________________
४५६
[सू० २६
सच्चारित्रविकल्पेषु व्रतशीलेष्वशेषतः । निरवद्यानुवृत्तिर्यानतिचारः स तेषु वै ॥ ५ ॥ संज्ञानभावनायां तु या नित्यमुपयुक्तता । ज्ञानोपयोग एवासौ तदाभीक्ष्णं प्रसिद्धितः ॥ ६ ॥ संसाराद्भीरुताभीक्ष्णं संवेगः सद्धियां मतः । न तु मिथ्यादृशां तेषां संसारस्याप्रसिद्धितः ॥ ७॥ शक्तितस्त्याग उद्गीतः प्रीत्या स्वस्यातिसर्जनं । नात्मपीडाकरं नापि संपद्यनतिसर्जनं ॥ ८ ॥ अनिगूहितवीर्यस्य सम्यग्मार्गाविरोधतः । कायक्लेशः समाख्यातं विशुद्धं शक्तितस्तपः ॥ ९ ॥ भांडागाराग्निसंशांतिसमं मुनिगणस्य यत् । तपः संरक्षणं साधुसमाधिः स उदीरितः ॥ १० ॥ गुणिदुःखनिपाते तु निरवद्यविधानतः । तस्यापहरणं प्रोक्तं वैयावृत्यमनिंदितं ॥ ११ ॥ अर्हत्वाचार्यवर्येषु बहुश्रुतयतिष्वपि । जैने प्रवचने चापि भक्तिः प्रत्युपवर्णिता ॥ १२ ॥ भावशुद्ध्या नुता शश्वदनुरागपरैरलं । विपर्यासितचित्तस्याप्यन्यथाभावहानितः ॥ १३ ॥ आवश्यक क्रियाणां तु यथाकालं प्रवर्तना । आवश्यकापरिहाणिः षण्णामपि यथागमं ॥ १४ ॥ मार्गप्रभावना ज्ञानतपोर्हत्पूजनादिभिः । धर्मप्रकाशनं शुद्ध बौद्धानां परमार्थतः ।। १५ ।। वत्सलत्वं पुनर्वत्से धेनुवत्संप्रकीर्तितं । जैने प्रवचने सम्यक्छ्रद्धानज्ञानवत्स्वपि ॥ १६ ॥ अथ किमेते दर्शनविशुद्ध्यादयः षोडशापि समुदितास्तीर्थकरत्वसंवर्तकस्य नामकर्मणः पुण्यास्रवः प्रत्येकं वेत्यारेकायामाह; —
तत्त्वार्थश्लोकवार्तिके
शुद्ध्यादयो नानस्तीर्थकृत्त्वस्य हेतवः । समस्ता व्यस्तरूपा वा दृग्विशुद्ध्या समन्विताः १७ सर्वातिशायि तत्पुण्यं त्रैलोक्याधिपतित्वकृत् । प्रवृत्त्यातिशयादीनां निर्वर्तकमपीशितुः ॥ १८ ॥
अत एव शुभनाम्नः सामान्येनास्रवप्रतिपादनादेव तीर्थकरत्वस्य शुभनामकर्मविशेषास्रवप्रतिपत्तावपि तत्प्रतिपत्तये सूत्रमिदमुक्तमाचार्यैः । सामान्येन भूतस्यापि विशेषार्थिना विशेषस्यानुप्रयोगः कर्तव्य इति न्यायसद्भावात् ॥
परात्मनिंदाप्रशंसे सदसद्गुणच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥
दोषोद्भावनेच्छा निंदा, गुणोद्भावनाभिप्रायः प्रशंसा, अनुद्भूतवृत्तिता छादनं, प्रतिबंधकाभावे प्रकाशितवृत्तितोद्भावनं, गूयते तदिति गोत्रं, नीचैरित्यधिकप्रधानशब्दः । तदेवं परात्मनो निंदाप्रशंसे सदसद्गुणयोश्छादनोद्भावने नीचैर्गोत्रस्यास्रव इति वाक्यार्थः प्रत्येयः । कुत एतदित्याह—
परनिंदादयो नीचैर्गोत्रस्यास्रवणं मतं । तेषां तदनुरूपत्वादन्यथानुपपत्तितः
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २६ ॥
नीचैर्गोत्रास्रवप्रतिनिर्देशार्थस्तच्छब्दः, विपर्ययोऽन्यथावृत्तिः, गुरुष्ववनतिर्नीचैर्वृत्तिः, अनहंकारतानुत्सेकः । त एते उच्चैर्गोत्रस्यासवा इति समुदायार्थः ॥ कथमित्याह
उत्तरस्यास्रवः सिद्धः सामर्थ्यात्तद्विपर्ययः । नीचैर्वृत्तिरनुत्सेकस्तथैवामलविग्रह ॥ १ ॥ यथैव हि नीचैर्गोत्रानुरूपो नीचैर्गोत्रस्यासवः परनिंदादिस्तथोचीत्रानुरूपः परप्रशंसादिरुचैर्गोत्रस्येति न कश्चिद्विरोधः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org