________________
तत्त्वार्थश्लोकवार्तिके
[सू० १९
कषायोदयात्तीत्रपरिणामो विवादापन्नश्चारित्रमोहहेतुपुद्गलसमागमकारणं जीवस्य कषायोदयहेतुकती परिणामत्वात् कस्यचिद्यतेः कामोद्रेकवत् । न साध्यसाधनविकलो दृष्टांतः, कामोद्रेके चारित्रमोहहेतुर्योषिदादिपुद्गलसमागमकारणत्वेन व्याप्तस्य कषायोदय हेतु कतीत्रपरिणामत्वस्य सुप्रसिद्धत्वात् ॥ बहारंभपरिग्रहत्वं नारकस्यायुषः ॥ १५ ॥
संख्या वैपुल्यवाचिनो बहुशब्दस्य ग्रहणमविशेषात् । आरंभो हेतुकर्म, ममेदमिति संकल्पः परिग्रहः, बारंभः परिग्रहो यस्य स तथा तस्य भावस्तत्त्वं, तन्नारकस्यायुषः आस्रवः प्रत्येयः । एतदेव सोपपत्तिकमाह -
४५४
नरकस्यायुषोभीष्टं बहारंभत्वमास्रवः । भूयः परिग्रहत्वं च रौद्रध्यानातिशायि यत् ॥ १ ॥ निंद्यं धाम नृणां तावत्पापाधान निबंधनम् । सिद्धं चांडालकादीनां धेनुघातविधायिनाम् ||२|| तत्प्रकर्षात्पुनः सिद्धयेद्धीनधामप्रकृष्टता । तस्य प्रकर्षपर्यंता तत्प्रकर्षव्यवस्थितिः ॥ ३ ॥ पापानुष्ठा कचिद्वातिपर्यंततारतम्यतः । परिणामादिवत्तत्तो रौद्रध्यानमपश्चिमं ॥ ४ ॥ तस्यापकर्षतो हीनगतेरप्यपकृष्टता । सिद्धेति बहुधा भिन्नं नारकायुरुपेयते ॥ ५ ॥ माया तैर्यग्योनस्य ॥ १६ ॥
चारित्रमोहोदयात् कुटिलभावो माया । सा कीदृशी : तैर्यग्योनस्यायुष आस्रव इत्याह--- माया तैर्यग्योनस्येत्यायुषः कारणं मता । आर्तध्यानाद्विना नात्र स्वाभ्युपायविरोधतः ॥ १ ॥ अपकृष्टं हि यत्पापध्यानमार्तं तदीरितं । निंद्यं धाम तथैवाप्रकृष्टं तैर्यग्गतिस्ततः ॥ २ ॥ प्रसिद्धमायुषो नैकप्रधानत्वं प्रमाणतः । तैर्यग्योनस्य सिद्धांते दृष्टेष्टाभ्यामबाधितं ॥ ३ ॥ अल्पारंभपरिग्रहत्वं मानुषस्य ॥ १७ ॥
नारकायुरास्रवविपरीतो मानुषस्तस्येत्यर्थः ॥ किं तदित्याह—
मानुषस्यायुषो ज्ञेयमल्पारंभत्वमास्रवः । मिश्रध्यानान्वितमल्पपरिग्रहतया सह ॥ १ ॥ धर्ममात्रेण संमिश्रं मानुषीं कुरुते गतिं । सातासातात्मतन्मिश्रफलसंवर्तिका हि सा ॥ २ ॥ धर्माधिक्यात्सुखाधिक्यं पापाधिक्यात्पुनर्नृणां । दुःखाधिक्य मिति प्रोक्ता बहुधा मानुषी गतिः स्वभावमार्दवं च ॥ १८ ॥
उपदेशानपेक्षं मार्दवं स्वभावमार्दवं । एकयोगीकरणमिति चेत्, ततोनंतरापेक्षत्वात् पृथक्करणस्य । तेन दैवस्यायुषोयमास्रवः प्रतिपादयिष्यते । कीदृशं तन्मानुषस्यायुष आस्रव इत्याह
स्वभावमार्दवं चेति हेत्वंतरसमुच्चयः । मानुषस्यायुषस्तद्धि मिश्रध्यानोपपादिकं ॥ १ ॥ निःशील तत्वं च सर्वेषाम् ॥ १९ ॥
चशब्दोधिकृतसमुच्चयार्थः । सर्वेषां ग्रहणं सकलास्रवप्रतिपत्त्यर्थं । देवायुषोपि प्रसंग इति चेन्न, अतिक्रांतापेक्षत्वात् । पृथक्करणात् सिद्धेरानर्थक्यमिति चेन्न, भोगभूमिजार्थत्वात् । तेन भोगभूमिजानां निःशीलव्रतत्वं दैवस्यायुष आस्रवः सिद्धो भवति । कुत एतदित्याह -
निःशीलव्रतत्वं च सर्वेषामायुषामिह । तत्र सर्वस्य संभूतेयनस्यासुभृतां श्रितौ ॥ १ ॥ ततो यथासंभवं सर्वस्यायुषो भवत्याखवः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org