________________
४६२ तत्त्वार्थश्लोकवार्तिके
[ सू० १५ परोपणमेव हिंसा प्रमत्तयोगाभावे तद्विधाने प्रायश्चित्तोपदेशात् , ततस्तदुभयोपादानं सूत्रे किमर्थमित्यपरः । अत्रोच्यते-उभयविशेषोपादानमन्यतमाभावे हिंसाभावज्ञापनार्थ । हिंसा हि द्वेधा भावतो द्रव्यतश्च । तत्र भावतो हिंसा प्रमत्तयोगः सन् केवलस्तत्र भावप्राणव्यपरोपणस्यावश्यंभावित्वात् । ततः प्रमत्तस्यात्मनः खात्मघातित्वात् रागाद्युत्पत्तेरेव हिंसात्वेन समये प्रतिवर्णनात् । द्रव्यहिंसा तु परद्रव्यप्राणव्यपरोपणं खात्मनो वा तद्विधायिनः प्रायश्चित्तोपदेशो भावप्राणव्यपरोपणाभावात् तदसंभवात् प्रमत्तयोगः स्यात् तद्धि पूर्वकस्य यतेरप्यवश्यंभावात् । ततः प्रमत्तयोगः प्राणव्यपरोपणं च हिंसेति ज्ञापनार्थ तदुभयोपादानं कृतं सूत्रे युक्तमेव । येषां तु न कश्चिदात्मा विद्यते क्षणकचित्तमात्रप्रतिज्ञानात् पृथिव्यादिभूतचतुष्टयप्रतिज्ञानाद्वा तेषां प्राण्यभावे प्राणाभावः कर्तुरभावात् । न हि चित्तलक्षणः प्राणानां कर्ता तस्य निरन्वयस्यार्थक्रियाहेतुत्वनिराकरणात् । नापि कायाकारपरिणतो भूतसंघातो मृतशरीरस्यापि तत्कर्तृत्वप्रसंगात् । ततो जीवशरीरस्यात्माधिष्ठितत्वमंतरेण विशेषाव्यवधानसाधनात् जीवति प्राणिनि प्राणसंभवात् तद्व्यपरोपणं प्रमत्तयोगात् स्याद्वादिनामेव हिंसेत्यावेदयतिहिंसात्र प्राणिनां प्राणव्यपरोपणमुदीरिता । प्रमत्तयोगतो नातो मुनेः संयतनात्मनः ॥१॥
रागादीनामनुत्पादान्न हिंसा खस्मिन् परत्र वास्तु न हिंसक इति सिद्धांते देशना, तस्य कचिदपि भावद्रव्यप्राणव्यपरोपणाभावात् तद्भाव एव हिंसकत्वव्यवस्थितेः रागादीनामुत्पत्तिर्हिसेति वचनात् ॥ किं पुनरनृतमित्याह;
असदभिधानमनृतम् ॥ १४ ॥ असदिति निर्मातसत्प्रतिषेधेनर्थसंप्रत्ययप्रसंग इति कश्चित् नवा, सच्छब्दस्य प्रशंसार्थवाचित्वात् तत्प्रतिषेधे अप्रशस्तार्थगतिरित्यन्वयः । तदिह हिंसादिकमसदभिप्रेतं अभिधानशब्दः करणाधिकरणसाधनः, ऋतं च तत्सत्यार्थे तत्प्रतिषेधादनृतं । तेनेदमुक्तं भवति प्रमत्तयोगादसदभिधानं यत्तदनृतमिति । मिथ्यानृतमित्यस्तु लघुत्वादिति चेन्न, विपरीतार्थमात्रसंप्रत्ययप्रसंगात् । न च विपरीतार्थमात्रमनृतमिप्यते सर्वथैकांतविपरीतस्यानेकात्मनोर्थस्यानृतत्वप्रसंगात् । एतेन मिथ्याभिधानमनृतमित्यपि निराकृतमतिव्यापित्वात् । यदि पुनरसदेव मिथ्येति व्याख्यानमाश्रीयते तदा यथावस्थितमस्तु प्रतिपत्तिगौरवानवतरणात् ॥ तदेवं
अप्रशस्तमसद्धोधमभिधानं यदस्य तत् । प्रमत्तस्यानृतं नान्यस्येत्याहुः सत्यवादिनः ॥१॥ तेन स्वपरसंतापकारणं यद्वचोगिनां । यथादृष्टार्थमप्यत्र तदसत्यं विभाव्यते ॥ २ ॥ मिथ्यार्थमपि हिंसादिनिषेधे वचनं मतं । सत्यं तत्सत्सु साधुत्वादहिंसात्रतशुद्धिदम् ॥ ३॥ स्तेयं किमित्याह;
अदत्तादानं स्तेयम ॥ १५॥ सर्वमदत्तमाददानस्य स्तेयत्वकल्पनायां कर्मादेयमात्मसात्कुर्वतः स्तेयत्वप्रसंग इति चेन्न, दानादानयोर्यत्रैव प्रवृत्तिनिवृत्ती तत्रैवोपपत्तेः । इच्छामात्रमिति चेन्न, अदत्तादानग्रहणात् । अदत्तस्यादानं स्तेयमित्युक्ते हि दानादानयोर्यत्र प्रवर्तनमस्ति तत्रैव स्तेयव्यवहार इत्यभिहितं भवति । तत्कर्मापि किमर्थ कस्मैचिन्न दीयत इति चेन्न, तस्य हस्तादिग्रहणविसर्गासंभवात् । स एव कुत इति चेत् , सूक्ष्मत्वात् । कथं धर्मो मयास्मै दत्त इति व्यवहार इति चेत् , धर्मकारणस्यायतनादेर्दानात् कारणे कार्योपचाराद्धर्मस्य दानसिद्धेः । धर्मानुष्ठानात् मनःकरणाद्वा तथा व्यवहारोपपत्तेरनुपालंभः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org