SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५९ सप्तमोऽध्यायः। तत्स्थैर्यार्थ भावनाः पंच पंच ॥ ३॥ भावनाशब्दः कर्मसाधनः, पंच पंचेत्यत्र वीप्सायां शसः प्रसंग इति चेन्न, कारकाधिकारात् । क्रियाध्यारोपात्कारकत्वमासामिति चेन्न, विकल्पाधिकारात् । तेनैकैकस्य व्रतस्य भावनाः पंच पंच कर्तव्यास्तत्स्थिरभावार्थमित्युक्तं भवति ॥ तदेवाह तत्स्थैर्यार्थ विधातव्या भावनाः पंच पंच तु । तदस्थैर्ये यतीनां हि संभाव्यो नोत्तरोगुणः॥१॥ अथाद्यस्य व्रतस्य पंचभावनाः कथ्यंते;वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पंच ॥ ४॥ कथमित्याह;स्यातां मे वाङ्मनोगुप्ती प्रथमव्रतशुद्धये । तथैर्यादाननिक्षेपसमिती वीक्ष्यभोजनः ॥ १॥ इति मुहुर्मुहुश्चेतसि संचिंतनात् ॥ काः पुनर्द्वितीयस्य व्रतस्य भावना इत्याह;क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचीभाषणं च पंच ॥५॥ कथमित्याह;क्रोधलोभभयं हायं प्रत्याख्यानमृतोद्भवं । तत्त्वानुकूलमाभाषे द्वितीयव्रतशुद्धये ॥१॥ इत्येवं पौनःपुन्येन चिंतनात् ॥ तृतीयस्य व्रतस्य का भावना इत्याह;शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्मा विसंवादाः पंच ॥६॥ कथमित्याह;शून्यं मोचितमावासमधितिष्ठामि शुद्धिदं । परोपरोधं मुंचामि भैक्ष्यशुद्धिं करोम्यहं ॥१॥ सधर्मभिः समं शश्वदविसंवादमाद्रिये । अस्तेयातिकमध्वंसहेतुतद्रतवृद्धये ॥२॥ इत्येवं बहुशः समीहनात् ॥ चतुर्थस्य व्रतस्य कास्ता भावना इत्याह;--- स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरस शरीरसंस्कारत्यागाः पंच ॥७॥ कथमित्युपदर्शयति;स्त्रीणां रागकथां जह्यां मनोहार्यगवीक्षणं । पूर्वरतस्मृतिं वृष्यमिष्टं रसमसंशयम् ॥१॥ तथा शरीरसंस्कारं रतिचेतोभिवृद्धिकं । चतुर्थव्रतरक्षार्थ सततं यतमानसः ॥ २॥ इत्येवं भूरिशः समीक्षणात् ॥ पंचमस्य व्रतस्य का भावना इत्याह; मनोज्ञामनोजेंद्रियविषयरागद्वेषवर्जनानि पंच ॥ ८॥ कथमिति निवेदयति; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy