________________
सप्तमोऽध्यायः।
४६७ पभोगपरिभोगपरिमाणयोरनर्थकं चंक्रमणादिकं विषयोपसेवनं च न कर्तव्यमिति प्रकाशितं भवति ततो विशुद्धिविशेषोत्पत्तेः । सामायिकं कथं त्रिधा विशुद्धिदमिति चेत् , प्रतिपाद्यते । सामायिके नियतदेशकाले महाव्रतत्वं पूर्ववत् ततो विशुद्धिरणुस्थूलकृतहिंसादिनिवृत्तेः । संयमप्रसंगः संयतासंयतस्यापीति चेन्न, तस्य तद्धातिकर्मोदयात् । महाव्रतत्वाभाव इति चेन्न, उपचाराद्राजकुले सर्वगतचैत्रवत् । कः पुनः प्रोषधोपवासो यथाविधीत्युच्यते-स्नानगंधमाल्यादिविरहितो अवकाशे शुचावुपवसेत् इत्युपवासविधिर्विशुद्धिकृत् , खशरीरसंस्कारकरणत्यागाद्धर्मश्रवणादिसमाहितांतःकरणत्वात् तस्मिन् वसति निरारंभत्वाच्च । भोगपरिभोगसंख्यानं पंचविधं, सघातप्रमादबहुवधानिष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं त्रसघातजं तद्विषयं सर्वदा विरमणं विशुद्धिदं, मद्यं प्रमादनिमित्तं तद्विषयं च विरमणं संविधेयमन्यथा तदुपसेवनकृतः प्रमादात्सकलव्रतविलोपप्रसंगः । केतक्यर्जुनपुष्पादिमाल्यं जंतुप्रायं शृंगवेरमूलकाहरिद्रानिंबकुसुमादिकमुपदंशकमनंतकायव्यपदेशं च बहुवधं तद्विषयं विरमणं नित्यं श्रेयः, श्रावकत्वविशुद्धिहेतुत्वात् । यानवाहनादि यद्यस्यानिष्टं तद्विषयं परिभोगविरमणं यावज्जीवं विधेयं । चित्रवस्वाद्यनुपसेव्यमसत्यशिष्टसेव्यत्वात् , तदिष्टमपि परित्याज्यं शश्वदेव । ततोन्यत्र यथाशक्ति स्वविभवानुरूपं नियतदेशकालतया भोक्तव्यं । अतिथिसंविभागश्चतुर्विधो भिक्षोपकरणौषधप्रतिश्रयभेदात् । तत्र भिक्षा निरवद्याहारः, रत्नत्रयोपबृंहणमुपकरणं पुस्तकादि, तथौषधं रोगनिवृत्त्यर्थमनवद्यद्रव्यं, प्रतिश्रयो वसतिः स्त्रीपश्वादिकृतसंबंधरहिता योग्या विज्ञेया । एवंविधोदितव्रतसंपन्नोणुव्रतो गृहस्थः शुद्धात्मा प्रतिपत्तव्यः । चशब्दः सूत्रेनुक्तसमुच्चयार्थः प्रागुक्तसमुच्चयार्थात् । तेन गृहस्थस्य पंचाणुव्रतानि सप्तशीलानि गुणव्रतशिक्षाबतव्यपदेशभांजीति द्वादश दीक्षाभेदाः सम्यक्त्वपूर्वकाः सल्लेखनांताश्च महाव्रततच्छीलवत् ॥ कदा सल्लेखना कर्तव्येत्याह;
मारणांतिकी सल्लेखनां जोषिता ॥ २२ ॥ व्रतीत्यभिसंबंधः सामान्यात् । वायुरिंद्रियबलसंक्षयो मरणं, अंतग्रहणं तद्भवमरणप्रतिपत्त्यथै ततः प्रतिसमयं वायुरादिसंक्षयोपलक्षणनित्यमरणव्युदासः । भवांतरप्राप्त्यजहद्वृत्तखभावनिवृत्तिरूपस्यैव तद्भवमरणस्य प्रतिपत्तेः । मरणमेवांतो मरणांतः मरणांतः प्रयोजनमस्या इति मारणांतिकी । सम्यक्कायकषायलेखना बाह्यस्य कायस्याभ्यंतराणां च कषायाणां यथाविधिमरणविभक्त्याराधनोदितक्रमेण तनूकरणमिति यावत् । तां मारणांतिकी सल्लेखनां जोषिता प्रीत्या सेवितेत्यर्थः ॥ किं कर्तुमित्याह
सम्यकायकषायाणां त्वक्षा सल्लेखनात्र तां । जोषिता सेविता प्रीत्या स व्रती मारणांतिकीं ॥१ मृत्युकारणसंपातकालमास्थित्य सद्वतं । रक्षितुं शक्यभावेन नान्यथेत्यप्रमत्तगं ॥२॥
सेवितेति ग्रहणं विस्पष्टार्थमिति चेन्न, अर्थविशेषोपपत्तेः । प्रीतिसेवनार्थों हि विशिष्टो जोषितेति वचनात्प्रतिपद्यते । विशेषोपयोगादिभिरात्मानं नत एव तद्भावात् तत्र खयमारोपितगुणक्षतेरभावात्प्रीत्युत्पत्तावपि मरणस्यानिष्टत्वात् , खरत्नाविधाते भांडागारविनाशेपि तदधिपतेः प्रीतिविनाशानिष्टवत् । उभयानभिसंबंधाच्चाप्रमत्तस्य नास्मबधः । न ह्यसौ तदा जीवनं मरणं वाभिसंबंधे "नाभिनंदामि मरणं नाभिकांक्षामि जीवितं । कालमेव प्रतीक्षेहं निदेशं भृतको यथा ॥” इति संन्यासिनो भावनाविशुद्धिः । ततो न सल्लेखनायामात्मवध इति वचनं युक्तं, तदा वदतः खसमयविरोधात् । सोयं नासंचेतितं कर्म बध्यत इति स्वयं प्रतिज्ञाय बधकचित्तमंतरेणापि संन्यासे खबधदोषमुद्भावयन् खसमयं बाधते स्ववचनविरोधाच्च सदा मौनव्रतिकोहमित्यभिधानवत् । मरणसंचेतनाभावे कथं सल्लेखनायां प्रपन्न इति चेन्न,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org