमित्तमिति चेन्न, तस्योपग्राहकत्वात् देवनारकेषु वान्नाद्यभावात् । नरकेषु तीव्रशीतोष्णवेदनेषु यन्निमित्तं दीर्घजीवनं तन्नरकायुः । क्षुत्पिपासाशीतोष्णवातादिकृतोपद्रवप्रचुरेषु तिर्यक्षु यस्योदयासनं तत्तैर्यग्योनं । शारीरमानससुखदुःखभूयिष्ठेषु मनुष्येषु जन्मोदयान्मानुष्यायुषः । शारीरमानस सुखप्रायेषु देवेषु जन्मोदयाद्देवायुषः । कुत एतान्यायूंषि सिद्धानीत्याह- नारकादीनि चत्वारि चापि भवभेदतः । सिद्धानि तदभावेस्य प्राणिनामव्यवस्थितेः ॥ १ ॥ अथ नामोत्तरप्रकृतिबंधभेददर्शनार्थ माह; गतिजातिशरी रांगोपांग निर्माणबंधन संघातसंस्थानसंहनन स्पर्शरसगंधवर्णानुपूर्व्यागुरुलघूपघात परघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर ससुभगसुखर शुभसूक्ष्मपर्याप्तिस्थिरादेययशस्कीर्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ ---- " कुतः पुनरिमे नाम्नः प्रकृतिभेदाः समनुमीयंत इत्याह ;द्विचत्वारिंशदाख्याता गतिनामादयस्तथा । नाम्नः प्रकृतिभेदास्तेनुमीयंते स्वकार्यतः ॥ १ ॥ यदुदयादात्मा भवांतरं गच्छति सा गतिः, तत्राव्यभिचारि सादृश्यैकीकृतोर्थात्मा जातिः, यदुदयादात्मनः शरीरनिर्वृत्तिस्तच्छरीरनाम, यदुदयादंगोपांगविवेकस्तदंगोपांगनाम, यन्निमित्ता परिनिष्पत्तिस्तन्निर्माणं, शरीरनामकर्मोदयोपात्तानां यतोन्योन्यसंश्लेषणं तद्वंधनं, अविवरभावेनैकत्वकरणं संघातनाम, यद्धेतुका शरीराकृतिनिवृत्तिस्तत्संस्थाननाम, यदुदयादस्थिबंधनविशेषस्तत्संहननं, यदुदयात् स्पर्शरसगंधवर्णविकल्पाष्टपंचद्विपंचसंख्यास्तानि स्पर्शादिनामानि यदुदयात्पूर्वशरीराकारविनाशस्तदानुपूर्व्यनाम, यन्निमित्तमगुरुलघुत्वं तदगुरुलघु नाम, यदुदयात्स्वयं कृतो बंधनाद्युपघातस्तदुपघातनाम, यन्निमित्तः परशस्त्राघातनं तत्परघातनाम, यदुदयान्निर्वृत्तमातपनं तदातापनाम, यन्निमित्तमुद्योतनं तदुद्योतनाम, यद्धेतुरुच्छ्वासस्तदुच्छ्रासनाम, विहाय आकाशं तत्र गतिनिर्वर्तकं विहायोगतिनाम, एकात्मोपभोगका - रणं शरीरं यतस्तत्प्रत्येकशरीरनाम, यतो बह्वात्मसाधारणोपभोगशरीरता तत्साधारणशरीरनाम, यदुदयावींद्रियादिषु जन्म तत्रसनाम, यन्निमित्त एकेंद्रियेषु प्रादुर्भावस्तत्स्थावरनाम, यदुदयादन्यप्रीतिप्रभवस्तत्सुभगनाम, यदुदयाद्रूपादिगुणोपेतेप्यप्रीतिस्तद्दुर्भगनाम, यन्निमित्तं मनोज्ञखरनिर्वर्तनं तत्सुखरनाम, तद्विपरीतं दुःखरनाम, यदुदयाद्रमणीयत्वं तच्छुभनाम, तद्विपरीतमशुभनाम, सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम, अन्यबाधाकरशरीरकारणं बादरनाम, यदुदयादाहारादिपर्याप्तिनिवृत्तिस्तत्पर्याप्तिनाम षड्विधं, पर्यात्यभावहेतुरपर्याप्तिनाम, स्थिरभावस्य निर्वर्तकं स्थिरनाम, तद्विपरीतमस्थिरनाम, प्रभोपेतशरीरताका Page #489 -------------------------------------------------------------------------- ________________ ४८० [ सू० १४ रणमादेयनाम, निष्प्रभशरीरकारणमनादेयतानाम, पुण्यगुणख्यापनकारणं यशस्कीर्तिनाम, यशो गुणविशेषः कीर्तिस्तस्य शब्दनमिति न तयोरनर्थीतरत्वं । तत्प्रत्यनीकफलमयशस्कीर्तिनाम, आर्हत्यनिमित्तकारणं तीर्थकरत्वं, गणधरत्वादीनामुपसंख्यानमिति चेन्न, अन्यनिमित्तत्वात् । गणधरत्वस्य श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमप्रकर्षहेतुकत्वात् चक्रवर्तित्वादेरुच्चैर्गोत्रोदयनिमित्तकत्वात् । तदेव तीर्थकर - त्वस्यापीति चेत् न, तीर्थकरत्वस्य हि तन्निमित्तत्वे गणधरस्य तत्प्रसंगश्चक्रधरादेश्च न च तदस्ति, ततोर्थौतरनिमित्तं, यत्तदर्थांतरं । तत्तीर्थकरनामैव । घातिक्षयस्य मुंड ( सामान्य ) केवल्यादेरपि भावान्न तन्निबंधनं तस्य शंकनीयं, छत्रत्रयादिपरमविभूतिफलस्य ततोसंभवनिश्चयात् । ननु च विहायोगत्यंतानां प्रत्येकशरीरादिभिरेकवाक्यत्वाभावः । कुत इति चेत्, पूर्वेषां प्रतिपक्षविरहादेकवाक्यत्वाभावः । प्रधानत्वात्तीर्थकरत्वस्य पृथग्ग्रहणं, अन्यत्वाच्च प्रत्येकशरीरादिभिरेकवाक्यत्वाभावः प्रत्येतव्यः ॥ तत्त्वार्थश्लोकवार्तिके प्राधान्यं सर्वनामभ्यः शतेभ्यः शुद्धिजन्मनः । बोध्यं तीर्थकरत्वस्य भवांते फलदायिनः ||२|| गोत्रोत्तर प्रकृतिबंधभेदप्रकाशनार्थमाह; उच्चैनींचैश्च ॥ १२ ॥ गोत्रं द्विविधमुच्चैर्नीचैरिति विशेषणात् । यस्योदयात् लोके पूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रं, गर्हि - तेषु यत्कृतं तन्नीचैर्गोत्रं ॥ कुतस्तदेवंविधं सिद्धमित्याह उच्चैचैr गोत्रं स्याद्विभेद देहिनामिह । तथा संशब्दनस्यान्यहेतुहीनस्य सिद्धितः ॥ १ ॥ तथांतरायोत्तरप्रकृतिबंधावबोधनार्थमाह ; दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ दानादीनामंतरायापेक्षयार्थव्यतिरेकनिर्देशः, अंतराय इत्यनुवर्तनात् । दानादिपरिणामव्याघातहेतुत्वात्तद्व्यपदेशः । भोगोपभोगयोरविशेष इति चेन्न, गंधादिशयनादिभेदतस्तद्भेदसिद्धेः । कुतस्ते दानाद्यंतरायाः प्रसिद्धा इत्याह; - दानादीनां तु पंचानामंतरायाः प्रसूत्रिताः । पंच दानादिविघ्नस्य तत्कार्यस्य विशेषतः ॥ १ ॥ उक्तमेव प्रकृतिबंध प्रपंचमुपसंहरन्नाह ; एवं प्रकृतिभिर्बंधः कर्मभिर्विनिवेदितः । आद्यः प्रकृतिबंधोत्र जीवस्यानेकधा स्थितः ॥ २ ॥ तदुत्तरप्रकृति वदुत्तरोत्तर प्रकृतीनामपि प्रकृतिबंधव्यपदेशात् सामान्यतो विशेषतश्च प्रकृतिबंधः स्थित्यादिबंधापेक्षयान्य एवानेकधोक्तः । तथा च यावतामनुभवोस्तु फलानां दृष्टहेतुघटनाच्च जनानां । तावती गणना प्रकृतीस्ताः कर्मणामनुमिनोतु महात्मा ॥ ३ ॥ इति अष्टमाध्यायस्य प्रथममाह्निकम् । आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ॥ १४ ॥ आदित इति वचनं मध्यांतनिवृत्त्यर्थं, तिसृणामितिवचनमवधारणार्थं, अंतरायस्य चेति क्रमभेदि - • Page #490 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः। ४८१ वचनं समानस्थितिप्रतिपत्त्यर्थ । उक्तपरिमाणं सागरोपमकोटीकोट्य इति । द्वित्वे बहुत्वानुपपत्तिरिति चेन्न, राजपुरुषवत्तत्सिद्धेः । कोटीनां कोट्यः कोटीकोट्य इति । पराभिधानं जघन्यस्थितिनिवृत्त्यर्थ । संज्ञिपंचेंद्रियपर्याप्तकस्य परा स्थितिः, अन्येषामागमात्संप्रत्ययः । तद्यथा एकेंद्रियस्य पर्याप्तकस्यैकसागरोपमा सप्तभागास्त्रयः, द्वींद्रियस्य पंचविंशतिः सागरोपमाणां सप्तभागास्त्रयः, त्रींद्रियस्य पंचाशत्सागरोपमाणां, चतुरिंद्रियस्य सागरोपमशतस्य, असंज्ञिपंचेंद्रियस्य सागरोपमसहस्रस्य, अपर्याप्तसंज्ञिपंचेंद्रियस्यांतःसागरो. पमकोटीकोट्यः । एकद्वित्रिचतुःपंचेंद्रियासंज्ञिनां त एव भागाः पल्योपमासंख्येयभागोना इति परमागमप्रवाहः ।। कुतः परा स्थितिराख्यातप्रकृतीनामित्याह; आदितस्तिमृणां कर्मप्रकृतीनां परा स्थितिः । अंतरायस्य च प्रोक्ता तत्फलस्य प्रकर्षतः ॥१॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्तदन्यथा । तदभावे प्रमाणस्याभावात्सा केन बाध्यते ॥ २ ॥ अथ मोहनीयस्य परां स्थितिमुपदर्शयन्नाह; सप्ततिर्मोहनीयस्य ॥ १५॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिपंचेंद्रियस्य पर्याप्तकस्य, एकद्वित्रिचतुरिंद्रियाणामेकपंचविंशतिपंचाशच्छतसागरोपमानि यथासंख्यं, तेषामेवापर्याप्तकानामेकेंद्रियादीनां पल्योपमासंख्येयभागोना, सैव पर्याप्तासंज्ञिपंचेंद्रियस्य सागरोपमसहस्रं, तस्यैवापर्याप्तकस्य सागरोपमसहस्रं पल्योपमसंख्येयभागोनं, संज्ञिनोपर्याप्तकस्यांतःसागरोपमकोटीकोट्य इति परमागमार्थः ॥ अथ नामगोत्रयोः का परा स्थितिरित्याह; विंशतिर्नामगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा संज्ञिनः पर्याप्तकस्यैकेंद्रियस्य एकसागरोपमः सप्तभागौ द्वौ, द्वींद्रियस्य पंचविंशतेः सागरोपमाणां, त्रींद्रियस्य पंचाशतः, चतुरिंद्रियस्य शतस्य, असंज्ञिनः पंचेंद्रियस्य सहस्रस्य, संज्ञिनोपर्याप्तकस्यांतःसागरोपमकोटीकोट्यः, एकेंद्रियादेः सैव स्थितिः पल्योपमासंख्येयभागोना । कथं बाधवर्जितमेतत्सूत्रद्वयमित्याह सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । इति सूत्रद्वयं बाधवर्जमेतेन वर्णितम् ॥१॥ ततोऽन्यथा स्थितिहकप्रमाणाभावे नैवेत्यर्थः ।। अथायुषः कोत्कृष्टा स्थितिरित्याह; त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणात् कोटीकोटिनिवृत्तिः, परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिनः पर्याप्तकस्य । इतरेषां यथागमं । तद्यथा-असंज्ञिनः पंचेंद्रियस्य पर्याप्तस्य पल्योपमासंख्येयभागः, शेषाणामुत्कृष्टा पूर्वकोटी । इयमपि तथैव बाधवर्जितेत्याह;तथायुषस्त्रयस्त्रिंशत्सागरोपमसंख्यया । परमस्थितिनिर्णीतिरिति साकल्यतः स्मृता ॥१॥ कर्मणामष्टानामपि परा स्थितिरिति शेषः ॥ अथ वेदनीयस्य काऽपरा स्थितिरित्याह; अपरा द्वादश मुहूर्ता वेदनीयस्य ॥१८॥ सूक्ष्मसांपराये इति वाक्यशेषः । एतदेवाह Page #491 -------------------------------------------------------------------------- ________________ ४८२ तत्त्वार्थ श्लोकवार्तिके [सू० २२ अधुना वेदनीयस्य मुहूर्ता द्वादश स्थितिः । सामर्थ्यान्मध्यमा मध्येऽनेकधा संप्रतीयते ॥ १ ॥ अथायुषो नंतरयोः कर्मणोः का जघन्या स्थितिरित्याह; ------- नामगोत्रयोरष्टौ ॥ १९॥ मुहूर्ता इत्यनुवर्तते अपरा स्थितिरिति च । सा च सूक्ष्मसांपराये विभाव्यते । तथाहिसानामगोत्रयोरष्टौ मुहूर्ता इति वर्तनात् । यामादयो व्यवच्छिन्नाः कामं मध्येस्तु मध्यमा १ अथोक्तेभ्योऽन्येषां कर्मणां का निकृष्टा स्थितिरित्याह; शेषाणामतर्मुहूर्ता ॥ २० ॥ अपरा स्थितिरित्यनुवर्तते । शेषाणि ज्ञानदर्शनावरणांतरायमोहनीयायूंषि । तत्र ज्ञानदर्शनावरणांतरा - याणां सूक्ष्मसांपराये, मोहनीयस्यानिवृत्तिबादरसां पराये, आयुषः संख्येयवर्षायुषतिर्यग्मनुष्येषु ॥ सर्वकर्मणां स्थितिबंधमुपसंहरन्नाह; - शेषाणां कर्मणामतर्मुहूर्ताचेति कार्यतः । जघन्यमध्यमोत्कृष्टा स्थितिर्या प्रतिपादिता || १ || तया विशेषितैर्वधः कर्मभिः स्वयमाहृतैः । स्थितिबंधोवबोद्धव्यस्तत्प्राधान्य विवक्षया ॥ २ ॥ स्थित्या केवलया बंधस्तद्वच्छ्रन्यैर्न युज्यते । तद्वदाश्रितया त्वस्ति भूमिभूधरयोरिव ॥ ३ ॥ स्थितिशून्यानि कर्माणि निरन्वयविनाशतः । प्रदीपादिवदित्येतत्स्थितेः सिद्धानि धार्यते ॥ ४॥ निर्णीता हि स्थितिः सर्वपदार्थानां क्षणादूर्ध्वमपि प्रत्यभिज्ञानादबाधितखरूपाद्भेदप्रत्ययादुत्पादविनाशवत् । ततः स्थितिमद्भिः कर्मभिरात्मनः स्थितिबंधोऽनेकधा सूत्रितोनवद्यो बोद्धव्यः प्रकृतिबंधवत् ॥ अथानुभवबंधं व्याचष्टे: विपाकोऽनुभवः ॥ २१ ॥ विशिष्टः पाको नानाविधो वा विपाकः, पूर्वास्रवतीत्रादिभावनिमित्तविशेषाश्रयत्वात् द्रव्यादिनिमित्तभेदेन विश्वरूपत्वाच्च सोनुभवः कथ्यते । शुभपरिणामानां प्रकर्षाच्छुभप्रकृतीनां प्रकृष्टोनुभवः, अशुभपरिणामानां प्रकर्षात्तद्विपर्ययः । स किंमुखेनात्मनः स्यादित्याह ; विपाकोनुभवो ज्ञेयः पुद्गलादिमुखेन तु । कर्मणां फलनिष्पत्तौ सामर्थ्यायोगतोन्यथा ॥ १ ॥ पुद्गलविपाकिनां कर्मणामंगोपांगादीनां पुद्गलद्वारेणानुभवोऽन्यथात्मनि फलदाने सामर्थ्याभावात्, क्षेत्रविपाकिनां तु नरकादिगतिप्रायोग्यानुपूर्व्यादीनां क्षेत्रद्वारेण, जीवविपाकिनां पुनर्ज्ञानावरणसद्वेद्यादीनामात्मभावप्रतिषेधाविधानविधानानां जीवमुख्येनैव भवविपाकिनां तु नारकाद्यायुषां भवद्वारेण तत एव । तेन मूलप्रकृतीनां खमुखेनैवानुभवो, अतुल्यजातीयानामुत्तरप्रकृतीनां च निवेदितः । तुल्यजातीयानां तूत्तरप्रकृतीनां परमुखेनापीति प्रतिपत्तव्यमन्यत्रायुर्दर्शनचारित्रमोहेभ्यः, तेषां परमुखेन वफलदाने सामर्थ्याभावात् ॥ कुतः पुनर्ज्ञानावरणादिकर्मप्रकृतीनां प्रतिनियतफलदानसामर्थ्यं निश्चीयत इत्याह ; स यथानाम ॥ २२ ॥ यस्मादिति शेषस्तेन ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थसंज्ञानिर्देशात्तदनुभवसंप्रत्ययः । ज्ञानावरणादिकमेव हि तेषां प्रयोजनं नान्यदिति कथमन्वर्थसंज्ञा न स्यात् ? ततः--- Page #492 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः। ४८३ सामर्थ्यानामभेदेन ज्ञायेतान्वर्थनामता । नुर्ज्ञानावरणादीनां कर्मणामन्यथा स्मृतेः॥१॥ तथा चानुभवप्राप्तरात्मनः कर्मभिर्मवेत् । एषोनुभवबंधोस्यान्यास्रवस्य विशेषतः ॥२॥ किं पुनरस्मादनुभवाद्दत्तफलानि कर्माण्यात्मन्यवतिष्ठते किं वा निर्जीयते इत्याह; ततश्च निर्जरा ॥ २३ ॥ पूर्वोपार्जितकर्मपरित्यागो निर्जरा । सा द्विप्रकारा विपाकजेतरा च । निमित्तांतरस्य समुच्चयार्थश्चशब्दः । तच्च निमित्तांतरं तपोविज्ञेयं, तपसा निर्जरा चेति वक्ष्यमाणत्वात् । संवरात्परत्र पाठ इति चेन्न, अनुभवानुवादपरिहारार्थत्वात् । पृथग्निर्जरावचनमनर्थकं बंधेतर्भावादिति चेन्न, अर्थापरिज्ञानात् । फलदानसमर्थ्य हि अनुभवबंधस्ततोनुभूतानां गृहीतवीर्याणां पुद्गलानां निवृत्तिनिर्जरा । सा कथं तत्रांतर्भवेत् ? तस्य तद्धेतुत्वनिर्देशात्तद्भेदोपपत्तेः । लघ्वर्थमिहैव तपसा चेति वक्तव्यमिति चेन्न, संवरानुग्रहतंत्रत्वात् । तपसा निर्जरा च भवति संवरश्चेति । धर्मेन्तर्भावात्संवरहेतुत्वमिति चेन्न, पृथग्रहणस्य प्राधान्यस्थापनार्थत्वात् । एतदेवाह ततश्च निर्जरेत्येतत्संक्षेपार्थमिहोदितं । निर्जराप्रस्तुतेरग्रेप्येतद्भेदप्रसिद्धये ॥१॥ यथाकालं विपाकेन निर्जरा कर्मणामियं । वक्ष्यमाणा पुनर्जीवस्योपक्रम निबंधना ॥२॥ प्रागनुक्ता समुच्चार्या चशब्देनात्र सा पुनः । तपसा निर्जरा चेति नियमो न निरुच्यते ॥३॥ फलं दत्त्वा निवर्तते द्रव्यकर्माणि देहिनः । तेनाहतत्वतः स्वाद्याद्याहारद्रव्यवत्स्वयं ॥४॥ भावकर्माणि नश्यति तन्निवृत्यविशेषतः। तत्कायेत्वाद्यथाम्यादिनाशे धूमादिवृत्तयः ॥५॥ ततः फलोपभोगेपि कर्मणां न क्षयो नृणां । पादपादिवदित्येतद्वचोपास्तं कुनीतिकं ॥६॥ पारतंत्र्यमकुर्वाणाः पुंसो ये कर्मपुद्गलाः । कर्मत्वेन विशिष्टास्ते संतोप्यत्रांबरादिवत् ॥ ७॥ तदेवमनुभवबंधं प्रतिपाद्याधुना प्रदेशबंधमवगमयितुमनाः प्राहनामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वा त्मप्रदेशेष्वनंतानंतप्रदेशाः ॥ २४ ॥ नाम्नः प्रत्यया नामप्रत्ययाः इत्युत्तरपदप्रधाना वृत्तिः । नामासां प्रत्यय इति चेन्न, समयविरोधात् । अन्यपदार्थायां हि वृत्तौ नामप्रत्ययो यासां प्रकृतीनामिति सर्वकर्मप्रकृतीनां नामहेतुकत्वं प्रसक्तं, तच्च समयेन विरुध्यते । तत्र तासां तद्धेतुकत्वेनानभिधानात् प्रतिनियतप्रदोषाद्यास्रवनिमित्तत्वप्रकाशनात् । के पुनस्ते नाम्नः प्रत्ययाः कुतो वेत्यावेदयन्नाह;नामान्वर्थ पदाख्यातं प्रत्ययास्तस्य हेतवः । प्रदेशाः कर्मणोऽनंतानंतमानविशेषिताः ॥१॥ स्कंधात्मना विरुध्यते न प्रमाणेन तत्त्वतः। स्कंधाभावेक्षविज्ञानाभावात् सवो गृहागते ॥२॥ अनंतानंतप्रदेशवचनं प्रमाणांतरव्यपोहाथै । कर्मणोनंतानंताः प्रदेशाः परमाणुरूपाः कथं स्कंधात्मना परिणमंते पर्वतात्मना सूक्ष्मसलिकणवद्विरोधात् । ततो न ते नानो ज्ञानाभावादेरनुभवफलस्य हेतव इति न शंकनीयं; स्कंधाभावेक्षविज्ञानाभावात् सर्वपदार्थाग्रहणस्यानुषक्तेः सकलानुमेयार्थानामपि लिंगार्थग्रहणासंभवात् । तृतीयस्थानसंक्रांतानामपि शब्दगम्यानां प्रकाशकशब्दग्रहणविरोधात् । खसंवेदनादात्मग्रहणान्न सर्वग्रहणमिति चेन्न, शरीरादिस्कंधाभावे मनोनिमित्तकस्य स्वसंवेदनस्यानुपपत्तेः । मुक्तस्वसंविदितविज्ञानात् सर्वार्थग्रह्णसिद्धेर्न सर्वार्थग्रहण इति चेन्न, लिंगशब्दाद्यग्रहणे तद्व्यवस्थानुपपत्तेः । न हि Page #493 -------------------------------------------------------------------------- ________________ ४८४ तत्त्वार्थश्लोकवार्तिके [सू० २५ परमाणव एव लिंगशब्दात्मनामात्मसान्न कुर्वते, तेषां सर्वथा बुद्ध्यगोचरत्वात् । नापि परमाणव एवेंद्रियभाविना लिंगादिग्रहणकरणादिना नियुज्यंते, न च शरीरभावेनानुभवाख्यभोगायतनत्वं प्रतिपद्यते अतिप्रसंगात् । परमाणूनामपि खकारणविशेषात्तथोत्पत्तेस्तद्भावाविरोध इति चेन्न; अत्यासन्नासंसृष्टरूपतयोत्पत्तरेव स्कंधतयोत्पत्तेः, अन्यथैकत्वपरिणामविरोधादुक्तदोषस्य निवारयितुमशक्तेरिति विचारितं प्राक् । ततः सूक्तं कर्मणः प्रदेशाः स्कंधत्वेन परिणामविशेषान्नाम्नः प्रत्यया न विरुध्यते तत्त्वतः । प्रमाणेनाधिगतेरिति । सर्वात्मप्रदेशेष्विति किमर्थमितिचेदुच्यते सर्वेष्वात्मप्रदेशेषु न कियत्सुचिदेव ते । तत्फलस्य तथा वित्ते नीरे क्षीरप्रदेशवत् ॥ ३॥ यथैव हि सर्वत्र कलशोदके क्षीरमिश्रे क्षीररसविशेषस्य फलस्योपलब्धेः सर्वेषु तदुदकप्रदेशेषु क्षीरसंश्लेषः सिद्धस्तथा सर्वेष्वात्मप्रदेशेषु कर्मफलस्याज्ञानादेरुपलंभात् कर्मप्रदेशसंश्लेषः सिद्ध्यतीति सूक्तमिदं सर्वात्मप्रदेशेष्विति वचनमेकप्रदेशाध्यपोहार्थमिति । सूक्ष्मेत्यादि निर्देशेन किं कृतमित्याह सूक्ष्मशब्देन च योग्यस्वभावग्रहणाय ते । पुद्गलाः प्रतिपाद्यते स्थूलानां तदसंभवात् ॥ ४॥ सूक्ष्मग्रहणं ग्रहणयोग्यखभावप्रतिपादनार्थमिति वचनात् ॥ एकक्षेत्रावगाहाभिधानं क्षेत्रांतरस्य तत् । निवृत्त्यर्थं स्थिताः स्यात्तु क्रियांतरनिवृत्तये ॥ ५ ॥ एकक्षेत्रावगाहवचनं क्षेत्रांतरनिवृत्त्यर्थ, स्थिता इति वचनं क्रियांतरनिवृत्त्यर्थमिति प्रतिपादनात् । एकक्षेत्रावगाहः कोसाविति चोच्यते अत्यंतनिविडावस्थावगाहोर्थात् प्रतीयते । तेन तेवस्थितास्तत्र गोमये धूमराशिवत् ॥ ६ ॥ ततः सूक्ष्माश्च ते एकक्षेत्रावगाहस्थिताश्चेति खपदार्थवृत्तिः प्रत्येया, ते च कर्मणः प्रदेशाः ॥ भूयः प्रदेशमेकत्र प्रदेशे द्रव्यमीक्ष्यते । परमाणौ यथा माभृत् कुलं नैवेति केचन ॥७॥ तेषामल्पप्रदेशस्थैर्धनैः कर्पासपिंडकैः । अन्यैकांतिकता हेतोभूयोदेशैरसंशयम् ॥ ८ ॥ योगविशेषादिति वचनं निमित्तनिर्देशार्थ । कथमित्याह;योगः पूर्वोदितस्तस्य विशेषात् कारणात्तथा । स्थितास्तेत्र विना हेतोर्नियतावस्थितिक्षतेः॥९॥ सर्वेषु भवेषु सर्वत इत्यनेन कालोपादानं कृतम् ॥ सर्वेष्वसर्वेष्वेते कचिदेव भवेन तु । सर्वतो वचनादेव प्रतिपत्तव्यमंजसा ॥ १० ॥ इति प्रदेशैर्यो बंधः कर्मस्कंधादिभिर्मतः । स नुः प्रदेशबंधः स्यादेष बंधो विलक्षणः ॥११॥ सोयं कारणभेदेन कार्यभेदेन चास्थितः । स्वभावस्य च भेदेन कर्मबंधश्चतुर्विधः ॥ १२ ॥ बद्धस्पृष्टादिभेदेनावस्थितादिमिदापि च । द्रव्यादिभेदतो नामादिप्रभेदेन वा तथा ॥ १३ ॥ विना प्रकृतिबंधान स्युर्ज्ञानावरणादयः। कार्यभेदात्स्वयं सिद्धाः स्थितिबंधाद्विना स्थिराः १४ न चानुभवबंधेन विनानुभवनं नृणां । प्रदेशबंधतः कृत्स्नै कैन व्याप्यवृत्तये ॥ १५ ॥ एवं कार्यविशेषेभ्यो विशेषो बंधनिष्ठितः । प्रत्येयोनेकधा युक्तेरागमाच्च तथाविधात् ॥१६॥ पुण्यास्रवोक्तिसामर्थ्यात् पुण्यवंधोऽवगम्यते । सवेद्यादीनि चत्वारि तत्पुण्यमिह सूत्रितं ॥१७॥ सदेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ शुभग्रहणमायुरादीनां विशेषणं । शुभायुस्त्रिविधं, शुभं नाम सप्तत्रिंशद्विकल्पं, उच्चैर्गोत्रं च शुभं । कुतः सद्वेद्यादि प्रसिद्धमित्युच्यते Page #494 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः। ४८५ यस्योदयात्सुखं तत्स्यात्सद्वेधं देहिनां तथा । शुभमायुविधा यस्य फलं शुभभवत्रयं ॥१॥ सप्तत्रिंशद्विकल्पं तु शुभं नाम तथा फलं । उच्चैर्गोत्रं शुभं प्राहुः शुभसंशब्दनार्थकम् ॥२॥ इति कार्यानुमेयं तद्द्विचत्वारिंशदात्मनि । पापास्रवोक्तिसामर्थ्यात्पापबंधो व्यवस्थितः ॥३॥ पापं पुनस्ततः पुण्यादन्यदित्यत्र सून्यते; अतोन्यत् पापम् ॥ २६ ॥ असद्वद्याशुभायुर्नामगोत्राणीत्यर्थः । कुतस्तदवसीयते इत्याह;दुःखादिभ्योऽशुभेभ्यस्तत्फलेभ्यस्त्वनुमीयते । हेतुभ्यो दृश्यमानेभ्यस्तजन्मायभिचारतः॥१॥ एवं संक्षेपतः कर्मबंधो द्वेधावतिष्ठते । पुण्यपापातिरिक्तस्य तस्यात्यंतमसंभवात् ॥ २॥ पुण्यं पुण्यानुबंधीष्टं पापं पापानुबंधि च । किंचित्पापानुबंधि स्यात्किंचित्पुण्यानुबंधि च ॥३॥ यथार्थोर्थानुबंधी स्यान्न्यायाचरणपूर्वकः । तथानर्थोपि चांभोधिसमुत्तारादिरर्थकृत् ॥ ४ ॥ अन्यायाचरणायातस्तद्वदर्थोप्यनर्थकृत् । अनर्थोपीति निर्णीतमुदाहरणमंजसा ॥५॥ तत्र पापानुबंधिनः पुण्यस्य पुण्यानुबंधिनश्च पापस्य कार्य दर्शयति यत्प्रदर्शनसामर्थ्यात् पुण्यानुबंधिनः पुण्यस्य पापानुबंधिनश्च पापस्य फलम् ॥ अवसीयति प्रथमकमुत संपदां पदं समनुभवंति वंद्यपादाः। तदनु च विपदं गरीयसीं दधति परामपि निंद्यवृत्तितां ॥६॥ यदिह तदिहमुत्तरैनसो निजसुकृतस्य फलं वदंति तज्ज्ञाः। तदपरमपि चादिमैनसः सुकृतपरस्य विपर्ययेण वृत्तेः ॥ ७॥ इति अष्टमाध्यायस्य द्वितीयमादिकम् ॥ इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे अष्टमोऽध्यायः ॥ ८ ॥ Page #495 -------------------------------------------------------------------------- ________________ अथ नवमोऽध्यायः ॥ ९ ॥ आस्रवनिरोधः संवरः ॥ १ ॥ कर्मागमनिमित्ताप्रादुर्भूतिरास्रवनिरोधः, तन्निरोधे सति तत्पूर्वकर्मादानाभावः संवरः । तथा निर्देशः कर्तव्य इति चेन्न, कार्ये कारणोपचारात् । निरुध्यतेऽनेन निरोध इति वा, निरोधशब्दस्य करणसाधनत्वात् आस्रवनिरोधः संवर इत्युच्यते न पुनः कर्मादानाभावः । स इति योगविभागो वा आस्रवस्य निरोधः ततः संवर इति । एतदेवाह - अथास्रवनिरोधः स्यात्संवरोऽपूर्वकर्मणां । कारणस्य निरोधे हि बंधकार्यस्य नोदयः ॥ १ ॥ आस्रवः कारणं बंधस्य कुतः सिद्ध इति चेत् आस्रवः कारणं बंधे सिद्धस्तद्भावभावतः । तन्निरोधे विरुध्येत नात्मा संवृतरूपभृत् ॥ २ ॥ न हि निरोधो निरूपितो अभावस्तस्य भावांतरस्वभावत्वसमर्थनात्, तेनात्मैव निरुद्धास्रवः संवृतस्वभावभृत् संवरः सिद्धः सर्वथाविरोधाद्भावाभावाभ्यां भवतोऽभवतश्च । बंधस्यास्रवकारणत्ववत् बंधस्यैव निरोधः संवर इति कश्चित्, तदयुक्तमित्याहः - संवरः पूर्वबंधस्य निरोध इति भाषितं । न युक्तमास्रवे सत्यप्येतद्वाधानुषंगतः ॥ ३ ॥ न हि सत्यप्यास्रवे संवरः संभवति सर्वस्य तत्प्रसंगात् । न चापूर्वकर्मबंधस्य निरोधे सत्यास्रवनिरोध एवेति नियमोस्ति, क्षीणकषायसयोगकेवलिनोर पूर्वबंध निरोधेपि कर्मास्रवसिद्धेः । प्रकृत्यादिसकलबंधनिरोधस्तु न नास्रवनिरोधमंतरेण भवतीति तन्निरोध एव बंधनिरोधस्ततो युक्तमेतदास्रवनिरोधः कर्मणामात्मनः संवर इति । मिथ्यादर्शनादिप्रत्ययधर्मसंवरणं संवरः । स द्वेधा, द्रव्यभावभेदात् । संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः, तन्निरोधे तत्पूर्वककर्मपुद्गलादानविच्छेदो द्रव्यसंवरः । तद्विभावनार्थं गुणस्थानविभागवचनं । मिथ्यादृष्टिसासादनसम्यग्दृष्टि सम्यग्मिथ्यादृष्यसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतापूर्वकरणानिवृत्तिबादरसां पराय सूक्ष्मसांपरायोपशम कक्षपकोप शांतक्षीणकषाय वीतरागछद्मस्थ सयोगायोगिकेवलिभेदाद्गुणस्थानविकल्पः । तत्र मिथ्यादर्शनोदयवशीकृतो मिथ्यात्वोदयेऽसम्यग्मिथ्यादृष्टिः, तदुदयाभावेऽनंतानुबंधिकषायोदय विधेयीकृतः सासादनसम्यग्दृष्टिः, सम्यस्मिथ्यादृष्टिः, सम्यक्त्वोपेतश्चारित्रमोहोदयापादिताविरतिरसंयतसम्यग्दृष्टिः, विषयविरतिपरिणतः संयतासंयतः, परिप्राप्तसंयमः प्रमादवान् प्रमत्तसंयतः प्रमादविरहितोऽप्रमत्तसंयतः, अपूर्वकरणपरिणामः उपशमकः क्षपकश्चोपचारात् अनिवृत्तिपरिणामवशात् स्थूलभावेनोपशमकः क्षपकश्वानिवृत्तिबादरसांपरायः, सूक्ष्मभावेनोपशमात् क्षपणाच्च सूक्ष्मसांपरायः, सर्वस्योपशमात्क्षपणाच्चोपशांतकषायः क्षीणकषायश्च, घातिकर्मक्षयादाविर्भूतज्ञानाद्यतिशयः केवली । स द्विविधो योगभावाभावभेदात् । तत्र मिथ्यात्वप्रत्ययस्य कर्मणस्तदभावे संवरो ज्ञेयः । असंयमस्त्रिविधोऽनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् तत्प्रत्ययस्य तदभावे संवरः, प्रमादोपनीतस्य तदभावे निरोधः, कषायास्रवस्य तन्निरोधे निरासः, केवलयोगनिमित्तं सद्वेद्यं तदभावे तस्य निरोध इति सकलसंवरो अयोगकेवलिनः । सयोगकेवल्यंतेषु गुणस्थानेषु देशसंवरः प्रतिपत्तव्यः ॥ Page #496 -------------------------------------------------------------------------- ________________ सकैः क्रियत इत्याह ――― नवमोऽध्यायः । स गुप्तसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २ ॥ संसारकारणगोपनाद्गुप्तिः, सम्यगयनं समितिः, इष्टे स्थाने धत्ते इति धर्मः खभावानुचिंतनमनुप्रेक्षा, परिषह्यंते इति परीषहास्तेषां जयो न्यक्कारः, चारित्रशब्दो व्याख्यातार्थः । संवृण्वतो गुप्यादिभिः गुप्त्याद इति चास्रवनिमित्तकर्मसंवरणात् । स इति वचनं गुत्यादिभिः साक्षात्संबंधनार्थं ॥ कुतो गुत्यादिभिर्गुत्यादय एव वा संवरः स्यादित्याह ४८७ स चास्रवनिरोधः स्याद्गुत्यादिभिरुदीरितैः । तत्कारणविपक्षत्वात्तेषामिति विनिश्चयः ॥ १ ॥ तत्र गुप्तीनां तत्कारणविपक्षत्वं न तावदसिद्धं, कर्मागमनकारणानां कायादियोगानां विरोधिनः स्वरूपनिश्चयात् । तथा समित्यादीनां वा समित्यादितत्कारणविरुद्धभावनया प्रतिपादनात् ॥ अथ धर्मेन्तर्भूतेन तपसा किं संवर एव क्रियते किं वान्यदपि किंचिदित्यारेकायामिदमाह ; - तपसा निर्जरा च ॥३॥ धर्मेंतर्भावात् पृथग्ग्रहणमनर्थकमिति चेन्न, निर्जराकरणत्वख्यापनार्थत्वात् तपसः । प्रधानप्रतिपत्त्यर्थं च । संवरनिमित्तत्वसमुच्चयार्थश्चशब्दः । तपसोभ्युदयहेतुत्वान्निर्जरांगत्वाभाव इति चेन्न, एकस्यानेककार्यारंभदर्शनात् । गुणप्रधानफलोपपत्तेर्वा कृषीवलवत् । केन हेतुना तपसा निर्जरा च स्यात् संवरश्रेति सूत्रितं । संचितापूर्वाकर्माप्तिविपक्षत्वेन तस्य नु ॥ १ ॥ तपो पूर्वदोष निरोधि संचितदोषविनाशि च लंघनादिवत् प्रसिद्धं । ततस्तेन संवरनिर्नरयोः क्रिया न विरुध्यते ॥ अथ का गुप्तिरित्याह; - सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ योगशब्दो व्याख्यातार्थः, प्राकाम्याभावो निग्रहः, सम्यगिति विशेषणं सत्कारलोकपरिपंत्याद्याकांक्षानिवृत्त्यर्थं । तस्मात् कायादिनिरोधात्तन्निमित्तकर्मानास्रवणात् संवरप्रसिद्धिः । कीदृक् संवरस्तया विधीयत इत्याह योगानां निग्रहः सम्यग्गुप्तिस्त्रेधा तयोत्तमः । संवरो बंधहेतूनां प्रतिपक्षस्वभावया ॥ १ ॥ कः पुनः सकलं संवरं समासादयतीत्याह - अयोगः केवली सर्व संवरं प्रतिपद्यते । द्रव्यतो भावतश्चेति परं श्रेयः समश्नुते ॥ २ ॥ काः समितय इत्याह ; ईर्या भाषणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥ सम्यग्ग्रहणेनानुवर्तमानेन प्रत्येकमभिसंबंधः सम्यगीर्येत्यादिः । । समितिरित्यन्वर्थसंज्ञा वा तांत्रिका पंचानां । तत्र चर्यायां जीवबाधापरिहार ईर्यासमितिः, सूक्ष्मबादरैकद्वित्रिचतुरिंद्रियसंज्ञ्य संज्ञिपंचेंद्रियपर्याप्त का पर्याप्तकभेदाच्चतुर्दशजीवस्थानानि तद्विकल्पजीवबाधापरिहरणं समीर्यासमितिरित्यर्थः । हितमितासंदिग्धाभिधानं भाषासमितिः । अन्नादावुद्गमादिदोषवर्जनमेषणासमितिः, उद्गमादयो हि दोषाः - उद्गमोत्पादनैषणसंयोजनप्रमाणांगारकारणधूमप्रत्ययास्तेषां नवभिरपि कोटिभिर्वर्जनमेषणासमितिरित्यर्थः । Page #497 -------------------------------------------------------------------------- ________________ ४८८ तत्त्वार्थश्लोकवार्तिके [सू०४ धर्मोपकरणानां ग्रहणविसर्जनं प्रति यतनमादाननिक्षेपणासमितिः । जीवाविरोधेनांगमलनिहरणं समुत्सर्गसमितिः । वाकायगुप्तिरियमपीति चेन्न, तत्र सर्वकालविशेषे सति सर्वनिग्रहोपपत्तेः । ननु च पात्राभावात् पाणिपुटाहाराणां संवराभाव इति चेन्न, पात्रग्रहणात्परिग्रहदोषात् दैन्यप्रसंगाच्च । अन्नवत्तप्रसंग इति चेन्न, तेन विनाभावात् चिरकालं तपश्चरणस्य । नैवं तस्य पात्रादि विनाभाव इति न परमर्षिभिः पात्रादि ग्राह्यं प्रासुकान्नग्रहणवत् । कुतः समितीनां संवरत्वमित्याह सम्यक्प्रभृतयः पंचेाद्याः समितयः स्मृताः । असंयमभवस्यामिरास्रवस्य निरोधनं ॥१॥ तद्विपक्षत्वतस्तासामिति देशेन संवरः । समितौ वर्तमानानां संयतानां यथायथं ॥२॥ अथ धर्मप्रतिपादनार्थमाह;उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ॥६॥ प्रवर्तमानस्य प्रमादपरिहारार्थ धर्मवचनं, क्रोधोत्पत्तिनिमित्ताविसह्याक्रोशादिसंभवे कालुप्याभावः क्षमा, जात्यादिमदावेशाद्यभिमानाभावो मार्दवं, योगस्यावक्रतार्जवं, प्रकर्षप्राप्तलोभनिवृत्तिः शौचं, गुप्तावंतर्भाव इति चेन्न, तत्र मानसपरिस्पंदप्रतिषेधात् । आकिंचन्येऽवरोध इति चेन्न, तस्य नैर्मल्यप्रधानत्वात् । तच्चतुर्विधं शौचं ततोऽन्यदेव । कुत इति चेत् , जीवितारोग्येंद्रियोपभोगभेदात् तद्विषयप्राप्तप्रकर्षलोभनिवृत्तेः शौचलक्षणत्वात् । सत्सु साधुवचनं सत्यं । भाषासमितावंतर्भाव इति चेन्न, तत्र साध्वसाधुभाषाव्यवहारे हितमितार्थत्वात् । बहपि वक्तव्यं, अन्यथानर्थप्रसंगात् । न भाषादिनिवृत्तिः संयमो गुप्त्यंतर्भावात् । नापि कायादिप्रवृत्तिर्विशिष्टा संयमः, समितिप्रसंगात् । त्रसस्थावरबधात् प्रतिषेध आत्यंतिकः संयम इति चेन्न, परिहारविशुद्धिचारित्रंतर्भावात् । कस्तर्हि संयमः ! समितिषु वर्तमानस्य प्राणींद्रियपरिहारः संयमः, अतोपहृतसंयमभेदसिद्धिः । संयमो हि द्विविधः, उपेक्षासंयमो अपहृतसंयमश्चेति । देशकालविधानज्ञस्य परानुरोधनोत्सृष्टकायस्य त्रिधा गुप्तस्य रागद्वेषानभिषंगलक्षण उपेक्षासंयमः । अपहृतसंयमस्त्रिविधः उत्कृष्टो मध्यमो जघन्यश्चेति । तत्र प्रासुकवसत्याहारमात्रबाह्यसाधनस्य खाधीनेतरज्ञानचरणकरणस्य बाह्मजंतूपनिपाते सत्यप्यात्मानं ततोपहृत्य जीवान् परिपालयत उत्कृष्टः, मृदुना प्रमृज्य जंतूनपहरतो मध्यमः, उपकरणांतरेच्छया जघन्यः । तत्प्रतिपादनार्थः शुद्ध्यष्टकोपदेशः । भावशुद्ध्यादयोष्टौ शुद्धयः । तत्र भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्याहितप्रसादा रागाद्युपप्लबरहिता, तस्यां सत्यामाचारः प्रकाशते परिशुद्धभित्तिगतचित्रकर्मवत् । कायशुद्धिः निरावरणाभरणा निरस्तसंस्कारा यथाजातमलधारिणी निराकृतांगविकारा सर्वत्र प्रयतवृत्तिः प्रशमसुखं मूर्तिमंतं प्रदर्शयंती, तस्यां सत्यां न खतोस्य भयं उपजायते नाप्यन्यतस्तस्य कारणाभावात् । विनयशुद्धिः अहंदादिषु परमगुरुषु यथार्हपूजाप्रवणा ज्ञानादिषु च यथाविधि भक्तियुक्ता गुरोः सर्वत्रानुकूलवृत्तिः प्रश्नखाध्यायवाचना कथाविज्ञापनादिषु प्रतिपत्तिकुशला देशकालभावावबोधनिपुणा सदाचार्यमतानुचारिणी, तन्मूलाः सर्वसंपदः । ईर्यापथशुद्धिः नानाविधजीवस्थानयोन्याश्रयावबोधजनितप्रयत्नपरिहृतजंतुपीडाज्ञानादित्यस्खेंद्रियप्रकाशनिरीक्षितदेशगामिनी द्रुतविलंबितसंभ्रांता विस्मितलीलाविकारदिगंतरावलोकनादि विरहितगमना, तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । भिक्षाशुद्धिः परीक्षितोभयप्रचारा प्रमृष्टपूर्वापरखांगदेशविधाना आचारसूत्रोक्तकालदेशप्रवृत्तिप्रतिपत्तिकुशला लाभालाभमानप्रतिमानसमानमनोवृत्तिः लोकगर्हितकुलपरिवर्जनपरा चंद्रगतिरिव हीनाधिकगृहा विशिष्टोपस्थाना दीनानाथदानशा Page #498 -------------------------------------------------------------------------- ________________ D नवमोऽध्यायः । ४८९ लाविवाहयजनगेहादिपरिवर्जनोपलक्षितदीन वृत्तिविगमा प्रासुकाहारगवेषप्रणिधाना आगमविधिना निरवद्याशनपरिप्राप्तप्राणयात्राफलात्तत्प्रतिबद्धा हि चरणसंपत् गुणसंपदिव साधुजन सेवानिबंधका लाभालाभयोः सुरसविरसयोश्च समसंतोषवद्भिर्भिक्षेति भाष्यते, यथा सलीलसालंकारवर युवतिभिरुपनीयमानघासो गौर्न तदंगगतसौंदर्यनिरीक्षणपरः तृणमेवाति यथा वा तृणलवं नानादेशस्थं यथालाभमभ्यवहर न योजनासंपदमवेक्षते, तथा भिक्षुरपि भिक्षापरिवेषकजनमृदुललित रूपवेषविलासविलोकननिरुत्सुकः शुष्कद्रवाहारयोजनाविशेषं वानपेक्षमाणः यथागतमश्नातीति गौरिव गोर्वा चारो गोचर इति च व्यपदिश्यते तथा गवेषणेति च । यथा शकटं रत्नभारपरिपूर्ण येन केनचित् स्नेहेनाक्षलेपं कृत्वाभिलषितं देशांतरं वणिग्जनो नयति तथा मुनिर्गुणरत्नभरितां तनुशकटिमनवद्यभिक्षयायुरक्षम्रक्षणेनाभिप्रेतसमाधिपत्तनं प्रापयतीति अक्षम्रक्षणमिति च नाम निरूढं । यथा भांडागारे समुत्थितमनलमशुचिना शुचिना वा वारिणा शमयति गृही यतिरपीति उदराग्निप्रशमनमिति च निरुच्यते, दातृजनबाधया विना कुशलो मुनिः भ्रमरवदाहरतीति भ्रमराहार इत्यपि परिभाष्यते, येन केनचित्प्रकारेण श्वभ्रपूरणवदुदरगर्तमनगारः पूरयति खादुनेतरेण वाहारेणेति श्वभ्रपूरणमिति च निरुच्यते । प्रतिष्ठापनशुद्धिपरः संयतः नखरोमसिंघाणकनिष्ठीवनशुक्रोच्चारप्रस्रवणशोधने देहपरित्यागे च विदितदेशकालो जंतूपरोधमंतरेण प्रयतते । संयतेन शयनासनशुद्धिपरेण स्त्रीवधिकचौरपानशौंडशाकुनिकादिपापजनवासाः वाद्याः शृंगारविकारभूषणोज्ज्वलवेशवेश्याक्रीडाभिरामगीतनृत्यवादित्राकुलशालादयः परिहर्तव्याः, अकृत्रिमाः गिरिगुहांतरकोटरादयः कृत्रिमाश्च शून्यागारादयो मुक्तमोचितावासाः अनात्मोद्देशनिर्वर्तिताः निरारंभाः सेव्याः । वाक्यशुद्धिः पृथिवीकायकारंभादिप्रेरणरहिता परुषनिष्ठुरादिपरपीडाकरणप्रयोगनिरुत्सुका व्रत - शीलदेशनादिप्रधानफला हितमितमधुरमनोहरा संगतयोग्या तदधिष्ठाना हि सर्वसंपद इति, शुद्ध्यष्टकमुपदिष्टं भगवद्भिः संयमप्रतिपादनार्थं । ततो निरवद्यः संयमः स्यात् । तपो वक्ष्यमाणभेदं । परिग्रहनिवृत्तिस्त्यागः । अभ्यंतरतपोविशेषोत्सर्गग्रहणात् सिद्धिरिति चेन्न तस्यान्यार्थत्वात् । शौचवचनात्सिद्धिरिति चेन्न, तत्रासत्यपि गर्धोत्पत्तेः, दानं वा स्वयोग्यं त्यागः । ममेदमित्यभिसंधिनिवृत्तिराकिंचन्यं । अनुभूतांगनास्मरणकथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनात् ब्रह्मचर्य, स्वातंत्र्यार्थ गुरौ ब्रह्मणि चर्यमिति वा । अन्वर्थसंज्ञाप्रतिपादनार्थत्वाद्वा पौनरुत्यं गुत्याद्यतर्भूतानामपि संवरधारणसामर्थ्याद्धर्म इति संज्ञाया अन्वर्थताप्रतिपत्तेरन्यथानुपपत्तेरित्यर्थगतं । तद्भावनाप्रकारत्वाद्वा सप्तप्रकारप्रतिक्रमणवत्, सप्तप्रकारं हि प्रतिक्रमणमीर्यापथिकरात्रिंदिवीय पाक्षिकचातुर्मासिकसांवत्सरिकोत्तमस्थानलक्षणत्वात् । तच्च गुप्यादिप्रतिस्थापनार्थं यथा भाव्यते तथोत्तमक्षमादिदशविधधर्मोपि । ततस्तत्रांतर्भूतस्यापि पृथग्वचनं नाद्यं । उत्तमविशेषणं दृष्टप्रयोजनपरिवर्जनार्थं । सर्वेषां स्वगुणप्रतिपक्षदोषाभावात्संवर हेतुत्वं । कथमित्याह " दृष्टार्यापेक्षाणि क्षमादीन्युत्तमानि तु । स्याद्धर्मः समितिभ्योऽन्यः क्रोधादिप्रतिपक्षतः ॥ १ ॥ क्रोधादिप्रतिपक्षत्वमित्येव धर्मः, उत्तमायाः क्षमायाः क्रोधप्रतिपक्षत्वात् मार्दवार्जवशौचानां मानमायालोभविपक्षत्वात् सत्यादीनामनृता संयमातपोऽत्यागममत्वाब्रह्मप्रतिकूलत्वाच्च । स हि धर्म उत्तमक्षमादीन्येव समितिभ्योन्यः सूत्रितः । नन्वत्र व्यक्तिवचनभेदाद्वैलक्षण्यमिति चेन्न, सर्वेषां धर्मभावाव्यतिरेकस्यैकत्वादाविष्टलिंगत्वाच्च । कस्य पुनः संवरस्य हेतुर्धर्म इत्याह तन्निमित्तास्रवध्वंसी यथायोगं स देशतः । संवरस्य भवेद्धेतुरसंयतदृगादिषु ॥ २ ॥ क्रोधादिनिमित्तकास्रवध्वसीन्युत्तमक्षमादीनि निश्चितानीति तत्स्वभावो धर्मस्तन्निमित्तताप्रध्वंसी कथ्यते । ६२ - Page #499 -------------------------------------------------------------------------- ________________ ४९० तत्त्वार्थश्लोकवार्तिके [सू०८ स यथायोगं देशतः संवरस्य हेतु वेदसंशयमेव असंयतसम्यग्दृष्ट्यादिषु तत्संभवात् । तथाहि असंयतसम्यग्दृष्टौ तावदनंतानुबंधिक्रोधादिप्रतिपक्षभूताः क्षमादयः संभवत्येव । संयतासंयते वानंतानुबं. ध्यप्रत्याख्यानावरणक्रोधादिविपक्षाः, प्रमत्तसंयतादिषु सूक्ष्मसांपरायांतेषु पुनरनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणप्रतिबंधिनः, उपशांतकषायादिषु समस्तक्रोधादिसंपन्नाः संगच्छंते विरोधाभावात् । एवं संयमादयोपि प्रमत्तसंयतादिषु यथायोगं संभवंतः प्रतिपत्तव्याः। ते च स्वप्रतिपक्षहेतुकासवनिरोधनिबंधनत्वाद्देशसंवरस्य हेतवः स्युः ॥ अथानुप्रेक्षाप्रतिपादनार्थमाह;अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदु र्लभधर्मस्वाख्यातत्वानुचिंतनमनुप्रेक्षाः ॥७॥ उपात्तानुपात्तद्रव्यसंयोगव्यभिचारखभावोऽनित्यत्वं, क्षुधितव्याघ्राभिद्रुतमृगशावकवजंतोर्जरामृत्युरुजांतरपारेत्राणाभावोऽशरणत्वं, द्रव्यादिनिमित्तादात्मनो भवांतरावाप्तिः संसारः, जन्मजरामरणावृत्तिमहादुःखानुभवनं प्रति सहायानपेक्षत्वमेकत्वं, शरीरव्यतिरेको लक्षणभेदोऽन्यत्वं, अशुभकारणत्वादिभिरशुचित्वं, आस्रवसंवरनिर्जराग्रहणमनर्थकमुक्तत्वादिति चेन्न, तद्गुणदोषान्वेषणपरत्वादिह तद्ब्रहणस्य । लोकसंस्थानादिविधिर्व्याख्यातः, रत्नत्रय(त्रस)भावादिलाभस्य कृच्छ्रपतिपत्तिबर्बोधिदुर्लभत्वं, जीवस्थानगुणस्थानानां गत्यादिषु मार्गणालक्षणो धर्मो व्याख्यातः । गतींद्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यामव्यसम्यक्त्वसंज्ञाहारकेषु मार्गणा । खाख्यात इति चेन्न, प्रादिवृत्तेः शोभनमाख्यात इति । अनुप्रेक्षा इति भावसाधनत्वे बहुवचनविरोधः, कर्मसाधनत्वे सामानाधिकरण्याभाव इति चेन्न वा, कृदभिहितस्य भावस्य द्रव्यवद्भावात् सामानाधिकरण्यसिद्धेश्चोभयोः कर्मसाधनत्वात् । मध्येनुप्रेक्षावचनमुभयनिमित्तत्वात् । धर्मपरीषहजययोर्निमित्तभूता ह्यनुप्रेक्षास्तन्मध्येऽभिधीयते । कुतस्ताः कथ्यंत इत्याह; अनुप्रेक्षाः प्रकीयते नित्यत्वाद्यनुचिंतनं । द्वादशात्राननुप्रेक्षाविपक्षत्वान्मुनीश्वरैः ॥ १ ॥ परिकल्पिता एवानित्यत्वादयो धर्मास्तेषामात्मनि शरीरादिषु च परमार्थतोसत्त्वादित्यपरे तान् प्रत्याह;अनित्यत्वादयो धर्माः संत्यात्मादिषु तात्त्विकाः। तथा साधनसद्भावाः सर्वेषां शेषतत्त्ववत्॥२॥ ततोनुचिंतनं तेषां नासतां कल्पितात्मनां । नाप्यनर्थकमिष्टस्य संवरस्य प्रसिद्धितः॥३॥ अथानुप्रेक्षानंतरं परीषहजयं प्रस्तुवानः सर्वपरीपहाणां सहनं तेत्र किमर्थं सोढव्या इत्याह; मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥८॥ परीषहा इति महत्वादन्वर्थसंज्ञा । प्रकरणात् संवरमार्गप्रतिपत्तिः । तदच्यवनाओं निर्जरार्थश्च परीषहजयः । तत्र मार्गाच्यवनार्थत्वं कथमस्येत्याह मार्गाच्यवनहेतुत्वं परीषहजयख सत् । परीषहाजये मार्गच्यवनस्य प्रतीतितः ॥१॥ निर्जरार्थत्वं कथमित्याह;निर्जराकारणत्वं च तपःसिद्धिपरत्वतः । तदभावे तपोलोपानिर्जरा कातिशक्तितः ॥२॥ परिषोढव्यतां प्राप्तास्तसादेते परीषहाः । परीपहजयोत्थानामास्रवाणां विरोधतः ॥३॥ के पुनस्ते परीषहा इत्याह; Page #500 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः । १९१ क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानाद र्शनानि ॥९॥ परीषहा इति सामानाधिकरण्येनाभिसंबंधो व्यक्तिभेदेपि सामान्यविशेषयोः कथंचिदभेदात् । तेन क्षुधादयो द्वाविंशतिः परीषहाः । तत्र प्रकृष्टक्षुदग्निप्रज्वलने धृत्यंभसोपशमः क्षुज्जयः । उदन्योदीरणहेतूपनिपाते तद्वशाप्राप्तिः पिपासासहनं । पृथगवचनमैकार्थ्यादिति चेन्न, सामर्थ्यभेदात् । अभ्यवहारसामान्यादैकार्थ्यमिति चेन्न, अधिकरणभेदात् । शैत्यहेतुसंनिपाते तत्प्रतीकारानभिलाषात् संयमपरिपालनं शीतक्षमा । दाहप्रतीकारकांक्षाभावाच्चारित्ररक्षणमुष्णसहनं, दंशमशकादीनां सहनं । दंशमशकमात्रप्रसंग इति चेन्न, उपलक्षणत्वात् मशकशब्दस्य दंशजातीयानामादिशब्दार्थप्रतिपत्तेः । जातरूपधारणं नाम्यसहनं, संयमेऽरतिभावादरतिपरीषहजयः । सर्वेषामरतिकारणत्वात् पृथगरतिग्रहणानर्थक्यमिति चेन्न, क्षुदाद्यभावेपि मोहोदयात्तत्प्रवृत्तेः । वरांगनारूपदर्शनस्पर्शनादिविनिवृत्तिः स्त्रीपरीषहजयः । व्रज्यादोपनिग्रहश्चर्याविजयः । संकल्पितासनादविचलनं निषद्यातितिक्षा । आगमोदितशयनादप्रच्यवनं शय्या. सहनं । अनिष्टवचनसहनमाक्रोशपरीषहजयः । मारकेष्वमर्षापोहनभावनं वधमर्षणं । प्राणात्ययेप्याहारादिषु दीनाभिधाननिवृत्तिर्याचनाविजयः । अलाभेपि लाभवत्संतुष्टस्यालाभविजयः । नानाव्याधिप्रतीकारानपेक्षत्वं रोगसहनं । तृणादिनिमित्तवेदनायां मनसोऽप्रणिधानं तृणस्पर्शजयः । स्वपरांगमलोपचयापचयसंकल्पाभावो मलधारणं । केशखेदसहनोपसंख्यानमिति चेन्न, मलपरीषहावरोधात् । मानापमानयोस्तुल्यमनसः सत्कारपुरस्कारानभिलाषः । प्रज्ञोत्कर्षापलेपनिरासः प्रज्ञाविजयः । अज्ञानावमानज्ञानाभिलाषसहनमज्ञानपरीषहजयः। प्रव्रज्याद्यनर्थकत्वासमाधानमदर्शनसहनं । श्रद्धानालोचनग्रहणमविशेपादिति चेन्न, अव्यभिचारदर्शनार्थत्वात् । मनोरथपरिकल्पनामात्रमिात चेन्न, वक्ष्यमाणकारणसामर्थ्यात् । अवध्यादिदर्शनोपसंख्यानमिति चेन्न, अवधिज्ञानाद्यभावे तत्सहचरितदर्शनाभावादज्ञानपरीषहावरोधात् । ननु क्षुदादीनां परिसोढव्यत्वसिद्धिः कथमित्याह ते च क्षुदादयः प्रोक्ता द्वाविंशतिरसंशयं । परिषद्यतया तेषां तत्त्वसिद्धिर्विशुद्धये ॥१॥ ते क्षुदादयो हि द्वाविंशतिपरीषहाः परिसोढव्याः प्रोक्ताः सूत्रकारैरसंशयं तेषां विशुद्ध्यर्थ परिषह्यत्वात् तत एवान्वर्था संज्ञा महती कृता परीषहा इत्युक्तं ॥ अथ कस्मिन् गुणस्थाने कियंतः संभवंतीत्याह; सूक्ष्मसांपरायछद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ चतुर्दशवचनादन्यस्याभावः । सूक्ष्मसांपराये नियमानुपपत्तिर्मोहोदयादिति चेन्न, सन्मात्रत्वात् तत्र तस्य । अत एव परीषहाभाव इति चेन्न, बाधाविशेषोपरमे तद्भावस्याविरध्यासितत्वात् सर्वार्थसिद्धस्य सप्तमनरकपर्यंतगमनसामर्थ्यवत् । कथं पुनः सूक्ष्मसांपराये गुणे तद्वति वा छद्मस्थवीतरागे चानुत्पन्नकेवलज्ञाने क्षीणोपशांतमोहे चतुर्दशैव परीषहाः क्षुदादय इति प्रतिपादयन्नाह; स्युः सूक्ष्मसांपराये च चतुर्दश परीपहाः । छद्मस्थवीतरागे च ततोन्येषामसंभवात् ॥१॥ छद्मस्थवीतरागे हि मोहाभावान्न तत्कृताः । अष्टौ परिषहाः संति तथातोन्ये चतुर्दश ॥२॥ ते सूक्ष्मसांपरायेपि तथाकिंचित्करत्वतः । सतोपि मोहनीयस्य सूक्ष्मस्पति प्रतीयते ॥३॥ Page #501 -------------------------------------------------------------------------- ________________ ४९२ तत्त्वार्थश्लोकवार्तिके [सू० १३ वेदनीयनिमित्तास्ते मा भूवंस्तत एव चेत् । व्यक्तिरूपा न संत्येव शक्तिरूपेण तत्र ते ॥४॥ मोहनीयसहायस्य वेदनीयस्य तत्फलं । केवलस्यापि तद्भावेतिप्रसंगो हि दुस्त्यजः ॥५॥ न हि साधनादिसहायस्यामेधूमः कार्यमिति केवलस्यापि स्यात् । तथा मोहसहायस्य वेदनीयस्य यत्फलं क्षुदादि तदेकाकिनोपि न युज्यत एव तस्य सर्वदा मोहानपेक्षत्वप्रसंगात् । तथा च समाध्यवस्थायामपि कस्यचिदुद्भूतिप्रसंगः । तस्मान्न क्षुदादयः सूक्ष्मसांपराये व्यक्तिरूपाः संति मोहादिसहायासंभवात् छद्मस्थवीतरागवदिति, शक्तिरूपा एव ते तत्रावगंतव्याः ॥ अथ भगवति केवलिनि कियंतः परीषहा इत्याह; एकादश जिने ॥ ११ ॥ तत्र केचित् संतीति व्याचक्षते, परे तु न संतीति । तदुभयव्याख्यानाविरोधमुपदर्शयन्नाह;एकादश जिने संति शक्तितस्ते परीषहाः । व्यक्तितो नेति सामर्थ्याद्याख्यानद्वयमिष्यते ॥१॥ वेदनीयोदयभावात् क्षुदादिप्रसंग इति चेन्न, घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् । तद्भावोपचाराध्यानकल्पनवच्छक्तित एव केवलिन्येकादशपरीषहाः संति न पुनर्व्यक्तितः, केवलाद्वेदनीयाध्यक्तक्षुदाद्यसंभवादित्युपचारतस्ते तत्र परिज्ञातव्याः । कुतस्ते तत्रोपचर्यते इत्याह लेश्यैकदेशयोगस्य सद्भावादुपचर्यते । यथा लेश्या जिने तद्वद्वेदनीयस्य तत्त्वतः ॥२॥ घातिहत्युपचर्यते सत्तामात्रात् परीषहाः । छमस्थवीतरागस्य यथेति परिनिश्चितं ॥३॥ न क्षुदादेरभिव्यक्तिस्तत्र तद्धेतुभावतः । योगशून्ये जिने यद्वदन्यथातिप्रसंगतः ॥४॥ . नैकं हेतुः क्षुदादीनां व्यक्तौ चेदं प्रतीयते । तस्य मोहोदयाद्यक्तेरसद्वेद्योदयेपि च ॥५॥ क्षामोदरत्वसंपत्तौ मोहापाये न सेक्ष्यते । सत्याहाराभिलापेपि नासद्वेद्योदयादृते ॥६॥ न भोजनोपयोगस्यासत्त्वेनाप्यनुदीरणा । असातावेदनीयस्य न चाहारेक्षणाद्विना ॥७॥ क्षुदित्यशेषसामग्रीजन्याभिव्यज्यते कथं । तद्वैकल्ये सयोगस पिपासादेरयोगतः ॥८॥ क्षुदादिवेदनोद्भूतौ नाहतोऽनंतशर्मता । निराहारस्य चाशक्तौ स्थातुं नानंतशक्तिता ॥९॥ नित्योपयुक्तबोधस्य न च संज्ञास्ति भोजने । पाने चेति क्षुदादीनां नाभिव्यक्तिर्जिनाधिपे ॥१० अथ बादरसांपराये कियंतः परीषहा इत्याह; बादरसांपराये सर्वे ॥ १२ ॥ बादरसांपरायग्रहणात् प्रमत्तादिनिर्देशः निमित्तविशेषस्याक्षीणत्वात् सर्वेषु सामायिकछेदोपस्थापनापरिहारविशुद्धिसंयमेषु सर्वसंभवः । केन रूपेण ते तत्र संतीत्याह बादरः सांपरायोस्ति येषां सर्वे परीषहाः। संति तेषां निमित्तस्य साकल्यायक्तिरूपतः॥१॥ अथ कस्मिन्निमित्ते कः परीषहः ? ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ज्ञानावरणे अज्ञानं न प्रज्ञेति चेन्न, ज्ञानावरणसद्भावे तद्भावात् । मोहादिति चेन्न, तद्भेदानां परिगणितत्वात् । सावलेपायाः प्रज्ञाया अपि ज्ञानावरणनिमित्तत्वोपपत्तेः मिथ्याज्ञानवत् । एतदेवाहज्ञानावरणनिष्पाद्ये प्रज्ञाज्ञाने परीषहौ । प्रज्ञावलेपनिवृत्तेानावरणतोन्यतः ॥१॥ अन्यद्विज्ञानावरणं प्रज्ञावलेपनिमित्तमज्ञाननिमित्ताद् ज्ञानावरणात् । न चैवं ज्ञानावरणोत्तरप्रकृतिसंज्ञाक्षतिस्तस्य मतिज्ञानावरणमात्रोपरोधात् ॥ Page #502 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः। दर्शनमोहांतराययोरदर्शनालाभौ ॥ १४ ॥ किं पुनरदर्शनमत्रेत्याहअदर्शनमिहार्थानामश्रद्धानं हि तद्भवेत् । सति दर्शनमोहेऽस्य न ज्ञानात् प्रागदर्शनं ॥१॥ विशिष्टकारणनिर्देशादवध्यादिदर्शनसंदेहाभावः । अंतराय इति सामान्यनिर्देशेपि सामर्थ्याद्विशेषसंप्रत्ययः । कः पुनरसौ विशेष इत्याह; अंतरायोत्र लाभस्य तद्योग्योर्थाद्विशेषतः । कारणस्य विशेषाद्धि विशेषः कार्यगः स्थितः ॥२॥ तेन दर्शनमोहोदये तत्त्वार्थाश्रद्धानलक्षणमदर्शनं, लाभांतरायोदये चालाभ इति प्रकाशितं भवति ॥ चारित्रमोहे नाम्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥ निषद्यापरीषहस्य मोहोदयनिमित्तत्वं प्राणिपीडार्थत्वात् , पुंवेदोदयादिनिमित्तत्वान्नाग्यादीनामिति चारित्रमोहोदयनिबंधना एते । तदेवाहनाम्याद्याः सप्त चारित्रमोहे सति परीपहाः । सामान्यतो विशेषाच तद्विशेषेषु तेर्थतः॥१॥ ज्ञानावरणमोहांतरायसंभूतयो मताः । इत्येकादश ते तेषामभावे तत्कचित्सदा ॥२॥ वेदनीये शेषाः॥१६॥ उक्तादन्यनिर्देशः शेष इति । ते च क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीपहाः । किमेकाकिन्येव वेदनीयेमी भवत्युत सहकारापेक्षे सतीत्याशंकायामिदमाह शेषाः स्युर्वेदनीये ते समग्रसहकारिणि । इति सर्वत्र विज्ञेयमसाधारणकारणं ॥१॥ ननु ज्ञानावरणे इत्यादिसूत्रेषु विभक्तिविशेषे निमित्तात्कर्मसंयोग इति चेन्न, तद्योगाभावात् । न हि यथा चर्मणि द्वीपिनं हंतीत्यत्र कर्मसंयोगस्तथानास्ति ततोयं सन्निर्देशस्तदुपलक्षणत्वात् गोषु दुह्यमानासु गत इत्यादिवत् ॥ अत्रैकस्मिन्नात्मनि सकृत् कियंतः परीषहाः संभवंतीत्याह; एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतः ॥ १७ ॥ आङभिविध्यर्थः । शीतोष्णशय्यानिषद्याचर्यानामसहभावाच्चैकानविंशतिसंभवः । प्रज्ञाज्ञानयोर्विरोधादन्यतराभावे अष्टादशप्रसंग इति चेन्न, अपेक्षातो विरोधाभावात् । श्रुतज्ञानापेक्षया हि प्रज्ञाप्रकर्षे सत्यवध्याद्यभावापेक्षयाऽज्ञानोपपत्तेः । दंशमशकस्य युगपत्प्रवृत्तेरेकोनविंशतिविकल्प इति चेन्न, प्रकारार्थत्वात् । मशक एवेत्ययं परीषहोन्यथातिप्रसंगात् । दंशग्रहणात्तुल्यजातीय इति चेन्न, श्रुतिविरोधात् । न हि दंशशब्दः प्रकारमभिधत्ते । मशकशब्दोपि तत्तुल्यमिति चेन्न, अन्यतरेण परीषहस्य निरूपितत्वात् । न हि दंशशब्देन निरूपिते परीषहे मशकशब्दग्रहणं तदर्थमेव युक्तमतः प्रकारोांतर इति निश्चयः । चर्यानिषद्याशय्यानामरतेरविशेषादेकानविंशतिवचनमिति चेन्न, अरतौ परीषहजयाभावात् । न हि चर्यानिषद्याशय्यानामरतेरेकत्वादेकत्वं युक्तं तत्र अरतौ परीषहजयायोगात् , तत्कृतपीडासहनात् । परीषहजयेन्यत्वमेव तेषामिति द्वाविंशतिवचनमेव युक्तं । तस्मात् सकृदेकादयो भाज्याः कचिदेकानविंशतिः । विंशत्यादेरसंभूतेविरोधादन्यथापि वा ॥१॥ इत्युक्तेर्नियमाभावः सिद्धस्तेषां समुद्भवे । सहकारिविहीनत्वप्रोक्तहेतोरशक्तितः ॥२॥ Page #503 -------------------------------------------------------------------------- ________________ ४९४ तत्त्वार्थश्लोकवार्तिके किं पुनश्चारित्रमित्याह;— सामायिक छेदोपस्थापनापरिहारविशुद्धि सूक्ष्मसांपराययथाख्यातमिति चारित्रम् ॥ १८ ॥ " सामायिकशब्दोतीतार्थः । सामायिकमिति वा समासविषयत्वात् अयंतीत्यायाः सत्त्वघात हेतवोऽनर्थाः संगता आयाः समायाः सम्यग्वा आयाः समायास्तेषु भवं सामायिकं समायाः प्रयोजनमस्येति च सामायिकमिति समासविषयत्वं सामायिकस्यावस्थानस्य । तच्च सर्वसावद्ययोगप्रत्याख्यानपरं । गुप्तिप्रसंग इति चेन्न, इह मानसप्रवृत्तिभावात् । समितिप्रसंग इति चेन्न तत्र यतस्य प्रवृत्त्युपदेशात् । धर्मप्रसंग इति चेन्न, अत्रेतिवचनस्य कृत्स्नकर्मक्षयहेतुत्वज्ञापनार्थत्वात् । प्रमादकृतानर्थप्रबंध विलोपे सम्यक् प्रतिक्रिया छेदोपस्थापना, विकल्पनिवृत्तिर्वा । परिहारेण विशिष्टा शुद्धिर्यस्मिन् तत्परिहारविशुद्धिचारित्रं । तत्पुनस्त्रिंशद्वर्षजातस्य संवत्सरपृथक्त्वं तीर्थकरपादमूलसेविनः प्रत्याख्याननामधेयपूर्वपारावारपारंगतस्य जंतुनिरोधप्रादुर्भावकालपरि माणजन्मयोनिदेशद्रव्यखभावविधानज्ञस्य प्रमादरहितस्य वा महावीर्यस्य परमनिर्जरस्यातिदुष्कर चर्यानुष्ठायिनः तिस्रः संध्या वर्जयित्वा द्विगव्यूतिगामिनः संपद्यते नान्यस्य मनागपि तद्विपरीतस्येति प्रतिपत्तव्यं । अतिसूक्ष्मकषायत्वात् सूक्ष्मसांपरायं तस्य गुप्तिस मित्योरंतर्भाव इति चेन्न, तद्भावेपि गुणनिमित्तविशेषाश्रयणात् । लोभसंज्वलनाख्यसांपरायः सूक्ष्मोस्मिन् भवतीति विशेष आश्रितः । निरवशेषशांतक्षीणमोहत्वाद्यथाख्यातचारित्रं, यथा ख्यातमिव आत्मखभावाव्यतिक्रमेण ख्यातत्वात् । इतेरुपादानं ततः कर्मसमाप्तेर्ज्ञापनार्थत्वात् । यथाख्यातचारित्रसिद्धा सकलकर्मक्षयपरिसमाप्तिः । सामायिकादीनामुत्तरोत्तरगुणप्रकर्षख्यापनार्थमानुपूर्व्यवचनं, प्राच्यचारित्रद्वय विशुद्धेरल्पत्वादुत्तरचारित्रापेक्षया परिहारविशुद्धि चारित्रस्य ततोनंतगुणजघन्यशुद्धित्वात् । तस्यैव तदनंतगुणोत्कृष्ट विशुद्धित्वात् पूर्वचारित्रद्वयस्य तदनंतगुणोत्कृष्टविशुद्धित्वात् । ततः सूक्ष्मसांपरायस्यानंतगुणजघन्यविशुद्धित्वात् तस्यैव तदनंतगुणोत्कृष्टत्वात्, ततो यथाख्यातचारित्रस्य संपूर्णविशुद्धित्वात् । एतदेवाह - सामायिकादि चारित्रं सूत्रितं पंचधा ततः । संवरः कर्मणां ज्ञेयो चारित्रापेक्षजन्मनां ॥ १ ॥ धर्मातर्भूतमप्येतत्संयमग्रहणादिह । पुनरुक्तं प्रधानत्वख्यातये निर्वृतिं प्रति ॥ २॥ अथ तपोवचनं धर्मातर्भूतं तद्विविधं बाह्यमाभ्यंतरं च तत्र बाह्यभेदप्रतिपत्त्यर्थमाह; - अनशनावमौदर्यवृत्तिपरिसंख्यानरस परित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं तपः ॥ १९ ॥ दृष्टफलानपेक्षं संयमप्रसिद्धिरागोच्छेदकर्मविनाशध्यानानागमावाहयर्थमनशनं । तद्विविधं अवधृतानवधृतकालभेदात् । संयमप्रजागर दोषप्रशमनसंतोषखाध्यायमुखसिद्ध्यर्थमवमौदर्यं । एकागारसप्तवेश्मैकरसार्धग्रासादिविषयसंकल्पो वृत्तिपरिसंख्यानं । दांतेंद्रियत्वते जोहानिसंयमोपरोधव्यावृत्त्याद्यर्थं घृतादिरसपरित्यजनं रसपरित्यागः । रसवत्परित्याग इति चेन्न, मतोर्लुप्तनिर्दिष्टत्वात् शुक्लपट इत्यादिवत् । अव्यतिरेकाद्वा तद्वत्संप्रत्ययः । सर्वत्यागप्रसंग इति चेन्न प्रकर्षगतेः । प्रकृष्टरसस्यैव द्रव्यस्य त्यागसंप्रत्ययात् । प्रतिज्ञातगंधत्यागस्य प्रकृष्टगंधकस्तूरिकादित्यागवत् । कश्चिदाह - अनशनावमैौदर्यरसपरित्यागानां वृत्तिपरिसंख्यानाधारात् पृथनिर्देशः । तद्विकल्पनिर्देश इति चेन्न, अनवस्थानात् । तं प्रत्याह नवा, कायचेष्टा विषयगणनार्थत्वाद्वृत्तिपरिसंख्यानस्य । अनशनस्याभ्यवहर्तव्यनिवृत्तिरूपत्वादव मौदर्यरसपरित्यागयोरभ्यवहर्तव्यैकदेशनिवृत्तिपरत्वात्ततो भेदप्रसिद्धेः । आबाधात्ययब्रह्मचर्यखाध्यायध्यानादिप्रासेद्ध्यर्थं [ सू० १९ Page #504 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः । विविक्तशय्यासनं । कायक्लेशः स्थानमौनातपनादिरनेकधा । देहदुःखतितिक्षासुखानभिष्वंगप्रवचनप्रभावनाद्यर्थः । परीपहजातीयत्वात् पौनरुक्त्यमिति चेन्न, खकृतक्लेशापेक्षत्वात् कायक्लेशस्य । सम्यगित्यनुवृत्तेर्दृष्टफलनिवृत्तिः, सम्यग्योगनिग्रहो गुप्तिरित्यतः सम्यग्रहणमनुवर्तते । बाह्यद्रव्यापेक्षत्वाद्वाह्यत्वं, परप्रत्यक्षत्वात् तीर्थ्यग्रहस्थ कार्यत्वाच्चानशनादेः । एतच्च कर्मनिर्दहनात्तपः, देहेंद्रियतापाद्वा । केषा पुनः कर्मणां संवरः स्यात्तपसोऽस्मादित्याह ; पोढा बाह्यं विनिर्दिष्टं तपोत्रानशनादि यत् । संवरस्तेन च ज्ञेयो ह्यतपोहेतुकर्मणां ॥ १ ॥ अथाभ्यंतरं तपः प्रकाशयन्नाह ; - प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ तप इति संबध्यते । अस्यान्यतीर्थानभ्यस्तत्वादुत्तरत्वं अभ्यंतरत्वमिति यात्रत्, अंतःकरणव्यापाराद्वाह्यद्रव्यानपेक्षत्वात् । खत एतच्च स्वसंवेद्यमिति दर्शयन्नाह - प्रायश्चित्तादिषड्भेदं तपः संवरकारणं । स्यादुत्तरं स्वसंवेद्यमिति स्पष्टमनोगतं ॥ १ ॥ तद्भेदगणनार्थमाह ; ४९५ नवचतुर्दशपंचदिभेदा यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ नवादीनां भेदशब्देनोपसंहितानामन्यपदार्था वृत्तिः । द्विशब्दस्य पूर्वनिपातप्रसंग इति चेन्न, पूर्वसू - त्रापेक्षत्वात् । शाब्दान्यायाद्वंद्वे स्युरल्पाच्तरमिति सूत्रात्संयोगादल्पीयस इत्युपसंख्यानाच्च द्विशब्दस्य पूर्वनिपातप्रसक्तावप्यर्थान्यायात् प्रायश्चित्तादिसूत्रार्थापेक्षया यथाक्रममभिसंबंधार्थ लक्षणमुल्लंघ्यते, अर्थस्य बलीयस्त्वात् लक्ष्यानुविधानाल्लक्षणस्य । एते च नवादयः प्रभेदा इत्याह प्रोक्ता नवादयो भेदाः प्राग्ध्यानात्ते यथाक्रमं । प्रायश्चित्तादिभेदानां तपसोभ्यंतरस्य हि ॥ १ ॥ यतस्तपसोऽभ्यंतरस्य प्रायश्चित्तादय एव भेदात्मानो नवादयस्तेषां भेदा इति प्रभेदास्ते । प्राग्ध्याना - दितिं वचनं यथासंख्यप्रतिपत्त्यर्थं ॥ तत्रास्य तपोभेदस्य नवविकल्पान् प्रतिपादयन्नाह ; — आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥२२॥ प्रायश्चित्तस्य नव विकल्पाः प्रमाददोषव्युदासभावप्रसाद निःशल्यानवस्थाव्यावृत्तिमर्यादा त्यागसंयमदार्व्यभावनादिसिद्ध्यर्थं प्रायश्चित्तं प्रायोपराधस्तस्य चित्तं विशुद्ध्यर्थमित्यर्थः । तस्यालोचनादयो निरवद्यवृत्तयो नव विकल्पा भवतीत्याह आलोचनादयो भेदाः प्रायश्चित्तस्य ते नव । यथागममिह ज्ञेया निरवद्यप्रवृत्तये ॥ १ ॥ तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितमालोचनं । प्रायश्चित्तलघुकरणार्थमुपकरणदानं, यदि लघु मे शक्त्यपेक्षं किंचित्प्रायश्चित्तं दीयते तदाहं दोषं निवेदयामीति दीनवचनं, परादृष्टदोषगूहनेन प्रकटदोषनिवेदनं, प्रमादालस्याभ्यामल्पदोषावज्ञानेन स्थूलदोषप्रतिपादनं, महादोषसंवरणेनाल्पदोषकथनं, ईदृशे दोषे किं प्रायश्चित्तमित्युपायेन प्रच्छन्नं, बहुयतिजनालोचनाशब्दाकुले खदोषनिवेदनं किमिदं गुरूपपादितं प्रायश्चित्तं युक्तमागमे न वेत्यनुगुरुप्रश्नः, महदपि प्रायश्चित्तं गृहीतं न फलकरमिति संचिंत्य स्वसमानाय प्रमादावेदनं, परगृहीतस्यैव प्रायश्चित्तस्यानुमतेन खदुश्चरितसंवरणं, इति दशालोचनदो - षास्तेषां वर्जनमात्मापराधस्याश्वेव निर्माय बालवहजुबुद्ध्याभिधानं तद्विशिष्टमालोचनं सम्यगवगंतव्यं । Page #505 -------------------------------------------------------------------------- ________________ ४९६ तत्त्वार्थश्लोकवार्तिके [ सू० २५ तच्च संयताश्रयं द्विविषयमेकांते संयतिकाश्रयं त्रिविषयं प्रकाशे प्रायश्चित्तं गृहीत्वा कुर्वतोऽकुर्वतश्च कुतश्चित्तपश्चरणसाफल्येतरादिगुणदोषप्रसक्तिः प्रसिद्धैव । मिथ्यादुष्कृताभिधानाद्यभिव्यक्तप्रतिक्रिया प्रतिक्रमणं । तदुभयसंसर्गे सति साधनं तदुभयं सर्वस्य प्रतिक्रमणस्यालोचनपूर्वकत्वात् केवलं प्रतिक्रमणमयुक्तमिति चेन्न, तत्र गुरुणाभ्यनुज्ञातेन शिष्येणैवालोचनकरणात् । तदुभयस्मिन् गुरुणैवोभयस्य विधानात् । संसक्तान्नपानोपकरणादीनां विभजनं विवेकः । व्युत्सर्गः कायोत्सर्गादिकरणं । तपोनशनादि, दिवसपक्षमासादिना प्रव्रज्याहापनं छेदः । पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः । पुनर्दीक्षाप्रापणमुपस्थापनं । तदिदं नव विधमपि प्रायश्चित्तं किं कस्मिन् प्रमादाचरिते स्यादिति परमागमादवसेयं, तस्य देशकालाद्यपेक्षस्यान्यथावसातुमशक्यत्वात् ॥ अथ विनयविकल्पप्रतिपादनार्थमाह; ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनय इत्यनुवर्तते, प्रत्येकमभिसंबंधः ज्ञानविनय इत्यादि । तत्र सबहुमानज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयः । पदार्थश्रद्धाने निःशंकितत्वादिलक्षणोपेतता दर्शनविनयः, सामायिकादौ लोकबिंदुसारपर्यते श्रुतसमुद्रे भगवद्भिः प्रकाशितेऽन्यथा पदार्थकथनासंभवनात् । तद्वतश्चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनांजलिकरणादिरुपचारविनयः, परोक्षेप्वपि कायवामनोभिरंजलिक्रियागुणसंकीर्तनानुस्मरणादिः । ज्ञानलाभाचारविशुद्धिसम्यगाराधनाद्यवलंबनं विनयभावनं । किमर्थं पुनर्ज्ञानादयो विनया इत्यभेदेनोक्ता इत्याह ज्ञानादयोत्र चत्वारो विनयाः प्रतिपादिताः । कथंचित्तदभेदस्य सिद्धये परमार्थतः ॥१॥ ज्ञानादिभावना सम्यग्ज्ञानादिविनयो हि नः । तस्यांतरंगता न स्यादन्यथान्येव वेदनात् ॥२॥ अथ वैयावृत्त्यप्रतिपत्त्यर्थमाह;आचार्योपाध्यायतपखिशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥ २४ ॥ वैयावृत्त्यमित्यनुवृत्तेः प्रत्येकमभिसंबंधः। व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं । किमर्थं तदुक्तमित्याह;आचार्यप्रभृतीनां यद्दशानां विनिवेदितं । वैयावृत्त्यं भवेदेतदन्वर्थप्रतिपत्तये ॥१॥ आचरंति तस्माद्रतानीत्याचार्यः । उपेत्य तस्मादधीयत इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपखी । शिक्षाशीलः शैक्षः । रुजादिक्लिष्टशरीरो ग्लानः । गणः स्थविरसंततिः । दीक्षकाचार्यसंस्त्यायः कुलं । चातुर्वर्ण्यश्रमणनिवहः संघः । चिरप्रव्रजितः साधुः । मनोज्ञोऽभिरूपः, संमतो वा लोकस्य विद्वत्त्ववतृत्वमहाकुलत्वादिभिः, असंयतसम्यग्दृष्टिर्वा । तेषां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो वैयावृत्त्यं, बाह्यद्रव्यासंभवे खकायेन तदानुकूल्यानुष्ठानं च । तच्च समाध्याधानाविचिकित्साभावप्रवचनवात्सल्याद्यभिव्यक्त्यर्थे । बहूपदेशात् कचिन्नियमेन प्रवृत्तिज्ञापनाय भूयसामुपन्यासः ॥ अथ खाध्यायप्ररूपणार्थमाह; वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥ खाध्याय इत्यनुवर्तमानेनाभिसंबंधः । निरवद्यग्रंथार्थोभयप्रतिपादनं वाचना । संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः पृच्छना । अधिगतार्थस्य मनसाभ्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमानायः । धर्मकथाद्यनुष्ठानं धर्मोपदेशः । प्रज्ञातिशयप्रशस्ताध्यवसायाद्यर्थ खाध्यायः । कथमयमंतरंगरूप इत्याह Page #506 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः। स्वाध्यायः पंचधा प्रोक्तो वाचनादिअभेदतः । अंतरंगश्रुतज्ञानभावनात्मत्वतस्तु सः ॥१॥ अथ व्युत्सर्गप्रतिनिर्देशार्थमाह; बाह्याभ्यंतरोपध्योः ॥ २६ ॥ व्युत्सर्ग इत्यनुवृत्तेर्व्यतिरेकनिर्देशः पूर्ववत् । उपधीयते बलाधानार्थमित्युपधिः । अनुपात्तवस्तुत्यागो बाह्योपधिव्युत्सर्गः । क्रोधादिभावनिवृत्तिरभ्यंतरोपधिव्युत्सर्गः । कायत्यागश्च नियतकालो यावज्जीवं वा । परिग्रहनिवृत्तेरवचनमिति चेन्न, तस्य धनहिरण्यवसनादिविषयत्वात् । धर्माभ्यंतरभावादिति चेन्न, प्रासुकनिरवद्याहारादिनिवृत्तितंत्रत्वात् । प्रायश्चित्ताभ्यंतरत्वादिति चेन्न, तस्य प्रतिद्वंद्विभावात् । प्रायश्चित्तस्य हि व्युत्सर्गस्यातिचारः प्रतिद्वंद्वीष्यते निरपेक्षश्चायं ततो नैतद्वचनमनर्थकं । अनेकत्रावचनमनेनैव गतत्वादिति चेन्न, शक्त्यपेक्षत्वात् । तदेवाहस्याबाह्याभ्यंतरोपध्योयुत्सर्गोधिकृतो द्विधा । व्रतधर्मात्मको दानप्रायश्चित्तात्मकोऽपरः ॥१॥ कथंचित्त्यागतां प्राप्तोप्येको निर्दिश्यते नृणां । शक्तिभेदव्यपेक्षायां फलेष्वेकोप्यनेकधा ॥२॥ सावधप्रत्याख्यानशक्त्यपेक्षया हि व्रतापरित्यागः । स चाव्रतास्रवनिरोधफलः । पुण्यास्रवफलं तु दानं खातिसर्गशक्त्यपेक्षं । धर्मात्मकस्तु संवरणशक्त्यपेक्षस्त्यागः प्रायश्चित्तात्मकोतिचारशोधनशक्त्यपेक्षः अभ्यंतरतपोरूपस्तु कायोत्सर्जनशक्त्यपेक्ष इति त्यागसामान्यादेकोप्यनेकः । स च निःसंगनिर्भयजीविताशाव्युदासाद्यर्थे व्युत्सर्गः । कथमुपध्योर्बाह्यताभ्यंतरता च मता यतस्तपोव्युत्सर्गः स्यादित्याहबाह्याभ्यंतरतोपध्योरनुपात्तेतरत्वतः । जीवेन तत्र कायायोर्वेद्यावेद्योतॄणां मता ॥३॥ अथ ध्यानं व्याख्यातुकामः प्राह; उत्तमसंहननस्यैकाग्रचिंतानिरोधो ध्यानमांतर्मुहूर्तात् ॥ २७ ॥ किमनेन सूत्रेण क्रियत इत्याह;उत्तमेत्यादिसूत्रेण ध्यानं ध्याताभिधीयते । ध्येयं च ध्यानकालश्च सामर्थ्यात्तत्परिक्रिया ॥१॥ तत्र कश्चिदाह-योगश्चित्तवृत्तिनिरोध इति, स एवं पर्यनुयोज्यः किमशेषचित्तवृत्तिरोधस्तुच्छः किं वा स्थिरज्ञानात्मक इति ? नाद्यः पक्षः श्रेयानुत्तरस्तु स्यादित्याह नाभावोशेषचित्तानां तुच्छः प्रमितिसंगतः । स्थिरज्ञानात्मकश्चित्तानिरोधो नोत्र संगतः ॥ २॥ ननु चाशेषचित्तवृत्तिनिरोधान्न तुच्छोभ्युपगम्यते तस्य ग्राहकप्रमाणाभावादनिश्चितत्वात् । किं तर्हि ? पुंसः खरूपेवस्थानमेव तन्निरोधः स एव हि समाधिरसंप्रज्ञातो योगो ध्यानमिति च गीयते ज्ञानस्यापि तदा समाधिभृतामुच्छेदात् । 'तदा द्रष्टुः खरूपेवस्थानं' इति वचनात् ॥ द्रष्टा ह्यात्माज्ञानवांस्तु न कुंभाद्यस्ति कस्यचित् । धर्ममेघसमाधिश्वेन्न द्रष्टा ज्ञानवान् यतः॥३॥ तथाहि-ज्ञानवानात्मा द्रष्टुत्वात् यस्तु न ज्ञानवान् स न द्रष्टा यथा कुंभादि द्रष्टा वात्मा ततो ज्ञानवान् । प्रधानं ज्ञानवदिति चेन्न, तस्यैव द्रष्टुत्वप्रसंगादद्रष्टुानवत्ताभावात् कुंभादिवत् । अज्ञानवत्त्वे पुरुषस्यानित्यत्वापत्तिरिति चेन्न, प्रधानस्याप्यनित्यत्वानुषक्तेः । तत्परिणामस्य व्यक्तस्यानित्यत्वोपगमाददोष इति चेत् , पुरुषपर्यायस्यापि बोधविशेषादेरनित्यत्वे को दोषः ? तस्य पुरुषात् कथंचिदव्यतिरेके भंगुरत्वप्रसंग इति चेत् , प्रधानाध्यक्तं किमत्यंतव्यतिरिक्तमिष्टं येन ततः कथंचिदव्यतिरेकादनित्यता न भवेत् । व्यक्ताव्यक्तयोरव्यतिरेकैकांतेपि व्यक्तमेवानित्यं परिणामत्वान्न पुनरव्यक्तं परिणामित्वादिति चेत् , Page #507 -------------------------------------------------------------------------- ________________ ४९८ तत्त्वार्थश्लोकवार्तिके [सू० २७ तत एव ज्ञानात्मनोरव्यतिरेकेपि ज्ञानमेवानित्यमस्तु पुरुषस्तु नित्योस्तु विशेषाभावात् । पुरुषोऽपरिणाम्येवेति चेत्, प्रधानमपि परिणाम मा भूत् । व्यक्तेः परिणामि प्रधानं न शक्तेः सर्वदा स्थास्नुत्वादिति चेत्, तथा पुरुषोपि सर्वथा विशेषाभावात् सर्वस्य सतः परिणामित्वसाधनाच्च, अपरिणामिनि क्रमयौगपद्यविरोधादर्थक्रियानुपपत्तेः सत्त्वस्यैवासंभवात् । ततो द्रष्टात्मा ज्ञानवानेव बाधकाभावादिति न तस्य खरूपेवस्थितिरज्ञानात्मिका काचिदसंप्रज्ञातयोगदशायामुपपद्यते जडात्मभावात् ॥ संप्रज्ञातस्तु यो योगो वृत्तिसारूप्यमात्रकं । संज्ञानात्मक एवेति न विवादोस्ति तावता ॥ ४ ॥ संप्रज्ञातो योगो ज्ञानात्मक एव ' वृत्तिसारूप्यमितरत्रे 'ति वचनात् । वृत्तयः पंचतय्यः तासां विषयसारूप्यमात्रं जिहासोपादित्सारहितमुपेक्षाफलं तद्ध्यानं चित्तवृत्तिनिरोधस्येत्थंभूतस्य भावादिति यद्भाष्यते तत्र ज्ञानात्मत्वमात्रेण नास्ति विवादः सर्वस्य ध्यानस्य ज्ञानात्मकत्वप्रसिद्धेः । ज्ञानमेव स्थिरीभूतं समाधिरिति परैरप्यभिधानात् । विषयसारूप्यं तु वृत्तीनां प्रतिबिंबाधानं तदानुपपन्नमेव क्वचिदमूर्तेर्थे कस्यचित्प्रतिबिंबासंभवात् । तथाहि - न प्रतिबिंबभृतो वृत्तयोऽमूर्तत्वाद्यथा खं यत् प्रतिबिंबभृन्न तदमूर्त दृष्टं यथा दर्पणादि । कर्मभृतश्च वृत्तयस्तस्मान्न प्रतिबिंबभृत इत्यत्र न तावदसिद्धो हेतुर्ज्ञानवृत्तीनां मूर्तत्वानभ्युपगमात् । तदभ्युपगमे बायेंद्रिय प्रत्यक्षत्व प्रसंगात् । मनोवदतिसूक्ष्मत्वादप्रत्यक्षत्वे स्वसंवेदन प्रत्यक्षतापि न स्यात्तद्वदेव । न चाखसंविदिता एव ज्ञानवृत्तयोर्थग्राहित्वविरोधात् । प्रदीपादिवदखसंविदितेपि विषयग्राहित्वं ज्ञानवृत्तीनामविरुद्धमिति चेन्न, वैषम्यात् । प्रदीपादिद्रव्यं हि नार्थग्राहि स्वयमचेतनत्वात् । किं तर्हि ? चक्षुरादे रूपादिग्राहि ज्ञानकारणस्य सहकारितया र्थग्राहीत्युपचर्यते न पुनः परमार्थतस्तत्र तथा ज्ञानवृत्तयः । यस्तु तत्त्वतोर्थग्राहिण इष्यंते ततो न साम्यमुदाहरणस्येति नाखसंविदितत्वसिद्धिस्तासां दर्शनवत् । न च खसंविदितत्वं कस्यचिन्मूर्तस्य दृष्टमिष्टं चातिप्रसंगादित्यमूर्तत्वमेव चित्तवृत्तीनामवस्थितं ततो नासिद्धो हेतुः । नाप्यनैकांतिको विरुद्धो वा विपक्षवृत्त्यभावाद्यतश्चित्तवृत्तीनां प्रतिबिंबभृत्त्वाभावो न सिद्ध्येत् । विषयप्रतिनियमान्यथानुपपत्त्या प्रतिबिंबभृतो ज्ञानवृत्तय इति चेन्न, निराकारत्वेपि विषयप्रतिनियमसिद्धेः पुंसो दर्शनस्य भोगनियमवत् । अथ बुद्धिप्रतिबिंबितमेव नियतमर्थं पुरुषश्चेतयते नान्यथा प्रतिनियमाभावप्रसंगादिति मतं, तर्हि बुद्धिरपि कुतः प्रतिनियतार्थप्रतिबिंबं बिभर्ति न पुनः सकलार्थप्रतिबिंबमिति । नियम हेतुर्वान्यः प्रतिनियताहंकाराभिमतमेवार्थ बुद्धिः प्रतिबिंबयतीति चेत्, किमनया परंपराप्रतिबिंबमंतरेणैवाहंकारप्रतिनियमितमर्थं बुद्धिर्व्यवस्यति मनः ••••• खसामग्री प्रतिनियमादेव सर्वत्र प्रतिनियमसिद्धेरलं प्रतिबिंब कल्पनया । तथा च न चित्तवृत्तीनां सारूप्यं नाम यन्मात्रं संप्रज्ञातयोगः स्यादिति परेषां ध्यानासंभवः । नापि ध्येयं तस्य सूत्रेनुपादानात् । ध्यानासिद्धौ तदसिद्धेश्च । स्याद्वादिनां तु ध्यानं ध्येये विशिष्टे सूत्रितमेव, चिंतानिरोधस्यैकदेशतः कार्यतो वा ध्यानस्यैकाग्रविषयत्वेन विशेषणात् । तथाहि अनेकत्राप्रधाने वा विषये कल्पितेपि वा । माभूचिंतानिरोधोयमित्येकाग्रे स संस्मृतः ॥ ५ ॥ एकाग्रेणेति वा नानामुखत्वेन निवृत्तये । क्वचिचितानिरोधसाध्यानत्वेन प्रभादिवत् ॥ ६ ॥ एकशब्दः संख्यापदं, अंग्यते तदंगति तस्मिन्निति वाग्रं मुखं, भद्राग्रविप्रेत्यादि निपातनात् अंगेर्गत्यर्थस्य कर्मण्यधिकरणे वा रग्विधानात् । चिंतांतःकरणवृत्तिः अनियतक्रियार्थस्य नियतक्रियाकर्तृत्वेनावस्थानं निरोधः एकमत्रं मुखं यस्य सोयमेकाग्रः चिंताया निरोधः एकाग्रश्वासौ चिंतानिरोधश्च स इत्येकाग्रचिंतानिरोधः । स कुत इति चेत्, एकाग्रत्वेन चिंतानिरोधो वीर्यविशेषात् प्रदीपशिखावत् । वीर्यविशेषो हि दीपशिखाया निर्वातप्रकरणत्वे अंतरंबहिरंगहेतुवशात् परिस्पंदाभावोपपत्तौ विभाव्यते तथा . Page #508 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः। ४९९ चिंताया अपि वीर्यातरायविगमविशेषनिराकुलदेशादिहेतुवशादि....."यविशेषः समुन्नीयते । तत एकाग्रत्वं तेन चिंतांतरनिरोधादेकाग्रचिंतानिरोध इति नानामुखत्वेन तस्य निवृत्तिः सिद्धा भवति । अर्थपर्यायवाची वा अग्रशब्दः, अंग्यते इत्यग्रमिति कर्मसाधनस्याग्रशब्दस्यार्थपर्यायवाचित्वोपपत्तेः । एकत्वं च तदग्रं च तदेकाग्रं एकत्वसंख्याविशिष्टोर्थः । प्रधानभूते वा प्रधानवाचिन एकशब्दस्याश्रयणात् । एकाग्रे चिंतानिरोध एकाग्रचिंतानिरोध इति योगविभागात् मयूरव्यंसकादित्वाद्वा वृत्तिः । ततोऽ नेकार्थे गुणभूते वा कल्पनारोपो ध्यानं मा भूत् । नन्वनेकांतवादिनां सर्वस्यार्थस्यैकानेकरूपत्वात् कथमनेकरूपव्यवच्छेदेनैकाग्रध्यानं विधीयत इति कश्चित् , सोप्यनालोचितवचनः, एकस्यार्थस्य पर्यायस्य वा प्रधानभावे ध्यानविषयवचनात् । तत्र द्रव्यस्य पर्यायांतराणां च सत्त्वेपि गुणीभूतत्वाध्यानविषयत्वव्यवच्छेदात् । तत एव चैकशब्दस्य संख्याप्राधान्यवाचिनो व्याख्यानात् । नन्वेवं कल्पनारोपित एव विषये ध्यानमुक्तं स्यात्तत्त्वतः पर्यायमात्रस्य वस्तुनोनुपपत्तेर्द्रव्यमात्रवत्, द्रव्यपर्यायात्मनो जात्यंतरस्य च वस्तुत्वात् नयविषयस्य च वस्त्वेकदेशत्वान्यथा नयस्य विकलादेशत्वविरोधादिति परः । सोपि न नीतिवित् , पर्यायस्य निराकृतद्रव्यपर्यायांतरस्यैव वा वस्तुसाधनान्निरस्तसमस्तपर्यायद्रव्यवत् । न पुनरपेक्षितद्रव्यपर्यायांतरस्य पर्यायस्यावस्तुत्वं तस्य नयविषयतया वस्त्वेकदेशत्वेष्यवस्तुत्वनिराकरणात् । “नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । न समुद्रोऽसमुद्रो वा समुद्रांशो यथैव हि ॥” इति नियमात् । न च वस्त्वंशादकल्पनारोपित एव वस्तुनोपि तथा प्रसंगात् । स्वरूपालंबनमेव ध्यानमित्यन्ये; तेपि न युक्तवचसः, सर्वथा तत्स्वरूपस्य ध्यानध्येयरूपद्वयविरोधात् । कथंचिदनेकखरूपस्य तदविरोधिध्यानरूपादर्थातरभूते ध्येयरूपे ध्यानं प्रवर्तते इति खतो व्यतिरिक्तमेव द्रव्यपरमाणुं भावपरमाणुं वा समालंबते । न च द्रव्यपरमाणुर्भावपरमाणुर्वार्थपर्ययो न भवति पुद्गलादिद्रव्यपर्यायत्वात् तस्येति चिंतितप्रायं । ततोयं ध्यानशब्दो भावकर्तृकरणसाधनो विवक्षावशात् ध्येयं प्रति व्यावृत्तस्य भावमात्रत्वात् ध्यातिर्ध्यानमिति भवति । करणप्रशंसापरायां वृत्तौ कर्तृसाधनत्वं ध्यायतीति ध्यानं । साधकतमत्वविवक्षायां करणसाधनं ध्यायत्यनेन ज्ञानावरणवीर्यातरायविरामविशेषोद्भूतशक्तिविशेषेणेति ध्यानमिति । एकांतकल्पनायां दोषविधानमुक्तं, प्रथमसूत्रे ज्ञानशब्दस्य करणादिसाधनत्वसमर्थनात् निर्विषयस्य ध्यानस्य भावसाधनत्वाद्यनुपपत्तेश्च । भाववंतमंतरेण भावस्यासंभवात् कर्तुरभावे करणत्वानुपपत्तेः । सर्वथैकांते कारकव्यवस्थासंभवस्य चोक्तत्वात् । न च विकल्पारोपिते विषये ध्यानमित्येकांतवादोपि श्रेयान् , निर्विषयध्यानस्यापि एकत्वप्रसंगात् कुमारीपरिकल्पितभोज्ये काल्पनिकभोजनवत् । न च परिकल्पितात् ध्यानाध्यातुः फलमकल्पितरूपमुपपद्यते कल्पितभोजनादकल्पिततृप्तिवत् । ततो नैकांतवादिनां ध्यानध्येयव्यवस्था, प्रमाणविरोधात् वयमिष्टतत्त्वनिर्णयायोगात् ध्यातुरभावाच्च । न हि कूटस्थपुरुषो ध्याता पूर्वापरस्वभावत्यागोपादानहीनत्वात् क्षणिकचित्तवत् । नापि प्रधानं तस्याचेतनत्वात् कायवत् । महदादिव्यक्तात्मा ध्यातेति चेन्न, तस्य प्रधानव्यतिरेकेणाभावात् । कल्पितस्य चावस्तुत्वात्संतानवत् । स्याद्वादिनां तु ध्यातास्ति, तस्योत्तमसंहननत्वविशिष्टस्य मूर्तिमत्त्वात् । तथा चाह प्रोक्तं संहननं यस्य भवेदुत्तममिष्यते । तस्य ध्यानं परं मुक्तिकारणं नेतरस्य तत् ॥ ७ ॥ आद्यं संहननं त्रयमुत्तमसंहननं सोयमुत्तमसंहननस्तस्य ध्यानं न पुनरनुत्तमसंहननस्य, तस्य ध्यानशत्त्यभावात् । विहितपवनविजयस्यानुत्तमसंहननस्यापि ध्यानसामर्थ्य मनोविजयप्राप्तेरिति चेत् , स परपवनविजयः कुतः ? गुरूपदिष्टाभ्यासातिशयादिति चेन्न, तदभ्यासस्यैवानुत्तमसंहननेन विधातुमशक्यत्वात् । तदभ्यासे पीडोत्पत्तरार्तध्यानप्रसंगाच्च । पवनधारणायामेवावहितमनसोऽन्यध्येये प्रवृत्त्यनुप Page #509 -------------------------------------------------------------------------- ________________ ५०० तत्त्वार्थश्लोकवार्तिके [ सू० २७ पत्तेः सकृन्मनसो व्यापारद्वितयायोगात् ज्ञानयोगपद्यप्रयत्नयौगपद्याभ्यां मनसोऽव्यवस्थितैः । एतेन प्राणायामधारणयोरध्यानकारणत्वमुक्तं प्रत्याहारवत् । यमनियमयोस्तु तदंगत्वमिष्टमेव । असंयतस्य योगाप्रसिद्धेः । आ अंतर्मुहूर्तादिति कालविशेषवचनाच्च नानुत्तमसंहननस्य ध्यानसिद्धि:, तेनोत्तमसंहननविधानमन्यस्येयत्कालाध्यवसायधारणासामर्थ्यादुपपन्नं भवति । तत ऊर्ध्वं तन्नास्तीत्याह - अंतर्मुहूर्ततो नोर्ध्वसंभवस्तस्य देहिनां । आ अंतर्मुहूर्तादित्युक्तं कालांतरच्छिदे ॥ ८ ॥ " न ह्युत्तमसंहननोपि ध्यानमंतर्मुहूर्तादूर्ध्वमविच्छिन्नं ध्यातुमीष्टे पुनरावृत्त्या परांतर्मुहूर्तकाले ध्यानसंततिश्चिरकालमपि न विरुध्यते । ननु यद्येकांतर्मुहूर्तस्थास्नु ध्यानं प्रतिसमयं तादृशमेव तदित्यंत समयेपि तेन तादृशेनैव भवितव्यं । तथा च द्वितीयाद्यंतर्मुहूर्तेष्वपि तस्य स्थितिसिद्धेर्न जातु विच्छेदः स्यात्, प्रथमांतर्मुहूर्तपरिसमाप्तौ तद्विच्छेदे वा द्वितीयादिसमये विच्छेदानुषक्तेः क्षणमात्रस्थितिः ध्यानमायातं, सर्वपदार्थानां क्षणमात्रस्थास्नुतया प्रतीतेरक्षणिकत्वे बाधकसद्भावात् इति केचित् तेषामपि प्रथमक्षणे ध्यानस्यैकक्षणस्थायित्वे तदवसाने प्येकक्षणस्थायित्वप्रसंगात् न जातुचिद्विनाशः सकलक्षणव्यापिस्थितिप्रसिद्धेः, अन्यथैकक्षणेपि न तिष्ठेत् । अथैकक्षणस्थितिकत्वेनोत्पत्तिरेव क्षणस्थायिनः प्रच्युतिरतो न सदवस्थितिः । तर्ह्यतर्मुहूर्त स्थिति कध्यानवादिनामंतर्मुहूर्तादुत्तरकालं समयादिस्थितिकत्वेनोत्पत्तिरेवानंतर्मुहूर्तस्थायिनः प्रच्युतिरंतर्मुहूर्तस्थास्नुतयात्मलाभ एवोत्पत्तिरिति नाविच्छेदशक्तेः सततावस्थितिप्रसंगो यतः कौटस्थ्यसिद्धिः । कथमन्यदान्यस्योत्पत्तिरंतर्मुहूर्तस्थास्त्रोः प्रच्युतिरतिप्रसंगात् इति चेत्, कथमेकक्षणप्रच्युतिः क्षणांतरस्थितिकत्वेनोत्पत्तिरन्यस्य स्यादिति समः पर्यनुयोगः । सर्वथातिप्रसंगस्य समानत्वात् । तथा च न क्वचिदुत्पत्तिः क्षणार्थानां सिद्ध्येत् विनाशेपि नानुत्पन्नस्य भावस्येति । नित्यवादिनां कूटस्थार्थसिद्धिरबाधिता स्यात् क्षणिकत्व एव बाधकसद्भावात् । स्यादाकृतं क्षणिकवादिनां क्षणादूर्ध्वं प्रच्युतिर्द्वितीयक्षणस्थितिकत्वेनोत्पत्तिः । ततो नोत्पत्तिविपत्तिरहितं न संततमनुषज्यते यतः क्षणिकत्वसिद्धेर्वाप्रतिहता न स्यादिति । तदसत् तथांतर्मुहूर्तस्थितिकत्वस्यापि सिद्धेः सर्वथा विशेषाभावात् । न चैवं क्षणिकत्ववस्तुनो नाशोत्पादौ समं स्यातां प्रथमक्षणभावित्वादस्य, द्वितीयक्षणभावित्वात्तद्विनाशस्य कार्योत्पादस्य कारणविनाशात्मकत्वात् सममेव नाशोत्पादौ तुलांतयोर्नामोन्नामवदिति चेत्, कथं प्रकृतचोद्यपरिहारः ? एकक्षणस्थास्नुतयोत्पाद एव द्वितीयक्षणे विनाश इति नान्यदान्यस्यो - त्पत्तिरन्यस्य विनाशः । सममेव नाशोत्पादयोस्तथा प्रसिद्धिरिति चेत्, ततर्मुहूर्तमात्रस्थायितयोत्पत्तिरेव तदुत्तरकालतया विनाश इति समः समाधिः । नन्वेवं संवत्सरादिस्थितिकमपि ध्यानं कुतो न भवेदिति चेन्न, तथासंभावनाभावात् । यद्धि यथास्थितिकं संभाव्यते तत्तथास्थितिकं शक्यं वक्तुं नान्यथा । न चांतःकरणवृत्तिलक्षणायाश्चिताया निरोधो नियतविषयतयावस्थानलक्षणोंतर्मुहूर्तादूर्ध्वं संभाव्यते मनसोस्मदादिष्वन्यविषयांतरे सजातीये विजातीये वा संक्रमणनिश्चयात्तत्कार्यानुभवस्मरणादेः संचारान्यथानुपपत्तेः । केवलमनुत्तमसंहननस्य चिंता निरोधमनल्पकालमुपलभ्य स्थिरत्वेन प्रक्षीयमाणं वावबुध्योत्तमसंहननस्यांतर्मुहूर्तकालस्तथासाविति संभाव्यते । तथा परमागमप्रामाण्यं चेत्यलं प्रसंगेन । कः पुनरयमंतर्मुहूर्त इत्युच्यते-उक्तपरिमाणोंतर्मुहूर्तः परमागमे ततोत्र न निरूप्यते । ज्ञानमेव ध्यानमिति चेन्न, तस्य व्यग्रत्वात्, ध्यानस्य पुनरव्यग्रत्वात् । तत एवैकाग्रवचनं वैयग्र्यनिवृत्त्यर्थं सूत्रे युज्यते । चिंतानिरोधग्रहणं तत्स्वाभाव्यप्रदर्शनार्थं तत एव ज्ञानवैलक्षण्यं, अन्यथास्य कथं चिंता न स्यात् । ध्यानमित्यधिकृतस्वरूपनिर्देशार्थं । मुहूर्तवचनादहरादिनिवृत्तिस्तथाविधशक्त्यभावात् । अभावो निरोध इति चेन्न, केनचित्पर्यायेणेष्टत्वात् । परोपगतस्य निरूप्यस्याभावस्य प्रमाणाविषयत्वेन निरस्तत्वात् । किं च अभावस्य च Page #510 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः । ५०१ वस्तुत्वापत्तेर्हेत्वंगत्वादिभ्यः । न हि हेत्वंगं तु पक्षधर्मत्वादि वस्तुत्वमतिक्रामति । तद्वद्विपक्षे असत्त्वमपि हेत्वंगं तथा परपक्षप्रतिषेधे पक्षांगं चाभावो निदर्शनांगं चेति तस्य वस्तुधर्मयोगाद्वस्तुत्वं तथा प्रमाणनयविषयत्वात् कारणत्वात् कार्यत्वाद्विशेषणत्वाद्धेतोश्चेति प्रपंचतोभ्यूह्यं ततो न कश्चिदुपालंभः । ननु चैकस्तत्र नैकाग्रवचनं कर्तव्यं ? किं तर्ह्यकार्थवचनं स्पष्टार्थत्वादिति चेन्नानिष्टप्रसंगात् । वीचारोर्थव्यंजन1 योगसंक्रांतिरिति हीष्टं तत्र द्रव्येपर्यायात् संक्रमाभावस्यानिष्टस्य प्रसंग: । एकाग्रवचनेपि तुल्यमिति चेन्न, आभिमुख्ये सति पौनःपुन्येनापि प्रवृत्तिज्ञापनार्थत्वात् । आभिमुख्यवाचिनि ग्रशब्दे सत्येकाग्रेणैवाभिमुख्येन चिंतानिरोधः पर्याये द्रव्ये च संक्रामन्न विरुध्यते । प्राधान्यवाचिनो वैकशब्दस्य ग्रहणमिहाश्रीयते । प्रधानपुंसो ध्यातुरभिमुखश्चितानिरोध एकाग्रचिंतानिरोध इति सामर्थ्यात् क्वचिच्येयेर्थे द्रव्यपर्यायात्मनीति प्रतीयते, ततो नानिष्टप्रसंग: । अंगतीत्ययं पुमानिति तु शब्दार्थकथने सत्येकस्मिन् वा पुंसि चिंतानिरोध एकाग्रचिंतानिरोध इति द्रव्यार्थादेशाद्वाह्यध्येयप्राधान्यापेक्षा निवर्तिता, स्वस्मिन्नेव ध्यानस्य वृत्तिरिति नानार्थवाचित्वादेकाग्रवचनं न्याय्यं नैकार्थवचनं । नन्वेवमस्तु चिंतानिरोधो ध्यानं तस्य तु दिवसमासाद्यवस्थानमुपयुक्तस्येति चेन्न, इंद्रियोपघातप्रसंगात् । प्राणापाननिग्रहो ध्यानमिति चेन्न, शरीरपातप्रसंगात् । मंद मंदं प्राणापानस्य प्रचारो निग्रहस्ततो नास्त्येव शरीरपातः तत्कृत वेदनाप्रकर्षाभावादिति चेन्न, तस्य तादृशनिग्रहस्य ध्यानपरिकर्मत्वेन सामर्थ्यात्सूत्रितत्वात् आसनविशेषविजयादिवत् । तेनैकाग्रचिंतानिरोध एव ध्यानं । मात्राकालपरिगणनमिति चेन्न, ध्यानातिक्रमात् । तथा चित्तवैयग्र्यात् । एतेन जपस्य ध्यानत्वं प्रतिषिद्धं । विध्युपायनिर्देशः कर्तव्य इति चेन्न, गुयादिप्रकरणस्य तादर्थ्यात् । संवरार्थं तदिति चेन्न, प्रागुपदेशस्योभयार्थत्वात् । ततः संवरार्थः गुप्त्यादिप्रकरणं ध्यानविधौ तदुपायनिर्देशार्थं च भवति । तथापीह सकलध्यानधर्माणामिह सामर्थ्यासिद्धत्वात् ॥ तदेवं सामान्येनोक्तस्य ध्यानस्य विशेषप्रतिपत्त्यर्थमाह; -- आर्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥ ऋतमर्दनमर्तिर्वा ऋते भवमार्त अत भवमार्तमिति वा दुःखभावं प्रार्थनाभावं वेत्यर्थः । रुद्रः क्रुद्धस्तत्कर्म रौद्रं तत्र भवं वा । धर्मादनपेतं धर्म्य | शुचिगुणयोगाच्छुक्कं । लोभाभिभवादेर्न तदाविर्भावोपपत्तेः । शुचिगुणयोगः प्रसिद्धः पारमार्थिकः । कथमेकं ध्यानं चत्वारि ध्यानानि स्युरित्याह ;आर्तादीनि तदेव स्युश्चत्वारि प्रतिभेदतः । ध्यानान्येकाग्रसामान्यचिंतांतरनिरोधतः ॥ १ ॥ आर्तरौद्रधर्मान्यपि हि ध्यानान्येवैकाय्यसादृश्यात् चिंतांतर निरोधाच्च शुक्लवत् । केवलमप्रशस्ते पूर्वे प्रशस्ते चेतरे । कुत इत्याह । तत्र तावत् ; परे मोक्षहेतू ॥ २९ ॥ सामर्थ्यात् पूर्वे संसारहेतू सूत्रिते । संसारहेतुत्वादार्तरौद्रयोरप्रशस्तत्वं, परयोस्तु धर्मशुक्लयोः प्रशस्तत्वं मोक्षहेतुत्वात् इति । पूर्वाभ्यां धर्मस्यैव परत्वमिति चेन्न, व्यवहितेपि परशब्दप्रयोगात् द्विवचननिर्देशाद्वा गौणस्यापि संप्रत्येयः । कुतः परयोर्मोक्षहेतुत्वं पूर्वयोः संसारहेतुत्वमित्याह ; मोक्षहेतू परे ध्याने पूर्वे संसारकारणे । इति सामर्थ्यतः सिद्धं विमोहत्वेतरत्वतः ॥ १ ॥ कथं धर्मस्य विमोहत्वमिति चेत्, मोहप्रकर्षाभावादिति प्रत्येयं । सामर्थ्यात् परयोर्मोक्षहेतुत्ववचनात् पूर्वयोः संसारहेतुत्वसिद्धिस्तयोर्मोहप्रकर्षयोगात् ॥ Page #511 -------------------------------------------------------------------------- ________________ ५०२ तत्त्वार्थश्लोकवार्तिके [ सू० ३४ तत्रार्तस्य किं लक्षणमित्याह;आर्तममनोज्ञस्य संप्रयोगे तदिप्रयोगाय स्मृतिसमन्वाहारः ॥ ३०॥ अप्रियममनोज्ञं बाधाकारणत्वात् । भृशमर्थातरचिंतनादाहरणं समन्वाहारः । आधिक्येनाहरणादेकत्रावरोधः पुनः पुनः प्रबंध इत्यर्थः । स्मृतेः समन्वाहारः स्मृतिसमन्वाहारः । तेनामनोज्ञस्योपनिपाते स कथं नाम मे न स्यादिति संकल्पश्चिंताप्रबंध आर्तमिति प्रकाशितं भवति । तत्र किंहेतुकमित्याह; आर्त चतुर्विधं तत्र संक्लेशांगतयोदितं । आर्तमित्यादिसूत्रेण प्रथमं द्वेषहेतुकम् ॥१॥ मिथ्यादर्शनाविरतिप्रमादपरिणामः संक्लेशः, तत् खरूपं तत्कारणकं तत्फलं च संक्लेशांगं तस्य भावः संक्लेशांगता तयार्तध्यानमुदितं । तच्चतुर्विधं स्वरूपभेदात् । तत्र प्रथममार्तमित्यादिसूत्रेण द्वेषहेतुकं सूत्रितं ॥ द्वितीयं किंखरूपमित्याह; विपरीतं मनोज्ञस्य ॥ ३१ ॥ उक्तविपर्ययाद्विपरीतं मनोज्ञस्य विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहारो द्वितीयमार्तमित्यर्थः । प्रियस्य मनोज्ञस्य विप्रयोगो विश्लेषस्तस्मिन् सति तत्संप्रयोगाय पुनः पुनश्चिताप्रबंधः । सा मे प्रिया कथं प्रयोगिनी स्यादिति प्रबंधन चिंतनमार्तध्यानमप्रशस्तमिति सूत्रकारस्याभिप्रायः । किं जन्म तदित्याह; विपरीतं मनोज्ञस्येत्यादिसूत्रेण निश्चितं । द्वितीयमनुयोगोत्थमार्तध्यानमसत्फलं ॥१॥ तृतीयं किमार्तमित्याह; वेदनायाश्च ॥ ३२॥ स्मृतिसमन्वाहारस्तृतीयमार्तमित्यभिसंबंधकरणात् दुःखवेदनासंप्रत्ययः । किंनिबंधनं तदित्याह;असद्वद्योदयोपात्तद्वेषकारणमीरितं । तृतीयं वेदनायाश्चेत्युक्तं सूत्रेण तत्त्वतः ॥१॥ चतुर्थ किमित्याह; निदानं च ॥ ३३॥ निदानविषयः स्मृतिसमन्वाहारः निदानं । विपरीतं मनोज्ञस्येत्येवं सिद्धमिति चेन्नाप्राप्तपूर्वविषयत्वानिदानस्य । किंहेतुकं तदित्याहनिदानं चेति वाक्येन तीव्रमोहनिबंधनं । चतुर्थं ध्यानमित्यात चतुर्विधमुदाहृतं ॥१॥ नीलां लेश्यां समासृत्य कापोती वा समुद्भवेत् । तदज्ञानात् कुतोप्यात्मपरिणामात्तथाविधात्।।२ पापप्रयोगनिःशेषदोषाधिष्ठानमाकुलं । भोगप्रसंगनानात्मसंकल्पासंगकारणं ॥३॥ धर्माशयपरित्यागि कषायाशयवर्धनं । विपाककटु तिर्यक्षु समुद्भवनिबंधनं ॥४॥ केषां पुनस्तत्स्यादित्याह; तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४॥ अविरतादयो व्याख्याताः । कदाचित्राच्यमार्तध्यानत्रयं प्रमत्तानां, तेषां निदानस्यासंभवात् । तत्संभवे प्रमत्तसंयतत्वविघातात् । कुतस्तेषां तद्भवेदित्याहतत्स्यादविरतादीनां त्रयाणां तनिमित्ततः । नाप्रमत्तादिषु क्षीणतन्निमित्तेषु जातुचित् ॥१॥ अथ रौद्रं ध्यानं कुतः कस्य किंखरूपमुच्यते ? इत्याह; Page #512 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः। ५०३ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५॥ ध्यानोत्पत्तौ हिंसादीनां निमित्तभावाद्धेतु निर्देशः । तेन स्मृतिसमन्वाहाराभिसंबंधः । तत इदमुच्यतेहिंसादिभ्योतितीव्रमोहोदयेभ्यः प्रजायते । रौद्रं ध्यानं स्मृतेः पौनःपुन्यं दुर्गतिकारणं ॥१॥ तत्स्यादविरतस्योचैर्देशसंयमिनोपि च । यथायोगं निमित्तानां शेषं सद्भावसिद्धितः॥२॥ देशविरतस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतंत्रत्वाच्च रौद्रं ध्यानं संभवति तदनुरूपकथादोषोदयात् । केवलमविरतवन्न तस्य नारकादिनामनिमित्तं सम्यक्त्वसामर्थ्यात् । संयतेपि कदाचिदस्तु रौद्रध्यानं हिंसाद्यावेशादिति चेत् तदयुक्तं, संयते तदावेशे संयमप्रच्युतेः ॥ ततश्चतुर्विधं रौद्रं ध्यानं समुपजायते । पुंसोतिकृष्णलेश्यस्याविरतस्यैव तत्परं ॥३॥ तथा कापोतलेश्यस्य विरताविरतस्य च । प्रमादानामधिष्ठानं विरतस्य न जातुचित् ॥४॥ अथ प्रशस्तस्य ध्यानस्य धर्म्यस्य तावत्प्रतिपादनार्थमाह; आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥ ३६॥ विचितिर्विवेको विचारणा विचयः । तदपेक्षया आज्ञादीनां कर्मनिर्देशः । अधिकारात् स्मृतिसमन्वाहारसंबंधः, आज्ञाविचयाय स्मृतिसमन्वाहार इत्यादि । तदेवं आज्ञादिविचयायोक्तं धयं ध्यानं चतुर्विधं । आरौिद्रपरित्यक्तैः कार्य चिंतास्वभावकं ॥१॥ तत्राज्ञा द्विविधा हेतुवादेतरविकल्पतः । सर्वज्ञस्य विनेयांतःकरणायत्तवृत्तितः ॥२॥ तद्विचयाय स्मृतिसमन्वाहारो द्विविध इत्याज्ञाविचयध्यानं द्वेधा । तत्रागमप्रामाण्यादावधारणमाज्ञाविचयः, सोयमहेतुवादविषयोननुमेयार्थगोचरार्थत्वात् । आज्ञाप्रकाशनार्थों वा हेतुवादः। सामर्थ्यादयमप्याज्ञा विचयः । कः पुनरपाय इत्याह-- असन्मार्गादपायः स्यादनपायः स्वमार्गतः । स एवोपाय इत्येष ततो भेदेन नोदितः ॥३॥ तस्य विचयो धर्म्यध्यानं द्वितीयं । अथवासन्मार्गापायविचयः सर्वज्ञोपदेशपराङ्मुखजनापेक्षया संप्रत्येयः, असन्मार्गापायसमाधानं वा तदपेक्षयैव । कः पुनर्विपाक इत्याह विपाकोनुभवः पूर्व कृतानां कर्मणां स्वयं । जीवाद्याश्रयभेदेन चतुर्थो धीमतां मतः॥४॥ ततः कर्मफलानुभवनविवेकं प्रति प्रणिधानं विपाकविचयः । स च प्रपंचतो गुणस्थानभेदेन कर्मप्रकृतीनामुदयोदीरणचिंतनेन परमागमात्प्रत्येतव्यः । लोकसंस्थानखभावावधानं संस्थानविचयः । कोसौ लोक इत्याह लोकः संस्थानभेदाद्वा स्वभावाद्वा निवेदितः । तदाधारो जनो वापि मानभेदोपि वा कचित् ॥५ लोकस्याधोमध्योर्ध्वभेदस्य संस्थानं सन्निवेशः, लोक्यमानखभावस्य च लोकस्य संस्थानं प्रतिद्रव्यखाकृतिः तदाधारस्य च जनस्य लोकस्य संस्थानं खोपात्तशरीरपरिणामाकारः, मानभेदस्य च लोकस्य संख्याविशेषाकारः संस्थानं तस्य विचयः संस्थानविचयः । कः पुनर्विचय इत्याहविचयस्तत्र मीमांसा प्रमाणनयतः स्थितः । तसिंश्चिताप्रबंधो नुश्चिंतांतरनिरोधतः ॥६॥ युक्तं ध्यानं तदाध्यायमैकाग्र्येण प्रवृत्तितः। ध्यातुश्चिंताप्रबंधस्य धर्म्य पापव्यपायतः ॥७॥ धर्मादनपेतं धर्म्य तस्योत्तमक्षमादिमत एव प्रवृत्तेः । अनुप्रेक्षाणां धर्म्यध्यानसजातीयत्वात् पृथगनुपदेश इति चेन्न, ज्ञानप्रवृत्तिविकल्पात् । सर्वानुप्रेक्षाणामनित्यत्वाद्यनुचिंतनस्य ज्ञानविशेषत्वात् ध्यानस्यानुचिंतनं निरोधरूपत्वात् । कस्य तद्धर्मध्यानं स्यादित्याह Page #513 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० ४१ साकल्येन विनिर्दिष्टं तत्प्रमत्ताप्रमत्तयोः । अंतरंगतपो भेदरूपं संघतयोः स्फुटं ॥ ८ ॥ संयतासंयतस्यैकदेशेन संयतस्य तु । योग्यतामात्रतः कैश्विद्यैर्दुर्ध्यानं प्रचक्षते ॥ ९॥ धर्म्यमप्रमत्तस्येति चेन्न, पूर्वेषां निवृत्तिप्रसंगात् । इष्यते च तेषां सम्यक्त्वप्रभावाद्धर्म्यध्यानं । उपशांतक्षीणकषाययोश्चेति चेन्न, शुक्लाभावप्रसंगात् । तदुभयं तत्रेति चेन्न, पूर्वस्यानिष्टत्वात् । धर्म्यं श्रेण्योष्यते ततस्तयोः शुक्लमेव ॥ अथ श्रुतकेवलिनः किं ध्यानमित्याह ; ५०४ शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ पूर्वविद्विशेषणं श्रुतकेवलिनस्तदुभयप्रणिधानसामर्थ्यात् । चशब्दः पूर्वध्यानसमुच्चयार्थः । किं कृत्वै - वमुच्यते सूत्रमाचार्यैरित्याह मत्त्वा चत्वारि शुक्लानि प्रोच्यमानानि सूरिणा । आद्ये पूर्वविदः शुक्रे धर्म्य चेत्यभिधीयते ॥ १ ॥ विषयविवेकापरिज्ञानमिति चेन्न, व्याख्यानतो विशेषप्रतिपत्तेः । श्रेण्यारोहणात्प्राक् धर्म्यध्यानं, श्रेण्योः शुक्लध्यानमिति व्याख्यानं विषयविवेकापरिज्ञाननिमित्तमाश्रीयते । तथाहि श्रेण्याधिरोहिणः शुक्ले धर्म्य पूर्वस्य तस्य हि । अपूर्वकरणादीनां शुक्लारंभकतास्थितेः || २ || अथावशिष्टे शुक्ले कस्य भवत इत्याह परे केवलिनः ॥ ३८ ॥ केवलिशब्दसामान्यनिर्देशात्तद्वतोरुभयोर्ग्रहणं । कथमित्याह;— परे केवलिनः शुक्ले संयोगस्येतरस्य च । यथायोगं स्मृते तज्ज्ञैः प्रकृष्टे शुद्धिभेदतः ॥ १ ॥ कानि पुनस्तानि चत्वारि शुक्लध्यानानि यानि स्वामिविशेषाश्रयतया विभज्यंते इत्याह ;पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रिया निवर्तीनि ॥ ३९ ॥ वक्ष्यमाणलक्षणापेक्षया सर्वेषामन्वर्थत्वं । तत एवाह; पृथक्त्वेत्यादिसूत्रेणान्वर्थनामानि तान्यपि । शुक्लानि कथितान्युक्तस्वामिभेदानि लक्षणैः ॥१॥ अथैतेषु चतुर्षु शुक्लध्यानेषु किं कियद्योगस्य भवतीत्याह ; sयेकयोगकाययोगायोगानाम् ॥ ४० ॥ योगशब्दो व्याख्यातार्थः । यथासंख्यं चतुर्णी संबंधः । त्रियोगस्य पृथक्त्ववितर्क, त्रिषु योगेष्वेकयोगस्यैकत्ववितर्क, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य व्युपरतक्रियानिवर्तीति । तदाहतत्र प्राच्यं त्रियोगस्यैकैकयोगस्य तत्परं । तृतीयं काययोगस्यायोगस्य च तुरीयकं ॥ १ ॥ योगमार्गणया तेषां सद्भावनियमः स्मृतः । एवं त्रीत्यादिसूत्रेण विवाद विनिवृत्तये ॥ २ ॥ तत्राद्ययोर्विशेषप्रतिपत्त्यर्थमाह; - एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ॥ कुत इत्याह ; एका प्रतिप्राप्तश्रुतज्ञानाश्रयत्वतः । सवितर्के श्रुते तत्त्वात्सवीचारे च संक्रमात् ॥ १ ॥ अर्थ व्यंजनयोगेषु सामान्येनोपवर्तिते । पूर्वे शुक्ले त्रियोगकयोगसंयतसंश्रयात् ॥ २ ॥ ――――― Page #514 -------------------------------------------------------------------------- ________________ ५०५ नवमोऽध्यायः । पूर्वविदारभ्यत्वादेकाश्रयत्वसिद्धिः । सवितर्कवीचारे इति द्वंद्वपूर्वोन्यपदार्थनिर्देशः । पूर्वत्वमेकस्यैवेति चेन्न, उक्तत्वात् ॥ तत्र यथाप्रसंगे च अनिष्टनिवृत्त्यर्थमिदमारभ्यते; अवीचारं द्वितीयम् ॥ ४२ ॥ अवीचारं द्वितीयं तत्संक्रांतेरसमुद्भवात् । एकयोगस्य तद्ध्यातुरिति पाहापवादतः ॥१॥ सवितर्क सवीचारं पृथक्त्वेन ततः स्थितं । प्राच्यं शुक्लं तु सवितर्कवीचारबलादिह ॥२॥ तथाऽवितर्कवीचारे परे शुक्ले निवेदिते । काययोगाधिनाथत्वादयोगाधिपतित्वतः ॥३॥ कोयं वितर्क इत्याह; वितर्कः श्रुतम् ॥ ४३॥ किमेतत्सूत्रवचनादभिप्रेतमित्याह;वितर्कः श्रुतमस्पष्टतर्कणं न पुनर्मतेः । भेदश्चिंताख्य इत्येतत्सूत्रारंभादभीप्सितं ॥१॥ कः पुनर्वीचार इत्याह; वीचारोर्थव्यंजनयोगसंक्रांतिः ॥ ४४ ॥ कुतोन्यो न वीचार इत्याह;अर्थव्यंजनयोगेषु संक्रांतिश्चेतसस्तु या । स वीचारो न मीमांसा चरेर्गत्यर्थनिष्ठतः ॥१॥ एवं निरुक्तितोर्थस्याव्यभिचारित्वदर्शनात् । प्रोक्तं वितर्कवीचारलक्षणं सूत्रतः स्वयं ॥२॥ द्रव्यं हित्वा पर्याये तं त्यक्त्वा द्रव्ये संक्रमणमर्थसंक्रांतिः, अर्थस्य द्रव्यपर्यायात्मकत्वात् । एवं श्रुतवचनमवलंव्य श्रुतबचनांतरालंबनं व्यंजनसंक्रांतिः । काययोगाद्योगांतरे ततोपि काययोगे संक्रमणं योगसंक्रांतिः । एवं परिवर्तनं वीचारस्तेन युतं वितर्केण च श्रुताख्येन विशिष्टं पृथक्त्ववितर्कवीचारं प्रथमशुक्लध्यानं । कीदृग्ध्याता तयातुमर्हतीत्याह; कृतगुप्त्याद्यनुष्ठानो यतिर्याितिशायनः । अर्थव्यंजनयोगेषु संक्रांती पृथगुद्यतः ॥३॥ तदोपशमनान्मोहप्रकृतीः क्षपयन्नपि । यथा परिचयं ध्यायेत्कचिद्वस्तुनि सक्रियः॥४॥ सवितर्क सवीचारं पृथक्त्वेनादिमं मुनिः । ध्यानं प्रक्रमते ध्यातुं पूर्वदेही निराकुलः ॥५॥ अथ द्वितीयं को ध्यातुमर्हतीत्याह;-- स एवामूलतो मोहक्षपणागूर्णमानसः । प्राप्यानंतगुणां शुद्धिं निरंधन बंधमात्मनः ॥६॥ ज्ञानावृतिसहायानां प्रकृतीनामशेषतः । हासयन्क्षपयंश्चासां स्थितिबंधं समंततः ॥७॥ श्रुतज्ञानोपयुक्तात्मा वीतवीचारमानसः । क्षीणमोहोपकंपात्मा प्राप्तक्षायिकसंयमः ॥ ८॥ ध्यात्वैकत्ववितर्काख्यं ध्यानं घात्यघघसरं । दधानः परमां शुद्धिं दुरवाप्यामतोन्यतः ॥९॥ अथ तृतीयं ध्यानं को ध्यायत इत्याह;ततो निर्दग्धनिःशेषघातिकमधनः प्रभुः । केवली सदृशाघातिकर्मस्थितिरशेषतः ॥ १० ॥ संत्यज्य वाङ्मनोयोगं काययोगं च बादरं । सूक्ष्मं तु तं समाश्रित्य मंदस्पंदोदयस्त्वरं ॥११॥ ध्यानं सूक्ष्मक्रियं नष्टप्रतिपातं तृतीयकं । ध्यायेद्योगी यथायोगं कृत्वा करणसंतति ॥ १२ ॥ ६४ Page #515 -------------------------------------------------------------------------- ________________ तत्त्वार्थश्लोकवार्तिके [ सू० ४५ अथ चतुर्थ शुक्लं को ध्यायतीत्याह;ततः स्वयं समुच्छिन्नप्रदेशस्पंदनं स्थिरः । ध्वस्तनिःशेषयोगेभ्यो ध्यानं ध्यातांतसंवरः॥१३॥ संपूर्णनिर्जरश्वांत्ये क्षणे क्षीणभवस्थितिः । मुख्यं सिद्धत्वमध्यास्ते प्रसिद्धाष्टगुणोदयं ॥ १४ ॥ अथामनस्कस्य केवलिनः कथमेकाग्रचिंतानिरोधलक्षणं ध्यानं संभाव्यते इत्यारेकायामिदमाह;संक्लेशांगतयैकत्र चिंता चिंतांतरच्युता । पापं ध्यानं यथा प्रोक्तं व्यवहारनयाश्रयात् ॥ १५॥ विशुद्ध्यंगतया चैवं धर्म्य शुक्लं च किंचन । समनस्कस्य तादृक्षं नामनस्कस्य मुख्यतः ॥१६॥ उद्भूतकेवलस्यास्य सकृत्सर्वार्थवेदिनः । ऐकायभावतः केचिदुपचाराद्वदति तत् ॥ १७ ॥ चिंतानिरोधसद्भावो ध्यानात्सोपि निबंधनं । तत्र ध्यानोपचारस्य योगे लेश्योपचारवत् ॥ १८ सर्वचिंतानिरोधस्तु यो मुख्यो निश्चितानयात् । सोस्ति केवलिनः स्थैयमेकाग्रं च परं सदा ॥१९ मुख्यं ध्यानमतस्तस्य साक्षानिर्वाणकारणं । छद्मदृश्योपचारात्स्यात्तदन्यास्तित्वकारणात् ।। २० यथैकवस्तुनि स्थैर्य ज्ञानस्यैकाय्यमिष्यते । तथा विश्वपदार्थेषु सकृत्तत्केन वार्यते ॥ २१॥ मोहानुद्रेकतो ज्ञातुर्यथा व्याक्षेपसंक्षयः । मोहिनोस्ति तथा वीतमोहस्यासौ सदा न किम्॥२२ यथैकत्र प्रधानेर्थे वृत्तिर्वा तस्य मोहिनः । तथा केवलिनः किं न द्रव्येऽनंतविवर्तके ॥२३॥ इति निश्चयतो ध्यानं प्रतिषेध्यं न धीमता । प्रधानं विश्वतत्त्वार्थवेदिनां प्रस्फुटात्मनां ॥२४॥ सयोगकेवली ध्यानी यदि धर्मोपदेशना । कथं ततः प्रवर्तेतेत्येके तत्राभिधीयते ॥ २५ ॥ अंतर्मुहूर्तकालं वा ध्यानस्सानेकवत्सरं । नैकाथ्यं केवलिध्यानं प्रसिद्धं तत्त्वदेशिनाम् ॥ २६॥ तत एव च ते सिद्धाः कृतकृत्या जिनाधिपाः । स्तूयंते सिद्धसाधात्सदेहत्वेपि धीधनैः ॥२७ अयोगित्वसमुद्भूतेः पूर्वमंतर्मुहूर्तमा । तृतीयं ध्यानमाख्यातं वाक्प्रवृत्त्या विवर्जितं ॥ २८ ॥ वाक्कायवृत्तिसद्भावे यथा ध्यानी न मादृशः । तथार्हन्निति तस्यास्तूपचाराद्ध्यानदेशना ॥२९ तदेतद्व्यवहारनिश्चयनयनिरूपणनिपुणैः प्रमाणांतःकरणप्रवणैः सर्वमालोच्यं परमगहनत्वाच्छद्मस्थास्मादृशजनानामिति निवेदयन्नुपसंहरति; कचिञ्चिता ध्यानं नियतविषयं पुंसि कथितं कचित्तस्याः कालाद्विलयनमिदं सर्वविषयं । कचित्किचिन्मुख्यं गुणमपि वदंति प्रतिनयं ततश्चित्यं सद्भिः परमगहनं जिनपतिमतं ॥३०॥ इति नवमाध्यायस्य प्रथममाह्निकम् । सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षपकोपशमकोपशांतमोह क्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ किमर्थमिदमप्रस्तुतमुच्यते ? तपसा निर्जरा चेति प्रकृते तपसि बायेभ्यंतरे च ध्यानपर्यंते व्याख्याते सर्वसम्यग्दृष्टीनां यथासंभवं बाह्यरूपेणाभ्यंतररूपेण च तपसा समाननिर्जरात्वप्रसक्तौ तद्विशेषप्रतिपादनार्थं प्रस्तुतमेवेदं युक्तमभिधातुं । कुतः पुनः सम्यग्दृष्ट्यादयोऽसंख्येयगुणनिर्जरा क्रमाद्भवंतीत्याह सम्यग्दृष्ट्यादयः संत्यसंख्येयगुणनिर्जराः । क्रमादत्र तथा शुद्धरसंख्येयगुणत्वतः ॥१॥ प्रथमं सम्यक्त्वादिप्रतिलंभे अध्यवसायविशुद्धिप्रकर्षादसंख्येयगुणनिर्जरत्वं दशानां । प्रथमं हि भव्यस्योपशमसम्यक्त्वं तदादयो वेदकसम्यक्त्वक्षायिकसम्यग्दर्शनश्रावकत्वादयः सूत्रोक्तास्तत्र प्रतिलब्धा Page #516 -------------------------------------------------------------------------- ________________ नवभोऽध्यायः। ध्यवसायविशुद्धिप्रकर्षाद्दशानामपि क्रमादसंख्येयगुणनिर्जरत्वमुपपद्यते । क्षपक इत्यसाधुरन्वाख्यानाभावादिति चेन्न, चशब्देन मित्संज्ञोपलब्धेः । क्षै जै पै क्षये इत्यस्य कृतात्वस्य णौ पुकि कृते जनी-जृष्कसु-रञ्जोऽमन्ताश्चेति चशब्देन मित्संज्ञोपलब्धेईखत्वात् साधुरेव क्षपकशब्द इत्यर्थः ।। अथ तपोभाजां संयतानां परस्परं गुणविशेषाद्देदेपि नैगमनयान्नैर्ऋथ्यसाम्यमादर्शयन्नाह; पुलाकवकुशकुशीलनिग्रंथस्त्रातका निग्रंथाः ॥ ४६ ॥ अपरिपूर्णव्रता उत्तरगुणहीनाः पुलाकाः, ईषद्विशुद्धिपुलाकसादृश्यात् । अखंडितव्रताः शरीरसंस्कारर्द्धिसुखयशोविभूतिप्रवणा वकुशाः, छेदशवलयुक्तत्वात् । बकुशशब्दो हि शबलपर्यायवाचीह । कुशीला द्विविधाः प्रतिसेवनाकषायोदयभेदात् । कथंचिदुत्तरगुणविराधनं प्रतिसेवना ग्रीष्मे जंघाप्रक्षालनवत् , संज्वलनमात्रोदयः कषायोदयस्तेन योगात् मूलोत्तरगुणभृतोपि प्रतिसेवनाकुशीलाः कषायकुशीलाश्चोच्यते । उदके दंडराजिवत्संनिरस्तकर्माणोंऽतर्मुहूर्तकेवलज्ञानदर्शनप्रापिणो निग्रंथाः । प्रक्षीणघातिकर्माणः केवलिनः स्नातकाः, स्नातं वेदसमाप्ताविति खार्थिके के निष्पन्नः शब्दः । कुत एते निग्रंथाः पंचापि मता इत्याह; पुलाकाद्या मताः पंच निग्रंथा व्यवहारतः । निश्चयाच्चापि नैपँथ्यसामान्यस्याविरोधतः ॥१॥ वस्त्रादिग्रंथसंपन्नास्ततोन्ये नेति गम्यते । बाह्यग्रंथस्य सद्भावे ह्यंतर्ग्रथो न नश्यति ॥२॥ ये वस्त्रादिग्रहेप्याहुनिग्रंथत्वं यथोदितं । मूर्छानुभूतितस्तेषां रूयाद्यादानेपि किं न तत् ॥ ३॥ विषयग्रहणं कार्य मूछो स्यात्तस्य कारणं । न च कारणविध्वंसे जातु कार्यस्य संभवः ॥४॥ विषयः कारणं मूी तत्कार्यमिति यो वदेत् । तस्य मूर्छादयोऽसत्त्वे विषयस्य न सिद्ध्यति ॥५॥ तस्मान्मोहोदयान्मूछो स्वार्थ तस्स ग्रहस्ततः । स यस्यास्ति स्वयं तस्य न नेग्रंथ्यं कदाचन ॥६ कश्चिदाह-प्रकृष्टाप्रकृष्टगुणानां निर्ग्रथत्वाभावश्चारित्रभेदात् गृहस्थवदिति तं प्रत्याह-न च, दृष्टत्वाब्राह्मणशब्दवत् । न हि जात्याचाराध्ययनादिभेदाद्भिन्नेषु ब्राह्मणत्वं विरुध्यते, संग्रहव्यवहारापेक्षत्वात् निश्चयनयादेव समग्रगुणेषु तव्यपदेशसिद्धेः । किं च, दृष्टिरूपसामान्यात् सर्वेषां निग्रंथता न विरुध्यते । भगवते वृत्तावतिप्रसंग इति चेन्न, रूपाभावात् । निग्रंथरूपं हि यथाजातरूपमसंस्कृतं भूषावेशायुधविरहितं गृहस्थेषु न संभवतीति । ( अन्यस्मिन् सरूपेतिप्रसंग इति चेन्न, दृष्ट्वभावात् )॥ तेषां पुलाकादीनां भूयोपि विशेषप्रतिपत्त्यर्थमिदमाह;संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः॥४७॥ .................................................. .......................................... ................................................॥ इति नवमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे नवमोऽध्यायः समाप्तः ॥९॥ ........................ .................................. १ अत्र संयमश्रुतेत्यादिनवमाध्यायांतसूत्रस्य दशमाध्यायस्यादिसूत्रद्वयस्य व्याख्यानं गतं तत्पुस्तकांतराल्लिखनीयं ॥ Page #517 -------------------------------------------------------------------------- ________________ अथ दशमोऽध्यायः ॥ १०॥ इदानीं मोक्षस्य खरूपाभिधानं प्राप्तकालं तत्प्राप्तिः केवलज्ञानावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकारणमुच्यते; मोहक्षयात् ज्ञानदर्शनावरणांतरायक्षयाच केवलम् ॥ १॥ ... .... .... . ... . .. .... .... .... .............................................................................................. . ... .... .. .. .... .... .... .... .... .... .... .... .. .. .... .... .... .... . ... .... .... .... .. ...................॥ कस्माद्धेतोर्मोक्षः किंलक्षणश्चेत्यत्रोच्यते--- बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ .. .... .... . ... . . .. .. .... .... ....... .... .................................................... . .. .. .. .... ... .... ... . . .. .. . . . . .... .... . . . .. .............................................॥ तस्य कर्मणः सबंधोदयोदीरणव्यवस्थाग्रहणं तत्कृतविभागो गुणस्थानापेक्षः प्रवचनान्नेयः ।। किं द्रव्यकर्मणामेव मोक्षः स्यादुत भावकर्मणामपीत्याशंकायामिदमाह; औपशमिकादिभव्यत्वानां च ॥३॥ भव्यत्वग्रहणमन्यपारिणामिकनिवृत्त्यर्थ, तेन जीवत्वादेरव्यावृत्तिः सर्वतः सर्वदा प्रसिद्धा भवति । कस्सादौपशमिकादिक्षयान्मोक्ष इत्याह; तथौपशमिकादीनां भव्यत्वस्य च संक्षयात् । मोक्ष इत्याह तद्भावे संसारित्वप्रसिद्धितः॥१॥ न त्वौपशमिके भावे क्षायोपशमिकेपि च । भावेत्रौदयिके पुंसोऽभावोस्तु क्षायिके कथं ॥२॥ अत्र समाधीयतेसिद्धिः सव्यपदेशस्य चारित्रादेरभावतः । क्षायिकस्य न सत्यस्मिन् कृतकृत्यत्वनिवृतिः ॥३॥ न चारित्रादिरस्सास्ति सिद्धानां मोक्षसंक्षयात् । सिद्धा एव तु सिद्धास्ते गुणस्थानविमुक्ततः॥४ नन्वेवं केवलदर्शनादीनामपि क्षायिकभावानां मोक्षे क्षयः प्रसज्यत इत्यारेकायामपवादमाह; ___अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥ ४॥ अन्यत्रशब्दोयं परिवर्जनार्थस्तदपेक्षः सिद्धत्वेभ्य इति विभक्तिनिर्देशः । 'अन्यत्र द्रोणभीष्माभ्यां Page #518 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः । ५०९ सर्वे योधाः पराङ्मुखाः' इति यथा । अन्यशब्दप्रयोगे तद्विज्ञानमिति चेन्न, प्रत्ययांतस्यापि प्रयोगे तद्द - र्शनात् । अनंतवीर्यादिनिवृत्तिप्रसंग इति चेन्न, अत्रैवांतर्भावात् । अनंतवीर्यहीनस्यानंतावबोधवृत्त्यभावात् सुखस्य ज्ञानसमवायित्वात् । बंधस्याव्यवस्था अश्वादिवदिति चेन्न, मिथ्यादर्शनाद्युच्छेदे कार्त्स्न्येन तत्क्षयात् । पुनः प्रवर्तनप्रसंगो जानतः पश्यतश्च कारुण्यादिति चेन्न, सर्वास्रवपरिक्षयात् । वीतरागे स्नेहपर्यायस्य कारुण्यस्यासंभवाद्भक्तिस्पृहादिवत् । अकस्मादिति चेदनिर्मोक्षप्रसंगः सतो हेतुकस्य नित्यत्वापत्तेर्विनाशायोगात् । मुक्तस्य स्थानवत्त्वात् पात इति चेन्न, अनास्रवत्वात् । सास्रवस्य यानपात्रादेः पातदर्शनात्, गौरवाभावाच्च तस्य न पातस्तालफलादेः सति गौरवे वृन्तसंयोगाभावात्पतनप्रसिद्धेः । ननु महापरिमाणानामल्पीयस्याधारे मोक्षक्षेत्रे परस्परोपरोध इति चेन्न, अवगाहशक्तियोगात् नानाप्रदीपमणिप्रकाशादिवत् । तत एव जन्ममरणद्वंद्वोपनिपातव्याबाधाविरहात् परमसुखिनः । तत्सुखस्य नास्त्युपमानमाकाशपरिमाणवत् । मुक्तानामनाकारत्वादभाव इति चेन्नातीतानंतरशरीराकारानुविधायित्वात् गतसिक्ककमूषागर्भवत् । मुक्तानामशरीरत्वे तद्भावाद्विसर्पणप्रसंग इति चेत् न, कारणाभावात् । कुतः कारणात् संहरणविसर्पणे संसारिणः स्यातामिति चेत्, नामकर्मसंबंधात् संहरणविसर्पणधर्मत्वं प्रदीपे प्रकाशवत् । नात्मनः संहरणविसर्पणवत्त्वे साध्ये प्रदीपो दृष्टांतः श्रेयान् मूर्तिमद्वैधर्म्यादिति चेन्न, उभयलक्षणप्राप्तत्वात् । दृष्टांतस्य हि लक्षणं साध्यधर्माधिकरणत्वं साधनधर्माधिकरणत्वं च । तत्र संहरणविसर्पणधर्मकत्वस्य साध्यस्याधिष्ठान परिमाणानुविधायित्वस्य साधनस्य च प्रदीपे सद्भावात् स दृष्टांतः स्यादेव जीवस्य चामूर्तमूर्तत्वोभयलक्षणयुक्तत्वात् न मूर्तिमद्वैधर्म्यमस्ति यतोयं दृष्टांतो न स्यात् । " बंधं प्रत्येकत्वं लक्षणतो भवति तस्य नानात्वं । तस्मादमूर्तिभावो नैकांताद्भवति जीवस्य ॥” इति वचनात् कथंचिन्मूर्तिमत्त्वस्यापि प्रसिद्धेः । नामकर्मसंबंधप्रसंग: प्रदीपस्येति चेन्न तस्य दृष्टांतत्वेनाविवक्षितत्वात् साधनधर्मत्वानभिप्रायात् स्वाधिष्ठानपरिमाणानुविधायित्वस्य च साधनधर्मस्य तत्र भावात् । शरीरं हि जीवस्याधिष्ठानं प्रदीपस्य तु गृहं तत्परिमाणानुविधानमुभयोरस्तीति नोपालंभनः । शरीरपरिमाणानुविधायित्वं साधनं प्रदीपे तस्यासत्त्वात् । नापि गृहपरिमाणानुविधायित्वं तस्यात्मन्यभावात् । तत इदमुच्यतेसंसारी जीवः प्रदेशसंहरणविसर्पणधर्मकः स्वाधिष्ठानपरिमाणानुविधायित्वात् प्रदीपप्रकाशवत् । न हि मुक्तात्मा स्वाधिष्ठानपरिमाणानुविधायी तस्याशरीराधिष्ठानस्याभावात् । पूर्वानंतरशरीरपरिमाणं तु यदनुकृतं तत्परित्यागकारणस्य नामकर्मसंबंधिनिबंधनशरीरांतरस्याभावान्न विसर्पणं मुक्तस्य, यतो लोकाकाशपरिमाणत्वापत्तिः । ननु संहरणविसर्पणस्वभावस्यात्मनः प्रदीपवदेवानित्यत्वप्रसंग इति चेन्न, तावन्मात्रस्य विवक्षितत्वात् चंद्रमुखीवत् । संहरणविसर्पणस्वभावत्वमात्रं विवक्षितं चंद्रमुखी प्रियदर्शनवत् । सर्वसाधर्म्ये दृष्टांतस्यापह्नवात् । सर्वथाऽभावो मोक्षः प्रदीपवदिति चेन्न, साध्यत्वात् । प्रदीपेपि निरन्वयविनाशस्याप्रतीतेः तस्य तमः पुद्गलभावेनोत्पादाद्दीपपुद्गलभावेन विनाशात् पुद्गलजात्या ध्रुवत्वात् । दृष्टत्वाच्च निगलादिवियोगे देवदत्ताद्यवस्थानवत् । न सर्वथा मोक्षावस्थायामभावः । यत्रैव कर्मविप्रमोक्षस्तत्रैवावस्थानमिति चेन्न, साध्यत्वात् । यो यत्र विप्रमुक्तः स तत्रैवावतिष्ठत इति सिद्धं, देशांतरगतिदर्शनात् । निगलादिविनिर्मुक्तस्य गतिकारणसद्भावाद्देशांतरगतिदर्शनमिति चेत्, निःशेषकर्मबंधन विप्रमुक्तस्यापि गतिनिमित्तस्योर्ध्वव्रज्याखभावस्य भावात् देशांतरा गतिरस्तु । तदेवं - १॥ मोक्षः केवलसम्यक्त्वज्ञानदर्शनसंक्षयात् । सिद्धत्वसंक्षयान्नेति त्वन्यत्रेत्यादिनात्रवीत् ॥ १ एतैः सह विरोधस्याभावान्मोक्षस्य सर्वथा । स्वयं सव्यपदेशैश्च व्यपदेशस्तथास्त्वतः ॥ २ ॥ सिद्धत्वं केवलादिभ्यो विशिष्टं तेषु सत्खपि । कर्मोदयनिमित्तस्यासिद्धत्वस्य कचिद्गतेः ॥ ३ ॥ Page #519 -------------------------------------------------------------------------- ________________ ५१० तत्त्वार्थश्लोकवार्तिके [ सू०७ ततः सकलकल्मषसंततिसंसक्तिविनिर्मुक्तिरेव स्वात्मेति समाचक्षते युक्तिशास्त्राविरुद्धवचसः सूरयो भगवंतस्तस्य खात्मनः प्राप्तिः परा निवृत्तिरिति निःसंदिग्धं तेन खविशेषगुणव्यावृत्तिर्मुक्तिश्चैतन्यमात्रस्थितिर्वा अन्यथा वा वदंतोपाकृताः, प्रमाणव्याहतत्वादिति निवेदयति ; स्वात्मांतर्बहिरंगकल्मषततिव्यासक्तिनिर्मुक्तता जीवस्येति वदंति शुद्धधिषणा युक्त्यागमान्वेषिणः । प्राप्तिस्तस्य तु निर्वृतिः परतरा नाभावमात्रं न वा विश्लेषो गुणतोन्यथा स्थितिरपि व्याहन्यमानत्वतः ॥ ४ ॥ इति दशमाध्यायस्य प्रथममाह्निकम् । तदनंतरमूर्ध्वं गच्छत्यालोकांतात् ॥ ५ ॥ तग्रहणं मोक्षस्य प्रतिनिर्देशार्थं, आङभिविध्यर्थः । एतदेव समभिधत्ते ; तच्छब्दाद्गृह्यते मोक्षः सूत्रेस्मिन्नान्यसंग्रहः । सामर्थ्यादिति तस्यैवानंतरं तदनंतरं ॥ १ ॥ गच्छतीति वचःशक्तेर्मुक्तिदेशे स्थितिच्छिदा । ऊर्ध्वमित्यभिधानात्तु दिगंतरगतिच्युतिः ||२|| आलोकांतादिति ध्वानान्नालोकाकाशगामिता । मुक्तिश्च इति त्वयं पक्षनिर्देश : " ...... हेतुनिर्देशस्तर्हि कर्तव्य इत्याह ; पूर्वप्रयोगादसंगत्वाधच्छेदात्तथा गतिपरिणामाच्च ॥ ६ ॥ एतच्च हेतुचतुष्टयं कथं गमकमित्याह ; पूर्वेत्याद्येन वाच्येन प्रोक्तं हेतुचतुष्टयं । साध्येन व्याप्तमुन्नेयमन्यथानुपपतितः ॥ १ ॥ अत्रैव दृष्टांतप्रतिपादनार्थमाह; - आविद्धकुलालचक्रवद्यपगतलेपालाबु वदेरंडवीजवदग्निशिखावच्च ॥ ७ ॥ किमर्थमिदमुदाहरणचतुष्टयमुक्तमित्याह ; आविद्धेत्यादिना दृष्टं सद्द्द्दष्टांतचतुष्टयं । बहिर्व्याप्तिरपीष्टेह साधनत्वप्रसिद्धये || १ || हेतुदृष्टांतानां यथासंख्यमभिसंबंधः । कथमित्याह ऊर्ध्वं गच्छति मुक्तात्मा तथा पूर्वप्रयोगतः । यथाविद्धं कुलालस्य चक्रमित्यत्र साधनं ॥ २ ॥ नासिद्धं मोक्तुकामस्य लोकाग्रगमनं प्रति । प्रणिधानविशेषस्य सद्भावाद्भूरिशः स्फुटं ॥ ३ ॥ न चानैकांतिकं तत्स्याद्विरुद्धं वा विपक्षतः । व्यावृत्तेः सर्वथा नेष्टविघातकृदिदं ततः ॥ ४ ॥ असंगत्वाद्यथालाबूफलं निर्गतलेपनं । बंधच्छेदाद्यथैरंडवीजमित्यप्यतो गतं ॥ ५ ॥ ऊर्ध्वव्रज्यास्वभावत्वादग्नेज्वला यथेति च । दृष्टांतेपि न सर्वत्र साध्यसाधनशून्यता ॥ ६ ॥ असंगत्वबंधच्छेदयोरर्थाविशेषादनुवादप्रसंग इति वेन्नार्थान्यत्वात् । बंधस्यान्योन्यप्रवेशे सत्यविभागेनावस्थान रूपत्वात्, संगस्य च परस्य प्राप्तिमात्रत्वात् । नोदाहरणमलाबूः मारुतादेशादिति चेन्न, तिर्थ - गमनप्रसंगात् तिर्यग्गमनखभावत्वान्मारुतस्य । नन्वेवमूर्ध्वगतिखभावस्यात्मन ऊर्ध्वगत्यभावेपि तद्भा Page #520 -------------------------------------------------------------------------- ________________ दशमोऽध्यायः । ५११ वप्रसंगोग्नेरौष्ण्यवत् तदभावेऽभाववदिति चेन्न, गत्यंतर निवृत्त्यर्थत्वात् तदूर्ध्वगतिस्वभावस्य ऊर्ध्वज्वलनवद्वा तद्भावे नाभावः । वेगवद्द्रव्याभिघातादनलस्योर्ध्वज्वलनाभावेपि तिर्यग्ज्वलनसद्भावादर्शनात् । नन्वेवं मुक्तस्य लोकात्परतः कुतो नोर्ध्वगतिरित्याह ; धर्मास्तिकायाभावात् ॥ ८ ॥ कः पुनर्धर्मास्तिकाय इत्याह; उक्तो धर्मास्तिकायोत्र गत्युपग्रहकारणं । तस्याभावान्न लोकाग्रात्परतो गतिरात्मनः ॥ १ ॥ एवं निःशेषमिथ्याभिमानो मुक्तौ निवर्तते । युक्त्यागमबलात्तस्याः स्वरूपं प्रति निर्णयात् ॥२॥ अथ किमेते मुक्ताः समानाः सर्वे किं वा भेदेनापि निर्देश्या इत्याशंकायामिदमाह; - क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसंख्याल्पबहुत्वतः साध्याः ॥ ९ ॥ केन रूपेण सिद्धाः क्षेत्रादिभिर्भेदैर्निर्देष्टव्या इत्याह ; सिद्धाः क्षेत्रादिभिर्भेदैः साध्याः सूत्रोपपादिभिः । सामान्यतो विशेषाच्च भावाभेदेपि सन्नयैः ॥ १ क्षेत्रं स्वात्मप्रदेशाः स्युः सिद्ध्यतां निश्चयान्नयात् । व्यवहारनयाद्वयोम सकलाः कर्मभूमयः ॥२ मनुष्य भूमिरप्यत्र हरणापेक्षया मता । हृत्वा परेण नीतानां सिद्धेः सूत्रानिवारणात् ॥ ३ ॥ तेषामेकक्षणः कालः प्रत्युत्पन्ननयात्मनः । भूतप्रज्ञापनादेव स्यात्सामान्यविशेषतः ॥ ४ ॥ उत्सर्पिण्यवसर्पिण्योर्जाताः सिद्ध्यंति केचन । चतुर्थकाले पर्यंतभागे काले तृतीयके ॥ ५ ॥ सर्वदा हरणापेक्षा क्षेत्रापेक्षा हि कालभृत् । सर्वक्षेत्रेषु तत्सिद्धौ न विरुद्धा कथंचन ॥ ६ ॥ सिद्धिः सिद्धिगतौ पुंसां स्यान्मनुष्यगतावपि । अवेदत्वेन सा वेदवितयाद्वास्ति भावतः ॥ ७ ॥ पुल्लिंगेनैव तु साक्षाद्रव्यतोन्या तथागम- । व्याघाताद्युक्तिबाधाच्च ख्यादिनिर्वाणवादिनां ॥ ८ ॥ साक्षान्निर्ग्रथलिंगेन पारंपर्यात्ततोन्यतः । साक्षात्सग्रंथलिंगेन सिद्धौ निर्ग्रथता वृथा ॥ ९ ॥ सति तीर्थकरे सिद्धिरसत्यपि च कस्यचित् । भवेदव्यपदेशेन चरित्रेण विनिश्चयात् ॥ १० ॥ तथैवैकचतुः पंचविकल्पेन प्रकल्पते । परोपदेशशून्यत्वात्सिद्धी प्रत्येकबुद्धता ॥ ११ ॥ परोपदेशतः सिद्धो बोधितः प्रतिपादितः । ज्ञानेनैकेन वा सिद्धिर्द्वाभ्यां त्रिभिरपीष्यते ॥ १२ ॥ चतुर्भिः स्वामिमुख्यस्यापेक्षायां नान्यथा पुनः । अवगाहनमुत्कृष्टं सपादशतपंचकं ।। १३ ।। चापानामर्धसंयुक्तमरत्नित्रयमप्यथ । मध्यमं बहुधा सिद्धिस्त्रिप्रकारेऽवगाहने ॥ १४ ॥ स्वदेशे नभोव्यापिलक्षणे संप्रवर्तते । अनंतरं जघन्येन द्वौ क्षणौ सिद्ध्यतां नृणां ।। १५ ।। उत्कर्षेण पुनस्तत्स्यादेतेषां समयाष्टकं । अंतरं समयोस्त्येको जघन्येन प्रकर्षतः ॥ १६ ॥ षण्मासाः सिद्ध्यतां नाना मध्यमं प्रति गम्यतां । एकस्मिन् समये सिद्धयेदेको जीवो जघन्यतः १७ अष्टोत्तरशतं जीवाः प्रकर्षेणेति विश्रुतं । नाल्पेन बहवः सिद्धाः सिद्धक्षेत्रव्यपेक्षया ॥ १८ ॥ व्यवहारव्यपेक्षायां तेषामल्पबहुत्ववित् । तत्राल्पे हरणात्सिद्धा जन्मसिद्ध समूहतः ॥ १९ ॥ Page #521 -------------------------------------------------------------------------- ________________ ५१२ तत्त्वार्थश्लोकवार्तिके [सू०९ जन्मसिद्धाः पुनस्तेभ्यः संख्येयगुणताभृतः । कर्मभोगधरा वार्धिद्वीपोर्ध्वाधस्तिरोभुवाः ॥२०॥ सिद्धानामूर्ध्वसिद्धाः स्युः सर्वेभ्योल्पे परेन्यथा। युः संख्येयगुणास्तेभ्योधस्तिर्यग्भिताः क्रमात् ॥ समुद्रे सर्वतः स्तोका द्वीपे संख्येयसंगुणाः। लवणोदे समस्तेभ्यः स्तोकाः सिद्धा विशेषतः॥२२॥ कालोदे सागरे जंबूद्वीपे च परिनिर्वृताः । धातकीखंडसवीपे पुष्करद्वीप एव च ॥ २३ ॥ ते संख्येयगुणाः प्रोक्ताः क्रमशो बहवोन्यथा । प्रत्येतव्याः समासेन यथागममशेषतः ॥२४॥ एक एव तु सिद्धात्मा सर्वथेति यके विदुः । तेषां नानात्मनां सिद्धिमार्गानुष्ठा वृथा भवेत् ॥२५ क्षेत्राद्यपेक्षया चोक्तां संसार्येकत्वमंजसा । एकात्मवादिना चैवं तत्र वाचोप्रमाणता ॥२६॥ निःशेषकुमतध्वांतविध्वंसनपटीयसी । मोक्षनीतिरतो जैनी भानुदीप्तिरियोज्वला ॥ २७ ॥ एवं जीवादितत्त्वार्थाः प्रपंच्य समुदीरिताः । सम्यग्दर्शनविज्ञानगोचराश्चरणाश्रयाः ॥२८॥ ततः साधीयसी मोक्षमार्गव्याख्या प्रपंचतः । सर्वतत्त्वार्थविद्येयं प्रमाणनयशक्तितः॥२९॥ तदेवं शास्त्रपरिसमाप्तौ परममंगलं निःश्रेयसमार्गमेव मंगलमभिष्टोतुमनाः प्राह; जीयात्सजनताश्रयः शिवसुधाधारावधानप्रभु____ वस्तध्वांतततिः समुन्नतगतिस्तीव्रप्रतापान्वितः । प्रोज्योतिरिवावगाहनकृतानंतस्थितिर्मानतः सन्मार्गस्त्रितयात्मकोऽखिलमलप्रज्वालनप्रक्षमः ॥ ३० ॥ इति दशमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे दशमोऽध्यायः ममाप्तः ॥ १० ॥ ही तत्त्वार्थश्लोकवार्तिकं समाप्तम् । Page #522 -------------------------------------------------------------------------- ________________