________________
CGDST
अथ सप्तमोऽध्यायः ॥ ७॥
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १॥ हिंसादयो निर्देक्ष्यमाणलक्षणाः, विरमणं विरतिः, व्रतमहिंसादिकृतो नियमः । हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्य इत्यपादाननिर्देशः । ध्रुवत्वाभावात्तदनुपपत्तिरिति चेन्न, बुद्ध्यपायाद्धृवत्वविवक्षोपपत्तेः । अहिंसायाः प्रधानत्वादादौ तद्वचनं, इतरेषां तत्परिपालनार्थत्वात् । विषयभेदाद्विरतिभेदे तद्बहुत्वप्रसंग इति चेन्न वा, तद्विषयविरमणसामान्योपादानात् । तदेवं हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति युक्तोऽयं सूत्रनिर्देशः । नन्विह हिंसादिनिवृत्तिवचनं निरर्थकं संवरांतर्भावात् , धर्माभ्यंतरत्वात् तत्प्रपंचार्थ उपन्यास इति चेन्न, तत्रैव करणात् । संवरप्रपंचो हि स संवराध्याये कर्तव्यो न पुनरिहास्रवाध्यायेतिप्रसंगादिति कश्चित् । तं प्रत्युच्यते-न संवरो व्रतानि, परिस्पंददर्शनात् गुप्त्यादिसंवरपरिकर्मत्वाच्च । ननु पंचसु व्रतेष्वनंत वादिह रात्रिभोजनविरत्युपसंख्यानमिति चेन्न, भावनांतर्भावात् । तत्रानिर्देशादयुक्तोंतर्भाव इति चेन्न, आलोकितपानभोजनस्य वचनात् । प्रदीपादिसंभवे सति रात्रावपि तत्प्रसंग इति चेन्न, अनेकारंभदोषात् । परकृतप्रदीपादिसंभवे तदभाव इति चेन्न, चंक्रमणाद्यसंभवात् । दिवानीतस्य रात्रौ भोजनप्रसंग इति चेन्न, उक्तोत्तरत्वात् स्फुटार्थाभिव्यक्तेश्च दिवा भोजनमेव युक्तं, तेनालोकितपानभोजनाख्या भावना रात्रिभोजनविरतिरेवेति नासावुपसंख्येया । किं पुनरनेन व्रतलक्षणेन व्युदस्तमित्याह
अथ पुण्यास्रवः प्रोक्तः प्राग्वतं विरतिश्च तत् । हिंसादिभ्य इति ध्वस्तं गुणेभ्यो विरतिव्रतम्॥१ विरतिव्रतमित्युच्यमाने सम्यक्त्वादिगुणेभ्योपि विरतिव्रतमनुषक्तं तदत्र हिंसादिभ्य इति वचनात् प्रध्वस्तं बोद्धव्यं । ततो यः पुण्यासवः प्रागभिहितः शुभः पुण्यस्येति वचनात् संक्षेपत इति सर्वस्तमेव प्रदर्शनार्थोयमध्यायस्तत्प्रपंचस्यैवात्र सूत्रितत्वादिति प्रतिपत्तव्यं ॥ । व्रतिष्वनुकंपा सद्वेद्यस्यास्रव इति प्रागुक्तं, तत्र के वतिनो येषां व्रतेनाभिसंबंधः ? किं ततमिति प्रश्नेन प्रतिपादनार्थोयमारंभः प्रतीयताम् ;
देशसर्वतोऽणुमहती ॥२॥ कुतश्चिद्दिश्यत इति देशः, सरत्यशेषानवयवानिति सर्व, ततो देशसर्वतो हिंसादिभ्यो विरती अणुमहती व्रते भवत इति सूत्रार्थः । कथं व्रते इति ? पूर्वसूत्रस्यानुवृत्तेरर्थवशाद्विभक्तिपरिणामेनाभिसंबंधोपपत्तेः । तत इदमुच्यते
देशतोणुव्रतं चेह सर्वतस्तु महद्वतं । देशसर्वविशुद्धात्मभेदात् संज्ञानिनो मतं ॥१॥
न हि मिथ्यादृशो हिंसादिभ्यो विरतिव्रतं, तस्य बालतपोव्यपदेशात् सम्यग्ज्ञानवत एव नु तेभ्यो विरतिर्देशतोणुव्रतं सर्वतस्तेभ्यो विरतिर्महाव्रतमिति प्रत्ययं । देशविशुद्धिस्वभावभेदात्तदेकमपि व्रतं द्वेधा भिद्यत इत्यर्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org