________________
सप्तमोऽध्यायः ।
४६५
तिकस्य करणायोगात् । तर्हि तनुस्थित्यर्थमाहारग्रहणं यतेस्तनुमूर्छाकारणक्षमं युक्तमेवेति चेन्न, रत्नत्रयाराधननिबंधनस्यैवोपगमात् । तद्विराधन हेतोस्तस्याप्यनिष्टः । न हि नवकोटिविशुद्धमाहारं भैक्ष्यशुद्ध्यनुसारितया गृह्णन् मुनिर्जातुचिद्रलत्रय विराधनविधायी, ततो न किंचित्पदार्थग्रहणं कस्यचिन्मूर्छाविरहे संभवतीति सर्वः परिग्रहः प्रमत्तस्यैवाब्रह्मवत् ॥
अथैतेभ्यो हिंसादिभ्यो विरतिर्ब्रतमिति निश्चितं तदभिसंबंधातु यो व्रती स कीदृश इत्याहनिःशल्यो व्रती ॥ १८ ॥
अनेकधा प्राणिगणशरणाच्छत्यं बाधाकरत्वादुपचारसिद्धिः । त्रिविधं मायानिदानमिथ्यादर्शनभेदात् । कश्चिदाह-विरोधाद्विशेषणानुपपत्तिः, मिथ्यादर्शनादिनिवृत्तेत्रेतित्वाभावात् सद्दर्शनादित्वसिद्धेर्व्रताभिसंबंधादेव तत्वघटनात् । विरुद्धं प्रतित्वस्य निःशल्यत्वं विशेषणं दंडित्वस्य चक्रित्वविशेषणवत् । तदविरुद्धेपि विशेषणस्यानर्थक्यं वान्यतरेण गतार्थत्वात् । निःशल्य इत्यनेनैव त्रतित्वसिद्धिर्ब्रतिग्रहणस्यानर्थक्यं व्रतीति वचनादेव निःशल्यत्वसिद्धेस्तद्वचनानर्थक्यवत् । विकल्प इति चेन्न, फलविशेषाभावात् निःशल्य इति वा व्रतीति वा स्यादिति, विकल्पे हि न किंचित्फलमुपलभामहे । न च व्यपदेशद्वयमात्रमेव फलं । संशयनिवृत्तिः फलमित्यपि न सम्यक्, तदविनाभावादेव संशयनिवृत्तेर्विपर्ययानध्यवसायनिवृत्तिवदिति । अत्राभिधीयते न वांगांगिभावस्य विवक्षितत्वात् । निःशल्यत्रतित्वयोर्ह्यत्रांगांगिभावो विवक्षितः । प्रधानविधानादप्रधानस्य । प्रधानं हि त्रतित्वमंगि तन्निः शल्यत्वमप्रधानमंगभूतमनुविधत्ते, यत्र व्रतित्वं तत्रावश्यं भवतीति न तस्य तेन विरोधेनापि विशेषणं तदनर्थकं न विकल्पोपगमो न च फलविशेषाभावोपि प्रधानगुणदर्शनेन मतांतरव्यवच्छेदस्य फलस्य सिद्धेः । तेन कृतनिदानस्यापि मायाविनो मिथ्यादृष्टेच हिंसादिभ्यो विरतावपि व्रतित्वाभावः सिद्धः । मायानिदान मिथ्यादर्शन र हितस्यापि चासंयतसम्यग्दृष्टेर्व्रतित्वाभावः प्रतिपादितः स्यात् । ततः ॥
निःशल्योत्र व्रती ज्ञेयः शल्यानि त्रीणि तत्त्वतः । मिथ्यात्वादीनि सद्भावे व्रताशय विपर्ययः ॥ १ सनी सागार एवानगार एवेत्येकांतापाकृतये सूत्रकारः प्राह ;
अगार्यनगार ॥ १९ ॥
प्रतिश्रयार्थितयांगनादगारं । अनियमप्रसंग इति चेन्न, भावागारस्य विवक्षितत्वात् तदस्यास्तीत्यगारी । व्रतीत्यभिसंबंधः । व्रतिकारणासाकल्याद्गृहस्थस्यानतित्वमिति चेन्न, नैगमसंग्रहव्यवहारव्यापारान्नगरवासवद्राजवद्वा ! नैगमव्यापाराद्धि देशतो विरतः सर्वतो विरतिं प्रत्यभिमुख संकल्पो व्रती व्यपदिश्यते नगरवासत्वराजत्वाभिमुखस्य नगरवासराजव्यपदेशवत् । संग्रहनयाद्वाणुत्रतमहा व्यक्तिवर्तित्रतत्वसामान्यादेशादणुव्रतोपि व्रतीप्यते नगरैकदेशवासिनो नगरवासव्यपदेशवत् देशविषयराजस्यापि राजव्यपदेशवच्च व्यवहारनयाद्देशतो व्रत्यप्यगारी व्रतीति प्रतिपाद्यते तद्वदेवेत्यविरोधः ॥ न विद्यते अगारमस्येत्यनगारः स च व्रती सकलव्रतकारणसद्भावात् । ततो अग्रहस्थ एव त्रतीत्येकांतोप्यपास्तः ॥
नन्वेवमनगारस्य पथिकादेः प्रतित्वं स्यादित्याशंकामपासन्नाहसोप्यगार्यनगारश्च भावागारस्य भावतः । अभावाच्चेति पांथादेर्नानगारत्वसंभवः ॥ १ ॥ कः पुनरगारीत्याह;—
५९
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org