________________
४६० तत्त्वार्थश्लोकवार्तिके
[सू० ११ सर्वाक्षविषयेष्विष्टानिष्टोपस्थितेष्विह । रागद्वेषौ त्यजाम्येवं पंचमत्तशुद्धये ॥ १॥ इत्यनेकधावधानात् ॥ प्रत्येकमिति पंचानां व्रतानां भावना मताः । पंच पंच सदा संतु निःश्रेयसफलप्रदाः॥२॥ किं पुनरत्र भाव्यं? को वा भावकः? कश्च भावनोपाय इत्याह;भाव्यं निःश्रेयसं भाव्यो भावको भावना पुनः। तदुपाय इति त्र्यंशपूर्णाः स्याद्वादिनां गिरः॥३ .
न हि सर्वथैकांतवादिनां भावना भवति । नित्यस्यात्मनो भावकत्वे विरोधः, ततः प्रागभावकस्य शश्वदभावकत्वानुषक्तेः, भावकस्य सर्वदा भावकत्वापत्तेः । तत एव प्रधानस्यापि न भावकत्वमनित्यत्वप्रसंगात् । . नापि क्षणिकैकांते भावकोस्ति, निरन्वयविनाशिनः क्षणादूर्ध्वमवस्थानाभावात् पौनःपुन्येन चित्संतानानामसंभवात् संतानस्याप्यवस्तुत्वात् । ततोनेकांतवादिनामेव भावना युक्ता भावकस्य भव्यस्यात्मनः सिद्धेः सर्वकर्मनिर्मोक्षलक्षणस्य च निःश्रेयसस्य भाव्यस्योपपत्तेः । तदुपायभूतायाः सम्यग्दर्शनादिखभावविशेषात्मिकायाः सत्यभावनायाः प्रसिद्धेः । स्याद्वादिनामेव व्यंशपूर्णा गिरो वेदितव्याः ॥ सकलव्रतस्थैर्यार्थमित्थं च भावना कर्तव्येत्याह;
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९॥ अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकोपायः भयं वा, अवयं च गझै तयोर्दर्शनमवलोकन प्रत्येकं हिंसादिषु भावयितव्यं ॥ कथमित्याहहिंसनादिष्विहापायदर्शनं भावना यथा । मयामुत्र तथावद्यदर्शनं प्रविधीयते ॥१॥ हिंसादिसकलमव्रतं दुःखमेवेति च भावनां व्रतस्थैर्यार्थमाह;
दुःखमेव वा ॥ १०॥ दुःखमेवेति कारणे कार्योपचारो अन्नप्राणवत् , कारणकारणे वा धनप्राणवत् । दुःखस्य कारणं ह्यव्रतं हिंसादिकमपायहेतुत्वादिहैव दुःखमित्युपचर्यते, कारणे कारणं वा तदवद्यहेतुहेतुत्वात् तस्य च दुःखफलत्वात् तत्परत्र भावनामात्मसाक्षिकं ॥ ननु चाब्रह्मकर्मामुत्र दुःखमात्मसाक्षिकं तद्धि स्पर्शसुखमेवेति चेन्न, तत्र स्पर्शसुखवेदनाप्रतीकारत्वात् दुःखानुषक्तत्वाच्च दुःखत्वोपपत्तेः ॥ एतदेवाह
भावना देहिनां तत्र कर्तव्या दुःखमेव वा । दुःखात्मकभवोद्भूतिहेतुत्वादव्रतं हि तत् ॥ १॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेषु॥११॥
हिंसादिविरतिस्थैर्यार्थ भावयितव्यानीति भावनाश्चतस्रोपि वेदितव्याः । परेषां दुःखानुत्पत्त्यभिलाषो मैत्री, वदनप्रसादादिभिरभिव्यज्यमानांतर्भक्तिरनुरागः प्रमोदः, दीनानुग्रहभावः कारुण्यं, रागद्वेषपूर्वकपक्षपाताभावो माध्यस्थ्यं, अनादिकर्मबंधवशात्सीदंतीति सत्त्वाः, सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः, असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः, तत्त्वार्थश्रवणग्रहणाभ्याससंपादितगुणा अविनेयाः । सत्त्वादिषु मैत्र्यादयो यथासंख्यमभिसंबंधनीयाः । ता एता भावनाः सत्यनेकांताश्रयणे संभवंति नान्यथेत्याहमैत्र्यादयो विशुद्ध्यंगाः सत्त्वादिषु यथागमं । भावनाः संभवंत्यंत कांताश्रयणे तु ताः॥१॥ मैत्री सत्त्वेषु कर्तव्या यथा तद्वद्गुणाधिके । क्लिश्यमानेऽविनेये च सत्त्वरूपाविशेषतः ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org