________________
४५७
षष्ठोऽध्यायः।
विघ्नकरणमंतरायस्य ।। २७ ॥ दानादिविहननं विघ्नः तस्य करणं दानाद्यंतरायस्यास्रवः प्रत्येयः । कुत इत्याहसर्वस्याप्यंतरायस्यास्रवः स्यात्प्राणिनामिह । विघ्नस्य करणात्तस्य तथायोग्यत्वनिश्चयात् ॥१॥ प्रवर्तमानदानादिप्रतिषेधस्य भावना । आस्राविकांतरायस्य दृष्टतद्भावना यथा ॥२॥
इति करणानुवृत्तेः सर्वत्रानुक्तसंग्रहः । तेन विघ्नकरणजातीयाः क्रियाविशेषाः। प्रभूतखं प्रयच्छति प्रभौ स्वल्पदानोपदेशादयोपि दानाद्यंतरायास्रवाः प्रसिद्धा भवंति । सोयं विचित्रः खोपात्तकर्मवशादात्मनो विकारः शौंडातुरवत् प्रत्येयः । अनुपदिष्टहेतुकत्वात् खयं वानियम इति चेन्न, खभावाभिव्यंजकत्वाच्छास्त्रस्य । तत्सिद्धिरतिशयज्ञानदृष्टत्वात् सर्वविसंवादोपलंभनिवृत्तिः । सर्वेषां प्रवादिनामविसंवाद एव शुभाशुभास्रवहेतुषु यथोपवर्णितेषु । कुत इत्याहइति प्रत्येकमाख्यातः कर्मणामास्रवः शुभः । पुण्यानामशुभः पापरूपाणां शुद्ध्यशुद्धितः ॥३॥
ज्ञानावरणादीनां कर्मणां तत्प्रदोषादयोऽशुभास्रवाः प्राणिनां संक्लेशांगत्वात् , भूतव्रत्यनुकंपादयः सद्वद्यादीनां शुभास्रवा विशुद्ध्यंगत्वान्यथानुपपत्तेरिति प्रमाणसिद्धत्वात् । तत्स्वभावाभिव्यंजकशास्त्रस्य सर्वसंवादः सिद्ध एव । ननु तत्प्रदोषादीनां सर्वास्रवत्वान्नियमाभाव इति चेन्न, अनुभागविशेषनियमोपपत्तेः । प्रकृतिप्रदेशसंबंधनिबंधनो हि सर्वकर्मणां तत्प्रदोषादिः सकलोप्यास्रवो न प्रतिविभिद्यते । यस्त्वनुभागासवः स विशिष्टः प्रोक्तः । अत एव सकलास्रवाध्यायसूत्रितमत्र विशेषात्समुदायतोनुभागापेक्षयैवोपसंहृत्य दर्शयति
यादृशाः स्वपरिणामविशेषा यस्य हेतुवशतोऽसुभृतः स्युः । तादृशान्युपपतंति तमग्रे स्वानुभागकरकर्मरजांसि ॥ ४ ॥
___ इति षष्ठाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे षष्ठोऽध्यायः समाप्तः ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org