________________
४५० तत्त्वार्थश्लोकवार्तिके
[सू० ११ यत्प्रदोषादयो ये ते तदावरणमुद्गलात् । नरो नयंति वीभत्सुप्रदोषाद्या यथा करान् ॥ २ ॥
ये यत्प्रदोषादयस्ते तदावरणपुद्गलानात्मनो ढौकयंति यथा बीभत्सुखशरीरप्रदेशप्रदोषादयः करादीन् । ज्ञानदर्शनविषयाश्च कस्यचित्प्रदोषादय इत्यत्र न तावदसिद्धो हेतुः कचित्कदाचित्प्रदोषादीनां प्रतीतिसिद्धत्वात् । नाप्यनैकांतिको विपक्षवृत्त्यभावात् । अशुद्ध्यादिपूतिगंधिविषयः प्रदोषादिभिस्तदन्यप्राणिविषयकराद्यावरणाढौकनहेतुभिर्व्यभिचारीति चेन्न, घ्राणसंबंधदुर्गधपुद्गलाः प्रदोषादिहेतुकत्वात् तत्पिधायककराद्यावरणढौकनस्य दोषाद्यभावे तदधिष्ठानसंभूतबाह्याशुच्यादिगंधप्रदोषानुपपत्तेः । तद्विषयत्वपरिज्ञानायोगात् तदन्यविषयवत् । तत एव न विरुद्धं सर्वथा विपक्षावृत्तेरविरुद्धोपपत्तेः । विपक्षे बाधकप्रमाणाभावात्संदिग्धविपक्षव्यावृत्तिकोऽयं हेतुरिति चेन्न, साध्याभावे साधनाभावप्रतिपादनात् । यस्य यद्विषयाः प्रदोषादयस्तस्य तद्विषयास्तदविद्यैव न पुनस्तदावरणपुद्गलः सिद्ध्येत् ततो न तत्प्रदोषादिभ्यो ज्ञानदर्शनयोरावरणपुद्गलप्रसिद्धिरिति न शंकनीयं, तदावरणस्य कर्मणः पौगलिकत्वसाधनात् । कथं मूर्तकर्मामूर्तस्य ज्ञानादेरावरणमिति चेत् , तदविद्याद्यमूर्त कथमिति समः पर्यनुयोगः । यथैवामूतस्य वारकत्वे ज्ञानादीनां शरीरमावारकं विप्रसज्यं तथैवामूर्तस्य सद्भावे तेषां गगनमावारकमासज्येत । तदविरुद्धत्वान्न तत्तदावारकमिति चेत् , तत एव शरीरमपि तद्विरुद्धस्यैव तदावारकत्वसिद्धेः । स्यान्मतं, ज्ञानादेवर्तमानस्य सतोप्यविद्याद्युदये तिरोधानात्तदेव तद्विरुद्धं तदावरणं युक्तं न पुनः पौद्गलिकं कर्म तस्य तद्विरुद्धत्वासिद्धेरिति । तदसत् , तस्यापि तद्विरुद्धत्वप्रतीतेः सुरादिद्रव्यवत् । ननु मदिरादिद्रव्यमविद्यादिविकारस्य मदस्य ज्ञानादिविरोधिनो जनकत्वात् परंपरया तद्विरुद्धं न साक्षादिति चेत् , पौद्गलिकं कर्म तथैव तद्विरुद्धमस्तु तस्यापि विज्ञानविरुद्धाज्ञानादिहेतुत्वात् तस्य भावावरणत्वात् । न च द्रव्यावरणापाये भावावरणसंभवोतिप्रसंगात् । युक्तस्यातत्प्राप्तेरपि वारणात् । तस्य सम्यग्ज्ञानसात्मीभावे मिथ्याज्ञानादेरत्यंतमुच्छेदात्तस्योदये तदात्मनो भावावरणस्य सद्भावात् । कुतो द्रव्यावरणसिद्धिरिति चेत् , आत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसंबंधिबंधनस्तत्स्वभावान्यथाभावस्वभावत्वादुन्मत्तकादिहेतुकोन्मादादिवदित्यनुमानात् । मिथ्याज्ञानादिहेतुकापरमिथ्याज्ञानव्यभिचारान्नेदमनुमानं समीचीनमिति चेन्न, तस्यापि परापरपौद्गलिककर्मोदये सत्येव भावात् तदभावे तदनुपपत्तेः । परापरोन्मत्तकादिरससद्भावे तत्कृतोन्मादादिसंतानवत् । कामिन्यादिभावेनोद्भूतैरुन्मादादिभिरनेकांत इति चेन्न, तेषामपि परं. परया तन्वीमनोहरांगनिरीक्षणादिनिबंधत्वात् तदभावे तदनुपपत्तेः । ततो युक्तमेव तद् ज्ञानदर्शनप्रदोषादीनां तदावरणकर्मास्रवत्ववचनं युक्तिसद्भावाद्वाधकाभावाच्च तादृशान्यवचनवत् ॥
अथासद्वेद्यास्रवसूचनार्थमाह;दुःखशोकतापानंदनबधपरिदेवनान्यात्मपरोभयस्थान्यसद्धेद्यस्य ॥ ११॥
पीडाद्यसद्वेद्यास्रवसूचनार्थमाह । पीडालक्षणः परिणामो दुःखं, तचासद्वेद्योदये सति विरोधिद्रव्याधुपनिपातात् । अनुग्राहकबांधवादिविच्छेदे मोहकर्मविशेषोदयादसद्वेद्ये च वैक्लव्यविशेषः शोकः, स च बांधवादिगताशयस्य जीवस्य चित्तखेदलक्षणः प्रसिद्ध एव । परिवादादिनिमित्तादाविलांतःकरणस्य तीत्रानुशयस्तापः, स चासद्वेद्योदये क्रोधादिविशेषोदये च सत्युपपद्यते । परितापात्युपात्तप्रचुरविलापांगविकाराभिव्यक्तं क्रंदनं, तच्चासद्वेद्योदये कषायविषयोदये च प्रजायते । आयुरिंद्रियबलप्राणवियोगकरणं बधः, सोप्यसद्वेद्योदये च सति प्रत्येतव्यः । संक्लेशश्रवणं खपरानुग्रहणं हा नाथ नाथेत्यनुकंपाप्रायं परिदेवनं, तच्चासद्वेद्योदये मोहोदये च सति बोद्धव्यं । तदेवं शोकादीनामसद्वेद्योदयापेक्षत्वाहुःखजातीयत्वेपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |