________________
सप्तमोऽध्यायः।
४६१ कारुण्यं च समस्तेषु संसारक्लेशभागिषु । माध्यस्थ्य वीतरागाणां न कचिद्विनिधीयते ॥३॥ भव्यत्वं गुणमालोक्य प्रमोदाखिलदेहिषु । कर्तव्य इति तत्रायं विभागो मुख्यरूपतः ॥४॥
जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ भावयितव्यो व्रतस्थैर्यार्थमिति शेषः । संवेगवैराग्ये हि व्रतस्थैर्यस्य हेतू , जगत्कायखभावभावनं संवेगवैराग्यार्थमिति परंपरया तस्य तदर्थसिद्धिः । जगत्कायशब्दावुक्तार्थो खेनात्मना भवनं खभावः, जगकाययोः खभावाविति वैराग्याथै ग्राह्यं । संसाराद्भीरुता संवेगः, रागकारणभावाद्विषयेभ्यो विरंजनं विरागः तस्य भावो वैराग्यं, संवेगवैराग्याभ्यां संवेगवैराग्यार्थमिति द्वयोः प्रत्येकमुभथार्थत्वं प्रत्येतव्यं ॥
केषां पुनः संवेगवैराग्याथै जगत्कायस्वभावभावने कुतो वा भवत इत्याहजगत्कायस्वभावौ वा भावने भावितात्मनां । संवेगाय विरक्त्यर्थं तत्त्वतस्तत्प्रबोधतः ॥१॥ तत्त्वतो जगत्कायखभावाभावबोधवादिनां तु तद्भावनातो नाभिप्रेतार्थसिद्धिरित्याह;भावना कल्पनामात्रं येषामर्थानपेक्षया । तेषां नार्थस्ततोऽनिष्टकल्पनात इवेप्सितम् ॥२॥ अनंतानंततत्त्वस्य कश्चिदर्थेषु भाव्यते । सन्नेवेति यथार्थैव भावना नो व्यवस्थिता ॥३॥ ततो यथा वितथसकलभावनाः प्रतिपन्नव्रतस्थैर्यहेतवस्तत्प्रतिपक्षस्वीकारनिराकरणहेतुत्वात्सम्यक् सूत्रिताः प्रतिपत्तव्याः ॥ अथ के हिंसादयो येभ्यो विरतिव्रतमित्युक्तमिति शंकायां हिंसां तावदाह;
प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ १३ ॥ अनभिगृहीतप्रचारविशेषः प्रमत्तः अभ्यंतरीभूतेवार्थो वा पंचदशप्रमादपरिणतो वा, योगशब्दः संबंधपर्यायवचनः, कायवाङ्मनःकर्म वा; तेन प्रमत्तसंबंधात् प्रमत्तकायादिकर्मणो वा प्राणव्यपरोपणं हिंसेति सूत्रितं भवति । किं पुनर्व्यपरोपणं? वियोगकरणं प्राणानां व्यपरोपणं प्राणव्यपरोपणं प्राणग्रहणं तत्पूर्वकत्वात् प्राणिव्यपरोपणस्य । सामर्थ्यतः सिद्धेः प्राणस्य प्राणिभ्योन्यत्वादधर्माभाव इति चेन्न, तद्दुःखोत्पादकत्वात् प्राणव्यपरोपणस्य । प्राणानां व्यपरोपणे ततः शरीरिणोऽन्यत्वादुःखाभाव इति चेन्न, इष्टपुत्रकलत्रादिवियोगे तापदर्शनात् । तेनान्यत्वस्य व्यभिचारात् प्राणप्राणिनोर्बधं प्रत्येकत्वाच्च सर्वथान्यत्वमसिद्धमिति न दुःखाभावसंभवः । शरीरिणः साधयतो यतो हिंसा न स्यात् । एकांतवादिनां तदनुपपत्तिः संबंधाभावात् । प्राणप्राणिनोः संयोगविशेषसंबंध इति चेत् , कुतस्तत्सांतरसंयोगाद्विशेषः? तददृष्टविशेषादिति चेत् , तस्याप्यात्मनोन्यत्वे कुतः प्रतिनियतात्मना व्यपदेशः । तत्र समवायादिति चेत् , सर्वात्मसु कस्मान्न तत्समवायः? प्रतिनियतात्मनि धर्माधर्मयोः फलानुभवनात्तत्रैव समवायो न सर्वात्मखिति चेत् , तदेव सर्वात्मसु किं न स्यात् ? सर्वात्मशरीरेष्वभावादिति चेन्न, शरीरस्यापि प्रतिनियतात्मखाभाविकत्वायोगात् सर्वात्मसाधारणत्वात् । यददृष्टविशेषेण कृतं यच्छरीरं तत्तस्यैवेति चेत् , तीदृष्टस्यापि ततोन्यतैवेत्येकांते कुतः प्रतिनियतात्मना व्यपदेश इति स एव पर्यनुयोगश्चक्रकं च । ततः सुदूरमपि गत्वा यत्रात्मनि भावादृष्टं कथंचित्तादात्म्येन स्थितं तस्य तत्कृतं द्रव्यादृष्टं पौद्गलिकं कर्म व्यपदिश्यते । तत्कृतं च शरीरं प्राणात्मकं तव्यपदेशमर्हति पुत्रकलत्रादिवदेवेति स्याद्वादिनामेव प्राणव्यपरोपणे प्राणिनो व्यपरोपणं दुःखोत्पत्तेर्युक्तं न पुनरेकांतवादिनां योगानां संख्यादिवत् । ननु प्रमत्तयोग एव हिंसा तदभावे संयतात्मनो यतेः प्राणव्यपरोपणेपि हिंसानिष्टेरिति कश्चित् । प्राणव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org