________________
४६४ तत्त्वार्थश्लोकवार्तिके
[ सू० १७ यस्य हिंसानृतादीनि तस्य संति परस्परं । अविनाभाववद्भावादेषामिति च दुर्बुधाः ॥ १॥ ततो हिंसाव्रतं यस्य तस्य सर्वव्रतक्षतिः । तदेव पंचधा भिन्नं कांश्चित् प्रति महाव्रतं ॥२॥
यस्मादतिजडान् वक्रजडांश्च विनेयान् प्रति सर्वसावद्यनिवृत्तिलक्षणमहिंसाव्रतमेकमेव सुमेधोभिरभिमन्यमानं पंचधा छिन्नं तस्माद्यस्य हिंसा तस्यानृतादीनि संत्येव तेषां परस्परमविनाभावादहिंसायाः सत्यादविनाभाववत् । ननु च सति परिग्रहे तत्संरक्षणानंदादवश्यंभाविनी हिंसानृते स्यातां स्तेयात्रह्मणी तु कथमिति चेत् , सर्वथा परिग्रहवतः परस्य खग्रहणात् स्त्रीग्रह्णाच्च निवृत्तेरभावात् । तन्निवृत्तौ देशतो विरतिप्रसंगात् सर्वथा विरोधात् । एतेन सर्वथा हिंसायामनृतस्तेयाब्रह्मपरिग्रहाणामवश्यंभावः प्रतिपादितस्तत्रानृतादिभ्यो हिंसांगेभ्यो विरतेरसंभवात् संभवे वा सर्वथा हिंसानवस्थितेः । तथैवानृते सर्वथा हिंसास्तेयाब्रह्मपरिग्रहाणामवश्यंभावः प्रकाशितः हिंसांगत्वेनानृतस्य वचनात् तत्र तस्याः साम
र्थ्यतः सिद्धेः । स्तेयाब्रह्मपरिग्रहाणामपि सिद्धेस्तदंगत्वान्यथानुपपत्तेः । तथा स्तेयासत्ये अवश्यंभाविनी हिंसा, द्रविणहरणस्यैव हिंसात्वात् द्रविणस्य बाह्यप्राणात्मकत्वात् । तथा चोक्तं-"यावत्तद्रविणं नाम प्राणा एते बहिस्तरां । स तस्य हरते प्राणान् यो यस्य हरते धनं ॥” इति हिंसाप्रसिद्धौ चानृताब्रह्मपरिग्रहाणां सिद्धिस्तदंगत्वात् । एवमब्रह्मणि सति हिंसायाः सिद्धिस्तस्या रागाद्युत्पत्तिलक्षणत्वात् खभोग्यस्त्रीसंरक्षणानंदाच्च हिंसायां च सिद्धायां स्तेयानृतपरिग्रहसिद्धिस्तदंगत्वात् तेषां तद्विरत्यभावाद्विरतौ वा सर्वथा तद्भावविरोधात् देशविरतिप्रसंगात् ॥ तदेवं वस्त्रपात्रदंडाजिनादिपरिग्रहाणां न परिग्रहो मूर्छारहितत्वात् तत्त्वज्ञानादिखीकरणवदिति वदंतं प्रत्याह;मूर्छा परिग्रहः सोपि नाप्रमत्तस्य युज्यते । तया विना न वस्त्रादिग्रहणं कस्यचित्ततः ॥३॥
लज्जापनयनाथ कर्पटखंडादिमात्रग्रहणं मूर्छाविरहेपि संभवतीति चेन्न, कामवेदनापनयनाथ स्त्रीमात्रग्रहणेपि मूर्छाविरहप्रसंगात् । तत्र योषिदभिषंग एव मूर्छति चेत् , अन्यत्रापि वस्त्राभिलाषः सास्तु केवलमेकं तु कामवेदना योषिदभिलापहेतुः परत्र लज्जा कर्पटाभिलाषकारणमिति न तत्कारणनियमोस्ति, मोहोदयस्यैवांतरंगकारणस्य नियतत्वात् । एतेन लिंगदर्शनात् कामिनीजनदुरभिसंधिः स्यादिति तन्निवारणार्थ पटखंडग्रहणमिति प्रत्युक्तं, तन्निवारणस्यैव तदभिलाषकारणत्वात् । नयनादिमनोहरांगानां दर्शनेपि वनिताजनदुरभिप्रायसंभवात् तत्प्रच्छादनकर्पटस्यापि ग्रहणप्रसक्तिश्च तत एव तद्वत् । सोऽयं वहस्तेन बुद्धिपूर्वपटखंडादिकमादाय परिदधानोपि तन्मूर्छारहित इति कोशपानं विधेयं, तन्वीमाश्लिष्यतोऽपि तन्मूर्छारहितत्वमेवं स्यात् । ततो न मूर्छामंतरेण पटादिखीकरणं संभवति तस्य तद्धेतुकत्वात् । सा तु तदभावेपि संभाव्यते कार्यापायेपि कारणस्य दर्शनात् , धूमाभावेपि मुर्मुराद्यवस्थपावकवत् । नन्वेवं पिच्छादिग्रहणेपि मूर्छा स्यात् इति चेत् , तत एव परमनैर्ग्रन्थ्यसिद्धौ परिहारविशुद्धिसंयमभृतां तत्त्यागः सूक्ष्मसांपराययथाख्यातसंयमभृन्मुनिवत् । सामायिकछेदोपस्थापनसंयमभृतां तु यतीनां संयमोपकरणत्वात् प्रतिलेखनस्य ग्रहणं सूक्ष्ममूर्छासद्भावेपि युक्तमेव, मार्गाविरोधित्वाच्च । नत्वेवं सुवर्णादिग्रहणप्रसंगः तस्य नाम्यासंयमोपकरणत्वाभावात् तद्विरोधित्वात् । सकलोपभोगसम्यग्निबंधनत्वाच । न च त्रिचतुरपिच्छमात्रमलाबूफलमानं वा किंचिन्मूल्यं लभते यतस्तदप्युपभोगसंपत्तिनिमित्तं स्यात् । न हि मूल्यदानक्रययोग्यस्य पिच्छादेरपि ग्रहणं न्याय्यं, सिद्धांतविरोधात् । ननु मूर्छाविरहे क्षीणमोहानां शरीरपरिग्रहोपगमान्न तद्धेतुः सर्वः परिग्रह इति चेन्न, तेषां पूर्वभवमोहोदयापादितकर्मबंधनिबंधनशरीरपरिग्रहाभ्युपगमात् । मोहक्षयात्तत्त्यागार्थ परमचारित्रस्य विधानादन्यथा तत्त्यागस्यात्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org