________________
षष्ठोऽध्यायः।
४५३ लघुत्वादिति चेन्न, अन्योपसंग्रहार्थत्वात् तदकरणस्य इति । करणानर्थक्यमिति चेन्न, उभयग्रहणस्य व्यक्त्यर्थत्वात् । के पुनस्ते गृह्यमाणा इत्युपदर्शयामः । "अर्हत्पूजापरता वैयावृत्त्योद्यमो विनीतत्वं । आर्जवमार्दवधार्मिकजनसेवा मित्रभावाद्याः" । भूतग्रहणादेव सर्वप्राणिसंप्रतिपत्तेतिग्रहणमनर्थकमिति चेन्न, प्रधानख्यापनार्थत्वाद्रतिग्रहणस्य नित्यानित्यात्मकत्वेनुकंपादिसिद्धिर्नान्यथा । सोऽयमशेषभूतव्रत्यनुकंपादिः सद्वेद्यस्यास्रवः ॥ कुतो निश्चीयत इति युक्तिमाह
भूतव्रत्यनुकंपादि सातकारणपुद्गलान् । जीवस्य ढौकयत्येवं विशुद्ध्यंगत्वतो यथा ॥१॥ पथ्यौषधावबोधादिः प्रसिद्धः कस्यचिद्द्वयोः । सदसवैद्यकर्माणि तादृशान् पुद्गलानयं ॥२॥
यथा दुःखादीनि खपरोभयस्थानि संक्लेशविशेषत्वाद्दुःखफलानास्रावयंति जीवस्य तथा भूतव्रत्यनुकंपादयः सुखफलान् विशुद्ध्यंगत्वादुभयवादिप्रसिद्धपथ्यौषधावबोधादिवत् । ये ते तादृशा दुःखसुखफलास्ते असद्वैद्यकर्मप्रकृतिविशेषाः सद्वेद्यकर्मप्रकृतिविशेषाश्चास्माकं सिद्धाः........""कारणविशेषाविनाभावित्वात् ॥
केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ करणक्रमव्यवधानातिवर्तिज्ञानोपेताः केवलिनः प्रतिपादिताः, तदुपदिष्टं बुद्ध्यतिशयगणधरावधारितं श्रुतं व्याख्यातं, रत्नत्रयोपेतः श्रमणगणः संघः । एकस्यासंघत्वमिति चेन्न, अनेकव्रतगुणसंहननादेकस्यापि संघत्वसिद्धेः । “संघो गुणसंघादो कम्माणविमोक्खदो हवदि संघो । दसणणाणचरिते संघादितो हवदि संघो ॥” इति वचनात् । अहिंसालक्षणो धर्मः । देवशब्दो व्याख्यातार्थः । अंतःकलुषदोषादसद्भूतमलोद्भावनमवर्णवादः । पिंडाभ्यवहारजीवनादिवचनं केवलिषु, मांसभक्षणानवद्याभिधानं श्रुते, शूद्रत्वाशुचित्वाद्याविर्भावनं संघे, निर्गुणत्वाद्यभिधानं धर्मे, सुरामांसोपसेवाद्याघोषणं देवेष्ववर्णवादो बोद्धव्यः । दर्शनमोहकर्मण आस्रवः । दर्शनं मोहयति मोहनमात्रं वा दर्शनमोहः कर्म तस्यागमनहेतुरित्यर्थः ॥ कथमित्याह
केवल्यादिषु योवर्णवादः स्यादाशय नृणां । स स्यादर्शनमोहस्य तत्त्वाश्रद्धानकारिणः ॥१॥ आस्रवो यो हि यत्र स्थायदाचारे यदा स्थितौ । यत्प्रणेतरि चावर्णवादः श्रद्धानघात्यसौ ॥२॥ श्रोत्रियस्य यथा मद्ये तदाधारादिकेषु च । प्रतीतोसौ तथा तत्त्वे ततो दर्शनमोहकृत् ॥ ३ ॥
यो यत्र यदाश्रये यत्प्रतिज्ञाने यत्प्रणेतरि चावर्णवादः स तत्र तदाश्रये तत्प्रतिज्ञाने तत्प्रणेतरि च श्रद्धानघातहेतून् पुद्गलानास्रवयति, यथा श्रोत्रियस्य मद्ये तद्भांडे तत्प्रतिज्ञाने तत्प्रणेतरि च श्रद्धानघातहेतून्नासिकादिपिधायककरादीन् , तथा च कस्यचिज्जीवादितत्त्वप्रणेतरि केवलिनि तदाश्रये च श्रुते तत्प्रतिज्ञापिनि च संघे तत्प्रतिपादिते च धर्मे देवेषु चावर्णवादस्तस्मात्तथेति प्रत्येतव्यम् ॥
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ द्रव्यादिनिमित्तवशात्कर्मपरिपाक उदयः, तीनकषायशब्दावुक्तार्थों, चारित्रं मोहयति मोहनमात्रं वा मोहः । कषायस्योदयात्तीत्रः परिणामश्चारित्रमोहस्य कर्मण आस्रव इति सूत्रार्थः ॥ कथमित्याहतथा चारित्रमोहस्य कषायोदयतो नृणां । स्यात्तीव्रपरिणामो यः स समागमकारणं ॥१॥ यः कषायोदयात्तीवः परिणामः स ढोकयेत् । चारित्रघातिनं भावं कामोद्रेको यथा यतेः॥२॥ कस्यचित्तादृशस्यायं विवादापन्नविग्रहः । तसात्तथेति निर्वाधमनुमानं प्रवर्तते ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org