________________
४६६ तत्त्वार्थश्लोकवार्तिके
[सू० २१ अणुव्रतोऽगारी ॥ २०॥ अनुशब्दः सूक्ष्मवचनः सर्वसावधनिवृत्त्यसंभवात् । स हि द्वींद्रियादिव्यपरोपणे निवृत्तः, स्नेहद्वेषमोहावेशादसत्याभिधानवर्जनप्रवणः, अन्यपीडाकरात् पार्थिवभयाद्युत्पादितनिमित्तादप्यदत्तात् प्रतिनिवृत्तः, उपात्तानुपात्तान्यांगनासंगाद्विरतिः, परिच्छिन्नधनधान्यक्षेत्राद्यवधिही प्रत्येतव्यः ॥ सामर्थ्यात् महाव्रतोऽनगार इत्याह
तत्र चाणुव्रतोगारी सामर्थ्यात्स्यान्महाव्रतः । अनगार इति ज्ञेयमत्र सूत्रांतराद्विना ॥१॥ दिग्विरत्यादिसंपन्नः स्यादगारीत्याह;दिग्देशानर्थदंडविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमा
णातिथिसंविभागवतसंपन्नश्च ॥ २१ ॥ आकाशप्रदेशश्रेणी दिक्, न पुनद्रव्यांतरं तस्य निरस्तत्वात् । आदित्यादिगतिविभक्तस्तद्भेदः पूर्वादिर्दशधा । ग्रामादीनामवधृतपरिमाणप्रदेशो देशः । उपकारात्यये पापादाननिमित्तमनर्थदंडः । विरतिशब्दः प्रत्येकमभिसंबध्यते । विरत्यग्रहणमधिकारादिति चेन्न, उपसर्जनानभिसंबंधत्वात् । एकत्वेन गमनं समयः, एकोहमात्मेति प्रतिपत्तिर्द्रव्यार्थादेशात् कायवाङ्मनःकर्म पर्यायानर्पणात् , सर्वसावद्ययोगनिवृत्त्येकनिश्चयनं वा व्रतभेदार्पणात् , समय एव सामयिकं समयः प्रयोजनमस्येति वा । उपत्य खस्मिन् वसंतींद्रियाणीत्युपवासः, खविषयं प्रत्यव्यावृत्तत्वात् प्रोषधे पर्वण्युपवासः प्रोषधोपवासः । उपेत्य भुज्यत इत्युपभोगः अशनादिः, परित्यज्य भुज्यत इति परिभोगः पुनः पुनर्भुज्यत इत्यर्थः स वस्त्रादिः । परिमाणशब्दः प्रत्येकमुभाभ्यां संबंधनीयः । संयममविराधयन्नततीत्यतिथिः, न विद्यतेस्य तिथिरिति वा तस्मै संविभागः प्रतिश्रयादीनां यथायोगमतिथिसंविभागः । व्रतशब्दः प्रत्येकमभिसंबध्यते संपन्नशब्दश्च तेन दिग्विरतिव्रतसंपन्न इत्यादि योज्यं । व्रतग्रहणमनर्थकमिति चेत्, उक्तमत्र चोपसर्जनानभिसंबंधादिति । तत इदमुच्यतेदिग्देशानर्थदंडेभ्यो विरतिर्या विशुद्धिकृत । सामायिकं त्रिधा शुद्धं त्रिकालं यदुदाहृतं ॥१॥ यः प्रोषधोपवासश्च यथाविधि निवेदितः । परिमाणं च यत्स्वस्योपभोगपरिभोगयोः ॥२॥ आहारभेषजावासपुस्तवस्त्रादिगोचरः । संविभागो व्रतं यत्स्यायोग्यायातिथये स्वयं ॥३॥ तत्संपन्नश्च निश्चयोऽगारीति द्वादशोदिताः । दीक्षाभेदा गृहस्थस्य ते सम्यक्त्वपुरःसराः॥४॥ कुतः कारणादिग्विरतिः परिमिताच्च समाश्रीयते यतो विशुद्धिकारिणी स्यादिति चेत् , दुष्परिहारक्षुद्रजंतुप्रायत्वाद्विनिवृत्तिस्तत्परिमाणं च योजनादिभितिवद्भिः ततो अगमनेपि प्राणिवधाद्यनुज्ञातमिति चेन्न, निवृत्त्यर्थत्वात्तद्वचनस्य । कथंचित्प्राणिवधस्य परिहारेण गमनसंभवात् , तृष्णाप्राकाम्यनिरोधनतंत्रत्वाच्च तद्विरतेः । महालाभेपि परिमितदिशो बहिरगमनात् । ततो बहिर्महाव्रतसिद्धिरिति वचनात् । तथैव देशविरतेर्विशुद्धिकृत् अनर्थदंडः पंचधा, अपध्यानपापोद्देशप्रमादचरितहिंसाप्रदानाशुभश्रुतिभेदात् । ततोपि विरतिर्विशुद्धिकारिणी । नरपतिजयपराजयादिसंचिंतनलक्षणादपध्यानात् क्लेशतिर्यग्वणिज्यादिवचनलक्षणात्पापोपदेशात् निःप्रयोजनवृक्षादिछेदनभूमिकुट्टनादिलक्षणात्प्रमादाचरितात् विषशस्त्रादिप्रदानलक्षणाच्च हिंसाप्रदानात् हिंसादिकथाश्रवणाभीक्ष्णव्यावृत्तिलक्षणाचाशुभश्रुतेर्विरतेर्विशुद्धपरिणामोत्पत्तेः । मध्येनर्थदंडग्रहणं पूर्वोत्तरातिरेकानर्थक्यज्ञापनार्थं तेनानर्थदंडात्पूर्वयोर्दिग्देशविरत्योरुत्तरयोश्चो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org