________________
षष्ठोऽध्यायः ।
४५५
सरागसंयम संयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ २० ॥ व्याख्याताः सरागसंयमादयः । कीदृशानि सरागसंयमादीनि दैवमायुः प्रतिपादयंतीत्याहतस्यैकस्यापि दैवस्यायुषः संप्रतिपत्तये । धर्मध्यानान्वितत्वेन नान्यथातिप्रसंगतः ॥ १ ॥ सम्यक्त्वं च ॥ २१ ॥
अविशेषाभिधानेपि सौधर्मादिविशेषगतिः । पृथक्करणात्सिद्धेः किमर्थश्चशब्द इति चेदुच्यतेसम्यक्त्वं चेति तद्धेतुसमुच्चयवचोबलात् । तस्यैकस्यापि दैवायुः कारणत्वविनिश्चयः ॥ १ ॥ सर्वापवादकं सूत्रं केचिद्याचक्षते सति । सम्यक्त्वे न्यायुषां हेतोर्विफलस्य प्रसिद्धितः ॥ २ ॥ तत्राप्रच्युतसम्यक्त्वा जायंते देवनारकाः । मनुष्येष्विति नैवेदं तद्बाधकमितीतरे ॥ ३ ॥ तन्निःशीलव्रतत्वस्य न बाधकमिदं विदुः । स्यादशेषायुषां हेतुभावसिद्धेः कुतश्चन ॥ ४ ॥ पृथक्सूत्रस्य निर्देशाद्धेतुर्वैमानिकायुषः । सम्यक्त्वमिति विज्ञेयं संयमासंयमादिवत् ॥ ५ ॥ सम्यग्दृष्टेरनंतानुबंधिक्रोधाद्यभावतः । जीवेष्वजीवता श्रद्धापायान्मिथ्यात्वहानितः ॥ ६ ॥ हिंसायास्तत्स्वभावाया निवृत्तेः शुद्धिवृत्तितः । प्रकृष्टस्यायुषो दैवस्यास्रवो न विरुध्यते ॥ ७ ॥ योगवकता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥
कायवाङ्मनसां कौटिल्येन वृत्तिर्योगवक्रता, विसंवादनमन्यथा प्रवर्तनं । योगवक्रतैवेति चेत्, सत्यं; किंत्वात्मांतरेपि तद्भावप्रयोजकत्वात्पृथग्वचनं विसंवादनस्य । चशब्दोनुक्तसमुच्चयार्थः तेन तज्जातीय शेषपरिणामपरिग्रहः । कुतोऽशुभस्य नाम्नोयमासव इत्याह
नाम्नोशुभस्य हेतुः स्याद्योगानां वक्रता तथा । विसंवादनमन्यस्य संक्केशादात्मभेदतः ॥ १ ॥ तद्विपरीतं शुभस्य ॥ २३ ॥
प्रयोगताऽविसंवादनं च तद्विपरीतं । कुतस्तदखिलं शुभस्य नाम्नः कारणमित्याहततस्तद्विपरीतं यत्किंचित्तत्कारणं विदुः । नाम्नः शुभस्य शुद्धात्म विशेषत्वावसायः ॥ १ ॥ दर्शन विशुद्धिर्विनयसंपन्नता शीलवतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यका परिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य ॥ २४ ॥ के पुनर्दर्शनविशुयादय इत्युच्यतेः
-
Jain Education International
――――
जिनोद्दिष्टेति नैर्ग्रथ्यमोक्षवर्त्मन्यशंकनं । अनाकांक्षणमप्यत्रामुत्र चैतत्फलाप्तये ॥ १ ॥ विचिकित्सान्यदृष्टीनां प्रशंसासंस्तवच्युतिः । मौढ्यादिरहितत्वं च विशुद्धिः सा दृशो मता ॥ २ ॥ संज्ञानादिषु तद्वत्सु वादरोत्थानपेक्षया । कषायविनिवृत्तिर्वा विनयैर्मुनिसंमतैः ॥ ३ ॥ संपन्नता समाख्याता मुमुक्षूणामशेषतः । सद्द्दष्ट्यादिगुणस्थानवर्तिनां खानुरूपतः ॥ ४ ॥
For Private & Personal Use Only
www.jainelibrary.org