________________
तत्त्वार्थ श्लोकवार्तिके
[सू० १२
प्रयोगपैशून्यपरपरिवादाः कृपाविहीनत्वं अंगोपांगछेदनतर्जनसंत्रासनानि । तथा भर्त्सनभक्षणविशसनबंधनसंरोधननिरोधाद्यैर्मर्दनचिद्भेदनवाहनसंघर्षणानि तथा विग्रहे रौक्ष्यविधानं परात्मनिंदाप्रशंसने संक्लेशजननमायुर्बहुमानत्वं च सुखलोभात् बह्वारंभपरिग्रह विश्रंभविघातनैकशीलत्वं पापक्रियोपजीवननिःशेषानर्थदंड करणानि तद्दानं च परेषां पापाचारैर्जनैश्च सह मैत्री तत्सेवा संभाषणसंव्यवहाराच्च संलक्ष्याः । ते ते दुःखादयः परिणामाः खपरोभयस्थाः असद्वेद्यस्य कर्मण आस्रवाः प्रत्येतव्याः । प्रपंचतोन्यत्र तदभिधानात् । अथ दुःखादीनामसद्वेद्यास्रवत्वं किमागममात्रसिद्धमाहोस्विदनुमानसिद्धमपीत्याशंकायामस्यानुमानसिद्धत्वमादर्शयति
४५२
दुःखादीनि यथोक्तानि स्वपरोभयगानि तु । आस्रावयंति सर्वस्याप्यसातफलपुद्गलान् ॥ १ ॥ तज्जातीयात्मसंक्लेशविशेषत्वाद्यथानले । प्रवेशादिविधायीनि स्वसंवेद्यानि कानिचित् ॥ २ ॥ दुःखमात्मस्थमसातफलपुद्गलास्रावि दुःखजातीयात्मसंक्लेश विशेषत्वात् पावकप्रवेशकारिप्रसिद्धदुःखवत् । तथा परत्र दुःखमसात फलपुद्गलास्रावि तत एव तद्वत्, तथोभयस्थं दुःखं विवादापन्नमसातफलपुद्गलास्रावि तत एव तद्वत् । एवं शोकतापाक्रंदनवधपरिदेवनान्यात्मपरोभयस्थान्यसातफलपुद्गलास्रावीण्युत्पादयितुर्जीवस्य दुःखजातीयात्म संक्लेशविशेषत्वाद्विषभक्षणादिविधायिशोकतापाक्रंदनवधपरिदेवनवत् इत्यष्टादशानुमानानि प्रतिपत्तव्यानि । न तावदत्र दुःखजातीयात्मसंक्लेशविशेषत्वं साधनमसिद्धं, क्रोधादुपनीतदुःखादीनां विशुद्धिरिति विरोधिनां दुःखजातीयात्म संक्लेश विशेषत्वप्रसिद्धेः । नाप्यनैकांतिकं तीर्थकराद्युत्पादित कायक्लेशादिदुःखेन न खपरोभयस्थेनाप्यसातफलपुद्गलानास्रवणादिति न मंतव्यं, तस्यातज्जातीयत्वादात्मसंक्लेशविशेषत्वासिद्धेः । तत एव न तीर्थकरोपदेशविरोधात् दुःखादीनामसद्वेद्यात्रवत्वायुक्तिः, सर्वेषां स्वर्गापवर्गसाधनानां दुःखजातीनां पापास्रवत्वप्रसंगात् । तपश्चरणाद्यनुष्ठायिनो द्वेषाद्यभावाच्च आसादितप्रसादत्वाच्च दिष्टा प्रसन्नमनसामेव खपरोभयदुःखाद्युत्पादने पापास्रवत्वसिद्धेः ॥ “ग्रामे पुरे वा विजने जने वा प्रासादशृंगे द्रुमकोटरे वा । प्रियांगनांकेथ शिलातले वा मनोरतिं सौख्यमुदाहरंति ॥” इति । न च मनोरत्यभावे बुद्धिपूर्वः स्वतंत्रः क्वचित्तपः क्लेशमारभते, विरोधात् । ततो न प्रकृतहेतोः तपश्चरणादिभिर्व्यभिचारः सर्वसंप्रतिपत्तेः । परेषामसद्वेद्यादीनां निराकरणाच्च निरवद्यदुःखादीनामसद्वेद्यास्रवत्वसाधनं ॥
भूतत्रत्यनुकंपादानसरागसंयमादियोगः क्षांतिः शौचमिति
सद्यस्य ॥ १२ ॥
आयुर्नामकर्मोदयवशाद्भवनाद्भूतानि सर्वप्राणिन इत्यर्थः । व्रताभिसंबंधिनो व्रतिनः सागारानगारभेदाद्वक्ष्यमाणाः । अनुकंपनमनुकंपा । भूतानि च व्रतिनश्च भूतत्रतिनः तेषामनुकंपा भूतत्रत्यनुकंपा । 'साधनं कृता बहुलमिति वृत्तिः गले चोपकवत् मयूरव्यंसकादित्वाद्वा । स्वस्य परानुग्रहबुद्ध्या तिसर्जनं दानं वक्ष्यमाणं, सांपरायनिवारणप्रवणो अक्षीणाशयः सरागः, प्राणींद्रियेष्वशुभप्रवृत्तेोर्विरतिः संयमः सरागो वा संयमः स आदिर्येषां ते सरागसंयमादयः । संयमासंयमकामनिर्जराबालतपसां वक्ष्यमाणानामादिग्रहणादवरोधतः । निरवद्यक्रियाविशेषानुष्ठानं योगः समाधिरित्यर्थः । तस्य ग्रहणं कायादिदंडभावनिवृत्त्यर्थं । भूतवत्यनुकंपा च दानं च सरागसंयमाश्चेति द्वंद्वः तेषां योगः । धर्मप्रणिधानात्क्रोधादिनिवृत्तिः क्षांतिः क्षमूषू सहने इत्यस्य दिवादिकस्य रूपं । लोभप्रकाराणामुपरमः शौचः, खद्रव्यात्यागपरद्रव्यापहरणसांन्यासिकनिवादयो लोभप्रकाराः तेषामुपरमः शौचमिति प्रतीताः । इतिकरणः प्रकारार्थः । वृत्तिप्रयोगप्रसंगो
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org