________________
षष्ठोऽध्यायः।
१५१ दुःखात्पृथग्वचनं मोहविशेषोदयापेक्षत्वात् तद्विशेषप्रतिपादनार्थत्वात् पर्यायार्थादेशाद्भेदोपपत्तेश्च नानर्थकमुत्प्रेक्षणीयं, तथैवाक्षेपसमाधानवचनात् । वार्तिककारैर्दुःखजातीयत्वात्सर्वेषां पृथग्वचनमिति न कतिपयविशेषसंबद्धेन जात्याख्यानात् कथंचिदन्यत्वोपपत्तेश्चेति । दुःखादीनां कर्तादिसाधनभावः पर्यायिपर्याययोर्भेदाभेदोपपत्तेः । तयोरभेदे तावदात्मैव दुःखपरिणामात्मको दुःखयतीति दुःखं, भेदे तु दुःखयत्यनेनास्मिन्वा दुःखमिति, सन्मात्रकथने दुःखनं दुःखमिति । शोकादिष्वपि कर्तृकरणाधिकरणभावसाधनत्वं प्रत्येयं, तदेकांतावधारणानुपपन्नमन्यतरैकांतसंग्रहात् । पर्यायैकांते हि दुःखादिचित्तस्य कर्तृत्वसंग्रहः करणादित्वसंग्रहो वा स्यान्न पुनस्तदुभयसंग्रहः । तत्र कर्तृत्वसंग्रहस्तावदयुक्तः करणाद्यभावे तदसंभवात् । मनःकरणं संतानोधिकरणमित्युभयसंग्रहोपि न श्रेयान्, कर्तृकाले स्वयमसतः पूर्व विज्ञानलक्षणस्य मनसः करणत्वायोगात् षण्णामनंतरातीतं विज्ञानं यद्धि तन्मन इति वचनात् । सत्ता न भावा वस्तु ततोधिकरणत्वानुपपत्तेः खरविषाणवत् । चक्षुरादिकरणं शरीरमधिकरणमित्यपि न श्रेयस्तस्यापि तत्काले स्थित्यभावात् । यदि पुनर्दुःखादि चित्तं कर्तृ स्वकार्योत्पादने तत्समानसमयवर्ति चक्षुरादि करणं शरीरमधिकरणं व्यवहारमात्रात् । परमार्थतस्तु न किंचित्कर्तृ करणादि वा भूतिमात्रव्यतिरेकेण भावानां क्रियाकारकत्वायोगात् । भूतिर्येषां क्रिया सैव कारकं सैत्र चोद्यते इति वचनात् । सर्वस्याकर्तृत्वादिव्यावृत्तरेव कर्तृत्वादिव्यवहारणादिति मतं, तदापि न दुःखादिचित्तस्य कर्तुश्चक्षुरादिकरणाधिकरणे तस्य बहिर्भूतरूपादिज्ञानोत्पत्तौ करणत्ववचनात् । नापि मनस्तस्य दुःखादिचित्तसमानकालसंभवात् । ननु रूपादिस्कंधपंचकस्य युगपद्भावाहुःखाद्यनुभवात्मकस्य वेदनास्कंधस्य पूर्वस्य कर्तृत्वमुत्तरदुःखाद्युत्पत्ती तस्यैव वाधिकरणत्वं सर्वस्य खाधिकरणत्वात् । दुःखादिहेतुर्बहिरर्थविज्ञप्तिलक्षणस्य वेदनस्कंधस्य चोत्तरतत्कार्यात्पूर्वकस्य मनोव्यपदेशमर्हतः करणत्वं युक्तमेवेति चेन्न, निरन्वयनष्टस्य कर्तृकरणत्वविरोधात् । खकार्यकाले तदनाशे वा क्षणभंगविघातः । तथैव स्वभावस्य भावस्य खात्मैवाधिकरणमित्यप्यसंभाव्यं, शक्तिवैचित्र्ये सति तस्य तदुपपत्तेः तस्याध्येयत्वशक्त्याधेयताव्यवस्थितेरधिकरणत्वशक्त्या पुनरधिकरणत्वस्थितिः । संवृत्या तदुपपत्तौ परमार्थतो न कर्तादिसिद्धिरिति न दुःखादीनां कर्तादिसाधनत्वं । नित्यत्वैकांतेपि न तत्संगच्छते, निरतिशयात्मनः कर्तृत्वानभ्युपगमात् । केनचित्सहकारिणा ततो भिन्नस्यातिशयस्य करणे तस्य पूर्वकर्तृत्वावस्थातोऽप्रच्युतेः कर्तृत्वविरोधात् । प्रच्युतौ वा नित्यत्वविघातात् तदभिनस्यातिशयस्य करणे तस्यैव कृतेरनित्यतैव स्यात् । कथंचित्तस्य नित्यतायां परमताश्रयणं दुर्निवारं । एतेन प्रधानपरिणामस्य महदादेः करणत्वं प्रत्युक्तं, स्याद्वादानाश्रयणे कस्यचित्परिणामानुपपत्तेः प्रसाधनात् । तत एव नाधिकरणत्वं कर्मता वा तस्येति विचिंतितं । एतेन खतो भिन्नानेकगुणस्यात्मनः कर्तृत्वं व्यवच्छिन्नं, नित्यस्यानादेयाप्रहेयातिशयत्वात् । तत एव न मनसः करणत्वं दुःखाद्युत्पत्तौ सर्वथाप्यनित्यत्वप्रसंगात् । दुःखाधिकरणत्वमप्यात्मनोनुपपन्नं पूर्व तदधिकरणखभावस्यात्यागे तद्विरोधात् , त्यागे नित्यत्वक्षतेः सर्वथापत्तेः । ततोनेकात्मन्येवात्मनि दुःखादीनि संसृतौ संभाव्यते नेतरत्र । तान्यात्मपरोभयस्थानि क्रोधाद्यावेशवशाद्भवंति खघातनवत् खदास्यादिताडनवत् स्वाधमणनिरोधकोत्तमर्णवच्च । असद्वेद्यस्येत्यत्र विद्यादीनामवगमनाद्यर्थत्वादनर्थको निर्देश इति चेन्न, विदेश्चेतनार्थस्य ग्रहणात् विदेश्चेतनार्थे चुरादित्वात्तस्येदं वेद्यते इति वेद्यं न पुनरवगमनलाभविचारणसद्भावार्थानां वेत्तिविंदतिविनत्तिवेत्तीनामन्यतमग्रहणं येनानर्थको निर्देशः स्यात् । तदसद्वेद्यमप्रशस्तत्वादनिष्टफलप्रादुर्भावकारणत्वाच विशिष्यते । असच्च तद्वेद्यं च तदिति । अत्र सूत्रे दुःखाभिधानमादौ प्रधानत्वात् । तस्य प्राधान्यं तद्विकल्प. त्वादितरेषां शोकादीनां । शोकादिग्रहणस्यान्यविकल्पोपलक्षणार्थत्वादन्यसंग्रहः । के पुनस्तेन्ये ? अशुभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org