________________
सप्तमोऽध्यायः ।
४६३
कथमेवं कर्मणा जीवस्य बंधस्तद्योग्यपुद्गलादानलक्षणः सूत्रित इति चेत्, शरीराहारविषयपरिणामतस्तद्वंधः शरीरिणो न पुनः स्वहस्ताद्यादानतः तेषामात्मनि शुभाशुभपरिणामढौकनस्यैवादानशब्देन व्यपदेशात् । तर्हि शब्दादिविषयाणां रथ्याद्वारादीनां वादत्तानामादानात् स्तेयप्रसंग इति चेन्न, तदादायिनो यतेरप्रमत्तत्वात् तेषां सामान्येन जनैर्दत्तत्वाच्च देववंदनादिनिमित्तधर्मादानात् स्तेयप्रसंग इति चेन्न, उक्तत्वात् । तत्र दानादानव्यवहारासंभवाद्धर्मकारणानुष्ठानादिग्रहणाद्धर्मग्रहणोपचाराद्वा तथा व्यवहारसिद्धेरिति । प्रमत्ताधिकारत्वादन्यत्राप्रसंगः स्तेयस्य । देववंदनादौ प्रमादाभावात्तन्निमित्तकस्य धर्मस्य परेणादत्तस्याप्यादाने कुतः स्तेयप्रसंगः? एतदेवाह
प्रमत्तयोगतो यत्स्याददत्तादानमात्मनः । स्तेयं तत्सूत्रितं दानादानयोग्यार्थगोचरम् ॥ १ ॥ तेन सामान्यतोऽदत्तमाददानस्य सन्मुनेः । सरिनिर्झरणाद्यंभः शुष्कगोमयखंडकम् ॥ २॥ भस्मादि वा स्वयं मुक्तं पिच्छालाबूफलादिकं । प्रासुकं न भवेत्स्तेयं प्रमत्तत्वस्य हानितः ॥३॥ अथ किमब्रह्मेत्याह;
मैथुनमब्रह्म ॥ १६ ॥ मिथुनस्य भावो मैथुनमिति चेन्न, द्रव्यद्वयभवनमात्रप्रसंगात् । मिथुनस्य कर्मेति चेन्न, पुरुषद्वयनिवर्त्यक्रियाविशेषप्रसंगात् । स्त्रीपुंसयोः कर्मेति चेन्न, पच्यादिक्रियाप्रसंगात् । स्त्रीपुंसयोः परस्परगात्रश्लेषे रागपरिणामो मैथुनमिति चेन्न, एकस्मिन्नप्रसंगात् । उपचारादिति चेन्न, मुख्यफलाभावप्रसंगात् । ततो न मैथुनशब्दादिष्टार्थसंप्रत्यय इति कश्चित् , तत्प्रतिक्षेपार्थमुच्यते-न च, स्पर्शवद्रव्यसंयोगस्याविशेपाभिधानादेकस्य द्वितीयत्वोपपत्तौ मिथुनत्वसिद्धेः, प्रसिद्धिवशाद्वार्थप्रतीतेः पूर्वोक्तानां चानवद्यत्वात् सिद्धो मैथुनशब्दार्थः । अहिंसादिगुणबृंहणाद्ब्रह्म तद्विपरीतमब्रह्म तच्च मैथुनमिति प्रतिपत्तव्यं रूढिवशात् । ततो न प्राणव्यपरोपणादीनां ब्रह्मविपरीतत्वेप्यब्रह्मत्वप्रसिद्धिः ॥ तदिदमब्रह्म प्रमत्तस्यैव संभवतीत्याह;
तथा मैथुनमब्रह्म प्रमत्तस्यैव तत्पुनः । प्रमादरहितानां हि जातुचित्तदसंभवः ॥१॥
न हि यथा प्रमादाभावेपि कस्यचित्संयतात्मनः प्राणव्यपरोपणादिकं संभवति तथा मैथुनमपि, तस्य प्रमादसद्भाव एव भावात् । वरांगनालिंगनमात्रमप्रमत्तस्यापि भवतीति चेन्न, तस्य मैथुनत्वाप्रसिद्धेः पुत्रस्य मात्रालिंगनवत् । स्पर्शनमैथुनदर्शनादि वा केषांचित्प्रसिद्धमिति चेन्न, तस्य रिरंसापूर्वकस्योपगमात् । न च संयतस्यांगनालिंगितस्यापि रिम्सास्ति, असंयतत्वप्रसंगात् । तदंगनाया रिरंसास्तीति चेत् , तस्या एव मैथुनमस्तु लेपमयपुरुषालिंगनवत् । प्रायश्चित्तोपदेशस्तत्र कथमिति चेत् , तस्यापि प्रसंगनिवृत्त्यर्थत्वात् । विस्रब्धालोकनादावपि तदुपदेशस्याविरोधात् ॥ कः पुनः परिग्रह इत्याह;
मूर्छा परिग्रहः ॥ १७ ॥ बाह्याभ्यंतरोपधिसंरक्षणादिव्यापृतिर्मूर्छा । वातपित्तश्लेष्मविकारस्येति चेन्न, विशेषितत्वात् । तस्याः सकलसंगरहितेपि यतौ प्रसंगात् । बाह्यस्यापरिग्रहत्वप्रसंग इति चेन्न, अध्यात्मकप्रधानत्वात् मूर्छाकारणत्वाबाह्यस्य मूर्छाव्यपदेशात् । ज्ञानदर्शनचारित्रेषु प्रसंगः परिग्रहस्येति चेन्न, प्रमत्ताधिकारात् । ततः सूक्तं मूर्छा परिग्रहः प्रमत्तयोगादिति । तन्मूलाः सर्वदोषानुषंगाः । यथा चामी परिग्रहमूलास्तथा हिंसादिमूला अपि हिंसादीनां पंचानामपि परस्परमविनाभावात् ॥ तदेवाह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org